Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

श्रीघनाचारसंग्रह

Thông tin
GRETIL — the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301].chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

श्रीघनाचारसंग्रह

श्रीघनाचारसंग्रहः

प्रथमो ऽध्यायः

बुद्धनमस्कारः

प्रहीणाशेषसंक्लेशज्ञेयाम्भोनिधिपारगं । प्रणम्य श्रामणेराणामाचारः संग्रहीष्यते ॥ श्ghs_1.1 ॥

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे बुद्धनमस्कारो नाम प्रथमो ऽध्यायः ॥

द्वितीयो ऽध्यायः

श्रामणेरभावः

शरणं गतवान् बुद्धं धर्मं संघं च भक्तितः । शिक्षापञ्चकमादाय यो ऽनुप्रव्रजितो जिनं ॥ श्ghs_2.1 ॥

यावज्जीवं वधस्तेयमैथुनानृतवाक्यतः । विरतः मद्यपानाच्च महोच्चैः शयनासनात् ॥ श्ghs_2.2 ॥

नृत्यादेर् गन्धमाल्याद्यात् विकालाशनतस्तथा । रुक्मरूप्यग्रहाच्चैष श्रामणेरो मुनेर्मतः । श्ghs_2.3 ॥

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे श्रामणेरभावो नाम द्वितीयो ऽध्यायः ॥

तृतीयो ऽध्यायः

श्रामणेरभावोपायः

1 प्राणिवधविरतिशिक्षापदं

संवरत्यागः

सकलेन शरीरेण शरीरान्यतरेण वा । पञ्चशाखादिनिर्वृत्तं न हन्यात् प्राणिनं [यतिः] ॥ श्ghs_3,1.1 ॥

मृत्योर्वर्ण न भाषेत शस्त्रहारं न चैषयेत् । वधकेन न चित्तेन मारणाय नियोजयेत् ॥ श्ghs_3,1.2 ॥

विरेकवमनालेपविषशस्त्राभिसंस्कृति । न कुर्यात् प्राणिघाताय न च गर्भस्य शातनं ॥ श्ghs_3,1.3 ॥

निमित्तं न व्रती कुर्यात् स्वप्नोलूकादिवाशितैः । [दौःशीलं] (वापि कार्यं न) दानशीलफलाप्तिभिः ॥ श्ghs_3,1.4 ॥

मध्यपश्चात्पुरोगेषु यत्रैव वधकं मनः । [तं पुरुषं] ध्नतो हिंसा नान्यमित्याह सर्ववित् ॥ श्ghs_3,1.5 ॥

कूटावमार्थावष्टम्भवेताला[द्य]भिसंस्कृति । अवपयञ्च कुर्यान्न मारणाय शरीरिणां ॥ श्ghs_3,1.6 ॥

तस्करा[द्य]हिसेनाभ्यः यत्र मार्गे भयं[भवेत्] । तत्पन्थानं न नाशाय देहिनां कथयेद्यतिः ॥ श्ghs_3,1.7 ॥

भुजगावर्तकाभ्यां च यत्र तीर्थे[भयं भवेत्] । [नदीप्रतरणार्थाय] तत्तीर्थं न प्रकाशयेत् ॥ श्ghs_3,1.8 ॥

किञ्चिद् भूपतये मा दास्त्वं वरं जीवितं त्यज । इति बद्धायुक्ते ऽयुक्तं वचनं न वदेद् [यतिः] ॥ श्ghs_3,1.9 ॥

भुजग [व्याडयक्षे]भ्यः यद्विहारे[भयं भवेत्] । तद्वधकाभिप्रायेणागन्तुकाय न चोद्दिशेत् ॥ श्ghs_3,1.10 ॥

व्याघ्रादिव्यपदेशेन शत्रुं हन्याद् हि यः शठः । विहारादाशु[निर्द्वारं] घट्टनीयः स चेल्लकैः ॥ श्ghs_3,1.11 ॥

तथा कार्यं यथैको ऽपि नानिर्जीवेच्च कश्चन । अधर्म्या न क्रिया कार्या संस्मृत्य क्रकचोपमं ॥ श्ghs_3,1.12 ॥

वधश्च श्रामणेरा ये घातयितुं वधीकृताः । युगपत् तत्प्रयोगे ते नाशनीया विहारतः ॥ श्ghs_3,1.13 ॥

उपक्रमो नृसंज्ञा च नरो वधकचेतना । जीवितस्य क्षयश्चेति पञ्चांगानि नृघातने ॥ श्ghs_3,1.14 ॥

श्रामणेरेण नाशाय विषशस्त्रादि यत्[कृतं] । म्रियते नरस्तेनैवासौ तदासंवरी भवेत् ॥ श्ghs_3,1.15 ॥

अवक्रीतादिरज्ञानात् मनुष्यं मारयन् खलु । संवरक्षोभलाभी स [यतिर्] नोन्मत्तादिकः ॥ श्ghs_3,1.16 ॥

दुष्कृतानि

कायमैत्रादि सत्त्वेषु यतिना कार्यं सर्वदा । यस्मात् कारुणिकैरुक्तं तस्मात्[सत्त्वान्न पीडयेत्] ॥ श्ghs_3,1.17 ॥

न सत्त्वान् पीडयेद्दारुरज्वयश्चर्मबन्धनैः । जलानलप्रवेशानुत्यागादौ न नियोजयेत् ॥ श्ghs_3,1.18 ॥

कृमिगोरूप[कादीनां] मिथ्याजीवश्च हिंसनं । कर्षणे[हि] भवेद्यस्मात् तस्मात्[तद्]दूरतो त्यजेत् ॥ श्ghs_3,1.19 ॥

