Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
श्रावकभूमि
- Thông tin
- GRETIL — Srāvakabhūmi, The First Chapter, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 1998 (Taisho University Sogo Bukkyo Kenyujo, 4). = Śbh I and Srāvakabhūmi, The Second Chapter with Asamāhitā bhūmiḥ, Śrutamayī bhūmiḥ, Cintāmayī bhūmiḥ, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 2007 (Taisho Daigaku Sogobukkyo Kenyujo, 18). = Śbh II.chữ Devanāgarī do máy chuyển tự t
(i)-c-iil-10-a-(1)-vii ms.59b1l, sh.138-6, w.*77-9, p.66b3, d.56a7, n.59a1, co.60b1, ch.418c17 अवदानं कतमत् / यत् सदृष्टान्तकम् उदाहृतम्, येन दृष्टान्तेन यस्य प्रकृतस्यार्थस्य व्यवदानं भवति / इदम् उच्यते ऽवदानम् //
(i)-c-iii-10-a-(1)-viii ms.59b1m, sh.138-9, w.*77-15, p.66b4, d.56b1, n.59a2, co.66b1, ch.418c18 वृत्तकं कतमत् / यत् किंचित् पूर्वयोगप्रतिसंयुक्तम् / इदम् उच्यते वृत्तकम् //
(i)-c-iil-10-a-(1)-ix ms.59b1r, sh.138-11, w.*77-20, p.66b5, d.56b1, n.59a2, co.60b2, ch.418c20 जातकं कतमत् / यद् अतीतम् अध्वानम् उपादाय तत्र तत्र भगवतश् च्युत्युपपादेषु बोधिसत्त्वचर्या दुष्करचर्याख्याता / इदम् उच्यते जातकम् //
(i)-c-iil-10-a-(1)-x ms.59b2m, sh.138-14, p.66b6, d.56b2, n.59a3, co.60b4, ch.418c22 वैपुल्यं कतमत् / यत्र बोधिसत्त्वानां मार्गो देश्यते ऽनुत्तरायै सम्यक्संबोधये दशबलानावरणज्ञानसमुदागमाय / इदम् उच्यते वैपुल्यम् //
(i)-c-iil-10-a-(1)-xi ms.59b2r, sh.139-1, w.*77-26, p.66b7, d.56b3, n.59a4, co.60b4, ch.418c25 अद्भुता धर्माः कतमे / यत्र बुद्धानां च बुद्धश्रावकाणां च भिक्षूणां च भिक्षुणीनां च शिक्षमाणानां श्रामणेराणां श्रामणेरिकाणाम् उपासकानाम् उपासिकानां साधारणासाधारणाश् च तदन्यप्रतिविशिष्टाश् चाश्चर्याद्भुतसंमता गुणविशेषा आख्याताः / इम उच्यन्ते ऽद्भुता धर्माः //
(i)-c-iil-10-a-(1)-xii ms.59b3r, sh.139-7, w.*77-36, p.67a2, d.56b5, n.59a6, co.60b6, ch.419a1 उपदेशाः कतमे / सर्वमातृकाभिधर्मः सूत्रान्तनिष्कर्षः सूत्रान्तव्याख्यानम् उपदेश इत्य् उच्यते //
(i)-c-iil-10-a-(2) ms.59b4l, sh.139-10, w.*78-4, p.67a3, d.56b6, n.59a7, co.60b6, ch.419a3 तच् चैतद् द्वादशाङ्गवचोगतम्, अस्ति सूत्रम्, अस्ति विनयः अस्त्य् अभिधर्मः / तत्र यत् तावद् आह, सूत्रं गेयं व्याकरणं गाथोदानावदानवृत्तकजातकवैपुल्याद्भुतधर्मा इति, इदं तावत् सूत्रम् / यत् पुनर् आह, निदानम् इति, अयम् उच्यते विनयः / यत् पुनर् आह, उपदेशा इति, अयम् उच्यते ऽभिधर्मः /
तच् चैतद् द्वादशाङ्गवचोगतं पिटकत्रयसंगृहीतं सद्भिः सम्यग्गतैर् देशितं सद्धर्म इत्य् उच्यते //
(i)-c-iil-10-a-(3) ms.59b5m, sh.139-17, w.*78-12, p.67a7, d.57a1, n.59b3, co.61a2, ch.419a10 तस्य श्रवणं सद्धर्मश्रवणम् / तत् पुनः कतमत् / यथापीहैकत्यः सूत्रधरो वा भवति, विनयधरो वा, मातृकाधरो वा, सूत्रविनयधरो वा, सूत्राभिधर्मधरो वा, विनयमातृकाधरो वा, सूत्रविनयमातृकाधरो वा / इदम् उच्यते सद्धर्मश्रवणम् /
तत् पुनः श्रवणं द्विविधम् / व्यञ्जनश्रवणम् अर्थश्रवणं च //
(i)-c-iil-10-b-(1) ms.59b6l,sh.140-6,w.*78-18,**78-20f.67a8,d.57a3n.59b4,co.61a4,ch.419a17 चिन्तना कतमा / यथापीहैकत्यस् तान् एव यथाश्रुतान् धर्मान् एकाकी रहोगतः, षड् अचिन्त्यानि स्थानानि तद्यथा, आत्मचिन्तां सत्त्वचिन्तां लोकचिन्तां सत्त्वानां कर्मविपाकचिन्तां ध्यायिनां ध्यायिविषयं बुद्धानां बुद्धविषयं वर्जयित्वा, स्वलक्षणतः सामान्यलक्षणतश् च चिन्तयति //
(i)-c-iil-10-b-(2) ms.59b7l, sh.140-12, w.*78-31, p.67b3, d.57a5, n.59b6, co.61a6, ch.419a22 सा पुनश् चिन्ता द्विविधा / गणनाकारा सह गणनायोगेन धर्माणाम् / तुलनाकारा युक्त्या गुणदोषोपपरीक्षणाकारा / सचेत् स्कन्धप्रतिसंयुक्तां देशनां चिन्तयति, सचेद् अन्यतमान्यतमां पूर्वनिर्दिष्टां देशनां चिन्तयति, आभ्यां द्वाभ्याम् आकाराभ्यां चिन्तयति //
(i)-c-iimo-b-(2)-i ms.59b7r, sh.140-16, p.67b5, d.57a6, n.60a1, co.61b1, ch.419a27 यथा पुनः कथम् इति / रूपम् उच्यते दश रूपीण्य् आयतनानि यच् च धर्मायतनपर्यापन्नं रूपम् स च रूपस्कन्धः / तिस्रो वेदना वेदनास्कन्धः / षट् संज्ञाकायाः संज्ञास्कन्धः / षट् चेतनाकायाह् संस्कारस्कन्धः / षड् विज्ञानकाया विज्ञानस्कन्धः / इत्य् एवं गणनासंख्याकारया स्कन्धदेशनां चिन्तयति / उत्तरोत्तरप्रभेदेन येन वा पुनर् अस्याः संख्यागणनाकारायाश् चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः //
(i)-c-iil-10-b-(2)-ii ms.60a2l, sh.141-7, w.78-37, p.68a1, d.57b2, n.60a4, co.61b3, ch.419b5 कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धदेशनां चिन्तयति / चतसृभिर् युक्तिभिर् उपपरीक्षते /
कतमाभिश् चतसृभिः / यद् उतापेक्षायुक्त्या, कार्यकरणयुक्त्या, उपपत्तिसाधनयुक्त्या, धर्मतायुक्त्या //
(i)-c-iil-10-b-(2)-ii-(a) ms.60a2r, sh.141-11, w.*79-8, p.68a2, d.57b3, n.60a5, co.61b4, ch.419b8 अपेक्षायुक्तिः कतमा / द्विविधापेक्षा, उत्पत्त्यपेक्षा प्रज्ञप्त्यपेक्षा च / तत्रोत्पत्त्यपेक्षा यैर् हेतुभिर् यैः प्रत्ययैः स्कन्धानां प्रादुर्भावो भवति, तस्यां स्कन्धोत्पत्तौ ते हेतवस् ते प्रत्यया अपेक्ष्यन्ते / यैर् नामकायपदकायव्यञ्जनकायैः स्कन्धानां प्रज्ञप्तिर् भवति, तस्याम् (श्भ् इ 238) स्कन्धप्रज्ञप्तौ ते नामकायपदकायव्यञ्जनकाया अपेक्ष्यन्ते / इयम् उच्यते स्कन्धेषूत्पत्त्यपेक्षा प्रज्ञप्त्यपेक्षा च / या चोत्पत्त्यपेक्षा या च प्रज्ञप्त्यपेक्षा सा युक्तिर् योग उपायः स्कन्धोत्पत्तये स्कन्धप्रज्ञप्तये / तस्माद् अपेक्षायुक्तिर् इत्य् उच्यते //
(i)-c-iil-10-b-(2)-ii-(b) ms.60a4m, sh.142-3, w.*79-15, p.68a7, d.57b6, n.60b1, co.61b7, ch.419b16 कार्यकरणयुक्तिः कतमा / यद् उत्पन्नानां स्कन्धानां स्वेन हेतुना स्वेन प्रत्ययेन तस्मिंस् तस्मिन् स्वकार्यकरणे विनियोगः / तद्यथा, चक्षुषा रूपाणि द्रष्टव्यानि, श्रोत्रेण शब्दाः श्रोतव्याः, यावन् मनसा धर्मा विज्ञेया इति / रूपेण चक्षुषो गोचरे ऽवस्थातव्यम्, शब्देन श्रोत्रस्य, एवं यावद् धर्मैर् मनस् इति / यद् वा पुनर् अन्यद् अप्य् एवंभागीयं, तत्र तत्र धर्माणाम् अन्योन्यं कार्यकरणे प्रति युक्तिर् योग उपायः / इयम् उच्यते कार्यकरणयुक्तिः //
(i)-c-iil-10-b-(2)-ii-(c) ms.60a5r, sh.142-12, w.*79-17, p.68b3, d.58a1, n.60b4, co.62a3, ch.419b23 उपपत्तिसाधनयुक्तिः कतमा / अनित्याः स्कन्धा इति, प्रतीत्यसमुत्पन्ना दुःखाः शून्या अनात्मान इति त्रिभिः प्रमाणैर् उपपरीक्षते / यद् उताप्तागमेन प्रत्यक्षेणानुमानेन च / एभिस् त्रिभिः प्रमाणैर् उपपत्तियुक्तैः सतां हृदयग्राहकैर् व्यवस्थापना साधना क्रियते / यद् उत स्कन्धानित्यताया वा प्रतीत्यसमुत्पन्नताया वा दुःखताया वा (श्भ् इ 240) शून्यताया वनात्मताया वा / इयम् उच्यत उपपत्तिसाधनयुक्तिः //
(i)-c-iil-10-b-(2)-ii-(d) ms.60a7l, sh.143-4, w.*79-19, p.68b6, d.58a4, n.60b6, co.62a5, ch.419b28 धर्मतायुक्तिः कतमा / केन कारणेन तथाभूता एते स्कन्धाः, तथाभूतो लोकसंनिवेशः / केन कारणेन खरलक्षणा पृथिवी द्रवलक्षणा आप उष्णलक्षणं तेजः समुदीरणलक्षणो वायुः / केन कारणेनानित्याः स्कन्धाः केन कारणेन शान्तं निर्वाणम् इति / तथा केन कारणेन रूपणलक्षनं रूपम्, अनुभवनलक्षणा वेदना, संजाननालक्षणा संज्ञा, अभिसंस्करणलक्षणाः संस्काराः, विजाननालक्षणं विज्ञानम् इति / प्रकृतिर् एषां धर्माणाम् इयम्, स्वभाव एष ईदृशः, धर्मतैषा / यैव चासौ धर्मता सैवात्र युक्तिर् योग उपायः / एवं वैतत् स्यात्, अन्यथा वा, नैव वा स्यात्, सर्वत्रैव च धर्मतैव प्रतिसरणं धर्मतैव युक्तिः / चित्तनिध्यापनाय चित्तसंज्ञापनाय / इयम् उच्यते धर्मतायुक्तिः /
एवं चतसृभिर् युक्तिभिः स्कन्धदेशनोपपरीक्ष्यते यावत् पुनर् अन्या काचिद् देशनेति //
(i)-c-iil-10-b-(3) ms.60b2m, sh.143-18, p.69a4, d.58b1, n.61a4, co.62b3, ch.419c10 यैवम् आभ्यां द्वाभ्याम् आकाराभ्यां गणनासंख्याकारया च युक्त्युपपरीक्षणाकारया च सम्यगुपनिध्यापना तस्यास् तस्या देशनायाः सा चिन्ता //
(i)-c-iil-10-c ms.60b3l, sh.143-21, p.69a5, d.58b2, n.61a5, co.62b4, ch.419c14 इयम् उच्यते सद्धर्मश्रवणचिन्ता//
(i)-c-iil-11-a ms.60b3l, sh.144-1, w.*80-12, p.69a6, d.58b2, n.61a5, co.62b4, ch.419c15 अनन्तरायः कतमः / अनन्तरायो द्विविधः / अध्यात्मम् उपादाय बहिर्धा च / तत्राध्यात्मं बहिर्धा चोपादायान्तरायं वक्ष्यति / तद्विपर्ययेणानन्तरायो वेदितव्यः //
(i)-c-iil-11-a-(1) ms.60b3m, sh.144-5, p.69a7, d.58b3, n.61a6, co.62b5, ch.419c17 अध्यात्मम् उपादायान्तरायः कतमः / यथापीहैकत्यः पूर्वम् एव कृतपुण्यो न भवति / सो ऽकृतत्वात् पुण्यानां न लाभी भवति कालेन कालम् आनुलोमिकानां जीवितपरिष्काराणाम्, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् / तीव्ररागो भवत्य् आयतरागः, तीव्रद्वेष आयतद्वेषः, तीव्रमोह आयतमोहः / पूर्वं वानेनाबाधसंवर्तनीयानि कर्माणि कृतानि भवन्ति / यद्धेतोर् आबाधबहुलो भवति / दृष्ट एव धर्मे विषमचारी भवति / येनास्याभीक्ष्णं वातो वा कुप्यति पित्तं वा श्लेष्मं वा, विषूचिका वा काये संतिष्ठते / भोजनगुरुको भवति बह्वर्थो बहुकृत्यो गणसंनिपातबहुलो भवति / कर्मारामो वा भाष्यारामो वा निद्रारामः सङ्गणिकारामः संसर्गारामः प्रपञ्चारामः / आत्मसंप्रग्राहकश् चपलः प्रमत्तः कुदेशवासी वा / इत्य् एवंभागीया अन्तराया अध्यात्मम् उपादाय वेदितव्याः //
(i)-c-iil-11-a-(2) ms.60b6m, sh.144-21, p.69b5, d.58b7, n.61b3, co.63a2, ch.419c29 बहिर्धोपादायान्तरायाः कतमे / यथापि तद् असत्पुरुषापाश्रयः, यतो न लभते कालेन कालम् आनुलोमिकीम् अववादानुशासनीं, कुदेशे वा वसति / यत्रास्य वासं कल्पयतो दिवा वौविलको भवति प्रभूतः, रात्रौ वोच्चशब्दो महाशब्दो महाजनकायस्य निर्घोसः / तीव्रकटुकश् च वातातपसंस्पर्शो मनुष्याद् अमनुष्याद् अपि भयम् / अयम् एवंभागीयो बहिर्धोपादायान्तरायो वेदितव्यः / अयं तावद् विस्तरविभागः //
(i)-c-iil-11-b ms.60b7m, sh.145-8, w/80-14, p.69b8, d.59a3, n.61b6, c0.63a4, ch.420a7 samāsārthaḥ punaḥ katamaḥ / samāsatas trividho 'ntarāyaḥ / prayogāntarāyaḥ prāvivekyāntarāyaḥ pratisaṃlayanāntarāyaś ca /
(i)-c-iil-11-b-(1) ms.61a1l, sh.145-11, p.70a1, d.59a3, n.61b6, co.63a5, ch.420a9 तत्र प्रयोगान्तरायः कतमः / येनान्तरायेण समवहितेन संमुखीभूतेनाशक्तो भवत्य् अप्रतिबलः सर्वेण सर्वं कुशलपक्षप्रयोगे /
