Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
श्रावकभूमि
- Thông tin
- GRETIL — Srāvakabhūmi, The First Chapter, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 1998 (Taisho University Sogo Bukkyo Kenyujo, 4). = Śbh I and Srāvakabhūmi, The Second Chapter with Asamāhitā bhūmiḥ, Śrutamayī bhūmiḥ, Cintāmayī bhūmiḥ, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 2007 (Taisho Daigaku Sogobukkyo Kenyujo, 18). = Śbh II.chữ Devanāgarī do máy chuyển tự t
(i)-c-iil-5-b-(2) ms.7a4m, sh.72-7, p.34b2, d.29a3, n.31a2, co.31b5, ch.407c18 पुनर् अपरः समासार्थः / यश् च संवरोपायः, यच् च संवरणीयं वस्तु, या च संवृतिः / तद् एकध्यम् अभिसंक्षिप्य "इन्द्रियसंवर" इत्य् उच्यते //
तत्र कतमः संवरोपायः / यद् आह / आरक्षितस्मृतिर् भवति निपकस्मृतिर् इति चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही, यावन् मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यञ्जनग्राही, यतो ऽधिकरणं एव पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति / तेषां (श्भ् इ 114) संवराय प्रतिपद्यते / रक्षतीन्द्रियम् इन्द्रियेण संवरम् आपद्यते / अयम् उच्यते संवरोपायः //
संवरणीयं वस्तु कतमत् / चक्षू रूपं चैवं यावन् मनो धर्माश् चेदम् उच्यते संवरणीयं वस्तु //
तत्र संवृतिः कतमा / यद् आह / स्मृत्यारक्षितमानसो भवति समावस्थावचारक इतीयम् उच्यते संवृतिः //
(i)-c-iil-5-b-(3) ms.7a6r, sh.72-1, p.34b8, d.29a7, n.31a6, co.32a3, ch.407c28 स खल्व् अयम् इन्द्रियसंवरः समासतो द्विविधः / प्रतिसंख्यानबलसंगृहीतो भावनाबलसंगृहीतश् च //
तत्र प्रतिसंख्यानबलसंगृहीतः, येन विषयेष्व् आदीनवं पश्यति नो तु तम् आदीनवं व्यपकर्षति प्रजहाति //
तत्र भावनाबलसंगृहीतः, येन विषयेष्व् आदीनवं पश्यति, तं च पुनर् आदीनवं व्यापकर्षति प्रजहाति //
तत्र प्रतिसंख्यानबलसंगृहीतेनेन्द्रियसंवरेन विषयालम्बनं क्लेशपर्यवस्थानं नोत्पादयति न संमुखीकरोति / न त्व् एवाश्रयसन्निविष्टम् अनुशयं प्रजहाति, समुद्घातयति //
तत्र भावनाबलसंगृहीतेनेन्द्रियसंवरेण विषयालम्बनं च क्लेशपर्यवस्थानं नोत्पादयति न संमुखीकरोति / सर्वदा सर्वकालम् आश्रयसन्निविष्टं चानुशयं प्रजहाति समुद्घातयति //
अयं विशेषो ऽयम् अभिप्राय इदं नानाकरणं प्रतिसंख्यानबलसंगृहीतस्य भावनाबलसंगृहीतस्य चेन्द्रियसंवरस्य //
तत्र यो ऽयं प्रतिसंख्यानबलसंगृहीत इन्द्रियसंवरो ऽयं संभारमार्गसंगृहीतः, यः पुनर् भावनाबलसंगृहीत इन्द्रियसंवरः स वैराग्यभूमिपतितो वेदितव्यः //
(i)-c-iil-6 ms.7b2r, sh.73-19, w.*140-19, p.35a7, d.29b5, n.31b5, co.32b2, ch.408a14 भोजने मात्रज्ञता कतमा / यथापीहैकत्यः प्रतिसंख्यायाहारम् आहरति / न द्रवार्थं, न मदार्थम्, न मण्डनार्थं, न विभूसणार्थम् इति विस्तरेण पूर्ववत् //
(i)-c-iil-6-a-(1)-i ms.7b3l, sh.74-3, w.*140-22, p.35b2, d.29b7, n.31b7, co.32b5, ch.408a17 कथं प्रतिसंख्यायाहारम् आहरति / प्रतिसंख्योच्यते प्रज्ञा, यया प्रज्ञया कवडंकारस्याहारस्यादीनवं समनुपश्यत्य् आदीनवदर्शनेन च विदूषयित्वाभ्यवहरति //
(i)-c-iil-6-a-(1)-i-(a) ms.7b3r, sh.75-2, w.*140-25, p.35b4, d.30a1, n.32a1, co.32b6, ch.408a19 तत् पुनर् आदीनवदर्शनं कतमत् / यदुत यस्यैव कवडंकारस्य परिभोगान्वयो वा विपरिणामान्वयो वा पर्येषणान्वयो वा //
(i)-c-iil-6-a-(1)-i-(a)- ms.7b4l, sh.75-5, w/140-27, p.35b5, d.30a2, n.32a1, co.32b6, ch.408a21 paribhogānvaya ādīnavaḥ katamaḥ / yathāpīhaikatyo yasmin samaya āhāram āharati varṇasaṃpannam api gandhasaṃpannam api rasasaṃpannam api supraṇītam api tasya kavaḍaṃkāra āhāraḥ samanantarakṣipta evāsye yadā dantayantravicūrṇitaś ca lālāvisaraviklinnaś ca bhavati lālāpariveṣṭitaś ca bhavati / sa tasmin samaye kaṇṭhanālīpraluṭhitaś ca bhavati / sa yāsau pūrvikā purāṇā manāpatā tāṃ sarveṇa sarvaṃ vijahāti / parāṃ ca vikṛtim āpadyate / yasyāṃ ca vikṛtau vartamānaś charditakopamaḥ khyāti / tadavasthaṃ cainaṃ saced ayaṃ bhoktā puruṣapudgalaḥ saced ākārato (śbh i 118) manasikuryāt samanusmaret, nāsya sarveṇa sarvam anyatrāpi tāvad avipariṇate, praṇīte bhojane bhogakāmatā saṃtiṣṭheta, kaḥ punar vādas tatra tadavastha iti / ya ebhir ākārair anekavidhair anayānupūrvyā bhojanaparibhogam adhipatiṃ kṛtvā yāsau śubhā varṇanibhā antardhīyate, ādīnavaś ca prādurbhavaty aśucisaṃgṛhītaḥ / ayam ucyate paribhogānvaya ādīnavo yadutāhāre //
(i)-c-iil-6-a-(1)-i-(a)- ms.7b6r/46अ5म्,sh.76-10,w.*141-11, p.36a4,d.30a7, n.32a7,co.33a5, ch.408b3 तत्र कतमो विपरिणामान्वय आदीनव आहारे / तस्य तम् आहारम् आहृतवतस् भुक्तवतो यदा विपरिणमति रात्र्या मध्यमे वा यामे, पश्चिमे वा यामे, तदा स रुधिरमांसस्नाय्वस्थित्वगादीन्य् अनेकविधानि बहुनानाप्रकाराण्य् अस्मिन् काये ऽशुचिद्रव्याणि विवर्धयति संजनयति / [दे दग् लस् ल ल नि ब्शङ् ब दङ् / ग्चि बऽइ द्ङोस् पोर् योङ्स् सु ऽजु बर् ऽग्युर् źइङ् /] परिणतश् चाधोभागी भवति / यद् अस्य दिवसे शोचयितव्यं च भवति तेन च यः स्पृष्टो भवति हस्तो वा पादो वा, अन्यतमान्यतमं वाङ्गप्रत्यङ्गम्, तद् विजुगुप्सनीयं भवत्य् आत्मनः परेषां च / तन्निदानाश् चास्योत्पद्यन्ते काये बहवः कायिका आबाधाः / तद्यथा गण्डः, पिटकः, दद्रू, विचर्चिका, कण्डूः, कुष्ठः, किटिभः, किलासः, ज्वरः, कासः, शोथः, शोषः, अपस्मारः, आटक्करं, पाण्डुरोगः, रुधिरं, पित्तभगन्दर इतीमे चान्ये ऽप्य् एवंभागीयाः काये कायिका आबाधा उत्पद्यन्ते / भुक्तं (श्भ् इ 120) वास्य विपद्यते / येनास्य काये विषूचिका संतिष्ठते / अयम् उच्यते विपरिणामान्वय आदीनवो यदुताहारे //
(i)-c-iil-6-a-(1)-i-(a)-(3) ms.46a7m, sh.78-2, w.*141-25, p.36b4, d.30b5, n.32b5, co.33b4, ch.408b14 तत्र कतमः पर्येषणान्वय आदीनव आहारे / पर्येषणान्वय आदीनवो ऽनेकविधः समुदाननाकृतः, आरक्षाकृतः, स्नेहपरिभ्रंशकृतः / अतृप्तिकृतः, अस्वातन्त्र्यकृतः, दुश्चरितकृतश् च //
(i)-c-iil-6-a-(1)-i-(a)-(d-(1)ms.46ब्1ल्, sh.78-8, w.*141-27, p.36b5, d.30b7, n.32b7, co.33b5, ch.408b18 तत्र कतम आदीनव आहारे समुदाननाकृतः / यथापीहैकत्य आहारहेतोर् आहारनिदानं शीते शीतेन हन्यमानः, उष्णे उष्णेन हन्यमानः, उत्सहते, घटते, व्यायच्छते / कृषिणा वा, गोरक्ष्येण वा, वाणिज्येन वा, लिपिगणनान्यसनसंख्यामुद्रयानेकविधेन शिल्पस्थानकर्मस्थानेनाप्रतिलब्धस्य वाहारस्य प्रतिलम्भाय, उपचयाय वा, यथाहारस्यैवम् आहारनिदानस्य तस्यैवम् उत्सहतः, घटतः, व्यायच्छतः / सचेत् ते कर्मान्ता विपद्यन्ते स तन्निदानं शोचति, क्लाम्यति, परिदेवते, उरस् ताडयति, क्रन्दति, संमोहम् आपद्यते / "मोहो बत मे व्यायामो निष्फल" इति / अयं समुदाननासहगत आदीनवो यदुताहारे //
(i)-c-iil-6-a-(1)-i-(a)-(3)-(2)ms.46ब्2र्, sh.78-20, w.*142-10, p.37a3, d.31a3,n.33a4,co.34a3, ch.408b27 सचेत् संपद्यते स तस्यारक्षाधिकरणहेतोस् तीव्रम् औत्सुक्यम् आपद्यते / "कच्चिन् मे भोगा राज्ञा वापह्रियेरंश् चौरैर् वा, अग्निना वा दह्येरन्न् उदकेन वोह्येयुः, कुनिहिता वा निधयः प्रणश्येयुः, कुप्रयुक्ता (श्भ् इ 122) वा कर्मान्ताः प्रलुज्येरन्, अप्रिया वा दायादा अधिगच्छेयुः, कुले वा कुलाङ्गार उत्पद्येत, यस् तान् भोगान् अनयेन व्यसनम् आपादयेत्" / अयम् आरक्षासहगत आदीनवो यदुताहारे //
(i)-c-iil-6-a-(1)-i-(a)-(3)-(3)ms.46ब्4ल्, sh.79-5, w.*142-17, p.37a6, d.31a6, n.33a6, co.34a5, ch.408c5 कतम आदीनवः स्नेहपरिभ्रंशकृतः / यथापि तद् आहारनिदानम् आहाराधिकरणहेतोर् माता पुत्रस्यावर्णं भाषते / पुत्रो मातुः, पिता पुत्रस्य, पुत्रः पितुः, भ्राता भगिन्या, भगिनी भ्रातुः, सहायकः सहायकस्य, प्रागेव जनो जनस्य, ते चान्यो ऽन्यं विगृहीता भवन्ति, विवादम् आपन्नास् तथोदारा ब्राह्मणक्षत्रियगृहपतिमहासाला आहाराधिकरणहेतोर् एवं विगृहीता विवादम् आपन्नाः, अन्यो ऽन्यं पाणिना प्रहरन्ति, लोष्टेनापि, दण्डेनापि, शस्त्रेणापि प्रहरन्ति / अयम् उच्यते स्नेहपरिभ्रंशकृत आदीनवः //
(i)-c-iil-6-a-(1)-i-(a)-(3)-(4)ms.46ब्5म्, sh.79-16, w.*142-26, p.37b2, d.31b1.n.33b2,co.34b1, ch.408c11 तत्र कतमो ऽतृप्तिकृत आदीनवः / यथापि तद् राजानः क्षत्रिया मूर्द्धाभिषिक्ताः स्वेषु ग्राम निगमराष्ट्रराजधानीष्व् असंतुष्टा विहरन्त उभयतो व्यूहकानि संग्रामानीकानि प्रतिसरन्ति शंखैः कंप्यमानैः, पटहैर् वाद्यमानैः, इषुभिः क्षिप्यमाणैर् विविधैस् ते तत्र भ्रान्तेनाश्वेन सार्धं समागच्छन्ति भ्रान्तेन हस्तिना, रथेन, पत्तिना सार्धं समागच्छन्ति / इषुभिः शक्तिभिर् वापकृत्तगात्रा मरणं वा निगच्छन्ति मरणमात्रकम् वा दुःखम् / अयम् उच्यते ऽतृप्तिकृत आदीनव इति यो वा पुनर् अन्यो ऽप्य् एवंभागीयः //
(i)-c-iil-6-a-(1)-i-(a)-(3)-(5)ms.46ब्7ल्, sh.80-4, w.*142-35, p.37b6, d.31b4, n.33b5, co.34b4, ch.408c18 तत्र कतम ऽस्वातन्त्र्यकृत आदीनवः / यथापि तद् राज्ञः पौरुषेया आवरोधिकानि नगराण्य् अनुप्रस्कन्दतः तप्तेनापि तैलेनावसिच्यन्ते, तप्तया वसया, तप्तया गोमयलोडिकया, तप्तेन ताम्रेण, तप्तेनायसा / इषुभिः शक्तिभिश् चापकृत्तगात्रा मरणं वा निगच्छन्ति मरणमात्रकं वा दुःखम् / अयम् उच्यते ऽस्वातन्त्र्यकृत आदीनव इति यो वा पुनर् अन्यो ऽप्य् एवंभागीयः //
(i)-c-iil-6-a-(1)-i-(a)-(3)(6)ms.46ब्8म्, sh.80-12, w.*143-4, p.38a1, d.31b6, n.33b7, co.34b6, ch.408c23 तत्र कतमो दुश्चरितकृत आदीनवः / यथापि तद् एकत्येनाहारनिदानं प्रभूतं कायेन दुश्चरितं कृतं भवत्य् उपचितं, यथा कायेनैवं वाचा मनसा स च यस्मिन् समय आबाधिको भवति, दुःखितो, बाधग्लानः, तस्य तत् पूर्वकं कायदुश्चरितं वाङ्मनोदुश्चरितम्, पर्वतानां वा पर्वतकूटानां वा, सायाह्ने यच् छायावलम्बते ऽध्यवलम्बते ऽभिप्रलम्बते / तस्यैवं भवति / "कृतं बत मे पापं न कृतं बत मे पुण्यं कायेन वाचा मनसा, सो ऽहं या गतिः कृतपापानां गतिं प्रेत्य गमिष्यामी"ति विप्रतिसारी कालं करोति कालं च कृत्वा ऽपायेषूपपद्यते यदुत नरकेषु तिर्यक्प्रेतेषु / अयम् उच्यते दुश्चरितकृत आदीनवः //
(i)-c-iil-6-a-(1)-i-(d' ms.47a2m, sh.81-5, w.*143-15, p.38a6, d.32a3, n.34a3, co.35a4, ch.409a6 तस्यैवं भवति / इत्य् अयम् आहारः पर्येष्यमाणो ऽपि सादीनवः / परिभुज्यमानो ऽपि सादीनवः / परिभुक्तो ऽपि परिणाम आदीनवः / एवम् अस्ति पुनर् अस्याहारस्य काचिद् अनुशंसमात्रा, सा पुनः कतमा / आहारस्थितिको ऽयं काय आहारं निश्रित्य तिष्ठति / नानाहरः / इयम् अप्य् आनुशंसमात्रा /
(श्भ् इ 126) एवम् अस्याहारस्थितिको ऽयं काय्ः सुचिरम् अपि तिष्ठञ् च वर्षशतं वा तिष्ठति / किंचिद् वा पुनर् भूयः सम्यक् परिह्रियमाणः / अस्ति चास्यार्वाग् उपरतिः / तत्र ये कायस्थितिमात्रे प्रतिपन्नाः न ते सुप्रतिपन्नाः, ये कायस्थितिमात्रकेण संतुष्टा न च ते सुसंतुष्टा, न च पुनस् त आहारकृतं परिपूर्णम् अनवद्यं अनुशंसं प्रत्यनुभवन्ति / ये पुनर् न कायस्थितिमात्रकेण संतुष्टाः, न कायस्थितिमात्रके प्रतिपन्नाः, अपि तु ताम् एव कायस्थितिं निश्रित्य ब्रह्मचर्यं समुदागमाय प्रतिपन्नाः, ते सुप्रतिपन्नाः, त एव च पुनः परिपूर्णम् अनवद्यम् अनुशंसं प्रत्यनुभवन्ति //