नांकयेद् गोमहिष्यादि नासिकां नास्य वेधयेत् । [यतिश्च विविधान् सत्त्वान्] वेत्रादिना न ताडयेत् ॥ श्ghs_3,1.20 ॥

उद्दिश्य यत् कृतं मांसव्यञ्जनं [खादतो] यतेः । निघृणं जायते चित्तं तस्मात्तन्नैव भक्षयेत् ॥ श्ghs_3,1.21 ॥

ज्ञेयं तु त्रिभिराकारैरीक्षितश्रुतशंकितैः । ईक्षितं यत् स्वयं दृष्टं श्रुतं प्रत्यायितोदितं ॥ श्ghs_3,1.22 ॥

गृहाबद्धमृगादीनां श्रृंगपक्षादिदर्शनात् । आशंकोत्पद्यते [तत्र] ममोद्दिश्य हता न वा ॥ श्ghs_3,1.23 ॥

पृष्टो दाता वदेदेवं त्वन्निमित्तममी हता । तस्मिन् गृहे न भुञ्जीत विरतः प्राणिनां वधात् ॥ श्ghs_3,1.24 ॥

श्येनकादिहता वै[ते] शालियवमुद्गभक्षणात् । मातापित्रोश्च यज्ञस्य कृते दोषो ऽस्ति नाश्नतां ॥ श्ghs_3,1.25 ॥

एकं श्रीघनमुद्दिश्य मांसं मत्स्यादिकं कृतं । अन्येषां श्रामणेराणां तद्भोगाय न कल्पते ॥ श्ghs_3,1.26 ॥

नादेयादिजलं जानन् नापि पिबेत् सजन्तुकं । जन्तवो ऽभिमताः सूक्ष्मास् त्रसिकोर्मिकिरादयः ॥ श्ghs_3,1.27 ॥

वारि[पूत्या]यधिष्ठेयः करको [हि] सखल्लकः । विघातपरिहारार्थं कोशो ऽन्तशः सुवाससः ॥ श्ghs_3,1.28 ॥

दिव्यनेत्रान्धयोर्नेष्टं जलस्य प्रत्यवेक्षणं । हस्तांगुष्ठाग्रकावर्तदर्शिनो न निवार्यते ॥ श्ghs_3,1.29 ॥

लोचनविभ्रमो मा भूदिति पश्येन्न तच्चिरं । कल्पमात्रं न वै कुर्यात् मायाशाठयसमन्वितः ॥ श्ghs_3,1.30 ॥

येनान्तरेण षष्टयब्दः परिभ्रम्यते कुञ्जरः । शकटं वंशपूर्णं वा स कालः सलिलेक्षणे ॥ श्ghs_3,1.31 ॥

ऊर्ध्वाधोमध्यमास्तिस्त्रः सलिलस्यापि भूमयः । याया भूः शुद्धिमायाति कार्यं कुर्यात्तया[यतिः] ॥ श्ghs_3,1.32 ॥

यत्राधः प्राणका यान्ति स्थूलाः करतलाहताः । [ग्राह्यं] तदुदकं [स्राव्यं] पंचांगुलिकया न चेत् ॥ श्ghs_3,1.33 ॥

भवेयुरुदके यस्मिन् करे लग्ना[श्च] प्राणिनः । न तत्र पाणिपादास्यवस्त्रादि क्षालयेद्यतिः ॥ श्ghs_3,1.34 ॥

कुले गतेन प्रष्टव्यं जलं [हि] स्रावितं न वा । नेति चेत् संज्ञिको वाच्यः स्रावयेत्यितरो न तु ॥ श्ghs_3,1.35 ॥

[किन्तु] स्राव्यं जलं पात्रे कृत्वात्मीये सजन्तुकं । [पृष्ट्वा] यस्तदानीतं मुञ्चेत् तत्रैव [स] स्वयं ॥ श्ghs_3,1.36 ॥

सप्ताहं वा[तथा] यत्र पानीयमवतिष्ठति । विहारे वा कटाहादौ स्थापयेत् तदशुष्यति ॥ श्ghs_3,1.37 ॥

प्रवृष्टे वा [यतिर्] देवे स्वच्छनीरौघवाहिनि । निम्नगानां पतिं पातं गच्छतेति विसर्जयेत् ॥ श्ghs_3,1.38 ॥

सुदीर्घतलिकावक्त्ररज्जुद्वया[व]बद्धया । घटिकयोदकं मुञ्चेदधस्तादुदके ऽध्वगः ॥ श्ghs_3,1.39 ॥

घटिकात्रितयं वीक्ष्य मार्गगेणोदपानतः । परिशुद्धाश्चेत् पेयं जलं तत् स्राव्यमन्यथा । श्ghs_3,1.40 ॥

न रज्जुघटिकादानं शस्तं सप्राणके जले । पिबेति वक्तुं दातुं वा न जातु क्षमते यतिः ॥ श्ghs_3,1.41 ॥

सजन्तुकं तडागादि न परेषामुच्चैर्वदेत् । [कृत्यं] कुरु समीक्ष्येति पृष्टः प्रतिवदेत्परान् ॥ श्ghs_3,1.42 ॥

उपाध्याये ऽपि वक्तव्यं सप्राणकमिदं न वा । तडागादीति [वै] शाठयं कर्त्तव्यं [यतिना] न [तु] ॥ श्ghs_3,1.43 ॥

वृक्षसेको न दातव्यो ऽपरिशुद्धेन वारिणा । उपाध्यायादिकस्नानं कर्त्तव्यं च तथैव न ॥ श्ghs_3,1.44 ॥

मस्तुकाञ्जिकसौवीरमण्डदण्डाहतादिकं । न पिबेत् न यतिर्दद्यात् परस्मै न भुवि त्यजेत् ॥ श्ghs_3,1.45 ॥

