Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

मृत्युवञ्चनोपदेश

Tác giả
वागीश्वरकीर्ति
Thông tin
GRETIL — Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

वागीश्वरकीर्ति: मृत्युवञ्चनोपदेश

॥ ओं नमः सर्वज्ञाय ॥

अधिगतपरमार्थः श्रीघनव्यूह एव प्रति तुषितजनार्थं यो ऽभवच् छ्वेतकेतुः तत इह जगदर्थं चाभवच् छाक्यकेतुः स जयतु जितमृत्युर् दर्शितानन्तमायः // VMv_1.1

अजरामरतां प्राप्तम् अजरामरकारकम् अजरामरताप्राप्त्यै नत्वा संबुद्धम् आदरात् // VMv_1.2

दुर्बोधं मन्दबुद्धीनां दुष्करं चलचेतसाम् सारिष्टं वञ्चनं मृत्योर् उच्यते शास्त्रसंगतम् // VMv_1.3

सर्वथा वञ्चनं मृत्योर् मुक्तानाम् एव युज्यते अमुक्तानां च सर्वेषां कियत्कालविलम्बनम् // VMv_1.4

आयुरिन्द्रियचित्तानां निरोधो मृत्युलक्षणम् उपायैर् जीवितं दीर्घं मृत्युवञ्चनम् उच्यते // VMv_1.5

यावज् जीवति संसारे धर्माचारी जितेन्द्रियः तावत् पुण्यादिसंभारं प्रसूते बोधिसाधकम् // VMv_1.6

न विना जीवितात् सारं संसारे किं चिद् ईक्ष्यते नानोपायैर् अतस् तूर्णं मृत्युवञ्चनम् आरभेत् // VMv_1.7

न दुष्करं यतः किं चिद् उपायैर् युक्तियोजितैः मणिमन्त्रौषधीनां च प्रभावः सर्वसंमतः // VMv_1.8

लक्षणाद् दूरतो मृत्युं ज्ञात्वा युक्ता प्रतिक्रिया मस्ते पतति वज्राग्नौ सुप्रज्ञो ऽपि करोति किम् // VMv_1.9

बाह्याध्यात्मिकभेदेन द्विधा मरणलक्षणम् कथ्यते ज्ञायते येन मरणं भावि तत्परैः // VMv_1.10

मृत्योर् लक्षणम् आज्ञातुं वाञ्छा चेत् कस्य चिद् भवेत् तेन स्वस्थशरीरेण ज्ञातव्यं संशयो ऽन्यथा // VMv_1.11

धातुवैषम्यतो रोगात् तिमिरादिप्रभावतः भयशोकादिसामर्थ्यात् प्रतिभाति यतो ऽन्यथा // VMv_1.12

दैवभूतोभयक्षोभान् मृत्युं त्रिविधलक्षणम् प्राप्यारिष्टसमुद्भूतिर् अतो भेदेन लक्षयेत् // VMv_1.13

बाह्याभ्यन्तरभेदेन दैवक्षोभो द्विधेष्यते भूतक्षोभो ऽपि द्विविधस् तथैवेति निरूपयेत् // VMv_1.14

दैवसंक्षोभतो मृत्युर् आधिदैविक उच्यते दैवक्षोभो ऽनशनादिवज्रपातादिलक्षणः // VMv_1.15

भूतसंक्षोभतो मृत्युर् आधिभौतिक उच्यते भूतक्षोभस् तु पित्तादिवह्नितोयाद्युपद्रवः // VMv_1.16

उभयक्षोभतो मृत्युर् उभयाज्जो निगद्यते उभयक्षोभो वज्रादिपित्तश्लेष्माद्युपद्रवः // VMv_1.17

अरिष्टानाम् अनन्तत्वान् नोत्पत्तिर् युगपन् मता क्रमशो ऽपि न सर्वेषाम् अपि त्व् एकादिसंख्यया // VMv_1.18

अदृष्ट्वा लक्षणं यत्र मृत्युर् दृष्टः क्व चिद् भवेत् निश्चेतुर् दूषणं तत्र न तु लक्षणनास्तिता // VMv_1.19

दृष्ट्वापि लक्षणं यत्र न मृत्युर् दृश्यते क्व चित् अभ्रान्तौ तत्र धर्मादिबाधकान्तरकल्पनम् // VMv_1.20

निश्चिते दूरतो मृत्यौ प्रसिद्धिर् महती भवेत् यथाशक्ति परित्यागे प्रतीकारे च वर्तनम् // VMv_1.21

सदा समाहितो भूत्वा तद्गतैकाग्रमानसः बाह्यानि प्रथमं तावल् लक्षणान्य् उपलक्षयेत् // VMv_1.22

लक्षणानां परिच्छेदकालो द्विविध इष्यते नियतो ऽनियतश् चेति विज्ञेयः स तु यत्नतः // VMv_1.23

संक्रान्तिपूर्णमास्यादौ प्रभातादिक्षणात्मकः कालो नियत इत्य् उक्तो ऽनियतस् तु विपर्ययात् // VMv_1.24

स्फुरत्संधि कपोलं स्याद् अत्यर्थं मृत्युदर्शनात् वातशीतादिसङ्गाच् च लक्षणीयम् अतः पृथक् // VMv_1.25

कर्कटो राशिर् आषाढः पुष्यस् तु मकरो मतः कर्कटे मकरे चापि जायते मृत्युलक्षणम् // VMv_1.26

आषाढसंक्रान्तिदिने मध्याह्ने पदमात्रिका उत्तराभिमुखस्थस्य च्छाया स्वाभाविकी भवेत् // VMv_1.27

पुष्यसंक्रान्तिदिवसे सैव सप्तपदीभवेत् व्यभ्रे नभसि मध्याह्ने च्छायायाश् च निरीक्षणम् // VMv_1.28

प्रतिमासं पदवृद्धिः प्रतिमासं पदक्षयः अमुष्माद् अन्यथाभावे मृत्युशङ्का प्रजायते // VMv_1.29

एकैकपदवृद्धिः स्याद् आषाढान् मकरावधेः एकैकपाद्यह्रासः स्यान् मकरात् कर्कटावधेः // VMv_1.30

आषाढात् क्रमशो वृद्धिः पुष्याद् ध्रासः क्रमात् तथा छायाविकारम् आलोच्य मासान् मरणम् आदिशेत् // VMv_1.31

क्षयकाले भवेद् वृद्धिर् वृद्धिकाले क्षयो यदि तम् एव कालम् आरभ्य मृत्युर् मासाद् विनिश्चितः // VMv_1.32

वृद्धिकाले ऽप्य् अतिवृद्धौ नानारोगाद् उपद्रवः क्षयकाले ऽप्य् अतिक्षये मृत्युर् एव न संशयः // VMv_1.33

आषाढपुष्ययोर् अन्ते पूर्वं कर्कटमत्स्ययोः यानि षट् षड् दिनान्य् अत्र कालाकालनिरूपणम् // VMv_1.34

आषाढान्तदिनैर् एभिः श्रावणादौ शुभाशुभम् पुष्यशेषदिनैश् चापि माघादिषु शुभाशुभम् // VMv_1.35

पादयोस् तालुकां विद्ध्वा नाभौ वेधो यदा भवेत् अहोरात्रत्रयाद् ऊर्ध्वं पञ्चत्वं जायते तदा // VMv_1.36

पादयोस् तालुकां विद्ध्वा यदि चक्षुश् च विध्यति तदा मासत्रयाद् ऊर्ध्वं गमनं यमसद्मनि // VMv_1.37

पादयोस् तालुकां विद्ध्वा नासिकां यदि विध्यति त्रिभिर् दिनैस् तदा नूनम् एकाकी याति पञ्चताम् // VMv_1.38

कुटिप्रस्रावयोः काले तुल्यं स्याद् यदि हञ्छिका तस्याम् एव हि वेलायां मृत्युर् वर्षेण तस्य हि // VMv_1.39

नासिकागद्द्रिकावेधे मरणं पञ्चवत्सरैः जिह्वाग्रादर्शने मृत्युर् वासरैः स्यात् त्रिभिर् नृणाम् // VMv_1.40

मासैश् चतुर्भिर् मृत्युः स्यात् कर्णाग्रे तीक्ष्णवेधनात् सद्यो मृत्युर् भवेन् नूनम् ऊर्णास्थाने प्रवेधनात् // VMv_1.41

तुल्यकालं यदा वेधश् चन्द्रसूर्यगतो भवेत् तदा मासाद् भवेन् मृत्युः पुण्यम् एवार्जयेत् ततः // VMv_1.42

भगलिङ्गसमायोगे मध्ये शेषे च हञ्छिका स्याच् चेत् तुल्यं तदा मासैः पञ्चत्वं याति पञ्चभिः // VMv_1.43

हस्तयोः पादयोश् चैव कनिष्ठानां च संधयः चत्वारो यस्य विध्यन्ति तुल्यं मासात् स मृत्युभाक् // VMv_1.44

हृत्कण्ठमध्ययोर् वेधस् तुल्यकालं यदा भवेत् पक्षत्रयेण मृत्युः स्याद् यदि धर्मं न सेवते // VMv_1.45

तुल्यकालं यदा विध्येत् तालुकानां त्रयं मुहुः त्रिभिर् दिनैस् तदा मृत्युर् यदि शक्रसमो भवेत् // VMv_1.46

वामाक्षिपुत्तलीच्छायां यो न पश्यति दर्पणे सप्ताहान् म्रियते नूनं यदि न स्यात् प्रतिक्रिया // VMv_1.47