(i)-c-iil-6-a-(1)-ii-(a) ms.47a5l, sh.82-3, w.*143-29, p.38b5, d.32b1, n.34b2, co.35b2, ch.409a16 "तन् न मे प्रतिरूपं स्याद् यद् वा प्रत्यवरेणाहारानुशंसमात्रकेण संतुष्टो विहरेयम् / न मे प्रतिरूपं स्याद् यद् अहं बालसभागतां बालसहधार्मिकताम् अध्यापद्येयम्" / एवम् आहारे सर्वाकारं परिपूर्णम् आदीनवं ज्ञात्वा स इतः प्रतिसंख्यायादीनवदर्सी, निःसरणान्वेषी चाहारनिःसरणार्थम् एव पुत्रमांसोपमम् आहारम् आहरति /
तस्यैवं भवति / "एवम् एते दायकदानपतयः कृच्छ्रेण भोगान् समुदानीय, महान्तं पर्येषणाकृतम् आदीनवं प्रत्यनुभवन्तः, प्रपीड्य प्रपीड्य त्वङ्मांसशोणितम् अस्माकम् अनुप्रयच्छन्ति / यदुतानुकम्पाम् उपादाय विशेषफलार्थिनस् तस्यास्माकं तथा प्रतिलब्धस्य पिण्डपातस्यायम् एवंरूपो ऽनुरूपः परिभोगः स्यात् / यद् अहं तथा (श्भ् इ 128 ) परिभूतम् आत्मानं स्थापयित्वा परिभुञ्जीय, यथा तेषां काराः कृता अत्यर्थं महाफलाः स्युर् महानुशंसा महाद्युतयो महाविस्ताराः, चन्द्रोपमश् च कुलान्य् उपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य चित्तं ह्रीमान् अप्रगल्भः, अनात्मोत्कर्सी, अपरपन्सी / यथा स्वेन लाभेन सुचित्तः स्यां सुमनाः, एवं परस्यापि लाभेन सुचित्तः स्यां सुमनाः / एवंचित्तश् च पुनः कुलान्य् उपसंक्रमेयं, तत् कुत एतल् लभ्यं प्रव्रजितेन परकुलेषु यद् ददतु मे परे मा न ददतु / सत्कृत्य, मासत्कृत्य, प्रभूतं मा स्तोकं, प्रणीतं मा लूहं, त्वरितं मा धन्धम् / एवं चरितस्य मे कुलान्य् उपसंक्रामतः सचेत् परे न दद्युस् तेनाहं न तेषाम् अन्तिक आघातचित्ततया प्रतिघचित्ततया व्यवदीर्येयम् / न च पुनस् तन्निदानं कायस्य भेदाद् अपायोपपत्त्या विघातम् आपद्येयम् / यदुत ताम् एवाघातचित्ततां प्रतिघचित्तताम् अधिपतिं कृत्वा सचेद् असत्कृत्य न सत्कृत्य, सचेत् स्तोकं न प्रभूतम् / सचेल् लूहं न प्रणीतं, सचेद् धन्धं न त्वरितं दद्युः / तयाहं नाघातचित्ततया, प्रतिघचित्ततया च व्यवदीर्येयम्" इति विस्तरेण पूर्ववत् / "इमं चाहं कवडीकारम् आहारं निश्रित्य तथा तथा प्रतिपद्येयं, ताञ् च मात्रां प्रतिवेद्येयम् / येन मे जीवितेन्द्रियनिरोधश् (श्भ् इ 130) च न स्यान् न च पिण्डकेन क्लाम्येयम् / ब्रह्मचर्यानुग्रहश् च मे स्याद् एवं च मे श्रमणभावे प्रव्रजितभावे स्थितस्यायं पिण्डपातपरिभोगः प्रतिरूपश् च परिशुद्धश् चानवद्यश् च स्याद्" एभिर् आकारैः स प्रतिसंख्यायाहारम् आहरति //
(i)-c-iil-6-a-(1)-ikb) ms.48a1l, sh.84-3, w.*144-28, p.39b7, d.33a6, n.35a7, co.36b2, ch.409b16 आहारः पुनः कतमः / चत्वार आहाराः / कवडंकारः, स्पर्शः, मनःसंचेतना, विज्ञानं चास्मिंस् त्व् अर्थे कवडंकार आहारो ऽभिप्रेतः / स पुनः कतमः / तद्यथा मन्था वा, अपूपा वा, ओदनकुल्मासं वा, सर्पिः, तैलं, मधु, फणितं, मांसं, मत्स्या, वैइऊरा, लवणं, क्षीरं, दधि, नवनीतम् इतीमानि चान्यानि चैवंरूपाण्य् उपकरणानि यानि कवडानि कृत्वाभ्यवह्रियन्ते / तस्मात् कवडंकार इत्य् उच्यते / आहरतीति भुण्क्ते, प्रतिनिषेवत्य् अभ्यवहरति, खादति, भक्षयति, स्वादयति, पिबति, चूषतीति पर्यायाः //
(i)-c-iil-6-a-(2) ms.48a2r, sh.85-5, w.m45-7, p.40a3, d.33b2, n. 35b3, co.36b3, ch.409b22 na dravārtham iti / yaś caite kāmopabhogina ity artham āhāram āharanti / yad "vayam āhāreṇa prīṇitagātrāḥ saṃtarpitagātrāḥ pratyupasthite sāyāhnakāle samaye, abhikrāntāyāṃ rajanyām, maulībaddhikābhiḥ sārdham alāburomaśabāhubhiḥ kandukastanibhir nārībhiḥ sārdhaṃ krīḍantaḥ, ramamāṇāḥ, paricārayantaḥ, auddhatyaṃ dravaṃ prāviṣkariṣyāma" iti / drava eṣa ārye dharmavinaye yaduta kāmarāgopasaṃhitā maithunopasaṃhitāḥ pāpakā akuśalā dharmā vitarkāḥ / yair ayaṃ (śbh i 132) khādyamāno bādhyamāna uddhatendriyo bhavaty unnatendriyaś ca, drutamānasaḥ, plutamānasaḥ, asthitamānaso 'vyupaśāntamānasaḥ, te punar atyartham āhāram āharanto dravārtham āharantīty ucyate / śrutavāṃs tv āryaśrāvakaḥ pratisaṃkhyānabalika ādīnavadarśī niḥsaraṇaṃ prajānan paribhuṅkte / na tu tathā yathā te kāmopabhogino bhuñjante / tenāha na dravārtham //
(i)-c-iil-6-a-(3) ms.48a5l, sh.86-11, w.*145-20, p.40b1, d.33b7, n.36a1, co.37a4, ch.409c5 न मदार्थं न मण्डनार्थं न विभूषणार्थम् इति / यथापि त एव कामोपभोगिन इत्य् अर्थम् आहारम् आहरन्ति / "अद्य वयम् आहारम् आहृतवन्तो यदुत प्रभूतञ् च तृप्तितो यथाशक्त्याबलम् / स्निग्धं च, वृष्यञ् च, बृंहणीयञ् च, वर्णसंपन्नं, गन्धसंपन्नं, रससंपन्नम् एन्धीभूते / निर्गतायां रजन्यां शक्ता भविष्यामः प्रतिबला व्यायामकरणः, यदुताततिक्रियया वा, निर्घातेन, व्यायामशिलया वा, उल्लोठनेन वा, पृथिवीखातेन वा, बाहुव्यायामेन वा, पादावष्टम्भनेन वा, प्लवनेन वा लङ्घनेन वा चक्रव्यायामेन वा / तं च पुनर् व्यायामं निश्रित्य बलवन्तो भविष्यामः व्यायतगात्रा / दीर्घं चारोगाः, चिरकालं चास्माकं यौवनम् अनुवर्तकं भविष्यति, नो तु त्वरितं विरूपकरणी जरा देहम् अभिभविष्यती"ति / "चिरतरं च जीविष्याम" (श्भ् इ 134) इति / "प्रभूतभक्षणे च प्रतिबला भविष्यामः / भुक्तं च सम्यक् परिणमिष्यति / दोषाणां चापचयः कृतो भविष्यति"/ इत्य् आरोग्यमदार्थं, यौवनमदार्थम्, जीवितमदार्थं परिभुञ्जते /
तेषां पुनर् एवं भवति / "कृतव्यायामा वयं स्नात्रसंविधानं करिष्यामो यदुत शुचिना तोयेन गात्राणि प्रक्षालयिष्यामः / प्रक्षालितगात्राश् च केशानि च प्रसाधयिष्यामः / विविधेन चानुलेपनेन, कायम् अनूपलिप्य विविधैर् वस्त्रैर् विविधैर् माल्यैर् विविधैर् अलंकारैः कायं भूषयिष्यामः" / तत्र यत् स्नानप्रसाधनानुलेपनम् इदम् उच्यते तेषां मण्डनम् / तथा मण्डनजातानां यद् वस्त्रमाल्याभरणधारणम् इदम् उच्यते विभूषणम् इति / मण्डनार्थं विभूषणार्थं परिभुञ्जते / त एवं मदमत्ता मण्डनजातिविभूषितगात्राः / प्रत्युपस्थिते मध्याह्नसमये सायाह्नसमये वा भक्तसमये तृषिता बुभुक्षिताश् च, परेण तर्षेण, परया नन्द्या, परेणामोदेन, अनादीनवदर्शिनो निःसरणम् अप्रजानन्तो यथोपपन्नम् आहारम् आहरन्ति / यावद् एव पुनः पुनर् द्रवार्थं, मदार्थम्ं, मण्डनार्थं, विभूषणार्थं च / श्रुतवांस् त्व् आर्यश्रावकः प्रतिसंख्यानबलिक आदीनवदर्शी निःसरनं प्रजानन् परिभुङ्क्ते / न तु तथा यथा ते कामोपभोगिनः परिभुञ्जते/ "नान्यत्रेमम् असंनिषेवणं प्रहातव्यम् आहारं प्रतिनिषेवमाण एव प्रहास्यामी"ति //
(i)-c-iil-6-a-(4) ms.48b3m, sh.88-16, w.*146-19, p.41b1, d.34b4, n.36b5, co.38a1, ch.410a3 यावद् एवास्य कायस्य स्थितय इति भुक्त्वा नाभुक्त्वा यश् च जीवितस्य कायस्थितिर् इत्य् उच्यते / "सो ऽहम् इमम् आहारम् आहृत्य जीविष्यामि, न मरिष्यामी"त्य् आहरति / तेनाह यावद् एवास्य कायस्य स्थितये //
(i)-c-iil-6-a-(5)-i ms.48b4l, sh.89-1, w.*146-23, प्,41ब्2, d.34b5, n.36b7, co.38a3, ch.410a7 कथं यापनाया आहरति / द्विविधा यात्रा, अस्ति कृच्छ्रेण यात्रा अस्त्य् अकृच्छ्रेण //
(i)-c-iil-6-a-(5)-i-(a) ms.48b4m, sh.89-2, w.*146-23, p.41b3, d.34b6, n.36b7, co.38a3, ch.410a9 कृच्छ्रेण यात्रा कतमा / यद्रूपम् आहारम् आहरतो जिघत्सा दौर्बल्यं वा भवति / दुःखितो वा बाढग्लानः / अधर्मेण वा पिण्डपातं पर्येषते, न धर्मेण / रक्तः परिभुङ्क्ते सक्तो गृद्धो ग्रथितो मूर्छितो ऽध्यवसितो ऽध्यवसायम् आपन्नः / गुरुको वास्य कायो भवत्य् अकर्मण्यः, अप्रहाणक्षमः, येनास्य धन्धं चित्तं समाधीयते / कृच्छ्रेण वाश्वासप्रश्वासाः प्रवर्तन्ते / स्त्यानमिद्धं वा चित्तं पर्यवनहति / इयम् उच्यते कृच्छ्रेण यात्रा //
(i)-c-iil-6-a-(5)-i-(b) ms.48b5m, sh.89-11, w.m46-32, p.41b7, d.35a2, n.37a3, co.38a7, ch.410a16 akṛcchreṇa yātrā katamā / yathāpi tadrūpam āhāram āharato yathā jighatsā daurbalyaṃ vā na bhavati / nābhyadhiko bhavati duḥkhito vā bādhaglānaḥ / dharmeṇa vā piṇḍapātaṃ paryeṣate, na vādharmeṇa / arakto vā paribhuṅkte 'sakto 'gṛdhro 'grathito 'mūrchito 'nadhyavasito 'nadhyavasāyam āpannaḥ / na cāsya kāyo guruko bhavati karmaṇyo bhavati prahāṇakṣamaḥ / yenāsya tvaritaṃ cittaṃ samādhīyate / alpakṛcchreṇāśvasapraśvāsāḥ pravartante / styānamiddhaṃ cittaṃ na paryavanahati / iyam ucyate 'lpakṛcchreṇa yātrā //
तत्र या कृच्छ्रेण यात्रा तया जीवितस्थितिर् भवति, कायस्य सावद्या ससंक्लिष्टा / तत्र ये ऽयम् अल्पकृच्छ्रेण यात्रा तया जीवितस्थितिर् भवति / कायस्य सा च पुनर् अनवद्यासंक्लिष्टा / तत्र श्रुतवान् आर्यश्रावकः सावद्याम् संक्लिष्टां यात्रां परिवर्जयति, अनवद्याम् असंक्लिष्टां यात्रां गच्छति, प्रतिषेवते / तेनाह यापनायै //
(i)-c-iil-6-a-(5)-ii ms.48b8l, sh.90-11, w.*147-6, p.42a7, d.35a7, n.37b2, co.38b6, ch.410a29 सा पुनर् अनवद्यासंक्लिष्टा यात्रा या पूर्वम् उक्ता तां कथं कल्पयति / आह / यद्य् "अयं जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाये"ति, "पौराणां च वेदनां प्रहास्यामि नवां च नोत्पादयिष्यामि / यात्रा च मे भविष्यति / बलं च, सुखं चानवद्यता च, स्पर्शविहारता चे"ति / एवं प्रतिषेवमाणः अनवद्याम् असंक्लिष्टां यात्रां कल्पयति //
(i)-c-iil-6-a-(5)-ii-(a) ms.49a1m, sh.91-3, w.*147-12, प2ब्1, d.35b2, n.37b4, co.39a1, ch.410b4 कथं च पुनर् जिघत्सोपरतय आहरति / प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुङ्क्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ् च मात्रां परिभुङ्क्ते / यथास्य भुक्तवतो ऽकाले पुनर् जिघत्सादौर्बल्यं न बाधते, यदुत सायाह्नसमये वा, अभिक्रान्तायां वा रजन्यां, श्वोभूते ऽप्रत्युपस्थिते भक्तसमये / एवं जिघत्सोपरतय आहरति //
(i)-c-iil-6-a-(5)-ii-(b) ms.49a2m, sh.91-10, w.*147-19, p.42b4, d.35b4, n.37b6, co.39a3, ch.410b10 कथं ब्रह्मचर्यानुग्रहायाहरति / तां मात्रां परिभुङ्क्ते / तद्रूपम् आहारम् आहरति / येनास्य कुशलपक्षे प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्न् एव वा दिवसे ऽगुरुकः कायो भवति / कर्मण्यश् च भवति, प्रहाणक्षमश् च, येनास्य त्वरितत्वरितं चित्तं समाधीयते / अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्तन्ते / स्त्यानमिद्धं चित्तं न पर्यवनहति, येनायं भव्यो भवति प्रतिबलश् च क्षिप्रम् एव, अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै / एवं ब्रह्मचर्यानुग्रहायाहरति //
