Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
श्रावकभूमि
- Thông tin
- GRETIL — Srāvakabhūmi, The First Chapter, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 1998 (Taisho University Sogo Bukkyo Kenyujo, 4). = Śbh I and Srāvakabhūmi, The Second Chapter with Asamāhitā bhūmiḥ, Śrutamayī bhūmiḥ, Cintāmayī bhūmiḥ, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 2007 (Taisho Daigaku Sogobukkyo Kenyujo, 18). = Śbh II.chữ Devanāgarī do máy chuyển tự t
कृत्यानुष्ठानसामान्यलक्षणं कतमत् / कुशलसास्रवा धर्मा इष्टफलाभिनिर्वृत्तौ कृत्यानुष्ठानसामान्यलक्षणेन सामान्यलक्षणाः / यथा (श्भ् इइ 322) कुशला धर्मा इष्टफलाभिनिर्वृत्ताव् एवम् अकुशला धर्मा अनिष्टफलाभिनिर्वृत्तौ, स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि मार्गाङ्गानि बोधिपक्ष्यधर्मा बोधिप्राप्तौ कृत्यानुष्ठानसामान्यलक्षणेन सामान्यलक्षणाः /
सर्वसंस्कारसामान्यलक्षणं कतमत् / अनित्यता सर्वसंस्काराणाम् / सर्वसास्रवसामान्यलक्षणं कतमत् / दुःखता सर्वसास्रावाणाम् / सर्वधर्मसामान्यलक्षणं कतमत् / शून्यता नैरात्म्यं च सर्वधर्माणाम् / तद् इदम् उच्यते सामान्यलक्षणम् //
ब्. इ-3 ms.24a3r, p.232a2, d.201b5, n.216b1, ch.362a1 संकेतलक्षणं कतमत् / यत्र षड्विधो वादः प्रवर्तते तत् संकेतलक्षणं वेदितव्यम् / षड्विधो वादः कतमः / स्वामिसंबन्धयुक्तो वादः, तत्तदन्यान्यवर्जितो वादः, सांकेतिको वादः, सांघातिको वादः, असर्वत्रगो वादः, मनित्यश् च वादः //
ब्. i-3-a ms.24a4m, p.232a5, d.201 ब्7, n.216b4, ch.362a5 स्वामिसंबन्धयुक्तो वादः कतमः / यो वादः स्वामिसंबन्धेन लक्षणप्रत्यवगम्यो भवति / नान्तरेण स्वामिसंबन्धम् / तद्यथा "जातिर्" इत्य् उक्तः "कस्येयं जातिर्" इति, स्वामिसंबन्धम् अपेक्षते वादः / रूपस्य जातिर् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य जातिर् नो तु "रूपम्" इत्य् उक्ते "कस्येदं रूपम्" इति स्वामिसंबन्धम् अपेक्षते वादः /
यथा जातिर् एवं जरा स्थितिर् अनित्यतैवंभागीयाश् चित्तविप्रयुक्ताः संस्कारा यथायोगं वेदितव्याः / अयम् उच्यते स्वामिसंबन्धयुक्तो वादः / स च (श्भ् इइ 324) यत्र वर्तते तत् संकेतलक्षणं वेदितव्यम् //
ब्. i-3-b ms.24a6l, p.232b1, d.202a3, n.216b4, ch.362a12 तत्तदन्यान्यवर्जितो वादः कतमः / यो वादो नैव तेन तस्य नैवान्येनान्यस्य निर्देशाय भवति / स तत्तदन्यान्यवर्जित इत्य् उच्यते /
यस् तेनैव तस्य व्यपदेशाय वादः स द्रव्यलक्षणे ऽपि वर्तते संकेतलक्षणे ऽपि / यश् चान्येनान्यस्य व्यपदेशाय वादः सो ऽपि द्रव्यलक्षणे ऽपि वर्तते संकेतलक्षणे ऽपि / यश् चायं नैव तेन तस्य नैवान्येनान्यस्य व्यपदेशाय वाद एकांशेन संकेतलक्षण एव प्रवर्तते /
कतमश् च तेन तस्यैव व्यपदेशाय वादो द्रव्यलक्षणे प्रवर्तते / तद्यथा पृथिव्याः काठिन्यम् इत्य् यो वादः / कथं संकेतलक्षणे ऽपि प्रवर्तते / अश्मनो माण्डल्यम् इत्य् यो वादः / यथा पृथिव्याः काठिन्यम् अश्मनो माण्डल्यम् एवम् अपां द्रवत्वं तैलस्य पिण्डस् तेजस औष्ण्यम् अग्नेर् अर्चि वायोः समुदीरणत्वम् अनिलस्य वेगः /
कथम् अन्येनान्यस्य व्यपदेशाय वादो द्रव्ये सति वर्तते / तद्यथा चक्षुषोर् विज्ञानं कायस्य स्पर्श इत्य् एवमादि / कथं प्रज्ञप्तिसति / तद्यथा बुद्धदत्तस्य गुणमित्रस्य वा भोजनं पानं यानं वस्त्रम् अलंकार इत्य् एवमादि /
कथं नैव तेन तस्य नाप्य् अन्येनान्यस्य व्यपदेशाय वाद एकान्तेन संकेतलक्षण एव प्रवर्तते / तद्यथा गृहस्य द्वारं गृहस्य कुड्यं कुम्भस्य मुखं कुम्भस्य पार्श्वं सेनाया रथो वनस्य वृक्षः शतस्य दशकं दशकस्य तृकम् इत्य् एवमादि /
अयम् उच्यते तत्तदन्यान्यवर्जितो वादः //
ब्. i-3-c ms.24b2l, p.233a2, d.202b3, n.217b1, ch.362a29 सांकेतिको वादः कतमः / षड्विधनिमित्तलक्षणे व्यावहारिकः स्वभावप्रज्ञप्तिवादः / षड्विधं निमित्तलक्षणं कतमत् / वस्तुलक्षणं विज्ञेयलक्षणं शुभादिलक्षणम् अनुग्रहादिलक्षणं व्यवहारनिमित्तलक्षणम् मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणं च /