समत्कुणं यच्छयनमातपे तन्न शोषयेत् । न हिमे कर्दमे वा[पि] शीतोष्णवारिणि क्षिपेत् ॥ श्ghs_3,1.46 ॥

नवकर्म स नो कुर्यात् सजन्तुकेन [वारिणा] । दिनान्तं स्रावयित्वा तद् धार्यं [त्रिकोण]खल्लकं ॥ श्ghs_3,1.47 ॥

भृतकं शिक्षयेदेवं वधान त्वं त्रिकोणकं । कपात्[तत्] स्रावयोत्क्षिप्य खल्लकं च विमोचय ॥ श्ghs_3,1.48 ॥

त्रिकोणसप्तकेनाम्भः स्राव्यं खल्लकेन तत् । [प्रतिकूप्यथ] कार्या[वा] त्यक्त्वा देशान्तरं [व्रजेत्] ॥ श्ghs_3,1.49 ॥

अभूत्वा सम्भवन्त्येते भूत्वा यान्ति भवान्तरं । नवकर्म तदा कार्य यथोक्तविधिकारिणा ॥ श्ghs_3,1.50 ॥

सत्पटाबद्धमञ्चादेरुच्छीदच्चतुरांगुलात् । नद्यादौ जलमालोक्य कार्यं च नवकर्मणि ॥ श्ghs_3,1.51 ॥

छिद्रकर्णद्वयासक्तसूत्रबद्धद्विदण्डकं । धारणपात्रकं दध्यात् खल्लकस्य बहिर्[यतिः] ॥ श्ghs_3,1.52 ॥

कृपापरीतचित्तेन स्वादु वारि सजन्तुकं । क्षारे ऽम्भसि न मोक्तव्यमनापत् मृष्टसंज्ञिनः ॥ श्ghs_3,1.53 ॥

2 अदत्तादानविरतिशिक्षापदं

संवरत्यागः

कालिकं [यामिकं] यावज्जीविकं सर्पिरादिकं । पारिहार्यमनाधेयं कल्प्याकल्प्यमकल्पिकं ॥ श्ghs_3,2.1 ॥

पृथिव्युदकद्विचतुष्पदापदकपादप । तद्गतं च यतिः किञ्चिन्नाददीत परस्वकं ॥ श्ghs_3,2.2 ॥

कार्षापणचतुर्भागं तदर्धमथवा धनं । स्तेयचित्तो हरन्नन्यैर् नाशनीयो[यतिर्] लघु ॥ श्ghs_3,2.3 ॥

वाटाद्धृते गजे पादैश् चतुर्भिरयतिश् च्युते । निष्क्रान्ते संवृतद्वाराद् द्विपहृत्स्याद् यतिः [खलु] ॥ श्ghs_3,2.4 ॥

गुल्फाबद्धेक्षदण्डारे दूराकृष्टे महीतलात् । संवरभंग उत्क्षिप्ते पञ्जराद्गजवद्द्विजे ॥ श्ghs_3,2.5 ॥

देशान्नयेद् हि सन्देशद्रविणं च सञ्चारयेत् । अंगात् स्तैन्येन चित्तेन संवरघूतमाप्नुते ॥ श्ghs_3,2.6 ॥

मृतो ऽसौ मत्वा श्रुत्वैवाध्वगाद् वै ब्रह्मचारिणः । सीमान्तस्थायिने दत्वा गृह्णन् स्यादयतिर्यतिः ॥ श्ghs_3,2.7 ॥

यद्वित्तं श्रामणेरस्य मृतस्य निर्वृतार्हतः । उपाध्यायस्य प्राप्नोति तदित्येवं जगौ मुनिः ॥ श्ghs_3,2.8 ॥

हर्त्तुरिष्टां दिशं यायाद् व्रती चेद् हस्तिनं हरेत् । असौ हर्त्ता व्रती चौरः करिपे हृतसंज्ञिनि ॥ श्ghs_3,2.9 ॥

पूजाचीवरमालान्तद्वयस्य खलु मोचनात् । अवनौ तच्च्युतौ सत्यां भ्रश्यते संवराद् [यतिः] ॥ श्ghs_3,2.10 ॥

क्षिप्तं मौक्तिकहारादि गृहीत्वा तद् महाकुलात् ॥ न्यस्य प्रसेविकायां च सहायेन च हारयन् ॥ श्ghs_3,2.11 ॥ जटालेनाथवा वत्स हरन् कि संवरच्युतः । कि पादच्युतिमात्रेण ह्युपचारव्यतिक्रमे ॥ श्ghs_3,2.12 ॥

रात्रौ गोशकटाश्वादीन् कश्चिद् वध्नाति चेद् यतिः । एतानेते हरिष्यन्ति तत् किं स्याच्च्युतसंवरः ॥ श्ghs_3,2.13 ॥

ऋजुके कीलके बन्धे कठिने हार[कं] हरन् । उत्क्षेपणे च चौरः स्यात् कुटिले शिथिले न तु ॥ श्ghs_3,2.14 ॥

छिद्रयित्वा घटं सर्पिः क्षौद्रं तैलं जलं हरन् । यतिः पूरस्य विच्छेदे संवरक्षोभमाप्नुते ॥ श्ghs_3,2.15 ॥

वण्टयमाणे गृहे भ्रात्रोर्भागादेकस्य लिप्सया । बालमात्रं भूमिं यतिः स्यात् क्षतसंवरः ॥ श्ghs_3,2.16 ॥

तस्करोपात्तपात्रादि निराशः पुनराददन् । संवराद् भ्रश्यते हीतोतरस्त्वाप्नोति नापदं ॥ श्ghs_3,2.17 ॥

मित्रभावेन लब्धं स्याद् दत्तं गोपादिभिश्[च]वा । तदा [तद्] आददानस्य यतेर्नापत्तिरिष्यते ॥ श्ghs_3,2.18 ॥