(i)-c-iil-6-a-(5)-ii-(c) ms.49a4m, sh.91-20, w.*147-28, p.42b8, d.35b7, n.38a2, co.39a6, ch.410b17 कथं "पौराणां वेदनां प्रहास्यामी"त्य् आहरति / यथापि तद् अतीतम् अध्वानम् उपादायामात्रया वा परिभुक्तं भवत्य् अपथ्यं वा, अपरिणते वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति / तद्यथा कण्डूः, (श्भ् इ 140) कुष्ठः किटिभः किलास इति विस्तरेण पूर्ववत् / तस्य चाबाधनिदान उत्पद्यन्ते शारीरिका वेदना दुःखास् तीव्राः, खराः, कटुका, अमनापाः / तस्याबाधस्योपशमाय तासां च तन्निदानानां दुःखानां वेदनानाम् उपशमाय हितं पथ्यम् अनुकूलम् आनुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते / सांप्रेयं चाहारम् आहरति / येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवति / एवं "पौराणां वेदनां प्रहास्यामी"त्य् आहारम् आहरति //
(i)-c-iil-6-a-(5)-ii-(d) ms.49a6m, sh.92-13, w.*147-38, p.43a4, d.36a3, n.38a5, co.39b3, ch.410b27 कथम् "नवां वेदनां नोत्पादयिष्यामी"त्य् आहारम् आहरति / स वर्तमानम् अध्वानम् उपादाय सुखी, अरोगः, बलवान्, नामात्रया वा परिभुङ्क्ते, अपथ्यं वा, अपरिणते वा / येनास्यानागतम् अध्वानम् उपादाय श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत / अन्यतमान्यतमो वा काये कायिक आबाधः समुत्पद्येत / तद्यथा कण्डूः, कुष्ठः, किटिभः, किलास इति विस्तरेण पूर्ववत् / तन्निदाना उत्पद्येरञ् छारीरिका वेदनाः पूर्ववत् / एवं च "नवां वेदनां नोत्पादयिष्यामी"त्य् आहरति //
(i)-c-iil-6-a-(5)-ii-(e) ms.49b2l, sh.93-1, w.*148-6, प3अ7, d.36a5, n.38b1, co.39b5, ch.410c5 कथं "यात्रा मे भविष्यति बलं च सुखं चानवद्यता च स्पर्शविहारता चे"त्य् आहरति / यत् तावद् भुक्त्वा जीवतीत्य् एवं यात्रा भवति / यत् पुनर् जिघत्सादौर्बल्यम् अपनयति एवम् अस्य बलं भवति / यत् पुनः पौराणां वेदनां प्रजहाति / नवां नोत्पादयत्य् एवम् अस्य सुखं भवति / यत् पुनर् धर्मेण पिण्डपातं पर्येष्ट्यारक्तः परिभुङ्क्ते ऽसक्त इति विस्तरेण पूर्ववद् एवम् अस्यानवद्यता भवति / यत् पुनर् (श्भ् इ 142) भुक्तवतो न गुरुकः कायो भवति, कर्मण्यश् च भवति, प्रहाणक्षमो विस्तरेण पूर्ववद् एवम् अस्य स्पर्शविहारता भवति /
तेनाह प्रतिसंख्यायाहारम् आहरति / न द्रवार्थं, न मदार्थं, न मण्डनार्थम् इति विस्तरेण पूर्ववद् अयं तावद् भोजने मात्रज्ञताया विस्तरविभागः //
(i)-c-iil-6-b-(1) ms.49b4l, sh.93-14, w.m48-17, p,43b4, d.36b2, n.38b5, co.40a2, ch.410c15 samāsārthaḥ punaḥ katamaḥ / āha / yaṃ ca paribhuṅkte yathā ca paribhuṅkte 'yaṃ samāsārthaḥ / kaṃ paribhuṅkte / yaduta kavaḍaṃkāram āhāraṃ, manthā vā, apūpā vā, odanakulmāṣaṃ vā vistareṇa pūrvavat / kathaṃ paribhuṅkte / pratisaṃkhyāya paribhuṅkte / na dravārthaṃ, na madārthaṃ, na maṇḍanārtham iti vistareṇa pūrvavat //
(i)-c-iil-6-b-(2) ms.49b5l, sh.93-21, w.* 148-23, p.43b7, d.36b5, n.38b7, co.40a5, ch.410c19 punar aparaḥ samāsārthaḥ / pratipakṣaparigṛhītaṃ ca paribhuṅkte kāmasukhallikāntavivarjitaṃ cātmaklamathāntavivarjitaṃ ca brahmacaryānugrahāya ca /
कथं प्रतिपक्षपरिगृहीतम् / यद् आह / प्रतिसंख्यायाहारम् आहरति /
कथं कामसुखल्लिकान्तविवर्जितं च / यद् आह / न द्रवार्थं न मदार्थं, न मण्डनार्थं, न विभूषणार्थम् इति /
कथम् आत्मक्लमथान्तविवर्जितम् / यद् आह / "जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि / नवां च नोत्पादयिष्यामि / यात्रा च मे भविष्यति / बलं च सुखं चे"ति /
कथं ब्रह्मचर्यानुग्रहाय परिभुङ्क्ते / यद् आह / ब्रहमचर्यानुग्रहाय, "अनवद्यता च स्पर्शविहारता च मे भविष्यती"ति //
(i)-c-iil-6-b-(3)-(a) ms.49b6r, sh.94-11, w.*148-33, p.44a4, d.37a2, n.39a4, चो40ब्2, ch.41la1 पुनर् अपरः समासार्थः / द्वयम् इदं भोजनं, चाभोजनं च / तत्राभोजनं यत् सर्वेण सर्वम् सर्वथा किंचिन् न परिभुङ्क्ते / (श्भ् इ 144) अभुञ्जानश् च म्रियते /
तत्र भोजनं द्विविधम् / समभोजनं, विषमभोजनं च / तत्र समभोजनं यन् नात्यल्पं नातिप्रभूतम्, नापथ्यम्, नापरिणते न संक्लिष्टम् /
तत्र विषमभोजनं यद् अत्यल्पम् अतिप्रभूतं च, अपरिणते वा, अपथ्यं वा, संक्लिष्टं वा परिभुङ्क्ते /
तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यम् अनुत्पन्नं नोत्पादयति, उत्पन्नं प्रजहाति /
तत्र नातिप्रभूतभोजनेन समभोजनेन न गुरुकः कायो भवत्य् अकर्मण्यः, अप्रहाणक्षमो विस्तरेण पूर्ववत् /
तत्र परिणतभोजनेन पथ्यभोजनेन समभोजनेन पौराणां च वेदनां प्रजहाति / नवां च नोत्पादयिष्यत्य् एवम् अस्य यात्रा भवति बलं च, सुखं च /
असंक्लिष्टभोजनेन समभोजनेनानवद्यता च भवति स्पर्शविहारता च /
तत्रात्यल्पभोजनं येन जीवति जिघत्सादौर्बल्यपरीतश् च जीवति / अतिप्रभूतभोजनम् / येनास्य गुरुभाराध्याक्रान्तः कायो भवति / न च कालेन भक्तं परिणमति /
तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते / अन्यतमान्यतमो वा काये कायिक आबाधः समुत्पद्यते / यथापरिणतभोजनेनैवम् अपथ्यभोजनेन /
तत्रायम् अपथ्यभोजने विशेषः / दोषः प्रचयं गच्छति, खरं चाबाधं स्पृशति /
तत्र संक्लिष्टभोजनेनाधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुङ्क्ते, सक्तो गृद्धो ग्रथित इति विस्तरेण पूर्ववत् / इति यः समभोजनं च परिभुङ्क्ते / विषमभोजनं च परिवर्जयति / तस्माद् भोजने समकारीत्य् उच्यते / भोजने च समकारितैषा एभिर् आकारैर् आख्याता, उत्ताना, विवृता, संप्रकाशिता / यदुत प्रतिसंख्यायाहारम् आहरति / (श्भ् इ 146) न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थम् इति विस्तरेण पूर्ववत् //
(i)-c-iil-6-b-(3)-(b) ms.50a5r, sh.96-1, w.*149-20, p.45a2, d.37b5, n.40a1, co.41a6, ch.411a27 तत्र यत् तावद् आह / "प्रतिसंख्यायाहारम् आहरति / न द्रवार्थं, न मदार्थं, न मण्डनार्थं न विभूषणार्थम्", यावद् एव,"अस्य कायस्य स्थितये, यापनायै", अनेन तावद् अभोजनं च प्रतिक्षिपति /
यत् पुनर् आह / "जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय" विस्तरेण यावत् "स्पर्शविहारतायै", अनेन विषमभोजनं प्रतिक्षिपति /
kathaṃ ca punar viṣamabhojanaṃ pratikṣipati / ["bkres pa bsal bar bya ba'i phyir źes gaṅ gsuṅs pa des ni / re źig zas ha caṅ chuṅ ba'i zas ran pa ma yin" pa spoṅ bar byed do] /
यत् तावत् आह / "ब्रह्माचर्यानुग्रहाय", अनेनातिप्रभूतभोजनं प्रतिक्षिपति /
यद् आह / "पौराणां च वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामी"त्य् अनेनापरिणतभोजनताम् अपथ्य भोजनतां च प्रतिक्षिपति /
यद् आह / "यात्रा च मे भविष्यति, बलं", अनेन नात्यल्पभोजनतां नातिप्रभूतभोजनतां च दर्शयति /
यद् आह / "सुखं च मे भविष्यती"त्य् अनेन परिणतभोजनतां पथ्यभोजनतां च दर्शयति /
यद् आह / "अनवद्यता च मे भविष्यति, स्पर्शविहारता चे"त्य् अनेनासंक्लिष्टभोजनतां दर्शयति /
यो ऽसाव् अधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुङ्क्ते / सक्तो विस्तरेण पूर्ववत् / स संक्लिष्टश् च परिभुङ्क्ते, सावद्यता चास्य भवति / तस्यैव च कुशलपक्षप्रयुक्तस्य प्रतिसंलयने, योगे, मनसिकारे, उद्देशस्वाध्याये, अर्थचिन्तायां त एव पापका अकुशला वितर्काश् चित्तम् अनुस्रवन्ति / ये ऽस्य तन्निंनाम्, तत्प्रवणां, तत्प्राग्भाराम् (श्भ् इ 148) चित्तसन्ततिं प्रवर्तयन्ति / येनास्य स्पर्शविहारो न भवति /
सा चेयं द्विविधा स्पर्शाविहारता / अतिप्रभूतभोजनपरिवर्जनाच् च येनास्य न गुरुकः कायो भवत्य् अकर्मण्यः, अप्रहाणक्षम इति विस्तरेण पूर्ववत् / आहारे चास्वादाकरणाद् येनास्य वितर्कसंक्षोभकृतास्पर्शविहारता न भवति /
तद् एवं सति सर्वैर् एभिः पदैर् भोजने समकारिता व्याख्याता भवति / इयम् उच्यते भोजने मात्रज्ञता // विस्तरतः संक्षेपतश् च //
(i)-c-iil-7-a-(1)-i ms.50b3r, sh.97-16, p.45b7, d.38b1, n.40b5, co.42a3, ch.411c6 पूर्वरात्रापररात्रं जागरिकायोगस्यानुयुक्तता कतमा / तत्र कतमः पूर्वरात्रः / कतमो ऽपररात्रः / कतमो जागरिकायोगः / कतमा जागरिकायोगस्यानुयुक्तता //
(i)-c-iil-7-a-(1)-ii ms.50b4l, sh.98-3, w.*71-28, p.45b8, d.38b2, n.40b6, co.42a4, ch.411c8 तत्रायं सायाह्नं पूर्वरात्रः, सायाह्नं सूर्यस्यास्तंगमनम् उपादाय, यो रात्र्याः पूर्वभागः सातिरेकं प्रहरम् / अपररात्रः कतमः / यो रात्र्या अपरभागः सातिरेकं प्रहरम् /
तत्रायं जागरिकायोगः / यद् आह / दिवा चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / रात्र्याः प्रथमे यामे चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / परिशोध्य, बहिर् विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन शय्यां कल्पयति पादे पादम् आधाय, आलोकसंज्ञी स्मृतः संप्रजानन्न् उत्थानसंज्ञाम् एव मनसिकुर्वन्, स रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य, चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति /
तत्रेयं जागरिकायोगस्यानुयुक्तता / यथापि तद् बुद्धस्य भगवतः श्रावको जागरिकायोगस्य श्रोता तत्र च शिक्षितुकामो भवति / तथाभूतस्यास्य "यज् जागरिकायोगम् आरभ्य बुद्धानुज्ञातं जागरिकायोगं संपादयिष्यामी"ति यश् छन्दो वीर्यो व्यायामो निष्क्रमः पराक्रमः स्थान आरम्भ उत्साह उत्सूधिर् अप्रतिवाणिश् चेतसः (श्भ् इ 152) संग्रहः सातत्यम् //
(i)-c-iil-7-a-(2)-i-(a)-(d) ms.50b7m, sh.99-9, w.*71-37, p.46a8, d.39a2, n.41a5, co.42b3, ch.411c22 तत्र कथं दिवा चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / "दिवा" उच्यते सूर्यस्याभ्युद्गमनसमयम् उपादाय यावद् अस्तंगमनसमयात् / "चङ्क्रम" उच्यत आयते विपुलमापिते पृथिवीप्रदेशे गमनप्रत्यागमनप्रतिसंयुक्तं कायकर्म / "निषद्या" उच्यते यथापीहैकत्यो मञ्चे वा पीठे वा तृणसंस्तरे वा निषीदति, पर्यङ्कम् आभुज्य, ऋजुं कायं प्रणिधायाभिमुखीं स्मृतिम् उपस्थाप्य / आवरणान्य् उच्यन्ते पञ्च निवरणानि / आवरणीया धर्मा ये निवरणस्थानीया धर्मा निवरणाहारकाः / ते पुनः कतमे / कामच्छन्दः, व्यापादः, स्त्यानमिद्धम्, औद्धत्यकौकृत्यम्, विचिकित्सा, शुभता प्रतिघनिमित्तम् अन्धकारो ज्ञातिजनपदामरवितर्कः पौराणस्य च हसितक्रीडितरमितपरिवारितस्यानुस्मृतिः, त्रयश् चाध्वानः, त्र्यध्वगता चायोनिशोधर्मचिन्ता //
(i)-c-iil-7-a-(2)-i-(d)-(1) ms.51a2r, sh.100-7, p.46b6, d.39a6, n.41b3, co.43a1, ch.412a5 एभ्यः कथं चङ्क्रमेण चित्तं परिशोधयति / कतिभ्यश् च परिशोधयति / स्त्यानमिद्धात् स्त्यानमिद्धाहारकाच् चावरणात् परिशोधयति / आलोकनिमित्तम् अनेन साधु च सुष्ठु च सुगृहीतं भवति सुमनसिकृतम् सुजुष्टं सुप्रतिविद्धम् / स आलोकसहगतेन सुप्रभाससहगतेन चित्तेन छन्ने वा, अभ्यवकाशे वा, चङ्क्रमे चङ्क्रम्यमाणः अन्यतमान्यतमेन प्रसदनीयेनालम्बनेन चित्तं संदर्शयति समुत्तेजयति संप्रहर्षयति / (श्भ् इ 154) यदुत बुद्धानुस्मृत्या व, धर्मसंघशीलत्यागदेवतानुस्मृत्या वा / कये वा पुनर् अनेन स्त्यानमिद्धादीनवप्रतिसंयुक्ता धर्माः श्रुता भवन्त्य् उद्गृहीता धृताः / तद्यथा सूत्रं गेयं व्याकरणं गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्र्नोपदेशाः / येषु स्त्यानमिद्धम् अनेकपर्यायेण विगर्हितं विजुगुप्सितम् / स्त्यानमिद्धप्रहाणं पुनः स्तुतं वर्णितं प्रशस्तम् / तान् विस्तरेण स्वरेण स्वाध्यायं करोति / परेषां वा प्रकाशयति, अर्थं वा चिन्तयति तुलयत्य् उपपरीक्सते, दिशो वा व्यवलोकयति, चन्द्रनक्षत्रग्रहतारासु वा दृष्टिं चारयति, उदकेन मुखम् आक्लेदयति / एवम् अस्य तत् स्त्यानमिद्धपर्यवस्थानम् अनुत्पन्नं च नोत्पद्यते, उतपन्नं च प्रतिविगच्छति / एवम् अनेन तस्माद् आवरणीयाद् धर्माच् चित्तं परिशोधितं भवति //
