Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

श्रावकभूमि

Thông tin
GRETIL — Srāvakabhūmi, The First Chapter, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 1998 (Taisho University Sogo Bukkyo Kenyujo, 4). = Śbh I and Srāvakabhūmi, The Second Chapter with Asamāhitā bhūmiḥ, Śrutamayī bhūmiḥ, Cintāmayī bhūmiḥ, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 2007 (Taisho Daigaku Sogobukkyo Kenyujo, 18). = Śbh II.chữ Devanāgarī do máy chuyển tự t

तत्र लीनं चित्तं यत् स्त्यानमिद्धसहगतम् / प्रगृहीतं यत् प्रसदनीयेनालम्बनेन संप्रहर्षितम् / उद्धतं चित्तं यद् अतिसंप्रग्रहाद् औद्धत्यपर्यवस्थितम् / अनुद्धतं चित्तं यत् प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षाप्राप्तम् /

तत्र व्युपशान्तं चित्तं यन् निवरणेभ्यो विमुक्तम् / अव्युपशान्तं पुनर् यद् अविमुक्तम् /

तत्र समाहितं चित्तं यन् निवरणविमोक्षान् मौलध्यानप्रविष्टम् / असमाहितं यद् अप्रविष्टम् /

तत्र सुभावितं चित्तं यत् तस्यैव समाधेर् दीर्घकालपरिचयान् निकामलाभी भवत्य् अकृच्छ्रलाभ्य् आशुसंपत्ता / तत्र न सुभावितम् चित्तम् एतद्विपर्ययेण वेदितव्यम् /

तत्र सुविमुक्तं चित्तं यत् सर्वतश् चात्यन्ततश् च विमुक्तम् / न सुविमुक्तं चित्तं यन् न सर्वतो नाप्य् अत्यन्ततो विमुक्तम् /

इतीमानि चतुर्दश चित्तानि विहारगतानि वेदितव्यानि / तत्र निवरणविशुद्धिभूमिम् आरभ्य विहारगतान्य् अष्टौ चित्तानि / संक्षिप्तं वित्क्षिप्तं यावद् व्युपशान्तम् अव्युपशान्तम् इति / क्लेशविशुद्धिं पुनर् आरभ्य विहारगतानि षट् चित्तानि / यावत् सुविमुक्तं चित्तं न सुविमुक्तम् इति /

यत् पुनः सत्य् अध्यात्मं निवरणे "अस्ति मे निवरणम्" इति जानाति, असति निवरणे "नास्ति मे निवरणम्" इति जनाति / यथा चानुत्पन्नस्य निवरणस्योत्पादो भवति तद् अपि प्रजानाति, यथा चोत्पन्नस्य विगमो भवति तद् अपि प्रजानाति /

तत्र सति चक्षुःसंयोजने यावन् मनःसंयोजने "अस्ति मे यावन् मनःसम्योजनम्" इति, असति यावन् मनःसंयोजने "नास्ति मे यावन् मनःसंयोजनम्" इति प्रजानाति / यथा चानुत्पन्नस्य यावन् मनःसंयोजनस्योत्पादो भवति तद् अपि प्रजानाति, यथा चोत्पन्नस्य निरोधो भवति तद् अपि प्रजानाति /

सत्य् अध्यात्मम् स्मृतिसंबोध्यङ्गे "अस्ति मे स्मृतिसंबोध्यङ्गम्" इति प्रजानाति, असति "नास्ति मे" प्रजानाति / यथा चानुत्पन्नस्य स्मृतिसंबोध्यङ्गस्योत्पादो भवति तद् अपि प्रजानाति, यथा चोत्पन्नस्य स्थितिर् भवत्य् असंमोषो भावनापरिपूरिभूयोभाववृद्धिविपुलता तद् अपि प्रजानाति /

यथा स्मृतिसंबोध्यङ्गम् एवं धर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षासंबोध्यङ्गं वेदितव्यम् इति //

-ii-12-b-(1)-iv' ms.86a7m, sh.299-13, p.135b4, d.110a2, n.116a4, co.114a7, ch.441a13 यद् एवं स्वभावनिदानादीनवप्रतिपक्षाकारैः संक्लिष्टधर्मपरिज्ञानम् इदं शरीरं धर्मस्मृत्युपस्थानस्य //

-ii-12-b-(1)-v ms.86a7r, sh.299-15, p.135b5, d.110a3, n.116a5, co.114a7, ch.441a14 यथा काये कायानुपश्यना स्मृत्युपस्थानम् उक्तम् एवं वेदनायां चित्ते धर्मेषु यथायोगं वेदितव्यम् /

तत्र कथम् अध्यात्मं काये कायानुदर्शी विहरति, कथं बहिर्धा, कथम् अध्यात्मबहिर्धा /

यदा अध्यात्मं प्रत्यात्मं सत्त्वसंख्याते काये कायानुपश्यी विहरति, एवम् अध्यात्मं काये कायानुदर्शी विहरति /

यदा बहिर्धा असत्त्वसंख्यातं रूपम् आलम्बनीकरोति, एवं बहिर्धा काये कायानुदर्शी विहरति /

यदा बहिर्धा परक्यं सत्त्वसंख्यातं रूपम् आलम्बनीकरोति, एवम् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति /

तत्राध्यात्मं रूपम् उपादाय स्वक्यं सत्त्वसंख्यातं या उत्पन्ना वेदना चित्तं धर्मास् तान् आलम्बनीकुर्वन्न् अध्यात्मं वेदनासु चित्ते धर्मेषु धर्मानुदर्शी विहरति / बाह्यम् असत्त्वसंख्यातं रूपम् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् तान् आलम्बनीकुर्वन् बहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुदर्शी विहरति /

बहिर्धा बाह्यं रूपं सत्त्वसंख्यातम् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् तान् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुदर्शी विहरति //

-ii-12-b-(1)-v-(a) ms.86b2r, sh.300-15, p.136a5, d.110b2, n.116b4, co.114b6, ch.441a29 अपरः पर्यायः / इन्द्रियसंगृहीतं रूपम् आलम्बनीकुर्वन्न् अध्यात्मं काये कायानुपश्यी विहरति / अनिन्द्रियसंगृहीतं रूपम् अनुपगतम् अनुपादत्तम् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति / अनिन्द्रियसंगृहीतम् एव रूपम् अध्यात्मम् उपगतम् उपादत्तं रूपम् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुपश्यी विहरति / एवं पूर्वं त्रिविधं रूपम् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् तान् यथायोगम् आलम्बनीकुर्वंस् तथादर्शी विहरतीति वेदितव्यम् //

-ii-12-b-0)-v-(b) ms.86b4l, sh.301-6, p.136b1, d.110b4, n.116b6, co.115a1, ch.441b6 अपरः पर्यायः / यत् समाहितभूमिकं प्रश्रब्धिसहगतं रूपम् आलम्बनीकरोत्य् एवम् अध्यात्मं काये कायानुदर्शी विहरति / यत् स्वक्यम् एवाध्यात्मम् असमाहितभूमिकं दौष्ठुल्यसहगतं रूपम् आलम्बनीकरोत्य् एवं बहिर्धा काये कायानुपश्यी विहरति / परक्यं दौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपम् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा (श्भ् इइ 192) काये कायानुदर्शी विहरत्य् एवं तद् उपादायोत्पन्ना वेदना चित्तं धर्मा यथायोगं वेदितव्याः //

-ii-12-b-(1)-v-(c) ms.86b5m, sh.301-14, p.136b5, d.110b7, n.117a2, co.115a4, ch.441b13 अपरः पर्यायः / अध्यात्मं भूतरूपम् आलम्बनीकुर्वन्न् अध्यात्मं काये कायानुदर्शी विहरति / बाह्यं भूतरूपम् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति / तच् च भूतरूपम् उपादाय यद् उत्पन्नम् इन्द्रियविषयसंगृहीतम् उपादायरूपं चालम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति / एवं तद् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् ते ऽपि यथायोगं वेदितव्याः //

-ii-12-b-(1)-v-(d) ms.86b6r, sh.301-21, p.136b8, d.111a2, n.117a5, co.115a6, ch.441b19 अपरः पर्यायः / यदा सविज्ञानकं कायम् अध्यात्मम् आलम्बनीकरोत्य् एवम् अध्यात्मं काये कायानुदर्शी विहरति / अविज्ञानकं रूपं सत्त्वसंख्यातं विनीलकादिष्व् अवस्थास्व् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति / अविज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां सविज्ञानकस्य च रूपस्यानागते काले ऽविज्ञानतां तुल्यधर्मतां समधर्मताम् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति /

एवं तद् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् ते ऽपि यथायोगं वेदितव्याः //

अपरः पर्यायः / आत्मनो ऽन्तःकायं केशरोमनखादिभिर् आकारैर् आलम्बनीकुर्वन्न् अध्यात्मं काये कायानुदर्शी विहरति / परेषाम् अन्तःकायं केशरोमनखादिभिर् आकारैर् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति / आत्मनश् च बहिःकायम् अविपरिणतं विनीलकादिभिर् आकारैः (श्भ् इइ 194) परेषां च बहिःकायं विपरिणतम् अविपरिणतं च विनीलकादिभिर् आकारैस् तुल्यधर्मतयालम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति /

तद् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् ते ऽपि यथायोगं वेदितव्याः /

इत्य् एवंभागीयाः कायवेदनाचित्तधर्मप्रभेदेन बहवः पर्याया वेदितव्याः / इमे तु कतिपयाः पर्यायाः संप्रकाशिताः //

ms.87a2l, sh.303-4, w.*98-5, p.137b2, d.111b2, n.117b5, co.115b5, ch.441c6 तत्र चतुर्णां विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि /

तत्राशुचौ शुचीति विपर्यासप्रतिपक्षेण कायस्मृत्युपस्थानं व्यवस्थापितम् / तथा हि भगवता कायस्मृत्युपस्थानभावनायाम् अशुभाप्रतिसम्युक्ताश् चतस्रः शिवपथिका देशिताः, या अस्य बहुलंकुर्वन्मनसिकुर्वतः, अशुचौ शुचीति विपर्यासः प्रहीयते /

तत्र दुःखे सुखम् इति विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितम् / वेदनासु वेदनानुदर्शी विहरन् "यत् किंचिद् वेदितम् इदम् अत्र दुःखस्ये"ति यथाभूतं प्रजानाति, एवम् अस्य यो दुःखे सुखम् इति विपर्यासः स प्रहायते /

तत्र अनित्ये नित्यम् इति विपर्यासप्रतिपक्षेण चित्तस्मृत्युपस्थानं व्यवस्थापितम् / तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानाम् अत्ययात् क्षणलवमुहूर्तानाम् अनेकविधानां बहुनानाप्रकारतां (श्भ् इइ 196) चित्तस्योपलभ्य यो ऽनित्ये नित्यम् इति विपर्यासः स प्रहीयते /

तत्रानात्मन्य् आत्मेति विपर्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितम् / तस्य येषाम् आत्मदृष्ट्यादिकानां संक्लेशानां सद्भावाद् येषाम् अनात्मदृष्ट्यादिकानां कुशलानां धर्माणाम् असद्भावात् स्कन्धेष्व् आत्मदर्शनं भवति, नान्यस्य, स्वलक्षणतः सामान्यलक्षणतश् च धर्मान् धर्मानुदर्शिनो यथाभूतं पश्यतः, यो ऽनात्मन्य् आत्मेति विपर्यासः स प्रहीयते //

-ii-12-b-(1)-v-(f) ms.87a6l, sh.305-1, p.138a4, d.112a1, n.118a6, co.116a5, ch.441c22 अपरः पर्यायः / प्रायेण हि लोक एवं प्रवृत्तः / स्कन्धेषु स्कन्धमात्रं धर्ममात्रं यथाभूतम् अप्रजानन् यथा "काय आश्रितः, यदाश्रितश् च सुखदुःखम् उपभुञ्जे", धर्माधर्माभ्याम् संक्लिश्यते व्यवदायते च / तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थं कायस्मृत्युपस्थानं व्यवस्थापितम् / तस्यैवात्मनो ऽनुभवनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितम् / यत्रैव च ते चित्ते मनसि विज्ञान आत्मग्राहेण संमूढा आत्मवस्तुसंमोहापनयनार्थेन चित्तस्मृत्युपस्थानं व्यवस्थापितम् / तस्यैव च चित्तसंक्लेशव्यवदानवस्तुसंमोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम् //

-ii-12-b-(1)-v-(g) ms.87a7r, sh.305-10, w.98-22, p.138b2, d.112a5, n.118b3, co.116b2, ch.441c29 अपरः पर्यायः / यत्र च कर्म करोति, यदर्थं च करोति, यश् च कर्म करोति, येन च करोति, तत् सर्वम् एकध्यम् अभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि, तत्र काये करोति वेदनार्थं चित्तं कुशलाकुशलैर् धर्मैः //

-ii-12-b-(1)-v-(h) ms.87b1r, sh.306-4, p.138b4, d.112a7, n.118b4, co.116b4, ch.442a5 अपरः पर्यायः / यत्र च संक्लिश्यते विशुध्यते यतश् च यश् च येन क्लिश्यते विशुध्यते, तद् एकध्यम् अभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि, तत्र काये संक्लिश्यते विशुध्यते च वेदनाभ्यश् चित्तं धर्मैः संक्लिश्यते विशुध्यते च //

-ii-12-b-(1)-vi ms.87b2m, स्ः 306-10, p.138b7, d.112b2, n.118b7, co.116b6, ch.442a10 तत्र स्मृत्युपस्थानम् इति को ऽर्थः / आह / यत्र च स्मृतिम् उपस्थापयति येन च स्मृतिम् उपस्थापयति तद् उच्यते स्मृत्युपस्थानम् / यत्र स्मृतिम् उपस्थापयति तद् आलम्बनस्मृत्युपस्थानम् / येन स्मृतिम् उपस्थापयति तत्र या प्रज्ञा स्मृतिश् च समाधिसंग्राहिका तत् स्वभावस्मृत्युपस्थानम् / तदन्ये तत्संप्रयुक्ताश् चित्तचैतसिका धर्माः संसर्गस्मृत्युपस्थानम् /

अपि च कायवेदनाचित्तधर्माधिपतेयो यो मार्गः समुत्पन्नः कुशलः सास्रवो ऽनास्रवश् च तत् स्मृत्युपस्थानम् / स पुनः श्रुतमयश् चिन्तामयो भावनामयश् च / तत्र श्रुतचिन्तामयः सास्रव एव, भावनामयः स्यात् सास्रवः स्याद् अनास्रवः //

-ii-12-b-(2) ms.87b4m, sh.307-5, p.139a5, d.112b6, n.119a4, co.117a3, ch.442a26 स एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिकौदारिकं विपर्यासम् अपनीय कुशलाकुशलधर्माभिज्ञः / तदनन्तरम् "अनुत्पन्नानाइः पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय, उत्पन्नानां प्रहाणाय, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय, उत्पन्नानाम् स्थितय" इति विस्तरेण पूर्ववद् यावच् चित्तं प्रगृह्णाति प्रदधाति //