भयोपदर्शनं कार्यं पात्रचीवरमुक्तये । राजनि न वदेद् गत्वैभिश्चौरैर् मुषिता वयं ॥ श्ghs_3,2.19 ॥

निष्कासयस्युपाध्यायाचार्याणां यत्तदावथोः । तदित्युक्त्वा हरेदेकः स्यातां द्वावपि तस्करौ ॥ श्ghs_3,2.20 ॥

स्वद्रव्यं स्तैन्यचित्तेनापहरन्तायिमौ यती । भागार्धेनायतिस्त्वेको निष्कासितार्धेनेतरः ॥ श्ghs_3,2.21 ॥

दास्यामस्ते समं तिष्ठ द्वारे कुर्याम चौरिकां । इत्युक्तकृत आपत्तिः सहैव चौरचेल्लकैः ॥ श्ghs_3,2.22 ॥

उषित्वागन्तुके याते विस्मृत्य पात्रचीवरं । आगत्य यो यतिस्तच्चेद् गोपयेच्चौर एव सः ॥ श्ghs_3,2.23 ॥

एवमावासिका सर्वे भवन्ति क्षतसंवराः । स एव यदि संस्मृत्य नयतीह न किल्विषी ॥ श्ghs_3,2.24 ॥

अन्येन स्तेयचित्तेन पात्रमन्यस्य चेद् यतिः । आनाययति स ततो दोषवान् भवति व्रती ॥ श्ghs_3,2.25 ॥

यावत् पूजा मुनेस्तावत् संघस्यापि प्रवर्तते । इति यो ऽन्यस्य दत्ते स भवति क्षतसंवरः ॥ श्ghs_3,2.26 ॥

लिखित्वोद्धारकं ग्राह्यं मिथः स्तूपाच्च संघतः । कर्मादाने च वक्तव्यमियत् नोक्तकृतो ऽन्यथा ॥ श्ghs_3,2.27 ॥

स्वांशमुक्तहरश्चौरो[यत्योर]मध्ये तयोर्द्वयोः । दास्यामीति च विश्वासं कृत्वा प्राप्नोति नापदं ॥ श्ghs_3,2.28 ॥

लभसे त्वं लभे चाहं यं लाभं तदावयोः । इति लाभे समुत्पन्ने ततो ऽर्धेन [स] तस्करः ॥ श्ghs_3,2.29 ॥

दक्षिणादेशने ऽप्येवं पांशुकूलिकयोर्द्वयोः । भिनत्ति यः क्रियाकारं ततः स च्युतसंवरः ॥ श्ghs_3,2.30 ॥

उपकार्यपकारिभ्यश्चान्नपानादि सांघिकं । विहारस्वामिराजादिचौरादिभ्यो यथाक्रमं ॥ श्ghs_3,2.31 ॥

श्रीघनेभ्यो ऽपि दातव्यं प्रातराशादि सांघिकं । आलेपनादि कुर्वन्ति विहारे यदि नान्यथा ॥ श्ghs_3,2.32 ॥

सीमान्तस्थायिने दत्वा भिक्षूपस्थानकारिणे । दारकप्रस्थव्याजेन गृह्णीयात्तण्डुलादिकं ॥ श्ghs_3,2.33 ॥

अत्यक्ताशो[हि]गृह्णीयात् नष्टं स्वपात्रचीवरं । मत्वैवं नष्टपात्रादिराशां नैव त्यजेद् [यतिः] ॥ श्ghs_3,2.34 ॥

स्वाध्यायाध्ययनोद्देशं कृत्वा ये संघशीलकं । क्रियाकारं न कुर्वन्ति ते जिनोदितलंघिनः ॥ श्ghs_3,2.35 ॥

पताकालक्षणं स्तूपान्न ग्राह्यं यतिना[खलु] । प्रांशुकूलमिति ग्राह्यमनिलोद्धूतपातितं ॥ श्ghs_3,2.36 ॥

शुल्ककृत्यं परद्रव्यं न नयेत् नापि नाययेत । शुल्कप्रदानमोक्षार्थोपायं नोपदिशेद् यतिः ॥ श्ghs_3,2.37 ॥

रत्नं दत्वा यतिभ्यः प्राक् पश्चात् मार्गयते वणिक् । विसंवादयसीत्येवं दातव्यं परिभाष्य तत् ॥ श्ghs_3,2.38 ॥

नास्ति शुल्कं मुनेरेवं व्रतिनां पारिभोगिके । क्रयविक्रयकृद्दद्यात् शुल्कमन्यत्र वस्तुनि ॥ श्ghs_3,2.39 ॥

वर्षावासिकलाभो [हि] देयो वर्षोषितस्य च । जीवितब्रह्मचर्यस्य ययोर्नाशस्तयोरपि ॥ श्ghs_3,2.40 ॥

प्राक्प्रागुपगतैः कार्या वर्षावासिकयाचना । पश्चादुपगतैः पश्चात् संघे युगपदेव च ॥ श्ghs_3,2.41 ॥

पुनर्गृह्णाति दीक्षां यो वस्तुकर्मजुगुप्सया । भिक्षुभावं परित्यज्य तस्मै चाप्याह सर्ववित् ॥ श्ghs_3,2.42 ॥

अवर्षोषितविभ्रान्तकुदृष्टिमृतकास्[तथा] । देशान्तरगता लाभं नार्हन्ति पंचपुद्गलाः ॥ श्ghs_3,2.43 ॥

अमुष्मै देयमित्येवं लाभोत्पन्ने यतौ मृते । दातव्यो नियतं तस्मै स विकल्पितभिक्षवे ॥ श्ghs_3,2.44 ॥