(i)-c-iil-7-a-(2)-i-(d)-(1)-(2) ms.51a6m, sh.101-7, p.47a7, d.39b7, न्,42अ3, चो,43ब्2, ch.412a23 तत्र निषद्यया कतमेभ्य आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / कथं च पुनः परिशोधयति / आह / चतुर्भ्य आवरणीयेभ्यो धर्मेभ्यः परिशोधयति, कामच्छन्दाद् व्यापादाद् औद्धत्यकौकृत्याद् विचिकित्सायास् तदाहारकेभ्यश् च धर्मेभ्यः //
(i)-c-iil-7-a-(2)-i-(d)-(1)-(2)-i ms.51b1l, sh.101-10, p.47b1, द्,40अ1, n.42a4, co.43b3, ch.412a26 स उत्पन्ने वा कामच्छन्दपर्यवस्थाने प्रतिविनोदनायानुत्पन्ने वा दूरीकरणाय, निषद्य पर्यङ्कम् आभुज्य, ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य, विनीलकं वा विपूयकं वा विपडुमकं वा व्याध्मातकं विखादितकं वा विलोहितकं वास्थिं वा शंकलिकां वान्यतमान्यतमं भद्रकं समाधिनिमित्तं मनसिकरोति / ये वा पुनर् अनेन धर्माः कामरागप्रहाणम् एवारभ्य कामच्छन्दप्रहाणायोद्गृहीता भवन्ति, धृता वचसा परिजिता मनसान्वीक्षिता दृष्ट्या सुप्रतिविद्धाः / तद्यथा सूत्रं गेयं व्याकरणम् इति विस्तरेण पूर्ववत् / ये ऽनेकपर्यायेण कामरागं कामच्छन्दं कामालयं कामनियन्तिं कामाध्यवसानं विगर्हन्ति विवर्णयन्ति विजुगुप्सयन्ति / कामरागप्रहाणम् (श्भ् इ 156) अनेकपर्यायेण स्तुवन्ति वर्णयन्ति प्रशंसन्ति / तान् धर्मांस् तथा निषण्णो योनिशो मनसिकरोति / एवम् अस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते, उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति //
(i)-c-iil-7-a-(2)-i-(d)-(1)-(2)-ii ms.51b3l, sh.102-8, p.47b8, d.40a7, n.42b3, co.44a2, ch.412b11 तत्र व्यापादे ऽयं विशेषः / तथा निषण्णो मैत्रीसहगतेन चित्तेनावैरेणासपथेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभावितेनैकां दिशाम् अधिमुच्य स्फरित्वोपसंपद्य विहरति / तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम् इत्य् ऊर्ध्वम् अधस् तिर्यक् सर्वम् अनन्तं लोकम् स्फरित्वोपसंपद्य विहरति / शेषं पूर्ववत् //
(i)-c-iil-7-a-(2)-i-(d)-(1)-(2)-iii ms.51b4r, sh.102-15, p.48a3, d.40b2, n.42b5, co.44a4, ch.412b16 तत्रौद्धत्यकौकृत्ये विशेषः / तद्यथा निषण्णो ऽध्यात्मम् एव चित्तं स्थापयति संस्थापयति संनिष्पादयत्य् एकोतीकरोति समाधत्ते / शेषं पूर्ववत् //
(i)-c-iil-7-a-(2)-i-(d)-(1)-(2)-iv ms.51b5m,w.*72-8,sh.102-19,p.48a4,दओब्3, n.42b5,co.44a5, ch.412b18 तत्र विचिकित्सानिवरणे विशेषः / तथा सन् निषण्णो ऽतीतम् अध्वानं नायोनिशो मनसिकरोति, अनागतं प्रत्युत्पन्नम् अध्वानं नायोनिशो मनसिकरोति / "किं न्व् अहम् अभूवम् अतीते ऽध्वनि, आहोस्विन् नाहम् अतीते ऽध्वनि, को न्व् अहम् अभूवं, कथं न्व् अहम् अभूवम् अतीते ऽध्वनि / को न्व् अहं भविष्याम्य् अनागते ऽध्वनि, कथं भविष्याम्य् अनागते ऽध्वनि / के सन्तः के भविष्यामः / अयं सत्त्वः कुत आगतः, इतश् च्युतः कुत्रगामी भविष्यति" स इत्येवंरूपम् अयोनिशोमनसिकारं वर्जयित्वा योनिशो मनसिकरोति, अतीतम् अप्य् अध्वानम् अनागतं प्रत्युत्पन्नम् अप्य् अध्वानम् /
स धर्ममात्रं पश्यति वस्तुमात्रं सच् च सतो ऽसच् चासतो हेतुमात्रं (श्भ् इ 158) फलमात्रं, नासद्भूतं समारोपं करोति, न सद्वस्तु नाशयत्य् अपवदति, भूतं भूततो जानाति / यदुतानित्यतो वा दुःखतो वा शून्यतो वानात्मतो वानित्येषु दुःखेषु शून्येष्व् अनात्मसु धर्मेषु / स एवं योनिशो मनसिकुर्वन्, बुद्धे ऽपि निष्काङ्क्षो भवति निर्विचिकित्सः, धर्मे संघे दुःखे समुदये निरोधे मार्गे हेतौ हेतुसमुत्पन्नेषु धर्मेषु निष्काङ्क्षो भवति निर्विचिकित्सः / शेषं पूर्ववत् //
(i)-c-iil-7-a-(2)-i-(d)-(1)-(2)-i',इइऽ,इइइऽ,इव्ऽ ms.52a2m, sh.103-18, प8ब्4, d.41a2, n.43a3, co.44b4, ch.412c4 तत्र व्यापादे वक्तव्यम् / यो ऽनेन प्रतिघं प्रतिघनिमित्तं चारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरः /
औद्धत्यकौकृत्ये वक्तव्यम् / अनेनौद्धत्यकौकृत्यम् आरभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् /
विचिकित्सायां वक्तव्यम् / ये ऽनेन विचिकित्साम् आरभ्य, तस्याश् च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् /
एवम् अनेन कामच्छन्दनिवरणाद् व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानिवरणाच् चित्तं विशोधितं भवति, तदाहारकेभ्यश् च धर्मेभ्य आवरणीयेभ्यः / तेनाह / चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति /
सा खल्व् एषा धर्माधिपतेयावरणीयेभ्यो धर्मेभ्यश् चित्तस्य परिशोधनाख्यात //
(i)-c-iil-7-a-(2)-i-(d)-(2) ms.52a4r, sh.104-11, p.49a1, d.41a6, n.43b2, co.45a1, ch.412c13 अस्ति पुनर् आत्माधिपतेया लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश् चित्तपरिशोधना /
आत्माधिपतेया कतमा / यथापि तदुत्पन्ने ऽन्यतमान्यतमस्मिन् निवरणे, आत्मत एवाप्रतिरूपतां विदित्वा, उत्पन्नं निवरणं नाधिवासयते प्रजहाति विनोदयति व्यन्तीकरोति, तेन निवरणेनात्मानं लज्जायमानः, चेतस (श्भ् इ 160) उपक्लेशकरेण प्रज्ञादौर्बल्यकरेण विघातपक्ष्येण / एवम् असाव् आत्मानम् एवाधिपतिं कृत्वा, आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति /
कथं लोकम् अधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश् चित्तैः परिशोधयति / इहास्य निवरणे समुत्पन्न उत्पत्तिकाले वा प्रत्युपस्थित एवं भवति, "अहं चेद् अनुत्पन्नं निवरणम् उत्पादयेयं, शास्ता मे ऽपवदेद् देवता अपि विज्ञा अपि सब्रह्मचारिणो धर्मतया विगर्हेयुर्" इति / स लोकम् एवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति / एवं लोकम् अधिपतिं कृत्वा, आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति //
(i)-c-iil-7-a-(2)-ii-(a) ms.52a8m, sh.105-12, p.49a8, d.41b4, n.43b8, co.45a6, ch.412c27 शयनासनप्रतिगुप्त्यर्थं पुनर् "लोकाचारश् चानुवृत्तो भविष्यती"ति / यावद् रात्र्याः प्रथमे यामे चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोध्य, बहिर् विहारस्य पादौ प्रक्षालयति / प्रक्षाल्य, विहारं प्रविश्य शय्यां कल्पयति / यावद् एव स्वप्नौपचयिकानां महाभूतानाम् उपचयाय / उपचितो ऽयं कायः कर्मण्यतरश् च भविष्यति, अनुकूलतरश् च सातत्येन निपके कुशलपक्षप्रयोगे //
(i)-c-iil-7-a-(2)-ii-(b) ms.52b1r, sh.105-24, w.*72-30, p.49b4, d.41b7, n.44a3, co.45b2, ch.413a3 केन कारणेन दक्सिणेन पार्श्वेन शय्यां कल्पयति / सिंहस्य प्राणिनः साधर्म्येण / किं पुनर् अत्र साधर्म्यम् / सिंहः प्राणी सर्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त उत्साही दृढपराक्रमः / भिक्षुर् अपि जागरिकायोगानुयुक्त आरब्धवीर्यो विहरति विक्रान्त उत्साही दृढपराक्रमः / अतस् तस्य सिंहोपमैव शय्या प्रतिरूपा भवति, नो तु प्रेतशय्या देवशय्या, न कामभोगिशय्या / तथा हि ते सर्व एव कुसीदा हीनवीर्या मन्दबलपराक्रमाः / (श्भ् इ 162) अपि तु धर्मतैषा यद् दक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो भवति, न च शयानस्य स्मृतिसंप्रमोषो भवति, न च गाढं स्वपिति, पापकांश् च स्वप्नान् न पश्यति / अन्यथा तु शय्यां कल्पयतो विपर्ययेण सर्वे दोषा वेदितव्याः / तेनाह / पादे पादम् आधाय दक्षिणेन पार्श्वेन शय्यां कल्पयति //
(i)-c-iil-7-a-(2)-ii-(c) ms.52b4l, sh.106-16, p.50a2, d.42a4, n.44b1, चो,45ब्7, ch.413a13 कथम् आलोकसंज्ञि शय्यां कल्पयति / आलोकनिमित्तम् अनेन सूद्गृहीतं भवति सुमनसिकृतं सुजुष्टं सुप्रतिविद्धम् / तद् एव मनसिकुर्वन् स प्रभासहगतेन चित्तेन शय्यां कल्पयति / सुप्तस्यापि चास्य येन न भवति चेतसो ऽन्धकारायितत्वम् / एवम् आलोकसंज्ञी शय्यां कल्पयति //
(i)-c-iil-7-a-(2)-ii-(d) ms.52b5l, स्लि. 106-21, p.5oa4, d.42a6, n.44b2, co.46a2, ch.413a17 कथं स्मृतः शय्यां कल्पयति / ये ऽनेन धर्माः श्रुता भवन्ति चिन्तिता वा भाविता वा कुशला अर्थोपसंहिताः, तदन्वयास्य स्मृतिर् यावत् स्वपनकाले ऽनुवर्तिनी भवति / ययास्य सुप्तस्यापि त एव धर्मा जाग्रतो त्वाभिलपन्ति, तेष्व् एव च धर्मेषु तच्चित्तं बहुलम् अनुविचरति / इति यथास्मृत्या यथास्मृतः कुशलचित्तः शय्यां कल्पयति, अव्याकृतचित्तो वा / एवं स्मृतः शय्यां कल्पयति //
(i)-c-iil-7-a-(2)-ii-(e) ms.52b6l, sh.107-7, p.50a7, d.42b1, न्,44ब्4, co.46a4, ch.413a23 कथं संप्रजानन् शय्यां कल्पयति / सुप्तस्यास्य तथा स्मृतस्य यस्मिन् समये ऽन्यतमान्यतमेनोपक्लेशेन चेतसः संक्लेशो भवति / स (श्भ् इ 164) उत्पद्यमानम् एव तं संक्लेशं सम्यग् एव प्रजानाति, नाधिवासयति, प्रजहाति, प्रतिविध्यति, प्रत्युदावर्तयति मानसम् / तेनोच्यते संप्रजानन् शय्यां कल्पयति //
(i)-c-iil-7-a-(2)-ii-(f) ms.52b7l, sh.107-14, p.50b1, d.42b2, n.44b6, co.46a6, छ्,413अ27 कथं उत्थानसंज्ञाम् एव मनसिकुर्वन् शय्यां कल्पयति / स वीर्यसंप्रगृहीतं चित्तं कृत्वा शय्यां कल्पयति / सुप्रतिबुद्धिकया सुह्रस्वमिद्धः / तद्यथारण्यको मृगः, नो तु सर्वेण सर्वं मिद्धावक्रमणनिम्नं चित्तं करोति, न तत्प्रवणं, न तत्प्राग्भारम् /
अपि चास्यैवं भवति / "अहो बताहं बुद्धानुज्ञातां जागरिकां सर्वेण सर्वं सर्वथा संपादयेयम्" इति / तस्याश् च संपादनार्थं भ्र्शं घनरसेन प्रयोगेण छन्दगतो विहरत्य् अभियुक्तश् च /
अपि चास्यैवं भवति / "यथाहम् अद्य जागरिकार्थम् आरब्धवीर्यो व्यहार्षं, कुशलानां च धर्माणां भावनायै दक्षो ऽनलस उत्थानसंपन्नः / श्वः प्रभाते, निर्गतायां च रजन्यां, भूयस्या मात्रयारब्धवीर्यो विहरिष्याम्य् उत्थानसंपन्न" इति /
तत्रैकयोत्थानसंज्ञया न गाढं स्वपिति / येनायं शक्नोति लघु लघ्व् एवोत्थानकाल उत्थातुं, न कालातिक्रान्तं प्रतिबुध्यति / द्वितीययोत्थानसंज्ञया बुद्धानुज्ञातां सिंहशय्यां कल्पयत्य् अन्यूनाम् अनधिकाम् / तृतीययोत्थानसंज्ञया च्छन्दं न स्रंसयति / स्मृतिसंप्रमोषे सत्य् उत्तरत्रोत्तरत्र समादानाय प्रयुक्तो भवति / एवम् उत्थानसंज्ञाम् एव मनसिकुर्वन् शय्यां कल्पयति //
(i)-c-iil-7-a-(2)-iii ms.53a2m, sh.108-12, w.*72-4, p.50b8, d.43a1, n.45a5, co.46b5, ch.413b14 स रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयतीति / रात्र्याः पश्चिमो याम उच्यते, यो ऽपररात्रः सातिरेकं प्रहरम् / स चायम् आलोकसंज्ञी स्मृतः संप्रजानन्न् उत्थानसंज्ञाम् एव मनसिकुर्वन् रात्याः मध्यमं यामं सातिरेकं प्रहरं मिद्धम् अवक्रामयित्वा, यस्मिम् समये व्युत्तिष्ठते तत्र तस्मिम् समये व्युत्तिष्ठते कर्मण्यकायो भवति, उत्थाय नाधिमात्रेण स्त्यानमिद्धपर्यवस्थानेनाभिभूतः / येन नास्योत्तिष्ठतो धन्धायितत्वं वा स्याद् मन्दायितत्वं वालस्यकौसीद्यं वा / असति वा पुनस् तस्मिन् धन्धायितत्वे मन्दायितत्व आलस्यकौसीद्ये लघु लघ्व् एवोत्थानं भवत्य् आभोगमात्रात् / चङ्क्रमनिषद्याभ्यां आवरणीयेभ्यो धर्मेभ्यश् चित्तस्य परिशुद्धिः पूर्ववद् वेदितव्या / अयं तावत् पूर्वरात्रापररात्रं जागरिकायोगस्यानुयुक्तताविस्तरविभागः //