स पुनः कतमः / यद् आबाधको भवति दुःखितो बाढग्लानः / (श्भ् इ 248) अभीक्ष्णम् अस्य वातो वा कुप्यते पित्तं व श्लेष्मं वा विषूचिका वास्य काये संतिष्ठते / अपि त्व् अस्य दशत्य् अहिर् वृश्चिको वा शतपदी वा मनुष्यो वैनं विहेठयत्य् अमनुष्यो वा / न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् / अयम् एवंभागीयः प्रयोगान्तरायो वेदितव्यः //
(i)-c-iil-11-b-(2) ms.61a2m, sh.145-21, p.70a5, d.59a6, n.62a1, co.63b1, ch.420a16 प्राविवेक्यान्तरायः कतमः / यद् भोजनगुरुको भवति / बह्वर्थो बहुकृत्यो बहुकरणीयः कर्मारामरतिं रतो भवति / तेषु तेष्व् इतिकरणीयेषु प्रसृतमानसः / भाष्यारामो भवति / शक्तः प्रतिबलः सन् प्राविवेक्ये प्रहाणे प्रतिसंलयने भावनायाम् उद्देशस्वाध्यायमात्रकेण संतुष्टः / निद्रारामो भवति / स्त्यानमिद्धपर्यवस्थितः कुसीदजातीयो निद्रासुखं पार्श्वसुखं शयनसुखं च स्वीकरोति / सङ्गणिकारामो भवति / सार्धं गृहस्थप्रव्रजितै राजकथां वा करोति, चोरकथां वान्नकथां वा पानकथां वा वस्त्रकथां वा वेश्याकथां वा वीथीकथां वा जनपदमहामात्राख्यानकथां वा लोकाख्यानकथां वा समुद्राख्यानकथां वा / इत्य् एवंभागीययानर्थोपसंहितया कथया कालम् अतिनामयति /
तत्र चाभिरतो भवत्य् अभीक्ष्णञ् च गणसंनिपातबहुलो भवति / तेषु तेष्व् अधिकरणेषु व्याक्षिप्तमानसो भवति व्याकुलमानसः / (श्भ् इ 250) संसर्गारामो भवति / गृहस्थप्रव्रजितानाम् असमवहितानां च [म्थोङ् बर् ऽदोद् चिङ् / फ्रद् प र्नम्स् दङ् ऽब्रल् बर् मि ऽदोद् प दङ्] / प्रपञ्चारामो भवति / प्रपञ्चरतो ऽवक्रमणीयेषु पूर्वंगमः प्राविवेक्येषु निक्षिप्तधुरः / इम एवंभागीया धर्माः प्रविवेकान्तरायो वेदितव्यः / यैः समवहितैः संमुखीभूतैर् न सुकरं भवत्य् अरण्यवनप्रस्थानि प्रान्तानि शयनासनान्य् अध्यावसितुम्, अरण्यानि वा वृक्षमूलानि वा शून्यागाराणि वा //
(i)-c-iii-11-b-(3) ms.61a6m, sh.147-2, p.70b6, d.59b5, n.62b2, co.63b7, ch.420b5 प्रतिसंलयनान्तरायः कतमः / तद्यथा प्रतिसंलयनम् उच्यते शमथो विपश्यना च / तत्रास्ति शमथान्तरायः, अस्ति विपश्यनान्तरायः //
(i)-c-iil-11-b-(3)-i ms.61b1l, sh.147-4, p.70b7, d.59b6, n.62b2, co.64a1, ch.420b7 तत्र शमथान्तरायः कतमः / प्रमादो ऽदेशवासश् च / यथास्य प्रमत्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति, शमथमात्रं वास्वादयति, लीनत्वाय वा चित्तम् उपनामयति, अन्धकारायितत्वं वा चेतसो भवति / यद्रूपेण चादेशवासेन मनुष्यकृतो वामनुष्यकृतो वा परतः संघट्टो भवति / येनास्य चित्तं बहिर्धा विक्षिप्यते / अयं शमथान्तरायः प्रतिसंलयनान्तरायो वेदितव्यः //
(i)-c-iil-11-b-(3)-ii ms.61b2l, sh.147-12, p.71a2, d.60a1, n.62b5, co.64a4, ch.420b13 विपश्यनान्तरायः कतमः / यदुतात्मसंप्रग्राहश् चापल्यं च //
(i)-c-iil-11-b-(3)-ii-(a) ms.61b2m, sh.147-14, p.71a2, d.60a1, n.62b5, co.64a4, ch.420b14 तत्रात्मसंप्रग्रहो यथापि तद् "अहम् अस्त्य् उच्चकुलः प्रव्रजितो ऽलीनः, अन्ये च भिक्षवो न तथे"त्य् आत्मानम् उत्कर्षयति संप्रगृह्णाति, परांश् च पंसयति / एवम् "आध्यकुलप्रव्रजितो ऽदीनः", एवम् "अभिरूपो दर्शनीयः प्रासादिकः", एवं "बहुश्रुतः श्रुताधारः श्रुतसंनिचयः", एवम् "अहम् अस्मि कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथे"त्य् आत्मानम् उत्कर्षयति संप्रगृह्णाति, परांश् च पंसयति /
स आत्मानं संप्रगृह्णान् ये ते भवन्ति भिक्षवः स्थविरा रात्रिज्ञा अभ्यवचीर्णब्रह्मचर्यास् तान् न कालेन कालं परिपृच्छति परिप्रश्नी करोति / ते चास्य न कालेन कालम् अविवृतानि च स्थानानि विवृण्वन्ति, विवृतानि च स्थानान्य् उत्तानीकुर्वन्ति, न च गम्भीरम् अर्थपदं साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावद् एव ज्ञानदर्शनस्य विशुद्धये / एवमस्य स आत्मसंप्रग्रह आन्तरायिको भवति यदुत विपश्यनायाः /
पुनर् अपरम् अल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति / स तेन ज्ञानमात्रकेण दर्शनमात्रकेण (श्भ् इ 254) स्पर्शविहारमात्रकेणात्मानम् उत्कर्षयति संप्रगृह्णाति / स आत्मानं संप्रगृह्णंस् तावता संतुष्टो भवति, नोत्तरि व्यायच्छते / एवम् अस्यान्तरायः कृतो भवत्य् आत्मसंप्रग्रहेण यदुत विपश्यनायाः //
(i)-c-iil-11-b-(3)-ii-(b) ms.61b6m, sh.148-13, p.71b3, d.60b1, n.63a5, co.64b4, ch.420b29 चपलो वा पुनर् अनुपशान्तेन्द्रियो भवत्य् उद्धतेन्द्रिय उन्नतेन्द्रियः / स दूषितचित्ती भवति दुर्भाषितभाषी दुष्कृतकर्मकारी, न स्थिरं धर्मांश् चिन्तयति, न दृढं चिन्तयति / येन विपश्यनां न पूरयति न विशोधयति / एवम् अस्य चापल्यम् अन्तरायो भवति यदुत विपश्यनाया इति //
(i)-c-iil-11-b-(3)-iii ms.62a1m, sh.148-20, w.*80-19, p.71b6, d.60b3, n.63a7, co.64b6, ch.420c5 द्वौ धर्मौ शमथान्तरायौ / यदुत प्रमादो ऽदेशवासश् च / द्वौ धर्मौ विपश्यनान्तरायौ / यदुतात्मसंप्रग्रहश् चापल्यम् च /
इति यश् च शमथान्तरायः / यश् च विपश्यनान्तरायः / अयम् उच्यते प्रतिसंलयनान्तरायः /
अयं च पुनर् अन्तरायस्य समासार्थ इति //
(i)-c-iil-11-c ms.62a2l, sh.149-2, p.71b8, d.60b4, n.63b1, co.64b7, ch.420c9 यश् चायं समासार्थो यश् च पूर्वको विस्तरविभागस् तद् एकध्यम् अभिसंक्षिप्यान्तराय इत्य् उच्यते / अस्य चान्तरायस्य विपर्ययेणानन्तरायो (श्भ् इ 256) वेदितव्य इति / य एषाम् अन्तरायाणाम् अभावो विगमो ऽसङ्गतिर् असमवधनम् / अयम् उच्यते ऽनन्तरायः //
(i)-c-iil-12-a ms.62a3l, sh.149-8, w.*80-30, p.72a2, d.60b5, n.63b3, co.65a1, ch.420c11 त्यागः कतमः / यद् दानम् अनवद्यं चित्तालंकारार्थं चित्तपरिष्कारार्थं योगसंभारार्थम् उत्तमार्थस्य प्राप्तये ददाति /
तत्र को ददाति / कुत्र ददाति / किं ददाति / केन ददाति / कथं ददाति / कस्माद् ददाति / येनास्य दानम् अनवद्यं भवति //
(i)-c-iil-12-a-(1) ms.62a3l, sh.151-1, p.72a4, d.60b7, n.63b4, co.65a3, ch.420c16 आह / दाता दानपतिर् ददाति / तत्र कतमो दाता कतमो दानपतिः / यः स्वैर् एव पाणिभिर् ददाति, अयम् उच्यते दाता / यस्य स्वकं दीयते तच् च दातुकामस्य नादातुकामस्य, अयम् उच्यते दानपतिः //
(i)-c-iil-12-a-(2) ms.62a3l, sh.151-5, w.*81-4, p.72a5, d.61a1, n.63b6, co.65a4, ch.420c18 tatra kutra dadāti / āha / caturṣu dadāti / duḥkhitāya, wpakāriṇe, iṣṭāya, viśiṣṭāya ca /
(i)-c-iil-12-a-(2)-i ms.62a4r, sh.151-7, p.72a6, d.61a2, n.63b6, co.65a5, ch.420c19 तत्र दुःखितायेति / कृपणा वा, वनीयका वा, अध्वगा वा, याचनका (श्भ् इ 258) वा, अन्धा व, बधिरा वा, अनाथा वा, अप्रतिसरणा वा, उपकरणविकला इति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः / इम उच्यन्ते दुःखिताः //
(i)-c-iil-12-a-(2)-ii ms.62a4r, sh.151-11, p.72a8, d.61a3, n.64a1, co.65a6, ch.420c23 उपकारिणः कतमे / तद्यथा मातापितरम्, आपायकं, पोषकम्, संवर्धकम् इति / ये वा पुनर् अटवीकान्तराद् उत्तारयन्ति, दुर्भिक्षाद् वा, परचक्रभयाद् वा, बन्धनाद् वा, आबाधाद् वा / हितोपदेशकाश् चास्य भवन्ति, सुखोपदेशका हितसुखोपसंहारकाः, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः सहनन्दिनः सहशोकाः, आपत्सु चैनं न परित्यजन्तीति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः / इम उच्यन्त उपकारिणः //
(i)-c-iil-12-a-(2)-iii ms.62a6r, sh.151-19, p.72b4, d.61a5, n.64a3, co.65b1, ch.421a1 इष्टाः कतमे / ये संस्तुताः, येषाम् अस्यान्तिके भवति प्रेम वा गौरवं वा / भक्तिवादो वा अलप्तकाः संस्तुतकाः सप्रियकाश् च भवन्तीति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः / इम उच्यन्त इष्टाः //
(i)-c-iil-12-a-(2)-iv ms.62a7m, sh.151-23, p.72b5, d.61a7, n.64a4, co.65b2, ch.421a4 विशिष्टाः कतमे / ते श्रमणब्राह्मणाः {म्स् श्रवण-}, साधुरूप संमताः, अव्याबाध्याः, अव्याबाध्यरताः, विगतरागाः, रागविनयाय प्रतिपन्नाः, विगतद्वेषाः, द्वेषविनयाय प्रतिपन्नाः, विगतमोहाः, मोहविनयाय प्रतिपन्ना इति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः इम उच्यन्ते विशिष्टाः //
(i)-c-iil-12-a-(3) ms.62b1l, sh.152-6, w.*81-10, p.72b8, d.61b1, n.64a6, co.65b4, ch.421a9 तत्र किं ददातीत्य् आह / समासतः सत्त्वसंख्यातम् असत्त्वसंख्यातं च वस्तु ददाति /
(i)-c-iil-12-a-(3)-i ms.62b1m, sh.152-8, p.72b8, d.61b2, n.64a7, co.65b5, ch.421a11 तत्र सत्त्वसंख्यातं वस्तु कतमत् / तद्यथा पुत्रदारं दासीदासकर्मकरपौरुषेयं हस्त्यश्वगवेडककुक्कुटस्त्रीपुरुषदारकदारिकम् इति / यद् वा पुनर् अन्यद् अप्य् एवंभागीयं वस्तु / अध्यात्मं वा पुनर् उपादाय करचरणशिरोमांसरुधिरवसादीन्य् अनुप्रयच्छति / इदम् अपि सत्त्वसंख्यातं दानं यत्र बोधिसत्त्वबोधाः संदृश्यन्ते / अस्मिंस् त्व् अर्थे नेदं दानम् अभिप्रेतम् / येषु तु सत्त्वेष्व् अस्यैश्वर्यं भवति, वशिता च प्रभविष्णुता च, अर्हति च तान् सत्त्वान् परेषां प्रतिपादयितुम् / प्रतिपादयंश् चात्मानम् अनवद्यं करोति / न तद्धेतोस् तत्प्रत्ययं परे मनांसि प्रदूषयन्ति / ये च सत्त्वाः परेषु प्रतिपादितास् ते न व्यापादिता भवन्ति /
इदम् उच्यते नवद्यम् सत्त्वसंख्यातवस्तुदानम् //
(i)-c-iil-12-a-(3)-ii ms.62b3r, sh.152-21, p.73a6, d.61b6, n.64b4, co.66a2, ch.421a21 असत्त्वसंख्यातं वस्तु कतमत् / तद्यथा धनवस्तु धान्यवस्तु देशवस्तु //
(i)-c-iil-12-a-(3)-ii-(a) ms.62b4l, sh.153-2, p.73a6, d.61b6, n.64b4, co.66a2, ch.421a23 तत्र धनवस्तु कतमत् / तद्यथा मणिमुक्तावैदूर्यशंखशिलाप्रवाडाश्मगर्भमुसारगल्वजातरूपरजतलोहितिकादक्षिणावर्तम् इति / यद् वा पुनर् अन्यद् अप्य् एवंभागीयं रत्नं वा हिरण्यं वा रूप्यं वा वस्त्रं वा भाण्डोपस्करं वा गन्धजातं वा माल्यजातं वा / इदम् उच्यते धनवस्तुस् //
(i)-c-iil-12-a-(3)-ii-(b) ms.62b5l, sh.153-8, p.73b1, d.62a1, n.64b6, चो. 66अ4, ch.421a27 धान्यं कतमत् / यत् किंचिद् भोज्यं वा पेयं वा / तद्यथा यवा वा, शालिर् वा, गोधूमा वा, कोला वा, कुलत्था वा, तिला वा, माषा वा, इक्षुरसो वा, [दर् ब दङ्,] मृद्वीकारसो वेति / यद् वा पुनर् अन्यद् 9) अप्य् एवंभागीयम् / इदम् उच्यते धान्यम् //
(i)-c-iii-12-a-(3)-ii-(c) ms.62b6l, स्ह्. 153-13, p.73b2, d.62a2, n.64b7, co.66a5, ch.421 ब्1 देशवस्तु कतमत् / तद्यथा क्षेत्रवस्तु, गृहवस्तु, आपणवस्तु, पुण्यशालाविहारप्रतिष्ठापनम् इति / यद् वा पुनर् अन्यद् अप्य् एवंभागीयम् / इदम् उच्यते देशवस्तु /
तत्र यच् च सत्त्वासत्त्वसंख्यातं वस्तु, इदं ददातीति //
(i)-c-iil-12-a-(4) ms.62b6r, sh.153-18, p.73b4, d.62a4, n.65a2, co.66a7, ch.421b5 केन ददातीति / या चालोभसहगता चेतना चित्ताभिसंस्कारो मनस्कर्म / यच् च तत्समुत्थापितं कायकर्म वाक्कर्म देयवस्तुपरित्यागाय स्वसन्ताने वा परसन्ताने वा / अनेन ददाति //