देशान्तरगतस्यापि स्थापयेत् कल्पमन्दिरे । त्रये कुर्वन्ति चानर्थं तेभ्यो देयंबुधर्न हि ॥ श्ghs_3,2.45 ॥

आच्छादं चीवरं मूल्यं दास्यामीति चतुष्पदैः । आप्नोति सम्मुखीभूतान् लाभो नेतरेषु च ॥ श्ghs_3,2.46 ॥

वर्षावासिकलाभश्च वर्षोषितस्य [गच्छति] । तदेतरस्य दोषो न गृह्णतो दायकेच्छया ॥ श्ghs_3,2.47 ॥

कालिको यामिको यावज्जीविकः साप्ताहिकः । मृतक्षुद्रपरिष्कारनैत्यकाकालचीवरं ॥ श्ghs_3,2.48 ॥

कुटीप्रतिष्ठाजात्यादिसम्बोध्यादिमहोद्भवः । प्राप्नोति दशधा लाभः सम्मुखीभूतपुद्गलान् ॥ श्ghs_3,2.49 ॥

अनाधेयं [गुरुद्रव्यं] सांघिकं शयनासनं । विक्रेतव्यं न भोक्तव्यं कृत्वा पौद्गलिकं न च ॥ श्ghs_3,2.50 ॥

चातुर्दिशाय बुद्धाय सम्मुखीभूतसांघिके यतिर्द्रव्यान्तरे दत्ते तत्र तत्रोपनामयेत् ॥ श्ghs_3,2.51 ॥

तूष्णीं दत्वा गते देयं बुद्धे मुक्ताफलादिकं । चातुर्दिक्सम्मुखीभूते शयनासनमंशुकं ॥ श्ghs_3,2.52 ॥

पृथु द्रव्यं परोपात्तं तत्संज्ञी स्तेयचेतना । स्थानच्युतिश्च पंचांगैर्युक्तश्चेदयतिर्भवेत् ॥ श्ghs_3,2.53 ॥

दत्तस्वकापरोपात्तसंज्ञी चान्यो ऽपि संवरी । न तावत्कालिकं स्वांशाद् गृह्णन् जहाति संवरं ॥ श्ghs_3,2.54 ॥

आदायादत्तमुत्प्लुत्य खं गत्वाशाचतुष्टयं । तत्रैव पुनरासीनो भवति क्षतसंवरः ॥ श्ghs_3,2.55 ॥

अवक्रीतादिरज्ञानात् परद्रव्यं हरन् खलु । संवरक्षोभलाभी स यतिर्नोन्मत्तादिकः ॥ श्ghs_3,2.56 ॥

3 मैथुनविरतिशिक्षापदं

संवरत्यागः

नृस्त्रीपण्डकविण्मूत्रवक्त्ररन्ध्रेंऽगजात[कं] । क्षिप्त्वा निगमयेत् स्वादं स [यतिः] क्षतसंवरः ॥ श्ghs_3,3.1 ॥

मानुषाऽमानुषास्ते तु तिर्यञ्चश्च नरादयः । मृताः सुप्ताश्च जाग्रन्तो ज्ञेया [हि] मैथुनाश्रयाः ॥ श्ghs_3,3.2 ॥

हस्तिनीमादितः [कृत्वा] यावत् कुक्कुटजाति[कां] । क्षुद्रिकां महतीं गच्छन्[स यतिश्] च्यवते व्रतात् ॥ श्ghs_3,3.3 ॥

दुष्कृतानि

रक्तः सन् न स्त्रियं पश्येत् शब्दमाकर्णयेन्न च । निर्वस्त्रः सन् न चोपेयादंगजात न निर्भुजेत् ॥ श्ghs_3,3.4 ॥

भित्तिद्वये कृतां शुष्कां क्लिन्नां संयोज्य [कोटरीं] । [विप्रतिपत्तितो] नाश्यः संग्रहे सति नान्यदा ॥ श्ghs_3,3.5 ॥

अध ऊर्ध्वं त्रिखण्डाया विनीलाध्मातिकां च न । न चास्थिसंकलां यायात् नाभ्यक्तां रुधिरादिभिः ॥ श्ghs_3,3.6 ॥

सितास्थिसंकलां शैलदारुपुस्तमयीं[यतिः] । न च गच्छेत् स्त्रियं यो ऽत्र विरतो मैथुनात्सदा ॥ श्ghs_3,3.7 ॥

ध्यानमिद्धगतं मत्तमभिभूतं च निद्रया । विक्षिप्तं वेदनातुन्नं गृहीत्वाभिनिषीदति ॥ श्ghs_3,3.8 ॥

आदिमध्यावसानेषु स्वादयेत् ध्यानव्युत्थितः । विहाराद् घट्टनीयः सो ऽभावे तु स्वादनस्य न ॥ श्ghs_3,3.9 ॥

नानाव्यंजन[को]पेतरसशाल्युपभोगवत् । आस्वादना च तैलाच्छशौण्डासवपानवत् ॥ श्ghs_3,3.10 ॥

अनास्वादो युवग्रीवामृतकुक्कुरबन्धवत् । विज्ञेयः सुकुमारस्य प्रदीप्तलोहस्पर्शवत् ॥ श्ghs_3,3.11 ॥

अवक्रीतादि[रज्ञानात्] । [आपत्तिभाग् यतिर्नैवोन्मत्तविक्षिप्तचेतसः] ॥ श्ghs_3,3.12 ॥ रागा[मनुष्यसंयोगात्] प्रगुणीभूतांगजात[कं] । न स्पृशेत् शुक्रमोक्षार्थं स पृथिव्यादिधातुभिः ॥ श्ghs_3,3.13 ॥