मैथुने सति घण्टाया नादश् चेत् कर्णयोर् भवेत् त्रिभिर् मासैस् तदा मृत्युर् यदि ब्रह्मसमो भवेत् // VMv_1.48

कृष्णं यदि भवेच् छुक्रं शुक्लायां प्रतिपत्तिथौ षड्भिर् मासैस् तदा मृत्युर् लोहितं व्याधिसूचकम् // VMv_1.49

कर्णमूले भ्रुवोर् मध्ये मस्तकाग्रे पृथक्पृथक् यदि वेधो ऽप्रतीकारो मृत्युः सद्यस् तदा भवेत् // VMv_1.50

पादाङ्गुष्ठं समारभ्य नाभिपर्यन्तगो भवेत् वेधः सदाहो यस्यासौ षड्मासान् म्रियते ध्रुवम् // VMv_1.51

पादाङ्गुष्ठाद् धृदयान्तं यावत् कण्ठं शिरो ऽथवा मासत्रयात् पक्षत्रयान् मृत्युर् एकदिनात् क्रमात् // VMv_1.52

नासाग्रमांसशैथिल्यान् मृत्युः स्यात् सप्तरात्रतः कपोलमांसविच्छेदान् मृत्युः स्यात् पञ्चमासतः // VMv_1.53

चक्षुर्नासिकयोर् मध्ये स्पन्दनं चेन् न दृश्यते ज्ञात्वा पञ्चदिनान् मृत्युम् आदद्याद् धर्मसंवलम् // VMv_1.54

नेत्रयोस् तारके म्लिष्टे सहसा भवतो यदि षड्मासाभ्यन्तरे मृत्युः प्रतिकारक्रिया न चेत् // VMv_1.55

अकस्मान् नासिका वक्रा कर्णौ भ्रष्टौ स्वदेशतः नेत्रे च वर्तुलीभूते सप्ताहान् मृत्युदर्शनात् // VMv_1.56

अकस्माद् धृदयं निम्नं स्याच् चेत् पक्षात् तदा मृतिः ग्रीवापार्श्वस्थयोर् नाड्योर् विच्छेदाद् अपि पक्षतः // VMv_1.57

अकस्मात् कृष्णरेखा स्याज् जिह्वाया यदि मध्यतः दृढो वा दन्तसंदंशस् तदा मृत्युर् द्विरात्रतः // VMv_1.58

कर्णशष्कुलिकापृष्ठनाडीविच्छेददर्शनात् तस्मिन्न् एव दिने मृत्युर् अथवा पञ्चवासरैः // VMv_1.59

नखेषु रक्तवर्णेषु सहसा यद्य् अरक्तता षड्भिर् मासैस् तदा मृत्युर् यदि मन्त्रादि नाचरेत् // VMv_1.60

अकस्माज् जायते स्थूलः कृशः क्रुद्धो भयाकुलः यस् तस्य मृत्युर् वर्षेण यदि धर्मं न सेवते // VMv_1.61

इन्द्रियाणि न गृह्णन्ति यथास्वं यस्य गोचरान् मुहुः स्खलति वाणी च मुहुश् च मतिविभ्रमः // VMv_1.62

चक्षुषी स्रवतो नित्यं दृष्टरूपे ऽपि विभ्रमः दर्पणे सलिले वापि स्वच्छायां यो न पश्यति // VMv_1.63

रात्राव् इन्द्रधनुः पश्येद् दिवा नक्षत्रमण्डलम् अमेघे विद्युतं पश्येत् स्फुरन्तीं दक्षिणाश्रिताम् // VMv_1.64

दिवा छायापथं पश्येद् उल्कायाः पतनं तथा हंसकाकमयूराणां पश्येद् एकत्र मेलकम् // VMv_1.65

चन्द्रद्वयं द्विसूर्यं वा स्वशिरोज्वलनं तथा गन्धर्वनगरं पश्येद् वृक्षाग्रे शिखरे गिरेः // VMv_1.66

पश्येत् प्रेतपिशाचान् अदृश्यान् अन्यांश् च भीषणान् प्रकम्पते भृशं चैव मूर्छितो वा भवेन् मुहुः // VMv_1.67

छर्दिं मूत्रं पुरीषं च सुवर्णरजतप्रभम् पश्येद् एकैकशस् तस्य मृत्युर् मासावधेर् भवेत् // VMv_1.68

कण्ट्ःओष्ठतालुजिह्वानां छेदं छिद्रं तनौ तथा यः पश्येत् तस्य मृत्युः स्यात् षड्मासाभ्यन्तरे ध्रुवम् // VMv_1.69

कण्ठोष्ठतालुरसनादन्ता यस्य पृथक्पृथक् शुष्यन्त्य् अभीक्ष्णं षड्मासान् मरणं तस्य निर्दिशेत् // VMv_1.70

नक्षत्रचक्रसप्तर्षिदिशां रात्राव् अदर्शनम् सप्ताहमृत्योर् जायेत ज्वाला वाकस्मिकी तनौ // VMv_1.71

अरुन्धतीं रोहिणीं च ध्रुवं छायापथं तथा रात्राव् अपश्यतो ऽकस्मात् षड्मासान् मृत्युम् आदिशेत् // VMv_1.72

कलङ्करहितं चन्द्रं सूर्यं रश्मिविवर्जितम् सरश्मिकं चित्रभानुं चन्द्रं चापि सरश्मिकम् // VMv_1.73

रात्रौ सूर्यं दिवा चन्द्रं स्वनेत्रे ज्वलनं तथा तारां मेरुप्रमाणां च समुद्रं च नदीम् इव // VMv_1.74

नाभौ हिक्कां गुदे हञ्छां वर्णं पद्मोपमं मुखे गलके पिटकान् रक्तान् गात्रे वर्णविचित्रताम् // VMv_1.75

हृदये क्रन्दनं साश्रु प्रकम्पम् अथ तालुनि चन्द्रांशुं वह्निसंस्पर्शं सूर्यांशुं हिमशीतलम् // VMv_1.76

चन्द्रच्छिद्रं रविच्छिद्रं छिद्रं भूमौ तथाम्बरे आत्मनैव हि यः पश्येत् पश्येन् मृत्युं स पक्षतः // VMv_1.77

मूत्रशुक्रपुरीषाणि तुल्यकालं पतन्ति चेत् वर्षान् मृत्युर् भवेत् तत्र भैषज्यादि प्रतिक्रिया // VMv_1.78

अर्धं शीतं तथा चोष्णम् अर्धं यस्य कलेवरम् सप्तरात्राद् भवेन् मृत्युः परलोकं विचिन्तयेत् // VMv_1.79

हकारः शीतसंस्पर्शः फुकारो वह्निसंनिभः यस्यानुभूयते तस्य दशाहाद् यमदर्शनम् // VMv_1.80

अनामिकानां मूलेषु दृष्टया कृष्णरेखया अष्टादशदिनाद् ऊर्ध्वं मृत्युः प्राक्कर्मदोषतः // VMv_1.81

यस्य मस्तकम् आरुह्य त्रिवर्णो याति वेगतः कृकलासो मृतिस् तस्य पञ्चमासाद् विनिश्चिता // VMv_1.82

शब्दो न श्रूयते देहाद् धस्ताभ्याम् अपमार्जितात् सर्वाङ्गशीतलत्वेन दशाहान् मरणं ध्रुवम् // VMv_1.83

युगपन् निर्गमो बाहुजङ्घयोर् यस्य गच्छतः विनाशो ब्रह्मसूत्रस्य मृत्युस् तस्यैकवर्षतः // VMv_1.84

कर्दमे पांशुदेशे वा पुरतः पृष्ठतो ऽपि वा खण्डं पादोदये न्यूनं मृत्युर् मासचतुष्टयात् // VMv_1.85

अकस्मात् पुरुषं पश्येत् कृष्णपिङ्गलवर्णकम् वर्षत्रयात्ययान् मृत्युर् यदि भ्रान्त्या न कल्पितः // VMv_1.86

द्विमासमृत्युर् हृत्पादौ स्नातमात्रस्य शुष्यतः त्रिरात्रमृत्युर् दुर्गन्धो जायते विकृताकृतिः // VMv_1.87

खरार्कदिवसे तोयैर् आपूर्य मुखकोटरम् प्रत्यहं फूत्कृतं कुर्वन् क्रमात् तन्मध्यसंस्थितम् // VMv_1.88

पश्येद् इन्द्रधनुश् चित्रं दीर्घायुः पुरुषः सदा षड्मासायुर् न तत् पश्येद् इति कर्मविचित्रता // VMv_1.89

खरार्कदिवसे पश्येत् पुरो गगनमध्यतः मुक्ताहारान् इवालूनान् मुक्ताफलविभूषणान् // VMv_1.90

इन्द्रनीलमणिच्छायान् केशोण्डुकसमाकृतीन् दृश्यदेशं परित्यज्य देशान्तरविसर्पिणः // VMv_1.91

नागान् अनेकशः पश्येत् संयतान् इव संततम् तेषाम् अदृष्टौ षड्मासान् मरणं परिकीर्तितम् // VMv_1.92

प्रभाते वाथ सायाह्ने ज्योत्स्नायां वा चिरं पुरः वितत्य बाहू स्वच्छायां दृष्ट्वा पश्येच् छनैर् नभः // VMv_1.93

तत्रापि दृश्यते छाया धवला नररूपिणी शिरसो ऽदर्शनात् तस्य मृत्युः स्याद् वर्षमध्यतः // VMv_1.94

पुत्रभार्याविनाशः स्याद् वामपाणेर् अदर्शनात् दक्षिणादर्शनात् पितृभ्रात्रादीनां महीयसाम् // VMv_1.95