(i)-c-iil-12-a-(5) ms.62b7r, sh.154-1, p.73b6, d.62a5, n.65a3, co.66b1, ch.421b7 तत्र कथं ददातीति / श्रद्धया ददाति / आगमदृष्टिः फलदर्शी (श्भ् इ 266) सत्कृत्य ददाति / प्रणतचित्तः स्वहस्तं ददात्य् अनपविद्धम् / कालेन ददाति यथैतत् परेषाम् उपयोग्यं स्यात् / परान् अनुपहत्य ददाति / धर्मेण समयेनासाहसेन समुदानयित्वा शुचि ददाति / प्रणीतं कल्पिकं ददाति / येन न परे सावद्या भवन्ति, नात्मा / अभीक्ष्णं ददाति / विनीय मात्सर्यमलं संनिधिमलं च दानं ददाति / पूर्वम् एव दानात् सुमना ददंश् चित्तं प्रसादयति दत्त्वा चाविप्रतिसारी भवति / एवं ददाति //
(i)-c-iil-12-a-(6) ms.63a2l, sh.154-11, w.*81-16, p.74a3, d.62b1, n.65a7, co.66b4, ch.421b17 कस्माद् ददाति / आह / कारुण्याद् वा ददाति यदुत दुःखितेषु / कृतज्ञतया ददाति यदुतोपकारिषु / प्रेम्णा गौरवेण भक्त्या ददाति यदुतेष्टेषु / इऔकिकलोकोत्तरविशेषप्रार्थनया ददाति यदुत विशिष्टेषु / तस्माद् ददातीत्य् उच्यते //
(i)-c-iil-12-b ms.63a3l, sh.154-16, p.74a5, d.62b3, n.65b1, co.66b6, ch.421b21 एभिर् आकारैर् अतो ऽस्य गृहिणो वा प्रव्रजितस्य वा चित्तालंकारार्थं चित्तपरिष्कारार्थं योगसंभारार्थम् उत्तमार्थस्य प्राप्तये तद् दानम्, अनवद्यं भवति /
अयम् उच्यते त्यागः //
(i)-c-iil-13-a म्स्. 63अम्3,स्ह्. 155-1, w.*81-26, p.74a7, d.62b4,n.65b3,co.66b7,ch.421b25 श्रमणालंकारः कतमः / तद्यथैकत्यः श्राद्धो भवति, अशठः, अल्पाबाधः, आरब्धवीर्यजातीयः, प्राज्ञः, अल्पेच्छः, संतुष्टः, सुपोषः, सुभरः, धुतगुणसमन्वागतः, प्रासादिकः, मात्रज्ञः, सत्पुरुषधर्मसमन्वागतः, पण्डितलिङ्गसमन्वागतः, क्षमः, सूरतः, पेशलश् च भवति //
(i)-c-iil-13-a-(1) ms.63am4,स्ह्. 155-8, p.74b1, d.62b5, n.65b4, co.67a2, ch.421c5 कथं श्राद्धो भवति / प्रसादबहुलो भवति, अवकल्पनाबहुलः, विमुक्तिबहुलः, छन्दिकश् च कुशलेषु धर्मेषु / स शास्तरि प्रसीदति, न काङ्क्षति, न विचिकित्सति / शास्तारं सत्करोति, गुरुकरोति, मानयति, पूजयति / सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरति / यथा शास्तर्य् एवं धर्मे सब्रह्मचारिषु शिक्षायाम् अववादानुशासन्यां प्रतिसंस्तरे ऽप्रमादे समाधौ / एवं श्राद्धो भवति //
(i)-c-iil-13-a-(2) ms.63a5r,sh.155-16, p.74b5, d.63a1, n.65b7, co.67a5, ch.421c12 कथम् अशठो भवति / ऋजुको भवति, ऋजुकजातीयः / यथाभूतम् आत्मानम् आविष्कर्ता भवति, शास्तुर् अन्तिके विज्ञानां च सब्रमचारिणाम् / एवम् अशठो भवति //
(i)-c-iil-13-a-(3) ms.63a6m,स्ह्. 156-3, p.74b6, d.63a2, n.66a1, co.67a6, ch.421c14 कथम् अल्पाबाधो भवति / अरोगजातीयः समया पाचन्या ग्रहण्या समन्वागतो भवति, नात्युष्णया, नातिशीतया, अव्याबाधया, ऋतुसुखया/ ययास्याशितपीतखादितास्वादितानि सम्यक् सुखेन परिपाकं गच्छन्ति / एवम् अल्पाबाधो भवति //
(i)-c-iil-13-a-(4) ms.63a7l,स्ह्. 156-8, p.74b8, d.63a3, n.66a2, co.67a7, ch.421c18 कथम् आरब्धवीर्यजातीयो भवति / स्थामवान् विहरति, वीर्यवान्, उत्साही, दृढपराक्रमः, अनिक्षिप्तधुरः कुशलेषु धर्मेषु / दक्षश् च भवति, अनलसः, उत्थानसंपन्नः / कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यम् / एवम् आरब्धवीर्यजातीयो भवति //
(i)-c-iil-13-a-(5) ms.63b1l,sh.156-13, p.75a2, d.63a4, n.66a4, co.67b2, ch.421c22 कथं प्राज्ञो भवति / मेधास्मृतिबुद्धिसंपन्नो भवति / अधन्धेन्द्रियः, अमूढेन्द्रियः, अनेडकः, अहस्तसंवाचिकः प्रतिबलः सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुम् इति / सहजयापि बुद्ध्या (श्भ् इ 272) समन्वागतो भवति / प्रायोगिकयापि बुद्ध्या समन्वागतो भवति / एवं प्राज्ञो भवति //
(i)-c-iil-13-a-(6) ms.63b1r,sh.156-19, p.75a4, d.63a6, n.66a6, co.67b3, ch.421c26 कथम् अल्पेच्छो भवति / यावद्भिर् गुणैः समन्वागतो भवत्य् अल्पेच्छताम् आदिं कृत्वा, तैः परतो ज्ञातुं न समन्वेषते, कश्चिन् मे परे न जानीयुः, "अल्पेच्छ" इति वा, "एवंगुणयुक्त" इति / एवम् अल्पेच्छो भवति //
(i)-c-iil-13-a-(7) ms.63b2m,स्ह्. 157-1, p.75a6, d.63a7, n.66a7, co.67b5, ch.421c28 कथं संतुष्टो भवति / इतरेतरेण चीवरपिण्डपातेन शयनासनेन तुष्टो भवति, संतुष्टः / सो ऽलब्ध्वा चीवरं लूहं वा प्रणीतं वा नोत्कण्ठति, न परितस्यति / लब्ध्वा च पुनर् अरक्तः परिभुङ्क्ते ऽसक्त इति विस्तरेण पूर्ववत् / यथा चीवरम् एवं पिण्डपातः शयनासनम् / एवं संतुष्टो भवति //
(i)-c-iil-13-a-(8) ms.63b3m,स्ह्. 157-7, p.75a8, d.63b2, n.66b2, co.67b6, ch.422a5 कथं सुपोषो भव्ति / आत्मास्यैकः पोष्यो भवति / न तु परे, तद्यथा दारका वा मनुष्या वेति, ये वा पुनर् अन्ये ऽपि के चिद् / येषाम् अर्थाय यान् पर्येष्टिम् आपद्येत, परे चैनं दायकदानपतयो दुष्पोष्यम् इति पश्येरन् / एवं सुपोषो भवति //
(i)-c-iil-13-a-(9) ms.63b4l,sh.157-12, p.75b2, d.63b3, n.66b3, co.68a1, ch.422a7 कथं सुभरो भवति / अल्पेनापि यापयति / लूहेनापि यापयति / एवं सुभरो भवति //
(i)-c-iil-13-a-(10) ms.63b4m,sh.157-14, w.* 82-1, p.75b3, d.63b3, n.66b4, co.68a1, ch.422a9 kathaṃ dhutaguṇasamanvāgato bhavati / prāptapiṇḍapātiko bhavati, sāvadānapiṇḍapātikaḥ / ekāsanikaḥ / khalupaścādbhaktikaḥ / traicīvarikaḥ / nāmatikaḥ / pāṃsukūlikaḥ / āraṇyakaḥ / vṛkṣamūlikaḥ / ābhyavakāśikaḥ / śmāśānikaḥ / naiṣadyikaḥ / )yāthāsaṃstarikaḥ / ta ete piṇḍapātaṃ cīvaraṃ śayanāsanam ārabhya dvādaśakā dhutaguṇā bhavanti trayodaśakā vā /
तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति, प्राप्तपिण्डपातिकः सावदानपिण्डपातिकश् च //
(i)-c-iil-13-a-(10)-i म्स्.-,स्ह्. 158-7, p.75b5, d.63b6, n.66b6, co.68a4, ch.422a15 तत्र प्राप्तपिण्डपातिकः कतमः / [ऽद्रिस् पऽइ ख्यिम् दग् नस्] यथालब्धं यथोपसंपन्नं पिण्डपातं परिभुङ्क्ते //
(i)-c-iil-13-a-(10)-ii ms.63b5r, sh.158-7,w.*82-13,p.75b7,d.63b6, n.66b7,co.68a4,ch.422a 17 सावदानपिण्डपातिकः कतमः / वेश्मानुवेश्य कुलानि भिक्षित्वा पर्यटित्वा यथालब्धं यथोपसंपन्नं पिण्डपातं परिभुङ्क्ते / नो त्व् उच्चैः शुण्डां प्रणिधाय कुलान्य् उपसंक्रामति / "अतो ऽहं लप्स्ये प्रणीतं खादनीयम् भोजनीयं यावदाप्तम्" /
तत्र पिण्डपातिकत्वम् अविशेषेणारभ्य द्वादश भवन्ति प्रभेदं पुनर् आरभ्य त्रयोदश //
(i)-c-iil-13-a-(10)-iii ms.63b6r, sh.158-14, p.76a1, d.64a1, n.67a2, co.68a6, ch.422a21 तत्रैकासनिकत्वं कतमत् / एकस्मिन्न् आसने निषण्णो यावत् परिभोक्तव्यं तावत् परिभुङ्क्ते / व्युत्थितश् च पुनस् तस्माद् आसनान् न परिभुङ्क्ते / इदम् उच्यते एकासनिकत्वम् //
(i)-c-iil-13-a-(10)-iv ms.63b7m,sh.158-18, p.76a2, d.64a2, n.67a3, co.68a7, ch.422a23 खलुपश्चाद्भक्तिकत्वं कतमत् / भोजनार्थं निषण्णस् तावन् न परिभुङ्क्ते, यावत् सर्वभोजनं प्रतीच्छति, यावता जानाति शक्ष्यामि यापयितुम् / यतश् च पुनर् जानीते "न मे ऽत उत्तरि भोजनेन कृत्यं (श्भ् इ 278) भविष्यती"ति, ततः सर्वं परिगृह्यारभते परिभोक्तुम् / एवं खलुपश्चाद्भक्तिको भवति //
(i)-c-iil-13-a-(10)-v ms.64a1m,sh.159-2, p.76a4, d.64a3, n.67a4, co.68b1, ch.422a28 कथं त्रैचीवरिको भवति / त्रिभिश् च चीवरैर् यापयति, सांघाटिना, उत्तरासंगेन, अन्तर्वासेन च / त्रयाणां चीवराणाम् अतिरेकम् उत्तरं न धारयति / एवं त्रैचीवरिको भवति //
(i)-c-iil-13-a-(10)-vi ms.64a1r,sh.159-6, p.76a5, d.64a5, n.67a6, co.68b2, ch.422b2 कथं नामतिको भवति / यत् किंचिच् चीवरं धारयति त्रिचीवरं वा, अतिरेकचीवरं वा / सर्वं तद् और्णिकं धारयति / न त्व् अन्यत् / एवं नामतिकं धारयति //
(i)-c-iil-13-a-(10)-vii ms.64a2m,sh.159-10, p.76a6, d.64a5, n.67a6, co.68b3, ch.422b5 कथं पांसुकूलिको भवति / यच् चीवरं परैर् मुक्तं भवत्य् उच्छिष्टं छोरितं रथ्यायां वा, वीथ्यां वा, चत्वरे वा, श्र्ङ्गाटके वा, पथि वा, उत्पथे वा, उच्चारसंसृष्टं वा प्रस्रावसंसृष्टं वा, उच्चारप्रस्रावपूयरुधिरखेटप्रक्षितं वा / ततो यद् अशुचि तद् अपनीय, सारम् आदाय, शोधयित्वा सीवित्वा विवर्णीकृत्य धारयति / एवं पांसुकूलिको भवति //
(i)-c-iil-13-a-(10)-viii ms.64a3m,sh.159-17, p.76b1, d.64a6, n.67b1, co.68b5, ch.422b9 कथम् आरण्यको भवति / अरण्यवनप्रस्थानि प्रान्तानि शयनासनान्य् अध्यावसति, यानि व्यवकृष्टानि ग्रामनिगमानाम् / एवम् आरण्यको भवति //
(i)-c-iil-13-a-(10)-ix ms.64a3r,स्ह्. 159-20, p.76b2, d.64a7, n.67b1, co.68b6, ch.422b12 कथं वृक्षमूलिको भवति / वृक्षमूले वासं कल्पयति वृक्षमूलं निश्रित्य / एवं वृक्समूलिको भवति //
(i)-c-iil-13-a-(10)-x ms.64a[मर्गिन्],स्ह्. 160-3, p.76b3, d.64b1, n.67b2, co.68b6, ch.422b14 कथम् आभ्यवकाशिको भवति / अभ्यवकाशे वासं कल्पयति, अनवच्छन्ने विवृते देशे / एवम् आभ्यवकाशिको भवति //
(i)-c-iil-13-a-(10)-xi ms.64a[मर्गिन्],स्ह्. 160-6, p.76b3, d.64b1, n.67b3, co.68b7, ch.422b15 कथं श्माशानिको भवति / श्मशाने वासं कल्पयति, यत्र मृतमृतो जनकायो ऽभिनिर्ह्रियते / एवं श्माशानिको भवति //
(i)-c-iil-13-a-(10)-xii ms.64a4l,स्ह्. 160-9, p.76b4, d.64b2, n.67b3, co.68b7, ch.422b17 कथं नैषद्यिको भवति / मञ्चे वा पीठे वा तृणसंस्तरे वा निषद्यया कालम् अतिनामयति / नो तु मञ्चं वा पीठं वा कुड्यं वा वृक्षमूलं वा तृणसंस्तरं वा निश्रित्य पृष्ठं वा पार्श्वं वा ददाति / एवं नैषद्यिको भवति //
(i)-c-iil-13-a-(10)-xiii ms.64a5l,sh.160-15, p.76b5, d.64b3, n.67b4, co.69a1, ch.422b21 कथं याथासंस्तरिको भवति / यस्मिन् तृणसंस्तरे वा पर्णसंस्तरे वा शय्यां कल्पयति / तृणसंस्तरं वा पर्णसंस्तरं वा सकृद् यथैव संस्तृतं भवति तथैव शय्यां कल्पयति / नो तु पुनर् विकोपयत्य् अभिसंस्करोति च / एवं याथासंस्तरिको भवति //
(i)-c-iil-13-a-(10)-a ms.64a5r,sh.160-20,w.82-18,**82-29, p.76b7, d.64b4, n.67b5, co.69a2, ch.422b24 केनैते धुतगुणा उच्यन्ते / तद्यथा, ऊर्णा वा कर्पासं वा यस्मिन् समये धुतं भवति संकृत्तं विचूर्णं तस्मिन् समये मृदु च भवति लघु च कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा तूलाभिनिर्हारे वा /
एवम् एवेहैकत्यस्य पिण्डपातपातरागेण पिण्डपाते चित्तं सक्तं भवति संसक्तं, चीवररागेण चीवरे चित्तम् सक्तं भवति संसक्तम्, शयनासनरागेण शयनासने चित्तं सक्तं भवति संसक्तम् / स एभिर् धुतगुणैर् विशोधयत्य् ऋजूकरोति, मृदु कर्मण्यम् आर्जवम् आस्रवं विधेयम्, यदुत ब्रह्मचर्यवासाय /
तेनोच्यन्ते धुतगुणा इति //