तिर्यक्[प्रमत्त]संयोगात् शुक्रमुक्तिर्भवेद् यदि । [स्व]मानसं यतिगर्हेत् कृतं मे नु विरूपकं ॥ श्ghs_3,3.14 ॥

मज्जजक्षरणं यस्य यतेः स्वप्नेषु जायते । स्वप्नशुक्रविनिर्मुक्तौ तद्दोषो न मनागपि ॥ श्ghs_3,3.15 ॥

रागाविष्टेन चित्तेन नारीं न श्रीघनः स्पृशेत् । [अन्यं स्पृशेत्तथारूपं नापि च] पुंनपुंसकं ॥ श्ghs_3,3.16 ॥

स्तनकक्षौष्ठनाभ्यूरुपार्श्व कुक्षिमलभ्रमान् । संरक्तः [सन्] यतिः स्त्रीणां न निन्देत् न च संस्तुयात् ॥ श्ghs_3,3.17 ॥

यद्यद् वदेत् स्त्रियं[तावत्] कर्तुकामो यथा यथा । तत्तत् तथा तथा ब्रूयात् श्रीघनो नान्तिके स्त्रियाः ॥ श्ghs_3,3.18 ॥

अग्रा भवति सा योषिद् या मां परिचरेद् रहः । लाभिनी चायुरादीनां व्याधिहीना यशस्विनी ॥ श्ghs_3,3.19 ॥

इत्यादि न वचो ब्रूयाद् रागाग्निप्लुष्टमानसः । पुरस्ताच्छ्रोघनः स्त्रीणां पुनपुंसकयोस्तथा ॥ श्ghs_3,3.20 ॥

विवाहावाहयोर्दौत्यं न कुर्यात् श्रामणेरकः । [न च कुर्यात् तथारूपनिमित्तमपि दौत्यकं] ॥ श्ghs_3,3.21 ॥

दापयेयमिमां श्राद्धां तथास्मै दारिकामिति । अर्थसंस्यन्दनासूत्रं घटते न [स] भाषितुं ॥ श्ghs_3,3.22 ॥

बीजार्थं न व्रती दद्यात् [स्वयमेव] गवादिकं । एतानेव परेभ्यो ऽपि कदाचिन्न [हि] प्रार्थयेत् ॥ श्ghs_3,3.23 ॥

तुल्यमेतासु त्वं तिष्ठ मा स्त्रिया चैकया वस । इत्येवं हि बहुस्त्रीकं पुरुषं न यतिर्वदेत् ॥ श्ghs_3,3.24 ॥

4 मृषावादविरतिशिक्षापदं

प्रत्येकबुद्धसंबुद्धतच्छिष्यज्ञानदर्शनं । ममास्तीति ब्रुवन् मिथ्या नाश्यो ऽन्यत्राभिमानतः ॥ श्ghs_3,4.1 ॥

ज्ञानं सत्याभिसंबोधिरभिज्ञाः पंच दर्शनं । धर्मान्वयादिकज्ञानांगीकरणे क्षमो न सः ॥ श्ghs_3,4.2 ॥

आर्यम्लेच्छवचोलेखलिप्या [च] हस्तमुद्रया । ज्ञानादि प्रतिजानीते बोद्धव्यमपि तन्मृषा ॥ श्ghs_3,4.3 ॥

वृक्षमूले ऽहमेकाकी विहरामि रमे [गृहे] । समाहितं च मे चित्तं न च वाच्यमतीन्द्रियं ॥ श्ghs_3,4.4 ॥

बुद्धादीनां वदेद् वर्णमात्मनो न कथंचन । परकीयं गुणं पृष्टो ब्रूयात्तत्संमुखं न तु ॥ श्ghs_3,4.5 ॥

दृष्टं श्रुतं मतं यद्यद् विज्ञातं चैव तद् वदेत् । [श्रीघनो] वैपरीत्येन गदन्मिथ्याभिधायकः ॥ श्ghs_3,4.6 ॥

वस्तु चालीकसंज्ञी च चित्तं विनिहितं [तथा] । मृषासंज्ञी वदेद्वाचं पंचांगो ऽनृतवादिकः ॥ श्ghs_3,4.7 ॥

चतुस्त्रिद्वयेक[कै] रंगैर्युक्तो यो ऽत्र मृषां वदेत । अन्यैः स यतिभिर्ज्ञेयो मृषावादीति [श्रीघनः] ॥ श्ghs_3,4.8 ॥

अभूतेनानिदानेन यतिः [प्राणिवधादिना] । ध्वंसनच्यावनाकूतः संमुखं न च चोदयेत् ॥ श्ghs_3,4.9 ॥

क्षुद्रापत्तिनिमित्तेन लेशमात्रेण तेन वा । श्रामणेरो[हि] प्रत्यक्षं [श्रीघनान्] न क्षिपेत् परान् ॥ श्ghs_3,4.10 ॥

जातिलिंगक्रियावादैर् हीनमध्योत्तमैर्व्रती । जिह्मनिष्प्रतिभानार्थं न प्राणान् जातु चोदयेत् ॥ श्ghs_3,4.11 ॥

उपक्लेशगदाक्रोशापत्त्याद्यैर्हि यतिं व्रती । आशयेन पुरोक्तेन ब्रूयान्नैव कदाचन ॥ श्ghs_3,4.12 ॥

भेदं यास्यति सो ऽन्येन संधास्यति मया सह । यतिर जात्यादिवादेन पैशुन्यं न समाचरेत् ॥ श्ghs_3,4.13 ॥

5 सुरामैरेयमद्यपानविरतिशिक्षापदं

मद्यं सुरा च मैरेयं प्रमादस्यास्पदं यतः । न परस्मै[हि] तद्देयं न च पेयं श्वमूत्रवत ॥ श्ghs_3,5.1 ॥