(i)-c-iil-7-b-(1) ms.53a4r, sh.109-6, p.51a6, d.43a6, n.45b2, co.47a2, ch.413b24 samāsārthāḥ punaḥ katame / iha jāgarikāyogam anuyuktasya puruṣapudgalasya catvāri samyakkaraṇīyāni bhavanti / katamāni catvāri / yāvaj jāgrati tāvat kuśalapakṣaṃ na riñcati, sātatyena nipake kuśaladharmabhāvanāyām / kālena ca śayyāṃ kalpayati, nākālena / suptaś cāsaṃkliṣṭacitto (śbh i 168) middham avakrāmayati, na saṃkliṣṭacittaḥ / kālena ca prativibudhyate, notthānakālam ativartate / [nam gyi cha stod daṅ / nam gyi cha smad la mi ñal bar sbyor ba'i rjes su brtson pa'i skyes bu gaṅ zag gis yaṅ dag par bya ba ni bźi po de dag yin no /] itīmāni catvāri samyakkaraṇīyāny ārabhya bhagavatā śrāvakāṇāṃ jāgarikāyogānuyuktatā deśitā //
(i)-c-iil-7-b-(2) ms.53a6m, sh.109-16,w.*73-13, p.51b3, d.43b2, n.45b6, co.47a6, ch.413c4 कथं च पुनर् देशितः / यत् तावद् आह / "दिवा चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / एवं रात्र्याः प्रथमयामं चङ्क्रमनिषद्याभ्याम् आवरणियेभ्यो धर्मेभ्यश् चित्तं परिशोधयती"त्य् अनेन तावत् प्रथमं सम्यक्करणीयम् आख्यातम् / यदुत यावज् जाग्रति तावत् कुशलपक्षं न रिञ्चति / उद्युक्तो सातत्येन निपके कुशलधर्मभावनायाम् /
यस्मात् पुनर् आह / "बहिर् विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य दक्षिणेन पार्श्वेन शय्यां कल्पयति / पादे पादम् आधाये"त्य् अनेन द्वितीयम् सम्यक्करणीयम् आख्यातम् / यदुत कालेन शय्यां कल्पयति, नाकालेन /
यत् पुनर् आह / "आलोकसंज्ञी स्मृतः संप्रजानन्न् उत्थानसंज्ञाम् एव मनसिकुर्वन् शय्यां कल्पयती"त्य् अनेन तृतीयं सम्यक्करणीयम् आख्यातम् / यदुतासंक्लिष्टचित्तो मिद्धम् अवक्रामयति, न संक्लिष्टचित्त इति/
यत् पुनर् आह / "रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य, चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयती"त्य् (श्भ् इ 170) अनेन चतुर्थं सम्यक्करणीयम् आख्यातम् / यदुत कालेन प्रतिविबुध्यति, नोत्थानकालम् अतिवर्तते / इति तत्र यद् उक्तम् / "आलोकसंज्ञी स्मृतः संप्रजानन् व्युत्थानसंज्ञाम् एव मनसिकुर्वन् शय्यां कल्पयती"त्य् / अतो द्वाभ्यां कारणाभ्याम् असंक्लिष्टचित्तो मिद्धम् अवक्रामयति, यदुत स्मृत्या, संप्रजन्येन / द्वाभ्यां पुनः कारणाभ्यां, कालेन प्रतिविबुध्यते, नो तु कालम् अतिवर्तते, यदुतालोकसंज्ञयोत्थानसंज्ञया च /
कथं पुनः / स्मृत्या कुशलम् आलम्बनं परिगृह्य स्वपिति / संप्रजन्येन तस्मात् कुशलाद् आलम्बनाच् च्यवमानं संक्लिश्यमानं च चित्तं लघु लघ्व् एव सम्यक् प्रजानाति / एवम् अस्याभ्यां द्वाभ्यां कारणाभ्याम् असंक्लिष्टचित्तस्य शय्या भवति /
तत्रालोकसंज्ञयोत्थानसंज्ञया च न गाढं स्वपिति, नास्य दूरानुगतम् तन्मिद्धपर्यवस्थानं भवति / इत्य् आभ्यां द्वाभ्यां कारणाभ्यां कालेन प्रतिविबुध्यते, नोत्थानकालम् अतिवर्तते /
अयं जागरिकायोगानुयुक्तस्य समासार्थः / यश् च पूर्वको विस्तरविभागः, यश् चायं समासार्थः, इयम् उच्यते पूर्वरात्रापररात्रं जागरिकायोगानुयुक्तता// //
(i)-c-iil-8-a-(1) ms.53b4l, sh.111-11, प्-52ब्3, d.44a7, n.46b3, co.48a4, ch.413c29 संप्रजानद्विहारिता कतमा / यथापीहैकत्यो ऽभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति / आलोकितव्यवलोकिते संमिञ्जितप्रसारिते संघाटीचीवरपात्रधारणे / अशिते पीते खादिते स्वादिते, गते स्थिते निषण्णे शयिते, जागृते, भाषिते तूष्णींभावे, निद्राक्लमप्रतिविनोदने संप्रजानद्विहारि भवति //
(i)-c-iil-8-a-(2)-i ms.53b5l, sh.112-1, p.52b5, d.44b1, n.46b5, co.48a6, ch.414a7 तत्र कतमो ऽभिक्रमः / प्रतिक्रमः कतमः / अभिक्रमप्रतिक्रमे संप्रजानद्विहारता कतमा /
तत्राभिक्रमः / यथापीहैकत्यो ग्रामं वोपसंक्रामति, ग्रामान्तरं वा कुलं वा कुलान्तरं वा विहारं वा विहारान्तरं वा /
तत्र प्रतिक्रमः / यथापीहैकत्यो ग्रामद् वा प्रतिनिवर्तते, ग्रामान्तराद् वा कुलाद् वा कुलान्तराद् वा विहाराद् वा विहारान्तराद् वा /
तत्र संप्रजानद्विहारिता / अभिक्रममाणो "ऽभिक्रमामी"ति सम्यग् एव प्रजानाति / प्रतिक्रममाणः "प्रतिक्रमामी"ति सम्यग् एव प्रजानाति / "अत्र मयाभिक्रमितव्यं, अत्र मया पुनर् नाभिक्रमितव्यम्" इति सम्यग् एव प्रजानाति / "अयं वा मे ऽभिक्रमणकालः, अयं नाभिक्रमणकाल" इति सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् /
सचेत् तेन संप्रजन्येन समन्वागतः / अभिक्रममाणः प्रजानात्य् "अभिक्रमामी"ति / यत्र चानेनाभिक्रमितव्यं भवति तत्र चाभिक्रमति / कालेन चाभिक्रमति नाकालेन / यथा चाभिक्रमितव्यं भवति तद्रूपया (श्भ् इ 174) चर्ययाचारेणाकल्पेनेर्यापथेन तथाभिक्रामति / इयम् अस्योच्यते संप्रजानद्विहारिता, यदुताभिक्रमप्रतिक्रमयोः //
(।)-च्-॥।-8-अ-(2)-इइ ms.53b8m, sh.113-7, p.53a4, d.44b7, n.47a3, co.48b5, ch.414a23 तत्र कतमद् आलोकितम् / कतमद् व्यवलोकितम् / कतमालोकितव्यवलोकितेसंप्रजानद्विहारिता /
तस्यास्य पूर्वपरिकीर्तितेषु वस्तुष्व् अभिक्रमतः प्रतिक्रमतश् च / यद् अबुद्धिपूर्वकम् अप्रयत्नपूर्वकम् अच्छन्दपूर्वकम् अन्तराले चक्षुषा रूपदर्शनम् / इदम् उच्यत आलोकितम् /
यत् पुनर् तेषूपसंक्रान्तप्रतिक्रान्तस्य बुद्धिपूर्वकं प्रयत्नपूर्वकं छन्दपूर्वकं चक्षुषा रूपदर्शनम् / तद्यथा राज्ञां राजमात्राणां नैगमानां जानपदानां वा ब्राह्मणानां गृहपतिनां धनिनां श्रेष्ठिनाम् सार्थवाहानाम्, तदन्येषां बाह्यकानां लयनानां मारुतानाम् अवरकाणां प्रासादानां हर्म्यतलानाम् इति / यद् वा पुनर् अन्येषां लोकचित्राणां दर्शनम् / इदम् उच्यते व्यवलोकितम् /
यत् पुनर् आलोकितं च व्यवलोकितं च स्वलक्षणतः सम्यग् एव प्रजानाति / यच् चावलोकयितव्यं यच् च व्यवलोकयितव्यं तद् अपि सम्यग् एव प्रजानाति / यदालोकयितव्यं यदा व्यवलोकयितव्यं तद् अपि सम्यग् एव प्रजानाति / यथालोकयितव्यं यथा व्यवलोकयितव्यं तद् अपि सम्यग् एव (श्भ् इ 176) प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् /
स तेन संप्रजन्येन समन्वागतः / सचेद् आलोकयमानो व्यवलोकयमानो जानात्य् "आलोकयामि व्यवलोकयामी"ति / यच् चालोकयितव्यं व्यवलोकयितव्यं तद् आलोकयति व्यवलोकयति / यदालोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति / यथालोकयितव्यं व्यवलोकयितव्यं तथालोकयति व्यवलोकयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुतालोकितव्यवलोकिते //
(i)-c-iil-8-a-(2)-iii ms.54a4m, sh.114-11, p.53b6, द5अ7, n.47b4, co.49a6, ch.414b11 तत्र कतमत् संमिञ्जितम्, कतमत् प्रसारितं, कतमा संमिञ्जितप्रसारिते संप्रजानद्विहारिता / स तथालोकयमानो व्यवलोकयमानश् च, अभिक्रमपूर्वकं प्रतिक्रमपूर्वकं च, यत् पादौ वा संमिञ्जयति प्रसारयति, बाहू वा संम्जयति प्रसारयति, हस्तौ वा संमिञ्जयति प्रसारयति, अन्यतमान्यतमं वाङ्गप्रत्यङ्गं संमिञ्जयति प्रसारयति / इदम् उच्यते संमिञ्जितप्रसारितम् /
स चेत् संमिञ्जितप्रसारितं स्वलक्षणतः सम्यग् एव प्रजानाति / संमिञ्जयितव्यं प्रसारयितव्यं च सम्यग् एव प्रजानाति / यदा च संमिञ्जयितव्यं यदा प्रसारयितव्यं तद् अपि सम्यग् एव प्रजानाति / यथा च संमिञ्जयितव्यं यथा प्रसारयितव्यं तद् अपि सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् / स तेन संप्रजन्येन समन्वागतः / स चेत् संमिञ्जयमानः प्रसारयमानो जानाति, "संमिञ्जयामि प्रसारयामी"ति / यच् च संमिञ्जयितव्यं प्रसारयितव्यं संमिञ्जयति प्रसारयति / यदा च संमिञ्जयितव्यं प्रसारयितव्यं तदा संमिञ्जयति प्रसारयति / यथा (श्भ् इ 178) च संमिञ्जयितव्यं प्रसारयितव्यं तथा संमिञ्जयति प्रसारयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुत संमिञ्जितप्रसारिते //
(i)-c-iil-8-a-(2)-iv ms.54a7m, sli.115-11, p.54a7, d.45b6, n.48a3, co.49b5, ch.414b22 तत्र कतमत् संघाटीधारणं, कतमच् चीवरधारणं, कतमत् पात्रधारणं, कतमा संघाटीचीवरपात्रधारणे संप्रजानद्विहारिता /
यत् तावद् अस्य ज्येष्टं चीवरं षष्टिखण्डं वा नवतिखण्डं वा, द्विगुणसीवितं वैकगुणसीवितं वा / इयम् उच्यते संघाटी / तस्य प्रावरणं परिभोगः सम्यग् एव परिहरणं धारणम् इत्य् उच्यते /
यत् पुनर् अस्य मध्यं वा कनीयो वाधिष्ठानिकं वा चीवरम् अतिरेकचीवरं वा विकल्पनार्हं विकल्पितं वा / तच् चीवरम् इत्य् उच्यते / तस्य प्रावरणं परिभोगः सम्यग् एव परिहरणं धारणम् इत्य् उच्यते /
यत् पुनर् अस्याधिष्टानिकम् आयसं वा मृन्मयं वा भैक्षभाजनम् / इदम् उच्यते पात्रम् / तस्य परिभोगः सम्यग् एव परिहरणं धारणम् इत्य् उच्यते /
सचेत् पुनर् अयं तां संघाटीं चीवरं पात्रं धारणं वा स्वलक्षणतः सम्यग् एव प्रजानाति / यच् च संघाटीचीवरपात्रधारणं कल्पिकम् अकल्पिकं वा तद् अपि सम्यग् एव प्रजानाति / यदा च संघाटीचीवरपात्रधारणं धारयितव्यं तद् अपि सम्यग् एव प्रजानाति / यथा च धारयितव्यं तद् अपि सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् /
स तेन संप्रजन्येन समन्वागतः सचेत् संघाटीं चीवरं पात्रं धारयमाणो जानाति "धारयामी"ति / यच् च धारयितव्यं तद् धारयति / यदा (श्भ् इ 180) च धारयितव्यं तदा धारयति / यथा च धारयितव्यं तथा धारयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुत संघाटीचीवरपात्रधारणे //
(i)-c-iil-8-a-(2)-v ms.45b4r, sh.116-19, p.55a1, द्,46अ6, n.48b3, co.50a5, ch.414c11 तत्र कतमद् अशितं, कतमत् पीतं, कतमत् खादितं, कतमत् स्वादितं, कतमाशितपीतखादितस्वादिते संप्रजानद्विहारिता /
यः कश्चित् पिण्डपातपरिभोगः सर्वं तद् अशितम् इत्य् उच्यते /
तस्य पुनर् द्विधाभेदः, खादितं स्वादितं च / तत्र खादितं, मन्था वा, अपूपो वा, ओदनकुल्माषं वेति, यद् वा पुनर् अन्यतमम् आभिसंस्कारिकम् अन्नं विकृतं भोज्यं प्राणसंधारणम् / इदम् उच्यते खादितम्, अशितम् अपीदम् /
स्वादितं कतमत् / तद्यथा क्षीरं दधि नवनीतम् सर्पिस् तैलं मधु फाणितं मांसं मत्स्या वैइऊरा लवणं वनफलं वा भक्षप्रकारं वा / इदम् उच्यते स्वादितम्, अशितम् अपीदम्/
यत् पुनः पीयते खण्डरसं वा, शर्करारसं वा, काञ्चिकं वा, दधिमण्डं वा, शुक्तं वा, तक्रं वा, अन्ततः पानीयम् अपि / इदम् उच्यते पीतम् /
अशितपीतखादितस्वादितं स्वलक्षणतः सम्यग् एव प्रजानाति / यच् चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तद् अपि सम्यग् एव प्रजानाति / यदा चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तद् अपि सम्यग् एव प्रजानाति / यथा चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तद् अपि सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यं /