(i)-c-iil-13-a-(10)-b ms.64b2m, sh.161-9,p.77a3, d.64b7, n.68a2, co.69a5, ch.422c4 तत्र पिण्डपातरागो द्विविधो ऽन्तरायः / प्रणितभोजनरागः प्रभूतभोजनरागश् च / तत्र प्रणीतभोजनरागस्य प्रहाणाय पिण्डपातिकः / प्रभूतभोजनरागस्य प्रहाणायैकासनिकः खलुपश्चाद्भक्तिकश् च भवति /
चीवररागो त्रिविधो ऽन्तरायः / प्रभूतचीवररागश् चीवरे मृदुसंस्पर्शरागः प्रणीतचीवररागश् च / तत्र प्रभूतचीवररागस्य प्रहाणाय त्रैचीवरिको भवति / चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय नामतिको भवति / प्रणीतचीवररागस्य प्रहाणाय पांशुकूलिको भवति /
शयनासनरागश् चतुर्विधो ऽन्तरायः / तद्यथा संसर्गरागः, प्रतिश्रयरागः, पार्श्वसुखशयनसुखरागः, आस्तरणप्रत्यास्तरणोपच्छादनरागः / तत्र संसर्गरागस्य प्रहाणायारण्यको भवति / प्रतिश्रयरागस्य प्रहाणाय वृक्षमूलिक आभ्यवकाशिकः श्माशानिको भवति / अपि च श्माशानिकत्वं मिथुनरागस्य प्रहाणाय भवति / पार्श्वसुखशयनसुखरागस्य प्रहाणाय नैषद्यिको भवति / आस्तरणप्रत्यास्तरणोपच्छादनरागस्य प्रहाणाय याथासंस्तरिको भवति / एवं (श्भ् इ 286) धुतगुणसमन्वागतो भवति //
(i)-c-iil-13-a-(11) ms.64b5l, sh.162-7, p.77b3, d.65a5, n.68a7, co.69b4, ch.422c18 कथं प्रासादिको भवति / प्रासादिकेनाभिक्रमप्रतिक्रमेण समन्वागतो भवति, आलोकितव्यवलोकितेन संमिञ्जितप्रसारितेन सांघाटीचीवरपात्रधारणेन / एवं प्रासादिको भवति //
(i)-c-iil-13-a-(12) ms.64b5r,sh.162-11, p.77b4, d.65a6, n.68b1, co.69b5, ch.422c20 कथं मात्रज्ञो भवति / इह श्राद्धा ब्राह्मणगृहपतयो स्वर्थं प्रवारयन्ति, यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः / तत्र प्रतिग्रहे मात्रां जानाति एवं मात्रज्ञो भवति //
(i)-c-iil-13-a-(13) ms.65a1l,sh.162-15, p.77b6, d.65a7, n.68b3, co.69b6, ch.422c22 कथं सत्पुरुषधर्मसमन्वागतो भवति / उच्चकुलप्रव्रजितो वा सन्न् आढ्यकुलप्रव्रजितो वाभिरूपो वा दर्शनीयः प्रासादिको बहुश्रुतो वाक्करणेनोपेतः / अन्यतमान्यतमस्य वा ज्ञानमात्रकस्य दर्शनमात्रकस्पर्शविहारमात्रकस्य लाभी सन्न् एतेन नात्मानम् उत्कर्षयति परांश् च पंसयति / [छोस् दङ् र्जेस् सु म्थुन् पऽइ छोस् ऽबऽ źइग् ब्स्ग्रुब् पर् ब्य ब खो न यिन् पर् रिग् नस् /] नान्यत्र (श्भ् इ 288) धर्मानुधर्मप्रतिपन्नो भवति / एवं सत्पुरुषधर्मसमन्वागतो भवति //
(i)-c-iil-13-a-(14) ms.65a2m,sh.162-22, p.78a1, d.65b2, n.68b5, co.70a1, ch.422c28 कथं पण्डितलिङ्गसमन्वागतो भवति / कर्मलक्षणो बालः कर्मलक्षणः पण्डितः / यथा कथम् इति / बालो दुश्चिन्तितचिन्ती भवति, दुर्भाषितभासी दुष्कृतकर्मकारी / पण्डितः पुनः सुचिन्तितचिन्ती भवति, सुभाषितभाषी सुकृतकर्मकारी / एवं पण्डितलिङ्गसमन्वागतो भवति //
(i)-c-iil-13-a-(15) ms.65a3m,sh.163-6, p.78a4, d.65b4, n.68b7, co.70a3, ch.423a4 कथं क्षमो भवति / आक्रुष्टो न प्रत्याक्रोशति / रोषितो न प्रतिरोषयति / ताडितो न प्रतिताडयति / भण्डितो न प्रतिभण्डयति / स चायुष्मान् क्षमो भवति शीतस्योष्णस्य जिघत्सायाः पिपासाया दंशमशकवातातपसरीसृपसंस्पर्शाणाम्, परतो दुरुक्तानां दुरागतानां वचनपथानाम् / शारीरिकाणां वेदनानां दुःखानां तीव्राणां खराणां कटुकानाम् अमन-आपानां प्राणहारिणीनां क्षमो भवत्य् अधिवासनजातीयः / एवं क्षमो भवति //
(i)-c-iil-13-a-(16) ms.65a4r,sh.163-15, p.78a7, d.65b6, n.69a2, co.70a5, ch.423a9 कथम् सूरतो भवति / यथापि तन् मैत्रेण कायकर्मणा समन्वागतो भवति, मैत्रेण वाक्कर्मणा, मैत्रेण मनस्कर्मणा, शास्तुर् अन्तिके विज्ञानां च सब्रह्मचारिणाम् / साधारणपरिभोगी च भवति, अप्रतिभोगी च भवत्य् अप्रतिगुप्तभोजी, लाभैर् धार्मिकैर् धर्मप्रतिलब्धैः, (श्भ् इ 290) पात्रगतैः पात्रपर्यापन्नैः/ शीलसामान्यगतश् च भवति, दृष्टिसामान्यगतश् च / स एभिः षड्भिः संरञ्जनीयैर् धर्मैः समन्वागतः प्रियकरणैर् गुरुकरणैर् अविवादकरणैः, सुखसंवास्यो भवति, अविहेठनजातीयः / अभिनन्दन्ति चैनं विज्ञाः सब्रह्मचारिण एकव्यवसायम् / एवम् सूरतो भवति //
(i)-c-iil-13-a-(17) ms.65a6r,स्ह्. 164-3, p.78b3, d.66a2, n.69a5, co.70b5, ch.423a18 कथं पेशलो भवति / विगतभृकुटिर् भवत्य् उत्तानमुखवर्णः, स्मितपूर्वंगमः, पूर्वाभिभाषी, प्रियवादी, संग्रहशीलः, शुद्धसन्तानः / एवं पेशलो भवति //
(i)-c-iil-13-b ms.65a7m,स्ह्. 164-6, p.78b5, d.66a3, n.69a6, co.70b3, ch.423a20 स एभिर् धर्मैः समन्वागतो धर्मकामो भवति, गुणकामः / न इआभसत्कारकीर्तिश्लोककामः / न समारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति, नाप्य् अपवादिकया / असन्तं धर्मं न समारोपयति / सन्तं धर्मं नापवदति / स "यत् तद् भवति कवितं कावेयं चित्राक्षरं चिह्नपदव्यञ्जनं लोकायतप्रतिसंयुक्तम्, तन् निरर्थकम्" इति विदित्वा, आरात् परिवर्जयति, न तेनेयते, न तेन प्रीयते /
न चोत्सदं पात्रचीवरं धारयति / गृहस्थैः सार्धं संसर्गं परिवर्जयति क्लेशवर्धनम् / आर्यैः सह संसर्गं करोति ज्ञानविशोधकम् / न च मित्रकुलानि करोति प्रतिगृह्णाति / "मा मे ततो निदानं भविष्यत्य् अनेकपर्यायेण व्याक्षेपाद् व्यापारो वा तेषां वा पुनर् विपरिणामाद् अन्यथीभावाद् उत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा" इति /
उत्पन्नोत्पन्नांश् च क्लेशोपक्लेशान् नाधिवासयति, प्रजहति, विनोदयति, व्यन्तीकरोति / "मा मे ऽतोनिदानम् उत्पद्यते दृष्टधार्मिकं वा दुःखं सांपरायिकं वे"ति /
श्रद्धादेयं च न विनिपातयति, अच्युतशीलः, अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते / न च श्रद्धादेयं प्रतिक्षिपति / न शिक्षां प्रत्याख्याति /
आत्मदोषान्तरस्खलितगवेषी वा भवति / प्रतिच्छन्नकल्याणो विवृतपापकः / परदोषान्तरस्खलितेषु नाभोगः / संचिन्त्य चापत्तिर् नापद्यते जीवितहेतोर् अपि / आपन्नश् च लघु लघ्व् एव यथाधर्मं (श्भ् इ 294) प्रतिकरोति / इतिकरणीयेषु च दक्षो भवत्य् अनलसः स्वयंकारी / न परतः कायपरिचर्यां पर्येषते /
बुद्धानां च बुद्धश्रावकाणां चाचिन्त्यम् अनुभावं, गम्भीरां च देशनाम् अधिमुच्यते, न प्रतिक्षिपति, "तथागता एव जानकाः पश्यकाः, नाहम्" इति विदित्वा, न च स्वयंदृष्टिपरामर्शस्थायी भवत्य् असमञ्जसग्राही दुःप्रतिनिःसर्गमन्त्री /
स एभिर् गुणैर् युक्त एवंविहारी एवंशिक्षमाणः श्रमणालंकारेणालंकृतः शोभते / तद्यथा कश् चिद् एव पुरुषो युवा मण्डनजातीयः कामोपभोगी स्नातानुलिप्तो ऽवदातवस्त्रप्रावृतो विविधैर् भूषणैर् अलंकृतः शोभते, तद्यथा हर्षैर् वा केयूरैर् वाङ्गुलिमुद्रिकया वा जातरूपरजतमालया वा / एवम् एव स एभिर् विविधैः श्रमणालंकारैर् गुणैर् अलंकृतो भासते तपति विरोचते / तस्माच् छ्रमणालंकार इत्य् उच्यते / अयम् उच्यते श्रमणालंकारः //
// उद्दानम् //
श्राद्धाशठो ऽल्पाबाधवीर्यं प्रज्ञाल्पेच्छता संतुष्टिः / सुपोषता सुभरता धुतप्रासादिकमात्रता / सत्पुरुषः पण्डितलिङ्गं च क्षान्तिः सौरत्यपेशला // [1]
स्याद् आत्मपरसंपत्तिच्छन्दः शीलेन्द्रियस् तथा / भोजनं चैव जागर्या संप्रजानद्विहारिता // [2]
तथा कल्याणमित्रः सद्धर्मश्रवणचिन्तना / अनन्तरायस् त्यागश् च अलंकारेण पश्चिमः // [3]
लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च / तयोश् चैव हि संभारो भूमिर् नैष्क्रम्यसंज्ञिता // [4]
// योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानम् //
(ii)-a-i ms.66a2l, sh.169-1, w.83-13, p.80a2, d.67a4, n.70b2, co.71b2, ch.424a1 तत्र कति पुद्गला ये ऽस्यां नैष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्तितायां निष्क्रामन्ति / कथं च पुद्गलानां व्यवस्थानं भवति / कतमद् आलम्बनम् / कतमो ऽववादः / कतमा शिक्षा / कतमे शिक्षानुलोमिका धर्माः / कतमो योगभ्रंशः / कतमे योगाः / कतमो मनस्कारः / कतमद् योगकरणीयम् / कति योगाचाराः / कतमा योगभावना / कतमद् भावनाफलम् / कति पुद्गलपर्यायाः / कति माराः / कति मारकर्माणि / कथम् आरम्भो विफलो भवति //
(ii)-a-ii-1-a ms.66a3r, sh.169-14, w.84-1, p.80a7, d.67a7, n.70b5, co.71b7, ch.424a17 तत्र पुद्गला अष्टाविंशतिः / कतमे ऽष्टाविंशतिः / तद्यथा मृद्विन्द्रियः / तीक्ष्णेन्द्रियः / उत्सदरागः / उत्सदद्वेषः / उत्सदमोहः / उत्सदमानः / उत्सदवितर्कः / समप्राप्तः / मन्दरजस्कजातीयः / प्रतिपन्नकः / फलस्थः / श्रद्धानुसारी / धर्मानुसारी / श्रद्धाधिमुक्तः / दृष्टिप्राप्तः / कायसाक्षी / सप्तकृद्भवपरमः / कुलंकुलः / एकवीचिकः / अन्तरापरिनिर्वायी / उपपद्यपरिनिर्वायी / अनभिसंस्कारपरिनिर्वायी / साभिसंस्कारपरिनिर्वायी / ऊर्ध्वंस्रोता / (श्भ् इइ 4) समयविमुक्तः / अकोप्यधर्मा / प्रज्ञाविमुक्तः / उभयतोभागविमुक्तश् चेति //
(ii)-a-ii-1-a-(1) ms.66a5m, sh.170-7, p.80b4, d.67b4, n.71a2, co.72a4, ch.424a25 तत्र मृद्विन्द्रियः पुद्गलः कतमः / यस्य पुद्गलस्य मृदूनीन्द्रियाणि धन्धवाहीनि मन्दवाहीनि ज्ञेये वस्तुनीति पूर्ववत् / स पुनर् द्विविधो वेदितव्यः / आदित एव मृद्विन्द्रियगोत्रो परिभावितेन्द्रियश् च //
(ii)-a-ii-1-a-(2) ms.66a6l, sh.170-12, p.80b6, d.67b5, n.71a3, co.72a5, ch.424a28 तीक्ष्णेन्द्रियः पुद्गलः कतमः / यस्य पुद्गलस्य तीक्ष्णानीन्द्रियाण्य् अधन्धवाहीनि भवन्त्य् अमन्दवाहीनि ज्ञेये वस्तुनीति पूर्ववत् / स पुनर् द्विविधो वेदितव्यः / आदित एव तीक्ष्णेन्द्रियगोत्रः परिभावितेन्द्रियश् च //
(ii)-a-ii-1-a-(3) ms.66a6r, sh.170-17, p.80b7, d.67b6, n.71a5, co.72a6, ch.424b4 रागोत्सदः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु राग आसेवितो भावितो बहुलीकृतः, स तेन हेतुना तेन प्रत्ययेनैतर्हि रञ्जनीये वस्तुनि तीव्ररागश् च भवत्य् आयतरागश् च / अयम् उच्यते रागोत्सदः पुद्गलः //
(ii)-a-ii-1-a-(4) ms.66a7m, sh.171-1, p.81a1, d.67b7, n.71a6, co.72b1, ch.424b8 द्वेषोत्सदः पुद्गलः कतमः / येन पुद्गलेन द्वेषः पूर्वम् अन्यासु (श्भ् इइ 6) जातिष्व् आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश् च भवत्य् आयतद्वेषश् च / अयम् उच्यते द्वेषोत्सदः पुद्गलः //
(ii)-a-ii-1-a-(5) ms.66a8l, sh.171-6, p.81a3, d.68a1, n.71a7, co.72b2, ch.424b11 मोहोत्सदः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु मोह आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन प्रत्ययेनैतर्हि मोहनीये वस्तुनि तीव्रमोहश् च भवत्य् आयतमोहश् च / अयम् उच्यते मोहोत्सदः पुद्गलः //
(ii)-a-ii-1-a-(6) ms.66b1l, sh.171-11, p.81a5, d.68a3, n.71b2, co.72b3, ch.424b15 मानोत्सदः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु मान आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन च प्रत्ययेनैतर्हि मननीये वस्तुनि तीव्रमानश् च भवत्य् आयतमानश् च / अयम् उच्यते मानोत्सदः पुद्गलः//