-ii-12-b-(2)-i-(a) ms.87b5m, sh.307-12, p.139a8, d.113a2, n.119a6, co.117a5, छ्442ब्2 तत्र कतमे पापका अकुशला धर्माः / यत् कामावचरं क्लिष्टं कायकर्म वाक्कर्म मनस्कर्म कायवाङ्मनोदुश्चरितसंगृहीतम्, ये च तत्समुत्थापकाः क्लेशास् ते पुनर् ये ऽसमवहिता असंमुखीभूतास् ते ऽनुत्पन्नाः, ये समवहिताः संमुखीभूतास् त उत्पन्नाः /

तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मा दुश्चरितप्रातिपक्षिका निवरणप्रातिपक्षिकाः संयोजनप्रातिपक्षिका वा / ते ऽप्य् अनुत्पन्नास् तथैव वेदितव्या उत्पन्नाश् च यथा पापका अकुशला धर्माः //

-ii-12-b-(2)-i-(b)-(1) ms.87b6r, sh.308-5, p.139b4, d.113a5, n.119b3, co.117b1, ch.442b8 तत्र यदानुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय स्पृहाम् उत्पादयति प्रणिधत्ते "सर्वेण सर्वं सर्वथा नोत्पादयिष्यामी"ति, एवं छन्दं जनयति / उत्पन्नान् वा पुनः समवहितान् "सर्वेण सर्वं नाधिवासयिष्यामि प्रहास्यामि प्रतिविनोदयिष्यामि" /

यद् अनुत्पन्नेषु पापकेष्व् अकुशलेषु धर्मेषु पूर्वम् एवानुत्पादाय स्पृहाम् उत्पादयति प्रणिधत्ते नाधिवासयितुकामो भवति, अयम् अनुत्पन्नानाम् (श्भ् इइ 202) अनुत्पादाय च्छन्दः / यद् वोत्पन्नान् नाधिवासयति प्रहाणयति, अयम् उत्पन्नानां प्रहाणाय च्छन्दः //

-ii-12-b-(2)-i-(b)-(2) ms.88a2l, sh.308-14, p.139b7, d.113a7, n.119b5, co.117b4, ch.442b14 ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा अनागतवस्त्वालम्बना वा वर्तमानविषयालम्बना वोत्पद्यन्ते, ते भवन्ति परोक्षविषयालम्बनाः प्रत्यक्षविषयालम्बनाश् च / ये ऽतीतानागतवस्त्वालम्बनास् ते परोक्षविषयालम्बनाः, ये वर्तमानविषयालम्बनास् ते प्रत्यक्षविषयालम्बनाः //

-ii-12-b-(2)-i-(b)-(3) ms.88a2r, sh.308-20, p.140a2, d.113b2, n.119b7, co.117b5, ch.442b18 तत्र परोक्षविषयालम्बनानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय व्यायच्छते / प्रत्यक्षविषयालम्बनानां पुनर् अनुत्पन्नानाम् अनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यम् आरभते /

तथा हि तेषां दृढतरेण वीर्यारम्भेणानुत्पत्तिः प्रहाणं वा भवति / अपि च मृदुमध्यानां पर्यवस्थानानाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां प्रहाणाय उयायच्छते / अधिमात्राणां पर्यवस्थानानाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहानाय वीर्यम् आरभते /

सचेद् अतीत आलम्बने चरति, तथा चरति यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते / सचेत् पुनः स्मृतिसंप्रमोषाद् उत्पद्यते नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति / यथातीत आलम्बन एवम् अनागते ऽपि वेदितव्यम् / (श्भ् इइ 204) एवम् अयम् अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादायोत्पन्नानां च प्रहाणाय "व्यायच्छत" इत्य् उच्यते /

सचेद् अयं वर्तमान आलम्बने चरति, तथा तथा चरति यथा तेनालम्बनेन क्लेशो नोत्पद्यते / सचेत् पुनः स्मृतिसंप्रमोषाद् उत्पद्यत उत्पन्नं नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति / एवम् अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादायोत्पन्नानां च प्रहाणाय "वीर्यम् आरभत" इत्य् उच्यते //

-ii-12-b-(2)-i-(b)-(4) ms.88a6m, sh.309-19, p.140b2, d.114a1, n.120a6, co.118a4, ch.442c7 सन्ति पापका अकुशला धर्मा ये संकल्पवशेनोत्पद्यन्ते न विषयबलेन, सन्ति ये संकल्पबलेन च विषयबलेन च /

तत्र संकल्पवशेनोत्पद्यन्ते न उइषयबलेन, तद्यथा विहरतो ऽतीतानागतालम्बनेन य उत्पद्यन्ते /

तत्र संकल्पवशेन च विषयबलेन चोत्पद्यन्ते, तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते, अवश्यं तत्रायोनिशःसंकल्पो भवति //

ms.88a7m, sh.310-4, p.140b5, d.114a3, n.118a6, co.120b2, ch.442c13 तत्र ये संकल्पबलेनोत्पद्यन्ते तेषाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय व्यायच्छते / तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते तेषाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय वीर्यम् आरभते //

-ii-12-b-(2)-i-(c) ms.88a8m, sh.310-10, p.140b7, d.114a4, n.118b1, co.120b3, ch.442c17 तत्र्"आनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय च्छन्दं जनयती"ति / ये कुशला धर्मा अप्रतिलब्धा असंमुखीभूताश् च तेषां प्रतिलम्भाय संमुखीभावाय च स्पृहाम् उत्पादयति चित्तं प्रणिधत्ते, तीव्रा प्रतिलब्धुकामता संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति / अयम् "अनुत्पन्नानां कुशलानां धर्माणाम् उत्पत्तये छन्दः" /

"उत्पन्नानां च कुशलानां धर्माणाम् स्थितये ऽसंमोषाय भावनापरिपूरये छन्दं जनयती"ति, "उत्पन्नाः कुशला धर्मा" ये प्रतिलब्धाः संमुखीभूताश् च / तत्र प्रतिलम्भाविगमं प्रतिलब्धापारिहाणिम् अधिकृत्याह "स्थितय" इति / संमुखीभावाद् अधन्धायितत्वम् अधिकृत्याह "असंमोषाये"ति / तेषाम् एव च कुशलानां धर्माणां प्रतिलब्धानां संमुखीभूतानाम् आसेवनान्वयात् परिनिष्पत्तिं निष्ठागमनम् अधिकृत्याह "भावनापरिपूरय" इति / तत्र च स्पृहाम् उत्पादयति चित्तं प्रणिधत्ते तीव्रा चास्य स्थितिकामता असंमोषकामता भावनापरिपूरिकामता प्रत्युपस्थिता भवति / अयम् उच्यत "उत्पन्नानां कुशलानां धर्माणां स्थितये ऽसंमोषाय भावनापरिपूरये छन्दः" //

ms.88b3m, sh.311-7, p.141a6, d.114b2, n.118b6, co.121a2, ch.443a2 तत्र "व्यायच्छत" इति प्रतिलब्धानां संमुखीभावाय / "वीर्यम् आरभते" ऽप्रतिलब्धानां प्रतिलम्भाय /

तत्र "व्यायच्छत" उत्पन्नानां स्थितये ऽसंमोषाय / "वीर्यम् आरभते" भावनापरिपूरये /

अपि च मृदुमध्यानां कुशलानां धर्माणाम् अनुत्पन्नानाम् उत्पादाय, उत्पन्नानां च स्थितये ऽसंमोषाय व्यायच्छते / अधिमात्राणां कुशलानां धर्माणाम् अनुत्पन्नानाम् उत्पादाय, उत्पन्नानां च यावद् भावनापरिपूरये वीर्यम् आरभते /

तत्र "चित्तं प्रगृह्णाति" / यदा तच् चित्तं शमथभावनायाम् एकाग्रतायां प्रयुक्तं भवति, अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय, (श्भ् इइ 208) एवं विस्तरेण यावद् उत्पन्नानां कुशलानां धर्माणां स्थितये ऽसंमोषाय भावनापरिपूरये तच् च तथाध्यात्मम् अभिसंक्षिप्तं लीनत्वाय परैति, लीनत्वाभिशङ्कि चैवं पश्यति / तदान्यतमान्यतमेन प्रग्राहकेण निमित्तेन प्रसदनीयेन प्रतिगृह्णाति संहर्षयति / एवं चित्तं प्रगृह्णाति /

कथं "प्रदधाति" / पुनर् उद्धतम् औद्धत्याभिशङ्कि वा प्रग्रहकाले पश्यति, तदा पुनर् अप्य् अध्यात्मम् अभिसंक्षिपति शमथाय प्रणिदधाति //

-ii-12-b-(2)-i-(d) ms.88b7m, sh.312-10, w.*98-32, p.141b6, d.115a1, n.121b1, co.119a5, ch.443a17 तान्य् एतानि भवन्ति चत्वारि सम्यक्प्रहाणानि / कृष्णपक्ष्याणां धर्माणाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय च्छन्दो व्यायामो वीर्यारम्भश् चित्तप्रग्रहः प्रदधनम् इमे द्वे सम्यक्प्रहाणे / शुक्लपक्ष्याणां धर्माणाम् अनुत्पन्नानाम् उत्पादाय, विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये / तद्यथा कृष्णपक्ष्याणाम् /

तत्रैकं संवरणप्रहाणम्, यद् "उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय च्छन्दं जनयती"ति विस्तरेण /

द्वितीयं प्रहाणप्रहाणम्, यद् "अनुत्पन्नानाम् अनुत्पादाय च्छन्दं जनयती"ति विस्तरेण / उत्पन्नं हि संवरयितव्यं पापकं वस्तु, अनुत्पन्नं च यत् तद् असमुदाचारतः प्रहीणम् एव तद् असंमुखीभावतः प्रहातव्यं इति कृत्वा, प्रहीणस्य प्रःआणं प्रहाणप्रहाणम् /

तत्र भावनाप्रहाणम् एकम् / यद् आह / "अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाये"ति विस्तरेण यावच् "चित्तं प्रगृह्णाति प्रदधाती"ति /

तथा हि कुशला धर्मा आसेव्यमाना भाव्यमाना, अप्रतिलब्धाश् च प्रतिलभ्यन्ते, प्रतिलब्धाश् च संमुखीक्रियन्ते / तत्रानुरक्षणाप्रहाणम् एकम् / यद् आह / "उत्पन्नानां कुशलानां धर्माणां स्थितये" विस्तरेण यावच् "चित्तं प्रगृह्णाति, प्रदधाति" / तथा हि प्रतिलब्धेषु संमुखीकृतेषु च कुशलेषु धर्मेषु या प्रमादवर्जना अप्रमादनिषेवणा च सा कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये संवर्तते / एवम् उत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्ति / अयं तावत् सम्यक्प्रहाणानां विस्तरविभागः //

-ii-12-b-(2)-ii ms.89a3r, sh.313-14, p.142a8, d.115b2, n.122a2, co.119b5, ch.443b8 समासार्थः पुनः कतमः / आह / कृष्णशुक्लपक्षिकस्य त्यागादानवस्तुनो ऽध्याशयसंपत् प्रयोगसंपच् च परिदीपिता भवति / तत्राध्याशयसंपच् छन्दजननतया, प्रयोगसंपत् पुनर् व्यायामवीर्यारम्भचित्तप्रग्रहप्रदधनैः / एतावच् च योगिना करणीयम् / यत् प्रहातव्यस्य वस्तुनः प्रहाणाय प्राप्तव्यस्य च वस्तुनः प्राप्तये पूर्वम् एव स्पृहाजातेन भवितव्यम्, पर्यवस्थानप्रहाणाय वीर्यम् आरब्धव्यम् अनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानिमित्तानि भावयितव्यानि (श्भ् इइ 212) / पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रतिपक्षिका धर्माः कुशलास् ते समुदानयितव्याः / तच् चैतत् सर्वं चतुर्भिः सम्यक्प्रहाणैः परिदीपितं भवति / अयं समासार्थः //

-ii-12-b-(3) ms.89a6m, sh.314-5, p.142b5, d.115b6, n.122a6, co.120a2, ch.443b18 तत्र चत्वारः समाधयः / तद्यथा छन्दसमाधिः, वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश् च /

तत्र च्छन्दम् अधिपतिं कृत्वा यः प्रतिलभ्यते समाधिर् अयं छन्दसमाधिः / वीर्यम्, चित्तम्, मीमांसाम् अधिपतिं कृत्वा यः प्रतिलभ्यते समाधिर् अयं मीमांसासमाधिः //

-ii-12-b-(3)-i-(a) ms.89a7r, sh.315-4, p.142b7, d.115b7, n.122b1, co.120a4, ch.443b23 यदा तावद् अयं छन्दम् एव केवलं जनयति / छन्दजातश् च तान् पापकान् अकुशलान् धर्मान् स्वभावतो निदानत आदीनवतः प्रतिपक्षतश् च सम्यग् एवोपनिदध्याति, एकाग्रां स्मृतिं प्रवर्तयति / एवं कुशलान् धर्मान् स्वभावतो निदानतो ऽनुशंसतो निःसरणतः सम्यग् एवोपनिदध्याति, एकाग्रां स्मृतिम् अवस्थापयति, तद्बहुलाकाराद् एकाग्रताम् स्पृशति पर्यवस्थानसमुदाचारदूरीकरणयोगेन / न त्व् अद्याप्य् अनुशयं (श्भ् इइ 214) समुद्घातयति पापकानाम् अकुशलानां धर्माणाम् / अयम् अप्य् उच्यते छन्दाधिपतेयः //

-ii-12-b-(3)-i-(b) ms.89b2m, sh.316-10, p.143a3, d.116a3, n.122b4, co.120a7, ch.443b29 स अतीते वानागतप्रत्युत्पन्ने वा पुनर् आलम्बने पापकाकुशलधर्मस्थानीये मृदुमध्याधिमात्रक्लेशपर्यवस्थानीये, अनुत्पन्नस्य वानुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यम् आरभमाणः / तत्रालम्बने विचरतः, तस्य वालम्बनस्य स्वभावतो निदानत आदीनवतः प्रतिपक्षतश् च सम्यग् उपनिध्यायतः, एकाग्रां स्मृतिम् उपस्थापयतः, यत् तद्बहुलविहारिणश् चित्तैकाग्रता उत्पद्यते पर्यवस्थानसमुदाचारदूरीकरणयोगेन / न त्व् अद्याप्य् अनुशयं समुद्घातयति पापकानाम् अकुशलानां धर्माणाम् / अयं वीर्याधिपतेयः समाधिः //

