Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
श्रावकभूमि
- Thông tin
- GRETIL — Srāvakabhūmi, The First Chapter, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 1998 (Taisho University Sogo Bukkyo Kenyujo, 4). = Śbh I and Srāvakabhūmi, The Second Chapter with Asamāhitā bhūmiḥ, Śrutamayī bhūmiḥ, Cintāmayī bhūmiḥ, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 2007 (Taisho Daigaku Sogobukkyo Kenyujo, 18). = Śbh II.chữ Devanāgarī do máy chuyển tự t
यत् पुनर् आह / "विपुलेन महद्गतेनाप्रमाणेने"त्य् अनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः कामावचरस्य, प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा /
यत् पुनर् आह / "अधिमुच्य स्फरित्वोपसंपद्य विहरती"त्य् अनेन सुखोपसंहारायाधिमोक्षः समाहितभूमिक आख्यातः स पुनर् एष सुखोपसंहारो हिताध्याशयपरिगृहीत आधिमोक्षिकमनस्कारानुगतः /
अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे सुखकामे वेदितव्यः /
यस् तु दुःखितो वादुःखितो वा पुनर् मित्रपक्षो ऽमित्रपक्ष उदासीनपक्षो वा / तत्र यो दुःखितः स करुणाया आलम्बनम् / यः सुखितः स मुदिताया आलम्बनम्, इयम् उच्यते मैत्री /
तत्र व्यापादचरितः पुद्गलो मैत्रीं भावयन् सत्त्वेषु यो व्यापादस् तं प्रतनूकरोति / व्यापादाच् चित्तं परिशोधयति //
-ii-3-b-(3) ms.73a4m, स्ह्. 210-3, p.99a7, d.81b7, n.86a7, co.87a3, ch.430a4 तत्रेदंप्रत्ययताप्रतीत्यसमुत्पादः कतमः / यत् त्रिष्व् अध्वसु संस्कारमात्रं धर्ममात्रं वस्तुमात्रं हेतुमात्रं फलमात्रं युक्तिपतितं यदुतापेक्षायुक्त्या कार्यकरणयुक्त्योपपत्तिसाधनयुक्त्या धर्मतायुक्त्या च, धर्माणाम् एव धर्माहारकत्वं निष्कारकवेदकत्वं च / इदम् उच्यत (श्भ् इइ 72) इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनम् / यद् आलम्बनं मनसिकुर्वन् मोहाधिकः पुद्गलो मोहचरितो मोहं प्रजहाति तनूकरोति मोहचरिताच् चित्तं विशोधयति //
-ii-3-b-(4) ms.73a5l, sh.211-1, p.99b3, d.82a3, n.86b3, co.87a6, ch.430a12 तत्र धातुप्रभेदः कतमः / तद्यथा षड्धातवः पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुश् च //
-ii-3-b-(4)-i ms.73a6m, sh.211-4, p.99b4, d.82a3, n.86b4, co.87a6, ch.430a13 तत्र पृथिवीधातुर् द्विविधः / आध्यात्मिको बाह्यश् च /
तत्राध्यात्मिको यद् अस्मिन् काये ऽध्यात्मं प्रत्यात्मं खक्खटम् खरगतम् उपगतम् उपादत्तम् /
बाह्यः पुनः पृथिवीधातुर् यद् बाह्यं खक्खटं खरगतम् अनुपगतम् अनुपादत्तम् /
स पुनर् आध्यात्मिकपृथिवीधातुः कतमः / तद्यथा केशा, रोमाणि, नखा, दन्ता, रजः, मलं, त्वक्, मांसम्, अस्थि, स्नायु, सिरा, वृक्का, हृदयं, प्लीहकं, क्लोमकम्, अन्त्राणि, अन्त्रगुणाः, आमाशयः, पक्वाशयः, यकृत्, पुरीषम् / अयम् उच्यत आध्यात्मिकः पृथिवीधातुः /
स पुनर् बाह्यः पृथिवीधातुः कतमः / काष्ठानि वा, लोष्टानि वा, शर्करा वा, कठिइइआ वा, वृक्षा वा, पर्वताग्रा वेति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यते बाह्यः पृथिवीधातुः //
-ii-3-b-(4)-ii ms.73b1r, sh.213-2, p.100a2, d.82a7, न् 87अ1, co.87b3, ch.430a21 अब्धातुः कतमः / अब्धातुर् द्विविधः / आध्यात्मिको बाह्यश् च /
तत्राध्यात्मिको ऽब्धातुः " कतमः / यद् अध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतम् आपो ऽब्गतम् उपगतम् उपादत्तम् / तद्यथा अश्रु, स्वेदः, खेतः, शिंघाणकः, वसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकम्, मस्तकलुंगम्, प्रस्रावः / अयम् उच्यत आध्यात्मिको ऽब्धातुः /
बाह्यो ऽब्धातुः कतमः / यद् बाह्यम् आपो ऽब्गतम्, स्नेहः स्नेहगतम् अनुपगतम् अनुपादत्तम् / तत् पुनर् उत्सो वा, सरांसि वा, तडागा वा, नद्यो वा, प्रस्रवणानि वेति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यते बाह्यो ऽब्धातुः //
-ii-3-b-(4)-iii ms.73b3m, sh.214-3, p.100a7, d.82b3, n.87a4, co.87b6, ch.430b1 तेजोधातुः कतमः / तेजोधातुर् द्विविध आध्यात्मिको बाह्यश् च /
तत्राध्यात्मिकस् तेजोधातुः कतमः / यद् अध्यात्मं प्रत्यात्मं तेजस् तेजोगतम् ऊष्मोष्मागतम् उपगतम् उपादत्तम् / तद्यथा यद् अस्मिन् काये तेजो येनायं काय आतप्यते, संतप्यते, परितप्यते / येन चाशितपीतखादितस्वादितं सम्यक् सुखेन परिपाकं गच्छति / यस्य चोत्सदत्वाज् ज्वारितो ज्वारित इति संख्यां गच्छति / अयम् उच्यत आध्यात्मिकस् तेजोधातुः /
बाह्यस् तेजोधातुः कतमः / यद् बाह्यं तेजस् तेजोगतम् ऊष्मोष्मागतम् अनुपगतम् अनुपादत्तम् / तत् पुनर् यन् मनुष्या अरणीसहगतकेभ्यो गोमयचूर्णेभ्यः समन्वेषन्ते / यद् उत्पन्नं ग्रामम् अपि दहति, (श्भ् इइ 76) ग्रामप्रदेशम् अपि, नगरं वा, नगरप्रदेशं वा, जनपदं वा, जनपदप्रदेशं वा, द्वीपं वा, कक्षं वा, दावं वा, काष्ठं वा, तृणं वा, गोमयं वा दहन् परैतीति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यते बाह्यस् तेजोधातुः //
-ii-3-b-(4)-iv ms.73b6l, sh.215-7, w.87-20, p.100b6, d.82b7, n.87b2, co.88a4, ch.430b11 तत्र वायुधातुः कतमः / वायुधातुर् द्विविधः, आध्यात्मिको बाह्यश् च /
तत्राध्यात्मिको वायुधातुर् यद् अप्य् अध्यात्मं प्रत्यात्मं वायुर् वायुगतं लघुत्वं समुदीरणत्वम् उपगतम् उपादत्तम् / स पुनः कतमः / सन्त्य् अस्मिन् काय ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः, कुक्षिशया वायवः, पृष्ठिशया वायवः वाय्वष्ठीला वायवः, क्षुरकपिप्पलकशस्त्रका वायवः, विषूचिका वायवः, आश्वासप्रश्वासा वायवः, अङ्गप्रत्यङ्गानुसारिणो वायवः / अयम् उच्यत आध्यात्मिको वायुधातुः /
बाह्यो वायुधातुः कतमः / यद् बाह्यं वायुर् वायुगतं लघुत्वं, समुदीरणत्वम् अनुपगतम् अनुपादत्तम् / स पुनः कतमः / सन्ति बहिर्धा पूर्वा वायवः, दक्षिणा वायवः, उत्तरा वायवः, पश्चिमा वायवः, सरजसो वायवः, अरजसो वायवः, परीत्ता महद्गता वायवः, विश्वा वायवः, वैरम्भा वायवः, वायुमण्डलकवायवः / भवति च समयो यस्मिन् महान् वायुस्कन्धः समुदागतो वृक्षाग्रान् अपि (श्भ् इइ 78) पातयति, कुड्याग्रान् अपि पातयति, पर्वताग्रान् अपि पातयति / पातयित्वा निरुपादानो निर्गच्छति / यं सत्त्वाश् चीवरकर्णकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वेति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यते बाह्यो वायुधातुः //
-ii-3-b-(4)-v ms.74a2r, sh.217-1, p.101a7, d.83a7, n.88a1, co.88b3, ch.430b26 आकाशधातुः कतमः / यच् चक्षुःसौषिर्यं वा, श्रोत्रसौषिर्यं वा, घ्राणसौषिर्यं वा, मुखसौषिर्यं वा, कण्ठसौषिर्यं वेति, येन वाभ्यवहरति, यत्र वाभ्यवहरति, येन वाभ्यवह्रियते, अधोभागेन प्रघरतीति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यत आकाशधातुः //
-ii-3-b-(4)-vi ms.74a3r, sh.218-6, p.101b1, d.83b1, n.88a3, co.88b4, ch.430b28 विज्ञानधातुः कतमः / यच् चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् / तत् पुनश् चित्तं मनो विज्ञानं च / अयम् उच्यते विज्ञानधातुः //
-ii-3-b-(4)' ms.74a4l, sh.218-9, p.101b2, d.83b2, n.88a4, co.88b4, ch.430c1 तत्र मानचरितः पुद्गल इमं धातुप्रभेदं मनसिकुर्वन् काये पिण्डसंज्ञां विभावयति, अशुभसंज्ञां च प्रतिलभते, न च पुनस् तेनोन्नतिं गच्छति, मानं प्रतनूकरोति / तस्माच् चरिताच् चित्तं (श्भ् इइ 80) विशोधयति / अयम् उच्यते धातुप्रभेदः / मानचरितस्य पुद्गलस्य चरितविशोधनम् आलम्बनम् //
-ii-3-b-(5) ms.74a5l, sh.219-1, w.88-15, p.101b5, d.83b4, n.88a6, co.88b7, ch.430c5 तत्रानापानस्मृतिः कतमा / आश्वासप्रश्वासालम्बना स्मृतिर् इयम् उच्यत आनापानस्मृतिः //
-ii-3-b-(5)-i-(a) ms.74a5m, sh.220-1, w.*86-16, प्. 101 ब्6, d.83b4, n.88a6, चो. 89अ1, ch.430c7 तत्र द्वाव् आश्वासौ / कतमौ द्वौ / आश्वासो ऽन्तराश्वासश् च / द्वौ प्रश्वासौ / कतमौ द्वौ / प्रश्वासो ऽन्तरप्रश्वासश् च /
तत्राश्वासो यः प्रश्वाससमनन्तरम् अन्तर्मुखो वायुः प्रवर्तते यावन् नाभीप्रदेशात् /
तत्रान्तराश्वासो य उपरते ऽस्मिन्न् आश्वासे न तावत् प्रश्वास उत्पद्यते, यदन्तराले विश्रामस्थानसहगत इत्वरकालीनस् तदनुसदृशो वायुर् उत्पद्यते / अयम् उच्यते ऽन्तराश्वासः /
यथाश्वासो ऽन्तराश्वासश् चैवं प्रश्वासो ऽन्तरप्रश्वासश् च वेदितव्यः /
तत्रायं विशेषो बहिर्मुखो वायुः प्रवर्तत इति वक्तव्यम्, नाभीदेशम् उपादाय, यावन् मुखाग्रान् नासिकाग्रात्, ततो वा पुनर् बहिः //
-ii-3-b-(5)-i-(b) ms.74a7r, sh.220-15, w.88-38, p.102a3, d.84a1, n.88b3, co.89a5, ch.430c16 द्वाव् आश्वासप्रश्वासनिदानौ / कतमौ द्वौ / तदाक्षेपकं च कर्म, नाभीप्रदेशसौषिर्यं च, ततो वा पुनर् उत्तरि यत् कायसौषिर्यम् //
-ii-3-b-(5)-i-(c) ms.74b1l, sh.221-1, w.89-4, p.102a4, d.84a2, n.88b4, co.89a6, ch.430c18 द्वाव् आश्वासप्रश्वासयोः संनिश्रयौ / कतमौ द्वौ / कायश् चित्तं च / तत् कस्य हेतोः / कायसंनिश्रिताश् चित्तसंनिश्रिताश् चाश्वासप्रश्वासाः प्रवर्तन्ते / ते च यथायोगं सचेत् कायसंनिश्रिता एव प्रवर्तेरन्, असंज्ञिसमापन्नानां, निरोधसमापन्नानाम् असंज्ञिसत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन् / सचेच् चित्तसंनिश्रिता एव प्रवर्तेरन्, तेनारूप्यसमापन्नोपपन्नानाम् सत्त्वानां प्रवर्तेरन् /
सचेत् कायसंनिश्रिताश् चित्तसंनिश्रिताः प्रवर्तेरंस् ते च न यथायोगं, तेन चतुर्थध्यानसमापन्नोपपन्नानाम् सत्त्वानां कललगतानां चार्बुदगतानां पेशीगतानाम् सत्त्वानां प्रवर्तेरन् / न च प्रवर्तन्ते / तस्माद् आश्वासप्रश्वासाः कायसंनिश्रिताश् चित्तसंनिश्रिताश् च प्रवर्तन्ते ते च यथायोगम् //
-ii-3-b-(5)-i-(d) ms.74b3m, sh.221-16, w.90-1, p.102b3, d.84a6, n.89a2, co.89b3, ch.430c26 द्वे आश्वासप्रश्वासयोर् गती / कतमे द्वे / आश्वासयोर् अधोगतिः, प्रश्वासयोर् ऊर्ध्वगतिः //
-ii-3-b-(5)-i-(e) ms.74b3r, sh.221-18, w.90-4, p.102b4, d.84a7, n.89a3, co.89b4, ch.430c28 द्वे आश्वासप्रश्वासयोर् भूमी / कतमे द्वे / औदारिकं च सौषिर्यं, सूक्ष्मं च सौषिर्यम् /