जानूपरि स्थितौ बाहू कृत्वा मूर्ध्नि तथाञ्जलिम् रम्भाफलनिभां छायां लक्षयेन् मध्यतस् तयोः // VMv_1.96

यदा त्व् एकं दलं तत्र विकासि परिलक्ष्यते तस्याम् एव तिथौ नूनं षड्मासान् मरणं भवेत् // VMv_1.97

सूर्यमार्गगते वायौ लक्षणीयम् इदं त्रयम् श्रोत्रे शिरसि नेत्रे च शब्दो धूमो द्युतिस् तथा // VMv_1.98

कर्णौ पिधाय सुदृढं गम्भीरो गुल्गुलो ध्वनिः न श्रूयते पञ्चदिनं दश पञ्चदशाथवा // VMv_1.99

विंशतिं दिवसान् यावत् पञ्चविंशतिम् एव वा बाणाब्धिगुणनेत्रेन्दुवर्षैर् मृत्युर् यथाक्रमम् // VMv_1.100

एषाम् अप्य् अन्तरालेषु शोध्याः षोडश वासराः वर्षस्यैव चतुर्थांशैः क्रमशश् चाभिवर्धितैः // VMv_1.101

मस्तकोपरि निर्यान्तीं सप्ताहं धूममालिकाम् यो न पश्यति तस्य स्यान् मृत्युर् वर्षत्रयावधेः // VMv_1.102

स्वनेत्रयोश् चतुर्दिक्षु दृश्यन्ते ऽङ्गुलिपीडनात् मार्जारनेत्रतुल्यानि ज्योतींषि झटितिक्रमात् // VMv_1.103

अपीडने ऽपि तद्दृष्टौ मृत्युः स्याच् छतवासरैः एतत् सामान्यतो ज्ञेयं विशेषस् त्व् अयम् उच्यते // VMv_1.104

चन्द्रस्याधस् तथोर्ध्वं च कर्णनासोपकण्ठयोः नष्टे ज्योतिषि मृत्युः स्यात् षट्त्रिनेत्रेन्दुमासतः // VMv_1.105

सूर्ये ऽपि यदि चन्द्रस्य क्रमः स्यात् पूर्ववत् तदा दिग्बाणगुणनेत्रेषु दिनेषु मरणं भवेत् // VMv_1.106

स्वरूपस्य विपर्यासात् षड्मासान् मरणं भवेत् पञ्चमासाद् भवेन् मृत्युर् नासाग्रस्य विनाशतः // VMv_1.107

बाधिर्ये श्रोत्रयोर् मृत्युश् चतुर्मासात्ययाद् भवेत् स्वस्थेन्द्रियस्य पतने मृत्युर् मासत्रयाद् भवेत् // VMv_1.108

भ्रूमध्ये ज्योतिषो ऽदृष्टौ द्विमासाद् यमदर्शनम् एकमासात्ययान् मृत्युर् वृषणे गोलकक्षयात् // VMv_1.109

पराक्ष्णोः प्रतिबिम्बस्यादृष्टौ पक्षाद् विनाशनम् जिह्वाया अपरावृत्तौ दशाहान् मृत्युसंगमः // VMv_1.110

नाभेर् विपर्ययान् मृत्युः पञ्चाहाद् उपश्लिष्यति पार्श्वद्वयस्याकृष्टौ तु मृत्युः स्याद् वासरत्रयात् // VMv_1.111

समस्तगात्रस्तब्धत्वे मृत्युर् एकाहिको भवेत् ललाटस्थत्रिरेखाणां नाशान् मृत्युर् अहस्त्रयात् // VMv_1.112

स्वस्थस्य लालाजिह्वा चेन् निःस्पर्शा द्रववर्जिता यावत् पञ्चदिनं मृत्युः पञ्चाशद्दिवसैस् तथा // VMv_1.113

अम्लादित्वं च रसतो नीलादित्वं च वर्णतः विकारः शुक्रमूत्राणां षड्मासान् मृत्युदर्शनात् // VMv_1.114

युगपत्पञ्चधारं वा वामावर्तं विगन्धि च मूत्रं यस्य भवेन् मृत्युस् तस्य षड्मासमध्यतः // VMv_1.115

कृष्णे वा यदि वा शुक्ले पक्षे रेतो ऽतिकृष्णकम् मृत्युः षड्मासतो नो चेत् तेनैव स्यात् प्रतिक्रिया // VMv_1.116

कृष्णभागं परित्यज्य गृहीत्वा शुक्लभागकम् चन्द्रे प्रभञ्जने वाति प्रवेशात् स्यात् प्रतिक्रिया // VMv_1.117

स्थिरत्वे ऽपि स्वदेहस्य तच्छाया चञ्चला यदि चतुर्मासाद् भवेन् मृत्युर् इत्य् आगमविचक्षणाः // VMv_1.118

दक्षिणाशागतां छायाम् आत्मनो यदि पश्यति अद्यैव मृत्युर् अस्माकम् इति पश्येद् अनित्यताम् // VMv_1.119

निरर्थको विसंवादी मिथ्येत्यादि प्रकाशनात् स्वप्नो ऽप्य् असत्यः सर्वेषां नातः श्रद्धा न युज्यते // VMv_1.120

देवतादर्शितः स्वप्नः सत्यस्वप्नो ऽथ यो नरः स स्वप्ने प्रत्ययं कृत्वा मृत्युलिङ्गानि पश्यतु // VMv_1.121

किंशुकं कोविदारं च पुष्पितं करवीरकम् यो ऽभिरोहति स्वप्नान्ते स स्यात् षड्मासमृत्युकः // VMv_1.122

विहारयष्टिं स्वप्नान्ते यो ऽभिरोहति मानवः वालुकाभस्मराशिं वा मरणं तस्य पूर्ववत् // VMv_1.123

गर्दभं यः समारूढः प्रयायाद् दक्षिणां दिशम् भूयश् च न निवर्तेत तद्वत् तस्यापि जीवितम् // VMv_1.124

यश् चापि वानरारूढः प्रयायाद् दक्षिणां दिशम् तत्रस्थश् च विबुध्येत मृत्युः स्यात् तस्य पूर्ववत् // VMv_1.125

दण्डं वा चैत्ययूपं वा नरो यस् त्व् अभिरोहति वाल्मीकं पांशुराशिं वा षड्मासान् न स जीवति // VMv_1.126

काली कुमारी संक्रुद्धा या तु बध्नाति बन्धनैः कालरात्री तु सा ज्ञेया सप्ताहान् मृत्युकारिका // VMv_1.127

कृष्णवस्त्रा तु या नारी काली कामयते नरं करवीरमाला स्वप्ने यात्य् असौ यममण्डलम् // VMv_1.128

तमो वा प्रविशेत् स्वप्ने श्वभ्रं वा चारकं तथा वृक्षाद् वा प्रपतेत् स्वप्ने स मृत्योर् अन्तिके स्थितः // VMv_1.129

वृक्षं तृणं वा काष्ठं वा विफलं यस् तु पश्यति सुप्तः शीर्षे शरीरे वा षड्मासान् न स जीवति // VMv_1.130

यो वानररथारूढो गच्छेत् पूर्वां दिशं नरः प्रतिबुद्धो विजानीयाद् रात्रिर् एषा ममान्तिमा // VMv_1.131

श्वकाकगृध्रगोमायुरक्षःप्रेतपिशाचकैः भक्ष्यते प्रोह्यते चापि खरपोत्र्युष्ट्रसौरभैः // VMv_1.132

एकाब्दविगमे नूनं मरणं तस्य निर्दिशेत् स्वप्नदृष्टनिमित्तानां शान्तिर् मायोपमा मतिः // VMv_1.133

लोहदण्डधरं कृष्णं नरं कृष्णपरिच्छदम् प्रसुप्तेनाग्रतो दृष्ट्वा त्रिमासान् मृत्युर् आप्यते // VMv_1.134

रक्तगन्धप्रलिप्ताङ्गं रक्तमाल्यविभूषितम् तैलाभ्यक्तम् अतिभीतं मुण्डितं रक्तवाससम् // VMv_1.135

खरम् आरुह्य वेगेन व्रजन्तं दक्षिणां दिशम् आत्मानम् ईदृशं स्वप्ने पश्येत् षड्मासमृत्युकः // VMv_1.136

रक्तमाल्यानि गन्धांश् च रक्ताम्बरम् अथापि वा यः स्वप्ने लभते तस्य मृत्युः स्याद् अष्टमासतः // VMv_1.137

संख्यातीतानि बाह्यानि मृत्युलिङ्गानि तानि कः एकवक्त्रेण शक्नोति वक्तुं वर्षशतैर् अपि // VMv_1.138

एतानि मृत्योः प्रतिपादकानि लिङ्गानि बाह्यानि यथोदितानि विज्ञाय तानि त्वरितं विधेयो मन्त्रादिभिर् वञ्चन एव यत्नः // VMv_1.139

॥ इति श्रीपण्डितवागीश्वरकीर्तिविरचिते मृत्युवञ्चनोपदेशे प्रथमः परिच्छेदः ॥

इदानीम् आन्तरं मृत्योर् लक्षणं कथ्यते स्फुटम् तच् च वायूदयाज् ज्ञेयं वायुर् घ्राणास्यगोचरः // VMv_2.1

बाह्यलक्षणमात्रान् न मृत्योः सम्यग् विनिश्चयः यावद् आध्यात्मिकं सम्यग् लक्षणं नैव निश्चितम् // VMv_2.2

उभयोर् निश्चयान् मृत्युर् निश्चितः स्यात् परिस्फुटम् बाह्ये बुद्धिविपर्यासो रोगादेर् अपि संस्कृतेः // VMv_2.3