-ii-12-b-(3)-i-(c) ms.89b4m, sh.316-19, p.143a7, d.116a6, n.122b7, co.120b3, ch.443c8 लीनं वा पुनश् चित्तं प्रगृह्णतः, प्रगृहीतं चित्तं समादधतः, कालेन च कालम् अध्युपेक्षितो यत् पापकाकुशलान् धर्मान् पापकाकुशलधर्मस्थानीयान्वयान्, कुशलाकुशलान् धर्मान् कुशलाकुशलस्थानीयांश् च धर्मान् स्वभावतो निदानत आदीनवतो ऽनुशंसतः प्रतिपक्षतो निःसरणतः, सम्यग् उपनिध्यायतः, एकाग्रां स्मृतिम् उपस्थापयतः, (श्भ् इइ 216) तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रता / विस्तरेण यावत् / अयम् उच्यते चित्ताधिपतेयः समाधिः //

-ii-12-b-(3)-i-(d) ms.89b5r, sh.317-8, p.143b3, d.116b2, n.123a3, co.120b6, ch.443c15 तत्र ये पापकाकुशलधर्मस्थानीया धर्मा भवन्त्य् अयोनिशोमनसिकुर्वतः / त एव कुशलधर्मस्थानीया भवन्ति योनिशोमनसिकुर्वतः / तस्यैवं पर्यवस्थानेषु दूरीकृतेषु, पर्यवस्थानप्रतिपक्षिकेषु च समाधिप्रमुखेषु धर्मेष्व् उत्पन्नेषु, ते पापका अकुशला धर्मा न समुदाचरन्ति /

तस्यैवं भवति / "किं सतः संविद्यमानान् पापकान् अकुशलान् धर्मान् न प्रतिसंवेदयाम्य् आहोस्विद् असतो ऽसंविद्यमानान् यन् न्व् अहं परिमीमांसेयम्" / स मीमांसामनस्कारम् अधिपतिं कृत्वा प्रहीणाप्रहीणतां मीमांसते, सम्यग् एवोपनिध्यायति, एकाग्राम् स्मृतिम् उपस्थापयति / तद्बहुलविहारी च स्पृशति चित्तस्यैकाग्रताम् / येन निरभिमानो भवति / "पर्यवस्थानमात्रकान् मे चित्तं विमुक्तं न तु सर्वेण सर्वम् अनुशयेभ्यः, तत्प्रतिपक्षाश् च मे समाधिप्रमुखाः कुशला धर्माः प्रतिलब्धा, भाविता, न त्व् अनुशयप्रातिपक्षिका" इति यथाभूतं प्रजानाति / अयम् अस्योच्यते मीमांसासमाधिः //

-ii-12-b-(3)-i-(e) ms.90a1r, sh.318-5, p.144a2, d.116b7, n.123b2, co.121a4, ch.443c29 स तं चतुर्विधं समाधिम् अधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु, सर्वेण सर्वम् अनुशयसमुद्घाताय पापकानाम् अकुशलानां धर्माणां तत्प्रातिपक्षिकाणाञ् च कुशलानां धर्माणां समुदागमाय पुनर् अपि छन्दं जनयति व्यायच्छत इति विस्तरेण चतुर्भिः सम्यक्प्रहाणैः प्रयुज्यते //

-ii-12-b-(3)-ii-(a) ms.90a2r, sh.318-10, w*.99-1, p.144a4, d.117a2, n.123b4, co.121a5, ch.444a4 tathāprayuktasya tathābhūtasyāṣṭau praḥāṇasaṃskārā bhavanti / ye 'syānuśayasamudghātāya ca pravartante samādhiparipūraye ca /

तद्यथा छन्दः "कदाचित् समाधिं परिपूरयिष्यामि, अनुशयांश् च प्रहास्यामि पापकानाम् अकुशलानां धर्माणाम्" /

व्यायामो यावत् प्रतिपक्षभावनायाम् अविन्यस्तप्रयोगता /

श्रद्धा या अविन्यस्तप्रयोगस्य विहरत उत्तरे ऽधिगमे श्रद्दधानता, अभिसंप्रत्ययः /

तत्र प्रश्रब्धिर् यच् छ्रद्धाप्रसादपूर्वंगमं प्रामोद्यं प्रीतिः, प्रीतमनसश् चानुपूर्वा पापकाकुशलधर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः / तत्र स्मृतिर् या नवाकारा, नवाकारायाश् चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका /

तत्र संप्रजन्यम् या विपश्यनापक्ष्या प्रज्ञा /

तत्र चेतना यश् चित्ताभिसंस्कारः प्रहीणाप्रहीणतां मीमांसमानस्य यश् चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति /

तत्रोपेक्षा यातितानागतप्रत्युत्पन्नेषु पापकाकुशलधर्मस्थानीयेषु चरतश् चित्तासंक्लेशा चित्तसमता / आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणताम् अनुशयानां परिच्छिनत्ति जानाति / यदुत विषयविपरोक्षया चेतनया विषयाविपरोक्षया चोपेक्षया /

इमे ऽष्टौ प्रहाणसंस्कारा भवन्ति //

-ii-12-b-(3)-ii-(b) ms.90a6m, sh.320-17, w.*99-21, p.144b4, d.117b1, n.124a3, co.121b5, ch.444a21 स चैषो ऽष्टप्रहाणसंस्कारयोगो भवत्य् अनुशयसमुद्घाताय / तत्र छन्दश् छन्द एव, यो व्यायाम इदं वीर्यम्, या श्रद्धा सा श्रद्धा, या च प्रश्रब्धिर् या च स्मृतिर् यच् च संप्रजन्यं या च चेतना या चोपेक्षा अयम् उपायः / तद् इदं सर्वम् अभिसमस्य, ये च पूर्वकाश् छन्दसमाधयः, ये चेमे प्रहाणसंस्काराः प्रहीणेष्व् अनुशयेषु परिनिष्पन्ने समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्य् उच्यते / वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्य् उच्यते /

-ii-12-b-(3)-iii ms.90b1l, sh.321-5, w.100-1, p.144b8, d.117b4, n.124a7, co.121b7, ch.444a29 केन कारणेन ऋद्धिपाद इत्य् उच्यते / आह / तद्यथा यस्य पादः संविद्यते सो ऽभिक्रमप्रतिक्रमपराक्रमसमर्थो भवति / एवम् एव यस्यैते धर्माः संविद्यन्ते, एष च समाधिः संविद्यते परिपूर्णः, स एवं परिशुद्धे चित्ते, पर्यवदाते, अनङ्गणे, विगतोपक्लेशे, ऋजुभूते, कर्मण्यस्थिते, आनिञ्ज्यप्राप्ते, अभिक्रमप्रतिक्रमपराक्रमसमर्थो भवति, लोकोत्तराणां धर्माणां प्राप्तये स्पर्शनायै / एषा हि परा ऋद्धिः परा समृद्धिः, यदुत लोकोत्तरा धर्माः / तेनोच्यत ऋद्धिपाद इति //

-ii-12-b-(4)-i-(a) ms.90b2r, sh.321-15, p.145a3, d.117b7, n.124b3, co.122a3, ch.444b8 स एवं समाधिप्रतिष्ठितः समाधिं निश्रित्याधिचित्तंशिक्षायाम् अधिप्रज्ञंशिक्षायां योगं करोति / तत्रास्य योगं कुर्वतः परेषां चाधिगमे शास्तुः श्रावकाणां च यो ऽभिसंप्रत्ययः प्रसादः / श्रद्दधानता अधिपत्यर्थेन श्रद्धेन्द्रियम् इत्य् उच्यते /

कुत्र पुनर् अस्याधिपत्यम् / आह / लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानाम् उत्पत्तय आधिपत्यम् / ये ऽपि ते वीर्यादयस् तेषाम् अपि लोकोत्तरधर्मोत्पत्तय आधिपत्यम् / यावत् प्रतिपत्तय आधिपत्यम् / यावत् प्रज्ञाया लोकोत्तरधर्मोत्पत्तय आधिपत्यम् / तेनैतानि श्रद्धादीनि पञ्चेन्द्रियाणि भवन्ति //

-ii-12-b-(4)-i-(b) ms.90b4m, sh.322-11, प्. 145अ8, d.118a4, n.124b6, co.122a7, ch.444b17 या पुनः पूर्वेणापरं विशेषाधिगमं संजानतस् तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः प्रसादः श्रद्दधानता / सा अनवमृद्यतार्थेन श्रद्धाबलम् इत्य् उच्यते / केन पुनर् न शक्यते ऽवमृदितुम् / असंहार्या सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा, केनचिद् वा पुनर् लोके सहधर्मेण, क्लेशपर्यवस्थानेन वा / तेन सानवमृद्येत्य् उच्यते / तत्प्रमुखास् तत्पूर्वंगमा ये वीर्यादयस् ते ऽपि बलानीत्य् उच्यन्ते / तैः स बलैर् बलवान् सर्वं मारबलं विजित्य प्रयुज्यत आस्रवाणां क्षयाय / तस्माद् बलानीत्य् उच्यन्ते //

-ii-12-b-(4)-ii ms.90b6m, sh.323-7, w.*100-22, p.145b3, d.118a7, n.125a3, co.122b3, ch.444b26 तत्र यच् च श्रद्धेन्द्रियं यच् च श्रद्धाबलं चतुर्ष्व् एतद् अवेत्यप्रसादेषु द्रष्टव्यम् / तत् कस्य हेतोः / यो ऽसौ सम्यक्त्वन्यामावक्रान्तस्यावेत्यप्रसादः स तद्धेतुकस् तत्प्रत्ययस् तन्निदानः / तस्माद् धेतुफलसंबन्धेन तस्यास् तद् अधिपतिफलम् इति कृत्वा तत्र द्रष्टव्यम् इत्य् उक्तं भगवता, न तु तच्छरीरता तल्लक्षणता /

तत्र वीर्येन्द्रियं चतुर्षु सम्यक्प्रहाणेषु द्रष्टव्यम् / तत् कस्य हेतोः / यानि कतमानि सम्यक्प्रहाणानि / यानि दर्शनप्रहातव्यक्लेशप्रहाणाय प्रायोगिकाणि सम्यक्प्रहाणानि, तान्य् अत्र सम्यक्प्रहाणान्य् अभिप्रेतानि / तानि ह्य् अत्यन्ततायै पापकानाम् अकुशलानां धर्माणां प्रहाणाय संवर्तन्ते /

तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्यम् / इतीमानि चत्वारि स्मृत्युपस्थानान्य् अशेषविपर्यासप्रहाणाय संवर्तन्ते /

तत्र समाधीन्द्रियं चतुर्षु ध्यानेषु द्रष्टव्यम् / यानि ध्यानान्य् अनागामितायां प्रायोगिकाणि /

तत्र प्रज्ञेन्द्रियं चतुर्ष्व् आर्यसत्येषु द्रष्टव्यम् / इति यत् सत्यज्ञानं चतुर्णाम् आर्यसत्यानाम् अभिसमयाय संवर्तते श्रामण्यफलप्राप्तये / यथेन्द्रियाण्य् एवं बलानि वेदितव्यानि //

-ii-12-b-(4)-iii ms.91a2r, sh.324-8, w.*101-5, p.146a3, d.118b6, n.125b2, co.123a2, ch.444c10 स एषाम् इन्द्रियाणाम् एतेषां च बलानाम् आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयान् निर्वेधभागीयानि कुशलमूलान्य् उत्पादयति मृदुमध्याधिमात्राणि / तद्यथोष्मगतानि मूर्धानः सत्यानुलोमाः क्षान्तयो लौकिकाग्रधर्माः /

तद्यथा कश्चिद् एव पुरुषो ऽग्निनाग्निकार्यं कर्तुकामो ऽग्निनार्थ्य् अधरारण्याम् उत्तरारणिं प्रतिष्ठाप्याभिमथ्नन्न् उत्सहते घटते व्यायच्छते / तस्योत्सहतो घटतो व्यायच्छतश् च तत्प्रथमतो ऽधरारण्याम् ऊष्मा जायते / सैव चोष्माभिवर्धमाना ऊर्ध्वम् आगच्छति /

भूयस्या मात्रयाभिवर्धमाना निरर्चिषम् अग्निं पातयति, अग्निपतनसमनन्तरम् एव चार्चिर् जायते / यथार्चिषोत्पन्नया जातया संजातयाग्निकार्यं करोति / यथाभिमन्थनव्यायाम एवं पञ्चानाम् इन्द्रियाणाम् आसेवना द्रष्टव्या / यथाधरारण्या तत्प्रथमत एवोष्मगतं भवत्य्, एवम् ऊष्मगतानि द्रष्टव्यानि / पूर्वंगमानि निमित्तभूतान्य् अग्निस्थानीयानाम् अनास्रवाणां धर्माणां क्लेशपरिदाहकानाम् उत्पत्तये / यथा तस्यैवोष्मण ऊर्ध्वम् आगमनम् एवं मूर्धानो द्रष्टव्याः / यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः / यथाग्नेः पतनं निरर्चिष एवं लौकिकाग्रधर्मा द्रष्टव्याः / यथा तदनन्तरम् अर्चिष उत्पाद एवं लोकोत्तरानास्रवा धर्मा द्रष्टव्याः / ये लौकिकाग्रधर्मसंगृहीतानां पञ्चानाम् इन्द्रियाणां समनन्तरम् उत्पद्यन्ते //

-ii-12-b-(5) ms.91a6r, sh.325-17, p.146b5, d.119a6, n.126a4, co.123b2, ch.444c29 ते पुनः कतमे / आह / सप्तबोध्यङ्गानि / यो ऽसौ यथाभूतावबोधः सम्यक्त्वन्यामावक्रान्तस्य पुद्गलस्य तस्यैतान्य् अङ्गानि / स हि यथाभूतावबोधः सप्ताङ्गपरिगृहीतः, त्रिभिः शमथपक्ष्यैः, त्रिभिर् विपश्यनापक्ष्यैः, एकेनोभयपक्ष्येण / तस्माद् बोध्यङ्गानीत्य् उच्यन्ते /

तत्र यश् च धर्मविचयः, यच् च वीर्यम्, या च प्रीतिर् इतीमानि त्रीणि विपश्यनापक्ष्याणि / तत्र या च प्रस्रब्धिः, यश् च समाधिः, या चोपेक्षा (श्भ् इइ 230) इतीमानि त्रीणि शमथपक्ष्याणि / स्मृतिर् उभयपक्ष्या सर्वत्रगेत्य् उच्यते / स तस्मिन् समये तत्प्रथमतो बोध्यङ्गलाभाच् छैक्षो भवति दृष्टपदः //

-ii-12-b-(6) ms.91b1r, sh.326-10, p.147a1, d.119b2, n.126a7, co.123b5, ch.445a8 दर्शनप्रहातव्याश् चास्य क्लेशाः प्रहीणा भवन्ति, भावनाप्रहातव्याश् चावशिष्टाः / स तेषां प्रहाणाय त्रिस्कन्धम् आर्याष्टाङ्गं मार्गं भावयति /

तत्र या च सम्यग्दृष्टिर्, यश् च सम्यक्संकल्पः, यश् च सम्यग्व्यायामः, अयं प्रज्ञास्कन्धः / तत्र ये सम्यक्वाक्कर्मान्ताजीवाः, अयं शीलस्कन्धः / तत्र या च सम्यक्स्मृतिः, यश् च सम्यक्समाधिः, अयं समाधिस्कन्धः /

