Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

शिक्षासमुच्चय

Tác giả
शान्तिदेव
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

देशना पूर्व-उक्ता + इव । आर्य-अक्षयमति-सूत्रे त्व् आत्म-पर-पाप-देशना पुण्य-संभारे पठ्यते । अनुमोदना भद्र-चर्या-गाथया । चन्द्र-प्रदीप-अनुमोदना-परिवर्तेन वा । अध्येषणा भद्र-चर्यया + एव । परिणामना तु सकल-समाप्ता + आर्य-भद्र-चर्यया + एव । वज्र-ध्वज-परिणामनां वा पश्येत् ॥

अथ-वा दश-भूमक-उक्तानि महा-प्रणिधानानि । यथा + आह । यद् उत + अ-शेष-निः-शेष-अन्-अवशेष-सर्व-बुद्ध-पूजा-उपस्थापनाय । सर्व-आकार-वर-उपेतम् उदार-अधिमुक्ति-विशुद्धं धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं । महा-पूजा-उपस्थानाय । प्रथमं महा-प्रणिधानम् अभिनिर्हरति ॥

यद् उत सर्व-तथा-गत-भाषित-धर्म-नेत्री-संधारणाय सर्व-बुद्ध-बोध्i-satva-parigrahआय । सर्व-सम्यक्-संबुद्ध-शासन-परिरक्षणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं । सर्व-संकल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं । सd-dharma-parigrahआय । द्वितीयं महा-प्रणिधानम् अभिनिर्हरति ॥

यद् उत सर्व-बुद्ध-उत्पाद-निर्-अवशेष-सर्व-लोक-धातु-प्रसरेषु । तुषित-भवन-वासम् आदिं कृत्वा च्यवन-आचङ्क्रमण-गर्भ-स्थित्i-janma-kumआर-क्रीडा-अन्तः-पुर-वास-अभिनिष्क्रमण-दुष्-कर-चर्या-बोधि-मण्ड-उपसंक्रमण-मार-धर्षण-अभिसंबोध्य्-अध्येषण-महा-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-उपसंक्रमणाय । पूजा-धर्म-संग्रह-प्रयोग-पूर्वं-गमं कृत्वा सर्व-त्रैकाल-विवर्तनाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं यावन् महा-परिनिर्वाण-उपसंक्रमणाय । तृतीयं महा-प्रणिधानम् अभिनिर्हरति ॥

यद् उत सर्व-बोध्i-satva-caryआ-विपुल-महd-gata-a-pramआण-अ-संभिन्न-सर्व-पारमिता-सु-संग्रहीतः । सर्व-भूमि-परिशोधनं स-अङ्ग-उपाङ्ग-निर्हारं यावत् स-लक्षण-वि-लक्षण-संवर्त-विवर्त-सर्व-बोध्i-satva-caryआ-भूत-यथा-वद् भूmi-patha-upadeश-पारमिता-परिकर्म-अववाद-अनुशासन्य्--अनुप्रदान-उपस्तम्भ-चित्त-उत्पाद-अभिनिर्हाराय । धर्म-ध-तु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं चित्त-उत्पाद-अभिनिर्हाराय । चतुर्थं महा-प्रणिधानम् अभिनिर्हरति ॥

यद् उत निर्-अवशेष-सर्व-सत्व-धातु-रूप्य्-अ-रूपि-संज्ञा-संज्ञि न + एव संज्ञि न + अ-संज्ञ्य् अण्ड-ज-जरायु-ज-संस्वेद-ज-औपपादुक-त्रैधातुक-पर्यापन्न-षड्-गति-समवसृत-सर्व-उपपत्ति-पर्यापन्न-नाम-रूप-संगृहीत-अ-शेष-सर्व-सत्व-धातु-परिपाचनाय । सर्व-बुद्ध-धर्म-अवतारणाय । सर्व-गति-संख्या-व्यवच्छेदनाय । सर्व-ज्ञ-ज्ञान-प्रतिष्ठापनाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-सत्व-धातु-संख्या-प्रतिप्रस्रब्धं ।सर्व-सत्व-धातु-परिपाचनाय । पञ्चमं महा-प्रणिधानम् अभिनिर्हरति ॥

यद् उत निर्-अवशेष-सर्व-लोक-धातु-विपुल-संक्षिप्त-महd-gata-a-pramआण-सूक्ष्म-औदारिक-व्यत्यस्त-अवमूर्द्ध-सम-तल-प्रवेश-समवसरण-अनुगत-इन्द्र-जाल-विभाग-दश-दिग्-अ-शेष-वैमात्र्य-प्रवेश-विभाग-ज्ञान-अनुगम-प्रत्यक्षतायै । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-लोक-धातु-संख्या-प्रतिप्रस्रब्धं लोक-धातु-वैमात्र्य-अवतारणाय । षष्ठं महा-प्रणिधानम् अभिनिर्हरति ॥

yad uta sarva-kṣetra-eka-kṣetra eka-kṣetra sarva-kṣetrai-samavaśaraṇa-pariśodhanaṃ [doubtful] | a-pramāṇa-buddha-kṣetra prabhā-vyūha-alaṃ-kāra-pratimaṇḍitaṃ | sarva-kleśa-apanayana-pariśuddhi-patha-upetaṃ | a-pramāṇa-jñāna-ākāra-satva-paripūrṇam udāra-buddha-viṣaya-samavasaraṇaṃ | yathā-āśaya-sarva-satva-saṃdarśana-saṃtoṣaṇāya | dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ |sarva-kalpa-saṃkhyā-buddha-kṣetra-saṃkhyā-pratiprasrabdhaṃ |sarva-buddha-kṣetra-pariśodhanāya |saptamaṃ mahā-praṇidhānam abhinirharati ||

यद् उत सर्व-बोध्i-satva-eka-आशय-प्रयोगतायै । निः-सपत्न-कुशल-मूल-उपचयाय । एक-आरम्बण-सर्व-बोध्i-satva-samatआयै । अ-विरहित-सतत-समित-बुद्ध-बोध्i-satva-samavadhआनाय । यथा-इष्ट-बुद्ध-उत्पाद-संदर्शनाय । स्व-चित्त-उत्पाद-तथा-गत-प्रभाव-ज्ञान-अनुगमाय । अ-च्युत-अनुगामिन्य्--अभिज्ञा-प्रतिलम्भाय । सर्व-लोक-धात्व्-अनुविचरणाय सर्व-पर्षन्-मण्डल-प्रतिभास-प्राप्तये । सर्व-उपपत्ति-स्व-शरीर-अनुगमाय । अ-चिन्त्य-महा-यान-उपेततायै । बोध्i-satva-caryआ-चरण-अ-व्यवच्छेदाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं । सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं । महा-यान-अवतारणाय । अष्टमं महा-प्रणिधानम् अभिनिर्हरति ॥

यद् उत + अ-विवर्त्य-चक्र-समारूढ-बोध्i-satva-caryआ-चरणाय । अ-मोघ-काय-वाङ्-मनस्-करेण । सह-दर्शन-नियत-सर्व-बुद्ध-धर्म-प्रतिलम्भाय । सह-घोष-उदाहार-ज्ञान-अनुगमाय । सह-प्रसाद-क्लेश-विवर्तनाय । महा-भैषज्य-राज-उपम-आश्रय-प्रतिलम्भाय । चिन्ता-मणि-वत् काय-प्रतिलम्भाय । सर्व-बोध्i-satva-caryआ-चरणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं । सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं ।अमोघ-घोषतायै । नवमं महा-प्रणिधानम् अभिनिर्हरति ॥

यद् उत सर्व-लोक-धातुष्व् अन्-उत्तर-सम्यक्-संबोध्य्-अभिसंबोधनाय । एक-वाल-पथ-अ-व्यतिवृत्त-सर्व-बाल-पृथग्-जन-जन्म-उपपत्त्य्-अभिनिष्क्रमण-विकुर्वण-बोधि-मण्ड-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-उपदर्शनाय । महा-बुद्ध-विषय-प्रभाव-ज्ञान-अनुगमाय । सर्व-सत्व-धातु-यथा-आशय-बुद्ध-उत्पाद-क्षण-क्षण-अवबोध-प्रशम-प्रापण-संदर्शनाय । एक-अभिसंबोध्i-sarva-dharma-dhआतु-निर्माण-स्फरणाय । एक-घोष-उदाहार-सर्व-सत्व-चित्त-आशय-संतोषणाय । महा-परिनिर्वाण-उपदर्शन-चर्या-बल-अ-व्युपच्छेदाय । महा-ज्ञान-भूmi-sarva-dharma-vyutthआपन-संदर्शनाय । धर्म-ज्ञान-ऋद्धि-माया-अभिज्ञा-सर्व-लोक-धातु-स्फरणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं । सर्व-कल्प-संख्या-अभिसंबोधि-संख्या-प्रतिप्रस्रब्धं । महा-यान-अभिनिर्हाराय । दशमं महा-प्रणिधानम् अभिनिर्हरति + इति ॥

एतच् च भावयन् सर्वत्र परिणामयामि + इति योज्यं ॥

आर्य-अवलोकितेश्वर-विमोक्षे च यद् उक्तं तद् अप्य् एवं योज्यं । एतत् कुशल-मूलं सर्व-सत्व-प्रपात-भय-विगमाय परिणामयामि । सर्व-सत्वान् सान्तानिक-भय-प्रशमनाय । सर्व-सत्व-संमोह-भय-विनिवर्तनाय परिणामयामि । सर्व-सत्व-बन्धन-भय-समुच्छेदाय । सर्व-सत्व-जीवित-उपरोध-उपक्रम-भय-व्यावर्तनाय । सर्व-सत्व-उपकरण-वैकल्य-भय-अपनयनाय । सर्व-सत्व-आजीविका-भय-व्युपशमनाय । सर्व-सत्व-अ-श्लोक-भय-समतिक्रमणाय परिणामयामि । सर्व-सत्व-सांसारिक-भय-उपशमनाय । सर्व-सत्व-पर्षच्-छारद्य-भय-विगमाय । सर्व-सत्व-मरण-भय-व्यतिक्रमाय । सर्व-सत्व-दुर्-गत्i-bhaya-vinivartअनाय । सर्व-सत्व-तमो-अन्ध-कार-वि-षम-गत्य्-अ-प्रत्युदावर्तन-अवभास-करणाय परिणामयामि । सर्व-सत्वानां वि-सभाग-समवधान-भय-अभ्यन्त-विगमाय । सर्व-सत्व-प्रिय-vi-prayoga-bhaya-nirodhआय । सर्व-सत्व-अ-प्रिय-संवास-भय-अपनयनाय । सर्व-सत्व-काय-परिपीडा-भय-विसंयोगाय । सर्व-सत्व-चित्त-परिपीडन-भय-निर्मोक्षणाय । सर्व-सत्व-दुष्ख-दौर्मनस्य-उपायास-समतिक्रमणाय परिणामयामि + इति ॥