वस्तुलक्षणं कतमत् / यद् विज्ञानेन गृह्णाति /
विज्ञेयलक्षणं कतमत् / यन् मनस्कारेण विज्ञानस्योत्पत्तये संवर्तते / शुभादिलक्षणं कतमत् / यत् स्पर्शेन गृह्णाति /
अनुग्रहादिलक्षणं कतमत् / यद् वेदनया गृह्णाति /
व्यवहारनिमित्तलक्षणं कतमत् / यत् संज्ञया गृह्णाति /
मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणं कतमत् / यच् चेतनया गृह्णाति //
ब्. i-3-d ms.24b4l, p.233a7, d.202b7, n.217b6, ch.362b7 सांघातिको वादः कतमः / यः प्रभूतेषु समग्रेषु समुदितेषु स्वभावव्यवस्थानवादः / तद्यथाध्यात्मं रूपवेदनासंज्ञासंस्कारविज्ञानेष्व् आत्मादिवादो बहिर्धा वा रूपगन्धरसस्प्रष्टव्येषु तथा तथा सन्निविष्टेषु गृहकुम्भसेनावनादिवादः //
ब्. i-3-e ms.24b4r, p.233b2, d.203a2, n.218a1, ch.362b11 असर्वत्रगो वादः कतमः / यो वादः क्वचिद् अनुवर्तते, क्वचिद् व्यावर्तते / तद्यथा गृहे गृहवादो ग्रामनगरराष्ट्रादिभ्यो व्यावर्तते / कुम्भे कुम्भवादो घटघटीशरावादिभ्यो व्यावर्तते / सेनावादः पृथक्स्त्रीपुरुषदारकदारिकादिभ्यो व्यावर्तते / वनवादः पृथग्वृक्षमूलगण्डपत्रपुष्पफलादिभ्यो व्यावर्तते //
ब्. i-3-f ms.24b6l, p.233b5, d.203a4, n.218a3, ch.362b18 अनित्यो वादः कतमः / स चतुर्भिर् आकारैर् द्रष्टव्यः / भेदतो ऽभेदतो ऽभिसंस्कारतः परिणामतश् च /
कथं भेदतः / तद्यथा कुम्भे भग्ने यः कुम्भ इति वादः सो ऽवहीयते / कपालवादः प्रादुर्भवति /
कथम् अभेदतः / तद्यथा नानाद्रव्यसमवायविहिते चूर्णे वा धूपे वा यो नानाद्रव्यवादः सो ऽवहीयते / धूपचूर्णवादः प्रादुर्भवति /
कथम् अभिसंस्कारतः / तद्यथानभिसंस्कृते सुवर्णपिण्डे हर्षकटककेयूराद्या अभिसंस्कारपरिणते यः सुवर्णपिण्डवादः सो ऽवहीयते / हर्षकटककेयूरवादः प्रादुर्भवति /
कथं परिणामतः / तद्यथा परिणते भोजनपाने यो भोजनपानवादः सो ऽवहीयते / उच्चारप्रस्राववादः प्रादुर्भवति /
इत्य् अयम् एवंभागीयो ऽनित्यो वादो वेदितव्यः /
इत्य् अयं षड्विधो वादो यत्र प्रवर्तते तत् संकेतलक्षणं वेदितव्यम् / इदम् उच्यते संकेतलक्षणम् //
ब्. इ-4 ms.24b8m, p.234a4, d.203b2, n.218b2, ch.362b28 हेतुलक्षणं कतमत् / तत् समासतः पञ्चविधं द्रष्टव्यम् / इष्टहेतुर् अनिष्टहेतुः पुष्टिहेतुः प्रवृत्तिहेतुर् निवृत्तिहेतुश् च /
इष्टहेतुः कतमः / कुशलसास्रवा धर्माः /
अनिष्टहेतुः कतमः / अकुशला धर्माः /
पुष्टिहेतुः कतमः / पूर्वोत्पन्नाः कुशलाकुशलाव्याकृता धर्मा आसेविता भाविता बहुलीकृताः पश्चादुत्पन्नानां कुशलाकुशलाव्याकृतानां धर्माणाम् उत्तरोत्तराणां पुष्टतराणां पुष्टतमानां पुष्टिहेतुर् इत्य् उच्यन्ते //
प्रवृत्तिहेतुः कतमः / येन बीजेन यया वासनया येन सहायेन येषां धर्मानां प्रवृत्तिर् भवति स तेषां प्रवृत्तिहेतुर् इत्य् उच्यते /
निवृत्तिहेतुः कतमः / संस्कारनिवृत्तेः संक्लेशनिवृत्तेः सर्वौपशमिको मार्गः पारिनिर्वाणिकः संबोधिगामी ससंभारः सप्रयोगः सोत्पत्तिकः सनिष्पत्तिको निवृत्तिहेतुर् इत्य् उच्यते /
इदं समस्तं हेतुलक्षणं विस्तरेण विभागः पुनर् हेतुफलचिन्तायां द्रष्टव्यः //
ब्. इ-5 ms.25a3l, p.234b2, d.203b7, n.218b7, ch.362c11 फललक्षणं कतमत् / यद् अस्मात् पञ्चविधाद् धेतोर् उत्पन्नं प्राप्तं सिद्धं निष्पन्नं प्रवृत्तं तत् फललक्षणं वेदितव्यम् //
ब्. ii. ms.25a3m, p.234b3, d.204a1, n.219a1, ch.362c14 परीक्ष्यम् असद्वस्तु कतमत् / तद् अपि पञ्चलक्षणं द्रष्टव्यम् / अनुत्पन्नासन् निरुद्धासद् इतरेतरासत् परमार्थासद् अत्यन्तासच् च /
अनुत्पन्नासत् कतमत् / अनागताः संस्काराः /
निरुद्धासत् कतमत् / अतीताः संस्काराः /
इतरेतरासत् कतमत् / यद् इतरलक्षणेनेतरेषां धर्माणां विरहितता अविद्यमानता, इतरधर्मासमवधानता वा पुनर् इतरेषां धर्माणाम् /