केन कारणेनार्याष्टाङ्गो मार्ग इत्य् उच्यते / आह / आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपद् अष्टाभिर् अङ्गैः संगृहीतः, अपरिशेषः सर्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै / तेनोच्यत आर्याष्टाङ्गो मार्गः //

-ii-12-b-(6)-i ms.91b3m, sh.327-13, p.147a5, d.119b6, n.126b4, co.124a2, ch.445a15 तत्र यश् च बोध्यङ्गकाले तत्त्वावबोधः प्रतिलब्धः, प्रतिलभ्य च यत् तस्यैव प्रज्ञया व्यवस्थानं करोति यथाधिगतस्यावबोधस्य, तद् उभयम् एकध्यम् अभिसंक्षिप्य सम्यग्दृष्टिर् इत्य् उच्यते /

तां सम्यग्दृष्टिम् अधिपतिं कृत्वा यन् नैष्क्रम्यसंकल्पं संकल्पयत्य् अव्यापादसंकल्पम् अविहिंसासंकल्पम् / अयम् उच्यते सम्यक्संकल्पः /

सचेत् तावद् वितर्केषु चित्तं क्रामति, स एवंरूपान् वितर्कान् वितर्कयति / सचेत् पुनः कथायां चित्तं क्रामति, सम्यग्दृष्टिम् अधिपतिं कृत्वा तेनैव कुशलात् संकल्पाद् धर्म्यां कथां कथयति / सास्य भवति सम्यग्वाक् /

सचेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् अर्थी (श्भ् इइ 232) भवति, तत्पर्येषणां वापद्यते / सो ऽभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवत्य् आलोकितव्यवलोकिते, संमिञ्जितप्रसारिते सांघाटीचीवरपात्रधारणे ऽशितपीतखादितास्वादिते / विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते स्थिते निषण्णे यावन् निद्राक्लमप्रतिविनोदने संप्रजानद्विहारी भवति / अयम् अस्योच्यते सम्यक्कर्मान्तः /

स तच् चीवरं यावद् भैषज्यपरिष्कारं धर्मेण पर्येषते / यावन् मिथ्याजीवकरकधर्मविवर्जितः / सो ऽस्य भवति सम्यगाजीवः /

ये पुनर् विरतिसंगृहीताः सम्यग्वाक्कर्मान्ताजीवाः, ते ऽनेन पूर्वम् एव मनस्कारलाभाद् बोध्यङ्गैर् एव सह लब्धा भवन्ति /

यो ऽप्य् आर्यकान्तानि शीलान्य् उच्यन्ते / केन कारणेन / दीर्घकालं ह्य् एतद् आर्याणां सतां सम्यग्गतानाम् इष्टं कान्तं प्रियं मन-आपं "कच्चिद् अहं तद् वाग्दुश्चरितस्य कायदुश्चरितस्य मिथ्याजीवस्याकरणं संवरं प्रतिलभेयम्" / यद् अस्य दीर्घरात्रम् इष्टं कान्तं प्रियं मन-आपं तद् अनेन तस्मिन् समये प्रतिलब्धं भवति / तस्माद् आर्यकान्तम् इत्य् उच्यते / तथा हि स लब्धेष्व् आर्यकान्तेषु शीलेषु, न संप्रजानो म्र्षां वाचं भाषते, न संचिन्त्य प्राणिनं जीविताद् व्यपरोपयति, नादत्तम् आदत्ते, (श्भ् इइ 234) न कामेषु मिथ्या चरति, न चाधर्मेण चीवरादीनि पर्येषते / इति तान्य् आर्यकान्तानि शीलान्य् अधिपतिं कृत्वा मार्गभावनाकाले या वाक् प्रवर्तते यच् च कायकर्म यश् चाजीवः, ते ऽपि सम्यग्वाक्कर्मान्ताजीवा इत्य् उच्यन्ते /

तस्य सम्यग्दृष्टिसम्यक्संकल्पवाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य यच् छन्दो वीर्यो व्यायामो निष्क्रमः पराक्रमस्थामारम्भश् चेतसः संप्रग्रहः सातत्यम् / अयम् उच्यते सम्यग्व्यायामः / यच् चत्वारि स्मृत्युपस्थानान्य् अधिपतिं कृत्वाविपर्याससंगृहीता स्मृतिर् नवाकारा नवाकारचित्तस्थितिसंग्राहिका / इयम् उच्यते सम्यक्स्मृतिः सम्यक्समाधिश् च //

-ii-12-b-(6)-ii ms.92a4l, sh.330-1, p.148a7, d.120b6, n.127b5, co.125a3, ch.445b16 तद् एतत् सर्वम् अभिसमस्यार्याष्टाङ्गो मार्गश् चारकरणीये च विहारकरणीये चावस्थितः / तत्र सम्यग्वाक्कर्मान्ताजीवाश् चारकरणीये / विहारकरणीयं पुनर् द्विविधम् / शमथो विपश्यना च / तत्र या च सम्यग्दृष्टिः, यश् च सम्यक्संकल्पः, यश् च सम्यग्व्यायाम इयं विपश्यना / तत्र या च सम्यक्स्मृतिर् यश् च सम्यक्समाधिर् अयं शमथः /

एवं परिशुद्धान् वाक्कर्मान्ताजीवान् निश्रित्य शमथविपश्यनां भावयति कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्य् अग्रफलम् अर्हत्त्वं (श्भ् इइ 236) प्राप्नोति / प्राकर्षिकश् च भावनामार्गः कालान्तराभ्यासेन क्लेशान् प्रजहाति / ज्ञानमात्रप्रतिबद्धस् तु दर्शनमार्गो ज्ञानोत्पत्तिमात्रकेण क्लेशान् प्रजहाति / अनेन कारणेन वाक्कर्मान्ताजीवा भावनामार्गे व्यवस्थापिताः /

इति य एवम् एषाम् अनयानुपूर्व्या सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अभ्यासः परिचयः / इयम् उच्यते बोधिपक्ष्या भावना //

(ii)-a-ii-13-a ms.92a7m, sh.331-1, w.m02-4, p.148b5, d.121a5, n.128a4, co,125b1, ch.445b29 tatra bhāvanāphalaṃ katamat / āha / catvāri śrāmaṇyaphalāni / srota-āpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam agraphalam arhattvam /

तत्र कतमच् छ्रामण्यम्, कतमत् फलम् / आह / मार्गः, क्लेशप्रहाणं फलम् / अपि च पूर्वोत्पन्नस्य मार्गस्य पश्चाद् उत्पन्नो मार्गः फलं मध्यो विशिष्टो वा सदृशो वा / पुनस् तत्र केन कारणेन चत्वारि व्यवस्थापितानि / आह / चतुर्विधक्लेशप्रहाणप्रतिपक्षतया //

-ii-13-a-(1) ms.92b1r, sh.332-3, p.148b7, d.121a7, n.128a6, co.125b3, ch.445c5 तद्यथा निर्वस्तुकानां क्लेशानाम् अपायगमनीयानाम् अपायगमनहेतुभूतानां प्रहाणात् प्रतिपक्षोत्पादाच् च स्रोत-आपत्तिफलं व्यवस्थापितम् / त्रयाणां तु संयोजनानां प्रहाणाद् व्यवस्थापितं भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्मविनयपक्षे स्वाख्यातधर्मविनयपक्षे च, त्रयाणां संयोजनानां मार्गोत्पत्तये विबन्धकरत्वात् /

तत्र गृहिपक्षे सत्कायदृष्टिः, ययायम् आदित एव न प्रयुज्यत इत्य् आदित उत्त्रासिका सत्कायदृष्टिः /

दुराख्याते धर्मविनये शीलव्रतपरामर्शः, उच्चलितो ऽपि मिथ्यां प्रतिपादयति येनार्यमार्गो नोत्पद्यते /

स्वाख्याते धर्मविनये विचिकित्सा, तत्रोच्चलितश् च भवति, न च मिथ्याप्रतिपन्नो ऽपि त्व् अनभ्यासात् तस्य यावद् यथाभूतदर्शनं न भवति ज्ञेये वस्तुनि तावत् काङ्क्षा विमतयो विबन्धकरा भवन्ति (श्भ् इइ 240) मार्गस्योत्पत्तये /

अनेन तावत् कारणेन स्रोत-आपत्तिफलव्यवस्थानम् //

-ii-13-a-(2) म्स्. 92ब्4र्, sh.333-1, p.149a5, d.121b5, n.128b4, co.126a1, ch.445c17 तस्यास्य स्रोत-आपन्नस्य परं सप्त भवा अवशिष्टा भवन्ति / स चास्य जन्मप्रबन्धो यदा च जन्मप्राबन्धिकान् क्लेशान् प्रजहाति देवभवसंगृहीतान् मनुष्यभवसंगृहीतांश् च, येषां प्रहाणात् परम् एकं देवभवम् अभिनिर्वर्तयत्य् एकं मनुष्यभवम् / तस्मिन् समये सकृदागामिफलं व्यवस्थाप्यते //

-ii-13-a-(3) ms.92b5r, sh.333-7, p.149a7, d.121b6, n.128b5, co.126a2, ch.445c21 यदा तु देवभवम् एव केवलम् अभिनिर्वर्तयति, इहप्रत्यागमजन्मिकं क्लेशं प्रहाय, तदानागामिफलं व्यवस्थाप्यते //

-ii-13-a-(4) ms.92b6l, sh.333-9, p.149a7, d.121b7, n.128b6, co.126a3, ch.445c23 सर्वभवोपपत्तिसंवर्तनीयक्लेशप्रहाणाद् अग्रफलम् अर्हत्त्वफलं व्यवस्थाप्यते //

-ii-13-a-(5) ms.92b6l, sh.334-1, p.149a7, d.121b7, n.128b6, co.126a3, ch.445c24 तत् पुनः सकृदागामिफलं त्रयाणाम् संयोजनानां प्रहाणाद् रागद्वेषमोहानां च तनुत्वाद् भगवता व्यवस्थापितम्, पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिफलम्, पर्यादाय सर्वक्लेशप्रहाणाद् अर्हत्त्वफलम् / इदम् उच्यते भावनाफलम् //

-ii-13-b ms.92b7l, sh.334-6, p.149b2, d.122a2, n.129a1, co.126a5, ch.445c28 तत्र ये रागद्वेषमोहमानवितर्कचरितेषु पुद्गलेषु पूर्वं तावच् (श्भ् इइ 242) चरितविशोधन आलम्बने चरितं विशोधयितव्यं ततः पश्चाच् चित्तस्थितिम् अधिगच्छन्ति / तेषां प्रतिनियतम् एव तद् आलम्बनम् अवश्यं तैस् तेनालम्बनेन प्रयोक्तव्यम् /

समभागचरितस्य तु यत्र प्रियारोहिता तत्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये, न तु चरितविशुद्धये / यथा समभागचरित एवं मन्दरजस्को वेदितव्यः /

अयं त्व् एषां विशेष्ः / रागादिचरितः प्रयुज्यमानश् चिरेणाधिगन्ता भवति, समभागचरितो नातिचिरेण, मन्दरजस्कस् त्व् आशु त्वरितत्वरितं चित्तस्थितिम् अधिगच्छति //

-ii-13-b-(1) ms.93a2l, sh.334-16, p.149b6, d.122a6, n.129a5, co.126b1, ch.446a8 तत्रोक्तानि पूर्वं रागादिचरितानां पुद्गलानां लिङ्गानि / समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिङ्गानि / आह / समभागचरितस्य पुद्गलस्य सर्वाणि तानि लिङ्गानि संविद्यन्ते यानि रागादिचरितानाम्, तानि रागादीनि तु नाधिमात्राणि न प्रधानानि यथा रागादिचरितानाम् / समप्राप्तानि तानि भवन्ति, प्रत्ययेषु सत्सु प्रज्ञायन्ते //

-ii-13-b-(2) ms.93a3l, sh.335-2, p.149b8, d.122a7, n.129a7, co.126b3, ch.446a13 तत्र मन्दरजस्कस्य पुद्गलस्य लिङ्गानि / अनावृतो भवत्य् आदिशुद्धसंभारसंभृतः / प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश् च भवति //

-ii-13-b-(2)-i ms.93a3m, sh.335-5, w.*102-18, p.150a1, d.122b1, n.129b1, co.126b4, ch.446a16 तत्र त्रीण्य् आवरणानि कर्मावरणं क्लेशावरणं विपाकावरणम् /

तत्र कर्मावरणं पञ्चानन्तर्याणि कर्माणि / यच् चान्यद् अपि किंचित् कर्म संचेतनीयं गुरुकर्म विपक्वविपाकं मार्गोत्पत्तये निबन्धकारकम् /

तत्र क्लेशावरणं तीव्रक्लेशतायतक्लेशता च / या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुम् /

तत्र विपाकावरणं यत्रार्यमार्गस्याप्रवृत्तिर् अप्रचार उपपत्त्यायतने, तत्र वा विपाकम् अभिनिर्वर्तयति / यत्र वार्यमार्गस्य प्रवृत्तिः प्रचारः, तत्रोपपन्नो जडो भवत्य् एडमूको हस्तसंवाचिकः, अप्रतिबलो भवति सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुम् //

-ii-13-b-(2)-ii ms.93a5m, sh.335-17, p.150a5, d.122b5, n.129a4, co.126b7, ch.446a27 तत्रादिशुद्धिः शीलं च सुविशुद्धं दृष्टिश् च ऋज्वी /

तत्र शीलं सुविशुद्धं दशभिः कारणैर् वेदितव्यम् /

तत्र दृष्ट्यृजुता, श्रद्धां संप्रयोगात्, अधिमुक्तिसंप्रयोगात्, विगतमायाशाठ्यतया, सुचिन्तितधर्मार्थस्य निःकाङ्क्षानिर्विचिकित्साप्रयोगनिर्याणतया / (श्भ् इइ 246)

या दृष्टिः श्रद्धया संप्रयुक्ता, अस्माद् धर्मविनयाद् असंहार्या भवति /

अधिमुक्त्या च संप्रयुक्ता, बुद्धानां बुद्धश्रावकाणां च, अचिन्त्यम् अनुभावम्, अचिन्त्यानि चोपपत्त्यायतनानि, गम्भीरां च देशनाम्, अव्याकृतवस्तु चाधिमुच्यते, नोत्त्रसति, न संत्रासम् आपद्यते /

विगतमायाशाठ्या च या दृष्टिः, यया ऋजुको भवति / ऋजुकजातीयो यथानुशिष्टश् च प्रतिपद्यते, यथाभूतं चात्मानम् आविष्करोति /

धर्माणां वानित्यताम् आरभ्य दुःखतां शून्यताम् अनात्मताम् अर्थः सुविचिन्तितो भवति सुतुलितः सूपपरीक्षितः, यद्धेतोर् अयं निःकाङ्क्षो भवति निर्विचिकित्सः, द्वेधापथापगतो विशेषाय परैति /