संक्षेपतः पुनर् इयम् अन्-उत्तरा परिणामना या + इयम् आर्य-भद्र-चर्या-गाथायां । मञ्जुशिरी यथ जानति शूरः सो च समन्तत भद्र तथ + एव । तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वं ॥

सर्व-त्रिय्-अध्व गतेभि जिनेभिर् या परिणामन वर्णित अग्रा । ताय अहं कुशलं इमु सर्वं नामयमी वर-भद्र-चरीये । इति ॥

इति शिक्षा-समुच्चये भद्र-चर्या-विधिः षोडशमः परिच्छेदः समाप्तः ॥

[xvii. वन्दनाद्यनुशंसा]

वन्दना-अनुशंसाः सप्तदशः परिच्छेदः ॥

उक्तो वन्दना-आदि-विधिः । तेन पुण्य-वृद्धिर् भवति + इति कुतो गम्यते ॥

आर्य-अवलोकन-सूत्रात् । एवं हि तत्र + उक्तं । वर्जयत्य् अ-क्षणान्य् अष्टौ यए इमे देशिता मया । क्षणं च + आरागयत्य् एकं बुद्ध-उत्पादं सु-शोभनं ॥

varṇavān rūpa-saṃpanno lakṣaṇaiḥ samalaṃ-kṛtaḥ sthāmnā balena ca + upeto na + asau kausīdyam ṛcchati [doubtful] ||

आढ्यो महा-धनश् च + असौ अ-धृष्यः पुण्यवान् अपि । आराग्य लोक-प्रद्योतं सत्-करोति पुनः पुनः ॥

श्रेष्ठी-कुलेषु स्फीतेषु स आढ्येषु + उपपद्यते । भवेद् दान-पतिः शूरो मुक्त-त्यागो ह्य् अ-मत्सरी ॥

राजा भवेद् धार्मिको * असौ चतुर्-द्वीप-ईश्वरः प्रभुः । प्रशासयेन् महीं कृत्स्नां समुद्र-गिरि-कुण्डलाम् ॥

मह-र्द्धिकश् चक्र-वर्ती सप्त-रत्न-समन्वितः । राज्ये प्रतिष्ठितो बुद्धान् सत्-करोति पुनः पुनः ॥

श्च्युत/ च + अस्माद् गतः स्वर्गं प्रसन्नो जिन-शासने । शक्रो भवति देव-इन्द्रः ईश्वरो मरु-मूर्द्धनि ॥

न शक्यं भाषता वर्णं क्षपयितुं कल्प-कोटिभिः । य स्तूपं लोक-नाथस्य नरः कुर्यात् प्रदक्षिणम् ॥

न जातु सो * अन्धः खञ्जो वा कल्पानाम् अपि कोटिभिः । उत्पाद्य बोधि-चित्तं यः शास्तु स्तूपं हि वन्दते ॥

दृढ-वीर्यो दृढ-स्थामो वीरश् च दृढ-विक्रमः । कौशल्यं गच्छति क्षिप्रं कृत्वा स्तूप-प्रदक्षिणम् ॥

यो बुद्ध-कोटि-नियुत-शत-सहस्रान् कल्पान् कोटी च तुलिय सत्-करया । यश् च + इह कल्पे चरमक घोर-काले वन्देय स्तूपं बहुतर तस्य पुण्यम् ॥

अग्रो हि बुद्धो * अ-तुलिय दक्षिणीयो * अग्रां चरित्वा चरिय-विशेष प्राप्तः । तस्य + इह पूजां करिअ नर-रिषभस्य विपाक श्रेष्ठो भवति अ-तुल्य-रूपः ॥

इतश् च्युत्वा मनुष्येभ्यस् त्रायस्त्रिंशेषु गच्छति । विमानं लभते तत्र विचित्रं रतनाम् अयम् ॥

कूट-आगारं स्वयं दत्वा अप्सरो-गण-सेवितः । मालां स्तूपे संप्रदाय त्रायस्त्रिंशेषु जायते ॥

अष्ट-अङ्ग-जल-संपूर्णां सुवर्ण-सिकत-आस्त्रिताम् । वैडूर्य-स्फटिकैश् च + एव दिव्यां पुष्करिणीं लभेत् ॥

भुक्त्वा च तां रतिं दिव्यां आयुः संपूर्य पण्डितः । च्युत्वा च देव-लोकात् स मनुष्यो भवति भोगवान् ॥

जाति-कोटि-सहस्रणि शतानि नियुतानि च । सत्-कृतः स्याच् च सर्वत्र चैत्ये मालां प्रदाय च ॥

चक्र-वर्ती च राजा + असौ शक्रश् च भवति + ईश्वरः । ब्रह्मा च ब्रह्म-लोकस्मिन् चैत्ये मालां प्रदाय च ॥

पट्ट-प्रदान दत्वा तु लोक-नाथस्य तायिनः । सर्वे * अस्य + अर्थाः समृध्यन्ति ये दिव्या ये च मानुषाः ॥

त्यजेद् * धीनान् अ-कुशलान् न स तत्र + उपपद्यते । माला-विहारं कृत्वा च लोक-नाथस्य धातुषु । अ-भेद्य-परिवारेण राजा भूयान् मह-र्द्धिकः ॥

प्रियः सदयितश् च + असौ सत्-कृतश् च प्रशंसितः । दवानाम् अथ नागानां ये लोकेस्मिंश् च पण्डिताः ॥

यत्र + असौ जायते वीरः पुण्य-तेजः-सु-दीपितः । ते कुलाः सत्-कृता भोन्ति राष्ट्राणि नगराणि च ॥

यः सर्षपात् सूक्ष्मतरं गृहीत्वा धूपेय धूपं भगवति चैत्यकेषु । तस्य + अनुशंसान् शृणुत प्रभाषतो मे प्रसन्न-चित्ता जहिय खिलां मलांश् च ॥

स पुण्यवांश् चरति दिशः समन्ताद् आरोग्य-प्राप्तो दृढ-मतिर् अ-प्रमत्तः । विनेति शोकं विचरति चारिकायां प्रियो मनापो भवति महा-जनस्य ॥

राज्यं च लब्ध्वा जिन वरु सत्-करोती महा-अनुभावो विदु चक्र-वर्ती । सुवर्ण-वर्णो विचित्र-लक्षणैः स मनो-ज्ञ-गन्धान् लभि सर्व-लोके ॥

जात-मात्रो लभते श्रेष्ठ-वस्त्रान् दिव्य-विशिष्ट-सु-रुचिर-कौशिकांश् च । भोती सुख-सु-कायः संवेष्ट्य-स्तूपं नाथस्य चीवरैः । यश् चीवरेण चैत्येषु कुर्यात् पूजाम् अ-तुलां नायकानां । तस्य + इह भोती अ-सदृशु आत्म-भावो द्वात्रिंशतीभिः कवचित लक्षणेभिः । पाणी-तलेषु सु-रुचिरु मुक्त-हाराः प्रादुर्-भवन्ती विविध अन्-अन्त-कल्पाः । सिंह-लताः सु-रुचिर-वर्ण-सूत्रा वेठित्व स्तूपं भगवत चीवरेभिः ॥

दत्वा पताकां भगवत चेतिकेषू छन्दं जनित्वा तथ सिय बुद्ध-लोके । स पूजनीयो भवति महा-जनस्य चरन्तु श्रेष्ठो जिन-चारिकाये ॥

सुवर्ण-वर्णो भवति सि आत्म-भावो लाभी स भोती सु-रुचिर-चीवराणां । कर्पासिकानां सु-सहित कम्बलानां दु-कूलकानां तथ वर-कौशकानां ॥

ध्वजं ददित्वा हत-रजि सत्व-सारे धनं प्रभूतं प्रतिलभि न चिरेण । प्रभूत-कोषो भवति अन्-अन्त-प्रज्ञो परिचारु तस्य भवत्य् अ-दीन-चित्तः । न चित्त-शूलं जनयति सो परस्य प्रसाद-चित्तः सद अ-प्रमत्तः । न तस्य अग्निः क्रमति विषन्न-शस्त्रं उद्वीक्षणीयो भवति महा-जनस्य ॥

अधो उपादाय च विभव-अग्रु यावत् जाम्बूनदं तेन भवति बुद्ध-क्षेत्रं । शक्यं क्षयेतुं आयु-श्रिय एव-रूपा न बुद्ध-स्तूपे धरयत एक दीपम् ॥

na tasya kāyo bhavati a-varṇita-aṅgo dṛḍha-asu bhotī parigha-bhujo * a-chambhī | āloka-prāpto [doubtful] vicarati sarva-loke daditva dīpaṃ bhagavata cetikeṣu ||

यदि बुद्ध-क्षेत्रा नियुत-शता सहस्रा भवेयु पूर्णा शिख-गत-सर्षपेभिः । शक्यं गणेतुं तुलयितु भाषितुं वा न तथा-गतेषू धरयितु एक-दीपम् ॥

अलङ्-करित्वा सु-रुचिर-दर्शनीयं यो देति छत्रं भगवत चेतिकेषु । तस्य + इह भोत्य् अ-सदृश आत्म-भावो द्वात्रिंशतीभिः कवचित लक्षणेभिः ॥

yebhir jinasya pratapata ātma-bhāvo rūpaṃ viśiṣṭaṃ yatha-r-iva [doubtful] kāñcanasya | jāmbūnado vā su-rucira-darśanīyā abhikīrṇa ... kusumita lakṣaṇebhiḥ ||

अभिज्ञ-प्राप्तो भवति महा-यश-आख्यः चरति श्रेष्ठ-आवर-चारिकायां । न भोग-हानिर् भवति कदा-चिद् अस्य देवान भोति गुरु-कृत पूजितश् च ॥

न काम-भोगौ रमति कदा-चि धीरो विशुद्ध-शीलः स-कुशल-ब्रह्म-चर्यः ।समादयित्वा वन्-उपवने उषित्वा + अभियुक्ति-ध्यानो भवति विशेष-प्राप्तः ॥

न ज्ञान-हानिर् भवति कदा-चिद् अस्य न बोधि-चित्तं विजहति सो कथञ्-चित् । मैत्री-विहारी भवति अ-दीन-चित्तो दत्वा + इह छत्त्रं भगवत-चेतिकेषु ॥