तत्रौदारिकं सौषिर्यं नाभीप्रदेशम् उपादाय यावन् मुखनासिकाद्वारम् / मुखनासिकाद्वारम् उपादाय यावन् नाभीप्रदेशसौषिर्यम् /
सूक्ष्मसौषिर्यं कतमत् / सर्वकायगतानि रोमकूपानि //
-ii-3-b-(5)-i-(f) ms.74b4m, sh.222-3, w.90-15, p.102b6, d.84b2, n.89a4, co.89b6, ch.431a3 चत्वार्य् आश्वासप्रश्वासानां पर्यायनामानि / कतमानि चत्वारि / वायवः, आनापानाः, आश्वासप्रश्वासाः, कायसंस्काराश् चेति / तत्रान्यैर् वायुभिः (श्भ् इइ 84) साधारणं पर्यायनामैकं यदुत वायुर् इति / असाधारणानि तदन्यानि त्रीणि //
-ii-3-b-(5)-i-(g) ms.74b5l, sh.222-8, w.*90-19, p.102b8, d.84b3, n.89a6, co.89b7, ch.431a6 द्वाव् अपक्षालाव् आश्वासप्राश्वासप्रयुक्तस्य / कतमौ द्वौ / अतिशिथिलप्रयोगता च, अत्यवष्टब्धप्रयोगता च /
तत्रातिशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति, बहिर्धा वा विक्षिप्यते / तथात्यवष्टब्धप्रयुक्तस्य कायवैषम्यम् वोत्पद्यते चित्तवैषम्यं वा /
कथं कायवैषम्यम् उत्पद्यते / बलाभिनिग्रहेणाश्वासप्रश्वासान् अभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते / ये ऽस्य तत्प्रथमतस् तेषु तेष्व् अङ्गप्रत्यङ्गेषु स्फुरन्ति / ये स्फुरका इत्य् उच्यन्ते / ते पुनः स्फुरका वायवो विवर्धमाना रुजका भवन्ति / ये ऽस्य तेषु तेष्व् अङ्गप्रत्यङ्गेषु रुजाम् उत्पादयन्ति / इदम् उच्यते कायवैषम्यम् /
कथं चित्तवैषम्यम् उत्पद्यते / चित्तं वास्य विक्षिप्यते / प्रगाढेन वा दौर्मनस्योपायासेनाभिभूयते / एवं चित्तवैषम्यम् उत्पद्यते //
-ii-3-b-(5)-ii ms.75a1m, sh.223-1, w.90-24, p.103a6, d.84b7, n.89b3, co.90a5, ch.431a17 अस्याः खल्व् आनापानस्मृतेः पञ्चविधः परिचयो वेदितव्यः / तद्यथा गणनापरिचयः स्कन्धावतारपरिचयः प्रतीत्यसमुत्पादावतारपरिचयः सत्यावतारपरिचयः षोडशाकारपरिचयश् च //
-ii-3-b-(5)-ii-(a) ms.75a2l, sh.223-5, w.90-31, p.103a8, d.85a2, n.89b5, co.90a6, ch.431a21 तत्र गणनापरिचयः कतमः / समासतश् चतुर्विधो गणनापरिचयः (श्भ् इइ 86) / तद्यथैकैकगणना, द्वयैकगणना, अनुलोमगणना, प्रतिलोमगणना च //
-ii-3-b-(5)-ii-(a)-(1) ms.75a2r, sh.223-8, p.103b1, d.85a3, n.89b6, co.90a7, ch.431a24 तत्रैकैकगणना कतमा / यदाश्वासः प्रविष्टो भवति, तदाश्वासप्रश्वासालम्बनोपनिबद्धया स्मृत्यैकम् इति गणयति / यदाश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति तदा द्वितीयं गणयति, एवं यावद् दश गणयति / एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा / इयम् उच्यत एकैकगणना //
-ii-3-b-(5)-ii-(a)-(2) ms.75a3r, sh.223-14, p.103b4, d.85a4, n.89b7, co.90b2, ch.431a28 द्वयैकगणना कतमा / यदाश्वासः प्रविष्टो भवति निरुद्धश् च प्रश्वास उत्पन्नो भवति निर्गतश् च, तदैकम् इति गणयति / अनेन गणनायोगेन यावद् दश गणयति / इयम् उच्यते द्वयैकगणना / आश्वासं च प्रश्वासं चेदं द्वयम् एकध्यम् अभिसंक्षिप्यैकम् इति गणयति, तेनोच्यते द्वयैकगणना //
-ii-3-b-(5)-ii-(a)-(3) ms.75a4r, sh.223-20, p.103b6, d.85a6, n.90a2, co.90b4, ch.431b3 अनुलोमगणना कतमा / अनयैवैकैकगणनया द्वयैकगणनया वानुलोमं यावद् दश गणयति / इयम् उच्यते ऽनुलोमगणना //
-ii-3-b-(5)-ii-(a)-(4) ms.75a5l, sh.224-2, प्. 103ब्7, d.85a6, n.90a3, co.90b4, ch.431 ब्6 प्रतिलोमगणना कतमा / प्रतिलोमं दश उपादाय नवाष्टौ सप्त षट् पञ्च यावद् एकं गणयति / इयम् उच्यते प्रतिलोमगणना /
यदा स एकैकगणनां निश्रित्य द्वयैकगणनां वा, अनुलोमगणनायां, प्रतिलोमगणनायां च कृतपरिचयो भवति, न चास्यान्तराच् चित्तं विक्षिप्यते, अविक्षिप्तचित्तश् च गणयति, तदास्योत्तरगणनाविशेषो व्यपदिश्यते //
-ii-3-b-(5)-ii-(a)-(5) ms.75a6l, sh.224-10, p.104a2, d.85b1, n.90a5, co.90b6, ch.431b12 कतमो गणनाविशेषः / एकैकगणनया वा, द्वयैकगणनया वा, द्वयम् एकं कृत्वा गणयति / तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं (श्भ् इइ 88) भवति, एकैकगणनया पुनर् आश्वासः प्रश्वासश् " चैकं भवति / एवं यावद् दश गणयति / एवम् उत्तरोत्तरवृद्ध्या यावच् छतम् अप्य् एकं कृत्वा गणयति / तदा शतैकगणनयानुपूर्वेण यावद् दश गणयति / एवम् अस्य गणनाप्रयुत्कस्य यावद् दशैकं कृत्वा गणयति / यावच् च दश परिपूरयति / तया दशैकगणनया न चास्यान्तराच् चित्तं विक्षिप्यते / इयता तेन गणनापरिचयः कृतो भवति /
तस्य च गणनाप्रयुक्तस्य सचेद् अन्तराच् चित्तं विक्षिप्यते, तदा पुनः प्रतिनिवर्त्यादितो गणयितुम् आरभते ऽनुलोमं वा, प्रतिलोमं वा / यदा चास्य गणनापरिचयात् तच् चित्तं स्वरसेनैव वाहिमार्गसमारूढम् आश्वासप्रश्वासालम्बनोपनिबद्धम् अव्यवच्छिन्नं निरन्तरं, प्रवर्तमान आश्वासे प्रवृत्तिग्राहकम्, निरुद्ध आश्वासे निवृत्तिग्राहकं प्रश्वासशून्यावस्थाग्राहकं, प्रवृत्ते प्रश्वासे प्रवृत्तिग्राहकं, निवृत्ते पुनर् निवृत्तिग्राहकम् आश्वासशून्यावस्थाग्राहकम् अविकंप्यम् अविचलम् अविक्षेपाकारम्, साभिरामं च प्रवर्तते /
इयता गणनाभूमिसमतिक्रमो भवति / पुनस् तदागणयितव्यं भवति / नान्यत्राश्वासप्रश्वासालम्बनं चित्तम् उपनिबध्यते / आश्वासप्रश्वासा अनुगन्तव्याश् चाभिलक्षयितव्याश् च सान्तराश्वासप्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्थाः / अयम् उच्यते गणनापरिचयः //
ms.75b2l, sh.225-12, p.104b6, d.86a2, n.90b6, चो,91ब्1, ch.431c4 स खल्व् एष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते / तेषाम् एतद् (श्भ् इइ 90) व्याक्षेपस्थानं भवति चित्तस्थितये चित्तनिरतये / अन्यथा गणनाम् अन्तरेण तेषां स्त्यानमिद्धं वा चित्तं पर्यवनहेत, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तानां तु तेषाम् एतन् न भवति /
ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयस् तेषां पुनर् गणनाप्रयोगेण प्रियारोहता भवति / तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्व् एव प्रतिविध्यन्ति, न च तेनाभिरमन्ते / ते पुनर् आश्वासप्रश्वासालम्बनां स्मृतिम् उपनिबध्य यत्र च प्रवर्तन्ते यावच् च प्रवर्तन्ते, यथा च प्रवर्तन्ते, यदा च प्रवर्तन्ते, तत् सर्वम् अनुगच्छत्य् उपलक्षयत्य् उपस्थितया स्मृत्या / अयम् एवंरूपस् तेषां प्रयोगः /
तस्य च प्रयोगस्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् कायप्रस्रब्धिर् उत्पद्यते, चित्तप्रस्रब्धिश् च / एकाग्रतां च स्पृशत्य् आलम्बनाभिरतिं च निर्गच्छति //
-ii-3-b-(5)-ii-(b) ms.75b4m, sh.226-5, w.90-36, p.105a4, d.86a7, n.91a4, co.91b5, ch.431c16 स एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धान् अवतरति / कथं च पुनर् अवतरति / ये चाश्वासप्रश्वासा यश् चैषाम् आश्रयकायस् तं मनसिकुर्वन् रूपस्कन्धम् अवतरति / या तेषाम् आश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्तानुभावना स वेदनास्कन्ध इत्य् अवतरति / या संजानना स संज्ञास्कन्ध इत्य् अवतरति / या चासौ स्मृतिर् या च चेतना, या च तत्र प्रज्ञा, अयं संस्कारस्कन्ध इत्य् अवतरति / यच् (श्भ् इइ 92) चित्तं मनो विज्ञानम् अयं विज्ञनस्कन्ध इत्य् अवतरति / या तद्बहुलविहारिता एवं स्कन्धेष्व् अवतीर्णस्यायम् उच्यते स्कन्धावतारपरिचयः //
-ii-3-b-(5)-ii-(c) ms.75b6l, sh.226-17, p.105b1, d.86b3, n.91a7, co.92a1, ch.431c26 यदा चानेन स्कन्धमात्रं दृष्टं भवति परिज्ञातं संस्कारमात्रं वस्तुमात्रं तदा स एषाम् एव संस्काराणां प्रतीत्यसमुत्पादम् अवतरति / कथं च पुनर् अवतरति / स एवं समन्वेषते पर्येषते, "इतीम आश्वासप्रश्वासाः किमाश्रिताः किंप्रत्ययाः" / तस्यैवं भवति / "कायाश्रिता एत आश्वासप्रश्वासाः कायप्रत्ययाश् चित्ताश्रिताश् चित्तप्रत्ययाश् च" /
"कायः पुनश् चित्तं च किंप्रत्ययं च / स "कायश् चित्तं च जीवितेन्द्रियप्रत्ययम्" इत्य् अवतरति / "जीवितेन्द्रियं पुनः किंप्रत्ययम्" / स पूर्वसंस्कारप्रत्ययं जीवितेन्द्रियम् इत्य् अवतरति /
"पूर्वकः संस्कारः किंप्रत्ययः / स "पूर्वकः संस्कारो ऽविद्याप्रत्यय" इत्य् अवतरति / इति ह्य् अविद्याप्रत्ययः पूर्वकः संस्कारः, पूर्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायश् चित्तं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः / तत्राविद्यानिरोधात् संस्कारनिरोधः / संस्कारनिरोधाज् जीवितेन्द्रियनिरोधः / जीवितेन्द्रियनिरोधात् (श्भ् इइ 94) कायचित्तनिरोधः / कायचित्तनिरोधाद् आश्वासप्रश्वासनिरोधः/ एवम् असौ प्रतीत्यसमुत्पादम् अवतरति / स तद्बहुलविहारी प्रतीत्यसमुत्पादावतारे कृतपरिचय इत्य् उच्यते / अयम् उच्यते प्रतीत्यसमुत्पादावतारपरिचयः //
-ii-3-b-(5)-ii-(d) ms.76a1m, sh.228-1, p.106a2, d.87a2, n.91b7, co.92a7, ch.432a12 स एवं प्रतीत्यसमुत्पादे कृतपरिचयो "य एते संस्काराः प्रतीत्यसमुत्पन्ना अनित्या एत" इत्य् अवतरति / "अनित्यत्वाद् अभूत्वा च भवन्ति भूत्वा प्रतिविगच्छन्ति / पुनर् एते ऽभूत्वा भवन्ति भूत्वा च प्रतिविगच्छन्ति ते जातिधर्माणः, जराधर्माणः, व्याधिधर्माणः, मरणधर्माणः / ये जातिजराव्याधिमरणधर्माणस् ते दुःखाः, ये दुःखास् ते ऽनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः" / एवं सो ऽनित्यदुःखशून्यानात्माकारैर् दुःखसत्यम् अवतीर्णो भवति / तस्यैवं भवति / "या काचिद् एषां संस्काराणाम् अभिनिर्वृत्तिर् दुःखभूता रोगभूता गण्डभूता सर्वासौ तृष्णाप्रत्यया / यत् पुनर् अस्या दुःखजनिकायास् तृष्णाया अशेषप्रहाणम् एतच् छान्तम् एतत् प्रणीतम् एवं च मे जानत एवं बहुलविहारिणस् तृष्णाया अशेषप्रहाणं भविष्यती"ति / एवं हि समुदयसत्यं निरोधसत्यं मार्गसत्यम् अवतीर्णो भवति / स तद्बहुलविहारी यदा सत्यान्य् अभिसमागच्छति / अयम् अस्योच्यते सत्यावतारपरिचयः /
तस्यैवम् सत्येषु कृतपरिचयस्य दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति //
-ii-3-b-(5)-ii-(e) ms.76a4 ल्, sh.228-19, p.106b3, d.87b1, n.92a6, co.92b6, ch.432a28 येषां प्रहाणाय षोडशाकारपरिचयं करोति / कतमे पुनः षोडशाकाराः / (श्भ् इइ 96) तद्यथा स्मृत आश्वसन् "स्मृत आश्वसिमी"ति शिक्षते / स्मृतः प्रश्वसन् "प्रश्वसिमी"ति शिक्षते / दीर्घम् ह्रस्वं सर्वकायप्रतिसंवेद्य् आश्वसन् "सर्वकायप्रतिसंवेद्य् आश्वसिमी"ति शिक्षते / सर्वकायप्रतिसंवेदी प्रश्वसन् "सर्वकायप्रतिसंवेदी प्रश्वसिमी"ति शिक्षते / प्रस्रभ्य कायसंस्कारान् आश्वसन् "प्रस्रभ्य कायसंस्कारान् आश्वसिमी"ति शिक्षते / प्रस्रभ्यकायसंस्कारान् प्रश्वसन् "प्रस्रभ्य कायसंस्कारान् प्रश्वसिमी"ति शिक्षते / प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते / चित्तसंस्कारप्रतिसंवेदी प्रस्रभ्य चित्तसंस्कारान् आश्वसन् "प्रस्रभ्य चित्तसंस्कारान् आश्वसिमी"ति शिक्षते / प्रस्रभ्य चित्तसंस्कारान् प्रश्वसन् "प्रस्रभ्य चित्तसंस्कारान् प्रश्वसिमी"ति शिक्षते / चित्तप्रतिसंवेदी / अभिप्रमोदयंश् चित्तं समादधंश् च्र्त्तं विमोचयंश् चित्तम् आश्वसन् "विमोचयंश् चित्तम् आश्वसिमी"ति शिक्षते / विमोचयंश् चित्तं प्रश्वसन् "विमोचयंश् चित्तं प्रश्वसिमी"ति शिक्षते / अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्श्य् आश्वसन् "निरोधानुदर्श्य् आश्वसिमी"ति शिक्षते / निरोधानुदर्शी प्रश्वसन् निरोधानुदर्शी प्रश्वसिमीति (श्भ् इइ 98) शिक्षते //
-ii-3-b-(5)-ii-(f) ms.76a7m, sh.231-9, p.107a7, d.88a3, n.93a1, co.93a7, ch.432b28 कः पुनर् एषां विभाग आकाराणाम् / स शैक्षो दृष्टपदो लाभी भवति चतुर्णां स्मृत्युपस्थानानाम् / आश्वासप्रश्वासालम्बनं च मनस्कारम् आरभते ऽवशिष्टानां संयोजनानां प्रहाणाय / तेनाह "स्मृत आश्वसन् ऽस्मृत आश्वसिमीऽति शिक्षते, स्मृतः प्रश्वसन् ऽप्रश्वसिमीऽति शिक्षते" /
यदाश्वासं वा प्रश्वासं वालम्बते तदा "दीर्घम् आश्वसिमि प्रश्वसिमी"ति शिक्षते /
यदान्तराश्वासम् अन्तरप्रश्वासं वालम्बनीकरोति तदा "ह्रस्वम् आश्वसिमि प्रश्वसिमी"ति शिक्षते / तथा ह्य् आश्वासप्रश्वासा दीर्घाः प्रवर्तन्ते, अन्तराश्वासा अन्तरप्रश्वासाश् च ह्रस्वाः / ते यथैव प्रवर्तन्ते तथैवोपलक्षयति जानाति /
यदा सूक्ष्मसौषिर्यगतान् आश्वासप्रश्वासान् रोमकूपानुप्रविष्टान् काये ऽधिमुच्यते, आलम्बनीकरोति तदा सर्वकायप्रतिसंवेदी भवति /
यस्मिन् वा पुनः समये निरुद्ध आश्वासे ऽन्तराश्वासे च / आश्वासप्रश्वासशून्याम् आश्वासप्रश्वासापेताम् अवस्थाम् आलम्बनीकरोति / (श्भ् इइ 100) निरुद्धे च प्रश्वासे ऽन्तरप्रश्वासे च / अनुत्पन्न आश्वासे ऽन्तराश्वासे च / प्रश्वासाश्वासशून्यां तद्व्यपेतां तद्व्यवहितां रिक्ताम् अवस्थाम् आलम्बनीकरोति / तस्मिन् समये प्रस्रभ्य कायसंस्कारान् आश्वसन्, "प्रस्रभ्य कायसंस्कारान् आश्वसिमी"ति शिक्षते / प्रस्रभ्य कायसंस्कारान् प्रश्वसन्, "प्रस्रभ्य कायसंस्कारान् प्रश्वसिमी"ति शिक्षते /
अपि तु खलु तस्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् / ये खरा दुःसंस्पर्शा आश्वासप्रश्वासाः पूर्वम् अकृतपरिचयस्य प्रवृत्त भवन्ति / कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्तन्ते / तेनाह "प्रस्रभ्य कायसंस्कारान् आश्वसिमीति शिक्षते" /
स चैवम् आनापानस्मृतिप्रयोगेण च युक्तः सचेल् लाभी भवति प्रथमस्य वा ध्यानस्य द्वितीयस्य वा तस्मिन् समये प्रीतिप्रतिसंवेद्य् आश्वसन्, "प्रीतिप्रतिसंवेद्य् आश्वसिमी"ति शिक्षते /
सचेत् पुनर् लाभी भवति निष्प्रीतिकस्य तृतीयस्य ध्यानस्य स तस्मिन् समये सुखप्रतिसंवेदी भवति / तृतीयाच् च ध्यानाद् ऊर्ध्वम् आनापानस्मृतिसंप्रयोगो नास्ति / येन यावत् तृतीयध्यानात् परिकीर्तितम् संगृहीतम् /
तस्यैवं प्रीतिप्रतिसंवेदिनो वा सुखप्रतिसंवेदिनो वा सचेत् कदाचित् कर्हचित् स्मृतिसंप्रमोषाद् उत्पद्यते / "अस्मी"ति वा, "अयम् अहम् अस्मी"ति वा, "भविष्यामी"ति वा, "न भविष्यामी"ति वा, "रूपी भविष्याम्य् अरूपी भविष्यामि" (श्भ् इइ 102) / "संज्ञी, असंज्ञी, नैवसंज्ञीनासंज्ञी भविष्यामी"ति, एवम् संमोहसंज्ञाचेतनासहगतम् इञ्जितं मन्यितप्रपञ्चिताभिसंस्कृतं तृष्णागतम् उत्पद्यते / स तद् उत्पन्नं लघु लघ्व् एव प्रज्ञया प्रतिविध्यति नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति / एवं चित्तसंस्कारप्रतिसंवेदी "प्रस्रभ्य चित्तसंस्कारान् आश्वसिमी"त्य् आश्वसन् "प्रस्रभ्य चित्तसंस्कारान् आश्वसिमी"ति शिक्षते /
सचेत् पुनर् लाभी भवति मौलानां प्रथमद्वितीयतृतीयानां ध्यानानां स चावश्यम् अनागम्यस्य प्रथमध्यानसामन्तकस्य लाभी भवति / स तं निश्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते / सरागं वा विगतरागं वा सद्वेषं वा विगतद्वेषं वा समोहं विगतमोहं, संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतं व्युपशान्तं अव्युपशान्तं समाहितम् असमाहितं सुभावितम् असुभावितं विमुक्तं चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति प्रतिसंवेदयति / तेनाह चित्तप्रतिसंवेदी /
स यदा स्त्यानमिद्धनिवरणेन चित्तं निवृतं भवत्य् अध्यात्मम् संशमयतस् तदान्यतमान्यतमेन प्रसदनीयेनालम्बनेन संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति / तेनाहाभिप्रमोदयंश् (श्भ् इइ 104) चित्तम् /
यदा पुनर् औद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृतं पश्यत्य् अभिसंप्रगृह्णतस् तदान्यतमान्यतमेन प्रसदनीयेनालम्बनेन संदर्शयत्य् अध्यात्मम् अवस्थापयति शमयति समाधत्ते / तेनाह समादधंश् चित्तम् /
यदा च तच् चित्तम् आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयान् निवरणसमुदाचाराद् दूरीकृतं भवति निवरणेभ्यो विशोधितम् / तेनाह विमोचयंश् चित्तम् आश्वसन् "विमोचयंश् चित्तम् आश्वसिमी"ति शिक्षते /
तस्य निवरणेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यो ऽनुशया अवशिष्टा भवन्ति प्रहातव्याः / स तेषां प्रहाणाय मार्गं संमुखीकरोति / यदुत संस्कारानित्यताम् एव साधु च सुष्ठु च योनिशः प्रत्यवेक्सते / तेनाह अनित्यानुदर्शी /
तेन च पूर्वं प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः कृतः / एतर्ह्य् अनित्यानुदर्शी विपश्यनायां योगं करोति / एवम् अस्य तच् चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते यदुतानुशयेभ्यः /
कतमे धातवः / यश् च प्रहाणधातुर् यश् च विरागधातुर् यश् च निरोधधातुः / तत्र सर्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात् (श्भ् इइ 106) प्रहाणधातुः / सर्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद् विरागधातुः / सर्वोपधिनिरोधान् निरोधधातुः / स एवं त्रीन् धातुञ् शान्ततो मनसिकुर्वन् क्षेमत आरोग्यतः शमथविपश्यनां भावयति / येनास्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयाद् अवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश् चित्तं विमुच्यते / तेनाह प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्श्य् आश्वसन् "निरोधानुदर्श्य् आश्वसिमी"ति शिक्षते /
एवम् अयं दर्शनभावनाप्रहातव्येषु क्लेशेषु प्रहीणेष्व् अर्हन् भवति क्षीणास्रवः, नास्त्य् अस्यात उत्तरि करणीयम् / भवति कृतो ऽस्य परिचयः / अयम् अस्योच्यते षोडशाकारः परिचयः / यश् चायं पञ्चविधः परिचय इयम् अस्योच्यत आनापानस्मृतिः /
यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारोहतया प्रयुज्यते / सव्यापारं चैतद् आलम्बनं सव्याक्षेपम् अध्यात्मं प्रत्यात्मम् आसन्नासन्नं, येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति / त्वरितत्वरितं च चित्तम् आलम्बने संतिष्ठते, अभिरमते / इदं पञ्चमं वितर्कचरितस्य पुद्गलस्य चरितविशोधनम् आलम्बनम् //
-ii-3-c ms.77a7r, स्ह्. 237-6, w.*91-24, p.111a3, d.91a3, n.96a2, co.96a6, ch.433c1 तत्र कौशल्यालम्बनं कतमत् / तद्यथा स्कन्धकौशल्यं धातुकौशल्यम् आयतनकौशल्यं प्रतीत्यसमुत्पादकौशल्यं स्थानास्थानकौशल्यम् //
-ii-3-c-(1) ms.77a8m, sh.237-9, p.111a4, d.91a4, n.96a3, co.96a7, ch.433c4 तत्र कतमे स्कन्धाः, कतमत् स्कन्धकौशल्यम् / आह / पञ्च स्कन्धाः रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश् च /
तत्र रूपस्कन्धः कतमः / यत् किञ्चिद् रूपं सर्वं तच् चत्वारि महाभूतानि चत्वारि महाभूतान्य् उपादाय / तत् पुनर् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा दूरे वान्तिके वा /
तत्र वेदनास्कन्धः कतमः / सुखवेदनीयं वा स्पर्शं प्रतीत्य, दुःखवेदनीयं वा, अदुःखासुखवेदनीयं वा / षड् वेदनाकायाश् चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना /
तत्र संज्ञास्कन्धः कतमः / तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा, महद्गतसंज्ञा, अप्रमाणसंज्ञा, नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनसंज्ञा / षट् संज्ञाकायाश् चक्षुःसंस्पर्शजा संज्ञा श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा संज्ञा /
संस्कारस्कन्धः कतमः / षट् चेतनाकायाश् चक्षुःसंस्पर्शजा चेतना, श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा चेतना / वेदनां च संज्ञां च स्थापयित्वा ये तदन्ये चैतसिका धर्माः / तत्र विज्ञानस्कन्धः कतमः / यच् चित्तं मनो विज्ञानम् / ते पुनः षड् विज्ञानकायाः / चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् /
सा चैषा वेदना संज्ञा संस्कारस् तच् चैतद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वेति विस्तरेण पूर्ववत् / इम उच्यन्ते स्कन्धाः /
स्कन्धकौशल्यं कतमत् / य एतान् यथोद्दिष्टान् धर्मान् नानात्मकतया (श्भ् इइ 110) च जानाति बह्वात्मकतया च, न च ततः परम् उपलभते विकल्पयति वा / इदम् उच्यते समासतः स्कन्धकौशल्यम् /
तत्र कतमा नानात्मकता स्कन्धानाम् / अन्य एव रूपस्कन्धो ऽन्यो वेदनास्कन्ध एवम् अन्यो यावद् विज्ञानस्कन्धः / इयं नानात्मकता /
तत्र कतमा बह्वात्मकता / यो रूपस्कन्धो ऽनेकविधो बहुनानाप्रकारः, भूतभौतिकभेदेनातीतानागतप्रत्युत्पन्नादिकेन च प्रकारभेदेन / इयम् उच्यत अनेकात्मकता रूपस्कन्धस्य / एवम् अवशिष्टानाम् स्कन्धानां यथायोगं वेदितव्यम् /
किं च न तस्मात् परम् उपलभते विकल्पयति / स्कन्धमात्रम् उपलभते वस्तुमात्रम् / नो तु स्कन्धव्यतिरेकेणात्मानम् उपलभते नित्यध्रुवम् अविपरिणामधर्मकम् / नाप्य् आत्मीयं, किंचिद् इदं नोपलभते, न विकल्पयति तस्मात् परेण //