परमार्थासत् कतमत् / व्यावहारिकेण स्वभावप्रज्ञप्तिवादेन यः स्वभावो व्यवस्थापितः /
अत्यन्तासत् कतमत् / वन्ध्यापुत्रादि यत् किंचिद् एवंभागीयम् //
ब्. iii. ms.25a5l, p.234b7, d.204a4, n.219a5, ch.362c21 अपि खलु पञ्चविधास्तिता पञ्चविधैव नास्तिता //
ब्. इइल्-1 ms.25a5m, p.234b7, d.204a4, n.219a5, ch.362c21 पञ्चविधास्तिता कतमा / परिनिष्पन्नलक्षणास्तिता परतन्त्रलक्षणास्तिता परिकल्पितलक्षणास्तिता विशेषलक्षणास्तिता अवक्तव्यलक्षणास्तिता च /
तत्र प्रथमा पारमार्थिकं लक्षणम् /
अनु द्वितीया प्रतीत्यसमुत्पन्नलक्षणम् /
अनु तृतीया संकेतलक्षणम् /
अनु चतुर्थ्य् अध्वलक्षणं जातिलक्षणं जरालक्षणं स्थितिलक्षणम् अनित्यलक्षणं दुःखलक्षणं शून्यलक्षणं नैरात्म्यलक्षणं वस्तुलक्षणं विज्ञेयलक्षणं ग्राह्यलक्षणं शुभादिलक्षणम् अनुग्रहादिलक्षणं व्यवहारनिमित्तलक्षणं मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणम् इत्य् एवंभागीयं लक्षणं विशेषलक्षणं वेदितव्यम् /
अनु पञ्चमा चतुराकारया अवक्तव्यतया अवक्तव्यलक्षणम् / असत्त्वात् तद्यथा पुद्गलः स्कन्धेभ्यो ऽन्यो ऽनन्य इति / गम्भीरत्वान् निरभिलप्यधर्मता, अचिन्त्यस् तथागतानां धर्मकायः, अचिन्त्यो बुद्धविषयः / तथा भवति तथागतः परंमरणाद् इत्य् एवमादि / अनर्थोपसंहितत्वात् तद्यथा ये ते धर्मा अधर्मार्थब्रह्मचर्योपसंहितास् ते ऽभिसंबुद्धा अपि नोक्ता भगवता / तथाधर्मलक्षणव्यवस्थानतस् तद्यथा तथता संस्कारेभ्यो ऽन्यानन्यत्वेनावक्तव्या //
ब्. इइल्-2 ms.25b1m, p.235b7, d.204b4, n.219b6, ch.363a8 पञ्चविधा नास्तिता कतमा / परमार्थलक्षणनास्तिता स्वतन्त्रलक्षणनास्तिता सर्वेण सर्वं स्वलक्षणनास्तिता अविशेषलक्षणनास्तिता वक्तव्यलक्षणनास्तिता च // //
appendix iv ābhiprāyikārthagāthānirdeśa
अ. इ-1 म्स्1*अ1ल्, msg.26b1m, p.245a6, d.212b5, n.228b4, ch.367a6 (1) शिक्षासु पारमिप्राप्तः सर्वसंशयनाशकः / शिक्षां प्रब्रूहि मे पृष्टो या च शिक्षासु शिक्षणा // इति //
ब्रह्मणा भगवान् सर्वशिक्षापदपर्यन्तप्राप्तितश् च स्वार्थसंपदम् असाधारणाम् आरभ्योत्पन्नोत्पन्नसर्वसत्त्वसंशयच्छेदकत्वेन चासाधारणां परार्थप्रतिपत्तिम् आरभ्य स्तुतिपूर्वं पृष्टः "काः कियत्यश् च शिक्षाः, कथं च तासु शिक्षितव्यम्" //
अ. इ-2 म्स्1*अ1र्, msg.26b1m, p.245b1, d.212b7, n.229a1, ch.367a13 ततो भगवान् बहुकृत्यताभीषणा अलसजातीयानां प्रोत्साहनाभिप्रायः सर्वशिक्षाः समस्य संक्षेपतस् तिसृभिः शिक्षाभिर् निर्दिशति /
(2) अधिशीलम् अधिचित्तम् अधिप्रज्ञं च मारिष / तिस्रः शिक्षाः समासेन शृणु या तासु शिक्षणा // इति //
तत्र शीलचित्तप्रज्ञा अधिकृत्य विक्षिप्तचित्तस्य अविक्षेपायोगोपदेशतो ऽधिशीलंशिक्षया, असमाहितचित्तस्य समाधानायोगोपदेशतो ऽधिचित्तंशिक्षया, समाहिताविमुक्तचित्तस्य विमोक्षायोगोपदेशतो ऽधिप्रज्ञंशिक्षया च, योगिनाम् सर्वकृत्यपरिसमाप्तेः, तास्व् एव तिसृषु शिक्षास्व् अन्तर्णीयाभिप्रायतो भगवता देशिताः //
अ. इ-3 म्स् 1*अ3म्, msg.26b1r, p.245b7, d.213a4, n.229a5, ch.367a22 तासु पुनः शिक्षणा येन योगेन ताः शिक्षा निष्पादयति / तत्र
(3) भवेत् षडङ्गसंपन्नश् चतुःस्थितिसुखान्वितः / चतुर्षु चतुराकारज्ञानशुद्धः सदा भवेत् // इति //
अनया गाथया यथाक्रमं तासां तिसृणां शिक्षाणां प्रयोगं दर्शयति / "षडङ्गसंपन्न" इत्य् अधिशीलंशिक्षाम् अधिकृत्य शिक्षाणां षडङ्गानि / शीलवान् विहरति, प्रातिमोक्षसंवरसंवृतः, आचारसंपन्नः, गोचरसंपन्नः, अणुमात्रेष्व् अवद्येषु भयदर्शी, समादाय शिक्षते शिक्षापदेष्व् इत्य् एभिश् च षड्भिर् अङ्गैश् चतुर्विधा शीलविशुद्धिः परिदीपिता/
तत्र "शीलवान् विहरती"त्य् अधिकृत्य "प्रातिमोक्षसंवरसंवृत" इत्य् अनेन नैर्याणिकशीलता विशुद्धिः, मोक्षाधिकारिकं हि नैर्याणिकम् / "आचारगोचरसंपन्न" इत्य् एताभ्याम् अनुत्कृष्टशीलता विशुद्धिः / "अणुमात्रेष्व् अवद्येषु भयदर्शी"ति निश्छिद्रशीलता विशुद्धिः / "समादाय शिक्षते शिक्षापदेष्व्" इत्य् अविपर्यस्तशीलता विशुद्धिः /