(ii)-a-ii-1-a-(7) ms.66b1r, sh.171-16, p.81a7, d.68a4, n.71b3, co.72b4, ch.424b18 वितर्कोत्सदः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु वितर्क आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेनैव प्रत्ययेनैतर्हि वितर्कस्थानीये वस्तुनि तीव्रवितर्कश् च भवत्य् आयतवितर्कश् च / अयम् उच्यते वितर्कोत्सदः पुद्गलः //
(ii)-a-ii-1-a-(8) ms.66b2r, sh.171-21, p.81b1, d.68a5, n.71b4, co.72b6, ch.424b22 समप्राप्तः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु रागो द्वेषो मोहो मानो वितर्को नासेवितो भावितो बहुलीकृतः / न चैते धर्मा आदीनवतो दृष्टा विदूषिताः संतीरिताः / स तेन हेतुना तेन प्रत्ययेन रञ्जनीये वा वस्तुनि द्वेषणीये मोहनीये मन्यनीये वितर्कनीये न तीव्ररागो भवति नाप्य् आयतरागः / न चास्य न समुदाचरति रागो यदुत तेन वस्तुन / यथा राग एवं द्वेषो मोहो मानो वितर्कः / अयम् उच्यते समप्राप्तः पुद्गलः //
(ii)-a-ii-1-a-(9) ms.66b4l, sh.172-8, p.81b5, d.68b2, n.72a1, co.73a2, ch.424b29 मन्दरजस्कः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु न राग आसेवितो भावितो बहुलीकृतः / आदीनवतश् च बहुलं दृष्टो भवति विदूषितः संतीरितः / स तेन हेतुना तेन प्रत्ययेनैतर्हि रञ्जनीये वस्तुनि समवहिते संमुखीभूते ऽधिमात्रे प्रचुर उल्बणे धन्धं रागम् उत्पादयति / मध्ये परीत्ते नैवोत्पादयति / यथा राग एवं द्वेषो मोहो मानो वितर्को वेदितव्यः / अयम् उच्यते मन्दरजस्कः पुद्गलः //
(ii)-a-ii-1-a-(10) ms.66b5r, sh.172-17, p.82a1, d.68b4, n.72a3, co.73a5, ch.424c5 प्रतिपन्नकः पुद्गलः कतमः / आह / प्रतिपन्नकाः पुद्गलाश् चत्वारः / कतमे चत्वारः / तद्यथा स्रोत-आपत्तिफलप्रतिपन्नकः, सकृदागामिफलप्रतिपन्नकः, अनागामिफलप्रतिपन्नकः, अर्हत्त्वफलप्रतिपन्नकश् च / अयम् उच्यते प्रतिपन्नकः पुद्गलः //
(ii)-a-ii-1-a-(11) ms.66b6r, sh.173-2, p.82a3, d.68b5, n.72a5, co.73a6, ch.424c8 फलस्थः पुद्गलः कतमः / आह / स्रोत-आपन्नः, सकृदागामी, अनागामी, अर्हन् / अयम् उच्यते फलस्थः पुद्गलः //
(ii)-a-ii-1-a-(12) ms.66b7l, sh.175-1, p.82a5, d.68b7, n.72a6, co.73b1, ch.424c11 श्रद्धानुसारी पुद्गलः कतमः / यः पुद्गलः परतो ऽववादानुशासनीं पर्येषते / तद्बलेन च प्रतिपद्यते यदुत फलस्याधिगमाय / नो तूद्गृहीतेषु धर्मेषु पर्यवाप्तेषु चिन्तितेषु तुलितेषूपपरीक्षितेषु स्वयम् एव शक्तो भवति प्रतिबलस् तान् धर्मान् भावनाकारेणानुसर्तुम् / नान्यत्र पुद्गलानुसारिण्या श्रद्धया प्रतिपद्यते / तस्माच् छ्रद्धानुसारीत्य् उच्यते //
(ii)-a-ii-1-a-(13) ms.66b8m, sh.175-8, p.82a8, d.69a2, n.72b1, co.73b3, ch.424c16 धर्मानुसारी पुद्गलः कतमः / यः पुद्गलो यथाश्रुतेषु धर्मेषु पर्यवाप्तेषु चिन्तितेषु तुलितेषूपपरीक्षितेषु स्वयम् एव शक्तो भवति प्रतिबलस् तान् धर्मान् भावनाकारेणानुसर्तुम् / नो तु परतो ऽववादानुशासनीं पर्येषते, यदुत फलस्याधिगमाय / अयम् उच्यते धर्मानुसारी पुद्गलः //
(ii)-a-ii-1-a-(14) ms.67a1m, sh.175-14, p.82b2, d.69a3, n.72b3, co.73b4, ch.424c20 श्रद्धाधिमुक्तः पुद्गलः कतमः / आह / स एव श्रद्धानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलम् अधिगच्छति स्पर्शयति साक्षात्करोति परतो ऽववादानुशासनीम् आगम्य, तस्मिन् समये श्रद्धाधिमुक्त इत्य् उच्यते //
(ii)-a-ii-1-a-(15) ms.67a2l, sh.176-4, p.82b4, d.69a4, n.72b4, co.73b6, ch.424c23 दृष्टिप्राप्तः पुद्गलः कतमः / आह / स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलम् अधिगच्छति स्पर्शयति साक्षात्करोति परतो नाववादानुशासनीम् आगम्य, तस्मिन् समये दृष्टिप्राप्त इत्य् उच्यते //
(ii)-a-ii-1-a-(16) ms.67a2r, sh.177-3, p.82b5, d.69a5, n.72b5, co.73b7, ch.424c25 कायसाक्षी पुद्गलः कतमः / यो ऽयं पुद्गलो ऽनुलोमप्रतिलोमम् अष्टौ विमोक्षान् समापद्यते व्युत्तिष्ठते च / कायेन च साक्षात्कृत्य बहुलं विहरति / न च सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्नोति / अयम् उच्यते कायसाक्षी पुद्गलः //
(ii)-a-ii-1-a-(17) ms.67a3m, sh.177-8, w.84-25, p.82b7, d.69a7, n.72b7, co.74a1, ch.424c27 सप्तकृद्भवपरमः पुद्गलः कतमः / यो ऽयं पुद्गलस् त्रयाणाम् संयोजनानां प्रहाणात् सत्कायदृष्टेः शीलव्रतपरामर्शस्य विचिकित्सायाः स्रोत-आपन्नो भवति / अविनिपातधर्मा नियतः संबोधिपरायणः सप्तकृद्भवपरमः सप्तकृत्वो देवांश् च मनुष्यांश् च संधाव्य संसृत्य दुःखस्यान्तं करोति / अयम् उच्यते सप्तकृद्भवपरमः पुद्गलः //
(ii)-a-ii-1-a-(18) ms.67a4m, sh.178-1, p.83a2, d.69b2, n.73a2, co.74a3, ch.425a2 कुलंकुलः पुद्गलः कतमः / [स्म्रस् प / रिग्स् नस् रिग्स् सु स्क्ये ब नि ग्ञिस् ते / ल्हऽइ रिग्स् नस् रिग्स् सु स्क्ये ब दङ् / मिऽइ रिग्स् नस् रिग्स् सु स्क्ये बऽओ // दे ल ल्हऽइ रिग्स् नस् रिग्स् सु स्क्ये ब नि / ल्ह र्नम्स् क्यि रिग्स् नस् रिग्स् सु म्त्स्हम्स् स्ब्यर् źइङ् / ऽखोर् नस् स्दुग् ब्स्ङल् म्थर् ब्येद् प गङ् यिन् पऽओ / दे ल मिऽइ रिग्स् नस् रिग्स् सु स्क्ये ब नि / मि र्नम्स् क्यि रिग्स् नस् रिग्स् सु म्त्स्हम्स् स्ब्यर् źइङ् / ऽखोर् नस् स्दुग् ब्स्ङल् म्थर् ब्येद् प गङ् यिन् प स्ते] / उभाव् अपि स्रोत-आपन्नौ पुद्गलौ वेदितव्यौ //
(ii)-a-ii-1-a-(19) ms.67a4r, sh.178-3, p.83a5, d.69b4, n.73a4, co.74a6, ch.425a6 तत्रैकवीचिकः पुद्गलः कतमः / यस्य सकृदागामिनः पुद्गलस्यानागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानाम् अधिमात्रमध्यक्लेशाः प्रहीणा भवन्ति / मृदुकाश् चैके ऽवशिष्टा भवन्ति / सकृच् च कामावचरदेवभवम् अभिनिर्वर्त्य तत्रैव परिनिर्वाति / न पुनः सकृद् आगच्छतीमं लोकम् / अयम् उच्यत एकवीचिकः पुद्गलः //
(ii)-a-ii-1-a-(20) ms.67a5r, sh.178-10, p.83a7, d.69b5, n.73a6, co.74a7, ch.425a11 अन्तरापरिनिर्वायी पुद्गलः कतमः / आह / अन्तरापरिनिर्वायिणः पुद्गलास् त्रयः / एको ऽन्तरापरिनिर्वायी पुद्गलश् च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकाले ऽन्तराभवम् अभिनिर्वर्तयति / अभिनिर्वृत्ते समकालम् एव परिनिर्वाति / तद्यथा परीत्तः शकलिकाग्निर् उत्पन्न एव परिनिर्वाति /
द्वितीयो ऽन्तरापरिनिर्वायी पुद्गलो ऽन्तराभवम् अभिनिर्वर्तयति / अभिनिर्वृत्ते ऽन्तराभवे तत्रस्थ एव कालान्तरेण परिनिर्वाति / नो तु येनोपपत्तिभवस् तेनाद्याप्य् उपनतो भवति / तद्यथा, अयोगुडानां वायःस्थालानां वा दीप्ताग्निसंप्रतप्तानाम् अयोघनैर् हन्यमानानाम् अयःप्रपाटिकोत्पतत्य् एव परिनिर्वाति / तृतीयो ऽन्तरापरिनिर्वायी पुद्गलो ऽन्तराभवम् अभिनिर्वर्त्य येनोपपत्तिभवस् तेनोपनमति / उपनतश् च पुनर् अनुपपन्न एव परिनिर्वाति / तद्यथायस्प्रपाटिकोत्पत्य पृथिव्याम् अपतितैव परिनिर्वाति /
त इमे त्रयो ऽन्तरापरिनिर्वायिणः पुद्गला एकध्यम् अभिसंक्षिप्यान्तरापरिनिर्वायी पुद्गल इत्य् उच्यते //
(ii)-a-ii-1-a-(21) ms.67b2m, sh.180-13, p.83b7, d.70a4, n.73b5, co.74b6, ch.425a22 उपपद्यपरिनिर्वायी पुद्गलः कतमः / य उपपन्नमात्र एव परिनिर्वाति / अयम् उच्यत उपपद्यपरिनिर्वायी पुद्गलः //
(ii)-a-ii-1-a-(22) ms.67b2r, sh.180-15, p.84a1, d.70a5, n.73b6, co.74b7, ch.425a24 अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः / 13) यो ऽनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वाति / अयम् उच्यते ऽनभिसंस्कारपरिनिर्वायी पुद्गलः //
(ii)-a-ii-1-a-(23) ms.67b3l, sh.181-3, p.84a2, d.70a6, n.73b7, चो. 75अ1, ch.425a27 साभिसंस्कारपरिनिर्वायी पुद्गलः कतमः / यो ऽभिसंस्कारेण प्रयत्नेन खेदेन मार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वाति / अयम् उच्यते साभिसंस्कारपरिनिर्वायी पुद्गलः //
(ii)-a-ii-1-a-(24) ms.67b3r, sh.181-7, p.84a4, d.70a7, n.74a1, चो. 75अ3, ch.425a29 ऊर्ध्वंस्रोताः पुद्गलः कतमः / यः पुद्गलो ऽनागामी प्रथमे ध्यान उपपन्नः स न तत्रस्थ एव परिनिर्वाति / अपि तु तस्माच् च्यवित्वोत्तरोत्तरम् उपपत्त्यायतनम् अभिनिर्वर्तयन् यावद् अकनिष्ठान् वा देवान् गच्छति, नैवसंज्ञानासंज्ञायतनं वा / अयम् उच्यत ऊर्ध्वंस्रोताह् पुद्गलः //
(ii)-a-ii-1-a-(25) ms.67b4r, sh.182-6, p.84a6, d.70b2, n.74a3, चो. 75अ4, ch.425b5 समयविमुक्तः पुद्गलः कतमः / यो मृद्विन्द्रियगोत्रः पुद्गलो लौकिकेभ्यो दृष्टधर्मसुखविहारेभ्यः परिहीयते / चेतयति वा मरणाय / अनुरक्षते वा विमुक्तिम् / अत्यर्थाप्रमादचर्याम् अनुयुक्तो भवति, यदुतैताम् एवापरिहाणिम् अधिपतिं कृत्वा / तन्मात्रो वास्य कुशलपक्षो भवति, नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्तानाम् अत्ययाद् अत्यर्थं विशेषाय परैति / यावन् न तीव्रम् अभियोगं करोति / अयम् उच्यते समयविमुक्तः पुद्गलः //
(ii)-a-ii-1-a-(26) ms.67b6l, sh.183-1, p.84b2, d.70b4, n.74a6, चो. 75अ7, ch.425b11 अकोप्यधर्मा पुद्गलः कतमः / एतद्विपर्ययेणाकोप्यधर्मा पुद्गलो वेदितव्यः //
(ii)-a-ii-1-a-(27) ms.67b6m, sh.183-3, p.84b3, d.70b5, n.74a6, चो. 75अ7, ch.425b12 प्रज्ञाविमुक्तः पुद्गलः कतमः / यः पुद्गलः सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्नोति / नो त्व् अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति / अयम् उच्यते प्रज्ञाविमुक्तः पुद्गलः //
(ii)-a-ii-1-a-(28) ms.67b7l, sh.183-7, p.84b4, d.70b6, n.74b1, co.75b1, ch.425b15 उभयतोभागविमुक्तः पुद्गलः कतमः / यः पुद्गलः सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्नोति / अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति / तस्य क्लेशावरणाच् च चित्तं मुक्तं भवति, विमोक्षावरणाच् च / अयम् उच्यत उभयतोभागविमुक्तः पुद्गलः //
(ii)-a-ii-2-a ms.68a1m, sh.184-1, w.85-5, p.84b6, d.70b7, n.74b2, co.75b3, ch.425b20 पुद्गलव्यवस्थानं कतमत् / एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् / कतमैर् एकादशभिः / तद्यथा इन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन, प्रणिधानप्रभेदेन, प्रतिपत्प्रभेदेन, मार्गफलप्रभेदेन, प्रयोगप्रभेदेन, समापत्तिप्रभेदेन, उपपत्तिप्रभेदेन, परिहाणिप्रभेदेन, आवरणप्रभेदेन च //
-ii-2-a-(1) ms.68a2l, sh.184-7, p.85a1, d.71a2, n.74b4, co.75b5, ch.425b25 इन्द्रियप्रभेदेन तावत् / मृद्विन्द्रियतीक्ष्णेन्द्रियपुद्गलयोर् व्यवस्थानम् //
-ii-2-a-(2) ms.68a2l, स्ह्. 184-9, p.85a2, d.71a3, n.74b5, co.75b5, ch.425b27 निकायप्रभेदेन सप्तविधं पुद्गलव्यवस्थानम् / भिक्षुर् भिक्षुणी शिक्षमाणा श्रामणेरः श्रामणेर्य् उपासक उपासिका च //