पुष्यादिमाससंक्रान्तौ पूर्णमास्यादिपर्वसु सामान्यलक्षणं मृत्योर् लक्षयेत् प्रातरादितः // VMv_2.4

निरूपकनरो यत्र दिने कालं निरूपयेत् तद् आरभ्य दिनं मृत्युर् मितकालात्ययाद् भवेत् // VMv_2.5

समप्रकृतियुक्तानां सर्वप्राणभृतां सदा नासिकादक्षिणेतरे पुटे प्रत्येकम् आश्रितः // VMv_2.6

वायुर् वहति यामार्धं सूर्यशीतांशुसंज्ञके अतो विपर्ययात् कल्प्यं मरणादि मनीषिभिः // VMv_2.7

प्रतिपदं समारभ्य शुक्लां वहति चन्द्रगः दिनानि त्रीणि पवनः ततः सूर्ये दिनत्रयम् // VMv_2.8

दिनत्रयं पुनश् चन्द्रे ततः सूर्ये दिनत्रयम् क्रमेणानेन नियमाद् यावत् पञ्चदशी सिता // VMv_2.9

एवं कृष्णं समारभ्य सूर्ये वहति मारुतः दिनानि त्रीणि पूर्ववद् यावत् पञ्चदशीतरा // VMv_2.10

क्रमस्यास्य विपर्यासात् त्रिभिः पक्षैः सुनिश्चितात् षड्भिर् मासैर् भवेन् मृत्युर् धर्मम् एव स्मरेत् ततः // VMv_2.11

पक्षद्वयविपर्यासात् सुहृद्बन्धुविपद् भवेत् एकपक्षविपर्यासाद् दारुणव्याधिसंभवः // VMv_2.12

एकद्वित्रिचतुःपञ्चषड्दिनानि विपर्ययात् वहेद् वायुर् यदि तदा कल्युद्वेगादि जायते // VMv_2.13

त्रिमार्गगो भवेद् वायुः प्रकृतेः परिवर्जनात् मध्याह्नात् परतो मृत्युः प्रतीकारविवर्जितः // VMv_2.14

संक्रान्तिरहितो वायुर् उभयोर् अपि मार्गयोः वहेद् यस्य दशाहानि संक्रान्तौ म्रियते हि सः // VMv_2.15

विषुवत्क्षणसंप्राप्तौ स्पन्देते यस्य लोचने तस्य नाशं विजानीयाद् अहोरात्रान् न संशयः // VMv_2.16

इतश् चेतश् च बहुधा यस्यार्धप्रहरं वहेत् वायुस् तस्य विजानीयात् पूजनं लाभम् एव च // VMv_2.17

संक्रान्तिपञ्चकं यस्य समतीत्य मुखे वहेत् वायुस् तस्यार्थनाशः स्याद् उद्वेगो वा भयादि वा // VMv_2.18

वामनासापुटे वायुः संक्रान्तीश् च त्रयोदश समतीत्य वहेद् यस्य तस्य रोगादि जायते // VMv_2.19

पुटद्वयं परित्यज्य यदा वक्त्रेण गच्छति तद् अहर् जीवितं तस्य यदि वज्रसमो ऽप्य् असौ // VMv_2.20

मार्गशीर्षस्य संक्रान्तिकालम् आरभ्य मारुतः पञ्चाहं चेद् वहेत् सूर्ये मृत्युर् अष्टादशाब्दतः // VMv_2.21

अश्वयुङ्माससंक्रान्तिकालम् आरभ्य मारुतः पञ्चाहं चेद् वहेन् मृत्युर् भवेत् पञ्चदशाब्दतः // VMv_2.22

श्रावणस्यापि चेद् एवं मृत्युर् द्वादशवर्षतः ज्येष्ठे ऽपि चेद् भवेद् एवं मृत्युः स्यान् नववर्षतः // VMv_2.23

चैत्रमासस्य संक्रान्तिकालम् आरभ्य चेद् वहेत् पञ्चाहं मारुतो मृत्युः षड्भिर् वर्षैस् तदा भवेत् // VMv_2.24

माघमासस्य संक्रान्तेः पञ्चाहं चेद् वहेन् मरुत् वर्षत्रयात्ययान् मृत्युर् इति कालविचक्षणाः // VMv_2.25

सर्वत्र द्वित्रिचतुरो वायुश् चेद् दिवसान् वहेत् अब्दभागैस् तु ते शोध्या यथावद् अनुपूर्वशः // VMv_2.26

एवम् एव वहेच् चन्द्रे वायुश् चेन् मृत्युवर्जिताः व्याधिदुर्भिक्षकान्तारशोकराजाद्युपद्रवाः // VMv_2.27

सामान्यकालसंबोधः स्फुटो ऽयम् उपदर्शितः विशेषकालबोधाय गतिर् अन्या प्रदर्श्यते // VMv_2.28

समसप्तगते सूर्ये जन्मर्क्षे चन्द्रमा यदि कालो ऽसौ पौष्णनामेति मृत्युनिर्णयकारकः // VMv_2.29

यत्र राशौ नरो जातस् तस्माद् यः सप्तमो ऽपरः समसप्त इति ख्यातस् तत्रार्कः समसप्तगः // VMv_2.30

राशौ तत्रैव चन्द्रश् चेज् जन्मनक्षत्रगो भवेत् पौष्णः कालः स विज्ञेयस् तत्र मृत्योर् निरूपणम् // VMv_2.31

सर्वत्र सूर्यमार्गान्तर्गते सततगामिनि कालं निरूपयेद् विद्वान् इतरत्र विकालकम् // VMv_2.32

यत्र वेलाक्षणे वायोर् गतिर् अन्या प्रवर्तते तत्र वेलाक्षणे पूर्णे मृत्युर् नास्त्य् अत्र संशयः // VMv_2.33

पौष्णे काले वहेद् वायुर् दिनार्धं यदि सूर्यगः वत्सरैर् मनुसंख्यातैर् लक्षयेन् मरणं तदा // VMv_2.34

दिनम् एकम् अहोरात्रं दिनद्वित्रिचतुष्टयम् वहेच् चेद् अर्कदिक्शैलषड्वेदाब्दैः क्रमान् मृतिः // VMv_2.35

पञ्चाहं च दशाहं च तथा पञ्चदशाहकम् वहेच् चेत् त्रिद्व्येकवर्षैर् भवेन् मृत्युर् यथाक्रमम् // VMv_2.36

तथैव चेद् वहेद् वायुर् विंशतिं पञ्चविंशतिम् षड्भिर् मासैस् त्रिभिश् चैव यथासंख्यं भवेन् मृतिः // VMv_2.37

षट्सप्ताष्टाविंशतिं चेद् ऊनत्रिंशद्दिनं वहेत् स्याद् द्व्येकमासैः पक्षेण दिग्दिनैश् च क्रमान् मृतिः // VMv_2.38

त्रिंशत् तु चैकत्रिंशच् च द्वात्रिंशद् दिवसान् यदि पञ्चत्रिद्विदिनैर् मृत्युर् यथासंख्यं भवेत् तदा // VMv_2.39

त्रयस्त्रिंशद्दिनं यावत् सूर्ये चेद् वाति मारुतः तस्मिन्न् एव दिने मृत्युर् विष्णोर् अपि न संशयः // VMv_2.40

पञ्चाहपञ्चविंशत्योर् अन्तरालेषु वासराः नोक्ताः षोडशसंख्या ये तेषां शोधनम् उच्यते // VMv_2.41

षड्दिनं चेत् त्रिभिर् वर्षैश् चतुर्विंशतिवर्जितैः सप्ताहं चेत् त्रिभिर् वर्षैः पूर्वोक्तद्विगुणोनितैः // VMv_2.42

अष्टाहं चेत् त्रिभिर् वर्षैर् द्वासप्ततिदिनोनितैः नवाहं चेत् त्रिभिर् वर्षैः षण्णवतिदिनोनितैः // VMv_2.43

वहेद् एकादशाहं चेन् मारुतः सूर्यगोचरः चतुर्विंशतिरात्रोनान् मृत्युर् वर्षद्वयाद् भवेत् // VMv_2.44

द्वादशाहं वर्षद्वयात् पूर्वोक्तद्विगुणोनितात् त्रयोदशाहं द्विवर्षाद् द्वासप्ततिदिनोनितात् // VMv_2.45

चतुर्दशाहं द्विवर्षात् षण्णवतिदिनोनितात् षोडशदिनवाहेन द्वादशोनैकवर्षतः // VMv_2.46

वहेत् सप्तदशाहं चेद् वायुः सूर्यैकगोचरः चतुर्विंशत्यहन्यूनाद् वर्षान् मृत्युर् उदीरितः // VMv_2.47

अष्टादशाहं षट्त्रिंशद्दिनन्यूनैकवर्षतः ऊनविंशति चेद् अष्टचत्वारिंशद्दिनोनितात् // VMv_2.48

एकविंशति षड्मासात् षड्वासरवियोजितात् द्वाविंशतिं चेत् षड्मासैर् द्वादशाहविवर्जितैः // VMv_2.49

त्रयोविंशत्यहर्वाहे ऽष्टादशाहविवर्जितात् चतुर्विंशत्यहर्वाहे चतुःषट्कदिनोनितात् // VMv_2.50

त्रयस्त्रिंशद्दिनेष्व् एवं मृत्युलक्षणसंभवः वायूदयवशाज् ज्ञेयो नात ऊर्ध्वम् असंभवात् // VMv_2.51