वाद्येन पूजां नर-वृषभस्य कृत्वा न शोक शल्य-वश जातु भोति । मनो-ज्ञ-घोषो भवति मनुष्य-लोके स्वर-अङ्गु तस्य + अ-वि-कल विशुद्ध भोति ॥

विशुद्ध-चक्षुर् भवति स संप्रजन्यो विशुद्ध-श्रोत्रो भवति उदग्र-चित्तः । घ्रण-इन्द्रियं परम उत्तप्त भोति वादित्व वाद्यं भगवत चेतिकेषु ॥

jihvā + asya bhoti su-rucira darśanīyā su-sūkṣma mṛdvī rucira mano-jña ghoṣā | raktā pravālā yatha-r-iva [doubtful] devatānāṃ svara-aṅga koṭī-vara sṛjate * a-prameyāṃ ||

न जातु भोती उर-गु अ-जिह्वको वा न खञ्ज-कुब्जो न + अपि च नामित-अङ्गः । विशिष्ट भोती सु-रुचिर आत्म-भावो वादित्व वाद्यं भगवत चेतिकेषु ॥

न जातु कश्-चिज् जनये प्रसादं देवो च नागो मनु-ज महा-उर-गो वा । आश्वास-प्राप्तो विचरति सर्व-लोके वादित्व वाद्यं भगवत चेतिकेषु ॥

कल्पान कोटी-नियुत-शता सहस्रं विशिष्ट-कायो भवति अ-निन्दित-अङ्गः । प्रासादिको * असौ कवचित लक्षणेभिः संशोध्य स्तूपं भगवत निर्वृतस्य ॥

विमान-श्रेष्ठं लभति मनो-ज्ञ-गन्धं दिव्यं विशिष्टं सु-रुचिर-चन्दनस्य । न जातु तृष्णां जनयति सो कदा-चित् संशोध्य स्तूपं भगवत निर्वृतस्य ॥

प्रलोप-काले जिन-वर-शासनस्मिन् न जातु भोती उपगत जम्बु-द्वीपे । स्वर्गे स भोति प्रतिष्ठित तस्मि काले गन्ध-अनुलेपं ददिय जिनस्य स्तूपे ॥

दुर्-गन्धि-कामान् अ-शुचि-जुगुप्सनीयान् वर्जेति नित्यं प्रतिष्ठित शील-स्कन्धे । चरी स नित्यम् इमु वर ब्रह्म-चर्यं गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥

इतश् च्युतो * असौ मरु-पति स्वर्ग-लोके अर्थं सहस्रा तुलयति न + उ चिरेण । करोति च + अर्थं सु-विपुल-देवतानां गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥

विशिष्ट-वाक्यो भवति मनो-ज्ञ-घोषः प्रियो मनापो बहु-जन-सत्-कृतश् च । सुखं च तस्य भवति सदा प्रसन्नं गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥

अपाय-भूमिं ... विजहात्य् अ-शेषां आसन्नको भवति तथा-गतानां । प्रसाद-लब्धः सद सुखि प्रेमणीयो गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥

सो * अ-क्षणं वै विजहाति सर्वं अष्ट क्षणाश् च + अस्य विशिष्ट भोन्ति । बुद्धान पूजाम् अ-तुलिय सो करोति छोरित्व जालं भगवत चेतिकेषु ॥

शूरश् च भोति दृढ-मतिर् अ-प्रमत्तो न काम-भोगे * अभिरतिं जनेति । नैष्क्रम्य-प्राप्तौ च अ-दीन-चित्तः छोरित्व जालं भगवत चेतिकेषु ॥

न बोधि-चित्तं प्रमुष्यति तस्य जातु अ-खण्ड-शीलो * अस्ति सु-संवृतश् च । धर्मं वि-रागं लभते विशुद्धं उपनीय जालं भगवत चेतिकेषु ॥

दुर्-वाचतां विजहति सर्व-कालं प्रज्ञा-अ-भावं च जहात्य् अ-शेषम् ।विशाल-प्रज्ञो विहरति चारिकायां उपनीय जालं भगवत चेतिकेषु ॥

लाभी च भोती शुचि-भोजनानां वस्त्रान् विशिष्टान् लभते सुवर्णान् । स्पर्श-अभ्युपेतान् रुचि-दर्शनीयान् उपनीय जालं जिन-चेतिकेभ्यः ॥

अभ्युत्क्षिपित्वा जिन-चेतिकेभ्यः निर्-माल्य-शुष्कं प्रमुदित-वेग-जातः । व्रजेत कामान् दुःख-द-वैर-घोरान् आरागयेद् दश-बल-स-अर्थ-वाहान् ॥

प्रासादिको भोति विशुद्ध-कायः उद्वीक्षणीयो बहु-जन-पूजनीयः । न तस्य राजा + अपि प्रदुष्ट-चित्तः यो जीर्ण-पुष्पान् अपनेय चैत्ये ॥

कु-मार्ग सर्वं पिथित अपाय-भूमिः स शील-स्कन्धे स्थित बोधि-सत्वः । अवतारयित्वा जिन-चेतिकेभ्यः पुष्पं च प्राग् अन्य-नरैः प्रदत्तं ॥

शोकांश् च दोषान् विजहात्य् अ-मत्तो रोगान् अ-शेषान् विजहात्य् अन्-एकान् । आश्वास-प्राप्तश् च अन्-अन्त-कल्पान् यो जीर्ण-पुष्पान् अपनेति चैत्ये ॥

बुद्धश् च भोत्य् अ-सदृश-दक्षिणीयो * अ-तुल्य-प्राप्तो नर-मरु-पूजनीयः । अलं-कृतो भवति विशुद्ध-कायः यो जीर्ण-पुष्पान् अपनेति चैत्ये ॥

दद्याच् च यः सु-रुचिर-दिव्य पुष्पं मान्दारवान् अप्य् अथ पाटलं वा । निर्-माल्यकं यो * अपनयेत चैत्ये विपाक श्रेष्ठो * अस्य भवेद् अ-तुल्यः ॥

यः प्राञ्जलिः प्रणमति नाथ-स्तूपं छन्दं जनित्वा च स-बुद्ध-लोके । सो भोति लोके गुरु-कृतु सत्-कृतश् च प्रासादिको भवति सु-दर्शनीयः ॥

तस्य + इह राज्यं निपतति सर्व-लोको देव-असुरा नाग-मनुष्यकाश् च । सर्वाः सहस्राः कुसुमित लोक-धातुः प्रशास्ति राज्ञो वश ईश्वरांश् च ॥

ये तस्य राज्ये स्थित भोन्ति सत्वाः स्थापेय सर्वान् अ-कलुष-बुद्ध-ज्ञाने । अपाय-भूम्यस् त्यक्ता भवन्ति करोति च + एषां परम-सु-श्रेष्ठम् अर्थम् ॥

परिचारो * अस्य भवति मनो-ज्ञ-घोषः पुण्यैर् उपेतः स्मृत्i-mati-pऊजनीयः । आश्वास-प्राप्तो विचरति जीव-लोके सदा + अभिप्रायं जनयति श्रेष्ठ-प्रीतिं ॥

परिचार भोत्य् अस्य स्वर-अङ्ग शुद्धः ज्ञायेत सत्वैर् मधुर-प्रशान्त-वाक्यो । न तस्य कश्-चिज् जनयति च + ईश्वरत्वं विलोकनीयो भवति महा-जनस्य । दान-प्रमोदं प्रियता-अर्थ-चर्यां समान-अर्थतां जनयति महा-जनस्य । आक्रुष्टः सन् न + आजनयेत रोषं यः प्राञ्जलिः प्रणमति बुद्ध-स्तूपं ॥

देव-इन्द्र भोत्य् उपगत-स्वर्ग-लोके मनुष्यको भवति नरस्य राजा । न पारिहाणिर् भवति कदा-चिद् अस्य यो * अञ्जलीभिर् नमति + इह स्तूपं ॥

न + असाव् अपाये प्रपतेत जातु हीनांश् च वर्जेत स काम लोके । आढ्यो धनी भोति प्रभूत-कोषो यो * अञ्जलीभिर् नमति बुद्ध-स्तूपम् ॥

सूत्र-अन्त-चर्या न कदा-चिद् अस्य न + अ-स्थान-कोपं कुरुते नृ-लोके । सत्वाश् च तृप्ता मुदिता + अस्य भोन्ति यः संप्रमुञ्ची गुणवति एक-वाचं ॥

यः पुष्प-मुष्टिं गृहीत्वा + उदग्र-चित्तः प्रसादतो * अवकिरति लोक-नाथे । स पुण्यवान् भवति मनुष्य-लोके राक्षे च स्थित्वा जिन सत्-करोति ॥

शोका न दोषाः खिल-मल न + अस्य भोन्ति अ-तुल्यता-आप्तश् च सु-संस्थित-अङ्गः । आलोकनीयश् च महा-जनस्य व्रजेत कामान भय-कर-वैर-घोरान् । इति ॥

आर्य-महा-करुणा-पुण्डरीक-सूत्रे * अप्य् उक्तं ।तिष्ठतु तावद् आनन्द यो मां संमुखं सत्-कुर्यात् । तिष्ठतु मे शरीरस्य पूजा सर्षप-फल-म-त्रेषु धातुषु । तिष्ठतु माम् उद्दिश्य कृतेषु स्तूपेषु सत्-कारः । ये के-चिद् आनन्द बुद्धम् आलम्ब्य + अन्तश एक-पुष्पम् अप्य् आकाशे क्षेप्स्यन्ति । तस्य पुण्य-स्कन्धस्य यो विपाकः सचेद् यावान् अन्-आदिः संसारो यस्य पूर्वा कोटिर् न प्रज्ञायते । तावतः कल्पान् संसरतां तेषां शक्रत्वं ब्रह्मत्वं चक्र-वर्तित्वं । न शक्यस् तत्-पर्यन्तो * अधिगन्तुम् । तिष्ठतु बुद्ध-आलम्बता + अन्तश आकाशे * अप्य् एक-पुष्प-निक्षेपः । सचेद् अन्तशः स्वप्न-अन्तर-गता अपि सत्वा बुद्धम् आलम्ब्य + आकाशे एक-पुष्पम् अपि क्षेप्स्यन्ति तद् अप्य् अहं कुशल-मूलं निर्वाण-पर्यवसानं वदामि + इति ॥