-11-3-0(2) ms.77b6l, sh.244-12, p.112a6, d.92a3, n.97a2, co.97a5, ch.434a3 तत्र कतमे धातवः / कतमद् धातुकौशल्यम् / आह / अष्टादश धातवः / चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुः श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुः कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् मनोधातुर् धर्मधातुर् मनोविज्ञानधातुः / इम उच्यन्ते धातवः /
तत्र कतमद् धातुकौशल्यम् / यत् पुनर् एतान् अष्टादश धर्मान् स्वकात् स्वकाद् धातोः स्वकस्वकाद् बीजात् स्वकस्वकाद् गोत्राज् जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति जानाति रोचयन्न् उपनिध्याति / इदम् उच्यते धातुकौशल्यम् / यद् अष्टादशानां धर्माणाम् स्वकस्वकाद् धातोः प्रवृत्तिं जानाति तद् एवम् सति हेतुप्रत्ययकौशल्यम् एतद् यदुत धातुकौशल्यम् //
-ii-3-c-(3) ms.77b8m, sh.245-12, p.112b3, d.92a7, n.97a6, co.97b1, ch.434a11 तत्र कतमान्य् आयतनानि / कतमद् आयतनकौशल्यम् / आह / द्वादशायतनानि, चक्षुरायतनम्, रूपायतनम्, श्रोत्रायतनम्, शब्दायतनम्, घ्राणायतनम्, गन्धायतनम्, जिह्वायतनम्, रसायतनम्, कायायतनम्, स्प्रष्टव्यायतनम्, मन-आयतनम्, धर्मायतनं च / इमान्य् उच्यन्त आयतनानि /
कतमद् आयतनकौशल्यम् / तत्र चक्षुर् अधिपती रूपाण्य् आलम्बनं चक्षुर्विज्ञानस्य ससंप्रयोगस्योत्पत्तये, समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः / तत्र श्रोत्रम् अधिपतिः शब्द आलम्बनं समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः श्रोत्रविज्ञानस्य ससंप्रयोगस्योत्पत्तये / एवं यावन् मनःसमनन्तरं तज्जो मनस्कारो ऽधिपतिप्रत्ययो धर्म आलम्बनं मनोविज्ञानस्य ससंप्रयोगस्योत्पत्तये, इति त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन आलम्बनप्रत्ययेन अधिपतिप्रत्ययेन च षण्णां विज्ञानकायानां प्रवृत्तिर् भवति ससंप्रयोगाणाम् इति / यद् एवम् आध्यात्मिकबाह्येष्व् आयतनेषु प्रत्ययकौशल्यम् / इदम् उच्यत आयतनकौशल्यम् //
-ii-3-c-(4) ms.78a3l, sh.247-10, p.113a3, d.92b5, n.97b5, co.97b7, ch.434a22 तत्र कतमः प्रतीत्यसमुत्पादः, कतमत् प्रतीत्यसमुत्पादकौशल्यम् / आह / अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम् / विस्तरेण यावत् / एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति / अयम् उच्यते प्रतीत्यसमुत्पादः /
यत् पुनर् धर्मा एव धर्मान् अभिस्पन्दयन्ति धर्मा एव धर्मान् परिस्पन्दयन्ति / संस्कारा एव धर्माणाम् आहारकाः, ते च हेतुसमुत्पन्नत्वात् (श्भ् इइ 114) प्रतीत्यसमुत्पन्नत्वाद् अभूत्वा भवन्ति भूत्वा च प्रतिविगच्छन्ति / तस्माद् अनित्या एते संस्काराः / ये पुनर् अनित्यास् ते जातिधर्माणो जराधर्माणो व्याधिधर्माणो मरणधर्माणः शोकपरिदेवदुःखदौर्मनस्योपायासधर्माणः / ते जराधर्मित्वाद् यावद् उपायासधर्मित्वाद् दुःखाः / ये वा पुनर् दुःखा, अस्वतन्त्रा, दुर्बलास् त अनात्मान इति / यद् एभिर् आकारैः प्रतीत्यसमुत्पन्नेषु धर्मेष्व् अनित्यज्ञानम्, दुःखज्ञानम्, नैरात्म्यज्ञानम् / इदम् उच्यते प्रतीत्यसमुत्पादकौशल्यम् //
-ii-3-c-(5) ms.78a6l, sh.249-3, p.113b5, d.93a5, n.98a6, co.98a7, ch.434b6 स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पादकौशल्यविशेष एव वेदितव्यम् //
तत्रायं विशेषः / स्थानास्थानकौशल्येनाविषमहेतुकतां जानाति / अस्ति कुशलाकुशलानां कर्मणां फलविपाकः / कुशलानां पुनर् इष्टः फलविपाकः / अकुशलानाम् अनिष्ट इति / यद् एवं ज्ञानम् इदम् उच्यते स्थानास्थानकौशल्यम् /
तच् चैतत् पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं भवति सामान्यलक्षणकौशल्यं च / तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यम् आख्यातम् अवशिष्टैः सामान्यलक्षणकौशल्यम् / इदम् उच्यते कौशल्यालम्बनम् //
-ii-3-d-(1) ms.78b1r, sh.249-12, w.*91-33, p.114a1, d.93b1, n.98b2, co.98b3, ch.434b14 तत्र क्लेशविशोधनम् आलम्बनं कतमत् / आह / अधोभूमीनाम् औदारिकत्वम् उपरिभूमीनां शान्तत्वं च / तद्यथा कामधातौ प्रथमध्यानस्य एवं यावन् नैवसंज्ञानासंज्ञायतनस्य /
तत्र कतमा औदारिकता / औदारिकता द्विविधा / स्वभावौदारिकता संख्यौदारिकता च /
तत्र स्वभावौदारिकता कामधाताव् अपि पञ्चस्कन्धाः संविद्यन्ते प्रथमे तु ध्याने / ये कामावचरास् ते सादीनवतराश् च दुःखविहारतराश् च, (श्भ् इइ 116) अल्पकावस्थायितराश् च, हीनतराः प्रतिक्रुष्टतराश् च / इयम् एषाम् स्वभावौदारिकता / प्रथमे तु ध्याने न तथा तेन ते शान्ततराः प्रणीततरा इत्य् उच्यन्ते /
तत्र संख्यौदारिकता कतमा / कामावचरो रूपस्कन्धः प्रभूततरः परिज्ञेयः प्रहातव्य एवं यावद् विज्ञानस्कन्धः / इयम् उच्यते संख्यौदारिकता / एवम् उपरिमासु भूमिषु स्वभावौदारिकता संख्यौदारिकता च यथायोगं वेदितव्याः /
इयं तूपरिमासु भूमिषु यावद् आकिंचन्यायतनात् तदौदारिकता वेदितव्याः, सर्वा अधरिमा भूमयो दुःखविहारतराश् च अल्पायुष्कतराश् च / नैवसंज्ञानासंज्ञायतनं पुनः शान्तम् एव, उपरि श्रेष्ठतराया भूमेर् अभावात् /
तत्र समासत आदीनवार्थ औदारिकतार्थः / यस्यां यस्यां भूमौ प्रभूततरम् आदीनवं भवति, सा आदीनवत औदारिकेत्य् उच्यते /
यस्यां तु यस्यां भूमाव् अल्पतरम् आदीनवं भवति, सा आदीनवतः शान्तेत्य् उच्यते / इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनम् आलम्बनम्, तथापि तस्याधरिमां भूमिम् आदीनवतः पश्यतः / रोगतः, अयोगक्षेमतः, उपरिमां च भूमिं शान्ततः / य अधोभूमिकाः क्लेशा यावद् आकिंचन्यायतनभूमिकाः कामधातुम् उपादाय ते प्रहीयन्ते / न त्व् अत्यन्ततः प्रहीयन्ते / ते पुनर् एव ते प्रतिसंधिका भवन्ति //
-ii-3-d-(2)-i ms.78b6m, sh.251-11, p.114b6, d.94a3, n.99a4, co.99a4, ch.434c9 लोकोत्तरेण वा पुनर् मार्गेण क्लेशविशोधनम् आलम्बनं चतुर्विधं तद्यथा दुःखसत्यं समुदयसत्यं निरोधसत्यं मार्गसत्यं च /
तत्र दुःखसत्यं कतमत् / तद्यथा जातिर् दुःखं जरा दुःखं व्याधिर् मरणम् अप्रियसंप्रयोगः प्रियविनाभाव इच्छाविघातश् च / संक्षेपतः पञ्चोपादानस्कन्धा दुःखम् /
तत्र समुदय आर्यसत्यं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी /
तत्र निरोध आर्यसत्यं यद् अस्या एव तृष्णाया अशेषप्रहाणम् /
मार्गसत्यम् आर्याष्टाङ्गो मार्गः /
तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानम् / तत्र दुःखसत्यं फलम् / समुदयसत्यं हेतुः / निरोधसत्यं फलम् / मार्गसत्यं हेतुः प्राप्तये स्पर्शनायै /
तत्र दुःखसत्यं व्याधिस्थानीयं तत् प्रथमतः परिज्ञेयम् / समुदयसत्यं व्याधिनिदानस्थानीयं तच् चान्तरं परिवर्जयितव्यम् / निरोधसत्यम् आरोग्यस्थानीयं तच् च स्पर्शयितव्यं साक्षात्कर्तव्यम् / मार्गसत्यं भैषज्यस्थानीयं तच् चासेवितव्यं भावयितव्यं बहुलीकर्तव्यम् //
-ii-3-d-(2)-ii ms.79a3m, स्ह्. 253"11, p.115a7, d.94b3, n.99b4, co.99b3, ch.434c23 भूतं चैतत् तथा अवितथा अविपरीतम् अविपर्यस्तं दुःखं दुःखार्थेन, यावन् मार्गो मार्गार्थेन तस्मात् सत्यम् इत्य् उच्यते / स्वलक्षणं च न विसंवदति / तद्दर्शनाच् चाविपरीता बुद्धयः प्रवर्तन्ते / तेन सत्यम् इत्य् उच्यते //
-ii-3-d-(2)-iii ms.79a4l, sh.254-5, p.115b1, d.94b4, n.99b5, co.99b5, ch.434c26 कस्मात् पुनर् एतान्य् आर्याणाम् एव सत्यानि भवन्ति / आर्या एतानि सत्यान्य् एव समानानि सत्यतो जानन्ति पश्यन्ति यथाभूतम् / बालास् तु न जानन्ति, न पश्यन्ति यथाभूतम् / तस्माद् आर्यसत्यानीत्य् उच्यन्ते / बालानाम् एतद् धर्मतया सत्यं नावबोधेन / आर्याणां तूभयथा //
-ii-3-d-(2)-iv-(a) ms.79a4r, sh.254-10, p.115b4, d.94b6, n.99b7, co.99b6, ch.435a1 तत्र जातिदुःखम् इति जायमानस्य दुःखा वेदनोत्पद्यते कायिकचैतसिकी, न तु जातिर् एव दुःखं दुःखनिदानम् सा एवं यावद् इच्छाविघातो दुःखम् इति, इच्छाविघातनिदानं दुःखम् उत्पद्यते कायिकचैतसिकम्, न त्व् इच्छाविघात एव दुःखं दुःखनिदानं पुनः स इति पेयालम् /
संक्षेपतः पञ्चोपादानस्कन्धा दुःखम् इत्य् एभिर् जात्यादिभिः पर्यायैर् दुःखदुःखतैव परिदीपिता /
तत्र विपरिणामदुःखता संस्कारदुःखता चावशिष्टा सा पुनः पञ्चोपादानस्कन्धदुःखतया परिदीपिता भवति / तथा हि पञ्चोपादानस्कन्धास् त्रिवेदनापरिगतास् ते तथोक्ताया दुःखदुःखताया भाजनभूताः / या च नोक्ता विपरिणामदुःखता संस्कारदुःखता च साप्य् एष्व् एव द्रष्टव्या /
केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्तिता स्वशब्देन, विपरिणामदुःखता संस्कारदुःखता पुनः पर्यायेण / तथा हि दुःखदुःखतायाम् आर्याणां बालानां च तुल्या दुःखताबुद्धिः प्रवर्तते / संवेजिका अत्यर्थं दुःखदुःखता पूर्वम् अकृतप्रज्ञानाम् एवं च देश्यमाने सुखम् अवतारो भवति सत्येषु विनेयानाम् //
-ii-3-d-(2)-iv-(b) ms.79a7r, sh.256-4, p.116a4, d.95a4, n.100a6, co.99b6, ch.435a16 तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति / यत् तावद् दुःखं जातिर् दुःखं यावद् इच्छाविघातो दुःखम् इत्य् अनेन साधिष्ठाना दुःखा वेदना आख्याता सा च दुःखदुःखता / इदं दुःखदुःखताया व्यवस्थानम् /
ये ये वा पुनर् एतद् विपक्षा धर्मास् तथा यौवनं जरायाः, व्याधेर् आरोग्यम्, जीवितं मरणस्य, प्रियसंप्रयोगो ऽप्रियसंप्रयोगस्य, अप्रियविनाभावः प्रियविनाभावस्य, इच्छासंपत्तिर् इच्छाविघातस्य / ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठानाः, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशाः / इयम् उच्यते विपरिणामदुःखता /
तत्र सुखा वेदना साधिष्ठाना, अनित्यतया परिणमन्ती अन्यथीभावाधिपतेयं दुःखं विदधाति / क्लेशाः पुनः सर्वत्र प्रवृत्ताः पर्यवस्थानत एव दुःखा भवन्ति / विपरिणामश् च स चेतसस् तस्माद् विपरिणामदुःखतेत्य् उच्यते / यथोक्तं भगवता, "अवदीर्णविपरिणतेन चित्तेन मातृग्रामस्य हस्तग्रहणं चे"ति विस्तरः / यथा चोक्तं "कामच्छन्दपर्यवस्थितः कामच्छन्दपर्यवस्थानप्रत्ययं तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते" / एवं व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सापर्यवस्थितस् तद् अनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्थो ऽपि लभ्यते विपरिणामार्थो ऽपि / तेनोच्यते क्लेशविपरिणामदुःखतेति, इदं विपरिणामदुःखताया व्यवस्थानं /