आह चात्र ।

आदौ कृत्वा दिनार्धं सकलदिनम् अथा-हर्निशं यावद् एव तस्माद् अह्नोर् द्वयं च त्रिदिनम् अथ चतुर्-वासरान् व्याप्य यावत् प्राणो नाड्याश्रितो यो वहति दिनपतेर् उद्गमे सव्यहीने तस्मिन् विज्ञेयम् एतद् भुवनरविदिशो मङ्गलं षट् चतुष्कम् // VMv_2.52

पञ्चभ्यः पञ्चविंशद्दिवसगतिर् इहा-रोहते पञ्चवृद्ध्या तस्माद् एकोत्तरेण त्रिगुणितदशकं त्र्युत्तरं यावद् एव काले पौष्णे समास् तास् त्रिनयनशशिनः षट्त्रियुग्मेन्दवो ये मासास् ते ऽहानि शेषास् तिथिदिगिषुगुण-द्वीन्दवो जीवितस्य // VMv_2.53

त्रिपुटं चक्रम् आलिख्य सप्तत्रिंशद्गृहान्वितम् आयुषः प्राणवायोश् च दिनान्य् अङ्कक्रमाल् लिखेत् // VMv_2.54

इत्य् आन्तराण्य् अपि मया कथितानि मृत्योर् लिङ्गान्य् अरिष्टम् इति चापरनामकानि विज्ञाय तानि सपदि त्वरितैर् विधेयो ध्यानादिभिर् मरण-वञ्चन एव यत्नः // VMv_2.55

॥ इति श्रीपण्डितवागीश्वरकीर्तिविरचिते मृत्युवञ्चनो"पदेशे द्वितीयः परिच्छेदः ॥

बाह्यम् आध्यात्मिकं चैव ज्ञात्वारिष्टकदम्बकम् बाह्यश् चाध्यात्मिकश् चापि ज्ञेयो वञ्चनसंचयः // VMv_3.1

कायवाक्कर्मभिर् बाह्यम् आन्तरं ध्यानकर्मभिः मणिमन्त्रौषधैर् बाह्यम् आन्तरं योगशक्तिभिः // VMv_3.2

श्रद्धया शक्यते कर्तुं मृत्युवञ्चनम् उद्यतैः श्रद्धाम् अतो दृढीकुर्याद् अन्यथा स्याच् छ्रमः परः // VMv_3.3

कायक्लेशैर् बहुविधैर् न चाप्य् अर्थस्य राशिभिः धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैर् अपि // VMv_3.4

श्रद्धा धर्मः परं सूक्ष्मः श्रद्धा ज्ञानं तपो हुतम् श्रद्धा स्वर्गश् च मोक्षश् च श्रद्धा सर्वम् इदं जगत् // VMv_3.5

सर्वस्वं जीवितं चापि दद्याद् अश्रद्धया यदि नैवाप्नुयात् फलं किं चिच् छ्रद्दधानस् ततो भवेत् // VMv_3.6

आदौ धर्मपरो भूयान् मृत्युवञ्चनवाञ्छया धर्मो हि त्रायते मृत्योर् मृत्युर् धर्मेण वञ्च्यते // VMv_3.7

न धर्मरहितस् तिष्ठेत् प्रमादात् क्षणमात्रकम् ब्रह्मापि हि विना धर्मं न प्रभुर् मृत्युवञ्चने // VMv_3.8

विदुषां संमतो धर्मः सत्यं दानं तपः क्षमा विशेषेण कृपा येषां किं तेषां धर्मविस्तरैः // VMv_3.9

कारुण्यस्यन्दि हृदयं येषां सत्त्वेषु संततम् तेषां ज्ञानं च मोक्षश् च किम् अन्यैर् धर्मविस्तरैः // VMv_3.10

अहिंसा परमो धर्मः सर्वसिद्धान्तसंमतः ताम् एवाभ्यस्यतो नित्यं मृत्युर् दूरायते क्रमात् // VMv_3.11

अल्पायुर् अपि दीर्घायुः सद्यः स्याज् जीवयन्न् इमान् पक्षिमत्स्यमृगव्याडचौरादीन् वध्यदेशगान् // VMv_3.12

दीर्घायुर् अपि मन्दायुः सद्यः स्यान् मारयन्न् इमान् चौरमत्स्यमृगव्याडपक्षिणो जीवकाङ्क्षिणः // VMv_3.13

दशाकुशलसंत्यागात् त्रिरत्नशरणात् तथा पञ्चाष्टशिक्षाकरणान् मृत्युर् दूरगतो भवेत् // VMv_3.14

बन्धनस्थान् उरुव्याधिपीडितान् भयकातरान् त्रायमाणो भवेन् नूनं दीर्घायुर् मृत्युवञ्चकः // VMv_3.15

दीनानाथसलज्जेभ्यः शीलवद्भ्यो ऽपि चादरात् ईप्सितार्थप्रदानेन ध्रुवम् आयुर् विवर्धते // VMv_3.16

मातापितृगुरुज्येष्ठज्ञानवृद्धादिगौरवात् मानसत्कारदानाच् च मृत्युर् नैवोपसर्पति // VMv_3.17

स्वेष्टदैवततद्भक्तलिङ्गिनां प्रातर् आदरात् दर्शनाद् वन्दनान् नित्यम् आयुषो वृद्धिर् आप्यते // VMv_3.18

भग्नस्फुटितचैत्यादाव् इष्टकादिप्रदानतः स्याद् अल्पायुः सुदीर्घायुः पैण्डपातिकभिक्षुवत् // VMv_3.19

विहारस्तूपबिम्बादेः क्रिययारामरोपणात् महाष्टस्थानपूजाभिर् आयुर् नित्यं विवर्धते // VMv_3.20

छन्दकभिक्षयोपात्तैर् द्रव्यैः संघस्य भोजनात् सप्ताहायुश् चिरायुः स्याद् धर्माशोकनरेन्द्रवत् // VMv_3.21

वालुकाचैत्यकरणात् तथा सञ्चकताडनात् चैत्यादिवन्दनाच् चैव ध्रुवम् आयुर् विवर्धते // VMv_3.22

महासमाजकं सूत्रम् आटानाटीयकं तथा सक्षुद्रकं महामेघं गाथाः सुस्वस्तिसंज्ञिताः // VMv_3.23

सत्कृत्य वाचयेद् भिक्षून् स्वयं वा संप्रवर्तयेत् दीर्घम् आयुस् तथा प्राप्य मृत्योर् भवति वञ्चकः // VMv_3.24

गण्डव्यूहादिसूत्रान्तान् महायानप्रकाशकान् एकाग्रो वाचयेन् नित्यं मृत्युवञ्चनम् अश्नुते // VMv_3.25

बुद्धभाषितनिःशेषयोगतन्त्रादिवाचनात् पञ्चरक्षाविधानाद् वा मृत्युवञ्चनम् आप्यते // VMv_3.26

उष्णीषगर्भचैत्यादिप्रदक्षिणविधानतः धारणीजपतश् चापि वञ्च्यते मृत्युर् उद्यतैः // VMv_3.27

ग्रहादिमातृकापाठात् तद्विधानपुरःसरात् सहस्रावर्तधारण्या रत्नोल्कायाश् च जापतः // VMv_3.28

धारणीसंचयाद्युक्तधारणीजापतत्पराः आसन्नम् अपि दूरस्थं मृत्युं कुर्वन्ति पण्डिताः // VMv_3.29

मण्डलालेखनाद् धोमान् मुद्राणां बन्धनाद् अपि बलीनां गणचक्राणां प्रदानान् मृत्युवञ्चनम् // VMv_3.30

चातुर्दिशार्यसंघाय भोज्यशय्यादिदानतः काषायमात्रकण्ठेभ्यो ऽपि वा स्यान् मृत्युवञ्चनम् // VMv_3.31

एवमादिक्रियारम्भाद् धर्मः स्यात् पुण्यलक्षणः पुण्यात् स्याद् आयुषो वृद्धिस् तद्वृद्धेर् मृत्युवञ्चनम् // VMv_3.32

इत्यादि लेशतो धर्मः सूचितस् तस्य विस्तरः स्वयम् उन्नीय कर्तव्यस् तज् ज्ञात्वा मृत्युवञ्चकैः // VMv_3.33

एवं धर्मपरो भूत्वा सिद्धमन्त्रौषधादिभिः मृत्योर् विष्कम्भणं कुर्यात् सद्यःप्रत्ययकारिभिः // VMv_3.34

मणिमन्त्रौषधीसिद्धरसायनबलात् स्वयम् मृत्योः पराजयो दृष्टः सिद्धविद्याधरैर् यथा // VMv_3.35

रत्नलक्षणशास्त्रोक्तपरीक्षोत्तीर्णवज्रधृक् आयुर्मणिधरो वापि विश्वरूपधरस् तथा // VMv_3.36

अनर्घस्येन्द्रनीलादेर् अन्यस्यापि महामणेः धारकः सर्वमृत्यूनां वञ्चकः स्यान् न संशयः // VMv_3.37

न चात्र मणिसामर्थ्ये संशयो युक्तिभाग् यतः अचिन्त्यशक्तियुक्तत्वं मणीनां सर्वसंमतम् // VMv_3.38

पटादेर् अग्रतः पूजां कृत्वा विजनदेशगः जापमात्रेण मन्त्राणां जायते मृत्युवञ्चनम् // VMv_3.39

आकारम् उच्चरेत् पूर्वं ततो रो लिग् इति स्फुटम् त्रैलोक्यविजयाख्यो ऽयं विद्याधरपिटोदितः // VMv_3.40

मन्त्रं लोकेश्वरस्यास्य जपेद् अक्षरलक्षकम् श्राद्धस् तदग्रतो ऽवश्यं मृत्युवञ्चनम् अश्नुते // VMv_3.41