उक्तं च + आर्य-बृहत्सागर-नाग-राज-परिपृच्छायां । अष्टाभिर् भुज-ग-अधिपते धर्मैः समन्वागता बोधि-सत्वाः सतत-समितं बुद्ध-समवधानं प्रतिलभन्ते । कतमैर् अष्टाभिः । बुद्ध-बिम्ब-दर्शन-सत्व-समादापनतया । तथा-गतस्य + उपस्थान-करणतया । तथा-गतस्य + अभीक्ष्णं वर्ण-भाषणतया । तथा-गत-प्रतिमा-करणतया । तथा-गत-दर्शन-सर्व-सत्व-समादापनतया । यत्र च बुद्ध-क्षेत्रे तथा-गत-श्रवं शृण्वन्ति तत्र प्रणिधानम् उत्पादयन्ति । न च + अवलीन-संततयो भवन्ति । उदार-संततिकाश् च बुद्ध-ज्ञानम् अभिलषन्तए इति ॥

किं पुनः पुण्य-वृद्ध्य्-अर्थिनो बुद्ध-समवधानेन प्रयोजन-भूतं । यस्य गुण-पर्यन्तम् अ-सर्व-ज्ञो न + अधिगच्छेत् ॥

यथा + आर्य-गण्ड-व्यूहे संवर्णितं । सु-दुर्-लभो बुद्ध-शब्दः कल्प-कोटि-शतैर् अपि । किं पुनर् दर्शनं सर्व-काङ्क्षा-च्छेदनम् उत्तमम् ॥

सु-दृष्टो लोक-प्रद्योतः सर्व-धर्म-गतिं गतः । पुण्य-तीर्थं त्रैलोकस्य सर्व-सत्व-विशोधनम् ॥

महत् पुण्यम् अयं क्षेत्रं मुदितं ज्ञान-मण्डलं । भासयत्य् अभितं लोकं पुण्य-स्कन्ध-विवर्द्धनम् ॥

छेदनो दुष्ख-जालस्य ज्ञान-स्कन्ध-विशोधनः । न दुर्-गति-भयं तेषां यैर् इह + आरागितो जिनः ॥

विपुलं जायते चित्तं पश्यतां dvi-pada-uttamaं । प्रज्ञा-बलम् अ-संख्येयं जायते च प्रभास्वरं ॥

पुनर् अत्र + एव + आह । अर्थाय सर्व-सत्वानाम् उत्पद्यन्ते तथा-गताः । महा-कारुणिका वीरा धर्म-चक्र-प्रवर्तकाः ॥

प्रतिकर्तुं कथं शक्यं बुद्धानां सर्वे-देहिभिः । सत्व-अर्थेष्व् अभियुक्तानां कल्प-कोटि-शतैर् अपि ॥

कल्प-कोटिं वरं पक्तुं त्र्य्-अपाये भृश-दारुणे । न त्व् एव + अ-दर्शनं शास्तुः सर्व-सर्ग-निवर्तिनः ॥

यावन्तः सर्व-लोकस्मिन्न् अपाय-गतयः पृथक् । वरं तत्र चिरं वासो बुद्धानाम् अ-श्रुतिर् न च ॥

किं कारणम् अपायेषु निवासश् चिरम् इष्यते । यत्-कारणं जिन-इन्द्रस्य दर्शनं ज्ञान-वर्धनम् ॥

छिद्यन्ते सर्व-दुष्खाणि दृष्ट्वा लोक-ईश्वरं जिनं । संभवत्य् अवतारश् च ज्ञाने संबुद्ध-गो-चरे ॥

क्षपयत्य् आवृतीः सर्वा दृष्ट्वा बुद्धं नर-उत्तमम् । वर्धयत्य् अ-मितं पुण्यं येन बोधिर् अवाप्यतए । इति ॥

तद् एवम् अस्ति पुण्य-वृद्धौ बुद्ध-समवधानेन प्रयोजनं ।अपि च प्रतिमा-मात्र-दर्शनम् अपि तावद् अ-परिमित-फलं तथा-गतानां । किं पुनः स्व-रूपेण ॥

उक्तं ह्य् आर्य-श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे । यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रः कुल-दुहिता वा सर्व-लोक-धातु-रज-उपमानां प्रत्य्-एक-बुद्धानां दिने दिने शत-रसम् आहारं दद्यात् दिव्यानि च वस्त्राणि । एवं ददद् गङ्गा-नदी-वालुका-उपमान् कल्पान् दद्यात् । यश् च + अन्यो मञ्जुश्रीः कुल-पुत्रः कुल-दुहिता वा चित्र-कर्म-लिखितं वा पुस्तक-कर्म-कृतं वा बुद्धं पश्येद् । अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति । कः पुनर् वादो यो * अञ्जलि-प्रग्रहं वा कुर्यात् पुष्पं वा दद्यात् धूपं वा गन्धं वा दीपं वा दद्याद् । अयम् एव ततो * अ-संख्येयतरं पुण्यं प्रसवति + इति ॥

आर्य-बोध्i-satva-piटके * अपि पुण्य-वृद्ध्य्-उपाय उक्तः । यस् तथा-गत-चैत्यं शोधयति स चतस्रो * अग्राः प्रणिधान-विशुद्धीर् अनुप्राप्नोति । कतमाश् चतस्रः । अग्रां रूप-प्रणिधान-विशुद्धिं । अग्रां दृढ-समादान-प्रणिधान-विशुद्धिं । अग्रां तथा-गत-दर्शन-प्रणिधान-विशुद्धिं ।अग्रां लक्षण-संपत्-प्रणिधान-विशुद्धिम् इति ॥

पुनर् अत्र + एव + आख्यातं । तथा-गत-चैत्येषु पुष्प-अवरोपणं गन्ध-अनुलेपनं कृत्वा + अष्टाव् अ-वि-कलता अनुप्राप्नोति । कतमा अष्टौ । न रूप-वि-कलो भवति । न भोग-वि-कलः । न परिवार-वि-कलः । न शील-वि-कलः । न समाध्i-vi-kalaः । न श्रुत-वि-कलो न प्रज्ञा-वि-कलो न प्रणिधान-वि-कल इति ॥

उक्तं च + आर्य-रत्न-राशि-सूत्रे । ये त्र्i-bhava-paryआपन्नाः सत्वास् ते सर्वे प्रत्य्-एकं तथा-गत-स्तूपान् कारयेयुर् एवं-रूपान् उच्चैस्त्वेन । तद् यथा सुमेरुः पर्वत-राजः । तांश् च गङ्गा-नदी-वालिका-समान् कल्पान् प्रत्य्-एकं सर्व-सत्-कारैः सत्-कुर्युः । यश् च बोधि-सत्वो * अ-विरहित-सर्व-ज्ञता-चित्तेन + एक-पुष्पम् अप्य् आरोपयेत् । अयं तस्मात् पूर्वकात् पुण्य-स्कन्धाद् बहुतरं पुण्यं प्रसवेत् ॥

अत्र + एव + उक्तं । ये खलु पुनस् त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे महा-यान-संप्रस्थिता भवेयुः । सर्वे च चक्र-वर्ति-राज्य-समन्वागता भवेयुर् एक-एकश् च राजा चक्र-वर्ती महा-समुद्र-प्रमाण-दीप-स्थालीं कृत्वा । सुमेरु-मात्रां वर्तीम् आदीप्य प्रत्य्-एकम् एवं-रूपां दीप-पूजां तथा-गत-चैत्येषु प्रवर्तयेत् । यश् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् तैल-प्रक्षिप्तां वर्तीं कृत्वा + आदीप्य तथा-गत-चैत्ये धारयेत् । अस्यास् तैल-प्रक्षिप्ताया वर्तेर् एतत् पूर्वकं प्रदीप-दानं शततमीम् अपि कलां न + उपैति । यावद् उपनिषदम् अपि न क्षमतए इति । पेयालं ॥

ये च खलु पुनस् ते राजानश् चक्र-वर्तिनो बुद्ध-प्रमुखं भिक्षु-संघं सर्व-सुख-उपधानैः सत्-कुर्युः यश् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वः पिण्ड-पात्रं चरित्वा पात्र-पर्यापन्नं परेषां संविभज्य परिभुञ्जीत । इदं ततो बहुतरं च महा-अर्घतरं च । यच् च ते राजानश् चक्र-वर्तिनः सुमेरु-मात्रं चीवर-राशिं बुद्ध-प्रमुखाय भिक्षु-संघाय दद्युः । यच् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् त्रि-चीवरं बहिर्-धा महा-यान-संप्रस्थिताय बुद्ध-प्रमुखाय भिक्षु-संघाय वा तथा-गत-चैत्ये वा दद्याद् । इदं भिक्षोश् चीवर-दानम् एतत् पूर्वक-चीवर-राशिम् अभिभवति । यच् च ते राजानः प्रत्य्-एकं सर्वं जम्बू-द्वीपं पुष्प-संस्तृतं कृत्वा तथा-गत-चैत्ये निर्यातयेत् । यच् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वः अन्तश एक-पुष्पम् अपि तथा-गत-चैत्ये आरोपयेत् । अस्य दानस्य + एतत् पूर्वकं दानं शततमीम् अपि कलां न + उपैति । यावद् उपनिषदम् अपि न + उपैति + इति ॥

आर्य-अनुपूर्व-समुद्गत-परिवर्ते * अपि देशितं । चतुर इमान् भद्र-अनुशंसान् पश्यन् बोधि-सत्वस् तथा-गत-पूजायाम् उत्सुको भवति । कतमांश् चतुरः । अग्रश् च मे दक्षिणीयः पूजितो भविष्यति मां च दृष्ट्वा + अन्ये * अपि तथा शिक्षिष्यन्ति । तथा-गतं च पूजयित्वा बोधि-चित्तं दृढं भविष्यति । द्वात्रिंशतां च महा-पुरुष-लक्षणानां संमुख-दर्शनेन कुशल-मूलम् उपचितं भविष्यति । इमाश् चत्वारः इति ॥

इदं च निर्-उत्तरं तथा-गत-पूजा-उपस्थानं ।यथा + उदाहृतम् आर्य-सागरमति-परिपृच्छा-सूत्रे । त्रीणि + इमानि सागरमते तथा-गतस्य निर्-उत्तराणि पूजा-उपस्थानानि । कतमानि त्रीणि । यच् च बोधि-चित्तम् उत्पादयति । यच् च सद्-धर्मं परिगृह्णाति । यच् च सत्वेषु महा-करुणा-चित्तम् उत्पादयति + इति ॥