संस्कारदुःखता पुनः सर्वत्रगा उपादानस्कन्धेषु / संक्षेपतस् तु या च दुःखदुःखता, या च क्लेशसंगृहीता विपरिणामदुःखता, या च (श्भ् इइ 124) साधिष्ठानसुखवेदनासंगृहिता तां स्थापयित्वा ये तदन्ये स्कन्धा अदुःखासुखसहगतास् तन्निर्जातास् तदुत्पत्तिप्रत्ययास् तस्य चोत्पन्नस्य स्थितिभाजनाः / इयम् उच्यते संस्कारदुःखता /
ये स्कन्धा अनित्या उदयव्यययुक्ताः सोपादानास् त्रिवेदनाभिर् अनुषक्ता दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ता दुःखदुःखताया विपरिणामदुःखताया अस्ववशवर्तिनश् च / इयम् उच्यते संस्कारदुःखतया दुःखता / इदं संस्कारदुःखताया व्यवस्थानम् /
तत्र तृष्णा प्रार्थनाभिलाषो ऽभिनन्दनेति पर्यायाः / सा पुनः प्रार्थना त्रिभिर् मुखैः प्रवृत्ता तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च / तत्र या पुनर्भवप्रार्थना सा पौनर्भविकी तृष्णा / विषयप्रार्थना पुनर् द्विविधा / प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता / तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्य् उच्यते / या पुनर् अप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्रतत्राभिनन्दिनीत्य् उच्यते /
निरोधो ऽपि द्विविधः / क्लेशनिरोधो, उपक्लेशनिरोधश् च /
मार्गो ऽपि द्विविधः / शैक्षो ऽशैक्षश् च /
इदम् आलम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यम् //
-ii-3-e ms.79b7m, sh.258-11, p.117b3, d.96a5, n.101b1, co.101a5, ch.435b21 तेनाह चतुर्विधम् आलम्बनम् / व्याप्यालम्बनं चरितविशोधनं कौशल्यालम्बनं क्लेशविशोधनं चेति /
(ii)-a-ii-4-a ms.79b7r, sh.258-13, w.'91-37, p.117b4, d.96a6, n.101b2, co.101a6, ch.435b23 तत्राववादः कतमः / चतुर्विधो ऽववादः / अविपरीताववादः, अनुपूर्वाववादः, आगमाववादः, अधिगमाववादश् च /
तत्राविपरीताववादः कतमः / यद् अविपरीतं धर्मम् अर्थं च देशयति ग्राहयति भूतं यद् अस्य निर्याति सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै / अयम् उच्यते ऽविपरीताववादः /
अनुपूर्वाववादः कतमः / यत् कालेन धर्मं देशयति / उत्तानोत्तानानि स्थानानि तत्प्रथमतो ग्राहयति वाचयति, ततः पश्चाद् गम्भीराणि, प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतो ऽववदते, ततः पश्चात् समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतो ऽववदते / ततः पश्चाद् अन्यासां ध्यानसमापत्तीनाम् / अयम् एवंभागीयो ऽनुपूर्वाववादो वेदितव्यः / तत्रागमाववादो यथा तेन गुरूणाम् अन्तिकाद् आगमितं भवति, गुरुस्थानीयानां योगज्ञानाम् आचार्याणाम् उपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा तथैवानेनान्यूनमधिकं कृत्वा परान् अववदते / अयम् उच्यत आगमाववादः /
तत्राधिगमाववादो यथानेन ते धर्मा अधिगता भवन्ति / स्पर्शिताः साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा / तथैव परेषां प्राप्तये / स्पर्शनायै साक्षात्क्रियाया अववदते / अयम् उच्यते ऽधिगमाववादः //
-ii-4-b ms.80a3m, sh.260-15, p.118a7, d.96b6, n.102a2, co.101b5, ch.435c9 अस्ति पुनः सर्वाकारपरिपूर्णो ऽववादः / स पुनः कतमः / यस् त्रिभिः प्रातिहार्यैर् अववदति / ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण, अनुशास्तिप्रातिहार्येण /
ऋद्धिप्रातिहार्येण, अनेकविधं ऋद्धिविषयम् उपदर्शयत्य् आत्मनि च बहुमानं जनयति परेषाम् / यथा तेन बहुमानजाताः श्रोत्रावधानेन (श्भ् इइ 128) योगे मनसिकार आदरजाता भवन्ति / तत्र देशनाप्रातिहार्येण चित्तचरितआ समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियम्, यथाचरितम्, यथावतारं धर्मदेशनां देशयति, प्रतिपत्तौ समनुशास्ति / तेनायं प्रातिहार्यत्रयसंगृहीतः सर्वाकारपरिपूर्णाववादो भवति //
(ii)-a-ii-5-a-(1) ms.80a5m, sh.261-8, w.*92-4, p.118b5, d.97a2, n.102a6, co.102a1, ch.435c20 तत्र शिक्षा कतमा / आह / तिस्रः शिक्षाः / अधिशीलंशिक्षा, अधिचित्तम् अधिप्रज्ञंशिक्षा /
तत्राधिशीलंशिक्षा कतमा / यथापि तच् "छीलवान् विहरती"ति विस्तरेण पूर्ववत् /
तत्राधिचित्तंशिक्षा विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं च प्रथमं ध्यानं यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति / इयम् अधिचित्तंशिक्षा / अपि खलु सर्व आरूप्यास् तदन्याश् च समाधिसमापत्तयो ऽधिचित्तंशिक्षेत्य् उच्यते / अपि तु ध्यानानि निश्रित्य तत्प्रथमतः सत्याभिसमयो न्यामावक्रान्तिर् भवति / न तु सर्वेण सर्वं विना ध्यानैस् तस्मात् प्रधानानि ध्यानानि कृत्वाधिचित्तंशिक्षेत्य् उक्तानि /
तत्राधिप्रज्ञंशिक्षा यच् चतुर्ष्व् आर्यसत्येषु यथाभूतं ज्ञानं //
-ii-5-a-(2) ms.80a7m, sh.263-1, p.119a5, d.97a7, n.102b4, co.102a6, ch.436a7 केन कारणेन तिस्र एव शिक्षा न तत ऊर्ध्वम् / आह / समाधिप्रतिष्ठार्थेन ज्ञानसन्निश्रयार्थेन कृत्यकरणार्थेन च /
तत्र समाधिप्रतिष्ठार्थेनाधिशीलंशिक्षा / तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति चित्तसमाधिम् /
तत्र ज्ञानसन्निश्रयार्थेनाधिचित्तंशिक्षा / तथा हि समाहितचित्तस्यैकाग्रतास्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्तते /
तत्र कृत्यकरणार्थेनाधिप्रज्ञंशिक्षा / तथा हि सुविशुद्धेन ज्ञानदर्शनेन क्लेशप्रहाणम् साक्षात्करोति / एष हि स्वार्थ एतत् परमं कृत्यं (श्भ् इइ 132) यदुत क्लेशप्रहाणं तत उत्तरिकरणीयं पुनर् नास्ति / तेनैतास् तिस्र एव शिक्षाः //
-ii-5-a-(3) ms.80b1m, sh.263-13, choi.157-6, p.119b2, d.97b4, n.103a1, co.102b2, ch.436a17 काः पुनर् आसां शिक्षाणाम् आनुपूर्वी / सुविशुद्धशीलस्य अविप्रतिसारः / अविप्रतिसारिणः प्रामोद्यं प्रीतिः प्रस्रब्धिः सुखम्, सुखितस्य चित्तसमाधिः समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति / यथाभूतं जानन् पश्यन् निर्विद्यते निर्विण्णो विरज्यते / विरक्तो विमुच्यते / विमुक्तो ऽनुपादाय परिनिर्वाति / एवम् इमानि शीलानि भावितान्य् अग्रतायाम् उपनयन्ति / यदुतानुपादाय परिनिर्वाणम् / इयम् आसां शिक्षाणाम् आनुपूर्वी //
-ii-5-a-(4) ms.80b2r, sh.264-5, p.119b7, d.97b7, n.103a4, co.102b5, ch.436a24 तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलम् इत्य् उच्यते, एवम् अधिचित्तम् अधिप्रज्ञम् / अधिकारार्थेनाधिकार्थेन च /
तत्र कथम् अधिकारार्थेन / अधिचित्तम् अधिकृत्य यच् छीलं सा अधिशीलं शिक्षा / अधिप्रज्ञम् अधिकृत्य यश् चित्तसमाधिः, सा अधिचित्तंशिक्षा / क्लेशप्रहाणम् अधिकृत्य यज् ज्ञानं दर्शनम्, सा अधिप्रज्ञंशिक्षा / एवम् अधिकारार्थेन /
कथम् अधिकार्थेन / या चाधिशीलंशिक्षा या चाधिचित्तं या चाधिप्रज्ञंशिक्षा एताः शिक्षा अस्मिन्न् एव शासने, असाधारणा इतो बाह्यैः / एवम् अधिकार्थेन //
-ii-5-a-(5) ms.80b4m, sh.264-16, choi.*158-5, p.120a5, d.98a4, n.103b1, co.103a2, ch.436b3 अस्ति पुनर् अधिचित्तंशिक्षा या अधिप्रज्ञंशिक्षाया आवाहिका, अस्त्य् अधिप्रज्ञंशिक्षा या अधिचित्तंशिक्षाया आवाहिका / तद्यथा आर्यश्रावको ऽलाभी मौलानां ध्यानानाम्, शैक्षो दृष्टपदः, ततः पश्चाद् भावनाप्रहातव्यानां (श्भ् इइ 134) क्लेशानां प्रहाणाय प्रयुज्यमानः स्मृतिसंबोध्यङ्गं भावयति यावद् उपेक्षासंबोध्यङ्गम् / इयम् अधिप्रज्ञंशिक्षा अधिचित्तंशिक्षाया आवाहिका / अधिचित्तं पुनः शिक्षां अधिप्रज्ञाया आवाहिका पूर्वम् एवोक्ता /
तत्रास्त्य् अधिशीलं शिक्षा नाधिचित्तम्, नाधिप्रज्ञम् / अस्त्य् अधिशीलम् अधिचित्तम्, नाधिप्रज्ञम् / न त्व् अस्त्य् अधिप्रज्ञंशिक्षा या विनाधिशीलेनाधिचित्तेन च / अतो यत्राधिप्रज्ञंशिक्षा तत्र तिस्रः शिक्षा वेदितव्याः / इदं तावच् छिक्षाव्यवस्थानं तत्र योगिना योगप्रयुक्तेन शिक्षितव्यम् //
-ii-5-a-(6) ms.80b6r, sh.265-9, p.120b5, d.98b1, n.103b6, co.103a6 ch.436b14 तत्र त्रयः पुद्गलाः सत्यान्य् अभिसमागच्छन्ति / कतमे त्रयः / तद्यथा / अवीतरागो यद्भूयो वीतरागः, वीतरागश् च / तत्र सर्वेण सर्वम् अवीतरागः सत्यान्य् अभिसमागच्छन् सहसत्याभिसमयात् स्रोत-आपन्नो भवति / यद्भूयो वीतरागः पुनः सत्यान्य् अभिसमागच्छन् सहसत्याभिसमयात् सकृदागामी भवति / वीतरागः सत्यान्य् अभिसमागच्छन् सहसत्याभिसमयाद् अनागामी भवति //
-ii-5-b ms.80b7r, sh.266-1, p.121a1, d.98b4, n.104a2, co.103b2, ch.436b19 त्रीणीन्द्रियाणि / अनाज्ञातम् आज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातवत इन्द्रियम् / एषाम् इन्द्रियाणां कथं व्यवस्थानं भवति / अनभिसमितानां सत्यानाम् अभिसमयाय प्रयुक्तस्यानाज्ञातम् आज्ञास्यामीन्द्रियव्यवस्थानम् / अभिसमितवतः शैक्षस्याज्ञेन्द्रियव्यवस्थानम् / कृतकृत्यस्याशैक्षस्यार्हत आज्ञातावीन्द्रियव्यवस्थानम् //
-ii-5-c ms.81a1l, sh.267-5, p.121a4, d.98b6, n.104a4, co.103b3, ch.436b25 त्रीणि विमोक्षमुखानि / तद्यथा शून्यता अप्रणिहितम् आनिमित्तम् /
एषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति / आह / द्वयम् इदं संस्कृतम् असंस्कृतं च /
तत्र संस्कृतं त्रैधातुकप्रतिसंयुक्ताः पञ्च स्कन्धाः, असंस्कृतं पुनर् निर्वाणम् / इदम् उभयं यच् च संस्कृतम्, यच् चासंस्कृतम् इत्य् उच्यते सत् / यत् पुनर् इदम् उच्यत आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर् वा, इदम् असत् /
तत्र संस्कृते दोषदर्शनाद् आदीनवदर्शनाद् अप्रणिधानं भवति / अप्रणिधानाच् चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते /
निर्वाणे पुनस् तत्र प्रणिधानवतः प्रणिधानं भवति / शान्तदर्शनं प्रणीतदर्शनं निःसरणदर्शनं च, निःसरणदर्शनाच् च पुनर् आनिमित्तं विमोक्षमुखं व्यवस्थाप्यते /
तत्रासत्य् असंविद्यमाने नैव प्रणिधानं नाप्रणिधानं भवति / तद् यथैवासत् तथैवासद् इति जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते / एवं त्रयाणां विमोक्षमुखानां व्यवस्थानं भवति //
(ii)-a-ii-6-a-(1) ms.81a3r, sh.268-12, p.121b3, d.99a4, n.104b2, co.103b7, ch.436c11 तत्र कतमे शिक्षानुलोमिका धर्माः / आह / दश शिक्षाविलोमा धर्माः / तेषां प्रतिपक्षेण दश शिक्षानुलोमिका वेदितव्याः /