उक्त्वा वैरोचनं पूर्वं पश्चात् तारे द्विर् उच्चरेत् तुत्तारे द्विस् तुरे द्विश् च स्वाहान्तं मृत्युवञ्चनम् // VMv_3.42

ताराभ्युदयतन्त्रोक्तं मन्त्रम् अक्षरलक्षकम् जप्त्वार्यतारापुरतो दधिमध्वक्तिपूर्वकम् // VMv_3.43

पूर्वोत्तरशिखादूर्वाप्रवालायुतहोमतः पूर्वकर्मप्रभावोत्थम् अपि मृत्युं निवारयेत् // VMv_3.44

ओं आदौ रुरु ततो ऽतः स्फुरुपदम् अतः परम् ज्वल तिष्ठ तथा सिद्धलोचनेति पदत्रयम् // VMv_3.45

सर्वार्थसाधनि स्वाहा मन्त्रो ऽशोकदले ऽमले प्रदत्तदक्षिणाचार्यैर् लिखितश् चन्दनद्रवैः // VMv_3.46

लक्षशः कोटिशो वापि शुद्धः श्रद्धाविधानतः धौतश् च निर्जलैः क्षीरैर् हुतो दूर्वादिनाथवा // VMv_3.47

भवत्य् अवश्यं निःशेषमृत्युवञ्चनकारकः निःशेषरोगसंदोहशान्तिकृच् चापि जायते // VMv_3.48

महामण्डलकल्पोक्तार्यशताक्षरसंज्ञिनः अचिन्त्यशक्तेर् मन्त्रस्य दृष्टशक्तेर् अनेकशः // VMv_3.49

भद्रचर्यासमादानविधिना लक्षजापतः मोक्षो ऽपि जायते नूनं किं पुनर् मृत्युवञ्चनम् // VMv_3.50

नमस् त्रैयध्विकानां प्राक् तथागतानां स्यात् ततः सर्वत्राप्रतिहतावाप्तिधर्मतेति पदं ततः // VMv_3.51

बलिनाम् इति पदाद् ओं ततो ऽसमसमपदम् समन्ततो ऽनन्ततावाप्तिशासनीति पदं ततः // VMv_3.52

हर हर स्मर स्मरण विगतरागपदात् बुद्धधर्मते ततः स्यात् सर सर समबला // VMv_3.53

हसद्वयं त्रयद्वयं स्याद् गगनमहावर लक्षणे ज्वल ज्वलनसागरे स्यात् पदं ततः // VMv_3.54

दत्त्वा स्वाहापदं चान्ते भवेन् मन्त्रः शताक्षरः तथागतानां सर्वेषां हृदयं परिकीर्तितः // VMv_3.55

आर्यमहाप्रतिसरामन्त्रैकलक्षजापतः दूर्वादशांशहोमेन ध्रुवं स्यान् मृत्युवञ्चनम् // VMv_3.56

ओं उक्त्वा पदं विमले जय वरे ऽनु चामृते हूं हूं फट् फट् ततः स्वाहापदं ब्रूयाद् अनन्तरम् // VMv_3.57

वैरोचनाद् भरद्वयं संभरद्वयम् उच्चरेत् उक्त्वेन्द्रियबलशब्दं विशोधनिपदं वदेत् // VMv_3.58

हूं हूं रुरु चले स्वाहा मन्त्रो ऽयं मृत्युवञ्चकः आर्यमहाप्रतिसराहृदयं सर्वसिद्धिदम् // VMv_3.59

जप्त्वा दशाक्षरं मन्त्रं तं मृत्युञ्जयसंज्ञिनम् दशलक्षं ततो होमं कुर्वीत कुसुमैः सितैः // VMv_3.60

घृताक्तैर् लक्षसंख्यातैर् लोकेश्वरगुरोः पुरः मन्त्रशक्तेस् ततो ऽवश्यं जायते मृत्युवञ्चनम् // VMv_3.61

ओं आदौ तत आङ्कारः स्याद् ईङ्कारस् ततः परम् ऊं ओं मृत्युञ्जय ओं स्याद् अयं मन्त्रो दशाक्षरः // VMv_3.62

कल्पादिजीवनार्थं ये प्रोक्ता मन्त्रास् तथागतैः तैर् आयुः साधितं दीर्घं तद् दीर्घं मृत्युवञ्चनम् // VMv_3.63

मन्त्रैर् यैः शान्तिकर्म तैः स्याद् वृद्धिर् आयुषः यैः स्याद् आयुषो वृद्धिस् तैः स्यान् मृत्युवञ्चनम् // VMv_3.64

मन्त्राणाम् अपि सामर्थ्ये संशयो नैव युक्तिभाक् अचिन्त्यं मन्त्रसामर्थ्यं यतः सर्वेषु संमतम् // VMv_3.65

आह च ।

न तद् वस्त्वन्तरं लोके यन् न मन्त्रैः प्रसिध्यति चिन्तामणिसमा मन्त्राः सम्यक्श्रद्धाभियोगतः // VMv_3.66

कल्पोक्तविधिभिर् यद् वा यथाकामप्रयोगतः बुभुक्षाबहुले देशे ऽमृताम् अत्यन्तम् आचरेत् // VMv_3.67

एकाकिनीम् अथान्यैर् वा भेषजैः सहितां सदा ततः स्थिरवपुर् भूत्वा मृत्युद्वारं न पश्यति // VMv_3.68

अन्येषाम् अपि दिव्यानां भेषजानां निषेवणात् आयुर्वृद्धिर् जरारोगक्षयान् मृत्युं न पश्यति // VMv_3.69

व्योमहेमादिभिर् बद्धान् मृतकाद् विधिभक्षितात् स्यान् मृत्युवञ्चनं सिद्धरसायनस्वभावकात् // VMv_3.70

प्रतिपच्चन्द्रयोगादिप्राप्तेनान्तरधातुना नस्यप्रदानाद् विधिना जायते मृत्युवञ्चनम् // VMv_3.71

संपुटादिकतन्त्रोक्तपञ्चामृतप्रयुक्तिभिः यथोपदेशयुक्ताभिर् जायते मृत्युवञ्चनम् // VMv_3.72

ऊर्ध्वाधोभ्यां संपुटयोगं यः सततं कुरुते हितयोगम् तस्य सुरुष्टो ऽप्य् अविहततेजाः किञ्चित्कारी नो यमराजा // VMv_3.73

मृतसंजीवनम् अपि क्व चिद् दृष्टम् उपायतः ऋतुमत्कन्यानरयोः शृङ्खलायाः समुत्थितैः // VMv_3.74

शोणितोन्मिश्रशुक्राख्यधातुभिर् नातिशीतलैः सद्यो यद् वा मृतस्यैव पतितैर् धातुबिन्दुभिः // VMv_3.75

घृताक्तनलिकारन्ध्रनिर्गमेन प्रवेशितैः वहेद् आत्मीयनासाग्रपुटोन्नीतपुटे क्रमात् // VMv_3.76

पुनरुज्जीवनं दृष्टं निरोधश् चात्र शस्यते प्रत्यक्षदृष्टसामर्थ्यो योगो ऽयं बहुसंमतः // VMv_3.77

समस्तम् अथवा व्यस्तं त्रिफलामार्कवान्वितम् आचरेत् सततं योगी पञ्चामृतरसायनम् // VMv_3.78

वलीपलितनिर्मुक्तो वज्रकायः स्वरूपवान् ध्रुवं निवारयेन् मृत्युम् अपि कल्पादिसंख्यया // VMv_3.79

आगमोक्तम् इदं सिद्धं बहूनां वारिगन्धयोः भक्षणालेपनात् सद्यो भवेन् मृत्युनिवारणम् // VMv_3.80

अनयोश् च सदाभ्यासान् मधुसर्पिःसमन्वितात् कालाकालसमुद्भूतम् अपि मृत्युं निवारयेत् // VMv_3.81

भेषजस्यापि सामर्थ्ये संशयो नैव युज्यते अचिन्त्यौषधिसामर्थ्यं यतः सर्वत्र दृश्यते // VMv_3.82

इति विधाय बहिष्क्रियम् आदरान् मरणवञ्चनम् अत्र यथाबलम् प्रबलमृत्युमहाभयशङ्कया कुरुत संप्रति तत् पुनर् आन्तरम् // VMv_3.83

॥ इति श्रीपण्डिताचार्यवागीश्वरकीर्तिविरचिते मृत्युवञ्चनोपदेशे तृतीयः परिच्छेदः ॥

आध्यात्मिकम् इदानीं तु मृत्युवञ्चनकौशलम् कथ्यते येन नियतं वञ्च्यते मृत्युर् उद्यतैः // VMv_4.1

राजचौरमहामारव्याघ्रादिभयवर्जिते संसर्गरहिते रम्ये पर्वतादौ क्व चित् स्थितः // VMv_4.2

मात्राभोजी मितालापी नातिचङ्क्रमणे प्रियः अल्पनिद्रो बहुध्यानो मन्त्रजापपरायणः // VMv_4.3

स्वेष्टदैवतपूजादिसद्धर्मपठनक्रियः त्रिसंध्यबलिदानादिमैत्र्यचित्तादितत्परः // VMv_4.4

पुण्याद् एवेष्टसंसिद्धिर् इति पुण्यक्रियापरः श्रद्धया सर्वसंसिद्धिर् इति श्रद्धाविवर्धकः // VMv_4.5

वीर्यात् प्रारब्धनिष्पत्तिर् इति वीर्यपुरःसरः ध्यानाद् इष्टफलस्थैर्यम् इति ध्यानैकचेतनः // VMv_4.6