इतीयं चतुराकारा दृष्टिर् यथोद्दिष्टा दृष्ट्यृजुतेत्य् उच्यते //

-ii-13-b-(2)-iii ms.93a8m, sh.336-19, p.150b3, d.123a3, n.130a3, co.127a5, ch.446b12 तत्र संभारसंभृतता, विस्तरेण संभारः पूर्वम् एव निर्दिष्टः / समासतः पुनश् चतुर्विधो भवति / पुण्यसंभारो ज्ञानसंभारः पूर्वको दृष्टधार्मिकश् च /

तत्र पुण्यसंभारो येनाप्य् एतर्ह्य् आनुलोमिकाः परिष्काराः प्रचुरा भवन्ति प्रदक्षिणाः, कल्याणमित्राणि च प्रतिलभते, अनन्तरायश् च प्रयुक्तस्य भवति /

तत्र ज्ञानसंभारो येन मेधावी भवति, प्रतिबलः सुभाषितदुर्भाषितानां (श्भ् इइ 248) धर्माणाम् अर्थम् आज्ञातुम्, लाभी भवत्य् आनुलोमिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः /

तत्र पूर्वको येनैतर्हि परिपक्वानीन्द्रियाणि लभते पूर्वकुशलमूलोपचयात् /

तत्र दृष्टधार्मिकस् तद्यथा कुशलो धर्मच्छन्दः, तथा परिपक्वेन्द्रियस्य शीलसंवर इन्द्रियसंवर इति विस्तरेण पूर्ववत् //

-ii-13-b-(2)-iv ms.93b2r, sh.337-14, p.150b8, d.123a6, n.130a7, co.127b2, ch.446b22 तत्र प्रसादबहुलता, न शास्तरि काङ्क्षति न विचिकित्सति प्रसीदत्य् अधिमुच्यते, यथा शास्तर्य् एवं धर्मे शिक्षायाम् / इति विस्तरेण पूर्ववत् //

-ii-13-b-(2)-v ms.93b3m, sh.337-17, p.151a1, d.123a7, n.130b1, co.127b3, ch.446b25 तत्र मेधा ययाशु धर्मम् उद्गृह्णाति, चिरेण धर्मम् अर्थं च न विस्मारयति, आशु धर्मम् अर्थं च प्रतिविध्यति //

-ii-13-b-(2)-vi ms.93b3r, sh.338-1, p.151a2, d.123b1, n.130b1, co.127b4, ch.446b27 तत्र कृतपुण्यता ययाभिरूपो भवति दर्शनीयः प्रासादिको दीर्घायुर् भवति, आदेयवाक्यो महेशाख्यो ज्ञातो भवति महापुण्यो लाभी चीवरादीनाम्, सत्कृतो गुरुकृतश् च राजादीनाम् //

-ii-13-b-(2)-vii ms.93b4m, sh.338-5, w.102-26, p.151a4, d.123b2, n.130b3, co.127b5, ch.446c2 तत्र गुणान्वित इति गुणा अल्पेच्छतादयो वेदितव्याः, यथोक्ताः श्रमणालंकारे, तैर् अयं प्रकृत्यैव समन्वागतो भवति /

इतीमान्य् एवंभागीयानि मन्दरजस्कस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //

(ii)-a-ii-14-a ms.93b5l, sh.338-9, w.*103-1, p.151a5, d.123b3, n.130b4, co.127b6, ch.446c6 तत्र षट् पुद्गलपर्यायाः / कतमे षट् / तद्यथा श्रमणो ब्राह्मणो ब्रह्मचारी भिक्षुर् यतिः प्रव्रजितश् चेति //

-ii-14-a-(1) ms.93b5m, sh.338-11, w.*103-7, p.151a6, d.123b4, n.130b5, co.127b7, ch.446c8 तत्र चत्वारः श्रमणाः / मार्गजिनः, मार्गदेशिकः, मार्गजीवी, मार्गदूषी च /

तत्र यः सुगतः स मार्गजिनः, यो धर्मवादी स मार्गदेशिकः, यः सुप्रतिपन्नः स मार्गजीवी, यो मिथ्याप्रतिपन्नः स मार्गदूषी /

सुगतश् चोच्यते यो ऽशेषं रागद्वेषमोहक्षयम् अनुप्राप्तः / धर्मवादी यो रागद्वेषमोहविनयाय धर्मं देशयति / सुप्रतिपन्नो यो रागद्वेषमोहविनयाय प्रतिपन्नः / दुःशीलपापधर्मा मिथ्याप्रतिपन्नः /

अपि च शैक्षाशैक्षा मार्गजिना इत्य् उच्यन्ते, दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात् /

तत्र तथागतो बोधिसत्त्वाश् चायत्यां बोधाय प्रतिपन्नाः / श्रावकाश् च सूत्रधरा विनयधरा मातृकाधराश् च, ये सांकेतिकं धर्मविनयं धारयन्ति, धर्मनेत्रीं प्रवर्तयन्ति / इम उच्यन्ते मार्गदेशिकाः /

तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना लज्जिनाः कौकृतिकाः शिक्षाकामाः / अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता, भव्याश् च प्रतिबला यावद् असाक्षात्कृतस्य (श्भ् इइ 252) साक्षात्क्रियायै / इम उच्यन्ते मार्गजीविनः /

अप्य् एषाम् ऊष्मा येनेम आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये न मृता जीवन्तीत्य् उच्यन्ते / तेनोच्यन्ते मार्गजीविन इति /

तत्र यो ऽयं पुद्गलो दुःशीलः पापधर्मा यावद् अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः / अयम् उच्यते मार्गदूषी / दूषितो ऽनेन मार्गो भवति मूलत आदितः / येनायम् अभव्यो भवत्य् अप्रतिबलः, अभाजनभूतो मार्गस्योत्पत्तये, सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमाने ऽधिगमे / तस्मान् मार्गदूषीत्य् उच्यते /

इदं च संधायोक्तं भगवता / इह प्रथमः श्रमणः, इह यावच् चतुर्थः, शून्याः परप्रवादाः श्रमणैर् ब्राह्मणैश् च / यत्रार्याष्टाङ्गो मार्गः प्रज्ञायते तत्र प्रथमश्रमणस् तत्र यावच् चतुर्थ इति //

-ii-14-a-(2) ms. 94a2r, sh.340-6, w. 103-20, p.152a2, d.124a7, n.131b1, co.128b3, ch.447a6 tatra trayo brāhmaṇāḥ / tadyathā jātibrāhmaṇaḥ, saṃjñābrāhmaṇaḥ, pratipattibrāhmaṇaś ca /

तत्र जातिब्राह्मणः, यो ऽयं ब्राह्मणकुले जातो योनिजो मातृसंभूतः, उपेतो मातृतः पितृतः /

तत्र संज्ञाब्राह्मण इति लोके नाम भवति संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारः /

तत्र प्रतिपत्तिब्राह्मणः, यो ऽत्यन्तनिष्ठो भवति कृतार्थः / वाहिता भवन्त्य् अनेन पापका अकुशला धर्माः / यथोक्तं न कार्यं ब्राह्मणस्यास्ति कृतार्थो ब्राह्मणः स्मृत इति //

-ii-14-a-(3) ms.94a4m, स्ह्,341-3, p.152a4, d.124b2, n.131b3, co.128b5, ch.447a13 तत्र त्रयो ब्रह्मचारिणः / तद्यथा विरतिसमादायी तदन्तरप्रहायी तदत्यन्तप्रहायी च /

तत्र विरतिसमादायी, यो ब्रह्मचर्याद् मैथुनधर्मात् प्रतिविरतो भवति समादत्तशिक्षः / तत्र तदन्तरप्रहायी, यो लौकिकेन मार्गेण कामवीतरागः पृथग्जनः / तत्र तदत्यन्तप्रहायी, तद्यथानागामी, अर्हन् वा पुनः //

-ii-14-a-(4) ms.94a5l, sh.341-10, p.152a7, d.124b4, n.131b6, co.128b7, ch.447a19 तत्र पञ्च भिक्षवः / भिक्षतीति भिक्षुः, प्रतिज्ञाभिक्षुः, संज्ञाभिक्षुः, भिन्नक्लेशत्वाद् भिक्षुः, ज्ञप्तिचतुर्थेन कर्मणोपसंपादितो भिक्षुः //

-ii-14-a-(5) ms.94a5r, sh.341-13, p.152a8, d.124b5, n.131b7, co.129a1, ch.447a21 तत्र त्रयो यतयः / दौःशील्यसंयमाद् यतिः, यो ऽकुशलात् कायवाक्कर्मणः प्रतिविरतः /

विषयसंयमाद् यतिः, य इन्द्रियैर् गुप्तद्वारः, आरक्षितस्मृतिर् निपकस्मृतिर् विस्तरेण पूर्ववत् /

क्लेशसंयमाद् यतिः, यस्य दर्शनभावनाप्रहातव्याः क्लेशाः प्रहीणाः, (श्भ् इइ 256) उत्पन्नोत्पन्नं च छन्दवितर्कं व्यापादविहिंसावितर्कम्, अभिध्याव्यापादमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्य् आपायिकानि स्थानानि नैरयिकाणि दुर्गतिगामीन्य् अश्रमणकारकाण्य् उत्पन्नोत्पन्नानि, नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति / सो ऽयं द्विविधः क्लेशसंयमो भवति / पर्यवस्थानसंयमः, अनुशयसंयमश् च //

-ii-14-a-(6) ms.94a7m, sh.342-2, p.152b5, d.125a3, n.132a4, co.129a6, ch.447b2 तत्र द्वौ प्रव्रजितौ / स्वाख्यातधर्मविनयो दुराख्यातधर्मविनयश् च /

तत्र स्वाख्यातधर्मविनयः / भिक्षुभिक्षुणी शिक्षमाणा श्रामणेरश्रामणेरी, अपि च प्रव्राजयत्य् आत्मनः पापकान् अकुशलान् धर्मान्, स प्रव्रजित इत्य् उच्यते परमार्थतः /

तत्र दुराख्यातधर्मविनयः / तद्यथा तीर्थिकपरिव्राजो निर्ग्रन्थो वा परिव्राजकः पाण्डुरक इति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः /

तेनाह श्रमणो ब्राह्मणो ब्रह्मचारी भिक्षुर् यतिः प्रव्रजित इति पुद्गलपर्यायाः //

-ii-14-b ms.94a9l, sh.342-11, w.*104-33, p.153a1, d.125a6, n.132b1, co.129b2, ch.447b13 तत्राष्टौ पुद्गलाः / चत्वारि पुद्गलव्यवस्थाननिदानानि /

कतमे ऽष्टौ पुद्गलाः / तद्यथा समर्थो ऽसमर्थः / उपायज्ञो ऽनुपायज्ञः / साततिको ऽसाततिकः / कृतपरिचयो ऽकृतपरिचयश् चेति /

तत्र चत्वारि पुद्गलव्यवस्थाननिदानानि, एषाम् एवाष्टानां पुद्गलानां व्यवस्थानाय चत्वारि प्रभेदनिदानानि भवन्ति / तद्यथेन्द्रियप्रभेदः परिपक्वेन्द्रियो ऽपरिपक्वेन्द्रियश् च / योगप्रभेदो योगज्ञो ऽयोगज्ञश् च / प्रयोगभेदः सातत्यसत्कृत्य न सातत्यसत्कृत्य प्रयुक्तश् च / कालप्रभेदो दीर्घकालभावितमार्गो न दीर्घकालभावितमार्गश् च /

इतीमे चत्वारः प्रभेदाः कथं निदानानि भवन्त्य् अष्टानां पुद्गलानां व्यवस्थानाय / तत्र यः परिपक्वेन्द्रियो ऽयं समर्थः / अपरिपक्वेन्द्रियो ऽसमर्थः / योगज्ञ उपायज्ञकुशलः / अयोगज्ञो ऽनुपायज्ञकुशल इत्य् अर्थः / सातत्यसत्कृत्य प्रयोगी साततिको निपक इत्य् उच्यते / असातत्यसत्कृत्य प्रयोग्य् असाततिको ऽनिपक इत्य् उच्यते / दीर्घकालभावितमार्गः कृतपरिचयः / न दीर्घकालभावितमार्गो ऽकृतपरिचयः /

इत्य् एवम् इन्द्रियप्रभेदेन योगप्रयोगकालप्रभेदेनाष्टानां पुद्गलानां व्यवस्थानम् /

यो यावत् पुद्गलो ऽपरिपक्वेन्द्रियः, स तावद् उपायज्ञो ऽपि साततिको ऽपि कृतपरिचयो ऽपि, नाराधको भवति न्याय्यस्य धर्मस्य कुशलस्य /

तत्र परिपक्वेन्द्रियश् चेद् भवति न चोपायज्ञो भवति, नाराधको भवति /

परिपक्वेन्द्रियो भवत्य् उपायज्ञो न सततिको न क्षिप्राभिज्ञो भवति /

तत्र परिपक्वेन्द्रियो भवत्य् उपायज्ञो साततिको न कृतपरिचयः, न तावत् कृतस्वार्थो भवति कृतकृत्यः /

यतश् च परिपक्वेन्द्रियो भवत्य् उपायज्ञः साततिकः कृतपरिचयश् च भवति, एवं स आराधको भवति, क्षिप्राभिज्ञश् च, कृतस्वकार्थश् च भवति कृतकृत्यः //

(ii)-a-ii-15 ms.94b5l, sh.343-10, w.*105-1, p.153b5, d.126a1, n.133a4, co.130a4, ch.447c15 तत्र चत्वारो माराः संबहुलानि मारकर्माणि वेदितव्यानि योगिना योगप्रयुक्तेन / ते च परिज्ञाय परिवर्जयितव्याः /

तत्र चत्वारो माराः / तद्यथा स्कन्धमारः, क्लेशमारः, मरणमारः, देवपुत्रमारश् च / पञ्चोपादानस्कन्धाः स्कन्धमारः / त्रैधातुकावचराः क्लेशाः क्लेशमारः / तेषां तेषां सत्त्वानां तस्मात् तस्मात् सत्त्वनिकायाद् यन् मरणं कालक्रिया मरणमारः / यो ऽस्य कुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्र ऐश्वर्यप्राप्तः, अन्तरायम् उपसंहरति व्याक्षेपकरणे, अयम् उच्यते देवपुत्रमारः /

तत्र यत्र च म्रियते, येन च म्रियते, यश् चासौ मृत्युः, येन च मृत्युं न समतिक्रामत्य् अन्तरायिकेन वस्तुना / इत्य् एतद् अधिकृत्य चत्वारो मारा व्यवस्थापिताः / तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्तमानेषु म्रियते / क्लेशाज् जनयत्य् आयत्याम्, जातश् च म्रियते / च्युतिश् च च्यवनता सत्त्वानां जीवितेन्द्रियनिरोधः कालक्रिया स्वभावत एव मृत्युः / देवपुत्रमारश् च मरणसमतिक्रमाय प्रयुक्तस्यान्तरायम् उपसंहरति / येन नैव वा शक्नोति मरणधर्मतां समतिक्रमितुम्, कालान्तरेण वा समतिक्रामति /

तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जन (श्भ् इइ 264) इहस्थस् तत्रोपपन्नो वा / वशगतः पुनर् यो ऽवीतरागः / तत्र यो ऽवीतरगः, स एव हस्तगतो यथाकामकरणीयः / वीतरागो वा पुनर् बद्धो मारबन्धनैः, अपरिमुक्तो मारपाशैः, यस्मात् स पुनर् अप्य् आगन्ता इमां धातुम् //

(ii)-a-ii-16 ms.94b9m, sh.345-22, p.154a6, d.126b2, n.133b5, co.130b6, ch.448a7 तत्र मारकर्माणि, यस्य कस्यचित् कुशलो धर्मच्छन्दः समुत्पन्नो नैष्क्रम्योपसंहितः कामग्रेधम् अधिपतिं कृत्वा प्रवर्तते, वेदितव्यं मारकर्मैतद् इति /

इन्द्रियैर् गुप्तद्वारस्य विहरतः, यस्य रञ्जनीयेषु रूपेषु शब्दगन्धरसस्प्रष्टव्यधर्मेषु निमित्तग्राहितायाम् अनुव्यञ्जनग्राहितायां चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतद् इति /

एवं भोजनेषु मात्रज्ञस्य विहरतः, प्रणीतेषु रसेषु छन्दरागम् अनुनयेन चित्तं प्रस्कन्दति भक्तवैषम्ये /

एवं पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तस्य विहरतः, निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतद् इति /

तथा संप्रजानद्विहारिणो विहरतः, अभिक्रमप्रतिक्रमादिषु शिशुम् उदारवर्णं रञ्जनीयं मातृग्रामं दृष्ट्वायोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति / लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति / बह्वर्थतायां बहुकृत्यतायां चित्तं प्रस्कन्दति / तद्यथा गृहस्थप्रव्रजितैः संसर्गरामतायां पापमित्रैः सहैकव्यवसितायां दृष्ट्यनुमतये चित्तं प्रस्कन्दति / वेदितव्यं मारकर्मैतद् इति /

तथा बुद्धे धर्मे संघे, दुःखे समुदये निरोधे मार्गे, इहलोके परलोके, काङ्क्षा विमतय उत्पद्यन्ते, वेदितव्यं मारकर्मैतद् इति /

अरण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, महान्तं भयभैरवं पश्यति / उत्त्रासकरं रोमहर्षणम्, ब्राह्मणवेषेण वा, मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिद् उपसंक्रम्यायोनिशः शुक्लपक्षाद् विच्छिन्दयति कृष्णपक्षे च समादापयति, वेदितव्यं मारकर्मैतद् इति /

यदा लाभसत्कारे चित्तं प्रस्कन्दति, मात्सर्ये महेच्छतायाम् असंतुष्टौ क्रोधोपनाहकुहनालपनादिषु श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतद् इति /

इतीमान्य् एवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगम् //

(ii)-a-ii-17 ms.95a5r, sh.347-9, w.*105-8, p.155a3, d.127a6, n.134b2, co.131b2, ch.448b4 तत्र त्रिभिः कारणैः सम्यक्प्रयुक्तस्याप्य् आरम्भो विफलो भवति / तद्यथा इन्द्रियसमुदागमेन, अनुलोमाववादेन, समाधिदुर्बलतया च /

इन्द्रियाणि चेन् न समुदागतानि, आनुलोमिकश् चाववादो भवति, समाधिश् च केवलवान्, एवम् अस्यारम्भो विफलो भवति /

इन्द्रियाणि चेन् न समुदागतानि भवन्ति, अववादश् च नानुलोमिको भवति, समाधिश् च बलवान् भवति, एवारम्भो विफलः /

इन्द्रियाणि चेत् समुदागतानि, नाववादश् चानुलोमिको भवति, समाधिश् च दुर्बलो भवति, एवारम्भो विफलः /

इन्द्रियाणि चेत् समुदागतानि भवन्ति, आनुलोमिकश् चाववादो भवति, समाधिश् च दुर्बलो भवति, एवारम्भो विफलः /

इन्द्रियाणि चेत् समुदागतानि भवन्ति, आनुलोमिकश् चाववादः, समाधिश् च बलवान्, एवम् अस्यारम्भः सफलो भवति / एभिस् त्रिभिः कारणैर् विफलो भवति, त्रिभिर् एव कारणैः सफलः //

// उद्दानम् //

पुद्गलास् तद्व्यवस्थानम् अथ आलम्बनेन च / अववादश् च शिक्षा च तथा शिक्षानुलोमिकाः / योगभ्रंशश् च योगश् च मनस्कारश् च योगिनः / करणीयं भावना च फलं पुद्गलपर्यायः / मारश् च मारकर्माणि आरम्भो विफलो भवेत् //

// योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम् //

appendix i asamāhitā bhūmiḥ

म्स्. ब्*अ1ल्-ब्*अ6ल्, प्. 181ब्7-182ब्7, d. 159अ6-160अ4, छ्. 344ब्19-च्15, देल्. 134-136. असमाहिता भूमिः कतमा / सा समासतो द्वादशाकारा वेदितव्या /

अस्त्य् असमाहिता भूमिः स्वभावतो ऽसमाहिता तद्यथा पञ्च विज्ञानकायाः /

अस्त्य् असमाहिता भूमिः प्रस्रब्धिवैकल्यात् तद्यथा कामावचाराश् चित्तचैतसिका धर्माः, सत्याम् अपि चित्तैकाग्रतायां ते चित्तचैतसिका धर्मा न प्रस्रब्ध्युपगूढाः प्रवर्तन्ते, इति येन सा असमाहितेत्य् उच्यते /

अस्त्य् असमाहिता भूमिर् अनारम्भात् तद्यथा कामोपभोगिनाम् अध्यवसितानां कामेषु कामान् उपभुञ्जानानाम् /

अस्त्य् असमाहिता भूमिर् विक्षेपात् तद्यथादिकर्मिकाणां समाधिप्रयुक्तानां पञ्चसु कामगुणेष्व् अनुविक्षिप्ते ऽनुविसृते चेतसि /

अस्त्य् असमाहिता भूमिः संक्षेपात् तद्यथादिकर्मिकाणाम् एव समाधिप्रयुक्तानाम् अध्यात्मम् अभिसंक्षिप्ते चेतसि स्त्यानमिद्धाभिभवतः /

अस्त्य् असमाहिता भूमिर् अप्रतिलम्भात् तद्यथा तेषाम् एउआदिकर्मिकाणां समाधिप्रयुक्तानां विक्षेपसंक्षेपानुपक्लिष्टे ऽपि चेतस्य् अलब्धमनस्काराणां ये चित्तचैतसिका धर्माः /

अस्त्य् असमाहिता भूमिर् अपरिपूर्णत्वात् तद्यथा लब्धमनस्काराणाम् अलब्धप्रयोगनिष्ठामनस्काराणाम् अलब्धतत्फलानां च /

अस्त्य् असमाहिता भूमिः संक्लेशात् तद्यथा लब्धप्रयोगनिष्ठाफलमनस्काराणाम् अन्यतमान्यतमेनास्वादादिकेनोपक्लेशेनोपक्लिष्टे चेतसि /

अस्त्य् असमाहिता भूमिर् अवशित्वात् तद्यथा लब्धप्रयोगनिष्ठाफलमनस्काराणाम् (श्भ् इइ 278) एवासंक्लिष्टचेतसाम् अपि समापत्तिस्थितिव्युत्थाननिमित्तेष्व् अवशिताप्राप्तानां निकामाकृच्छ्राकिसरालाभिनाम् /

अस्त्य् असमाहिता भूमिर् अविशुद्धेस् तद्यथा निकामाकृच्छ्राकिसरलाभिनाम् अपि लौकिकसमापत्तॄणाम् असमुद्घातितक्लेशानुशयाश् चित्तचैतसिका धर्माः /

अस्त्य् असमाहिता भूमिर् व्युत्थानात् तद्यथा प्रतिलब्धात् समाधेर् व्युत्थितस्यापरिहीणस्य /

अस्त्य् असमाहिता भूमिः परिहाणेस् तद्यथा प्रतिलब्धात् समाधेः परिहीणस्य //

योगाचारभूमाव् असमाहिता भूमिः समाप्ता // //

appendix ii śrutamayī bhūmiḥ

a. i-1 p.209a1,d.182b2, n.195b3, ch.354a6 [chos bdun po 'di dag ni bden pa yaṅ dag pa ji lta ba bźin du mṅon par rtogs śiṅ rnam par grol ba yoṅs su rdsogs par 'gyur ba yin te / lhag mthoṅ gi phyogs gsum ste / chos rnam par 'byed pa daṅ / brtson 'grus daṅ / dga' ba daṅ / źi gnas kyi phyogs gsum ste / śin tu sbyaṅs pa daṅ / tiṅ ṅe 'dzin daṅ / btaṅ sñoms daṅ / gcig ni źi gnas daṅ / lhag mthoṅ gi phyogs te / 'di sta ste dran pa'o //

a. i-2 p.209a3, d.182b3, n.195b5, ch.354a10 dbaṅ po daṅ / 'bras bu daṅ / rnam par thar ba las gaṅ zag bdun du rnam par bźag par rig par bya ste / źugs pa'i lam la dbaṅ po rtul po daṅ / dbaṅ po rnon po dad pa daṅ / chos kyi rjes su 'braṅ ba gñis daṅ / 'bras bu'i lam la / de gñis ñid dad pas mos pa daṅ / lta bas thob pa daṅ / sñoms par 'jug pa'i sgrib pa las ni rnam par grol la / ñon moṅs pa'i sgrib pa las ni rnam par ma grol ba ste / lus kyi mṅon sum du byed pa daṅ / ñon moṅs pa'i sgrib pa las ni rnam par grol la / sñoms par 'jug pa'i sgrib pa las ni rnam par ma grol ba ste / śes rab kyis rnam par grol ba daṅ / sñoms par 'jug pa daṅ / ñon moṅs pa gñi ga'i sgrib pa las rnam par grol ba ste / gñi ga'i cha las rnam par grol ba'o //

अ. इ-3 p.209a7, d.182b6, n.196a1, ch.354a16 र्ग्यु ग्सुम् पो र्नम् प ब्दुन् पो ऽदि दग् नि नङ् गि सेम्स् म्ञम् पर् ऽजोग् चिङ् / यङ् दग् पर् सेम्स् र्त्से ग्चिग् तु ब्येद् पर् ऽग्युर् ब स्ते / ऽजुग् पर् ब्येद् प दङ् / ग्नस् प दङ् म्थुन् प दङ् / स्दुद् पर् ब्येद् पऽओ //

'jig rten pa'i yaṅ dag pa'i lta ba sbyin pa yod do / źes bya ba la sogs pa'i rnam pa daṅ / de dag ñid la brten nas khyim gyi gnas ni kun tu (zśbh ii 286) gnod pa'o // khyim ni skyon yin no / źes bya ba la sogs pa'i rnam pa ste / mṅon par byuṅ ba daṅ ldan pa'i yaṅ dag pa'i rtog pa ni 'jug par byed pa'o) //

źugs zin nas yaṅ dag pa'i ṅag daṅ / las daṅ 'tsho ba yaṅ dag par blaṅs pa ni gnas pa daṅ mthun pa'o //

ऽजुग् पर् ब्येद् पऽइ र्ग्यु दङ् / ग्नस् प दङ् म्थुन् पऽइ र्ग्यु देऽइ ऽओग् तु त्स्हुल् ब्źइन् यिद् ल ब्येद् प दङ् ल्दन् प न यङ् दग् पऽइ र्त्सोल् ब दङ् / द्रन् प गङ् यिन् प दे नि स्दुद् पर् ब्येद् पऽइ र्ग्यु यिन् पर् रिग् पर् ब्यऽओ //

अ. इ-4 p.209b3, d.183a2, n.196a5, ch.354a23 ऽ ऽ ऽदोद् प ल ञे बर् स्प्योद् प र्नम्स् नि ऽदि ल्त बुऽइ फ्यिर् नोर् सोग्स् पर् ऽदोद् दे / ऽदि ल्तर् ब्दे ब ऽदोद् प खो नऽइ फ्यिर् यिन् ल / ब्दे ब ब्दुन् पो ऽदि दग् नि ऽफग्स् पऽइ नोर् ब्दुन् लस् ब्युङ् ब स्ते / दे दग् नि फल् पऽइ नोर् कुन् तु ब्सग्स् प थम्स् चद् क्यिस् थोब् पर् मि ऽग्युर् ब स्ते /

dad pa daṅ ldan pa'i bde ba daṅ / bde 'gror skye ba las byuṅ ba daṅ / bdag gi cha ma yin pa la ltos nas / kha na ma tho ba kun tu mi spyod pas 'gyod pa med pa las byuṅ ba daṅ / de bźin du gźan gyis smad pa la ltos pa daṅ / chos daṅ don legs par rtogs pa daṅ ldan pa'i bde ba daṅ / phyi ma la yo byad daṅ mi ldan pa med pa las byuṅ ba daṅ / don dam pa rtogs pa las byuṅ ba'i bde ba ste / rnam pa du ma kha na ma tho ba med pa'i bde ba 'di dag ni / 'jig rten pa'i nor kun tu bsags pa las rnam pa thams cad kyi thams cad du thob par mi 'gyur te / gźan du na tshe 'di ñid la yo byad kyis mi brel ba las byuṅ ba tsam du zad la de yaṅ kha na ma tho ba daṅ bcas pa yin no //

a. i-5 p.209b8, d. 183a6, n. 196b2, ch.354b4 bdun po 'di dag ni bdud daṅ ñon moṅs pa'i phyogs kyi stobs yin te / bstan pa la gnod par byed pa daṅ / ṅan 'gror 'gro ba'i ñes par spyod pa kun (śbh ii 288) tu spyod pa daṅ / bdag gi cha ma yin par mi lta ste / bar du gcod pa'i chos bsten pa daṅ / gźan gyis smad pa las mi lta ste / bar du gcod pa'i chos bsten pa daṅ / dge ba daṅ / mi dge ba daṅ / kha na ma tho ba daṅ bcas pa daṅ / kha na ma tho ba med pa daṅ / ṅan pa daṅ / bzaṅ po daṅ / nag po daṅ / dkar po'i rab tu dbye ba daṅ bcas pa'i rten ciṅ 'brel bar 'byuṅ ba'i chos rnams mi rtogs pa daṅ / ser sna'i dri mas zil gyis non pa'i sems kyis / snod spyad daṅ / yo byad maṅ po 'chaṅ ba daṅ / blun źiṅ blo chuṅ la śin tu rmoṅs pa'o /

bdud daṅ ñon moṅs pa'i phyogs kyi stobs 'di dag zil gyis mnan pa daṅ / rnam par bstsal ba'i phyir 'phags pa'i chos 'dul ba la dad pa la sogs pa'i stobs bdun po kho na yod par rig par bya'o //