-ii-2-a-(3) ms.68a2m, स्ह्. 184-12, p.85a3, d.71a3, n.74b6, co.75b6, ch.425c1 तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानम् / यो ऽयं रागोत्सदः पुद्गलः स रागचरितः / यो द्वेषोत्सदः स द्वेषचरितः / यो मोहोत्सदः स मोहचरितः / यो मानोत्सदः स मानचरितः / यो वितर्कोत्सदः स वितर्कचरितः / यः समप्राप्तः स समभागचरितः /
यो मन्दरजस्कः स मन्दचरितो वेदितव्यः //
-ii-2-a-(3)-i ms.68a3m, sh.185-1, p.85a6, d.71a5, n.75a1, co.76a1, ch.425c8 तत्र रागचरितस्य पुद्गलस्य कतमानि लिङ्गानि / इह रागचरितः पुद्गलः परीत्ते सर्वनिहीने रञ्जनीये वस्तुनि घनम् अधिमात्रं रागपर्यवस्थानम् उत्पादयति / कः पुनर् वादो मध्यप्रणीते / तच् च पुना रागपर्यवस्थानं संतत्या चिरकालम् अवस्थापयति / दीर्घकालम् अनुबद्धो भवति /
तेन पर्यवस्थानेन रञ्जनीयैर् धर्मैर् अभिभूयते / नो तु शक्नोति रञ्जनीयान् धर्मान् अभिभवितुम् / स्निग्धेन्द्रियश् च भवत्य् अखरेन्द्रियः, अकर्कशेन्द्रियः, अपरुषेन्द्रियः / नात्यर्थं परेषां विहेठनजातीयो यदुत कायेन वाचा दुर्विवेज्यश् च भवति दुःसंवेज्यश् च / हीनाधिमुक्तिकश् च भवति / दृढकर्मान्तः / स्थिरकर्मान्तः / दृढव्रतः / स्थिरव्रतः / सहिष्णुश् च भवत्य् उपकरणेषु परिष्कारेषु लोलुपजातीयस् तद्गुरुकश् च, सौमनस्यबहुलश् च भवत्य् आनन्दीबहुलो विगतभृकुटिर् उत्तानमुखवर्णः स्मितपूर्वंगमः / इत्य् एवंभागीयानि रागचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
-ii-2-a-(3)-ii ms.68a6l, sh.185-17, p.85b6, d.71b4, n.75a6, co.76a6, ch.425c19 तत्र द्वेषचरितस्य पुद्गलस्य लिङ्गानि कतमानि / इह द्वेषचरितः पुद्गलो (श्भ् इइ 26) द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन घनं प्रभूतं प्रतिघपर्यवस्थानम् उत्पादयति / कः पुनर् वादो मध्याधिमात्रेण / तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं संततिम् अवस्थापयति / चिरकालम् अनुबद्धो भवति / प्रतिघपर्यवस्थानेन स द्वेषणीयैर् धर्मैर् अभिभूयते / नो तु द्वेषणीयान् धर्माञ् छक्नोत्य् अभिभवितुम् / रूक्षेन्द्रियश् च भवति / खरेन्द्रियः कर्कशेन्द्रियः परुषेन्द्रियश् च भवति / अत्यर्थं च परेषां विहेठनजातीयो भवति यदुत कायेन वाचा / सुविवेज्यश् च भवति सुसंवेज्यः / ध्वाङ्क्षो भवति मुखरः, प्रगल्भः, अनधिमुक्तिबहुलः / न दृढकर्मन्तो न स्थिरकर्मन्तो न दृढव्रतो न स्थिरव्रतः / दौर्मनस्यबहुलश् च भवत्य् उपायासबहुलः / अक्षमो भवत्य् असहिष्णुः, विलोमनजातीयः, अप्रदक्षिणग्राही दुष्प्रत्यानेयजातीयः, उपनाहबहुलः / क्रूराशयश् चण्डश् च भवत्य् आदाशी प्रत्यक्षरवादी सो ऽल्पमात्रम् अप्य् उक्तः सन्न् अभिषज्यते, कुप्यति, व्यापद्यते मद्गुः प्रतितिष्ठति कोपं संजनयति / विकृतभृकुटिश् च भवति / अनुत्तानमुखवर्णः, परसंपत्तिद्वेष्टा, ईर्ष्याबहुलः / इत्य् एवंभागीयानि द्वेषचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
-ii-2-a-(3)-iii ms.68b1r, sh.186-16, p.86a7, d.72a3, n.75b6, co.76b5, ch.426a4 तत्र कतमानि मोहचरितस्य पुद्गलस्य लिङ्गानि / इह मोहचरितः पुद्गलो मोहस्थानीये वस्तुनि परीत्ते घनं प्रभूतं मोहपर्यवस्थानम् उत्पादयति / प्राग् एव मध्याधिमात्रे / दीर्घं च कालं तस्य मोहपर्यवस्थानस्य संततिम् अवस्थापयति / तेन च अनुबद्धो भवति / स मोहनीयैर् धर्मैर् अभिभूयते / नो तु मोहनीयान् धर्माञ् छक्नोत्य् अभिभवितुम् / धन्धेन्द्रियश् च भवति / जडेन्द्रियश् च भवति, मन्देन्द्रियश् च शिथिलकायकर्मान्तः, शिथिलवाक्कर्मान्तः, दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसो ऽनुत्थानसंपन्नः, मन्दभाषी, दुर्मेधः, मुषितस्मृतिः, असंप्रजानद्विहारी, वामग्राही, दुर्विवेज्यः, दुःसंवेज्यः, हीनाधिमुक्तिकः / जड एडमूको हस्तसंवाचिकः / अप्रतिबलः सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुम् / प्रत्ययहार्यश् च भवति परहार्यः परप्रणेयः / इत्य् एवंभागीयानि मोहचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
-ii-2-a-(3)-iv ms.68b4m, sh.187-13, p.86b7, d.72b1, n.76a5, co.77a4, ch.426a16 तत्र कतमानि मानचरितस्य पुद्गलस्य लिङ्गानि / इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्ते ऽपि घनं प्रभूतम्ं मानपर्यवस्थानम् उत्पादयति / कः पुनर् वादो मध्याधिमात्रे / तस्य च मानपर्यवस्थानस्य (श्भ् इइ 30) दीर्घकालं संततिम् अवस्थापयति / तेन चानुबद्धो भवति / स मानस्थानीयैर् धर्मैर् अभिभूयते / नो तु मानस्थानीयान् धर्माञ् छक्नोत्य् अभिभवितुम् / उद्धतेन्द्रियश् च भवत्य् उन्नतेन्द्रियश् च कायमण्डनानुयोगम् अनुयुक्तश् च भवति/ अधिमात्रम् उन्नतां च वाचं भाषते नावनताम् / मातापितृज्ञातिगुरुस्थानीयानां च न कालेन कालं यथानुरूपाम् अपचितिं कर्ता भवति / स्तब्धो भवति, अप्रणतकायो नाभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्मशीलः / आत्मप्रग्राहको भवत्य् आत्मोत्कर्षपरपंसकः / लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः / उत्प्लावनाभाण्डो दुर्विवेज्यश् च भवति दुःसंवेज्यः / उदाराधिमुक्तिश् च भवति / मन्दकारुण्यः / अधिमात्रं चात्मसत्त्वजीवपोषपुरुषपुद्गलदृष्टिमन्युबहलो भवति, उपनाही च / इत्य् एवंभागीयानि मानचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
-ii-2-a-(3)-v ms.68b8r, sh.188-15, p.87a7, d.72b7, n.76b4, co.77b3, ch.426b1 तत्र कतमानि वितर्कचरितस्य पुद्गलस्य लिङ्गानि / इह वितर्कचरितः पुद्गलो वितर्कस्थानीये वस्तुनि परीत्ते ऽपि घनं प्रभूतं वितर्कपर्यवस्थानम् उत्पादयति / कः पुनर् वादो मध्याधिमात्रे / तच् च पर्यवस्थानं दीर्घकालम् अवस्थापयति / तेन चानुबद्धो (श्भ् इइ 32) भवति / स वितर्कस्थानीयैर् धर्मैर् अभिभूयते / नो तु वितर्कस्थानीयान् धर्माञ् छक्नोत्य् अभिभवितुम् / अस्थिरेन्द्रियश् च भवति चपलेन्द्रियश् चञ्चलेन्द्रियो व्याकुलेन्द्रियः / त्वरितकायकर्मान्तस् त्वरितवाक्कर्मान्तः / दुर्विवेज्यो दुःसंवेज्यः / प्रपञ्चारामः प्रपञ्चरतः / काङ्क्षाबहुलो विचिकित्साबहुलः / छन्दिकश् च भवत्य् अस्थिरव्रतो ऽनिश्चितव्रतः / अस्थिरकर्मान्तो ऽनिश्चितकर्मान्तः / शंकाबहुलः प्रमुषितस्मृतिः / विवेकानभिरतो विक्षेपबहुलः / लोकचित्रेषु छन्दरागानुसृतः, दक्षो ऽनलस उत्थानसंपन्नः / इत्य् एवंभागीयानि वितर्कचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि /
इदं चरितप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् //
-ii-2-a-(4) ms.69a3l, sh.189-11, p.87b8, d.73a6, n.77a3, co.78a2, ch.426b14 तत्र81 प्रणिधानप्रभेदेन पुद्गलव्यवस्थानम् / अस्ति पुद्गलः श्रावकयाने कृतप्रणिधानः, अस्ति प्रत्येकबुद्धयाने, अस्ति महायाने / तत्र यो ऽयं पुद्गलः श्रावकयाने कृतप्रणिधानः स स्याच् छ्रावकगोत्रः, स्यात् प्रत्येकबुद्धगोत्रः, स्यान् महायानगोत्रः / तत्र यो ऽयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधानः सो ऽपि स्यात् प्रत्येकबुद्धगोत्रः, स्याच् छ्रावकगोत्रः, स्यान् महायानगोत्रः / तत्र यो ऽयं पुद्गलो महायाने कृतप्रणिधानः सो ऽपि स्याच् छ्रावकगोत्रः, स्यात् प्रत्येकबुद्धगोत्रः, स्यान् महायानगोत्रः /
तत्र यो ऽयं श्रावकगोत्रः पुद्गलः प्रत्येकायां बोधाव् अनुत्तरायां वा सम्यक्संबोधौ कृतप्रणिधानः, स श्रावकगोत्रत्वाद् अवश्यम् अन्ते काले (श्भ् इइ 34) तत्प्रणिधानं व्यावर्त्य श्रावकयानप्रणिधान एवावतिष्ठते / एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः /
तत्र भवत्य् एषां पुद्गलानां प्रणिधानसंचारः प्रणिधानव्यतिकरः / नो तु गोत्रसंचारः, गोत्रव्यतिकरः / अस्मिंस् त्व् अर्थे श्रावकयानप्रणिधानाः श्रावकगोत्राश् चैते पुद्गला वेदितव्याः / एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति //
-ii-2-a-(5) ms.69a6l, sh.190-8, choi.162-6, p.88b1, d.73b5, n.77b2, co.78b1, ch.426c2 कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति / एषां यथोद्दिष्टानां यथापरिकीर्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिर् निर्याणं भवति / कतमाभिश् चतसृभिः / अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा/ अस्ति प्रतिपद् दुःखा क्षिप्राभिज्ञा / अस्ति प्रतिपत् सुखा धन्धाभिज्ञा / अस्ति प्रतिपत् सुखा क्षिप्राभिज्ञा /
तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानालाभिनो या प्रतिपद् इयम् उच्यते दुःखा धन्धाभिज्ञा / तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानालाभिनो या प्रतिपद् इयम् उच्यते दुःखा क्षिप्राभिज्ञा / तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपद् इयम् उच्यते सुखा धन्धाभिज्ञा / तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपद् इयम् उच्यते सुखा क्षिप्राभिज्ञा / एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् /
-ii-2-a-(6) ms.69a8m, sh.190-22, p.88b7, d.74a1, n.77b6, co.78b5, ch.426c13 तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् / तद्यथा चतुर्णां प्रतिपन्नकानां स्रोत-आपत्तिफलप्रतिपन्नकस्य, सकृदागामिफलप्रतिपन्नकस्य, अनागामिफलप्रतिपन्नकस्य, अर्हत्त्वफलप्रतिपन्नकस्य / (श्भ् इइ 36) चतुर्णां च फलस्थानां, स्रोत-आपन्नस्य, सकृदागामिनो, ऽनागामिनो, ऽर्हतश् च / ये प्रतिपन्नकमार्गे वर्तन्ते ते प्रतिपन्नकास् तेषां प्रतिपन्नकमार्गेण व्यवस्थानम् / ये तत्फलश्रामण्यफलव्यवस्थितास् तेषां मार्गफलव्यवस्थानम् / एवं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं भवति //
-ii-2-a-(7) ms.69b1r, sh.191-10, p.89a4, d.74a5, n.78a3, co.79a2, ch.426c22 कथं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा श्रद्धानुसारिधर्मानुसारिणा / नो यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः स श्रद्धानुसारी / यो धर्मेषु अपरप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी / एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति //
-ii-2-a-(8) ms.69b2r, sh.191-15, p.89a6, d.74a7, n.78a5, co.79a3, ch.426c27 तत्र कथम् समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा कायसाक्ष्य् अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति / न च सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्तो भवति / रूपी रूपाणि पश्यति / अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति / शुभं विमोक्षं (श्भ् इइ 38) कायेन साक्षात्कृत्वोपसंपद्य विहरति / अकाशानन्त्यायतनम्, विज्ञ् स्नानन्त्यायतनम्, आकिञ्चन्यायतनम्, नैवसंज्ञानासंज्ञायतनम्, )संज्ञावेदयितनिरोधम् अनुलोमप्रतिलोमं समापद्यते च, व्युत्तिष्ठते च / एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति //
-ii-2-a-(9) ms.69b4l, sh.192-3, p.89b3, d.74b3, n.78b1, co.79a7, ch.427a6 कथम् उपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्य, अन्तरापरिनिर्वायिणः, उपपद्यपरिनिर्वायिणः, अनभिसंस्कारपरिनिर्वायिणः, साभिसंस्कारपरिनिर्वायिणः, ऊर्ध्वंस्रोतसश् च / एवम् उपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति //
-ii-2-a-(10) ms.69b5l, sh.192-7, p.89b6, d.74b5, n.78b3, co.79b2, ch.427a10 कथं परिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा समयविमुक्तस्यार्हतो यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय / अपरिहाणिप्रभेदेन पुनर् व्यवस्थानम् / अकोप्यधर्मकस्यार्हतो यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय / एवम् अपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति //
-ii-2-a-(11) ms.69b6l, sh.192-13, p.90a1, d.74b7, n.78b5, co.79b4, ch.427a14 तत्र कथम् आवरणप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्यार्हतः / तत्र प्रज्ञाविमुक्तो ऽर्हन् क्लेशावरणविमुक्तः, न समापत्त्यावरणात् / उभयतोभागविमुक्तस् त्व् अर्हन् क्लेशावरणाच् च विमुक्तः समापत्त्यावरणाच् च / तस्माद् उभयतोभागविमुक्त (श्भ् इइ 40) इत्य् उच्यते / एवम् आवरणप्रभेदेन पुद्गलव्यवस्थानं भवति //
-ii-2-b ms.69b7l, sh.192-19, p.90a4, d.75a2, n.79a1, co.79b6, ch.427a20 एभिः प्रभेदैर् यथोद्दिष्टैर् यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् //
(ii)-a-ii-3 ms.69b7m, sh.192-21, sa.4-2, w.86-1, p.90a5, d.75a3, n.79a2, co.79b7, ch.427a22 तत्रालम्बनं कतमत् / आह / चत्वार्य् आलम्बनवस्तूनि / कतमानि चत्वारि / व्याप्य् आलम्बनम्, चरितविशोधनम् आलम्बनम्, कौशल्यालम्बनम्, क्लेशविशोधनं चालम्बनम् //
-ii-3-a-(1) ms.69b7r, sh.193-4, sa.4-6, p.90a6, d.75a4, n.79a3, co.80a1, ch.427a24 तत्र व्याप्य् आलम्बनं कतमत् / आह / तद् अपि चतुर्विधम् / तद्यथा अविकल्पं प्रतिबिम्बम्, निर्विकल्पं प्रतिबिम्बं, वस्तुपर्यन्तता, कार्यपरिनिष्पत्तिश् च //
-ii-3-a-(1)-i ms.69b8m, sh.193-7, sa.4-10, p.90a8, d.75a5, n.79a4, co.80a2, ch.427a27 तत्र सविकल्पं प्रतिबिम्बं कतमत् / यथापीहैकत्यः सद्धर्मश्रवणं वाववादानुशासनीं वा निश्रित्य, दृष्टं वा, श्रुतं वा, परिकल्पितं वोपादाय ज्ञेयवस्तुसभागं प्रतिबिम्बम् समाहितभूमिकैर् विपश्यनाकारैर् विपश्यति, विचिनोति, प्रविचिनोति, परिवितर्कयति, परिमीमांसां आपद्यते /
तत्र ज्ञेयं वस्तु / तद्यथाशुभा वा, मैत्री वा, इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर् वा, स्कन्धकौशल्यं वा, धातुकौशल्यम् आयतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यम्, अधोभूमीनाम् औदारिकत्वं, उपरिभूमीनां शान्तत्वं, दुःखसत्यम्, समुदयसत्यं, निरोधसत्यं, मार्गसत्यम् / इदम् उच्यते ज्ञेयं वस्तु /
तस्यास्य ज्ञेयवस्तुनो ऽववादानुशासनीं वागम्य, सद्धर्मश्रवणम् वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तान् एव धर्मान् (श्भ् इइ 44) अधिमुच्यते तद् एव ज्ञेयं वस्त्व् अधिमुच्यते / तस्य तस्मिन् समये प्रत्यक्षानुभाविक इवाधिमोक्षः प्रवर्तते ज्ञेयवस्तुनि / न तज् ज्ञेयं वस्तु प्रत्यक्षीभूतं भवति समवहितं संमुखीभूतम् / न च पुनर् अन्यत् तज्जातीयं द्रव्यम् / अपि त्व् अधिमोक्षानुभवः स तादृशो मनस्कारानुभवः समाहितभूमिकः, येन तस्य ज्ञेयस्य वस्तुनो ऽनुसदृशं तद् भवति प्रतिभासम् / येन तद् उच्यते ज्ञेयवस्तुसभागं प्रतिबिम्बम् इति / यद् अयं योगी सन्तीरयंस् तस्मिन् प्रकृते ज्ञेये वस्तुनि परीक्ष्ये गुणदोषावधारणं करोति / इदम् उच्यते सविकल्पं प्रतिबिम्बम् //
-ii-3-a-(1)-ii ms.70a4l, स्ह्. 194-21, sa.6-4, w.86-9, p.91a4, d.75b5, n.79b5, co.80b3, ch.427b15 निर्विकल्पं प्रतिबिम्बं कतमत् / इहायं योगी प्रतिबिम्ननिमित्तम् उद्गृह्य न पुनर् विपश्यति, विचिनोति, प्रतिविचिनोति, परिवितर्कयति, परिमीमांसाम् आपद्यते / अपि तु तद् एवालम्बनम् अमुक्तो शमथाकारेण तच् चित्तं शमयति / यदुत नवाकारया चित्तस्थित्याध्यात्मम् एव चित्तं स्थापयति, संस्थापयति, अवस्थापयति, उपस्थापयति, दमयति, शमयति, व्युपशमयति, एकोतीकरोति, समाधत्ते / तस्य तस्मिन् समये निर्विकल्पं (श्भ् इइ 46) तत् प्रतिबिम्बम् आलम्बनं भवति / यत्रासाव् एकांशेनैकाग्रां स्मृतिम् अवस्थापयति, तद् आलम्बनम् / नो तु विपश्यति, विचिनोति, प्रतिविचिनोति, परिवितर्कयति, परिमीमांसाम् आपद्यते /
tac ca pratibimbaṃ pratibimbam ity ucyate / [tiṅ ṅe 'dzin gyi mtshan ma daṅ / tiṅ ṅe 'dzin gyi spyod yul gyi yul daṅ / tiṅ ṅe 'dzin gyi thabs daṅ / tiṅ ṅe 'dzin gyi sgo daṅ / yid la byed pa'i rten daṅ / naṅ du rnam par rtog pa'i lus daṅ / snaṅ brñan źes kyaṅ bya ste] / itīmāni tasya jñeyavastusabhāgasya pratibimbasya paryāyanāmāni veditavyāni //
-ii-3-a-(1)-iii ms.70a6l, sh.195-13, sa.7-6, p.91b3, d.76a3, n.80a3, चो,81अ1, ch.427b28 वस्तुपर्यन्तता कतमा / यालम्बनस्य यावद्भाविकता यथावद्भाविकता च /
तत्र यावद्भाविकता कतमा / यस्मात् परेण नास्ति रूपस्कन्धो वा, वेदनास्कन्धो वा, संज्ञास्कन्धो वा, संस्कारस्कन्धो वा, विज्ञानस्कन्धो वेति सर्वसंस्कृतवस्तुसंग्रहः पञ्चभिर् धर्मैः / सर्वधर्मसंग्रहो धातुभिर् आयतनैः सर्वज्ञेयवस्तुसंग्रहश् चार्यसत्यैः / इयम् उच्यते यावद्भाविकता /
तत्र यथावद्भाविकता कतमा / यालम्बनस्य भूतता तथता / चतसृभिर् युक्तिभिर् युक्त्युपेतता / यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उपपत्तिसाधनयुक्त्या, धर्मतायुक्त्या च / इति या चालम्बनस्य यावद्भाविकता या च (श्भ् इइ 48) यथावद्भाविकता तद् एकध्यम् अभिसंक्षिप्य वस्तुपर्यन्ततेत्य् उच्यते //
-ii-3-a-(1)-iv ms.70b1r, sh.196-12, sa.8-8, p.92a1, d.76a7, n.80b1, co.81a5, ch.427c8 तत्र कार्यपरिनिष्पत्तिः कतमा / यद् अस्य योगिन आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयाच् छमथविपश्यनाया यह् प्रतिबिम्बालम्बनो मनस्कारः स परिपूर्यते / तत्परिपूर्याश् चाश्रयः परिवर्तते / सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते / आश्रयपरिवृत्तेश् च प्रतिबिम्बम् अतिक्रम्य तस्मिन्न् एव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनम् उत्पद्यते / प्रथमध्यानसमापत्तुः प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुश् चतुर्थध्यानलाभिनश् चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिञ्चन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तुस् तैइआभिनस् तद्गोचरे / इयम् उच्यते कार्यपरिनिष्पत्तिः //
तान्य् एतानि भवन्ति चत्वार्य् आलम्बनवस्तूनि सर्वत्रगानि सर्वेष्व् आलम्बनेष्व् अनुगतानि / अतीतानागतप्रत्युत्पन्नैः सम्यक्सम्बुद्धैर् देशितानि / तेनैतद् व्याप्य् आलम्बनम् इत्य् उच्यते /
अपि चैतद् आलम्बनम् शमथपक्ष्यं विपश्यनापक्ष्यं सर्ववस्तुकम् भूतवस्तुकं, हेतुफलवस्तुकं च / तेन तद् व्यापीत्य् उच्यते / यत् तावद् त् आह "सविकल्पं प्रतिबिम्बम्" इतीदम् अत्र विपश्यनपक्ष्यस्य / यत् पुनर् आह "निर्विकल्पं प्रतिबिम्बम्" इतीदम् अत्र शमथपक्ष्यस्य / यत् पुनर् आह "वस्तुपर्यन्तते" तीदम् अत्र सर्ववस्तुकताया भूतवस्तुकतायाश् च / यद् आह "कार्यपरिनिष्पत्तिर्" इतीदम् अत्र हेतुफलसंबन्धस्य //
-ii-3-a-(2)-i ms.70b5r, sh.197-17, sa.9-13, w.86-32, p.92b5, d.77a1, n.81a3, co.81b7, ch.427c27 यथोक्तं भगवतायुष्मन्तं रेवतम् आरभ्य /
"एवम् अनुश्रूयते", आयुष्मान् रेवतो भगवन्तं प्रश्नम् अप्राक्षीत् /
"कियति, भदन्त, भिक्षुर् योगी योगाचार आलम्बने चित्तम् उपनिबध्नाति. कतमस्मिन्न् आलम्बने चित्तम् उपनिबध्नाती"ति / "कथं पुनर् आलम्बने चित्तम् उपनिबद्धं सूपनिबद्धं भवति" //
-ii-3-a-(2)-ii-(a) ms.70b6m, स्ह्. 198-4, sa.10-4, w.'86-37, p.92b8, d.77a2, n.81a4, co.82a2, ch.428a3 भगवान् आह / "साधु, साधु, रेवत, साधु खलु त्वं रेवत, एतम् अर्थं पृच्छसि / तेन हि शृणु साधु च सुष्ठु च मनसिकुरु, भाषिष्ये / इह, रेवत, भिक्षुर् योगी योगाचारश् चरितं वा विशोधयितुकामः, कौशल्यं वा कर्तुकामः, आस्रवेभ्यो वा चित्तं विमोचयितुकामः, अनुरूपे चालम्बने चित्तम् उपनिबध्नाति, प्रतिरूपे च सम्यग् एव चोपनिबध्नाति, तत्र चानिराकृतध्यायी भवति /
कथम् अनुरूप आलम्बने चित्तम् उपनिबध्नाति / सचेद् रेवत, भिक्षुर् योगी योगाचारो रागचरित एव सन्न् अशुभालम्बने चित्तम् उपनिबध्नाति / एवम् अनुरूप आलम्बने चित्तम् उपनिबध्नाति, द्वेषचरितो वा पुनर् मैत्र्याम् / मोहचरितो वेदंप्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो वा धातुप्रभेदे / सचेद् रेवत, स भिक्षुर् योगी योगाचारो वितर्कचरित एव सन्न् आनापानस्मृतौ (श्भ् इइ 52) चित्तम् उपनिबध्नाति / एवं सो ऽनुरूप आलम्बने चित्तम् उपनिबध्नाति /
सचेत् स रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूध आत्मसत्त्वजीवजन्तुपोषपुद्गलवस्तुसंमूढः स्कन्धकौशल्ये चित्तम् उपनिबध्नाति / हेतुसंमूधो धातुकौशल्ये, प्रत्ययसंमूध आयतनकौशल्ये, अनित्यदुःखानात्मसंमूढः प्रतीत्यसमुत्पादस्थानास्थानकौशल्ये, कामधातोर् वा वैराग्यं कर्तुकामः, कामानाम् औदारिकत्वे रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्तुकामो रूपाणाम् औदारिकत्व आरूप्यशान्ततायां च चित्तम् उपनिबध्नाति / सर्वत्र वा सत्कायान् निर्वेत्तुकामः, विमोक्तुकामः, दुःखसत्ये समुदयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तम् उपनिबध्नाति / एवं हि, रेवत, भिक्षुर् योगी योगचारो ऽनुरूप आलम्बने चित्तम् उपनिबध्नाति //
-ii-3-a-(2)-2-ii-(b) ms.71a5m, sh.199-(9), sa.11-13, p.93b7, d.77b5, n.82a1, co.82b5, ch.428a28 कथं च रेवत, भिक्षुर् योगी योगाचारः प्रतिरूप आलम्बने चित्तम् उपनिबध्नाति / इह रेवत, भिक्षुर् यद् यद् एव ज्ञेयं वस्तु विचेतुकामो भवति, प्रविचेतुकामः परिवितर्कयितुकामः परिमीमांसयितुकामः, तच् च तेन पूर्वम् एव दृष्टं वा भवति, श्रुतं वा मतं वा विज्ञातं वा / स तद् एव दृष्टम् अधिपतिं कृत्वा श्रुतं मतं विज्ञातम् अधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेण मनसिकरोति / विकल्पयत्य् अधिमुच्यते / स न तद् एव ज्ञेयं वस्तु समवहितं संमुखीभूतं पश्यत्य् अपि तु तत्प्रतिरूपकम् अस्योत्पद्यते तत्प्रतिभासं वा, ज्ञानमात्रं वा, दर्शनमात्रं वा, प्रतिस्मृतमात्रं वा यदालम्बनम् अयं भिक्षुर् योगी योगाचारः कालेन कालं चित्तम् संशमयति, कालेन कालम् अधिप्रज्ञे धर्मविपश्यनायां (श्भ् इइ 54) योगं करोति / एवं हि स रेवत, भिक्षुर् योगी योगाचारः प्रतिरूप आलम्बने चित्तम् उपनिबध्नाति //