एवं षडङ्गसंपन्नतयाधिशीलंशिक्षाप्रयोगं निश्रित्य "चतुःस्थितिसुखान्वित" इत्य् अधिचित्तंशिक्षाप्रयोगं दर्शयति /
चत्वारि ध्यानानि चतुर्विधा चित्तस्थितिः, सा च दृष्टधर्मसुखविहारत्वात् सुखेत्य् उच्यते /
"चतुर्षु चतुराकारज्ञानशुद्धः सदा भवेद्" इत्य् अधिप्रज्ञंशिक्षाम् अधिकृत्याह / चतुर्षु दुःखसमुदयनिरोधमार्गसत्येष्व् एकैकस्मिन्न् अनित्यादिचतुराकारज्ञानशुद्धिप्रभाषितत्वाद् अधिप्रज्ञंशिक्षायाः //
अ. इ-4 ms.1*अ7र्, म्स्ग्,26ब्2ल्, p.246b2, d.213b5, n.230a1, ch.367b13 (4) सुप्रतिष्ठितमूलः स्याच् चित्तस्योपशमे रतः / संयुक्तो ऽथ विसंयुक्तो दृष्ट्या दृष्ट्यार्यपापया // इति //
अनया गाथया शिक्षात्रयस्य क्रमेणोत्पत्तिं दर्शयति / मूलं ह्य् अधिशीलं (श्भ् इइ 344) प्रथमा शिक्षा / तदन्वयत्वाद् उत्तरयोः /
ततः शीलवतो ऽविप्रतिसाराद्यनुपूर्व्या चित्तसमाधानाभिरत्या द्वितीया /
ततः समाहितचित्तस्य यथाभूतदर्शनाद् आर्यदृष्टिसंयोगतः पापदृष्टिवियोगतश् च तृतीया //
अ. इ-5 म्स्.र्ब्2ल्, म्स्ग्,26ब्2म्, p.246b5, d.214a1, n.230a4, ch.367b19 (5) आदिशुद्धो ध्यानरतः सत्ये च कुशलो भवेत् / उत्पादयेद् वर्जयेच् च बृंहयेत् सत्यम् एव च // इति //
अनया गाथया तासाम् एव तिसृणां शिक्षाणां यथाक्रमं शुद्धिविशेषं दर्शयति / तत्र "आदिशुद्ध" इति प्रथमायाः / "ध्यानरत" इति द्वितीयायाः / "सत्ये च कुशल" इति तृतीयायाः / तत् पुनः "सत्यकौशल्यम् उत्पादयेद्" इति मार्गसत्यस्योत्पादनात् / "वर्जयेद्" इति दुःखसमुदयसत्ययोर् वर्जनात् / "बृंहयेद्" इति निरोधसत्यस्य पुनः पुनर् मृदुमध्याधिमात्रक्लेशप्रहाणनिरोधेन ब्र्ंहणात् /
अ. इ-6 ms.1*ब्3र्, म्स्ग्,26ब्3ल्, p.247a1, d.214a4, n.230a7, ch.367b26 (6) शिक्षापदेषु विद्यन्ते चतस्रो गतयस् त्रिषु / विवर्जयित्वा द्वे गती द्वे गती समुदानयेत् // इति //
अनया गाथया शीलचित्तप्रज्ञाख्येषु शिक्षाधिष्ठानेषु शिक्षाणां संपादनविपादनाद्, यथासंभवं तत्फलभूता याश् चतस्रो गतयः,
कामधातौ देवमनुष्यसंगृहीता सुगतिर् अधिशीलसंपत्तिफला, कामधाताव् एव तदन्यगतिसंगृहीताधिशीलविपत्तिफला दुर्गतिः, रूपारूप्यधातौ देवगतिसंगृहीताधिचित्तफला ऊर्ध्वगतिः, त्रैधातुकापर्यापन्ना चाधिप्रज्ञफला निर्वाणगतिः /
एताभ्यो गतिभ्य आद्ये द्वे सुगतिदुर्गती वर्जयित्वा, उत्तरे द्वे ऊर्ध्वगतिनिर्वाणगती समुदानयेल् लौकिकलोकोत्तराभ्यां मार्गाभ्याम् इत्य् एतद् दर्शयति //
अ. इइ म्स्. 1 *ब्5र्, msg.26b3m, p.247a7, d.214b1 n.230b5, ch.367c7 (7) द्वे द्वयप्रत्युपस्थाने एका निर्वाणगामिनी / अनुपूर्वोपनिषदभिन्नसंभिन्नभाविता // इति //
अस्यां गाथायां यथाधिशीलाधिचित्तशिक्षयोः प्रथमायाश् चानुपूर्वेणाधिचित्ताधिप्रज्ञशिक्षाद्वयोपनिषद्भावेन प्रत्युपस्थानम् / मध्यमायाश् चाधिप्रज्ञध्यानसंवरसंगृहीताधिशीलशिक्षा द्वयोपणिषद्भावेन प्रत्युपस्थानम् / उत्तमायाश् चैकस्या निर्वाणोपनिषद्भावेन प्रत्युपस्थानम् / व्यस्तसमस्तानं च यथासंभवं भावनाम् / तद् दर्शयति //
अ. इइ-1 म्स्.र्ब्7र्, msg.26b3m, p.247b3, d.214b4, n.231a1, ch.367c14 (8) निष्कौकृत्यो भवेद् आदौ पश्चाच् च सुखितो यतः / आद्यासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः // इति //
अनया गाइहया यथाधिशीलंशिक्षा अविप्रतिसाराद्यानुपूर्व्या, उत्तरोपनिषद्भावेन वर्तते / तद् दर्शयति //
अ. इइ-2 ms.2ऽअ1म्, msg.26b3r, p.247b4, d.214b5, n.231a2, ch.367c16 (9) यतो विशोधयेज् ज्ञानं शुभोत्पत्तिसमन्वितः / मध्यासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः // इति //
अधिचित्तंशिक्षाया भावनामयविशिष्टकुशलमूलोत्पत्त्याद्यानुपूर्व्या (श्भ् इइ 348) उत्तमशिक्षोपनिषत्त्वं दर्शयति //
अ. इइ-3 ms.2*अ2ल्, msg.26b4l, p.247b6, d.214b6, n.231a4, ch.367c20 (10) यतो विमोचयेच् चित्तं प्रपञ्चं च निरोधयेत् / श्रेष्ठासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः // इति //