निर्दिष्टम् अप्य् आर्य-रत्न-मेघे । दशभिः कुल-पुत्र धर्मैः समन्वागता बोधि-सत्वा अन्-अनुलिप्ता गर्भ-मलेन जायन्ते । कतमैर् दशभिः । यद् उत । तथा-गत-प्रतिमा-करणतया । जीर्ण-चैत्य-संस्करणतया । तथा-गत-चैत्येषु गन्ध-विलेपन-अनुप्रदानेन । तथा-गत-प्रतिमासु गन्ध-उदक-स्नान-अनुप्रदानेन । तथा-गत-चैत्येषु संमार्जन-उपलेपन-अनुप्रदानेन । माता-पितॄणां काय-परिचर्या-आचरणेन आचार्य-उपाध्यायानां काय-परिचर्या-आचरणेन । स-ब्रह्म-चारिणां काय-परिचर्या-आचरणेन । तच् च निर्-आमिषेण चित्तेन न स-आमिषेण । तच् च कुशलम् एवं परिणामयन्ति । अनेन कुशल-मूलेन सर्व-सत्वा निर्-उपलिप्ता गर्भ-मलेन जायन्ताम् इति । तच् च तीव्रेण + आशयेन चिन्तयन्ति । एभिः कुल-पुत्र दशभिर् धर्मैर् इति ॥

अनुमोदन-अनुशंसास् त्व् आर्य-प्रज्ञा-पारमितायाम् उक्ताः । यः प्रथम-यान-संप्रस्थितानां बोधि-सत्वानां महा-सत्वानां तांश् चित्त-उत्पादान् अनुमोदते ।चरताम् अपि बोध्i-satva-caryआं तांश् चित्त-उत्पादान् अनुमोदते । अ-विनिवर्तनीयाम् अपि अ-विनिवर्तनीय-धर्मताम् अनुमोदते बोधि-सत्वानां महा-सत्वानां । कियन्तं स भगवन् कुल-पुत्रो वा कुल-दुहिता वा बहुतरं पुण्य-स्कन्धं प्रसवति ॥

एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत् । पे । स्यात् खलु पुनः कौशिक त्रि-साहस्र-महा-साहस्रस्य लोक-धातोः पल-अग्रेण तुल्यमानसस्य प्रमाणम् उद्ग्रहीतुं । न त्व् एव कौशिक बोधि-सत्वस्य महा-सत्वस्य तेषाम् अनुमोदना-सह-गतानां चित्त-उत्पादानां पुण्य-प्रमाणं ग्रहीतुं ॥

एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत् । मार-अधिष्ठितास् ते भगवन् सत्वा वेदितव्या । ये बोधि-सत्वानां महा-सत्वानां प्रथम-चित्त-उत्पादम् उपादाय यावद् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धानाम् एवम् अ-प्रमेयम् अनुमोदना-सह-गतं पुण्यम् इति न शृण्वन्ति न जानन्ति । ताम् अनुमोदनां न समन्वाहरन्ति । मार-पक्षिकास् ते भगवन् सत्वा भविष्यन्ति ॥

भगवान् आह । पे । यैः कौशिक कुल-पुत्रैः कुल-दुहितृभिश् च + इमे चित्त-उत्पादा अनुमोदिता बोध्i-satva-yआनिकैर् वा प्रत्य्-एक-बुद्ध-यानिकैर् वा श्रावक-यानिकैर् वा । ते क्षिप्रं तथा-गतान् अर्हतः सम्यक्-संबुद्धान् आरागयिष्यन्ति ॥

भगवान् आह ॥

एवं तैर् अनुमोदना-सह-गतैश् चित्त-उत्पाद-कुशल-मूलैर् यत्र यत्र + उपपत्स्यन्ते तत्र तत्र सत्-कृताश् च भविष्यन्ति गुरु-कृताश् च मानिताश् च पूजिताश् च अर्चिताश् च अपचायिताश् च भविष्यन्ति । न च ते * अ-मन-आपानि रूपाणि द्रक्ष्यन्ति । न च ते * अ-मन-आपान् शब्दान् श्रोष्यन्ति । एवं न गन्धान् न रसान् न स्प्रष्टव्यान् स्प्रक्ष्यन्ति न च तेषाम् अपायेषु + उपपत्तिः प्रतिकाङ्क्षितव्या स्वर्ग-उपपत्तिस् तेषां प्रतिकाङ्क्षितव्या । तत् कस्य हेतोः । तथा हि तैः सत्वैः सर्व-सत्व-सुख-आवहनानि अ-संख्येयानां सत्वानां कुशल-मूलान्य् अनुमोदितानि यावद् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्ध्य + अ-प्रमेय-अ-संख्येयान् सत्वान् परिनिर्वापयिष्यन्ति + इति ॥

punar atra + eva + āha | ye subhūte gaṅgā-nadī-vālikā-upameṣu tri-sāhasra-mahā-sāhasreṣu loka-dhātuṣu sarva-satvās te sarve * an-uttarāṃ samyak-saṃbodhiṃ pratitiṣṭheyur an-uttarāṃ samyak-saṃbodhiṃ pratiṣṭhāya gaṅgā-nadī-vālikā-samān kalpān upalambha-saṃjñinaś catvāri dhyānāni samāpadyeran | yaś ca bodhi-satvo mahā-satvo * anayā prajñā-pāramitayā upāya-kauśalyena ca parigṛhītā + atīta-an-āgata-praty-utpannānāṃ buddhānāṃ bhagavatāṃ śīla-samādhi-prajñā-vimukti-vimukti-jñāna-darśana-skandhaṃ | śrāvakānāṃ praty-eka-buddhānām api śīla-samādhi-prajñā-vimukti-vimukti-jñāna-darśana-skandhaṃ sarvam ekato * abhisaṃkṣipya piṇḍayitvā tulayitvā nir-avaśeṣam anumodeta + agrayā + anumodanayā jyeṣṭhayā śreṣṭhayā varayā pravarayā praṇītayā uttarayā nir-uttarayā uttara-uttarayā a-samayā + a-sama-samayā + a-prati-samayā + anumodanayā + anumodya + anumodanā-saha-gataṃ [doubtful] puṇya-kriyā-vastv an-uttarāyai samyak-saṃbodhaye pariṇāmayati | asya subhūte * anumodanā-saha-gatasya puṇya-kriyā-vastuno * asau pūrvaka aupalambhikānāṃ bodhi-satvānāṃ catur-dhyāna-mayaḥ puṇya-abhisaṃskāraḥ śatatamīm api kalāṃ na + upaiti yāvad upaniṣadam api na kṣamatae iti ||

अयम् एव नयः परिणामनायाम् उक्तः । अथ-वा + अग्र-परिणामनया परिणामितत्वात् सर्व-पुण्यानाम् अस्य बुद्धत्वाय सत्-कृत-प्रणिधि-बुद्धत्वम् एव स्यात् । अतः का परा पुण्य-वृद्धिः । तद् * ध्य् अ-शेष-सत्व-मोक्ष-कृत-पुण्य-ज्ञान-उपेतं निर्-विकल्पं च ॥

अध्येषणायास् त्व् अनुशंसा आर्य-उग्र-परिपृच्छायाम् उक्ता धर्म-ग्राह्यताम् उपादाय + अ-प्रमेय-अ-संख्येयेषु बुद्ध-क्षेत्रेष्व् आयुः परिरक्षणाय + इति ॥

आर्य-शिक्षा-समुच्चये वन्दना-आद्य्-अनुशंसा सप्तदश-परिच्छेदः समाप्तः ॥

[xviii ratnatrayānusmṛti]

रत्न-त्रय-अनुस्मृतिर् नाम + अष्टादशः परिच्छेदः ॥

उक्ता भद्र-चर्या-विधिना पुण्य-वृद्धिः । अस्याश् च + अयम् अ-परो हेतुः । यो * अयं श्रद्धा-आदीनां सदा + अभ्यासः ॥

यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे । चत्वार इमे महा-राज धर्मा महा-यान-संप्रस्थितानां विशेष-गामितायै संवर्तन्ते * अ-परिहाणाय च । कतमे चत्वारः । श्रद्धा महा-राज विशेष-गामितायै संवर्तते * अ-परिहाणाय । तत्र कतमा श्रद्धा । यया श्रद्धया आर्यान् उपसंक्रामति । अ-करणीयं च न करोति ॥

गौरवं महा-राज विशेष-गामितायै संवर्तते । येन गौरवेण सु-भाषितं शृणोति शुश्रूषते * अ-विरहित-श्रोत्रश् च धर्मं शृणोति ॥

निर्-मानता महा-राज विशेष-गामितायै संवर्तते । यया निर्-मानतया आर्याणाम् अभिनमति प्रणमति नमस्यति ॥

वीर्यं महा-राज विशेष-गामितायै संवर्तते * अ-परिहाणाय । येन वीर्येण काय-लघुतां चित्त-लघुतां च प्रतिलभते सर्व-कार्याणि च + उत्तारयति ॥

इमे महा-राज चत्वार इति ॥

एषां श्रद्धा-आदीनां सदा + अभ्यासः कार्यः । अथ-वा + अन्येषां श्रद्धा-आदीनां ॥

यथा + आह आर्य-अक्षयमति-सूत्रे पञ्च + इमानि + इन्द्रियाणि । कतमानि पञ्च । श्रद्धा-इन्द्रियं वीर्य-इन्द्रियं स्मृति-इन्द्रियं समाधि-इन्द्रियं प्रज्ञा-इन्द्रियम् इति ॥

तत्र कतमा श्रद्धा । यथा श्रद्धायाश् चतुरो धर्मान् अभिश्रद्दधाति । कतमांश् चतुरः । संसार-अवचरीं लौकिकीं सम्यग्-दृष्टिं श्रद्दधाति । स कर्म-विपाक-प्रति-शरणो भवति । यद् यत् कर्म करिष्यामि तस्य तस्य कर्मणः फल-विपाकं प्रत्यनुभविष्यामि + इति । स जीवित-हेतोर् अपि पापं कर्म न करोति । बोध्i-satva-cआरिकाम् अभिश्रद्दधाति । तच्-चर्या-प्रतिपन्नश् च + अन्यत्र याने स्पृहां न + उत्पादयति । परम-अर्थ-नीत-अर्थं गम्भीर-प्रतीत्य-समुत्पाद-नैरात्म्य-निः-सत्व-निर्-जीव-निः-पुद्गल-व्यवहार-शून्यता-निमित्त-अ-प्रणिहित-लक्षणान् सर्व-धर्मान् श्रुत्वा श्रद्दधाति । सर्व-दृष्टि-कृतानि च न + अनुशेते सर्व-बुद्ध-धर्मान् बल-वैशारद्य-प्रभृतींश् च श्रद्दधाति । श्रद्धाय च विगत-कथं-कथस् तान् बुद्ध-धर्मान् समुदानयति । इदम् उच्यते श्रद्धा-इन्द्रियम् ॥