अ. इ-6,-7 p.210a5, d.183b2, n.196b5, ch.354b11 दोन् दम् पऽइ छोस् म्य ङन् लस् ऽदस् पऽइ मि म्थुन् पऽइ फ्योग्स् क्यि छोस् ब्दुन् पो ऽदि दग् नि दम् पऽइ छोस् योङ्स् सु ऽग्रिब् चिङ् / नुब् पर् ऽग्युर् ब स्ते / दे दग् क्यङ् र्गुद् प र्नम् प ग्सुम् दु ऽदुस् ते /

ञे बर् स्प्यद् प र्गुद् प दङ् / ल्हग् पऽइ ब्सं प र्गुद् प दङ् / स्ब्योर् ब र्गुद् पऽओ /

de la chos gos la sogs pa bzaṅ po 'dod pa daṅ / maṅ po 'dod pa daṅ / de las byuṅ ba'i loṅs spyod ni ñe bar spyad pa rgud pa'o /

लम् दङ् लम् ग्यि ऽब्रस् बु म्य ङन् लस् ऽदस् प ल / म्ङोन् पर् यिद् मि छेस् प नि ल्हग् पऽइ ब्सम् प र्गुद् पऽओ //]

ms.15b6l, p.210a7, d.183b4, n.197a1, ch.354b16 कौसीद्यं मुषितस्मृतिता विक्षिप्तचित्तता दौष्प्रज्ञं प्रयोगविपत्तिः /

तत्र उपभोगविपत्तिर् लोभाकुशलमूलपक्ष्या / आशयप्रयोगविपत्तिः पुनर् मोहाकुशलमूलपक्ष्या / एतद्विपर्ययेण शुक्लपक्षो वेदितव्यः //

अ. इ-8 ms.15b6r, p.210b1, द्183ब्6, n.197a2, ch.354b19 सप्तेमे धर्माः परमार्थनिर्वाणपक्ष्याः सद्धर्मापरिहाणाय चिरस्थितिकतायै संवर्तन्ते / श्रुतमयी प्रज्ञा, चिन्तामयी, भावनामयी प्रज्ञा, आश्रयस्य विषमपरिहरणता, सम्यगामिषधर्मपर्येष्टिः, निरभिमानता, सत्कारार्हानर्हेषु सत्करणासत्करणाय पुद्गलप्रविचयः /

तत्र श्रुतम् अव्युत्पन्नस्यार्थस्य व्युत्पत्तये, चिन्ता सुनिश्चितार्थाभ्यूहनतायै, भावना क्लेशप्रहाणाय, आश्रयस्य विषमपरिहारः प्रहाणक्षमकर्मण्यतायै, सम्यगामिषधर्मपर्येषणा क्षिप्राभिज्ञतायै, निरभिमानतावरमात्राधिगमासंतुष्टये, पुद्गलविचयो ज्ञातमहापुण्यादीनाम् अस्पृहणतायै, अल्पेच्छादीनां च स्पृहणतायै //

अ. इ-9 ms.16a2m, p.210b7, d.184a3, n.197a7, ch.354c2 सप्तेमानि सत्त्वानाम् उपपत्त्यायतनानि येषु सत्त्वानां विज्ञानानि प्रवाहतः संमुखीकुर्वन्ते / अपायान् असंज्ञिसत्त्वान् नैवसंज्ञानासंज्ञायतनं स्थापयित्वा /

निर्वित्पदस्थानभूतत्वाद् अपाया न विज्ञानस्थितिः, एकान्तेन तत्र विज्ञानस्यासमुदाचारान् नासंज्ञिसत्त्वाः / समुदाचारासमुदाचारतो ऽनैकान्तिकत्वान् न नैवसंज्ञानासंज्ञायतनम् /

तत्र कायविसभागता कायनानात्वं संज्ञाविसभागता संज्ञनानात्वम्, एतद्विपर्ययाद् एकत्वकायता, एकत्वसंज्ञिता च वेदितव्या /

तत्र ब्रह्मलोकाद् अर्वाग् विसभागकायविचित्ररूपकायात्मभावप्रसवा / ब्रह्मलोके पुनस् तत्प्रथमाभिनिर्वृत्ता ये तेषाम् एवं भवति / "ब्रह्मणा वयं सृष्टाः" / ब्रह्मणो ऽप्य् एवं भवति / "मयैते सृष्टा" इतीयं तेषां संज्ञासभागता /

द्वितीयध्यानाद् ऊर्ध्वम् सर्वे ऽर्चिःसंनिभकायत्वाद् एकत्वकायाः / आभास्वरे पुनर् देवनिकाये पूर्वपश्चाद् उपपन्नानां भयाभयसंज्ञा ब्रह्मलोकदहार्चिर्दर्शनात् तेषां विसभागसंज्ञा वेदितव्या //

अ. इ-10 ms.16a5l, p.211a6, d.184b2, n.197b6, ch.354c17 सप्तभिः सत्त्वानां दौष्ठुल्यैः सर्वक्लेशपक्ष्यदौष्ठुल्यसंग्रहो वेदितव्यः, हीनधातुकरागद्वेषपक्ष्यम्, मध्यप्रणीतधातुरागपक्ष्यम् / हीनमध्यप्रणीतधातुकमानाविद्यादृष्टिविचिकित्सापक्ष्यं च दौष्ठुल्यम् //

अ. इ-11 ms.16a5r, p.211a8, d.184b3, n.198a1, ch.354c20 सप्तभिर् आकारैर् इतोबाह्यकानां दुराख्यातो धर्मविनयः सदोषो वेदितव्यः / व्युत्पत्तिदोषेण, चारित्रदोषेण, सन्निश्रयदोषेण, संकल्पदोषेण, व्यवसायदोषेण, अधिचित्तदोषेण, अधिप्रज्ञदोषेण /

किंचापीतोबाह्यकः श्रुतम् उद्गृह्णाति / तत् पुनश् चतुर्विपर्यासानुकूलत्वाद् उपारम्भेति / वादप्रतिमोक्षानुशंसकथाप्रत्युपस्थापनत्वाच् च तत्कृता व्युत्पत्तिः सदोषा / शीलम् आचाराजीवविपत्तिपरिगृहीतत्वात् स्वयं वानैर्याणिकत्वात् सदोषम् / मित्रं विपरीतमार्गदेशिकत्वात् सदोषम् / (श्भ् इइ 294) विवेको मिथ्यासंकल्पोपहतचित्तत्वात् सदोषः / व्यवसाय उपायविरहितत्वात् सदोषः / अधिचित्तं मुषितस्मृतेस् तृष्णामानाविद्याविचिकित्सोत्तराध्यायित्वात् सदोषम् / अधिप्रज्ञं द्वाषष्टिभिर् दृष्टिगतैर् उपहतत्वात् सदोषम् /

एतद्विपर्ययेण स्वाख्याते धर्मविनय एतान्य् एव सप्तवस्तूनि निर्दोषाणि वेदितव्यानि //

अ. इ-12 ms.16a8m, p.211b7, d.185a1, n.198a6, ch.355a4 सप्तेमे भिक्षूणाम् उत्पन्नस्याधिकरणस्य व्युपशमाय संवर्तन्ते / शेषं तद्यथा वस्तुसंग्रहण्याम् //

तत्रेमानि सप्तेत्य् अधिकरणानि / संमुखापत्तिव्युत्पादनाधिकरणम्, अतीतसंमुषितापत्तिव्युत्पादनाधिकरणम्, अस्वतन्त्र्यापत्तिव्युत्पादनाधिकरणम्, आपत्तिविमर्शाधिकरणम्, [ल्तुङ् ब ग्तन् ल ऽबेब्स् पस् र्त्सोद् ब दङ् / ब्दग् ञिद् क्यिस् ल्तुङ् ब ल ऽग्योद् प र्त्सोद् ब दङ् /] पक्षापरपक्षव्यवस्थितयोर् अन्योऽन्यम् आपत्तिचोदनापकर्षणाधिकरणम् // //

सप्तकैर् बुद्धवचने ज्ञेयाधिष्ठानम् // //

अ. इइ-1 ms.16b2l, प्,212अ3, d.185a3, n.198b2, ch.355a11 अष्टभिर् अङ्गैः संगृहीता भिक्षोर् निरवशेषसंप्रयोजनप्रहाणाय तिस्रो भावना वेदितव्याः / शीलभावना, समाधिभावना, प्रज्ञाभावना च / सम्यग्वाक्कर्मान्ताजीवैः शीलभावना, सम्यक्स्मृतिसमाधिभ्यां समाधिभावना, सम्यग्दृष्टिसंकल्पव्यायामैः प्रज्ञाभावना //

अ. इइ-2 ms.16b2r, p.212a5, d.185a5, n.198b4, ch.355a20 सफलम् सम्यक्प्रयोगम् अधिपतिं कृत्वा व्यवदानपक्ष्याणाम् अष्टानां पुद्गलानां व्यवस्थानं वेदितव्यम् / प्रतिपन्नकानां चतुर्णां फलस्थानां चतुर्णाम् //

अ. इइ-3 ms.16b3l, p.212a6, d.185a7, n.198b5, ch.355a21 द्वे इमे दाने अष्टाकारे वेदितव्ये, सदोषं च दानं निर्दोषं च दानम् /

तत्र सदोषं सप्ताकारम्, एकाकारं पुनर् निर्दोषम् / अस्ति दानं कौसीद्योपहतत्वात् सदोषम् / अस्त्य् अकामकारात् सदोषं सामिषदोषस्य दारिद्रभीतस्येश्वराभिलाषिणः / अस्त्य् अतीतसापेक्ष्यतया सदोषम् / अस्त्य् अनागताभिनन्दनतया सदोषम् / अस्त्य् अवज्ञादोषात् सदोषम् / अस्ति ज्ञाताभिलाषदोषात् सदोषम् / अस्त्य् उपभोगाभिलाषात् सदोषम् /

निर्दोषं पुनर् दानं निर्वाणपरिनामितं तत्संभारभृतम् / निरामिषचेतसो ऽपि सुगतिगमनायापि महाभोगताया अपि संवर्तते //

अ. इइ-4,-5 ms.16b4r, p.212b3, d.185b2, n.199a2, ch.355b6 चत्वारि स्थानान्य् अधिष्ठायाष्टसु कालेषु कौसीद्यं प्राविष्कुर्वन् वीर्यम् अनारभमानो वेदितव्यः, कुसीदजातीयो ऽयं पुद्गलो ऽनारब्धवीर्यजातीय इति /

पिण्डपातसन्निश्रयम् इतिकरणीयं चारिकविक्रमणं धातुवैषम्यं च / इतीमानि चत्वारि स्थानान्य् अधिष्ठाय प्रणीतप्रभूतभोजनकायगौरवकाले, परीत्तलूहभोजनकायक्लमकाले, इतिकरणीये प्रयोक्तुकामस्य बलानुरक्षणकाले, इतिकरणीयं कृतवतः श्रमकाले, चारिकां विप्रक्रमितुकामस्य बलानुरक्षणकाले, अभिप्रक्रान्तस्याध्वपरिश्रमकाले, व्याधितस्य व्याधिदुःखसन्निपातकाले, व्याधिव्युत्थितस्य श्रम्यागमनाशङ्काकाले, इति कुसीदजातीयः पुद्गलः / यावत् कौसीद्योपधिं न लभते, तावद् अस्य वीर्यमात्रकं प्रज्ञायते / यदा कौसीद्योपधिं लभते तदा त्वरितत्वरितं कौसीद्यं प्राविष्करोति / तस्मात् कुसीदजातीय इत्य् उच्यते / एतद्विपर्ययेण चत्वार्य् एवैतानि स्थानान्य् अधिष्ठाय, एष्व् एवाष्टसु कालेषु वीर्यम् आरभमाणः, अभिभूय कौसीद्यम् आरब्धवीर्यजातीयः पुद्गलो वेदितव्यः / स लभमानो ऽपि कौसीद्योपधिं वीर्यम् आरभते / प्राग् एवालभमानः / तस्माद् आरब्धवीर्यजातीय इत्य् उच्यते //

अ. इइ-6 ms.16b8l, p.213a2, d.186a1, n.199b1, ch.355b21 अष्टाव् इमे सम्यक्प्रणिधानपरिगृहीता इष्टोपपत्तिहेतवः / कामेष्व् अभ्युपपत्तिकोदयकामानां सर्वेण च सर्वं कामविवेकम् अनभिलषताम् अष्टप्रकारेष्टोपपत्त्यायतनोपपत्तये संवर्तन्ते / मनुष्यदुर्भगप्रणिहितं परीत्तं दानमयं शीलमयम् / एवं मनुष्यसुभगचातुर्महाराजकायिकत्रायस्त्रिंशयामतुषितनिर्माणरतिपरनिर्मितवशवर्तिदेवप्रणिहितं परीत्तं दानमयं च शीलमयम् //

अ. इइ-7 ms.17a1r, p.213a5, d.186a3, n.199b3, ch.355b25 चतुर्भिः कारणैर् मनुष्येषु चतसृणां तथागतस्य पर्षदां व्यवस्थानं वेदितव्यम् / त्रिभिः कारणैर् देवभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् / अग्र्याभिधानभूतत्वात्, दक्षिणीयसमन्तत्वात्, अपराधीनभोगवृत्तित्वात्, समुत्सृष्टभोगवृत्तित्वात्, एभिश् चतुर्भिः कारणैर् मनुष्यभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् / भूमिभागसन्निश्रितपर्यन्तत्वात्, कामधातुपर्यन्तत्वात्, वाक्संस्कारपर्यन्तत्वात् / देवभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् //

अ. इइ-8 ms.17a3l, p.213b1, d.186a6, n.199b6, ch.355c2 त्रिषु लौकिकेषु स्थानेषु वर्तमानो लोकः सततसमितम् अष्टाभिर् धर्मैः स्पृश्यते / इच्छायाम्, व्यवसाये, प्रत्यये च / इच्छायां वर्तमानो लाभेनापि स्पृश्यते, अलाभेनापि / व्यवसाये वर्तमानो पराभिमते वा परानभिमते वा, परोक्षागतेन वर्णावर्णवादेन स्पृश्यते, संमुखानुगतेन वा / प्रत्यये वर्तमानः पूर्वके दृष्टधार्मिके वा सुखप्रत्यये दुःखप्रत्यये वा सुखदुःखाभ्याम् स्पृश्यते //