वल्कलैः सगुडैः काचिदपरा केवलेन च । पिष्टकिण्वजलैरेभिरपि संचीयते सुरा ॥ श्ghs_3,5.2 ॥

मैरेयं गुडधात्र्यम्बुधातकीसंस्कृतं हि यत् । कुशाग्रेणापि तत् पातुं यतीनां न प्रकल्पते ॥ श्ghs_3,5.3 ॥

कोद्रवान्नं न भुञ्जीत तत्पलाले च न स्वपेत् ॥ पीतं सत मदयेद् यच्च पातव्यं तदपीह न ॥ श्ghs_3,5.4 ॥ 6 उच्चशयनमहाशयनविरतिशिक्षापदं

शयने यतिरासीत जिनाष्टांगुलपादके । [विना] शल्येन[मंचे वा] हेमरूप्यकृते न तु ॥ श्ghs_3,6.1 ॥

सांघिके शयने दद्यात् तत् प्रत्यास्तरणं यतिः । वस्त्रकम्बलयोरिष्टं यत् त्रिद्वयेकपुटं क्रमात् ॥ श्ghs_3,6.2 ॥

न्यस्य गर्त्तेषु तत्पादानतिरेकप्रमाणकान् । प्रक्षिप्य प्रतिपादेषु टंकित्वा कीलकेषु वा ॥ श्ghs_3,6.3 ॥

एवं वेक्षुयवादीनां रक्षार्थं मंचके स्वपेत् । यतिर्न लंबयेत्पादावध्वगो दीर्घपादके ॥ श्ghs_3,6.4 ॥

अल्पं चेद् द्वादशेभ्यो हि देयमेकं विहारकं । निर्मुष्टहस्तं स्वल्पत्वे बहुत्वे तु विपर्ययात् । श्ghs_3,6.5 ॥

स्तोकं चेद् नवकः पीठे वृद्धो मंचे[तदा] स्वपेत् । स्वप्तव्यं वृक्षमूले [ऽपि] नवेनाभ्यवकाशके ॥ श्ghs_3,6.6 ॥

अन्तर्वर्षासु नोपस्थाप्यो ऽन्यः सब्रह्मचारिकः । यतिना [स्व] विहारे[तु] यथावृद्धिकया यतिः ॥ श्ghs_3,6.7 ॥

संस्कारपरिभोगार्थं परिपालनार्थमेव च । उद्दिश्यते [यतिभ्यो वै] सांघिकं शयनासनं ॥ श्ghs_3,6.8 ॥

हीनमध्योत्तमं [स्थाप्यं भिक्षुभ्यो] लयनत्रयं । वृद्धाद्यागन्तुकेभ्यस्तदुद्दिशेद्दहरक्रमात् ॥ श्ghs_3,6.9 ॥

शयनासनमत्युच्चं प्रतिषिद्धं यतेर्हि तत् । मदौद्धत्यकरं यस्माद् लोकावध्यानकारणं ॥ श्ghs_3,6.10 ॥

7 नृत्यगीतवादित्रविरतिशिक्षापदं

बाहुविक्षेपकं नृत्यं गीतमुच्चैः स्वरेण च । वीणावंशमृदंगादिवादित्रं न च वादयेत् ॥ श्ghs_3,7.1 ॥

8 गन्धमाल्यविलेपनविरतिशिक्षापदं

चन्दनादिक[गन्धं हि धारयेद्] व्याधितो यतिः । दत्त्वा [च] मुनये पूर्वं भिषगादेर्वचनेन [सः] ॥ श्ghs_3,8.1 ॥

न तिष्ठेत् प्रकटे देशे क्षालयित्वा बहिर्व्रजेत् । अनेनैव विधानेन धारयेत् कुसुमस्रजं ॥ श्ghs_3,8.2 ॥

नेत्रदुःखशिरःशूलपूतनाग्रहरुग्वतः । मालया वेष्टयेत् शीर्षं मेखलां न च लंबयेत् ॥ श्ghs_3,8.3 ॥

हरितालादिचूर्णेन तैलेन वा सुगन्धिना । न वदनादिकं गात्रं वर्णार्थं मर्षयेद् यतिः ॥ श्ghs_3,8.4 ॥

यतेरप्रतिरूपत्वाद् गन्धमाल्य[विलेपनं] । रागौद्धत्यकरं यस्मात् तस्मात्तद् गर्हितं जिनैः ॥ श्ghs_3,8.5 ॥

न दर्पणे निरीक्षेत मुखं वा तैलभाजने । मुक्त्वान्येनेक्षणीयं[हि] शिरोव्यथागदातुरं ॥ श्ghs_3,8.6 ॥

विभूषणाय तैलेनात्मनो नाभ्यंजयेद् मुखं । स्फुटितास्यशिरोरोगादन्येनाभ्यंजनं न च ॥ श्ghs_3,8.7 ॥

न कुंकुमादिचूर्णेन मण्डयेद् वदनं यतिः । पिटकशमनार्थं तु लेप इष्टस्तिला[दिभिः] ॥ श्ghs_3,8.8 ॥

9 विकालभोजनविरतिशिक्षापदं

रात्रेरन्यत्र[भुंजाने मयि बभूवाल्परोगता] । तथैव [खलु] वः कार्यं [भोक्तव्यं दिनयेवच] ॥ श्ghs_3,9.1 ॥

विण्मूत्रगर्त[के] पातः चौराहिभिः समागमः । उदरार्थं गृहे नो ऽटन्तीत्यवध्यातवान् जनः ॥ श्ghs_3,9.2 ॥

सायं प्रातश्च पिण्डार्थमटन्ति भुंजते [तथा] । सभाचत्वरश्रृंगाटमन्दिरेषु गृहेषु च ॥ श्ghs_3,9.3 ॥