तत्र कतमद् वीर्य-इन्द्रियं । यान् धर्मान् श्रद्धा-इन्द्रियेण श्रद्दधाति तान् धर्मान् वीर्य-इन्द्रियेण समुदानयति + इदम् उच्यते वीर्य-इन्द्रियं ॥

तत्र कतमत् स्मृति-इन्द्रियं । यान् धर्मान् वीर्य-इन्द्रियेण समुदानयति तान् धर्मान् स्मृति-इन्द्रियेण न विप्रणाशयति । इदम् उच्यते स्मृति-इन्द्रियम् ॥

तत्र कतमत् समाधि-इन्द्रियं । यान् धर्मान् स्मृति-इन्द्रियेण न विप्रणाशयति तान् समाधि-इन्द्रियेण + एक-अग्री-करोति + इदम् उच्यते समाधि-इन्द्रियं ॥

तत्र कतमत् प्रज्ञा-इन्द्रियम् ।यान् धर्मान् समाधि-इन्द्रियेण + एक-अग्री-करोति तान् प्रज्ञा-इन्द्रियेण प्रत्यवेक्षते प्रतिविध्यति । यद् एतेषु धर्मेषु प्रत्य्-आत्म-ज्ञानम् अ-पर-प्रत्यय-ज्ञानम् इदम् उच्यते प्रज्ञा-इन्द्रियं ॥

एवम् इमानि पञ्च-इन्द्रियाणि सहितान्य् अनुप्रबद्धानि सर्व-बुद्ध-धर्मान् परिपूरयन्ति । व्याकरण-भूमिं च + आप्ययन्ति इति ॥

श्रद्धा-आदीनां बलानां सदा + अभ्यासः कार्यः । यथा + उक्तम् आर्य-रत्न-चूड-सूत्रे । तत्र कतमत् कुल-पुत्र बोधि-सत्वस्य बल-चर्या-परिशुद्धिः । यद् एभिर् एव + इन्द्रियैर् उपस्तब्धो * अन्-अवमर्द्यो भवति सर्व-मारैः । अ-संहार्यो भवति श्रावक-प्रत्य्-एक-बुद्ध-यानाभ्यां । अ-विनिवर्त्यो भवति महा-यानात् । दुर्-धर्षो भवति सर्व-क्लेशैः । दृढो भवति पूर्व-प्रतिज्ञासु । तृप्तो भवति चित्तेन । बलवान् भवति कायेन । गुप्तो भवति + इन्द्रियैः । दुः-पराजयो भवति तीर्थि-करैः । इत्य् आदि ॥

एवं तावच् * छ्रद्धा-आदीनां सदा + अभ्यासः पुण्य-वृद्धये ॥

का मैत्री ॥

यथा + आह चन्द्र-प्रदीप-सूत्रे । यावन्ति पूजा बहु-विध अ-प्रमेया या क्षेत्र-कोटीन् अ-युत-बिम्बरेषु । तां पूज-कृत्वा पुरुष-वरेषु नित्यं संख्या-कलापो न भवति मैत्र-चित्त । इति ॥

का बुद्ध-आद्य्-अनुस्मृतिः ॥

तत्र राष्ट्रपाल-सूत्रे संवर्णिता । वन्दामि ते कनक-वर्ण-निभा वर-लक्षणा vi-mala-candra-mukhआ । वन्दामि ते अ-सम-ज्ञान-परा सदृशो न ते * अस्ति त्रि-भवे वि-रजा ॥

मृदु चारु स्निग्ध शुभ केश नखा गिरि-राज-तुल्य तव च + उष्णिर् इह । न + उष्नीषम् ईक्षितु तव + अस्ति समो विभ्राजते भ्रुवि तव + ऊर्ण मुने ॥

कुन्द-इन्दु-शङ्ख-हिम-शुभ्र-निभा नील-उत्पल-अभ-शुभ-नेत्र-वरा । कृपया + ईक्षसे जगद् इदं हि यया वन्दामि ते vi-mala-netra जिन ॥

जिह्वा प्रभूत तनु ताम्र-निभा वदनं च छादयसि येन स्वकं । धर्मं वदन् विनयसे च जगत् वन्दामि ते मधुर-स्निग्ध-गिरा ॥

दशनाः शुभाः सु-दृढ वज्र-निभाः त्रिंशद्-दश + अप्य् अ-विरलाः सहिताः । कुर्वन् स्मितं विनयसे च जगत् वन्दामि ते मधुर-सत्य-कथा ॥

रूपेण च + अ-प्रति-समो * असि जिनः प्रभया च भासयसि क्षेत्र-शतान् । ब्रह्म-इन्द्र-पाल-जगतो भगवन् जिह्मी-भवन्ति तव ते प्रभया ॥

एणेय जङ्घ भगवन्न् अ-समा गज-राज-बर्हि-मृग-राज-गतो । ईक्षन् व्रजस्य् अपि युगं भगवन् संकम्पयन् धरणि-शैल-तटान् ॥

कायश् च लक्षण-चितो भगवन् सूक्ष्म छवी कनक-वर्ण-निभा । न + ईक्षञ् जगद् व्रजति तृप्तिम् इदं रूपं तव + अ-प्रतिम-रूप-धर ॥

त्वं पूर्व-कल्प-शत-चीर्ण-तपाः त्वं सर्व-त्याग-दम-दान-रतः । त्वं सर्व-सत्व-कृप-मैत्र-मनाः वन्दामि ते परम-कारुणिकम् ॥

त्वं दान-शील-निरतः सततं त्वं क्षान्ति-वीर्य-निरतः सु-दृढः । त्वं ध्यान-प्रज्ञ-प्रभ-तेज-धरो वन्दामि ते अ-सम-ज्ञान-धर ॥

त्वं वादि-सूर कु-गण-प्रमथी त्वं सिंह-वन् नदसि पर्षदि च । त्वं वैद्य-राज त्र्i-mala-anta-karo वन्दामि ते परम-प्रीति-कर ॥

वाक्-काय-मानस-विशुद्ध मुने त्रि-भवेष्व् अ-लिप्त-जल-पद्मम् इव । त्वं ब्रह्म-घोष-कलविङ्क-रुतो वन्दामि ते त्रैभव-पार-गतम् ॥

माया-उपमं जगद् इमं भवता नट-रङ्ग-स्वप्न-सदृशं विदितं । न + आत्मा न सत्व न च जीव-गती धर्मा मरीci-daka-candra-samआः ॥

शून्याश् च शान्त अन्-उत्पाद-नयं अ-विजानद् एव जगद् उद्भ्रमति । तेषाम् उपाय-नय-युक्ति-शतैः अवतारयस्य् अति-कृपालुतया ॥

राग-आदिभिश् च बहु-राग-शतैः संभ्रामितं सतत वीक्ष्य जगत् । वैद्य-उपमो विचरसे * अ-प्रतिमो परिमोचयन् सु-गत सत्व-शतान् ॥

जाती-जरा-मरण-शोक-हतं प्रिय-vi-prayoga-parideva-शतैः । सतत-आतुरं जगद् अवेक्ष्य मुने परिमोचयन् विचरसे कृपया ॥

रथ-चक्र-वद् भ्रमति सर्व-जगत् तिर्यक्षु प्रेत-निरये सु-गतौ । मूढा अ-देशिक अ-नाथ-गताः तस्य प्रदर्शयसि मार्ग-वरं ॥

ये ते बभूवु पुरिमाश् च जिनाः धर्म-ईश्वरा जगति च + अर्थ-कराः । अयम् एव तैः प्रकथित-आर्य-पथो यद् देशयस्य् अपि विभो * अ-प्रतिमः ॥

स्निग्धं ह्य् अ-कर्कश मनो-ज्ञ वरं ब्रह्म-अधिकं परम-प्रीति-करं । गन्धर्व-किन्नर-वर-अप्सरसाम् अभिभूय तां गिरम् उदाहरसे ॥

सत्य-आर्जव-अ-क्षयम् उपाय-नयैः परिशोधितां गिरम् अन्-अन्त-गुणां । श्रुत्वा हि यां नियुत-सत्व-शताः यान-त्रयेण जनयन्ति शमम् ॥

तव पूजया सुखम् अन्-एक-विधम् दिव्यं लभन्ति मनु-जेषु तथा । आढ्यो महा-धन महा-विभवो भवते जगd-dhita-karo नृ-पतिः ॥

बल-चक्र-वर्त्य् अपि च द्वीप-पतिः जगद् आवृणोति दशभिः कुशलैः । रत्नानि सप्त लभते सु-शुभा त्वयि संप्रसाद-जनको * अ-प्रतिमः ॥

ब्रह्मा + अपि शक्र अपि लोक-पतिः भवते च संतुषिट देव-पतिः । पर-निर्मितो * अपि च स याम-पतिः त्वत्-पूजया भवति च + अपि जिनः ॥

एवं ह्य् अ-मोघ तव पूजा कृता संदर्शनं श्रवणम् अप्य् अ-समं । भवते जगद् विविध-दुःख-हरं स्पृशते पदं च परमं वि-रजं ॥

मार्ग-ज्ञ मार्ग-कुशला भगवन् कु-पथान् निवारयसि लोकम् इमं । क्षेमे शिवे वि-रजि आर्य-पथे प्रतिष्ठापयसि जगद् भगवन् ॥

पुण्य-अर्थिकस्य तव पुण्य-निधे सतत-अ-क्षया भवति पुण्य-क्रिया । बहु-कल्प-कोटिषु न याति क्षयं यावद् * धि न स्पृशति बोधि वरां ॥

परिशुद्ध-क्षेत्र लभते रुचिरं परिनिर्मित-अभ सद प्रीति-करं । शुद्धाश् च काय-वचसा मनसा सत्वा भवन्त्य् अपि च क्षेत्र-वरे ॥

इत्य् एवम् आदि-गुण न + एक-विधान् लभते जिन-अर्चन-कृतान् मनु-जः । स्वर्ग-अपवर्ग मनु-जेषु सुखं लभते च पुण्य-निधि सर्व-जगे ॥

कीर्ति-यशश् च प्रसृतं विपुलं तव सर्व-दिक्षु बहु-क्षेत्र-शतान् । संकीर्तयन्ति सु-गताः सततं तव वर्ण-माल परिषत्सु जिनाः ॥

विगत-ज्वरा जगति मोक्ष-कराः प्रिय-दर्शना अ-सम-कारुणिकाः । शान्त-इन्द्रिया शम-रता भगवन् वन्दामि ते नर-वर-प्रवर ॥

लब्धा अभिज्ञ जिन पञ्च मया गगने स्थितेन ते निशम्य गिरम् । भविता + अस्मि वीर सु-गत-प्रतिमो विभजिष्य धर्मम् अ-मलं जगतः ॥