अधिप्रज्ञंशिक्षाया निर्वाणोपनिषत्त्वाच् छ्रेष्ठत्वं दर्शयति //
अ. ii-4-a ms.2*अ2म्, msg.26b4m, p.247b7, d.214b7, n.231a5, ch.367c23 (11) अशुद्धिगामिनी प्रतिपत् तथा सुगतिगामिनी / आद्या प्रतिपद् उक्तेयं सा च निष्केवला मता // इति //
यथाधिशीलंशिक्षा विपादिता दुर्गतिहेतुः, संपादिता च सुगतिहेतुः, केवलापि च विनोत्तराभ्यां शिक्षाभ्यां शक्यते संपादयितुम् / तद् दर्शयति //
अ. ii-4-b ms.2*अ3म्, msg.26b4r, p.248a1, d.215a2, n.231a6, ch.367c26 (12) विशुद्धिगामिनी प्रतिपन् न सर्वात्यन्तगामिनी / मध्या प्रतिपद् उक्तेयं मापि निष्केवला मता // इति //
यथा मध्यमा प्रतिपत् कामधातुवैराग्यविशुद्ध्या विशुद्धगामिनी, ऊर्ध्वधात्ववैराग्यात् कामरागानुशयस्य चात्यन्त [म फ्यिन् पऽइ फ्यिर् / थम्स् चद् ग्तन् दु र्नम् पर् दग् पर् ऽग्रो ब म यिन् प दङ् / जि ल्तर् म्छोग् मेद् चिङ् दङ् पो मेद् पर् ऽबऽ źइग् गिस् ऽग्रुब् पर् मि ऽग्युर् ब दे स्तोन् तो //]
अ. ii-4-c म्स्-, msg.26b5l, p.248a4, d.215a4, n.231b1, ch.368a2 (13) विशुद्धगामिनी प्रतिपद् या सर्वात्यन्तगामिनी / श्रेष्ठा प्रतिपद् उक्तेयं स नैवाद्वयकेवल // [चेस् ब्य ब नि /
खम्स् ग्सुम् पऽइ ऽदोद् छग्स् दङ् ब्रल् ब दङ् / बग् ल ञल् यङ् ग्तन् फ्यिन् प दङ् जि ल्तर् म्छोग् दे थम्स् चद् ग्तन् दु ऽग्रो ब यिन् ल / स्ङ म ग्ञिस् मेद् पर् यङ् ग्चिग् पुस् ऽग्रुब् पर् मि ऽग्युर् ब दे स्तोन् तो //]
अ. इइल्-1 ms.2*अ4ल्, msg.26b5m, p.248a6, d.215a5, n.231 ब्3, ch.368a5 (14अ) शिक्षेत यो न शिक्षेत उभौ तौ पण्डितौ मतौ /
[zes bya ba'i tshigs su bcad pa phyed kyis ni bslab pa gsum po 'di dag la bslab pa rnams yaṅ dag par slob kyi / log par mi] śikṣaṇāt paṇḍitalakṣaṇaṃ darśayati /
(14ब्) शिक्षेत यो न शिक्षेत उभौ तौ बालसंमतौ // इति //
उत्तरार्धेन मिथ्याशिक्षाणां नैव च शिक्षाणां बाललक्षणं दर्शयति //
अ. इइल्-2 ms.2*अ4म्, msg.26b5m, p.248a8, d.215a7, n.231b5, ch.368a11 (15) परिग्रहपरित्यागाद् दौष्ठुल्यापगमात् तथा / प्रत्यक्षत्वाच् च ज्ञेयस्य शिक्षादानं त्रिधा भवेत् // इति //
यस्य गृहकलत्रादिपरिगृहीतपरित्यागाद् यस्य समाधिविपक्षस्य दौष्ठुल्यस्य प्रहाणाद् यस्य च चतुःसत्यलक्षणस्य ज्ञेयतत्त्वस्य प्रत्यक्षीकरणाद् यथाक्रमं शिक्षात्रयं संपद्यते, तद् दर्शयति //
अ. इइल्-3 ms.2*अ5म्, msg.26b5r, p.248b3, d.215b1, n.231b7, ch.368a16 (16अ) सालम्बनानालम्बनाः सूक्ष्मौदारिकसंहिताः // इति //
अनेन गाथार्धेनोत्तमयोः प्रथमायाश् च यथाक्रमं सालम्बनानालम्बनत्वेन सूक्ष्मौदारिकत्वेन प्रभेदं दर्शयति //
(16ब्) समादानप्राविवेक्यघोष-आभोगसंहृताः // इति //
उत्तरार्धेन प्रथममध्यमोत्तमानां यथाक्रमं प्रतिज्ञानाभिनिर्हृतत्वं कायचित्तविवेकाभिनिर्हृतत्वं परघोषाध्यात्मयोनिशोमनस्काराभिनिर्हृतत्वं च दर्शयति //
अ. इइल्-4 ms.2*अ6र्, msg.26b6l, p.248b6, d.215b4, n.232a3, ch.368a21 (17) एका एका भवेच् छिक्षा सद्वितीयापरा भवेत् / एका स्यात् सतृतीयैव ता बुधः समतिक्रमेत् // इति //
प्रथमाम् एकां केवलाम् उपदर्शयति / मध्यमा तु न विना ताम्, उत्तमा न विना ते / ताभ्यश् च समतिक्रमो ऽशैक्षस्यार्हतो वेदितव्यः //
अ. इव्-1 ms.2*अ7म्, msg.26b6m, p.248b8, d.215b5, n.232a4, ch.368a24 (18) अभ्रष्टशीलः शिक्षासु प्रतिज्ञोपगतो भवेत् / अगर्हितसमाचारः पञ्चस्थानविवर्जितः // इति //
"अभ्रष्टशीलः शिक्षास्व्" इति शीलवान् विहरतीत्य् एतद् दर्शयति / "प्रतिज्ञोपगतो भवेद्" इति प्रतिमोक्षसंवरसंवृतत्वम् / "अगर्हितसमाचार"ऽ इत्य् आचाराविपत्तिम् / "पञ्चस्थानविवर्जित" इति गोचराविपत्तिम् / पञ्चस्थानानि भिक्षोर् अगोचरः, राजकुलं घोषः पानागारं वेशश् चण्डालकठिनं च / तत्र घोषः सूना द्रष्टव्या / तत्रोद्घोषौरभ्रिकादिभिर् अभ्यस्तावद्यं पापकर्मोरभ्रादिवधः क्रियते //