तत्र कतमे दश शिक्षाविलोमा धर्माः / तद्यथा मातृग्रामः शिशुर् उदारवर्णो रञ्जनीयः शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रम् अन्तरायकरः परिपन्थकः / सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिः / आलस्यम्, कौसीद्यम् / सत्कायदृष्टिः कवडंकाराहारम् उपादाय रसरागो लोकाख्यानकथास्व् अनेकविधासु बहुनानाप्रकारासु चित्रासु छन्दरागानुनयः, धर्मचिन्तायोगमनसिकारापक्षालः /
स पुनः कतमः / तद्यथा काङ्क्षा विमतिर् विचिकित्सा रत्नेषु वा सत्येषु वा स्कन्धेषु वा कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्यः शैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः स्त्यानमिद्धेन वा चित्ताभिभवश् चित्ताभिसंक्षेपः / अन्वारब्धवीर्यस्य वा कायिकक्लमश् चैतसिकोपायासः / अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानम् / लाभेन वा यशसा वा प्रशंसया वा अन्यतमान्यतमेन वा सुखलवमात्रत्वेन नन्दीसौमनस्यम् औद्धत्यम् अव्युपशम औद्बिल्यम् उत्प्लावितत्वम् / सत्कायनिरोधे निर्वाण उत्त्रासश् छम्भितत्वम् / अमात्रया भाष्यप्रयोगः, अत्यभिजल्पः, धर्म्याम् अपि कथां कथयता विगृह्यकथाम् आरम्भानुयोगः / पूर्वदृष्टश्रुतानुभूतेषु विषयेष्व् अनेकविधेषु बहुनानाप्रकारेषु चित्तविसारश् चित्ताक्षेपः / अचिन्त्येषु च स्थानेषु निध्यायितत्वम् / इमे धर्मचिन्तायोगमनसिकारापक्षाला वेदितव्याः / (श्भ् इइ 140)
ध्यानसमापत्तिसुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता / स्पृष्टस्य शारीरिकाभिर् वेदनाभिर् दुःखाभिर् यावत् प्राणहारिणीभिर् जीवितनियन्तिर् जीविताशा, तदाशानुगतस्य शोचना, क्लाम्यना, परिदेवना / इतीमे दश शिक्षाविलोमा धर्माः //
-ii-6-a-(2) ms.81b2r, sh.270-3, p.122a8, d.99b6, n.105a5, co.104b2, ch.437a6 कतमे दश शिक्षापदानां विलोमानां धर्माणां प्रतिपक्षेण शिक्षानुलोमिका भवन्ति / तद्यथा / अशुभसंज्ञा / अनित्यसंज्ना / अनित्ये दुःखसंज्ञा / दुःखे ऽनात्मसंज्ञा / आहारे प्रतिकूलसंज्ञा / सर्वलोके ऽनभिरतिसंज्ञा / आलोकसंज्ञा / विरागसंज्ञा / निरोधसंज्ञा / मरणसंज्ञा / इतीमा दश संज्ञा आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थकस्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय संवर्तन्ते /
तत्र धर्मालोकः, अर्थालोकः, शमथालोकः, विपश्यनालोकश् च / एतान् आलोकान् अधिपतिं कृत्वा आलोकसंज्ञा / अस्मिन्न् अर्थ अभिप्रेता धर्मचिन्तायोगमनसिकाराः परिपन्थस्य प्रहाणाय //
-ii-6-b ms.81b4r, sh.270-15, w.*92-12, choi.158-12, p.122b5, d.100a3, n.105b2, co.104b6, ch.437a15 तत्रापरे दश शिक्षानुलोमिका धर्मा वेदितव्याः / कतमे दश / तद्यथा पूर्वको हेतुः / आनुलोमिक उपदेशः / योनिशः प्रयोगः / सातत्यसत्कृत्यकारिता / तीव्रच्छन्दता / योगबलाधानता / कायचित्तदौष्ठुल्यप्रतिप्रस्रब्धिः / अभीक्ष्णप्रत्यवेक्षा / अपरितमना / निरभिमानता च /
तत्र पूर्वको हेतुः कतमः / यः पूर्वम् इन्द्रियपरिपाक इन्द्रियसमुदागमश् च /
तत्रानुलोमिक उपदेशो य उपदेशो ऽविपरीतश् चानुपूर्विकश् च /
तत्र योनिशः प्रयोगो यथैवाववादितस् तथैव प्रयुज्यते / तथा प्रयुज्यमानः सम्यग्दृष्टिम् उत्पादयति /
तत्र सातत्यसत्कृत्यकारिता यद्रूपेण प्रयोगेण अवन्ध्यं च कालं करोति कुशलपक्षेण / क्षिप्रम् एव कुशलपक्षं समुदानयति /
तत्र तीव्रच्छन्दता यथापि तद् उत्तरे विमोक्षस्पृहाम् उत्पादयति / "कदास्विद् अहं तद् आयतनम् उपसंपद्य विहरिष्यामि यद् आर्या आयतनम् उपसंपद्य विहरन्ती"ति /
तत्र योगबलाधानता द्वाभ्यां कारणाभ्यां योगबलाधानप्राप्तो भवति / प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च /
तत्र कायचित्तदौष्ठुल्यप्रतिप्रस्रब्धिर् यथापि तच् छ्रान्तकायस्य क्लान्तकायस्योत्पद्यते कायदौष्ठुल्यं चित्तदौष्ठुल्यम् / तद् ईर्यापथान्तरकल्पनया प्रतिप्रस्रम्भयति / अतिवितर्कितेनातिविचारितेनोत्पद्यते कायचित्तदौष्ठुल्यम्, तदाध्यात्मं चेतः शमथानुयोगेन प्रतिप्रस्रम्भयति /
चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानेनोत्पद्यते कायचित्तदौष्ठुल्यम् / तद् अधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रस्रम्भयति / प्रकृत्यैव चाप्रहीणक्लेशस्य क्लेशपक्षं कायचित्तदौष्ठुल्यम् अविगतं भवति / सदानुषक्तं तत् सम्यङ्मार्गभावनया प्रतिप्रस्रम्भयति /
तत्राभीक्ष्णप्रत्यवेक्षा अभीक्ष्णं शीलान्य् आरभ्य कुकृतं प्रत्यवेक्षते सुकृतं च / अकृतं च प्रत्यवेक्षते, कृतं च / कुकृताच् चाकृताद् व्यावर्तते / सुकृताच् चाकृतान् न प्रत्युदावर्तते / कुकृताच् च कृतात् प्रत्युदावर्तते / सुकृताच् च कृतान् न प्रत्युदावर्तते / तथा क्लेशानां प्रहीणाप्रहीणानां मीमांसामनस्कारम् अधिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते /
तत्र प्रहीणतां ज्ञात्वा [यिद् ब्दे बर् ऽग्युर् ल / म स्पङ्स् बर् शेस् न] पुनः पुनस् तम् एव मार्गं भावयति /
तत्रापरितमना / यत् कालान्तरेण ज्ञातव्यं द्रष्टव्यं प्राप्तव्यं तद् अजानतो ऽपश्यतो ऽनधिगच्छतः परितमना उत्पद्यते, चैतसिकः क्लमः, चैतसिको विघातः / ताम् उत्पन्नां नाधिवासयति प्रजहाति /
तत्र निरभिमानता / अधिगमे प्राप्तौ स्पर्शनायां निरभिमानो भवति / अविपरीतग्राही, प्राप्ते प्राप्तसंज्ञी, अधिगते ऽधिगतसंज्ञी साक्षात्कृते साक्षत्कृतसंज्ञी /
इतीमे दश धर्माः शिक्षाकामस्य योगिन आदिमध्यपर्यवसानम् उपादाय शिक्षाम् अनुलोमयन्ति, न विलोमयन्ति / तेनोच्यन्ते शिक्षानुलोमिका इति //
(ii)-a-ii-7-a ms.82a5r, sh.273-1, w.92-23, p.124a4, d.101a4, n.106b3, co.105b6, ch.437b23 तत्र कतमो योगभ्रंशः / आह / चत्वारो योगभ्रंशाः / कतमे चत्वारः / अस्ति योगभ्रंश आत्यन्तिकः / अस्ति तावत्कालिकः / अस्ति प्राप्तिपरिहाणिकः / अस्ति मिथ्याप्रतिपत्तिकृतः //
-ii-7-a-(1),-(2),-(3) ms.82a6m, sh.273-5, p.124a4, d.101a5, n.106b4, co.105b7, ch.437b26 तत्रात्यन्तिको योगभ्रंशो ऽगोत्रस्थानां पुद्गलानां वेदितव्यः / ते ह्य् अपरिनिर्वाणधर्मकत्वाद् अत्यन्तपरिभ्रष्टा एव योगाद् भवन्ति /
तत्र तावत्कालिकः / तद्यथा गोत्रस्थानां परिनिर्वाणधर्मकाणां प्रत्ययविकलानाम्, ते हि दूरम् अपि परम् अपि गत्वा अवश्यम् एव प्रत्ययान् आसादयिष्यन्ति / योगं च संमुखीकृत्य भावयित्वा परिनिर्वास्यन्ति / तेनैष तेषां तावत्कालिक एव योगभ्रंशो भवति /
तत्र प्राप्तिपरिहाणिको योगभ्रंशः / यथापीहैकत्ये प्राप्ताद् अधिगताज् ज्ञानदर्शनस्पर्शविहारात् परिहीयन्ते //
-ii-7-a-(4) ms.82a7r, sh.273-15, p.124b2, d.101b1, n.107a1, co.106a3, ch.437c5 तत्र मिथ्याप्रतिपत्तिकृतो योगभ्रंशः / यथापीहैकत्यो ऽयोनिशः प्रयुज्यमानो नाराधको भवति योगस्य, नाराधयति न्याय्यं धर्मं कुशलम् / यथापीहैकत्यो बहुक्लेशो भवति, प्रभूतरजस्कजातीयः पटुविज्ञानश् च भवति पटुबुद्धिः सहजया बुद्ध्या समन्वागतः स श्रुतम् उद्गृह्णाति श्रुतं पर्यवाप्नोत्य् अल्पं वा, प्रभूतं वा / अरण्ये वा पुनर् विहरति, आगतागतानां च गृहिप्रव्रजितानाम्, ऋजुकानाम्, ऋजुकजातीयानां (श्भ् इइ 148) धर्मदेशनया चित्तम् आराधयति कुहनानुचरितया च चेष्टया कायवाक्प्रतिसंयुक्तया / तस्य तेन हेतुभावेन तेन प्रत्ययेनोत्पद्यते लाभसत्कारश्लोकः / स ज्ञातो भवति महापुण्यो लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्, सत्कृतश् च भवति, गुरुकृतः, राज्ञां राजमात्राणाम्, यावत् सार्थवाहानाम्, अर्हत्संमतः / तस्यान्वावर्तन्ते श्रावकाः, गृहिणः, प्रव्रजिता अपि, अन्वावृत्तेषु ग्रेधं निगमयत्य् आवर्तते बाहुल्याय /
तस्यैवं भवति / "सन्ति मे श्रावकाः, गृहिप्रव्रजिता ये, मयि संभावना जाता येषाम् अर्हत्संमतस् ते चेन् माम् उपसंक्रम्य योगे मनसिकारे शमथविपश्यनायां प्रश्नं पृच्छेयुः / तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्य् एवं सति या संभावना सा च हीयेत्, न च स्याम् अर्हत्संमतः, यन् न्व् अहं स्वयम् एव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयम्" / स एतम् एवार्थम् अधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयम् एव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयति /
स चास्य योगो न सूत्रे ऽवतरति न विनये संदृश्यते / धर्मतां च विलोमयति / स ये ते भिक्षवः सूत्रधरा, विनयधरा, मातृकाधरास् तेषं तद् योगस्थानं विनिगूहति न प्रकाशयति / ये ऽप्य् अस्य श्रवका (श्भ् इइ 150) भवन्ति गृहिणः, प्रव्रजिताश् च, तान् अपि योगप्रतिगुप्तय आज्ञापयति /
तत् कस्य हेतोः / "मा हैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद् योगस्थानं श्रुत्वा सूत्रे ऽवतारयेयुः, तच् च नावतरेत् / विनये संदर्शयेयुः, तच् च न संदृश्येत् / धर्मतया उपपरीक्षेयुः, तच् च धर्मतां विरोधयेत् / ते च ततो निदानम् अप्रतीता भवेयुर् अप्रतीतवचनैश् च मां चोदयेयुः / अधिकरणानि चोत्पादयेयुः" /
"एवम् अहं पुनर् अपि न सत्कृतः स्यां न गुरुकृतः, राज्ञां राजामात्राणां यावद् धनिनां श्रेष्ठिनां सार्थवाहानाम्, न च पुनर् लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्" इति /
स ताम् एव लाभसत्कारकामताम् अधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रुचिम् अधर्मं धर्मतो दीपयति संप्रकाशयति /
तत्र ये ऽस्य दृष्ट्यनुमतम् आपद्यन्ते ते ऽप्य् अधर्मे धर्मसंज्ञिनो भवन्ति मन्दत्वान् मोमुहत्वात् ते ऽधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः / अयम् एवंरूपो मिथ्याप्रतिपत्तिकृतो योगभ्रंशः सद्धर्मप्रतिरूपको ह्य् असद्धर्मः सद्धर्मस्यान्तर्धानाय /
इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्याः //
(ii)-a-ii-8-a म्स्-82ब्7म्, sh.275-23, w.92-31, choi.163-1, p.125b8, d.102b2, n.108a3, co.107a4, ch.438a16 तत्र योगः कतमः / आह / चतुर्विधो योगः / तद्यथा श्रद्धा छन्दो वीर्यम् उपायश् च //
-ii-8-a-(1) ms.82b7r, sh.276-2, w.92-32, choi.163-9, p.126a1, d.102b3, n.108a3, co.107a4, ch.438a17 तत्र श्रद्धा द्व्याकारा द्विविधाधिष्ठाना, अभिसंप्रत्ययाकारा प्रसादाकारा च, धर्मयुक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च //