सुगतः प्राह भुंजीत काले यतिः ॥ उदितादित्यमध्याह्नकेशमात्रानतीतके ॥ श्ghs_3,9.4 ॥ सक्तुरोदनकुल्माषं मत्स्य- मांसं च कालिकं । यावज्जीविकतैलादिपिप्पलीपानवर्जितं ॥ श्ghs_3,9.5 ॥

यत्किंचिदद्यते दन्तैर्गलके वा प्रवेश्यते । कुक्षिविष्टभ्मकं काले तत्तदद्याद्यथोदिते ॥ श्ghs_3,9.6 ॥

सक्त्वाद्यामिषनिर्मुक्तं नीरजं कर्दमादिकं । वर्षोपलकमश्नीयात् पिपासार्त्तो यतिर्हिमं ॥ श्ghs_3,9.7 ॥

कल्प्यवारिग्रहे तावत् प्रक्षाल्यौ न [सशोणितौ] । हस्तौ द्वौ चांगुलीक्षाले न ग्राह्यं कल्पिकोदकं ॥ श्ghs_3,9.8 ॥

मायाशाठय[युतः] कुर्यात् न च प्रक्षालनं तयोः । सशब्दौ [यदि] तौ शुद्धौ वेद्यौ स्निग्धत्वचो यतेः ॥ श्ghs_3,9.9 ॥

न दास्यथ[मह्यं] भोक्तुं क्षुत्तृष्णापीडितो [म्रिये] । इत्येवं [स] विरुक्तः स्यात् क्षेप्तव्यो मण्डकुण्ड[के] ॥ श्ghs_3,9.10 ॥

अष्टासु धौतधान्यं यत् पात्रे दिशेदनामिषे । स्फुटं तु यदि पातुं तन्नैव ग्लानाय कल्पते ॥ श्ghs_3,9.11 ॥

लोभोत्यापितवाक्कायकर्मणा समुपार्जितं । विहारचीवराहारं वर्जयेद् विषभक्तवत् ॥ श्ghs_3,9.12 ॥

मद्यशस्त्रविषप्राणिलाक्षविक्रयणं व्रती । न कारयेत् न कुर्यान्न जीविकां तेन कल्पयेत् ॥ श्ghs_3,9.13 ॥

सत्कारार्थं [च लाभार्थ] कुहना ह्यक्षसंवरः । वस्त्रादिकस्य प्राप्तयर्थं लपना चाटुवादिता ॥ श्ghs_3,9.14 ॥

नैष्पेषिकत्वमन्नादि-लाभाय परकुत्सनं । अन्यदीयस्य पात्रादेर्नैमित्तिकं [तु] वर्णनं ॥ श्ghs_3,9.15 ॥

लाभेन लिप्सा लाभानां वृद्धिषर्येषणं च [यत्] । यतिर्विवर्जयेदेतान् मिथ्याजीवान् पुरीषवत् ॥ श्ghs_3,9.16 ॥

क्रीडापरोपघातं च कायवागुच्छितं [सदा] । व्रती विवर्जयेन्नित्यं विट्प्रदिग्धमिवोरगं ॥ श्ghs_3,9.17 ॥

विपणितरगुल्मादौ द्यूतबन्धगृहे तथा । अगोचरो यदाख्यातस्तिष्ठेत्तत्र न चेल्लकः ॥ श्ghs_3,9.18 ॥

10 जातरूपरजतप्रतिग्रहणविरतिशिक्षापदं

कायेन हस्तपादाभ्यां वस्त्रछत्रादिभिर्व्रती । रजतं जातरूपं च न स्पृशेत् ज्वलिताग्निवत् ॥ श्ghs_3,10.1 ॥

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे श्रामणेरभावोपायो नाम तृतीयो ऽध्याय ॥

चतुर्थो ऽध्यायः अन्ये चाचाराः

चम्पूकलहदन्तादकाष्ठो वृद्धान्तिको यतिः । स्नानपानाशनस्तोत्रव्यग्रो नग्नैकवस्त्र[कः] ॥ श्ghs_4.1 ॥

मृत्कर्मव्यापृतस् तूर्णं गच्छन् [च] द्वित्रिभूमिकं । आशु व्रजन् पचन् पात्रं व्यग्रश् चीवरकर्मणा ॥ श्ghs_4.2 ॥

चूर्णचैलक्रियासक्तो ऽक्ताक्षो[च] धूम्रमापिबन् । लिखन् यो पुस्तकं वापि यो वाचयति सो ऽपि न ॥ श्ghs_4.3 ॥

विट्प्रस्रावकुटीं गच्छन् तिष्ठन् तमसि वोद्दिशन् । वासयन्नथ प्रावृण्वन न वन्द्यो यतिना यतिः ॥ श्ghs_4.4 ॥

अवगुण्ठितशीर्षेण सोपानत्केन जानुनोः । मुण्डस्फोटं हि जंघायां न दद्यादविना यथा ॥ श्ghs_4.5 ॥

समवस्थानिषण्णेन वन्द्यमानेन पद्युगे । गृहीत्वा कर्कटग्राहं वाच्यमारोग्यमस्त्विति ॥ श्ghs_4.6 ॥

भिक्षुविनयसंक्षेपादाचारान्तरमुद्धृतं । श्रोतव्यो ऽन्यदुपाध्यायाद् भाव्यं सगौरवेण च ॥ श्ghs_4.7 ॥

शतद्वयेन संहत्य श्रीघनाचार संग्रहं । सुकृतं कर्म यत्तेन जनो प्राप्नोत्वसंस्कृतं ॥ श्ghs_4.8 ॥

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे अन्ये चाचारा नाम चतुर्थो ऽध्यायः ॥

इति श्रीघनाचारसंग्रहः ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.