अ. इव्-2 ms.2*ब्1ल्, msg.26b6r, p.249a5, d.216a2, n.232b1, ch.368b4 (19अ) अनापत्ताथ व्युत्थाता निष्कौकृत्यो ऽथ कौकृती / इति //
अणुमात्रेष्व् अवद्येषु भयदर्शितां दर्शयति / तत्र यथा व्युत्थाता तथा निष्कौकृत्यः, यथा कौकृती तथानापत्ता //
(19ब्) शिक्षाम् आगमयेत् तत्र प्रतिपद्येत भावतः // इति //
समादाय शिक्षते शिक्षापदेष्व् इति, एतद् दर्शयति //
अ. इव्-3 ms.2*ब्1र्, msg.26b7l, p.249a7, d.216a3, n.23b3, ch.368b7 (20) प्रत्याख्यानं न कुर्वीत जीवितार्थं न नाशयेत् / प्रतिपत्तौ स्थितो नित्यं प्रवृत्तविनयो भवेत् // इति //
अनया गाथया चतुर्भिः पदैर् यथाक्रमं ध्रुवशीलतां दृढशीलतां साततकारितां साततवर्तितां च दर्शयति //
अ. इव्-4 ms.2*ब्2म्, msg.26b7m, p.249b1, d.216a4, n.232b4, ch.368b10 (21अ) प्रतिज्ञां शोधयेत् पूर्वम् आजीवम् अपि शोधयेत् / इति /
अनेन गाथार्धेन आचाराजीवविशुद्धिं दर्शयति / आचारस्य हि प्रतिज्ञापूर्वकम् आचरणम् इति प्रतिज्ञेत्य् उच्यते /
(21ब्) अन्तद्वयं वर्जयित्वा प्रणिधानं विवर्जयेत् // इति //
कामसुखल्लिकानुयोगान्तात्मक्लमथानुयोगान्तयोः स्वर्गादिप्रणिधानस्य च विवर्जनाच् छीलविशुद्धिम् एव दर्शयति //
अ. v-1-a ms.2*ब्3म्, msg.26b7r, p.249b3, d.216a6, n.232b6, ch.368b15 (22) अन्तरायकरान् धर्मान् नाभिगृध्येत् कथंचन / चित्तक्षोभकरान् धर्मान् उत्पन्नान् नाधिवासयेत् // इति //
अनया गाथया, इन्द्रियागुप्तद्वारतादीनां शिक्षाविशुद्ध्यन्तरायकराणाम् अगुणदर्शित्वेनानध्यवसानात् / अकुशलानां च कामव्यापादवितर्कादीनां मनःसंक्षोभकराणाम् उत्पन्नानाम् अनधिवासनेन शिक्षाविशुद्धिं दर्शयति //
अ. v-1-b ms.2*ब्4म्, msg.26b7r, p.249b6, d.216b1, n.233a1, ch.368b20 (23) नातिलीनो नातिसृतः सदा सूपस्थितस्मृतिः / मूलसामन्तकैः शुद्धं ब्रह्मचर्यं चरेद् अपि // इति //
मन्दकौकृत्यास्थानकौकृत्यविवर्जनया स्मृतिसंप्रमोषविवर्जनया च निष्ठाकालप्रयोगकालयोर् ब्रह्मचर्यशुद्धिं परिदीपयति //
अ. v-1-c ms.2*ब्5ल्, msg.26b8l, p.249b7, d.216b2, n.233a3, ch.368d (24) भवेद् आरब्धवीर्यश् च नित्यं दृढपराक्रमः / निषेवेताप्रमादं च पञ्चाङ्गं सुप्रतिष्ठितः // इति //
संनाहप्रयोगाव्यावर्त्यवीर्यतया पञ्चविधाप्रमादनिषेवणतया च शिक्षाविशुद्धिविशेषम् एवं दर्शयति / तत्र पञ्चाङ्गो ऽप्रमादो ऽतीतानागतप्रत्युत्पन्नपूर्वकालकरणीयसहानुचरः //
अ. v-1-d ms.2*ब्6ल्, msg.26b8m, p.250a2, d.216b4, n.233a5, ch.368c10 (25) भवेत् प्रच्छन्नकल्याणस् तथा विवृतपापकः / लूहेन वा प्रणीतेन तुष्टः स्याच् चीवरादिना //
(26) अल्पेन वर्तयेद् यात्रां लूहेनापि च वर्तयेत् / धूतान् गुणान् समादद्यात् शमार्थं क्लेशवर्जितः //
एताभ्यां गाथाभ्यां ज्ञात्रकामताया महेच्छतासंतुष्टिहेतुभूतायाः, तयोश् च महेच्छतासंतुष्ट्योः शिक्षाविशुद्धिविबन्धहेत्वोः परिवर्जनेन शिक्षाविशुद्धिं दर्शयति //
अ. v-1-e ms.2*ब्7म्, msg.27a1m, p.250a5, d.216b6, n.233a7, ch.368c15 (27) स्याद् ईर्यापथसंपन्नो मात्रां कुर्यात् प्रतिग्रहे / तदर्थं कल्पिताम् ईर्यां कुर्यान् नैव कथंचन // इति //
ईर्यापथसंपत्त्या परेषाम् अकुहनार्थया प्रतिग्रहमात्रज्ञतया च यावद् ब्रह्मचर्यवासाज् जीवितस्थित्युपकरणोपादानाच् छिक्षाविशुद्धिम् एव दर्शयति //
अ. v-1-f ms.2*ब्8ल्, msg.27a1m, p.250a7, d.216b7, n.233b2, ch.368c19 (28) आत्मनश् च गुणान् भूतान् न लपेन् नापि लापयेत् / तान् गुणान् अथ चार्थित्वं निमित्तेन न दर्शयेत् //
(29) परेषाम् अन्तिकात् कुर्यान् नोपरोधेन याचनाम् / धर्मणोपगतं लाभं लाभेनेह न संचयेत् // इति //
एताभ्यां गाथाभ्यां लपनानैमित्तिकतानैष्पेशिकतालाभेनलाभनिश्चिकीर्षुकतापरिवर्जनेन शिक्षाविशुद्धिविशेषं दर्शयति //
अ. v-1-f-(1) ms.3*अ1ल्, msg.27a2l, p.250b1, d.217a1, n.233b4, ch.368c24 (30) लाभं नैवाभिगृध्येत सत्कारं च कथंचन / दृष्टिं च नाभिनिविशेत् समारोपापवादिकाम् // इति //