सङ्गत्यागाद् अनुष्ठानम् इति सङ्गविवर्जितः सम्यग्ज्ञानवतः सर्वम् इति ज्ञानसमन्वितः // VMv_4.7

मरणे दुःखसंदर्शी धर्मदर्शी च जीविते विगताशेषसंदेहो मृत्युवञ्चनम् आरभेत् // VMv_4.8

तत्रादौ ध्यानसहितं विघ्नारेर् मन्त्रलक्षकम् संजप्यायुतहोमेन सर्वविघ्नान् निवारयेत् // VMv_4.9

नमः समन्तकायेति प्राग् वाक्चित्तपदं ततः वज्राणां च नमो वज्रक्रोधायेति पदं वदेत् // VMv_4.10

महादंष्ट्रोत्कटपदाद् भैरवायपदं वदेत् असिमुसलपरशुपाशगृहीतहस्ताय // VMv_4.11

ओं ततो ऽमृतकुण्डलि खखखाहिखाहिपदात् तिष्ठतिष्ठपदं तस्माद् बन्धद्वयं हनद्वयम् // VMv_4.12

ततः ।

दहद्वयं गर्जद्वयं विस्फोटयद्वयं ततः सर्ववज्रपदाद् विघ्नविनायकान्पदं वदेत् // VMv_4.13

महागणपतिपदाज् जीवितान्तकराय च हूं हूं फट् फट् स्वाहा मन्त्रो विघ्ननिवारणः // VMv_4.14

हृदयेनाथवास्यैव सर्वविघ्नान् निवारयेत् पूर्ववज् जपहोमाभ्यां शक्तिर् अस्यापि तादृशी // VMv_4.15

ओं प्राग् उक्त्वा हुलुहुलुतिष्ठतिष्ठपदं ततः हनद्वयं दहद्वयं गर्जगर्ज तथा पुनः // VMv_4.16

विस्फोटयद्वयाद् ब्रूयात् सर्वविघ्नविनायकान् ओं अमृत हूं हूं फट् फट् मम रक्षां कुरु स्वाहा // VMv_4.17

एवं विनाशिताशेषमारविघ्नो निराकुलः यथाभिवाञ्छितं योगं ध्यायाद् एकम् अहर्निशम् // VMv_4.18

बुद्धकृत्यकरं शान्तं घनव्यूहनिवासिनम् आबद्धवज्रपर्यङ्कं पद्मचन्द्रासनोपरि // VMv_4.19

बोध्यग्रीमुद्रया युक्तं स्फुरच्छ्वेतांशुमण्डलम् ध्यात्वा वैरोचनं शुक्लम् आसंसारं न मृत्युभाक् // VMv_4.20

स्ववर्णमुद्रावेषाढ्यान् अक्षोभ्यादितथागतान् दृढाहङ्कारतो ध्यात्वा वज्रकायो भवेद् ध्रुवम् // VMv_4.21

हृच्चन्द्रसंपुटान्तस्थं लोकेश्वरम् अनश्वरम् शान्तं शशाङ्कसंकाशं सर्वालङ्कारभूषितम् // VMv_4.22

रक्तवर्णामिताभाख्यसंबुद्धाङ्कजटाधरम् वज्रपर्यङ्कसंश्लिष्टं पादाम्बूजद्वयोपरि // VMv_4.23

समाधिमुद्रासंसक्तकरद्वयम् अनाकुलम् सर्वसत्त्वार्थसंपादिकारुण्यस्यन्दिविग्रहम् // VMv_4.24

ध्यात्वा तस्यापि हृदये लोकेशम् अपरं तथा पुनस् तस्यापि हृदये तथैवैकाग्रमानसः // VMv_4.25

कोटिसंख्या भवेद् यावत् तावद् ध्यानम् इदं स्मरेत् ततः सूक्ष्मातिसूक्ष्मान्त्यलोकेशगतचेतसं // VMv_4.26

दृष्ट्वा योगेश्वरं मृत्युर् म्रियते स्वयम् एव हि अन्ये ऽपि स्कन्धजा दोषाः स्वयम् आयन्ति नाशिताम् // VMv_4.27

सितारविन्दमध्यस्थचन्द्रबिम्बासनोपरि आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम् // VMv_4.28

शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम् सर्वालङ्कारसंपूर्णां षोडशाब्दवपुष्मतीम् // VMv_4.29

सर्वसंबुद्धतत्पुत्रमातरं कामरूपधाम् ध्यात्वार्यतारां हृदये तस्याश् चक्रं सितद्युति // VMv_4.30

अष्टकोष्ठकम् अष्टाभिर् अक्षरैः परिपूरितम् ओंहाव्यञ्जनमध्यस्थसाध्यनामाद्यनाभिकम् // VMv_4.31

ध्यायाद् एकाग्रचित्तः सन् षड् मासान् दृढनिश्चयः जपेच् चाखिन्नचित्तः सन् मन्त्रम् एनं दशाक्षरम् // VMv_4.32

ओङ्कारम् आदितो दत्त्वा पश्चात् तारे प्रयोजयेत् तुत्तारे स्यात् तुरे पश्चात् स्वाहान्तः सार्वकर्मिकः // VMv_4.33

ब्रह्मेन्द्रविष्णुचन्द्रार्करुद्रदिक्पालमन्मथैः अप्य् अखण्डितरोमाग्रं मृत्युं जयति मृत्युवत् // VMv_4.34

वलीपलितदौर्भाग्यव्याधिदारिद्र्यसंक्षयः सिंहाद्यष्टमहाभीतिदुःखसंदोहनाशनम् // VMv_4.35

अयाचितान्नपानादिहर्म्यवस्त्रादिसंगमः खड्गाञ्जनपादलेपभद्रकुम्भादिसिद्धयः // VMv_4.36

कविता वक्तृता मेधा प्रज्ञा चैकान्तनिर्मला अन्या च वाञ्छिता सिद्धिश् चक्राद् अस्मात् प्रजायते // VMv_4.37

लोचनां मामकीं चुन्दां महाश्वेतादिदेवताम् स्ववर्णवेषमुद्राभिर् ध्यात्वा मृत्युं न पश्यति // VMv_4.38

स्वेष्टदैवतयोगाद् वै दृढाहङ्कारसंगतात् चिन्तामणेर् इवाशेषवाञ्छितार्थप्रसाधकात् // VMv_4.39

शङ्खकुन्देन्दुसंकाशात् संहारक्रमसंस्थितात् अनारतक्रियाभ्यासान् मृत्युर् आयाति वञ्चनाम् // VMv_4.40

चक्रसंवरतन्त्रोक्तहेरुकाकारभावनाम् कृत्वा तत्परिणामेन कपालाकारभावकम् // VMv_4.41

कङ्कालरूपनिध्यानं यद् वा खट्वाङ्गभावकम् मारयितुम् अयोग्यत्वान् मृत्युर् नैवोपसर्पति // VMv_4.42

मूर्ध्नि चन्द्रमसो बिम्बात् क्षरत्पीयूषशीकरान् ह्लादयतः समस्ताङ्गं रोमकूपैः समन्ततः // VMv_4.43

षड् मासान् भावयेद् योगी सर्वसङ्गविवर्जितः सर्वरोगान् विनिर्जित्य मृत्युं जयति मृत्युवत् // VMv_4.44

शिरस्य् अधोमुखं शुक्लं सहस्रदलपङ्कजम् ध्यात्वा चन्द्रक्रमान् मृत्युं कल्पादींश् च विनाशयेत् // VMv_4.45

अस्यैव कृष्णरूपस्य कृष्णरूपैर् गभस्तिभिः संप्लावयतो निध्यानात् पलितादिविनाशनम् // VMv_4.46

जिह्वां तालुगतां कृत्वा दन्तैर् दन्तान् असंस्पृशन् अचिन्त्यहेतुसामर्थ्याच् छ्रद्धेयम् इदम् आरभेत् // VMv_4.47

कण्ठरन्ध्रोर्ध्वसंलग्नां लालाजिह्वाम् अधोमुखीम् जिह्वाग्रेणालिहेद् यावत् पीयूषरसवेदनम् // VMv_4.48

ततो मृत्युं जयेत् सद्यः पलितादींश् च नाशयेत् सर्वापद्भयरक्षा च तत्कार्यकरणाद् भवेत् // VMv_4.49

आनापानस्मृतेर् वाथ प्रकारान्तरम् आरभेत् संख्यावृद्ध्या ततो ऽवश्यम् अजरामरतां व्रजेत् // VMv_4.50

अधिकानि शतैः षड्भिः सहस्राण्य् एकविंशतिः अहोरात्रेण सत्त्वानां प्राणसंख्या प्रकीर्तिता // VMv_4.51

प्रवेशः शस्यते वायोर् यतः सो ऽमृतसंचयः अमृतं जीवनोपायस् तेन मृत्युर् न बाधते // VMv_4.52

प्रवेशं गणयेद् वायोः शनैर् लक्षादिसंख्यया एकाग्रचित्तो विधिवद् अशब्दो जप उच्यते // VMv_4.53

अशब्दजपलक्षेण विधिना पूरितेन तु भ्रष्टायुः सन् नरो ऽवश्यं पञ्च वर्षाणि जीवति // VMv_4.54

द्विलक्षादिजपाद् एवम् उन्नेया वृद्धिर् आयुषः उपायकुशलो भूत्वा वायुजापपरो भवेत् // VMv_4.55

सहस्रम् एकं सततं गणयेत् प्रातर् उत्थितः सर्वरोगविनिर्मुक्तो जीवेच् चन्द्रार्कजीवितम् // VMv_4.56