-ii-8-a-(2) ms.82b8l, sh.276-5, w/92-35, choi.163-10, 7, p.126a2, d.102b4, n.108a4, co.107a5, ch.438a20 chando 'pi caturvidhaḥ / tadyathā prāptaye yathāpīhaikatya uttare vimokṣaspṛhām utpādayati, vistareṇa pūrvavat / paripṛcchāyai yathāpīhaikatyaḥ spṛhām utpādayaty ārāmaṃ gamanāya, vijñānāṃ sabrahmacāriṇāṃ yogajñānām antikam aśrutasya śravaṇāya, śrutasya ca paryavadānāya / saṃbhārasamudāgamāya cchando yathāpīhaikatyaḥ śīlasaṃvarapāriśuddhaye, indriyasaṃvarapāriśuddhaye, bhojane mātrajñatāyām, jāgarikānuyoge, saṃprajānadvihāritāyām uttarottarāṃ spṛhām utpādayati / anuyogāya cchando yathāpīhaikatyaḥ sātatyaprayogatāyāṃ satkṛtyaprayogatāyāṃ ca mārgabhāvanāyāṃ spṛhām utpādayaty abhilāṣaṃ kartukāmatām / ity ayaṃ caturvidhaś chandaḥ / yaduta prāptaye paripṛcchanāyai saṃbhārasamudāgamāya anuyogāya ca //
-ii-8-a-(3) ms.83a1r, sh.276-20, w.*93-1, choi.164-8, p.126a8, d.102b7, n.108b1, co.107b2, ch.438b1 तत्र वीर्यम् अपि चतुर्विधं तद्यथा श्रवणाय, चिन्तनायै, भावनायै, आवरणपारिशुद्धये च /
तत्र श्रवणाय वीर्यं / यद् अश्रुतं च शृण्वतः, पर्यवदापयतः, चेतसो ऽभ्युत्साहः, अविन्यस्तप्रयोगता / एवं यथाश्रुतानां धर्माणाम् एकाकिनो रहोगतस्यार्थम्, चिन्तयतस् तुलयत उपपरीक्षमाणस्य / एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयतः / एवम् अहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्यां निवरणेभ्यश् चित्तं विशोधयतः, यश् चेतसो ऽभ्युत्साहः, अविन्यस्तप्रयोगता //
-ii-8-a-(4) ms.83a3m, sh.277-10, w.*93-3, choi.165-1, p.126b5, d.103a4, n.108b5, co.107b5, ch.438b9 तत्रोपायो ऽपि चतुर्विधः / तद्यथा शीलसंवरम् इन्द्रियसंवरम् अधिपतिं कृत्वा सूपस्थितस्मृतिता तथा चोपस्थितस्मृतेर् अप्रमादश् चेतस आरक्षा / कुशलानां धर्माणां निषेवणा / तथा वाप्रमत्तस्याध्यात्मं चेतःशमथयोगः / अधिप्रज्ञं च धर्मविपश्यना //
स चायं योगश् चतुर्विधः / षोडशाकारो भवति //
-ii-8-b ms.83a4m, sh.277-16, w.93-23, choi.165-10, p.126b8, d.103a6, n.108b7, co.107b7, ch.438b13 तत्र श्रद्धया प्राप्तव्यम् अर्थम् अभिसंप्रत्येति / प्राप्तिम् (श्भ् इइ 156) अभिसंप्रत्ययात् कर्तुकामताम् उत्पादयति कुशलेषु धर्मेषु / स एवं कर्तुकामो ऽहोरात्रानुयुक्तो विहरति / उत्साही दृढपराक्रमः / तच् च वीर्यम् उपायपरिगृहीतम् अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय असाक्षात्कृतस्य साक्षात्क्रियायै संवर्तते / तस्माद् इमे चत्वारो धर्मा योग इत्य् उच्यते41 //
(ii)-a-ii-9-a ms.83a5r, sh.278-1, w.94-1, p.127a3, d.103b1, n.109a2, co.108a2,ch.438b19 तत्र मनसिकारः कतमः / चत्वारो मनस्काराः / कतमे चत्वारः / तद्यथा बलवाहनः, सच्छिद्रवाहनः, निश्छिद्रवाहनः, अनाभोगवाहनश् च //
-ii-9-a-(1) ms.83a6r, sh.278-8, w.94-3, p.127a4, d.103b2, n.109a3, co.108a3, ch.438b21 तत्र बलवाहनो मनस्कारः कतमः / तद्यथा आदिकर्मिकस्याध्यात्मम् एव चित्तं स्थापयतः संस्थापयतश् च धर्मान् प्रविचिन्वतः, यावन् मनस्कारं न प्राप्नोति, तावद् अस्य बलवाहनो मनस्कारो भवति / बलाद् अवष्टभ्य तच् चित्तम् एकाग्रतायाम् अवस्थापयति / तेनोच्यते बलवाहन इति //
-ii-9-a-(2) ms.83a7m, sh.279-5, w.94-8, प्. 127अ6, d. 103ब्3, न्. 109अ5, चो. 108अ4, ch.438b25 तत्र सच्छिद्रवाहनो मनस्कारः कतमः / यो लब्धमनस्कारस्योर्ध्वं लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा यो लक्षणप्रतिसंवेदी मनस्कारः / तथा हि समाधिस् तत्र चिन्तया व्यवकीर्यते, नैकान्तेन भावनाकारेण प्रवर्तते //
-ii-9-a-(3) ms.83a8l, sh.279-10, w.94-11, p.127b1, d.103b5, n.109a6, co.108a5, ch.438b28 तत्र निश्छिद्रवाहनो मनस्कारः कतमः / लक्षणप्रतिसंवेदिनो मनस्काराद् ऊर्ध्वं यावत् प्रयोगनिष्ठान् मनसिकारात् //
-ii-9-a-(4) ms.83a8m, sh.279-12, w.94-13, p.127b2, d.103b5, n.109a7, co.108a6, ch.438c1 तत्रानाभोगवाहनो मनस्कारः कतमः / यः प्रयोगनिष्ठाफलो मनस्कारः //
-ii-9-b-(1),(2),(3),(4) ms.83a8r, sh.279-14, p.127b3, d.103b6, n.109a7, co.108a7, ch.438c3 अपरे चत्वारो मनस्काराः / तद्यथा आनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश् च /
तत्रानुलोमिको मनस्कारः / येनालम्बनं विदूषयति सम्यक्प्रयोगं चारभते, नो तु क्लेशं प्रजहाति /
तत्र प्रातिपक्षिकः / येन क्लेशं प्रजहाति /
तत्र प्रसदनीयः / येन लीनं चित्तं प्रग्राहकैर् निमित्तैर् अभिप्रमोदयति संप्रहर्षयति प्रगृह्णाति /
तत्र प्रत्यवेक्षणीयो मनस्कारः / तद्यथा मीमांसामनस्कारः, यम् अधिपतिं कृत्वा प्रहीणाप्रहीणतां क्लेशानां प्रत्यवेक्षते //
-ii-9-c ms.83b2l, sh.280-4, प्. 127ब्8, d. 104अ2, न्. 109ब्4, चो. 108ब्3, ch.438c10 तत्रालम्बनं मनसिकुर्वता कति निमित्तानि मनसिकर्तव्यानि भवन्ति / आह / चत्वारि / तद्यथालम्बननिमित्तं निदाननिमित्तं परिवर्जनीयं निमित्तं निषेवणीयं च निमित्तम् //
-ii-9-c-(1) ms.83b2r, sh.280-7, p.128a1, d.104a3, n.109b5, co.108b4, ch.438c12 तत्रालम्बननिमित्तम् / यज् ज्ञेयवस्तुसभागं प्रतिबिम्बं प्रतिभासः //
-ii-9-c-(2) ms.83b3l, sh.280-10, p.128a2, d.104a3, n.109b5, co.108b4, ch.438c13 तत्र निदाननिमित्तम् / तद्यथा समाधिसंभारोपचयः, आनुलोमिक (श्भ् इइ 162) उपदेशः, भावनासहगतस् तीव्रच्छन्दः संवेजनीयेषु धर्मेषु संवेगः, विक्षेपाविक्षेपपरिज्ञावधानम्, परतश् चासंघट्टो मनुष्यकृतो वामनुष्यकृतो वा शब्दकृतो वा व्यायामकृतो वा / तथा विपश्यनापूर्वंगमो ऽध्यात्मं चित्ताभिसंक्षेप उत्तप्ततराया विपश्यनाया उत्तरत्र निदाननिमित्तम् / तथा शमथपूर्वंगमा विपश्यना उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तम् //
-ii-9-c-(3)-i,इइ,इइइ,इव् ms.83b4m, sh.280-19, p.128a6, d.104a6, n.110a1, co.108b6, ch.438c19 तत्र परिवर्जनीयनिमित्तं चतुर्विधम् / तद्यथा लयनिमित्तम् औद्धत्यनिमित्तं सङ्गनिमित्तं विक्षेपनिमित्तं च /
तत्र लयनिमित्तम् / येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति /
तत्र औद्धत्यनिमित्तम् / येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम् उद्धन्यते /
तत्र सङ्गनिमित्तम् / येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम् आलम्बने रज्यते संरज्यते संक्लिश्यते /
तत्र विक्षेपनिमित्तम् / येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं बहिर्धा विक्षिप्यते /
तानि पुनर् निमित्तानि यथा समाहितायां भूमौ //
-ii-9-d ms.83b6l, sh.281-8, p.128b2, d.104b2, n.110a4, co.109a2, ch.438c26 एभिर् मनस्कारैर् आलम्बनम् अधिमुच्यतः कत्य् अधिमोक्षा भवन्ति / आह / नवाधिमोक्षाः / तद्यथा प्रभास्वरश् चाप्रभास्वरश् च जडः पटुः परीत्तो महद्गतो ऽप्रमाणः परिशुद्धो ऽपरिशुद्धश् चेति /
तत्र प्रभास्वरो ऽधिमोक्षः / य आलोकनिमित्ते सूद्गृहीत आलोकसहगतः /
तत्राप्रभास्वरो ऽधिमोक्षः / तद्यथा आलोकनिमित्ते ऽनुद्गृहीते ऽन्धकारसहगतः /
तत्र जडो ऽधिमोक्षः / यो मृद्विन्द्रियसन्तानपतितः /
तत्र पटुर् अधिमोक्षः / यस् तीक्ष्णेन्द्रियसन्तानपतितः /
तत्र परीत्तो ऽधिमोक्षः / यः परीत्तश्रद्धाछन्दसहगतः परीत्तालम्बनश् च / इति मनस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तो ऽधिमोक्षः /
तत्र महद्गतो ऽधिमोक्षः / तद्यथा यो महद्गतश्रद्धाछन्दसहगतः, महद्गतं वालम्बनम् अधिमुच्यते यो ऽधिमोक्षः / इति मनस्कारमहद्गततया चालम्बनमहद्गततया च महद्गतो ऽधिमोक्षः /
तत्राप्रमाणो ऽधिमोक्षः / अप्रमाणश्रद्धाछन्दसहगतः, अनन्तम् वा अपर्यन्तम् आलम्बनम् अधिमुच्यते यो ऽधिमोक्षः / इति मनस्काराप्रमाणतया चालम्बनाप्रमाणतया चाप्रमाणो ऽधिमोक्षः /
तत्र परिशुद्धो ऽधिमोक्षः / यः सुभावितः परिनिष्पन्नः पर्यवसानगतः /
अपरिशुद्धो वा पुनः यो न सुभावितो न परिनिष्पन्नो न पर्यवसानगतः //
(ii)-a-ii-10 ms.84a1r, sh.283-2, w.*95-4, p.129a3, d.104b7, n.110b4, co.109b2, ch.439a16 तत्र कति योगस्य योगकरणीयानि / आह / चत्वारि / कतमानि चत्वारि / तद्यथाश्रयनिरोधः, आश्रयपरिवर्तः, आलम्बनपरिज्ञानम्, आलम्बनाभिरतिश् च /
तत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः सो ऽनुपूर्वेण निरुध्यते, प्रस्रब्धिसहगतश् चाश्रयः परिवर्तते / अयम् आश्रयनिरोधो ऽयम् आश्रयपरिवर्तो योगकरणीयम् /
तत्रालम्बनपरिज्ञानम् आलम्बनाभिरतिश् च / अस्त्य् आलम्बनपरिज्ञानम् आलम्बनाभिरतिर् आश्रयनिरोधपरिवर्तपूर्वंगमम्, यच् चालम्बनपरिज्ञानम् आलम्बनाभिरतिं चाधिपतिं कृत्वाश्रयो निरुध्यते परिवर्तते च / अस्त्य् आलम्बनपरिज्ञानम् आलम्बनाभिरतिर् आश्रयविशुद्धिपूर्वंगमम् आश्रयशुद्धिम् अधिपतिं कृत्वा सुविशुद्धम् आलम्बनज्ञानं कार्यपरिनिष्पत्तिकाले प्रवर्तते, अभिरतिश् च /
तेनोच्यते चत्वारि योगस्य योगकरणीयानीति //
(ii)-a-ii-11-a-(1),(2),(3) ms.84a4r, sh.284-4, w.95-11, p.129b2, d.105a5, n.111a2, co.109b6, ch.439b1 तत्र कति योगाचाराः / आह / त्रयः / तद्यथा आदिकर्मिकः, कृतपरिचयः, अतिक्रान्तमनस्कारश् च /
तत्रादिकर्मिको योगाचारो मनस्कारादिकर्मिकः क्लेशविशुद्ध्यादिकर्मिकश् च /
तत्र मनस्कारादिकर्मिकस् तत्प्रथमकर्मिक एकाग्रतायां यावन् मनस्कारं न प्राप्नोति चित्तैकाग्रतां न स्पृशति /
तत्र क्लेशविशुद्ध्यादिकर्मिकः / अधिगते ऽपि मनस्कारे क्लेशस्य चित्तं विशोधयितुकामस्य यैइअक्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश् चाभ्यासः / अयं क्लेशविशुद्ध्यादिकर्मिकः /
तत्र कृतपरिचयः कतमः / लक्षणप्रतिसंवेदिनं मनस्कारम् स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापर्यन्तेषु कृतपरिचयो भवति /
तत्रातिक्रान्तमनस्कारः प्रयोगनिष्ठाफले मनस्कारे वेदितव्यः / अतिक्रान्तो ऽसौ भवति प्रयोगभावनामनस्कारम्, स्थितो भवति भावनाफले / तस्माद् अतिक्रान्तमनस्कार इत्य् उच्यते //
-11-11-ब्-(1),(2),(3) ms.84a7m, sh.284-23, p.130a1, d.105b3, n.111a7, co.110a3, ch.439b15 अपि च कुशलं धर्मच्छन्दम् उपादाय प्रयुज्यमानो यावन् निर्वेधभागीयानि कुशलमूलानि नोत्पादयति तावद् आदिकर्मिको भवति /