लाभसत्कारागृद्धतया पञ्चविधकुदृष्ट्यनभिनिवेशतश् च विशुद्धिविशेषं दर्शयति //
अ. v-1-f-(2) ms.3*अ1म्, msg.27a2m, p.250b3, d.217a3, n.233b5, ch.368c27 (31) लोकायतांस् तथा मन्त्रान् निरर्थान् न परामृशेत् / अपार्थं धारयेन् नैव उत्सदं पात्रचीवरम् // इति //
कुदृष्टिहेतूनाम् इतोबाह्यककुशास्त्राणां पञ्चोपादानस्कन्धविप्रतिबन्धार्थेन लोकायतकृतानाम् अपरामर्षतः, लाभसत्कारगृद्धिहेतोश् च उत्सदपात्रचीवरधारणस्य परिवर्जनतो हेतुविशुद्ध्या शिक्षाविशुद्धिं दर्शयति //
अ. v-1-g ms.3*अ2म्, msg.27a2r, p.250b6, d.217a5, n.234a1, ch.369a5 (32) गृहस्थैः सहसंसर्गं न कुर्यात् क्लेशवर्धनम् / आर्यैस् तु सहसंसर्गं कुर्याज् ज्ञानविशोधनम् // इति //
विपक्षहेतोः प्रतिपक्षहेतोश् च वर्जनात् सेवनाच् च विशुद्धिं दर्शयति //
(33) कुर्यान् मित्रकुलं नैव शोकव्याक्षेपकारकम् / दुःखस्य जनकान् क्लेशान् उत्पन्नान् नाधिवासयेत् // इति //
यथा गृहस्थैः सहसंसर्गः शोकव्याक्षेपं कृत्वा क्लेशविवर्धनो दुःखहेतुः, यथा चार्यसंसर्गो दुःखजनकक्लेशोत्पन्नानधिवासनया प्रतिपक्षहेतुः, तद् दर्शयति //
अ. v-1-h ms.3*अ3र्, msg.27a3m, p.251a2, d.217b1, n.234a4, ch.369a13 (34) श्रद्धादेयं न भुञ्जीत कथंचिच् च क्षतव्रतः / प्रत्याख्यानं न कुर्वीत सद्धर्मस्य कथंचन // इति //
लाभसत्कारानभिगृद्धेः कुदृष्ट्यनभिनिवेशस्य च श्रद्धादेयाविनिपातनेन सद्धर्माप्रतिक्षेपणेन चायत्याम् अपि कामाध्यवसानकुदृष्ट्युत्पादहेतुपरिवर्जनतो विशुद्धिविशेषं दर्शयति //
अ. v-1-i ms.3*अ4र्, msg.27a3m, p.251a4, d.217b3, n.234a6, ch.369a18 (35) परेषां स्खलिते दोषे अनाभोगः सुखी भवेत् / आत्मनः स्खलितं दोषं ज्ञात्वा विवृणुयात् पुनः // इति //
परेषां च दोषदर्शनाभोगविवर्जनेन, स्वकुशलपक्षाविक्षेपसौमनस्योत्पत्त्या, आत्मदोषपरिज्ञानाविष्करणेन च निरभिमानतया शिक्षाविशुद्धिं दर्शयति //
अ. v-1-j ms.3*अ5र्, msg.27a3r, p.251a6, d.217b4, n.234a7, ch.369a23 (36) आपत्तिं च तथापन्नो यथाधर्मं प्रकल्पयेत् / तथेतिकरणीयेषु स्वयंकारी पटुर् भवेत् // इति //
आपत्तिव्युत्थानतः परेभ्यश् चोपस्थानपरिचर्यास्वीकरणकामतापरिवर्जनतो ऽपि विशुद्धिं दर्शयति //
अ. v-1-k ms.3ऽअ6म्, msg.27a4l, p.251a8, d.217b5, n.234b2, ch.369a26 (37) बुद्धानां श्रावकाणां च अनुभावं च देशनाम् / श्राद्धो ऽवद्यदर्शी च नाभ्याचक्षीत सर्वथा // इति //
श्रद्धासंपत्त्या अभ्याख्याने चावद्यदर्शितया विशुद्धिः परिदीपिता //
अ. v-1-l ms.3*अ6र्, msg.27a4m, p.251b1, d.217b6, n.234b3, ch.369a29 (38) सुगम्भीरेषु धर्मेषु अतर्कावचरेषु च / पौराणम् आगमं त्यक्त्वा स्वदृष्टिं न परामृशेत् // इति //
स्वयंदृष्टिपरामर्षस्थायित्वपरिवर्जनतो ऽपि विशुद्धिविशेषः परिदीपितः //
अ. v-2-a ms.3*अ7म्, msg.27a4r, p.251b3, d.217b7, n.234b4, ch.369b3 (39) व्यवकृष्टविहारी स्यात् प्रान्ते हि शयनासने / कुशलान् भावयेद् धर्मान् दृढवीर्यपराक्रमः // इति //
कायचित्तस्य व्यवकृष्टतया समाध्यनुकूलशयनासनासेवनतया अकुशलवितर्कवर्जितैकान्तशुक्लधर्मभावनया लयौद्धत्याद्युपक्लेशानभिभवनीयत्वेन च सुसंनद्धप्रयोगतयाधिचित्तंशिक्षणोपायविशेषं दर्शयति //
अ. v-2-b ms.3*अ8ल्, म्स्ग् 27अ5ल्, p.251 ब्6, d.218a2, n.234b6, ch.369b8 (40) अच्छन्दिकश् छन्दजातः अप्रदुष्टो विदूषणः / निर्मिद्धश् चैव मिद्धीव काले शान्तो न च स्थितः //
(41) निष्कौकृत्यः सकौकृत्यो निःकाङ्क्षो ऽथ च काङ्क्षति / सर्वथा सर्वदा युक्तो भवेत् संयक्प्रयोगवान् // इति //
ābhyāṃ gāthābhyārh* kāmacchandavyāpādastyānamiddhauddhatyakawkṛtyavicikitsānivaraṇaparivarjanāt kuśaladharmacchandikatayā kāmavidūṣaṇena, kuśalapakṣaprayogakalyatānimittaṃ ca kāle middhaniṣevaṇena, cittaṃ śamayataś ca līyamāne citte tadāśaṅkini vā prasadanīyanimittamanasikārāc chamānavasthitatvena, cāragatasya ca prāg āpattes tadanadhyācārataḥ sakaukṛtyatayā, uttarottaraviśeṣākāṅkṣaṇatayā ca satkṛtyasātatyena ca saṃyakprayuktasya cādhicittaṃśikṣāviśuddhiṃ darśayati //