-ii-3-a-(2)-2-ii-(c) ms.71a7r, sh.199-(19), sa.12-13, p.94a6, d.78a3, n.82a6, co.83a3, ch.428b10 कथं च रेवत, भिक्षुर् योगी योगाचारः सम्यग् एवालम्बने चित्तम् उपनिबध्नाति / सचेद् अयं रेवत, भिक्षुर् योगी योगाचार आलम्बने चित्तम् उपनिबध्नाति यावद् अनेन ज्ञेयं ज्ञातव्यं भवति, तच् च यथाभूतम् अविपरीतम् / एवं हि, रेवत, भिक्षुर् योगी योगाचारः सम्यग् एवालम्बने चित्तम् उपनिबध्नाति //
-ii-3-a-(2)-2-ii-(d) ms.71a8m, sh.200-2, sa.13-6, p.94b1, d.78a5, n.82b1, co.83a5, ch.428b15 कथं च रेवत, भिक्षुर् योगी योगाचारो ऽनिराकृतध्यायी भवति / सचेत् स रेवत, भिक्षुर् योगी योगाचार एवम् आलम्बने सम्यक् प्रयुज्यमानः सातत्यप्रयोगी च भवति सत्कृत्यप्रयोगी च कालेन च कालं शमथनिमित्तं भावयति प्रग्रहनिमित्तम् उपेक्षानिमित्तम् आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेर् आश्रयपरिशुद्धिम् अनुप्राप्नोति स्पर्शयति साक्षात्करोति / ज्ञेयवस्तुप्रत्यवेक्षतया चालम्बनपरिशुद्धिं रागविरागाच् चित्तपरिशुद्धिम् अविद्याविरागाज् ज्ञानपरिशुद्धिम् अधिगच्छति स्पर्शयति साक्षात्करोति / एवं हि, स रेवत, भिक्षुर् (श्भ् इइ 56) योगी योगाचारो ऽनिराकृतध्ययी भवति /
यतश् च रेवत, भिक्षुर् अस्मिन्न् आलम्बने चित्तम् उपनिबध्नाति, एवं चालम्बने चित्तम् उपनिबध्नाति, एवम् अस्य तच् चित्तम् आलम्बने सूपनिबद्धं भवति" //
-ii-3-a-(3)-i ms.71b2r, sh.200-18, sa.13-6, p.94b7, d.78b2, n.82b6, co.83b3, ch.428b27 तत्र गाथा /
निमित्तेषु चरन् योगी सर्वभूतार्थवेदकः / बिम्बध्यायी साततिकः पारिशुद्धिं निगच्छति //
तत्र यत् तावद् आह "निमित्तेषु चरन् योगी"त्य् अनेन तावच् छमथनिमित्ते प्रग्रहनिमित्त उपेक्षानिमित्ते सततकारिता सत्कृत्यकारिता चाख्याता / यत् पुनर् आह "सर्वभूतार्थवेदक" इत्य् अनेन वस्तुपर्यन्तताख्याता / यत् पुनर् आह "बिम्बध्यायी साततिक" इत्य् अनेन सविकल्पं निर्विकल्पं च प्रतिबिम्बम् आख्यातम् / यत् पुनर् आह "पारिशुद्धिं निगच्छती"त्य् अनेन कार्यपरिनिष्पत्तिर् आख्याता //
पुनर् अपि चोक्तं भगवता /
चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसम् / ध्यायी निपकः प्रतिस्मृतो भुङ्क्ते प्रीतिसुखं निरामिषम् //
तत्र यत् तावद् आह "चित्तनिमित्तस्य कोविद" इत्य् अनेन सविकल्पं निर्विकल्पं च प्रतिबिम्बं निमित्तशब्देनाख्यातम्, वस्तुपर्यन्तता कोविदशब्देन / यत् पुनर् आह "प्रविवेकस्य च विन्दते रसम्" इत्य अनेनालम्बने सम्यक् (श्भ् इइ 58) प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता / यत् पुनर् आह "ध्यायी निपकः प्रतिस्मृत" इत्य् अनेन शमथविपश्यनाया भावनासातत्यम् आख्यातम् / यत् पुनर् आह "भुङ्क्ते प्रीतिसुखं निरामिषम्" इत्य् अनेन कार्यपरिनिष्पत्तिर् आख्याता /
तद् एवं सत्य् एतद् व्याप्य् आलम्बनम् आप्तागमविशुद्धं वेदितव्यं युक्तिपतितं च / इदम् उच्यते व्याप्य् आलम्बनम् //
-ii-3-b ms.71b6r, sh.202-3, p.95b2, d.79a2, n.83a6, co.83a3, ch.428c18 तत्र चरितविशोधनम् आलम्बनं कतमत् / तद्यथा, अशुभा, मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः, धातुप्रभेदः, आनापानस्मृतिश् च //
-ii-3-b-(1)-i तत्राशुभा कतमा / आह / षड्विधाशुभा / तद्यथा प्रत्यशुभता, दुःखाशुभता, अवराशुभता, आपेक्षिक्य् अशुभता, क्लेशाशुभता, प्रभंगुराशुभता च //
-ii-3-b-(1)-i-(a) ms.72a1l, sh.203-1, p.95b5, d.79a5, n.83b1, co.84a5, ch.428c22 तत्र प्रत्यशुभता कतमा / आह / प्रत्यशुभताध्यात्मम् उपादाय बहिर्धा चोपादाय वेदितव्या //
-ii-3-b-(1)-i-(a) तत्राध्यात्मम् उपादाय / तद्यथा केशा, रोमाणि, नखा, दन्ता, रजः, (श्भ् इइ 60) मलं, त्वक्, मांसं, अस्थि, स्नायु, सिरा, )वृक्का, हृदयं, प्लीहकं, क्लोमम्, अन्त्राणि, अन्त्रगुणः, आमाशयं, पक्वाशयं, यकृत्, पुरीषम्, अश्रु, स्वेदः, खेटः, शिङ्घाणकं, वसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितम्, मस्तकं, मस्तकलुङ्गं, प्रस्रावः //
-ii-3-b-(1)-i-(a) ms.7232l, sh.203-11, p.96a2, d.79a7, n.83b5, co.84b1, ch.428c28 तत्र बहिर्धोपादायाशुभा कतमा / तद्यथा विनीलकं वा, विपूयकं वा, विपटुमकं वा, व्याध्मातकं वा, विखादितं वा, विलोहितकं वा, विक्षिप्तकं वा, अस्थि वा, शङ्कलिका वा, अस्थिशङ्कलिका वा, उच्चारकृतं वा, प्रस्रावकृतं वा, खेटकृतं वा, शिङ्घाणककृतं वा, रुधिरम्रक्षितं वा, पूयम्रक्षितं वा, गूथकठिइइअं वा, स्यन्दनिका वा / इत्य् एवंभागीया बहिर्धोपादाय प्रत्यशुभता वेदितव्या / या चाध्यात्मम् उपादाय या च बहिर्धोपादायाशुभता, इयम् उच्यते प्रत्यशुभता //
-ii-3-b-(1)-i-(b) तत्र दुःखाशुभता कतमा / यद् दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते कायिकचैतसिकम् असातं वेदयितं वेदनागतम् इयम् उच्यते दुःखाशुभता //
-ii-3-b-(1)-(c) ms.72a4l, sh.204-6, p.96a7, d.79b4, n.84a2, co.84b5, ch.429a7 तत्रावराशुभता कतमा / यत् सर्वनिहीनं वस्तु, सर्वनिहीनो धातुस् तद्यथा कामधातुः, यस्मात् पुनर् हीनतरश् चावरतरश् च प्रतिक्रुष्टतरश् चान्यो धातुर् नास्ति / इयम् उच्यत अवराशुभता //
-ii-3-b-(1)-i-(d) तत्रापेक्षिक्य् अशुभता कतमा / तद्यथा तद् एकत्यं वस्तु शुभम् अपि सद् अन्यच् छुभतरम् अपेक्ष्याशुभतः ख्याति / तद्यथारूप्यान् अपेक्ष्य रूपधातुर् अशुभतः ख्याति / सत्कायनिरोधं निर्वाणम् अपेक्ष्य यावद् भवाग्रम् अशुभत्वे संख्यां गच्छति / इयम् एवंभागीयापेक्षिक्य् अशुभता //
-ii-3-b-(1)-(e) ms.72a5m, sh.204-16, p.96b4, d.79b7, n.84a5, co.85a1, ch.429a15 तत्र क्लेशाशुभता कतमा / त्रैधातुकावचराणि सर्वाणि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि क्लेशाशुभतेत्य् उच्यते //
-ii-3-b-(1)-i-(f) तत्र प्रभंगुराशुभता कतमा / या पञ्चानाम् उपादानस्कन्धानाम् अनित्यता, अध्रुवता, अनाश्वासिकता, विपरिणामधर्मता / इयम् उच्यते प्रभंगुराशुभता /
इतीयम् अशुभता रागचरितस्य विशुद्धय आलम्बनम् //
-ii-3-b-(1 )-इइ ms.72a6m, sh.204-21, p.96b7, d.80a1, n.84a7, co.85a3, ch.429a19 तत्र रागस् तद्यथा अध्यात्मं कामेषु कामच्छन्दः कामरागः, बहिर्धा कामेषु मैथुनच्छन्दो मैथुनरागः, विषयच्छन्दो विषयरागः, (श्भ् इइ 64) रूपच्छन्दो रूपरागः, सत्कायच्छन्दः सत्कायरागश् चेत्य् अयं पञ्चविधो रागः / तस्य पञ्चविधस्य रागस्य प्रहाणाय प्रतिविनोदनायासमुदाचाराय षड्विधाशुभतालम्बनम् //
-ल्।-3-ब्-(1)-इइ-(अ) तत्राध्यात्मम् उपादाय प्रत्यशुभतालम्बनेनाध्यात्मं कामेषु कामच्छन्दात् कामरागाच् चित्तं विशोधयति //
-ii-3-b-(1 )-ii-(b)-1,-2,-3,-4 ms.72a7r, sh.205-9, p.97a3, d.80a4, n.84b3, co.85a7, ch.429a25 तत्र बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा कामेषु मैथुनच्छन्दाद् मैथुनरागाच् चतुर्विधा रागप्रतिसंयुक्ताद् वर्णरागसंस्थानरागस्पर्शरागोपचाररागप्रतिसंयुक्ताच् चित्तं विशोधयति /
तत्र यदा विनीलकं वा, विपूयकं वा, विपटुमकं वा, व्याध्मातकं वा, विखादितकं वा मनसिकरोति, तदा वर्णरागाच् चित्तं विशोधयति /
यदा पुनर् विलोहितकं मनसिकरोति, तदा संस्थानरागाच् चित्तं विशोधयति /
यदा पुनर् अस्थि वा शङ्कलिकां वास्थिशङ्कलिकां वा मनसिकरोति, तदा स्पर्शरागाच् चित्तं विशोधयति /
यदा विक्षिप्तकं मनसिकरोति, तदोपचाररागाच् चित्तं विशोधयति /
एवं स मैथुनरागाच् चित्तं विशोधयति //
-ii-3-b-(1)-ii-(b)-1',-2ऽ,-3ऽ,-4ऽ ms.72b1r, sh.205-20, p.97b1, d.80b1, n.84b7, co.85b4, ch.429b6 अत एव भगवता बहिर्धोपादाय प्रत्यशुभता सा चतसृषु शिवपथिकासु व्यवस्थापिता / या यैवानेन शिवपथिका दृष्टा भवति / एकाहमृता वा सप्ताहमृता वा काकैः कुररैः खाद्यमाना गृध्रैः श्वभिः सृगालैः / तत्र तत्रेमम् एव कायम् उपसंहरति / अयम् अपि मे काय एवंभावी, एवंभूतः, एवंधर्मताम् अनतीतः इति / अनेन तावद् विनीलकम् उपादाय यावद् विखादितकम् आख्यातम् /
यत् पुनर् आह "यानेन शिवपथिका दृष्टा भवति / अपगतत्वङ्मांसशोणितस्नायूपनिबद्धे"त्य् अनेन विलोहितकम् आख्यातम् /
यत् पुनर् आह / "यान्य् एव शिवपथिकास्थानानि दृष्टानि भवन्ती"ति [देस् नि रुस् गोङ् दङ् / केङ् रुस् दङ् / रुस् पऽइ केङ् रुस् ब्स्तन् तो /]
यत् पुनर् आह / "[देस् लग् पऽइ रुस् प दग् क्यङ् लोग्स् शिग् / र्कङ् पऽइ रुस् प दग् क्यङ् लोग्स् शिग् / लोङ् बुऽइ रुस् प दग् क्यङ् लोग्स् शिग् / पुस् मोऽइ रुस् प दग् क्यङ् लोग्स् शिग् (d., चो. अद्द् ल) / र्त्सिब् लोग्स् क्यि रुस् प दग् दङ् / द्पुङ् पऽइ रुस् प दग् दङ् / लग् ङर् ग्यि रुस् प दङ्] / पृष्ठीवंशः, हनुचक्रम्, दन्तमाला, शिरःकपालं, तथा भिन्नप्रतिभिन्नानि, एकवार्षिकाणि द्विवार्षिकाणि यावत् सप्तवार्षिकाणि श्वेतानि शंखनिभानि, कपोतवर्णानि पांसुचूर्णव्यतिमिश्राणि दृष्टानि भवन्ती"त्य् अनेन विक्षिप्तकम् आख्यातम् / एवं प्रत्यशुभतालम्बनेन बहिर्धोपादाय चतुर्विधा रागप्रतिसंयुक्ताद् मैथुनरागाच् चित्तं विशोधयति //
-ii-3-b-(1)-ii-c,-द्,-ए ms.72b4r, sh.206-19, p.98a3, d.81a1, n.85a7, co.86a3, ch.429b24 तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च विषयप्रतिसंयुक्तात् कामरागाच् चित्तं विशोधयति /
तत्रोपेक्षाशुभतालम्बनेन रूपरागाच् चित्तं विशोधयति" /
तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन चा भवाग्रम् उपादाय सत्कायछन्दरागाच् चित्तं विशोधयति /
इदं तावद् रागचरितस्य चरितविशोधनम् आलम्बनम् / संभवं प्रत्य् एतद् उच्यते / सर्वं सर्वाकारम् अशुभतालम्बनं संगृहीतं भवति / अस्मिंस् त्व् अर्थे प्रत्यशुभतैवाभिप्रेता / तदन्या त्व् अशुभता तदन्यस्यापि चरितस्य विशुद्धय आलम्बनम् //
-ii-3-b-(2) ms.72b6m, sh.207-7, mai.277, p.98a8, d.81a4, n.85b4, co.86a7, ch.429c3 तत्र मैत्री कतमा / यो मित्रपक्षे वा, अमित्रपक्षे वा, उदासीनपक्षे वा, हिताध्याशयम् उपस्थाप्य मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः समाहितभूमिकः / तत्र यो मित्रपक्षो ऽमित्रपक्ष उदासीनपक्षश् चेदम् आलम्बनम् / तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिको ऽयम् आलम्बक इति / यच् चालम्बनं यश् चालम्बकस् तद् एकध्यम् अभिसंक्षिप्य मैत्रीत्य् उच्यते //
तत्र यत् तावद् आह "मैत्रीसहगतेन चित्तेने"त्य् अनेन तावत् त्रिषु पक्षेषु मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे हिताध्याशय आख्यातः /
यत् पुनर् आह "अवैरेणासपत्नेनाव्याबाधेने"त्य् अनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणम् आख्यातम् / तत्रावैरतया हिताध्याशयः, (श्भ् इइ 70) सा पुनर् अवैरता द्वाभ्यां पदाभ्याम् आख्याता, असपत्नतया, अव्याबाधतया च / तत्राप्रत्यनीकभावस्थानार्थेनासपत्नता / अपकाराविचेष्टनार्थेनाव्याबाधता /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