स तेन संप्रजन्येन समन्वागतो ऽश्ननः पिबमानः खादमानः स्वादयमानः स चेज् जानात्य् "अश्नामि पिबामि खादामि स्वादयामी"ति / यच् (श्भ् इ 182) चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तद् अश्नाति यावत् स्वादयति / यदा चाशितव्यं यावत् स्वादयितव्यं तदाश्नाति यावत् स्वादयति / यथा चाशितव्यं यावत् स्वादयितव्यं तथाश्नाति यावत् स्वादयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुताशितपीतखादितस्वादिते //
(i)-c-iil-8-a-(2)-vi ms.55a2m, sh.118-7,w.*74-1, p.55b6, d.46b7, n.49a5, co.50b6,ch.415a5 तत्र कतमद् गतम्, कतमत् स्थितम्, कतमन् निषण्णम्, कतमच् छयितं, कतमज् जाग्र्तम्, कतमद् भाषितम्, कतमस् तूष्णींभावः, कतमा निद्राक्लमप्रतिविनोदना, कतमा गते स्थिते निषण्णे शयिते जाग्र्ते भाषिते तूष्णींभावे निद्राक्लमप्रतिविनोदनायां संप्रजानद्विहारिता /
यथापीहैकत्यश् चङ्क्रमे वा चङ्क्रम्यते, सहधार्मिकाणां वोपसंक्रामति, अध्वानं वा प्रतिपद्यते / इदम् अस्योच्यते गतम् /
यथापीहैकत्यश् चङ्क्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस् तिष्ठत्य् आचार्याणाम् उपाध्यायानां गुरूणां गुरुस्थानीयानाम् / इदम् उच्यते स्थितम् /
यथापीहैकत्यो मञ्चे वा पीठे वा तृणसंस्तरके वा संनिविशति वा संनिषीदति वा, पर्यङ्कम् आभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखीं स्मृतिम् उपस्थाप्य / इदम् उच्यते निषण्णम् / यथापीहैकत्यो बहिर् विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति, पादे पादम् आधाय, मञ्चे वा पीठे वा तृणसंस्तरके वा, अरण्ये वा वृक्षमूले वा शुन्यागारे वा / इदम् उच्यते शयितम् /
यथापीहैकत्यो दिवा चङ्क्रमणिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति, एवं रात्र्याः प्रथमे यामे पश्चिमे यामे / इदम् उच्यते जागृतम् /
यथापीहैकत्यस् तथा जागरिकायोगानुयुक्तो ऽनुद्दिष्टांश् च धर्मान् (श्भ् इ 184) उद्दिशति पर्यवाप्नोति, तद्यथा सूत्रं गेयं व्याकरणम् इति विस्तरेण पूर्ववत् / उद्दिष्टेषु च धर्मेषु वचसा परिचयं करोति, यदुत विस्तरेण स्वाध्यायक्रियया, परेषां वा विस्तरेण संप्रकाशयति, कालेन कालम् आलपति प्रतिसंमोदयति विज्ञैः सब्रह्मचरिभिः सार्धं तदन्यैर् वा गृहस्थैर् यदुतोद्योजनपरिष्कारार्थम् / इदम् उच्यते भाषितम् /
यथापीहैकत्यो यथाश्रुतानां यथा पर्यवाप्तानां धर्माणां वचसा परिजितानाम् एकाकी रहोगतो ऽर्थं चिन्तयति तुलयत्य् उपपरीक्षते / प्रतिसंलीनो वा पुनर् भवत्य् अध्यात्मम् एव चित्तं स्थापयति / संस्थापयत्य् अवस्थापयत्य् उपस्थापयति दमयति शमयति व्युपशमयत्य् एकोतीकरोति समाधत्ते विपश्यनायां वा योगं कोरोति / अयम् उच्यते तूष्णींभावः* /
यथापीहैकत्यो ग्रीष्मसमये प्रत्युपस्थित उत्तमग्रीष्मपरिदाहकाले वर्तमाने, उष्णेन वा बाध्यते श्रान्तो वा भवति, क्लान्तस्योत्पद्यते ऽकाले निद्राक्लमः स्वपितुकामः / अयम् उच्यते निद्राक्लमः //
(i)-c-iil-8-a-(2)-vii ms.55b3l, sh.120-8, p.56b7, d.47b4, n.50a2, co.51b4, ch.415b7 सचेत् पुनर् अयं गतं यावन् निद्राक्लमविनोदनां तत्स्वलक्षणतः सम्यग् एव प्रजानाति / यत्र च गन्तव्यं यावन् निद्राक्लमः प्रतिविनोदयितव्यः, तद् अपि सम्यग् एव प्रजानाति / यदा च गन्तव्यं यावद् यदा निद्राक्लमः प्रतिविनोदयितव्यः, तद् अपि सम्यग् एव प्रजानाति / यथा च गन्तव्यं भवति यथा च यावन् निद्राक्लमः प्रतिविनोदयितव्यः, तद् अपि सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् /
स तेन संप्रजन्येन समन्वागतो गच्छन् यावन् निद्राक्लमम् (श्भ् इ 186) प्रतिविनोदयन् स चेज् जान्ति, "गच्छामि यावन् निद्राक्लमं प्रतिविनोदयामी"ति / यत्र च गन्तव्यं भवति यत्र च यावन् निद्राक्लमः प्रतिविनोध्यितव्यो भवति, तत्र गच्छति तत्र यावन् निद्राक्लमं प्रतिविनोदयति / यदा च गन्तव्यं भवति यदा च यावन् निद्राक्लमः प्रतिविनोदयितव्यो भवति, तदा गच्छति तदा यावन् निद्राक्लमं प्रतिविनोदयति / यथा च गन्तव्यं भवति यथा यावन् निद्राक्लमः प्रतिविनोदयितव्यो भवति, तथा गच्छति तथा यावन् निद्राक्लमं प्रतिविनोदयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुत गतस्थितनिषण्णशयितजागृतभाषिततूष्णींभावनिद्राक्लमप्रतिविनोदनायाम् //
(i)-c-iil-8-a-(3)-i ms.55b5r, sh.121-3, p.57a6, d.48a2, n.50a7, co.52a2, ch.415b20 संप्रजानद्विहारितायाः कतमानुपूर्वी, कतमा वस्तुविभावना / यथापीहैकत्यो यं यम् एव ग्रामं वा निगमं वोपनिश्रित्य विहरति /
तस्यैवं भवति / "मया खल्व् अयं ग्रामो वा निगमो वा पिण्डायोपसंक्रमितव्यः / पिण्डाय चरित्वा पुनर् एव विहारं प्रतिनिष्क्रमितव्यम् / सन्ति पुनर् अत्र कुलानि ग्रामे वा नगरे वा यानि मया नोपसंक्रमितव्यानि, तानि पुनः कतमानि / तद्यथा घोषंऽ पानागारं वेश्यं राजकुलं चण्डालकठिनम् / यानि वा पुनः कुलान्य् एकान्तेन प्रतिहतान्य् अप्रत्युदावर्तानि /
सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि / तद्यथा क्षत्रियमहासालकुलानि वा ब्राह्मणमहासलकुलानि वा गृहपतिमहासालकुलानि वा नैगमकुलानि वा जानपदकुलानि वा धनिकुलानि वा श्रेष्ठिकुलानि वा सार्थवाहकुलानि वा /
यानि वा कुलानि मयोपसंक्रमितव्यानि तानि नातिसायम् उपसंक्रमितव्यानि तानि विकालम् / न च कार्यव्यग्रेषु दायकदानपतिषु, न क्रीडारतिमण्डनयोगम् अनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु / तथा चोपसंक्रमितव्यानि यथोपसंक्रामन्न् अहं न भ्रान्तेन हस्तिना सार्धं समागच्छेयं न भ्रान्तेन रथेन पुनश् चण्डेनाश्वेन न चण्डया गवा न चण्डेन कुक्कुरेण / न गहनं न कण्टकवाटं वा मर्देयं, न श्वभ्रे पल्वले प्रपाते प्रपतेयम् / न स्यन्दनिकायां न (श्भ् इ 190) गूथकठिक्के / चन्द्रोपमश् च कुलान्य् उपसंक्रमेयं ह्रीमान् अप्रगल्भो व्यवकृष्य कायं व्यवकृष्य चित्तं न लाभकामो न सत्कारकामः / यथा स्वेन लाभेन सुचित्तः सुमनास् तथा परस्यापि लाभेन सुचित्तः सुमना अनात्मोत्कर्ष्य् अपरपंसको ऽनुकंपाचित्तो दयाचित्तः / एवं च पुनर् उपसंक्रमितव्यानि / तत् कुत एतल् लभ्यं प्रव्रजितेन परकुलेषु यद् ददतु मे परे मा न ददतु, यावत् त्वरितं मा धन्धम् इति विस्तरेण / उपसंक्रम्य च मे प्रतिग्रहे मात्रा करणीया / न च लाभहेतोः कुहना करणीया लपना नैमित्तिकता नैष्पेषिकता लाभेन लाभनिश्चिकीर्षता करणीया / स च लाभो ऽरक्तेन परिभोक्तव्यः, असक्तेनागृद्धेनाग्रथितेनामूधितेनानध्यवसितेनाध्यवसायम् अनापन्नेन" //
(i)-c-iil-8-a-(3)-ii म्स्. 56अ6म्, sh.122-20, w.*74,17*;20**, p.58a5, d.48b7, n.51a5, co.53a1, ch.415c20 यानि च रूपाणि तत्रोपसंक्रमतोपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति न तान्य् एकत्यानि द्रष्टव्यानि तानि चैकत्यानि द्रष्टव्यानि / तत्र यानि न द्रष्टव्यानि तेषूत्क्षिप्तचक्षुषा भवितव्यं सुसंवृतेन्द्रियेण / यानि पुनर् द्रष्टव्यानि तेषु सूपस्थितां स्मृतिम् उपस्थाप्य / (श्भ् इ 192) कथंरूपाणि पुना रूपाणि नावलोकयितव्यानि / तद्यथा नटो नर्तको हासको लासक इति / यद् वा पुनर् अन्यच् चारणजातं नृत्ते वा गीते वा वादिते वा प्रवृत्तम् / तथा मातृग्रामो विशेषेण पुनः शिशुर् उदारवर्णो रञ्जनीय इति / यानि च पुना रूपाणि दृष्टानि ब्रह्मचर्योपघाताय ब्रह्मचर्यान्तरायाय, पापकानां चाकुशलानां वितर्काणां समुदाचाराय संवर्तेरन् / तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि /
"कथंरूपाणि पुना रूपाणि द्रष्टव्यानि" / तद्यथा जीर्णं वा वृद्धं वा महैइअकं वा खुरुखुरुप्रश्वासकायं पुरतःप्राग्भारकायं दण्डम् अवष्टभ्य प्रवेपमानेन कायेन, आबाधिकं वा दुःखितं बाढग्लानम् आध्मातपादम् आध्मातहस्तम् आध्मातोदरम् आध्मातमुखं पाण्डुकछविवर्णम्, दर्द्रूलं वा कच्छूलं वा कुष्ठितं वा दुःखितहतगात्रम्, पक्वगात्रम् उपहतेन्द्रियं, मृतं वा कालगतम् एकाहमृतं वा द्व्यहमृतं वा सप्ताहमृतं वा, काकैः कुररैः खाद्यमानं, गृध्रैह् श्वभिः सृगालैर् विविधैर् वा तिर्यग्जातिगतैः प्राणिभिर् भक्ष्यमाणम् अभिनिर्ह्रियमाणं वा / मञ्च आरोप्योपरि वितानेन प्रसारितेन पुरतः पृष्ठतश् च महाजनकायेन रोदमानेन क्रन्दमानेन भस्मावकीर्णप्रमुक्तकेशेन तथा शोकजातं दुःखजातं परिदेवजातं दौर्मनस्यजातम् उपायासजातं, यन् "मया द्रष्टव्यम्" इत्य् एवंरूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि, यानि ब्रह्मचर्यानुग्रहाय कुशलानां च वितर्काणां समुदाचाराय संवर्तन्ते //
(i)-c-iil-8-a-(3)-iii ms.56b5r, sh.124-6, p.59a1, d.49b2, n.52a1, co.53b3, ch.416a10 न कायप्रचालकम् उपसंक्रमितव्यं न बाहुप्रचालकं न शीर्षप्रचालकं नोच्चग्घिकया न हस्तावलग्निकया न सोढौकिकया / नाननुज्ञातेनासने निषत्तव्यं, नाप्रत्यवेक्ष्यासनम्, न सर्वकायम् समवधाय, न पादे पादम् आधाय, न सक्थ्नि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ //
(i)-c-iil-8-a-(3)-iv ms.56b6r, sh.124-12, p.59a4, d.49b4, n.52a3, co.53b5, ch.416a15 नोद्गुण्ठिकया कृतेन, नोच्चस्तिकया, न वितस्तिकया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं नात्यपकृष्टम्, न हस्तिशुण्डकं न तालवृन्तकं न नागफणकं न कुल्माषपिण्डिकं चीवरं प्रावरितव्यम् / नानागते खादनीये पात्रम् उपनामयितव्यं, न च खादनीयभोजनीयस्योपरि धारयितव्यम् / नानास्तीर्णे पृथिवीप्रदेशे प्रपाते प्राग्भारे पात्रं स्थापयितव्यम् //
(i)-c-iil-8-a-(3)-v ms.57a2l, sh.124-19, p.59a7, d.49b6, n.52a6, co.53b7, ch.416a20 सावदानं पिण्डपातं परिभोक्तव्यम् / नौदनेन सूपिकं प्रतिच्छादयितव्यम्, न सूपिकेनौदनम् / नातित्तिनिकायोगम् अनुयुक्तेन परिभोक्तव्यम् / नातिस्थूलं नातिपरीत्तं परिमण्डलम् आलोप आलोपयितव्यम् / न हस्तावलेहकं न पात्रावलेहकम्, न हस्तसंधूनकं न पात्रसंधूनकम्, न कवडच्छेदकम्, पिण्डपातं परिभोक्तव्यम् //
(i)-c-iil-8-a-(3)-vi ms.57a3l, sh.125-6, p.59b2, d.50a1, n.52b1, co.54a2, ch.416a25 "विहारगतेनापि मे तेभ्यः कुलेभ्यः प्रत्यागतेन प्रतिनिष्क्रान्तेन दिवा वा रात्रौ वा प्रातिपौद्गलिके चङ्क्रमे चङ्क्रमितव्यं, न परक्ये ऽविश्वास्ये ऽप्रवारिते ऽनुद्दिष्टे / न श्रान्तकायेन न क्लान्तकायेन, अनौद्धत्याभिनिगृहीते चित्ते, कुशलपक्षप्रयुक्ते नाकुशलमनसिकारानुगते (श्भ् इ 200) ऽन्तर्गतैर् इन्द्रियैर् अबहिर्गतेन मानसेन, नातिद्रुतं नातिचपलं नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता कालेन कालं तिष्ठता /
तथा स्वे विहारे स्वे परिगणे स्वक्यां कुटिकायाम् उद्देशिकायां प्रातिपौद्गलिकायां, न परक्यायाम् अविश्वास्यायाम् अप्रवारितायाम् / तथा मञ्चे वा पीठे वा तृणसंस्तरणे वा, अरण्ये वा वृक्षमूले वा शून्यागारे वा निषत्तव्यं, पर्यङ्कम् आभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखीं स्मृतिम् उपस्थाप्य //
(i)-c-iil-8-a-(3)-vii ms.57a5m, sh.125-20, p.59b7, d.50a6, n.52b5, co.54a6, ch.416b8 रात्र्या मध्यमे यामे स्वपितव्यम् / दिवा पूर्वकं च यामम् कुशलपक्षेणातिनामयितव्यम् / एवं च पुनः स्वपितव्यं, आलोकसंज्ञिना स्मृतेन संप्रजानेनोत्थानसंज्ञाम् एव मनसिकुर्वता, रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य //