नाभ्यासरहितस् तिष्ठेन् मुहूर्तम् अपि न स्वपेत् जित्वा निद्रां प्रयत्नेन भक्षपानासनादिकम् // VMv_4.57

वाहयेद् अनुलोमेन वायुसंचारतत्परः अनुलोमपरो योगी मृत्युं जयति निश्चितम् // VMv_4.58

म्रियन्ते तु विलोमेन मूढा भोगैकतत्पराः स्वभावस् त्व् अनुलोमः स्याद् विलोमस् तद्विपर्ययात् // VMv_4.59

सिंहविक्रीडितामुद्राबन्धनाद् वायुरोधतः जितकुम्भकयोगाद् वा निरोधो मृत्युवञ्चकः // VMv_4.60

आपादतलपर्यन्तं शनैर् आपूर्य वायुना निरोधनात् कुम्भकः स्यात् तज् जपक्रम उच्यते // VMv_4.61

त्रिविधोद्घातयोगेन जितो भवति कुम्भकः हीनमध्यादिभेदेन उद्घातस् त्रिविधो मतः // VMv_4.62

उद्घात इति संज्ञैषा वक्ष्यमाणार्थदर्शिका षट्त्रिंशन्मात्रिको हीनो मध्यः स्याद् द्विगुणस् तथा // VMv_4.63

ज्येष्ठस् तु त्रिगुणो ज्ञेयः कुम्भकस् तेन जीयते प्रथमं कुम्भकं कृत्वा पश्चात् स्वं जानुमण्डलम् // VMv_4.64

पाणिना त्रिः परामृश्य षड् दद्याच् छोटिकास् ततः एषा मात्रोच्यते कालपरिच्छेदाय पण्डितैः // VMv_4.65

षट्त्रिंशन् मात्रा यावत् स्युस् तावद् या कुम्भकक्रिया उद्घातो ऽसौ मतो हीनो मध्यमो द्विगुणस् ततः // VMv_4.66

त्रिगुणो ज्येष्ठ उद्घातो ऽष्टोत्तरशतमात्रिकः स एव जेयो यत्नेन मृत्युवञ्चनवाञ्छया // VMv_4.67

ज्येष्ठोद्घातावधिं यावत् कुम्भकश् चेत् प्रवर्तते निरन्तरनिरोधो ऽपि तदा भवति सुस्थिरः // VMv_4.68

मर्तव्यदिवसं ज्ञात्वा यो निरोधेन तिष्ठति तस्य कल्पसहस्राणि मृत्युर् नायाति संनिधिम् // VMv_4.69

आकाशधेनोर् आदोहात् पीयूषद्रवसंचयम् घटाङ्कवारुणाख्येन मण्डलेन स्फुरत्त्विषा // VMv_4.70

नासाग्रनिर्गतो वायुर् आदायासेचयेन् मुहुः शुष्यद्धृत्पद्मसंलीनं चित्तभ्रमरशावकम् // VMv_4.71

आकाशदोहनध्यानम् इदं नित्यं समाचरेत् आकाशम् इव तं मृत्युः पश्यन्न् अपि न पश्यति // VMv_4.72

संत्यज्य वायुम् अथवा तत्त्वम् एव सदाचरेत् तत्त्वेन जीयते मृत्युस् तथान्ये मारशत्रवः // VMv_4.73

निःशेषदोषप्रशमो निःशेषगुणसंभवः तत्त्वेन जीयते पुंसां सिद्धयश् चाभिवाञ्छिताः // VMv_4.74

तत्त्वं च शून्यता प्रोक्ता सर्वाकारवरात्मिका ताम् एवाभ्यस्यतो नित्यं मृत्युर् आयाति वञ्चनाम् // VMv_4.75

धर्मसंभोगकायादिदानशीलाद्यभेदिनी सर्वालम्बनसंयोगात् सर्वालम्बनवर्जिता सर्वाकारवरोपेता शून्यता कथिता जिनैः // VMv_4.76

न चिन्तां चिन्तयेच् चिन्त्याम् अचिन्त्यां नैव चिन्तयेत् चिन्त्याचिन्त्यां न चिन्तयेत् ततः प्राप्स्यति शून्यताम् // VMv_4.77

न भावं भावयेद् विद्वान् नाप्य् अभावं विभावयेत् भावाभावविनिर्मुक्तं भावयेत् तद्विवर्जितः // VMv_4.78

सर्वाकारवरोपेतां शून्यताग्रहवर्जिताम् शून्यतां भावयेन् नित्यं मृत्युना नैव दृश्यते // VMv_4.79

विकल्पमात्रसंभूतं मृत्युं सो ऽपि न पश्यति अन्यांश् च बहुलान् मारान् संसारं च न पश्यति // VMv_4.80

तद् आह ।

मृत्युर् नाम विकल्पो ऽयम् अभावे सर्ववस्तुनः हन्यते स्वविकल्पेन पृथग्जनविजृम्भितैर् इति // VMv_4.81

विकल्पः सर्वदुःखानि विकल्पो मृत्युर् उच्यते विकल्पं हानयेत् तस्मान् निर्विकल्पमना भवेत् // VMv_4.82

यद् यद् विभाव्यते ऽभीक्ष्णम् आदरादिविशेषितम् तत् तत् तु स्फुटतां याति कामशोकादिबुद्धिवत् // VMv_4.83

सुलभानि हि शास्त्राणि प्रयोगास् ते सुदुर्लभाः प्रयोगज्ञेषु लोकेषु प्रयोगा नैव दुर्लभाः // VMv_4.84

प्रयोगकुशलः श्राद्धः क्षमावीर्यप्रतिष्ठितः अनुष्ठानपरः प्राज्ञो मृत्युवञ्चनभाजनम् // VMv_4.85

श्रमात् पाचनपानादेर् जठरानलदीपनम् प्रदीप्तवह्नेर् आहारः परिणामो ऽपि शक्तितः // VMv_4.86

परिणामात् तनोः पुष्टिः पुष्टेर् बलविवर्धनम् बलात् स्याद् आयुषो वृद्धिस् तद्वृद्धेश् चिरजीवितम् // VMv_4.87

प्रत्यक्षसिद्धं सर्वेषां यथा नास्त्य् अत्र संशयः तथोपदेशात् कल्पादिजीवने ऽपि न संशयः // VMv_4.88

नाशोन्मुखो ऽपि दीपादिस् तैलवर्तिक्षयादिभिः पुनस् तैलादिसंप्राप्तेः कल्पान्तम् अपि तिष्ठति // VMv_4.89

यथा तथायं देहो ऽपि म्रियमाणो जरादिभिः सिद्धोपदेशसंप्राप्तेः कल्पान्तं किं न तिष्ठति // VMv_4.90

यथा जीर्णस्य गेहस्य संस्कारेण चिरस्थितिः तथा जीर्णस्य देहस्य संस्कारेण न किं भवेत् // VMv_4.91

न दुष्करं किं चन विक्रमेण तस्माद् अनिक्षिप्तधुरा यतध्वम् नित्यप्रवृत्ता विभिनत्ति काले शिलातलं मृद्व् अपि वारिधारा // VMv_4.92

काष्ठाद् अग्निर् जायते मथ्यमानाद् भूमिस् तोयं खन्यमाना ददाति सोत्साहानां नास्त्य् असाध्यं नराणां न्यायारब्धाः सर्वयत्नाः फलन्ति // VMv_4.93

सुबहून्य् अपि विज्ञाय वञ्चनानि मृतेर् इह अननुष्ठानाद् विष्ठाभिर् लिप्त्वा शय्यां मृता वयम् // VMv_4.94

प्रयोगकुशला ये च पण्डिताः शास्त्रपारगाः अननुष्ठानदोषेण दन्तान् निष्काश्य ते मृताः // VMv_4.95

ज्ञात्वापि योगशास्त्राणि प्रयोगांश् चाप्य् अनेकशः अद्य श्वो वा करिष्याम इति चिन्तापरा मृताः // VMv_4.96

इदं कर्तास्मि श्वः पुनर् इदम् इदं चास्य परतो वृथा प्राप्ताश्वासो विमृशति न लोलां भवगतिम् अगत्वा कार्यान्तं विषय-सलिलावर्तपतिता प्रजा मृत्योर् वक्त्रं मकर-मुखवन् नौः प्रविशति // VMv_4.97

इति निगदितम् एतद् वञ्चनं मृत्युशत्रोः स्वपरसमयसिद्धध्यानकर्मप्रसाध्यम् अघृणमरणभीतेर् यत्नतः संविधेयं यत इह कमनीयं जीवितान् नान्यद् अस्ति // VMv_4.98

वज्रडाकं चतुष्पीठं बुद्धपञ्जरकादि च कालोत्तरं कालावलीं कालपञ्चाशिकाम् अपि // VMv_4.99

जीवपञ्चाशिकादीनि शास्त्राण्य् आलोक्य यत्नतः सत्त्वानुकम्पया प्रोक्तम् इदं मरणवञ्चनम् // VMv_4.100

शारदचन्द्रनभः परिशुद्धं शुद्धवियच्छशिनाप्य् असमाप्तम् आप्तम् अतः कुशलं यद् अमृत्युस् तेन जनो ऽस्तु स मृत्युविमुक्तः // VMv_4.101

गणनाश्रमहानाय लेखकानां तपस्विनाम् ग्रन्थप्रमाणम् आख्यातं साशीतिकशतत्रयम् // VMv_4.102

॥ इति श्रीपण्डिताचार्यवागीश्वरकीर्तिविरचिते मृत्युवञ्चनोपदेशे चतुर्थः परिच्छेदः समाप्तः ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.