अ. v-2-c ms.3*ब्1म्, msg.27a5m, p.252a3, d.218a6, n.235a3, ch.369b18 (42) नुदनो बोधनश् चैव तथा संयोजनो ऽपरः / नैमित्तिकस्नेहनश् च तथा विलसनो ऽपरः //
(43) निष्पीडनश् च परमः स्नेहनः कल्प उच्यते / कामरागस्य जनकस् तं बुधः परिवर्जयेत् // इति //
अत्राष्टविधस्य विकल्पस्य मैथुनरागजनकस्यादाव् आरभ्य क्रमेणोत्पद्यमानस्य यावन् निष्ठागमनतः परिवर्जनया शिक्षाविशुद्धिविशेषः परिदीपितः /
तत्र नुदनो विकल्पो यो रञ्जनीये वस्तुन्य् अयोनिशोमनस्कारसंप्रयुक्तश् चित्तस्य प्रेरकः / बोधनो यस् तस्मिन्न् एव वस्तुनि प्रबुद्धरागपर्यवस्थानसंप्रयुक्तः / (श्भ् इइ 366) संयोजनस् तस्यैव वस्तुनः पर्येषकः / नैमित्तिकस् तस्मिन्न् एव वस्तुनि विचित्रशुभनिमित्तग्रहकः / स्नेहनः प्राप्ते तस्मिन् वस्तुन्य् अध्यवसानसंप्रयुक्तः / विलसनो यस् तस्मिन्न् एव वस्तुनि विचित्रपरिभोगाभिलाषनानामुखप्रवृत्तः / निष्पीडनो यो द्वयद्वयेन्द्रियसमापत्तिकाले / परमस्नेहनो यो ऽशुचिविप्रमोक्षकाले //
अ. v-2-d-(1) ms.3ऽब्3र्, msg.27a6l, p.252b2, d.218b3, n.235b1, ch.369c4 (44) अतृप्तिकरकाः कामाः बहुसाधारणास् तथा / अधर्महेतवश् चैव तथा तृष्णाविवर्धकाः //
(45) सतां विवर्जनीयाश्च क्षिप्रं विलयगामिनः / प्रत्ययेष्व् आश्रिताः कामाः प्रमादस्य च भूमयः // इति //
अष्टाभिर् आकारैर् दृष्टे धर्मे संपराये च यथायोगं कामानाम् आदीनवदर्शनेन कामच्छन्दप्रहाणोपायं दर्शयति //
अ. v-2-d-(2) ms.3*ब्4म्, msg.27a6r, p.252b4, d.218b5, n.235b3, ch.369c8 (46) करङ्कसदृशाः कामाः मांसपेश्युपमास् तथा / तृणोल्कासदृशाश् चैव तथा अग्निशिखोपमाः //
(47) आशीविषोपमाश् चैव तथा स्वप्नोपमाः पुनः / याच्ञालंकारसदृशास् तथा वृक्षफलोपमाः //
(48अ) एवं कामान् परिज्ञाय नाभिगृध्येत् कथंचन // इति //
अत्र पूर्वोक्तानाम् अष्टानाम् अतृप्तिकरत्वादिनां कामेष्व् आदीनवानाम् सर्वलोकसिद्धैर् उपमोपन्यासैर् आदीनवत्वं दर्शयति / ये नामैवं बहुष्व् आविष्कृतादीनवाः कथं नाम तेषु पण्डितो गृध्येद् इति संदर्शनार्थम् /
तत्रातृप्तिकरकाः करङ्कसदृषत्वात् / बहुसाधारणा मांसपेश्युपमत्वात् / अधर्महेतवस् तृणोल्कासादृश्येनात्यक्तादहनप्रत्युपस्थानतया / तृष्णाविवर्धना अग्निखदोपमतया तृष्णासंजननसाधर्म्येण / (श्भ् इइ 368) सतां वर्जनीया आशीविषोपमतया / क्षिप्रं विलयगामिनः स्वप्नोपमतया / प्रत्ययाश्रिता याच्ञालंकारसदृशतया / प्रमादभूमयो वृक्षाग्रफलोपमतया //
अ. व्-3 ms.3*ब्6र्, msg.27a7m, p.253a2, d.219a3, n.236a1, ch.369c22 (48ब्) सद्धर्मं शृणुयान् नित्यं चिन्तयेद् भावयेद् अपि / (49) शान्तौदारिकदर्शी प्राग् भावनैकान्तिको भवेत् / विजह्य क्लेशदौष्ठुल्यं प्रहाणे च रतो भवेत् //
(50) मीमांसकः स्यान् निमित्ते प्रयोगपरमो भवेत् / कुर्याच् च कामवैराग्यं रूपवैराग्यम् एव च //
(51) सत्याभिसमयं कुर्यात् सर्ववैराग्यम् एव च / दृष्टे धर्मे च निर्वायात् तथा उपधि संक्षयात् // इति //
अत्र लक्षणप्रतिसंवेद्यादिभिः सप्तभिर् मनस्कारैर् लौकिकलोकोत्तरमार्गविशुद्ध्या सोपधिनिरुपधिनिर्वाणफलाधिप्रज्ञंशिक्षाविशुद्धिः परिदीपिता /
तत्र लक्षणप्रतिसंवेदी सद्धर्मश्रवणचिन्तनवचनेन परिदीपितः / अधिमोक्षिको भावनावचनेन / तदधिमुक्तिभावनतः / शान्तौदारिकदर्शी प्राग् इति प्राविवेक्यः / भावनैकान्तिको भवेद् इति रतिसंग्राहकः / मीमांसकः स्यान् निमित्त इति मीमांसामनस्कारः / प्रयोगपरमो भवेद् इति प्रयोगनिष्ठः / कुर्याच् च कामवैराग्यं रूपवैराग्यम् एव च / सत्याभिसमयं कुर्यात् सर्ववैराग्यम् एव चेति लौकिकलोकोत्तरप्रयोगनिष्ठाफलं च //
// आभिप्रायिकार्थगाथानिर्देशः समाप्तः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