स्तुत्वा + अद्य सर्व-गुण-पार-गतं नर-देव-नाग-महितं सु-गतं । पुण्यं यद् अर्जितम् इदं विपुलं जगद् आप्नुयाद् अपि च बुद्ध-पदम् ।इति ॥

अथ-वा यथा + आर्य-धर्म-संगीति-सूत्रे कथितं । पुनर् अ-परं बुद्धा भगवन्तो महा-पुण्य-ज्ञान-संभारा महा-मैत्री-महा-करुणा-गो-चरा महा-सत्व-राशेः त्राण-भूता महा-भैषज्य-शल्य-हर्तारः सर्व-सत्व-सम-चित्त-अ-नित्य-समाध्i-go-carआः संसार-निर्वाण-विमुक्ता यावत् सत्वानां माता-पितृ-कल्पाः समान-मैत्र-चित्ताः । पे ॥

सर्व-लोक-अन्-अभिभूताः सर्व-लोकस्य + आलोक-भूता महा-योग-योगिनो महा-आत्मानो महा-जन-परिवारा विशिष्ट-जन-परिवारा अ-निवारित-दर्शन-श्रवण-पर्युपासनाः स्व-सुख-निर्-अपेक्षाः पर-दुष्ख-प्रशमन-प्रिया धर्म-प्रिया धर्म-धरा धर्म-आहारा धर्म-भिषजो धर्म-ईश्वरा धर्म-स्वामिनो धर्म-दान-पतयो नित्य-त्याग-अभिरता नित्य-अ-प्रमत्ता नित्य-विवेक-अभिरताः सर्वत्र तीर्थ-सेतु-भूता महा-राज-मार्ग-प्रख्या यावद् * अ-सेचनक-दर्शना बुद्धा भगवन्त । एवं तान् अनुस्मरति । एवं च तान् अनुस्मृत्य तद्-गुण-परिनिष्पत्त्य्-अर्थं स्मृतिम् उपस्थापयति + इति ॥

तद् उच्यते बुद्ध-अनुस्मृतिर् इति ॥

अत्र + एव धर्म-अनुस्मृतिम् आह । इह बोधि-सत्वस्य + एवं भवति । यए एते बुद्धा भगवन्तो * अन्-अन्त-अ-पर्यन्त-गुणा एते धर्म-जा धर्म-पदा धर्म-निर्मिता धर्म-अधिपतेया धर्म-प्रभा धर्म-गो-चरा धर्म-प्रति-शरणा धर्म-निष्पन्नाः । पेयालं ॥

यान्य् अपि लौकिकानि लोक-उत्तराणि च सुखानि सन्ति । तान्य् अपि धर्म-जानि धर्म-निष्पन्नानि । तस्मान् मया बोध्य्-अर्थिकेन धर्म-गुरुकेण भवितव्यं । धर्म-गौरवेण धर्म-प्रति-शरणेन धर्म-परायणेन धर्म-सारेण धर्म-अन्व ... धर्म-प्रतिपन्नेन । इति + इयम् उच्यते बोधि-सत्वस्य धर्म-अनुस्मृतिः ॥

पुनर् अ-परं बोधि-सत्वस्य + एवं भवति । समो हि धर्मः समः सत्वेषु प्रवर्तते । धर्मो हीन-मध्य-विशिष्ट-अन्-अपेक्ष्यः प्रवर्तते । तथा मया धर्म-सदृश-चित्तेन भवितव्यं । न धर्मो सुख-प्रेक्षिकया प्रवर्तते । अ-पक्ष-पतितो हि धर्मः । तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मः कालम् अपेक्ष्य प्रवर्तते ।आकालिको हि धर्मः । ऐहिपश्यिकः । प्रत्य्-आत्म-वेदनीयः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्म उदारे प्रवर्तते हीनेषु न प्रवर्तते । अन्-उन्नाम-अवनामो हि धर्मः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मः शुद्धेषु प्रवर्तते क्षतेषु न प्रवर्तते । उत्कर्ष-अपकर्ष-अपगतो हि धर्मस् तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्म आर्येषु प्रवर्तते पृथग्-जनेषु न प्रवर्तते । क्षेत्र-दृष्टि-विगतो हि धर्मः । तथा मया धर्म-सदृश-चित्तेन भवितव्यं । न धर्मो दिवा प्रवर्तते रात्रौ न प्रवर्तते । रात्र्यां वा प्रवर्तते दिवा न प्रवर्तते । सदा + अधिष्ठितो हि धर्मः । तथा मया धर्म-सदृश-चित्तेन भवितव्यम् । न धर्मो विनय-वेलाम् अतिक्रामति । न धर्मस्य क्व-चिद् विलम्बः । तथा मया धर्म-सदृश-चित्तेन भवितव्यम् । न धर्मस्य + ऊनत्वं न पूर्णत्वम् अ-प्रमेय-अ-संख्येयो हि धर्म आकाश-वन् न क्षीयते न वर्धते । तथा मया धर्म-सदृश-चित्तेन भवितव्यं । न धर्मः सत्वै रक्ष्यते । धर्मः सत्वान् रक्षति । तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मः शरणं पर्येषते ।धर्मः सर्व-लोकस्य शरणं ।तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मस्य क्व-चित् प्रतिघातो । अ-प्रत्i-hata-lakषणो हि धर्मः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मो * अनुशयं वहति । निर्-अनुशयो हि धर्मः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यम् । न धर्मः संसार-भय-भीतो न निर्वाण-अनुनीतः । सदा निर्-विकल्पो हि धर्मः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यम् ।एवं बोधि-सत्वो धर्म-वद् धर्मे स्मृतिम् उपस्थापयति । तद् उच्यते धर्म-अनुस्मृतिर् इति ॥

अत्र + एव + आह । संघो हि धर्म-वादी धर्म-चरणो धर्म-चिन्तको धर्म-क्षेत्रं धर्म-धरो धर्म-प्रति-शरणो धर्म-पूजको धर्म-कृत्य-कारी धर्म-गो-चरो धर्म-चारित्र-संपन्नः । स्व-भाव-ऋजुकः स्व-भाव-शुद्धः स-अनुक्रोशो धर्म-अनुकारुणिकः सदा विवेक-गो-चरः । सदा धर्म-परायणः सदा शुक्ल-कारी + इत्य् आदि ॥

तत्र बोधि-सत्वस्य संघम् अनुस्मरतः एवं भवति । यए एते संघस्य भूता गुणा एते मया + आत्मनः सर्व-सत्वानां च निष्पादयितव्या इति ॥

यथा + आर्य-विमलकीर्ति-निर्देशे बोध्i-satva-guणा उक्तास् तथा संघ-अनुस्मृतिर् भाव्या । सर्व-सत्वान ये रूपा रुत-घोषाश् च ईरिताः । एक-क्षणेन दर्शेन्ति बोधि-सत्वा विशारदाः ॥

ते जीर्ण-व्याधिता भोन्ति बोधि-सत्वा मृतम् आत्मान दर्शयी ।सत्वानां परिपाकाय माया-धर्म विक्रीडिताः ॥

कल्प-उद्दाहं च दर्शेन्ति उद्दहित्वा वसुं-धराम् । नित्य-संज्ञिन सत्वानाम् अ-नित्यम् इति दर्शयी ॥

सत्वैः शत-सहस्रेभिर् एक-राष्ट्रे निमन्त्रिताः । सर्वेषां गृह भुञ्जन्ति सर्वान् नामन्ति बोधये ॥

ये के-चिन् मन्त्र-विद्या वा शिल्प-स्थाना बहु-विधाः । सर्वत्र पारमि-प्राप्ताः सर्व-सत्व-सुख-आवहाः ॥

यावन्तो लोक पाषण्डाः सर्वत्र प्रव्रजन्ति ते । नाना-दृष्टि-गतं प्राप्तांस् ते सत्वान् परिपाचति ॥

चन्द्रा वा भोन्ति सूर्या वा शक्र-ब्रह्म-प्रज-ईश्वराः । भवन्ति आपस् तेजश् च पृथिवी मारुतस् तथा ॥

रोग अन्तर-कल्पेषु भैषज्यं भोन्ति उत्तमाः । येन ते सत्व मुच्यन्ते सुखी भोन्ति अन्-आमयाः ॥

दुर्-भिक्षा-अन्तर-कल्पेषु भवन्ती पान-भोजनम् ।क्षुधा-पिपासाम् अपनीय धर्मं देशेन्ति प्राणिनाम् ॥

शस्त्र अन्तर-कल्पेषु मैत्री-ध्यायी भवन्ति ते । अ-व्यापादे नियोजेन्ति सत्व-कोटि-शतान् बहून् ॥

महा-संग्राम-मध्ये च सम-पक्षा भवन्ति ते । सन्धि-सामग्रि रोचेन्ति बोधि-सत्वा महा-बलाः ॥

ये च + अपि निरयाः के-चिद् बुद्ध-क्षेत्रेष्व् अ-चिन्तिषु । संचिन्त्य तत्र गच्छन्ति सत्वानां हित-कारणात् ॥

यावन्त्या गतयः काश्-चित् तिर्यग्-योनौ प्रकाशिताः । सर्वत्र धर्मं देशेन्ति तेन उच्यन्ति नायकाः ॥

काम-भोगांश् च दर्शेन्ति ध्यानं च ध्यायिनां तथा । विध्वस्त मारं कुर्वन्ति अवतारं न देन्ति ते ॥

अग्नि-मध्ये यथा पद्मम् अ-भूतं तं विनिर्दिशेत् । एवं कामांश् च ध्यानं च अ-भूतं ते विदर्शयी ॥

संचिन्त्य गणिकां भोन्ति पुंसाम् आकर्षणाय ते । राग-अङ्कु संलोभ्य बुद्ध-ज्ञाने स्थापयन्ति ते ॥

grāmikāś ca sadā bhonti sa-artha-vāhāḥ puro-hitāḥ | agra-amātya + atha ca + amātyaḥ [doubtful] satvānāṃ hita-kāraṇāt ||

दरिद्राणां च सत्वानां निधाना भोन्ति अ-क्षयाः । तेषां दानानि दत्वा च बोधि-चित्तं जनेन्ति ते ॥

मान-स्तब्धेषु सत्वेषु महा-नग्ना भवन्ति ते । सर्व-मानसम् उद्घातं बोधिं प्रार्थेन्ति उत्तमाम् ॥

भय-अर्दितानां सत्वानां संतिष्ठन्ते * अग्रतः सदा । अ-भयं तेषु दत्वा च परिपाचेन्ति बोधये ॥