(i)-c-iil-8-a-(3)-viii ms.57a6m, sh.126-3, p.60a1, d.50a7, n.52b6, co.54b1, ch.416b11 bhāṣye vā svādhyāyakriyāyāṃ vā yogaḥ karaṇīyaḥ, prahāṇe vā pratisaṃlayane, dharmacintāyām / lokāyatāś ca mantrā vivarjayitavyāḥ, citrākṣarāś citrapadavyañjanā anarthopasaṃhitāḥ, ye nābhijñāyai na saṃbodhāya na nirvāṇāya saṃvartante / ye vā punar dharmās tathāgatabhāṣitā gambhīrā gambhīrābhāsāḥ śūnyatāpratisaṃyuktā idaṃpratyayatāpratītyasamutpādānulomās te satkṛtyodgṛhītavyāḥ dṛḍhaṃ ca sthiraṃ ca sūdgṛhītāś ca na nāśayitavyāḥ, pratipattyāḥ saṃpādanārthaṃ, na lābhasatkārahetoḥ / te ca punar dharmā vacasā suparijitāḥ kartavyāḥ / na ca saṅgaṇikāyā atināmayitavyam na karmārāmatayā na bhāṣyārāmatayā, kālena ca kalam upasthitayā smṛtyā vijñasya sabrahmacāriṇa ālapitavyāḥ saṃlapitavyāḥ pratisaṃmodayitavyāḥ / paripṛcchanajātīyena ca bhavitavyaṃ, kiṃkuśalagaveṣiṇā, anupālambhacittena, mitavādinā, yuktabhāṇinā, [gnam por smra ba daṅ] praśāntabhāṇinā ca, pareṣāṃ dhārmyāṃ kathāṃ kathayitukāmena / tūṣṇīṃbhāvena ca ye pāpakā akuśalā vitarkā na (śbh i 204) vitarkayitavyāḥ / na cāyoniśodharmacintāprayuktena / [mṅon pa'i ṅa rgyal can du mi bya ba daṅ / khyad par rtogs pa cuṅ zad tsam daṅ / ṅan ṅon tsam gyi bar ma dor sgyid lug par mi bya ba daṅ / bsaṃ par mi bya ba'i gnas rnams yoṅs su spaṅ bar bya ba daṅ / dus dus su źi gnas daṅ / lhag mthoṅ la brtson par bya ba daṅ / spoṅ ba la dga' ba daṅ / rgyun du chud par bya ba la brtson pa daṅ / gus par bya ba la brtson par bya'o sñam pa daṅ //
(i)-c-iil-8-a-(3)-ix ms.-, sh.-, p.60b2, d.50b7, n.53a7, co.55a1, ch.416b29 bdag dpyid ka'i tsha bas gduṅs pa'm / de ltar brtson pa daṅ / 'bad pa daṅ / rtsol ba'm / ruṅ ba'i bya ba cuṅ zad byed pas yoṅs su ṅal ba'i rgyu daṅ / yoṅs su ṅal ba'i gźi las dus ma yin par gñid kyi sñom pa skye bar gyur na / de'i don du ci nas kyaṅ myur ba myur ba kho nar de med par 'gyur źiṅ / dus yun riṅ por dge ba'i phyogs ñams par mi 'gyur ba daṅ / dge ba'i phyogs kyi bar chad du mi 'gyur bar bya ba'i phyir / yud tsam źig gñid bsaṅ bar bya ste / der yaṅ bdag gi sgo bcad pa'm / dge sloṅ yod na ltar gźug pa'm / 'dul ba'i bsruṅ ba daṅ / 'dul ba'i cho gas chos gos kyis bciṅs la / gnas dben par 'dug ste / gñid bsaṅ bar bya'o sñam du sems pa yin te / des na de'i gñid kyi sñom pa rnam pa thams cad kyi thams cad du med par 'gyur ro //
(i)-c-iil-8-a-(4) म्स्.-, स्ह्.-, p.60b6, d.51a3, n.53b3, co.55a4, ch.416c7 दे नि ऽदि ल्त स्ते / र्ग्यु ब दङ् स्प्योद् प लस् ब्र्त्सम्स् नस् / शेस् ब्źइन् दु (श्भ् इ 206) स्प्योद् प ञिद् क्यि गो रिम्स् यिन् ते / दन् पो खो नर् दे ल्तर् त्स्हुल् ब्źइन् यिद् ल ब्येद् प दङ् / शेस् रब् दङ् ल्दन् पऽइ सेम्स् म्ङोन् पर् ऽदु ब्येद् प गङ् यिन् प दे नि देऽइ शेस् ब्źइन् źएस् ब्यऽओ //
दे ल्तर् शेस् ब्źइन् दङ् ल्दन् पस् र्ग्यु ब दङ् स्प्योद् प थम्स् चद् मि ञुङ् बर् स्ग्रुब् पर् ब्येद् प गङ् यिन् प दे नि शेस् ब्źइन् दु स्प्योद् प ञिद् चेस् ब्यऽओ //
de la 'gro ba daṅ / ldog pa daṅ / chuṅ zad bltas pa daṅ / rnam par bltas pa daṅ / bskum pa daṅ / brkyaṅ ba daṅ / snam sbyar daṅ / chos gos daṅ / lhuṅ bzed bcaṅ ba gaṅ yin pa daṅ / zos pa daṅ / 'thuṅs pa daṅ / 'chos pa daṅ / myaṅs pa gaṅ yin pa de la śes bźin du spyod pa gaṅ yin pa de ni groṅ du rgyu ba daṅ ldan pa la śes bźin du spyod pa ñid ces bya'o //
दे ल सोङ् ब दङ् / स्दोद् प दङ् / ऽदुग् प दङ् / ञल् ब दङ् / मि ञल् ब दङ् / स्म्र ब दङ् / मि स्म्र ब गङ् यिन् प दङ् / ग्ञिद् क्यि स्ञोम् प ब्सङ् ब गङ् यिन् प दे ल शेस् ब्źइन् दु स्प्योद् प गङ् यिन् प दे नि ग्त्सुग् लग् खङ् न स्प्योद् प दङ् ल्दन् प ल शेस् ब्źइन् दु स्प्योद् प ञिद् चेस् ब्य स्ते /
दे नि रे źइग् शेस् ब्źइन् दु स्प्योद् प ञिद् क्यि र्नम् पर् द्ब्ये ब र्ग्यस् प यिन् पर् रिग् पर् ब्यऽओ //
(i)-c-iil-8-b-(1) म्स्.-, स्ह्.-, p.61a3, d.51b1, n.53b7, co.55b2, ch.416c17 दोन् म्दोर् ब्स्दु ब गङ् źए न / र्ग्यु ब दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ दङ् / स्प्योद् प दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ दङ् / र्ग्यु ब दङ् ल्दन् प दङ् / स्प्योद् प दङ् ल्दन् पऽइ लस् ल शेस् ब्źइन् दु स्प्योद् प र्नम् प ब्źइ गङ् यिन् प दे नि दोन् म्दोर् ब्स्दु ब źएस् ब्यऽओ //
de la rgyu ba daṅ ldan pa'i las rnam pa lṅa gaṅ źe na / 'di lta ste / lus kyi las daṅ / mig gi las daṅ / yan lag daṅ / ñiṅ lag thams cad kyi las daṅ / chos gos daṅ / lhuṅ bzed kyi las daṅ / bsod sñoms kyi las te / de ni rgyu ba daṅ ldan pa'i las rnam pa lṅa źes bya'o //
de la re źig ldog pa daṅ 'gro ba źes bya ba gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i lus kyi las bstan to // "chuṅ zad bltas pa daṅ / rnam par bltas pa" źes gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i mig gi las bstan to // (śbh i 208) "bskum pa daṅ / brkyaṅ ba" źes bya ba gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i yan lag daṅ ñiṅ lag thams cad kyi las bstan to // "snam sbyar daṅ / chos gos daṅ / lhuṅ bzed bcaṅ ba" źes gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i chos gos daṅ / lhuṅ bzed kyi las bstan to // "zos pa daṅ / 'thuṅs pa daṅ / 'chos pa daṅ / myaṅs pa" źes gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i bsod sñoms kyi las bstan to //
स्प्योद् प दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ गङ् źए न / ऽदि ल्त स्ते / लुस् क्यि लस् दङ् / ङग् गि लस् दङ् / यिद् क्यि लस् दङ् / ञिन् मोऽइ लस् दङ् / म्त्स्हन् मोऽइ लस् ते / दे नि स्प्योद् प दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ źएस् ब्यऽओ //
दे ल रे źइग् "सोङ् ब दङ् / स्दोद् प दङ् / ऽदुग् प" źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ लुस् क्यि लस् ब्स्तन् तो // "स्म्र ब" źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ ङग् गि लस् ब्स्तन् तो // "ञल् ब दङ् / मि स्म्र ब दङ् / ग्ञिद् क्यि स्ञोम् प ब्सङ् ब" źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ यिद् क्यि लस् ब्स्तन् तो // "मि ञल् ब" źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ ञिन् मोऽइ लस् दङ् / म्त्स्हन् मोऽइ लस् दङ् / लुस् क्यि लस् दङ् / ङग् गि लस् क्यङ् ब्स्तन् तो // "ञल् ब" źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ म्त्स्हन् मोऽइ लस् दङ् यिद् क्यि लस् खो नर् यङ् ब्स्तन् ते / दे नि स्प्योद् प दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ यिन् पर् रिग् पर् ब्यऽओ //
(i)-c-iil-8-b-(2) ms.-, sh.-, p.61b6, d.52a1, n.54b1, co.56a3, ch.417a6 de la rgyu ba daṅ ldan pa daṅ / spyod pa daṅ ldan pa'i las la śes bźin du spyod pa rnam pa bźi gaṅ źe na / daṅ po kho nar "las 'di lta bu źig brtsam mo" źes rgyu ba'i las sam / spyod pa'i las śig rtsoṃ par byed pa na / las de ñid la dran pa ñe bar gźag ciṅ / bag yod par spyod la / las de dran pas yoṅs su zin ciṅ bag yod pas kyaṅ yoṅs su zin pas / gźi gaṅ la phyogs gaṅ du / dus gaṅ gi tshe ji sñed cig rnam pa gaṅ gis ji ltar brtag par bya ba'i gźi de la / phyogs der dus de'i tshe / de sñed cig rnam pa des de ltar rtog par byed ciṅ rab tu śes par byed pa ste / de ltar rtog par byed ciṅ / rab tu śes par byed pa na tshe 'di ñid la kha na ma tho ba med pa daṅ / lhuṅ ba med pa (śbh i 210) daṅ / 'gyod pa med pa daṅ / yid la gcags pa med pa daṅ / rjes su gduṅ ba med par 'gyur ba daṅ / tshe phyi ma la yaṅ kha na ma tho ba med ciṅ lus źig ste / śi ba'i 'og tu ṅan son ṅan 'gro log par ltuṅ ba sems can dmyal ba rnams su skye bar mi 'gyur ba daṅ / ma thob pa thob par bya ba'i tshogs kyi rgyu byas par 'gyur ba yin no //
दे नि शेस् ब्źइन् दु स्प्योद् प ञिद् क्यि दोन् म्दोर् ब्स्दुस् प यिन् ते / र्नम् पर् द्ब्ये ब र्ग्यस् पर् स्ङ म गङ् यिन् प दङ् / दोन् म्दोर् ब्स्दु ब गङ् यिन् प दे नि शेस् ब्źइन् दु स्प्योद् प ञिद् चेस् ब्यऽओ //
(i)-c-iil-9-a-(1) ms.-, sh.-,w.*74-24(englisḥ tr.),p.62a4,d.52a6,n.54b6,co.56a7, ch.417a19 de la dge ba'i bśes gñen gaṅ źe na / rgyu rnam pa brgyad kyis rnam pa thams cad yoṅs su rdzogs pa'i dge ba'i bśes gñen yin par rig par bya'o //
brgyad gaṅ źe na / 'di ltar 'di na la la daṅ po kho nar tshul khrims la gnas pa yin pa daṅ / maṅ du thos pa yin pa daṅ / rtog pa daṅ ldan pa yin pa daṅ / rjes su sñiṅ brtse ba daṅ ldan pa yin pa daṅ / yid yoṅs su mi skyo ba yin pa daṅ / bzod pa daṅ ldan pa yin pa daṅ / mi 'jigs pa daṅ ldan pa yin pa daṅ / tshig gi bya ba daṅ ldan pa yin no //
(i)-c-iil-9-a-(1)-i ms.-, sh.-, p.62a6, d.52b1, n.55a1, co.56b2, ch.417b1 de la ji ltar na tshul khrims la gnas pa yin źe na / rgyas par sṅa ma bźin du tshul khrims daṅ ldan par gnas pa daṅ / so sor thar ba'i sdom pas bsdams pa daṅ / dge sbyoṅ gi lam 'dod pa daṅ / bram ze'i lam 'dod pa daṅ / bdag dul bar bya ba daṅ / bdag źi bar bya ba daṅ / bdag yoṅs su mya ṅan las 'da' bar bya ba'i phyir źugs pa yin te / de ltar na tshul khrims la gnas pa yin no //
(i)-c-iil-9-a-(1)-ii ms.57b2r, sh.127-2, p.62a8, d.52b3, n.55a2, co.56b3, ch.417b5 ji ltar na maṅ du thos pa yin źe na / des chos tshaṅs par spyod pa daṅ / thog mar dge ba / bar du dge ba / tha mar dge ba / don bzaṅ po / tshig 'bru bzaṅ po / ma 'dres pa / yoṅs su rdzogs pa / yoṅs su dag pa / yoṅs su byaṅ ba gaṅ dag yin pa de dag mṅon par brjod pas mṅon par rjod par byed pa daṅ / evaṃrūpā anena bahavo dharmā udgṛhītā bhavanti dhṛtā vacasā parijitā manasā cānvīkṣitā dṛṣṭyā supratividdhāḥ / evaṃ bahuśruto bhavati //