यदा पुनर् निर्वेधभागीयान्य् उत्पादयति, तद्यथा ऊष्मगतानि मूर्धानः (श्भ् इइ 170) सत्यानुलोमाः क्षान्तयो लौकिका अग्रधर्माः, तदा कृतपरिचयो भवति /
यदा पुनः सम्यक्त्वं न्यामम् अवक्रामति सत्यान्य् अभिसमागच्छत्य् अपरप्रत्ययो भवत्य् अनन्यनेयः शास्तुः शासने, तदातिक्रान्तमनस्कारो भवति / परप्रत्ययं मनस्कारम् अतिक्रम्यापरप्रत्यये स्थितः / तस्माद्, अतिक्रान्तमनस्कार इत्य् उच्यते //
(ii)-a-ii-12-a-(1) ms.84b1l, sh.285-11, w.96-14, p.130a6, d.105b6, n.111b4, co.110a6, ch.439b22 तत्र योगभावना कतमा / आह / द्विविधा / तद्यथा संज्ञाभावना बोधिपक्ष्या भावना च /
तत्र संज्ञाभावना कतमा / तद्यथा लौकिकमार्गप्रयुक्तः सर्वास्व् अधरिमासु भूमिष्व् आदीनवसंज्ञां भावयति / निर्वाणाय वा पुनः प्रयुक्तः प्रहाणधातौ विरागधातौ निरोधधातौ शान्तदर्शी प्रहाणसंज्ञां विरागसंज्ञां निरोधसंज्ञां च भावयति / शमथाय वा पुनः प्रयुक्त ऊर्ध्वमधःसंज्ञां शमथपक्ष्यां भावयति / विपश्यनायां प्रयुक्तः पश्चात्पुरःसंज्ञां विपश्यनापक्ष्यां भावयति //
-ii-12-a-(2) ms.84b2r, sh.287-2, p.130b1, d.106a2, n.111b7, co.110b1, ch.439b28 तत्रोर्ध्वमधःसंज्ञी इमम् एव कायं यथास्थितं यथाप्रणिहितम् ऊर्ध्वं पादतलाद् अधः केशमस्तकात् पूर्णं नानाविधस्याशुचेः प्रत्यवेक्षते / सन्त्य् अस्मिन् काये केशा रोमाणीति पूर्ववत् / तत्र पश्चात्पुरःसंज्ञी / यथापि तद् एकत्येन प्रत्यवेक्षणानिमित्तम् एव साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसीकृतम् सुजुष्टं सुप्रतिविद्धम् / तद्यथा स्थितो निषण्णं प्रत्यवेक्षते, निषण्णो वा निपन्नम्, पुरतो वा गच्छन्तं पृष्ठतो गच्छन् प्रत्यवेक्षते / सा खल्व् एषा त्रैयध्विकानां संस्काराणां प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षा परिदीपिता /
तत्र यत् तावद् आह "स्थितो निषण्णं प्रत्यवेक्षत" इत्य् अनेन परिदीपितं वर्तमानेन मनस्कारेण_ अनागतं ज्ञेयं प्रत्यवेक्षते / वर्तमानापि (श्भ् इइ 174) मनस्कारावस्था उत्पन्ना "स्थिते"त्य् उच्यते / अनागता पुनर् ज्ञेयावस्था अनुत्पन्नत्वाद् उत्पादाभिमुखत्वाच् च "निषण्णे"त्य् उच्यते /
यत् पुनर् आह "निषण्णो वा निपन्नं प्रत्यवेक्षत" इत्य् अनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता / प्रत्युत्पन्ना हि मनस्कारावस्था निरोधाभिमुखा "निषण्णे"त्य् उच्यते / अतीता पुनर् निरुद्धत्वाज् ज्ञेयावस्था "निपन्ने"त्य् उच्यते /
यत् पुनर् आह "पुरतो वा गच्छन्तं पृष्ठतो गच्छन् प्रत्यवेक्षत" इत्य् अनेन प्रत्युत्पन्नेन मनस्कारेणानन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता / तत्र य उत्पन्नोत्पन्नो मनसिकारो ऽनन्तरनिरुद्धह् स पुरतो यायी /
तत्र यो ऽनन्तरोत्पन्नो ऽनन्तरोत्पन्नो मनस्कारो नवनवो ऽनन्तरनिरुद्धस्यानन्तरनिरुद्धस्य ग्राहकः स पृष्ठतो यायी /
तत्र शमथं च विपश्यनां च भावयंस् तदुभयपक्ष्याम् आलोकसंज्ञां भावयति / इयं संज्ञाभावना //
ii-12-b ms.84b7m, sh.288-19, w.*97-1, p.131a5, d.106b3, n.112b2, co.111a2, ch.439c18 तत्र बोधिपक्ष्यभावना कतमा / यः सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अभ्यासः परिचय आसेवना भावना बहुलीकार इयम् उच्यते बोधिपक्ष्यभावना / तद्यथा चतुर्णाम् स्मृत्युपस्थानानाम्, चतुर्णां (श्भ् इइ 176) सम्यक्प्रहाणानाम्, चतुर्णाम् ऋद्धिपादानाम्, पञ्चनाम् इन्द्रियाणाम्, पञ्चानां बलानाम्, सप्तानां बोध्यङ्गानाम्, आर्याष्टाङ्गस्य मार्गस्य /
कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्थानस्य /
अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय च्छन्दैः जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति प्रदधातीति सम्यक्प्रहाणस्य, उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय, उत्पन्नानां कुशलानां धर्माणाम् स्थितये ऽसंमोषाय भावनापरिपूरये भूयोभाववृद्धिविपुलतायै छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति प्रदधातीति सम्यक्प्रहाणस्य /
छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य /
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियस्य /
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलानाम् /
स्मृतिसंबोध्यङ्गस्य धर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षासंबोध्यङ्गस्य च /
सम्यग्दृष्टेः सम्यक्संकल्पस्य सम्यग्वाक्कर्मान्ताजीवानाम् सम्यग्व्यायामस्य सम्यक्स्मृतेः सम्यक्समाधेश् च //
-ii-12-b-(1)-i-(a) ms.85a3r, sh.291-5, w.97-22, p.132a1, d.107a4, n.113a3, co.111b3, ch.440a13 तत्र कतमः कायः / कतमा काये कायानुपश्यना / कतमा स्मृतिः / कतमानि स्मृतेर् उपस्थानानि / आह /
कायः पञ्चत्रिंशतिविधः / तद्यथा आध्यात्मिको बाह्यश् च, इन्द्रियसंगृहीतो ऽनिन्द्रियसंगृहीतश् च, सत्त्वसंख्यातो ऽसत्त्वसंख्यातश् च, दौष्ठुल्यसहगतः प्रश्रब्धिसहगतश् च, भूतकायो भौतिककायश् च, नामकायो रूपकायश् च, नारकस् तैर्यग्योनिकः पैतृविषयिको मानुष्यको दिव्यश् च, सविज्ञानको ऽविज्ञानको वा, अन्तःकायो बहिःकायश् च, विपरिणतो ऽविपरिणतश् च, स्त्रीकायः पुरुषकायः पण्डककायश् च, मित्रकायो ऽमित्रकाय उदासीनकायश् च, हीनकायो मध्यकायः प्रणीतकायश् च, दह्रकायो यूनकायो वृद्धकायश् च / अयं तावत् कायस्य प्रभेदः //
-ii-12-b-(1)-i-(b) ms.85a5r, sh.292-11, p.132a7, d.107b1, n.113a7, co.111b7, ch.440a21 तत्रानुपश्यना त्रिविधा / या कायम् अधिपतिं कृत्वा श्रुतमयी वा प्रज्ञा चिन्तामयी वा भावनामयी वा, यया प्रज्ञया सर्वं कायं सर्वाकारं सम्यग् एवोपपरीक्षते संतीरयत्य् अनुप्रविशत्य् अनुबुध्यते //
-ii-12-b-(1)-i-(c) ms.85a6m, sh.292-15, p.132b1, d.107b2, n.113b1, co.112a1, ch.440a23 तत्र स्मृतिर् यद् अस्य कायम् अधिपतिं कृत्वा ये धर्मा उद्गृहीतास् तेषाम् एव च धर्माणां यो ऽर्थश् चिन्तितो ये च भावनया साक्षात्कृताः, तत्र व्यञ्जने चार्थे च साक्षात्क्रियायां च तच्चेतसो ऽसंमोषः, "सूद्गृहीता वा म एते धर्माः", "न वे"ति, "सूपलक्षिता वा तत्र तत्र प्रज्ञया", "न वे"ति, "सुसंस्पर्शिताः तत्र तत्र विमुक्त्या", "न वे"ति स्मृतिर् उपस्थिता भवति / (श्भ् इइ 180) इदं स्मृतेर् उपस्थानम् //
-ii-12-b-(1)-i-(d) ms.85a7m, sh.293-6, प्. 132ब्5, d. 107ब्5, न्. 113ब्4, चो. 112अ3, ch.440a29 अपि च स्मृत्यारक्षायै स्मृतेर् उपस्थानं विषयासंक्लेशायालम्बनोपनिबन्धाय च /
तत्र स्मृत्यारक्षा यथोक्तं पूर्वम् एव्"आरक्षितस्मृतिर् भवति निपकस्मृतिर्" इति /
तत्र विषयासंक्लेशाय / यथोक्तं "स्मृत्यारक्षितमानसः समावस्थाचारको" "न निमित्तग्राही नानुव्यञ्जनग्राही" यावद् विस्तरेण "रक्षति मन-इन्द्रियं मन-इन्द्रियेण संवरम् आपद्यते" /
तत्रालम्बनोपनिबन्धाय / यथोक्तं चतुर्विध आलम्बने स्मृतिम् उपनिबध्नतः / तद्यथा व्यापिन्य् आलम्बने चरितविशोधने कौशल्यालम्बने क्लेशविशोधने वा /
एभिस् त्रिभिर् आकारैर् या सूपस्थितस्मृतिता, इदम् उच्यते स्मृतेर् उपस्थानम् //
-ii-12-b-(1)-ii ms.85b1r, sh.293-18, p.133a3, d.108a1, n.114a1, co.112b7, ch.440b8 तत्र वेदना कतमा / तद्यथा सुखा दुःखा अदुःखासुखा च वेदना / तत्र सुखापि कायिकी दुःखाप्य् अदुःखासुखापि / यथा कायिकी, एवं चैतसिकी / सुखापि सामिषा दुःखाप्य् अदुःखासुखापि / एवं निरामिषापि, एवं गर्धाश्रिता, नैष्क्रम्याश्रिता वेदना सुखापि दुःखाप्य् अदुःखासुखापि /
सैषा एकविंशतिविधा वेदना भवति, नवविधा वा //
-ii-12-b-(1)-iii ms.85b2r, sh.294-7, w.97-39, p.133a7, d.108a4, im.114a4, co.113a2, छ्. 440ब्13 तत्र चित्तं कतमत् / तद्यथा सरागं चित्तं विगतरागं सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतं व्युपशान्तम् अव्युपशान्तं समाहितम् असमाहितं सुभावितम् असुभावितं सुविमुक्तं चित्तम् असुविमुक्तं चित्तम् / तद् एतद् अभिसमस्य विंशतिविधं चित्तं भवति //
-ii-12-b-(1)-iv ms.85b3r, sh.294-13, p.133b2, d.108a6, n.114a7, co.112b5, ch.440b18 तत्र धर्माः कतमे / रागो रागविनयश् च, द्वेषो द्वेषविनयश् च, मोहो मोहविनयश् च, संक्षेपो विक्षेपो लयः प्रग्रह औद्धत्यम् अनौद्धत्यं व्युपशमो ऽव्युपशमः, सुसमाहितता न सुसमाहितता सुभावितमार्गता न सुभावितमार्गता सुविमुक्तता न सुविमुक्तता च / इतीमे कृष्णशुक्लपक्षव्यवस्थिता विंशतिधर्मा वेदितव्याः संक्लेशव्यवदानपक्ष्याः //
-ii-12-b-(1)-ii' ms.85b5l, sh.295-8, p.133b6, d.108b2, n.114b3, co.112b7, ch.440b23 तत्र सुखा वेदना यत् सुखवेदनीयम् स्पर्शं प्रतीत्योत्पद्यते सातं वेदितं वेदनागतम् / सा पुनर् या पञ्चविज्ञानसंप्रयुक्ता सा कायिकी, या पुनर् मनोविज्ञानसंप्रयुक्ता सा चैतसिकी /
यथा सुखवेदनीयम् एवं दुःखवेदनीयम् अदुःखासुखवेदनीयम् स्पर्शं प्रतीत्योत्पद्यते ऽसातं नैव सातं नासातं वेदितं वेदनागतम् / इदम् उच्यते दुःखा अदुःखासुखा वेदना / सा पुनर् या पञ्चविज्ञानकायसंप्रयुक्ता सा कायिकी, या मनोविज्ञानसंप्रयुक्ता सा चैतसिकी /
या निर्वाणानुकूला नैर्वेधिकी अत्यन्तनिष्ठताया अत्यन्तविमलताया अत्यन्तब्रह्मचर्यपर्यवसानायै संवर्तते सा निरामिषा / या पुनर् धातुपतिता भवपतिता सा सामिषा / या पुना रूपारूप्यप्रतिसंयुक्ता वैराग्यानुकूला वा सा नैष्क्रम्याश्रिता / या पुनः कामप्रतिसंयुक्ता न च वैराग्यानुकूला सा गर्धाश्रिता //
-ii-12-b-(1)-iii' ms.85b7r, sh.296-13, p.134a6, d.109a1, n.115a1, co.113a6, ch.440c5 तत्र सरागं चित्तं यद् रञ्जनीये वस्तुनि रागपर्यवस्थितम् / विगतरागं यद् रागपर्यवस्थानापगतम् / सद्वेषं यद् द्वेषणीये वस्तुनि द्वेषपर्यवस्थितम् / विगतद्वेषं यद् द्वेषपर्यवस्थानापगतम् / तत्र संमोहं यन् मोहनीये वस्तुनि मोहपर्यौअस्थितम् / विगतमोहं यद् मोहपर्यवस्थानापगतम् /
तान्य् एतानि षट् चित्तानि चारसहगतानि वेदितव्यानि / तत्र त्रीणि संक्लेशपक्ष्याणि त्रीणि संक्लेशप्रातिपक्षिकाणि / तत्र संक्षिप्तचित्तं यच् छमथाकारेणाध्यात्मालम्बनोपनिबद्धम् / विक्षिप्तं यद् बहिर्धा पञ्चसु कामगुणेष्व् अनुविसृतम् /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