अ. इइ-9 ms.17a4m, प्,213ब्4, d.186b1, n.200a1, ch.355c7 अष्टाव् इमे ऽनागामिनाम् अर्हतां वाधिमोक्षा आर्यप्रभावमहाविहाराभिनिर्हाराय संवर्तन्ते / अविभूयाध्यात्मं रूपसंज्ञां बहिरसंक्लिष्टरूपाधिमोक्षः / विभूयाध्यात्मं रूपसंज्ञां द्वितीयः / शुभाशुभाद्वयरूपपरमोपेक्षाधिमोक्षः / इतीमे त्रयो ऽधिमोक्षाः सर्वरूपवशित्वायार्यर्द्धिनिर्हाराय (श्भ् इइ 302) संवर्तन्ते / येयम् ऋद्धिर् असाधारणा सर्वपृथग्जनैः / आकाशानन्ताधिमोक्षः, विज्ञानानन्ताधिमोक्षः, आकिञ्चनाधिमोक्षः, नैवसंज्ञानासंज्ञायतनाधिमोक्षः, सूक्ष्मसूक्ष्मस्वरसवाहिचित्ताधिमोक्षश् च, इतीमे पञ्चाधिमोक्षा अनुपूर्वेण सुपरिकर्मकृताः संज्ञावेदयितनिरोधसमापत्तिपरमविहारनिर्हाराय संवर्तन्ते //

a. ii-10 ms.17a6m, p.214a1, d.186b5, n.200a6, ch.355c16 yāni ca rūpāṇi paśyati yathā ca paśyati, triṣu vimokṣeṣu prathameṣu prayukta iti vimokṣatrayaprayogamārgaṃ saṃjānāti, aṣṭāv abhibhvāyatanāni veditavyāni / tatra parīttāni mahadgatāni suvarṇadurvarṇāni hīnapraṇītāni rūpāṇi paśyati bahirdhāsamāhitagocarāṇy ābhāsaprāptāni / samādhigocarālambanena manasikāreṇānābhāsagatāyām abhibhūya, śamathākāreṇa tāni samādhigocarāni [śes so / lhag mthoṅ gi rnam pas ni mthoṅ ste / tiṅ ṅe 'dzin gyi spyod yul de dag ji ltar] jānāti paśyati / yathā tāni tena vimṛṣṭāni bhavanty upalakṣitāni tathā saṃjñiteṣu bahirdhāsamādhigocareṣu bhavati / evaṃ tāni rupāṇi paśyati /

अष्टकैर् बुद्धवचनज्ञेयाधिष्ठानं समाप्तम् //

अ. इइल्-1 ms.17a8r, p.214a6, d.187a1, n.200b3, ch.355c26 नवानां संयोजनानां व्यवस्थानं वेदितव्यम् / वस्तुसंग्रहण्याम् /

अ. इइल्-2 ms.17b1l, p.214a7, d.187a2, n.200b4, ch.355c27 नवेमान्य् उपपत्त्यायतनानि येषूपपन्नानां सत्त्वानां तत्र तत्र समानसंवासता प्रज्ञायते / स्थापयित्वापायान् पूर्वस्मिन् निर्वित्पदस्थानभूतत्वात् //

नवकैर् बुद्धवचनज्ञेयाधिष्ठानं समाप्तम् // //

अ. इव्-1 म्स्. 17ब्1 र्, p.214a8, d. 187अ3, n.200b5, ch.356a1 दशभिः कृत्स्नायतनैर् विमोक्षाणां कार्यपरिनिष्पत्तिर् वेदितव्या / शेषं विमोक्षाभिभ्वायतनकृत्स्नायतनानां तद्यथा वस्तुसंग्रहण्याम् /

अ. इव्-2 ms.17b2l, p.214b2, d.187a4, n.200b6, ch.356a3 दशभिर् अशैक्षैर् अङ्गैः पञ्चानाम् अशैक्षाणां स्कन्धानां संग्रहो वेदितव्यः / शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धानाम् //

दशकैर् बुद्धवचने ज्ञेयाधिष्ठानं समाप्तम् //

समाप्तं च बुद्धवचनज्ञेयाधिष्ठानम् // //

ब्. ms.17b2r, p.214b4, d.187a5, n.201a1, ch.356a8 चिकित्सा कतमा, सा चतुराकारा वेदितव्या / तद्यथाबाधकौशल्यम्, आबाधसमुत्थानकौशल्यम्, उत्पन्नस्याबाधस्य प्रहाणकौशल्यम्, प्रहीणस्याबाधस्यायात्याम् अनुत्पादकौशल्यम् / एषां च कौशल्यानां विभङ्गो यथा सूत्रम् एव वेदितव्यः // //

c. ms.17b3l, प्,214ब्, d.187a7, n.201a2, ch.356c11

d. ms.23a3l, p.228b6, d.199b2, n.214a2, ch.360c21 शब्दविद्या कतमा / सा षडाकारा द्रष्टव्या / धर्मप्रज्ञप्तिव्यवस्थानतः / अर्थप्रज्ञप्तिव्यवस्थानतः / पुद्गलप्रज्ञप्तिव्यवस्थानतः / कालप्रज्ञप्तिव्यवस्थानतः / संख्याप्रज्ञप्तिव्यवस्थानतः / सखिलाधिकरणव्यवस्थानतश् च //

उद्दानम् //

धर्मार्थपुद्गलः कालाः संख्याधिकरणं च यत् / सखिलं तद् अधिष्ठानं शब्दस्येह समासतः /

d.इ. ms.23a4l, p.229a1, d.199b4, n.214a4, ch.360c28 तत्र धर्मप्रज्ञप्तिव्यवस्थानं नामकायपदकायव्यञ्जनकायाः / पञ्चगुणयुक्तश् च शब्दः / अग्राम्यलघ्वोजस्वी संबद्धः स्वर्थश् च /

d.इइ. ms.23a4r, p.229a2, d.199b5, n.214a5, ch.361a2 तत्रार्थप्रज्ञप्तिव्यवस्थानं दशाकारं वेदितव्यम् / इन्द्रियव्यवस्थानतः / महाभूतव्यवस्थानतः / कर्मव्यवस्थानतः / पर्येषणाव्यवस्थानतः / अधर्मव्यवस्थानतः / धर्मव्यवस्थानतः / संपत्तिव्यवस्थानतः / विपत्तिव्यवस्थानतः / उपभोगव्यवस्थानतः / अनुरक्षणाव्यवस्थानतश् च //

उद्दानम् //

चक्षुरादि पृथिव्यादि कायकर्मादि चैषणा / अधर्मधर्मसंपत्तिविपद्भोगानुरक्षणा /

d.इइ-1 ms.23a5r, p.229b5, d.199b7, n.214b1, ch.361a8 तत्रेन्द्रियव्यवस्थानतस् तद्यथा दर्शनार्थः श्रवणार्थो जिघ्रणार्थः स्वादनार्थः स्पर्शनार्थो विजाननार्थश् च /

d.इइ-2 ms.23a6m, p.229b6, d.200a1, n.214b2, ch.361a9 तत्र महाभूतव्यवस्थानतः / तद्यथा प्रतिष्ठाद्यर्थः / अभिष्यन्दनाद्यर्थः, दीपाद्यर्थः / कम्पनाद्यर्थश् च //

d.इइ-3 ms.23a6r, p.229b7, d.200a2, n.214b2, ch.361a10 * 1 ः इ तत्र कर्मव्यवस्थानतः / तद्यथा गमनाद्यर्थो भाषणाद्यर्थः / चेतनास्मृतिबुद्ध्याद्यर्थश् च //

d.इइ-4 ms.23a7l, p.229b8, d.200a2, n.214b3, ch.361a11 तत्रैषणाव्यवस्थानतः / तद्यथा मार्गणाद्यर्थः //

d.इइ-5 ms.23a7l, p.230a1, d.200a3, n.214b3, ch.361a12 तत्राधर्मव्यवस्थानतः / तद्यथा हिंसास्तेयाद्यर्थः //

d.इइ-6 ms.23a7m, p.230a1, d.200a3, n.214b4, ch.361a12 तत्र धर्मव्यवस्थानतः / तद्यथा दानसंयमाद्यर्थः //

d.इइ-7 ms.23a7m, p.230a2, d.200a3, n.214b4, ch.361a13 तत्र संपत्तिव्यवस्थानतः / तद्यथा प्राप्तिप्रीतिहर्षाद्यर्थः //

d.इइ-8 ms.23a7r, p.230a3, d.200a4, n.214b5, ch.361a13 तत्र विपत्तिव्यवस्थानतः / तद्यथा नाशभयदैन्याद्यर्थः //

d.इइ-9 ms.23a8l, p.230a3, d.200a4, n.214b5, ch.361a14 तत्रोपभोगव्यवस्थानतः / तद्यथा भोजनपानाच्छादनालिङ्गनोपचाराद्यर्थः //

d.11-10 ms.23a8l, p.230a4, d.200a5, n.214b6, ch.361a15 तत्रानुरक्षणाव्यवस्थानतः / तद्यथा पालनपोसणभरणाद्यर्थः //

अपि खलु षड्भिर् आकारैः समासतो ऽर्थो वेदितव्यः / स्वभावार्थो हेत्वर्थः फलार्थः क्रियार्थो विशेषसंयोगार्थः प्रवृत्त्यर्थश् च /

उद्दानम् //

स्वभावहेतुतत्कार्यतत्क्रियायोगवृत्तिभिः /

d.इइइ. ms.23b1l, प्,230अ6, d.200a6, n.214b7, ch.361a21 तत्र पुद्गलप्रज्ञप्तिव्यवस्थानम् / स्त्रीपुंनपुंसकव्यवस्थानतः / प्रथममध्यमोत्तमपुरुषव्यवस्थानतश् च //

d.इव्. ms.23b1m, प्,230अ7, d.200a7, n.215a1, ch.361a24 तत्र कालप्रज्ञाप्तिव्यवस्थानम् / त्रिविधः कालो ऽतीतो ऽतीतविशिष्टः, अनागतो ऽनागतविशिष्टः, वर्तमानो वर्तमानविशिष्टश् च /

d.व्. ms.23b1r, प्,230अ8, d.200a7, n.215a2, ch.361a27 तत्र संख्याप्रज्ञप्तिव्यवस्थानम् / त्रिविधा संख्या / एकसंख्या द्विसंख्या बहुसंख्या च /

d.वि. ms.23b2l, p.230b1, d.200b1, n.215a2, ch.361a29 तत्राधिकरणव्यवस्थानम् / खिलव्यवस्थानं च / पञ्चाधिकरणानि सन्धिनामसमासस् तद्धितम् आख्यातं च / खिलं पुनर् धातुपाठादि तद् उभयम् अपि समस्य सखिलम् अधिकरणम् इत्य् उच्यते /

ए. ms.23b2r, p.230b2, d.200b2, n.215a4, ch.361b4 तत्र शिल्पकर्मस्थानविद्या कतमा / समासतो द्वादशाकारं शिल्पं / तत्र यज् ज्ञानं सा शिल्पकर्मस्थानविद्येत्य् उच्यते / द्वादशाकारं शिल्पं कतमत् / तद्यथा कृषिशिल्पं वणिज्यशिल्पं राजपौरुष्यशिल्पं (श्भ् इइ 312) लिपिगणनसंख्यामुद्राशिल्पं नैमित्तिकशिल्पं मन्त्रिशिल्पं घटानशिल्पं संजननशिल्पं वानशिल्पं संयोजनशिल्पं पाकशिल्पम् गान्धर्वशिल्पं च //

// योगाचारभूमौ श्रुतमयी भूमिः //

appendix iii cintāmayī bhūmiḥ

ms.23b4l, p.230b6, d.200b5, n.215a6, ch.361b11 चिन्तामयी भूमिः कतमा / सा समासतस् त्र्याकारा वेदितव्या / स्वभावविशुद्धितो ज्ञेयप्रविचयतो धर्मप्रविचयतश् च //

अ. ms.23b4m, p.230b7, d.200b5, n.215a7, ch.361b18 तत्र स्वभावविशुद्धिः कतमा / सा नवाकारा वेदितव्या / यथापि तद् एकत्यो यथाश्रुतान् यथापर्याप्तान् धर्मान् एकाकी रहोगतश् चिन्तयति / अचिन्त्यं परिवर्जयित्वा चिन्त्यं चिन्तयति / कालापदेशमहापदेशं च परिजानाति / अर्थप्रतिसरणश् च चिन्तयति, न व्यञ्जनप्रतिसरणः / किंचिच् च श्रद्धयाधिमुच्यते, किंचित् प्रज्ञया व्यवचारयति दृढं च चिन्तयति / स्थिरं च चिन्तयति / प्रतनुं च चिन्तयति / तां च चिन्तां पर्यवसानगतां करोति, नान्तराविषादम् आपद्यते / इत्य् अनया नवाकारया विशुद्ध्या सुविशुद्धा चिन्तेत्य् उच्यते //

ब्. ms.23b6l, p.231a3, d.201a1, n.215b4, ch.361d ः .0 तत्र ज्ञेयप्रविचयः कतमः / यः परीक्ष्यस्यार्थस्य प्रविचयः / परीक्ष्यो ऽर्थः कतमः / सच् च सतो ऽसच् चासतः परीक्ष्यो ऽर्थ इत्य् उच्यते //

ब्. i. ms.23b6m, p.231a5, d.201a2, n.215b5, ch.361c4 ऽत् परीक्ष्यं सद्वस्तु कतमत् / तत् पञ्चविधं द्रष्टव्यम् / स्वलक्षणसत् सामान्यलक्षणसत् संकेतलक्षणसद् धेतुलक्षणसत् फललक्षणसच् च //

ब्. इ-1 ms.23b7l, प्,231अ6, d.201a3, n.215b6,ch.361c7 स्वलक्षणसत् कतमत् / तत् त्रिविधं द्रष्टव्यम् / परमार्थलक्षणसन् निमित्तलक्षणसद् वर्तमाणलक्षणसच् च /

परमार्थलक्षणसत् कतमत् / यो निरभिलप्यो ऽर्थः सर्वधर्मेषु लोकोत्तरज्ञानगोचरो ऽव्यवस्थाप्यलक्षणः /

निमित्तसत् कतमत् / तच् चतुर्भिर् आकारैर् द्रष्टव्यम् / यत्र नामोपलभ्यते / वस्तूपलभ्यते / तच् च नाम तस्मिन् वस्तुनि न व्यभिचरति भ्रान्तिव्यभिचारतो वानित्यव्यभिचारतो वा / तच् च नाम तस्मिन् वस्तुन्य् अव्याहतं प्रवर्तते / न क्वचिद् अनुवर्तते क्वचिद् व्यावर्तते /

वर्तमानसत् कतमत् / यद् उत्पन्नं हेतुफलभूतं च / तद् एतत् सर्वम् एकध्यम् अभिसंक्षिप्य स्वलक्षणसद् इत्य् उच्यते //

ब्. इ-2 ms.23b8r, p.231b2, d.201a7,n.216a3, ch.361c16 सामान्यलक्षणसत् कतमत् / तद् अपि पञ्चविधं द्रष्टव्यम् / जातिसामान्यलक्षणं कृत्यानुष्ठानसामान्यलक्षणं सर्वसंस्कारसामान्यलक्षणम् सर्वसास्रवसामान्यलक्षणं सर्वधर्मसामान्यलक्षणम् च /

जातिसामान्यलक्षणं कतमत् / रूपवेदनासंज्ञासंस्कारविज्ञानानां स्वजातिः / सैकध्यम् अभिसंक्षिप्य जातिसामान्यलक्षणम् इत्य् उच्यते /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.