(i)-c-iil-9-a-(1)-iii ms.57b3l, sh.129-1, p.62b3, d.52b5, n.55a4, co.56b5, ch.417b9 कथम् अधिगन्ता भवति / लाभी भवत्य् अनित्यसंज्ञाया अनित्ये दुःखसंज्ञाया दुःखे ऽनात्मसंज्ञाया आहारे प्रतिकूलसंज्ञायाः सर्वलोके ऽनभिरतिसंज्ञाया आदीनवसंज्ञायाः प्रहाणसंजाया विरागसंज्ञाया निरोधसंज्ञाया मरणसंज्ञाया अशुभसंज्ञाया विनीलकसंज्ञाया विपूयकसंज्ञाया विपडुमकसंज्ञाया व्याध्मातकसंज्ञाया विखादितकसंज्ञाया विलोहितकसंज्ञाया विक्षिप्तकसंज्ञाया अस्थिसंज्ञायाः शून्यताप्रत्यवेक्षणसंज्ञायाः / लाभी भवति प्रथमस्य ध्यानस्य द्वितीयस्य तृतीयस्य चतुर्थस्याकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनस्य मैत्र्याः करुणाया मुदिताया उपेक्षायाः स्रोतआपत्तिफलस्य सकृदागामिफलस्यानागामिफलस्य चर्द्धिविषयस्य पूर्वनिवासस्य दिव्यस्य श्रोत्रस्य च्युत्युपपादस्य चेतःपर्यायस्यार्हत्त्वस्याष्टविमोक्षध्यायित्वस्य / शक्तो भवति प्रतिबलश् च परेषां त्रिभिः प्रातिहार्यैर् अववदितुम्, ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण, अनुशासनाप्रातिहार्येण / एवम् अधिगन्ता भवति //
(i)-c-iil-9-a-(1)-iv ms.57b5m, sh.129-16, p.63a3, d.53a4, n.55b4, co.57a5, ch.417b22 कथम् अनुकम्पको भवति / परेषाम् अन्तिके कारुणिको भवति दयापन्नह् / अर्थकामो भवति हितकामः सुखकामः स्पर्शकामो योगक्षेमकामः / एवम् अनुकम्पको भवति //
(i)-c-iil-9-a-(1)-v ms.57b5r, sh.129-20, p.63a5, d.53a5, n.55b5, co.57a6, ch.417b25 कथम् अपरिखिन्नमानसो भवति / संदर्शको भवति समादापकः समुत्तेजकः संप्रहर्षकः / अयासी चतसृनां पर्षदां धर्मदेशनायै दक्षो भवत्य् अनलस उत्थानसंपन्न आरब्धवीर्यजातीयः / एवम् अपरिखिन्नमानसो भवति //
(i)-c-iil-9-a-(1)-vi ms.57b6r, sh.130-2, p.63a7, d.53a7, n.55b7, co.57b1, ch.417b29 कथं क्षमावान् भवति / आक्रुष्टो न प्रत्याक्रोशति / रोषितो न प्रतिरोषयति / तादितो न प्रतिताडयति / भण्डितो न प्रतिभण्डयति / आकोटानप्रत्याकोटानक्षमो भवति / प्रगाढेष्व् अपि बन्धनेषु रोधनेषु ताडनेषु कुत्सनेषु तर्जनेषु छेदनेष्व् आत्मापराधी भवति / कर्मविपाकं च प्रतिसरति / न परेषाम् अन्तिके कुप्यति / नाप्य् अनुशयं वहति / इति विमानितो ऽपि विवर्णितो ऽपि विजुगुप्सितो ऽपि न विकृतिम् आपद्यते / नान्यत्रार्थायैव चेतयते / क्षमश् च भवति शीतस्योष्णस्य जिघत्सायाः पिपासाया दंशमशकवातातपसरीसृपसंस्पर्शानाम् / परतो दुरुक्तानाम् दुरागतानां वचनपथानाम् उत्पन्नानां शारीरिकाणां वेदनानां दुःखानां तीव्राणां खराणां कटुकानाम् अमनआपानां प्राणहारिणीनां क्षमो भवत्य् अधिवासनजातीयः / एवं क्षमावान् भवति //
(i)-c-iil-9-a-(1)-vii ms.58a2l, sh.130-18, p.63b5, d.53b5, n.56a5, co.57b6, ch.417c9 कथं विशारदो भवति / असंलीनचित्तः पर्षदि धर्मं देशयत्य् अगद्गदस्वरो ऽसंप्रमुषितस्मृतिप्रतिभानः / न चास्य शारद्यहेतोः शारद्यनिदानं भयं वाक्रामति समाविशति / नापि कक्षाभ्यां स्वेदो मुच्यते रोमकूपेभ्यो वा / एवं विशारदो भवति //
(i)-c-iil-9-a-(1)-viii ms.58a2r, sh.131-4, p.63b6, d.53b6, n.56a6, co.57b6, ch.417c13 कथं वाक्करणेनोपेतो भवति / पौर्या वाचा समन्वागतो भवति, वल्ग्वा, विस्पष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, अपर्यन्तया / एवं वाक्करणेनोपेतो भवति कल्याणवाक्यः //
(i)-c-iil-9-a-(2) ms.58a3m, sh.131-9, w.*74-33, p.63b8, d.57b7, n.56a7, co.58a1, ch.417c17 स एभिर् अष्टाभिः कारणैः समन्वागतश् चोदको भवति, स्मारकः अववादकः, अनुशासकः, धर्मदेशकः //
(i)-c-iil-9-a-(2)-i ms.58a3r, sh.131-12, p.64a1, d.54a1, n.56b1, co.58a1, ch.417c18 कथं चोकदो भवति / यद् उताधिशीले च शीलविपत्त्या, अध्याचर आचारविपत्त्या, दृष्टेन श्रुतेन परिशङ्कया चोदयति, भूतेन नाभूतेन कालेन नाकालेनार्थोपसंहितेन नानर्थोपसंहितेन श्लक्ष्णेन न परुषेण मित्रवत्तया न द्वेषान्तरेण / एवं चोदको भवति //
(i)-c-iil-9-a-(2)-ii ms.58a4r, sh.131-18, w.*75-1, p.64a3, d.54a3, n.56b3, co.58a3, ch.417c23 कथं स्मारको भवति / आपत्तिं वा स्मारयति धर्मं वार्थं वा / कथम् आपत्तिम् स्मारयति / यथापि तदापत्तिम् अध्यापद्यमानो न स्मरति तम् एनं स्मारयति, "आयुष्मन्न् अमुष्मिन् देशे, अमुष्मिन् वस्तुनि, अमुष्मिन् काले, एवंरूपं चैवंरूपाम् आपत्तिम् आपन्न" इति / एवम् आपत्तिं स्मारयति /
कथं धर्मं स्मारयति / यथापि तच्छ्रुतानुगृहितान् धर्मान् एकाकी न स्मरति, स्मर्तुम् इच्छति / तद्यथा सूत्रं गेयं व्याकरणम् इति विस्तरेण पूर्ववन् न स्मरति तम् एनं स्मारयति / उत्स्मारणिकां वास्यानुप्रयच्छति, आपृच्छनपरिपृच्छनिकां वा / एवं धर्मं स्मारयति /
कथम् अर्थं स्मारयति / यथापि तदर्थं विस्मरति तम् एनं स्मारयति / पुनर् अपि प्रतिनवीकरोति, उत्तानीकरोति, देशयति, संप्रकाशयति, यच् चापि कुशलम् अर्थोपसंहितं ब्रह्मचर्योपसंहितं चिरकृतं चिरभाषितम् अप्य् अनुस्मारयिता भवति / एवं स्मारको भवति //
(i)-c-iil-9-a-(2)-iii ms.58a7m, sh.132-16, p.64b1, d.54b1, n.57a1, co.58b1, ch.418a8 कथम् अववादको भवति / प्राविवेक्ये प्रतिसंलयने योगे मनसिकारे शमथविपश्यनायां कालेन कालम् आनुलोमिकम् अववादं प्रवर्तयति / कालेन च कालं तत्प्रतिसंयुक्तां कथां करोति / तद्यथा चेतोविनिवरणसांप्रेयगामिनीं शीलकथां वा समाधिकथां वा प्रज्ञाकथां वा विमुक्तिकथां वा विमुक्तिज्ञानदर्शनकथां वाल्पेच्छाकथां वा संतुष्टिकथां वा प्रहाणकथां विरागकथां निरोधकथाम् अपचयकथाम् असंसर्गकथाम् दंप्रत्ययताप्रतीत्यसमुत्पादानुइओमां कथां करोति / एवम् अववादको भवति //
(i)-c-iil-9-a-(2)-iv ms.58b2l, sh.133-3, p.64b5, d.54b4, n.57a4, co.58b4, ch.418a15 कथम् अनुशासको भवति / धर्मेण विनयेन शास्तुः शासने समनुशासको (श्भ् इ 222) भवति / आचार्यो वोपाध्यायो वा सहधार्मिको वा गुरुर् वा गुरुस्थानीयो वान्यतमान्यतमस्मिन्न् अधिकरणे ऽत्रिसृतं व्यतिक्रान्तं विदित्वा, कालेन कालम् अवसादयति दण्डकर्मानुप्रयच्छति प्रवासयति चैनं / पुनर् अपि च धर्मेण समये प्रतिसंस्तरसामीचीसंज्ञपितिं प्रतिगृह्णाति संग्राहकश् च भवति / करणीये चाकरणीये वाध्याचारानध्याचाराद् अध्याचीर्णे ऽनध्याचीर्णे च शास्त्य् अनुशास्ति / एवम् अनुशासको भवति //
(i)-c-iil-9-a-(2)-v ms.58b3m, sh.133-13, p.64b8, d.54b6, n.57a7, co.58b7, ch.418a23 कथं च धर्मदेशको भवति / कालेन कालं पूर्वकालकरणीयां कथां करोति, तद्यथा दानकथां शीलकथाम् स्वर्गकथाम् / कामेष्व् आदीनवनिःसरणान् व्यवदानपक्षान् धर्मान् विस्तरेण संप्रकाशयति / कालेन कालं सामुत्कर्षिकीं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति / दुःखं वारभ्य समुदयं वा निरोधं वा मार्गं वा / सत्त्वपरिपाकाय वा सत्त्वव्यवदानाय वा सद्धर्मस्य वा चिरस्थितये / युक्तैः पदव्यञ्जनैः सहितैर् आनुलोमिकैर् आनुच्छविकैर् औपायिकैः प्रतिरूपैः प्रदक्षिणैर् निपकस्याङ्गसंभारैः /
तां च पुनः कथां कालेन करोति, सत्कृत्यानुपूर्वम् अनुसंधिम् अनुसहितं हर्षयन् रोचयन् तोषयन्न् उत्साहयन्न् अनवसादयंस् च युक्तां सहिताम् अव्यवकीर्णां धार्मिकीं यथापर्षन् मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तो ऽनिश्रितो लाभसत्कारश्लोके न चात्मानम् उत्कर्षयति, न परान् पंसयति / एवं धर्मदेशको भवति //
(i)-c-iil-9-a-(3) ms.58b6l, sh.134-9, p.65a7, d.55a5, n.57b6, co.59a5, ch.418b7 यश् चैभिर् अष्टाभिर् अङ्गैः समन्वागतो भवति, एवं च कालेन कालं चोदको भवति स्मारको ऽववादको ऽनुशासको धर्मदेशकह्, तस्मात् स कल्याणमित्र इत्य् उच्यते / अयं तावत् कल्याणमित्रताया विस्तरविभागः//
(i)-c-iil-9-b ms.58b6r, sh.134-14, p.65b1, d.55a6, न् 57ब्7, co.59a7, ch.418b10 समासार्थः पुनः कतमः / सचेद् अयं मित्रसुहृदनुकम्पक आदित एव हितकामो भवति, सुखकामश् च / तच् च पुनर् हितसुखं यथाभूतं प्रजानाति, अविपर्यस्तो भवत्य् अविपरीतदृष्टिः / प्रतिबलस् च भवत्य् उपायकुशलः यद् उतास्यैव हितसुखस्य समुदागमायोपसंहाराय / दक्षस् च भवत्य् अनलस उत्थानसंपन्न आरब्धवीर्यजातीयः, यद् उत तम् एव हितसुखोपसंहारम् आरभ्य / एभिश् चतुर्भिः कारणैः सर्वाकारपरिपूर्णः / समासतः कल्याणमित्रो वेदितव्यः / अयं च पुनः कल्याणमित्रतायाः समासार्थः /
यश् च पूर्वको विस्तरविभागो यश् चायं समासार्थ इयम् उच्यते कल्याणमित्रता //
(i)-c-iil-10-a-(1) ms.59a2r, sh.135-6, w.*75-6, p.65b5, d.55b3, n.58a4, co.59b3, ch.418b19 सद्धर्मश्रवणचिन्तना कतमा / सद्धर्म उच्यते बुद्धैश् च बुद्धश्रावकैश् च सद्भिः सम्यग्गतैः सत्पुरुषैर् आख्यातो देशित उत्तानो विवृतः संप्रकाशितः /
स पुनः कतमः / तद्यथा सूत्रं गेयं व्याकरणम् इति विस्तरेण पूर्ववद् द्वादशाङ्गवचोगतम् सद्धर्म इत्य् उच्यते //
(i)-c-iil-10-a-(1)-i ms.59a3m, sh.136-1, w.*75-18, p.66a1, d.55b6, n.58a7, co.59b6, ch.418b23 तत्र सूत्रं कतमत् / यत् तत्र तत्र भगवता तांस् तान् विनेयांस् तानि तानि विनेयचारितानि चारभ्य स्कन्धप्रतिसंयुक्ता वा कथा कृता, धातुप्रतिसंयुक्ता वा कथा कृता, धातुसङ्गणप्रतिसयुक्ता वा, आयतनप्रतिसंयुक्ता वा, प्रतीत्यसमुत्पादप्रतिसंयुक्ता वा, आहारसत्यप्रतिसंयुक्ता वा, श्रावकप्रत्येकबुद्धतथागतप्रतिसंयुक्ता वा, स्मृत्युपस्थानसम्यक्प्रहाण र्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाङ्गप्रतिसंयुक्ता वा, अशुभानापानस्मृतिशिक्षावेत्यप्रसादप्रतिसंयुक्ता कथा कृता / सा च कथा संगीतिकारैः परिगृह्य शासनचिरस्थितये यथायोगम् (श्भ् इ 228) अनुपूर्वेण रचितानुपूर्वेण समायुक्ता प्रतिरूपैर् नामकायपदकायव्यञ्जनकायैर्, यद् उत तेषां तेषाम् अर्थानां सूचनाय कुशलानाम् अर्थोपसंहितानां ब्रह्मचर्योपसंहितानाम् / इदम् उच्यते सूत्रम् //
(i)-c-iil-10-a-(1)-ii ms.59a5r, sh.137-3, w.'76-16, p.66a6, d.56a3, n.58b4, co.60a4, ch.418c5 गेयं कतमत् / यस्यान्ते पर्यवसाने गाथाभिगीता, यच् च सूत्रं नेयार्थम् / इदम् उच्यते गेयम् //
(i)-c-iil-10-(1)-iii ms.59a6l, sh.137-5, w.v6-20, p.66a7, d.56a4, n.58b5, co.60a4, ch.418c7 vyākaraṇaṃ katamat / yasmiñ chrāvakebhyo 'bhyatītakālagata upapattau vyākriyate, yac ca sūtraṃ nītārtham / idam ucyate vyākaraṇam //
(i)-c-iil-10-(1)-iv ms.59a6m, sh.137-8, w.*76-26, p.66a8, d.56a4, n.58b5, co.60a5, ch.418c9 गाथा कतमा / या न गद्येन भाषिता, अपि तु पादोपनिबन्धेन द्विपदा वा त्रिपदा वा चतुष्पदा वा पञ्चपदा वा षट्पदा वा / इयम् उच्यते गाथा //
(i)-c-iil-10-a-(1)-v ms.59a7l, sh.137-11, w.*76-32, p.66b1, d.56a5, n.58b6, co.60a6, ch.418c12 उदानं कतमत् / यत् पुद्गलस्य नाम गोत्रम् अपरिकीर्तयित्वानुद्दिश्य भाषितम् आयत्यां वा सद्धर्मचिरस्थितये शासनचिरस्थितये (श्भ् इ 230) च / इदम् उच्यते उदानम् //
(i)-c-iil-10-a-(1)-vi ms.5937m, sh.138-2, w.*77-1, p.66b2, d.56a6, n.58b7, co.60a7, ch.418c14 निदानं कतमत् / यत् पुद्गलस्य नाम गोत्रं परिकीर्तयित्वोद्दिश्य भाषितम्, यच् च किंचिद् विनयप्रतिसंयुक्तं सोत्पत्तिकं सनिदानं प्रातिमोक्षसूत्रम् / इदम् उच्यते निदानम् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