पञ्च-अभिज्ञाश् च ते भूत्वा ऋषयो ब्रह्म-चारिणः । शीले सत्वान् नियोजेन्ति क्षान्त्i-sauratya-saंयमे ॥

उपस्थान-गुरून् सत्वान् पश्यन्ति + इह विशारदाः । चेटा भवन्ति दासा वा शिष्यत्वम् उपयान्ति च ॥

येन येन + एव च + अङ्गेन सत्वो धर्म-रतो भवेत् । दर्शेन्ति हि क्रियाः सर्वा महा-उपाय-सु-शिक्षिताः ॥

येषाम् अन्-अन्ता शिक्षा हि अन्-अन्तश् च + अपि गो-चरः । अन्-अन्त-ज्ञान-संपन्ना अन्-अन्त-प्राणि-मोचकाः ॥

न तेषां कल्प-कोटीभिः कल्प-कोटि-शतैर् अपि । बुद्धैर् अपि वदद्भिस् तु गुण-अन्तः सु-वचो भवेद् । इति ॥

यथा + आर्य-रत्न-उल्का-धारण्यां बोध्i-satva-guणा उक्तास् तथा भावयितव्याः । रश्मि प्रमुञ्चिय माल्य-वियूहा माल्य-वतंसक माल्य वितानाः । माल्य-विचिन्न-विकीर्ण-समन्ताः ते जिन-पूज करोन्ति महा-आत्मा ॥

रश्मि प्रमुञ्चिय चूर्ण-वियूहा चूर्ण-वतंसक चूर्ण-वितानाः । चूर्ण-विचित्र-विकीर्ण समन्तान् ते जिन-पूज करोन्ति मह--आत्मा ॥

रश्मि प्रमुञ्चिय पद्म-वियूहा पद्म-वतंसक पद्म-विताना । पद्म-विचित्र-विकीर्ण-समन्तान् ते जिन-पूज करोन्ति महा-आत्मा ॥

रश्मि प्रमुञ्चिय हार-वियूहा हार-वतंसक हार-विताना । हार-विचित्र-विकीर्ण-समन्तान् ते जिन-पूज करोन्ति महा-आत्मा ॥

रश्मि प्रमुञ्चिय ध्वज-अग्र-वियूहा ते ध्वज पाण्डुर-लोहित-पीताः । नीलम् अन्-एक पताक विचित्रा ॥

ध्वज समलं-करिते जिन-क्षेत्राः ते मणि-जाल-विचित्र-वियूहा । पट्ट पताक प्रलम्बित दामा किङ्किणि-जाल जिन-स्वर-घोषान् ॥

छत्र धरेन्ति तथा-गत-मूर्ध्ने ते यथ एक-जिनस्य करोन्ति । पाणि-तलात् तु अ-चिन्तिय-पूजां एवम् अ-शेषत-सर्व-जिनानां ॥

एष समाधि विकुर्व ऋषीणां ते जग-संग्रह-ज्ञान-विकुर्वा । अग्र-समाध्य्-अभिनिर्हरमाणाः सर्व-क्रिया उपचार सुखेभिः ॥

सत्व विनेन्ति उपाय-सहस्रैः के-चि तथा-गत-पूज-मुखेन । दान अ-चिन्ति अ-त्याग-मुखेन सर्व-धुतं-गुण-शील-मुखेन ॥

अ-क्षय-क्षान्ति अ-क्षोभ्य-मुखेन के-चि व्रतं तप-वीर्य-मुखेन । ध्यान प्रशान्ति विहार-मुखेन स्v-artha-viniश्चय-प्रज्ञ-मुखेन ॥

सर्व उपाय सहस्र-मुखेन ब्रह्म-विहार अभिज्ञ-मुखेन । संग्रह-वस्तु हित-एषि-मुखेन पुण्य-समुच्चय ज्ञान-मुखेन ॥

सत्य-प्रतीत्य विमोक्ष-मुखेन के-चि बल-इन्द्रिय-मार्ग-मुखेन । श्रावक-यान-विमुक्ति-मुखेन प्रत्यय-यान-विशुद्धि-मुखेन ॥

उत्तम-यान-विकुर्व-मुखेन के-चिद् अ-नित्यत-दुष्ख-मुखेन । के-चि निर्-आत्म-नि-जीव-मुखेन अ-शुभत संज्ञि-विराग-मुखेन ॥

शान्त-निरोध-समाधि-मुखेन यातुक चर्य-मुखा जगती ये ।यातुक धर्म-मुखाः प्रतियन्तः ते तु समन्त-विमोक्ष-मुखेन ॥

सत्व विनेन्ति यथा-आशय लोके ये तु समन्त-विमोक्ष-मुखेन । सत्व विनेन्ति यथा-आशय लोके तेष निमित्त न शक्य ग्रहीतुं ॥

kena-cid eṣa samādhi-vikurvāḥ tena ti-vyūhata [doubtful] agra-samādhiḥ | sarva-jagat-paripāca-nulomā sarva-ratī mukha-prīti-praharṣāḥ ||

चिन्तिय दर्शयि सर्व विनेन्ति यत्र दुर्-भिक्ष सु-दुर्-लभ सर्वं । ये परिष्कार सुख-आवह लोके तत्र च सर्व-भिप्राय-क्रियाभिः ॥

दातु ददन्ति करोन्ति जग-अर्थं ते वर-भोजन-पान-रस-अग्रैः ।वस्त्र-निबन्धन-रत्न-विचित्रैः राज्य-धन-आत्म-प्रियैः परित्यागैः ॥

दान-धिमुक्ति जगद् विनयन्ति ते वर-लक्षण-चित्रित-गात्रा । उत्तम आभरणा वर-धीराः माल्य-विभूषित-गन्ध-नुलिप्ता ॥

रूप विदर्शिय सत्व विनेन्ति दर्शन प्रीति-प्रहर्ष-रतानां । ते वर-रूप-सु-रूप-सु-मेधाः उत्तम-रूप निदर्शयमानाः ॥

रूप-धिमुक्ति जगद् विनयन्ति ते मधुरैः कलविङ्क-रुतेभी । कोकिल-हंस-कुणाल-रवेण दुन्दुभ्i-kinnara-brahma-rutena देशयि सर्व-धिमुक्तिषु धर्मम् ॥

ये चतुर् एव अशीति सहस्रा येभि जिना जगतो * अर्थ करोन्ति । तेभित धर्म-प्रभेद-मुखेभिः सत्व विनेन्ति यथा-आशय लोके ॥

ते सुख-दुष्ख-सहाय करोन्ति अर्थ-अन्-अर्थ-सहायक भोन्ती । सर्व-क्रियासु सहाय भवित्वा सत्व विनेन्ति सहाय-मुखेन ॥

दुष्ख-उपद्रव-सत्-कृत-दोषान् ते तु सहन्ति सहाय-निदानास् । तेभि सहाय सहन्तिय पीडां सर्व-जगस्य हिताय सुखाय ॥

यत्र न निष्क्रमणं न च धर्मो ज्ञायति रण्य-गतो न च मोक्षः । तत्र तु राज्य-समृद्धि-सहाय निष्क्रम-शान्त-मना अ-निकेताः ॥

ते गृह-बन्धन-तृष्ण-निकेतात् सर्व-जगत्-परिमोचन-हेतोः । सर्वत काम-रती अ-निकेता निष्क्रम-मोक्स्.अ प्रभावयमानाः ॥

ते दश चर्य प्रभावयमाना आचरि धर्म महा-पुरुषाणां । सर्वम् अ-शेषत चर्य ऋषीणां भावयमान करोन्ति जग-अर्थं ॥

यत्र् अमित-आयुष सत्व भवन्ती सौख्य-समर्पित-मन्द-किलेशाः । तत्र जरा-अर्दित व्याधिन-पृष्टा दर्शयि मृत्यु-वशं अ-वश-आत्मा ॥

राग-प्रदीपितु दोष-प्रदीप्तं मोह-महा-अग्नि-प्रदीपितु लोकम् । प्रज्वलितं जर-व्याधित-मृत्यु लोक निदर्शयि सत्व विनेन्ति ॥

दश-बलैश् चतुर्-वैशारद्यैर् अष्टदशैर् अपि धर्म-विशेषैः । बुद्ध-महा-आत्म तु सूचयमानाः बुद्ध-गुणेभि करोन्ति जग-अर्थम् ॥

ते च अदेश ऋद्ध्य्-अनुशास्ती रूप-धिष्ठान-बलेन समन्तात् । दर्शयमान तथा-गत ऋद्धी ऋद्धि-विकुर्वित सत्व विनेन्ति ॥

ते विविधेहि उपाय-नयेहि लोक-विचारि करोन्ति जग-अर्थं । लोकि अ-लिप्त जले यथ पद्मं प्रीति-प्रसाद-करा विचरन्ति ॥

काव्य-कराः कवि-राज भवन्ती ते नट-नर्तक झल्लक-मल्लाः । उत्कुट-शोभिक-हारक-नृत्या माय-कराः पृथु रूप-निदर्शी ॥

ग्रामिक नायक सारथि भोन्ती स-अर्थिक श्रेष्ठिक गृह-पति भोन्ति । राज अमात्य पुरो-हित-दूता वैद्य-विशारद-शास्त्र-विधि-ज्ञाः ॥

ते अटवीषु महा-द्रुम भोन्ती औषध अ-क्षय-रत्न-निधानाः । चिन्त-मणि द्रुम काम-ददाश् च देशिक उत्पथ-मार्ग-गतानां ॥

अर्च्चिय सन्तु तु लोक विदित्वा कर्म-विधीषु अ-जानक सत्वाः । ते कृष्i-karma-prayoga-vaणिज्या शिल्पि-विचित्र प्रभावयि लोके ॥

ये अ-विहेठ अ-हिंस-प्रयोगः सर्व-सुख-आवह-विज्ञ-प्रशस्ताः । विद्य-बल-औषधि शास्त्र-विचित्राः सर्व प्रभावित तेभि ऋषीभिः ॥

ये ऋषिणां चरणाः परम-अग्रा यत्र + अधिमुक्त स-देवकु लोकः । ये व्रत-दुष्-कर ये तप-श्रेष्ठाः सर्वि प्रभावित तेभि विदूभिः ॥

ते चरकाः परिव्राजक तीर्थ्याः तापस-गोतम-मोन-चराणाम् । नग्न अचेल-गुरु-श्रमणानां तीर्थिक आचर्या हि भवन्ति ॥

ते तु अजीविक धर्म-चराणां उत्तरिकाण अन्-उत्तरिकाणां । दीर्घ-जटान कुमार-व्रतानां तेष्व् अपि आचर्या हि भवन्ति ॥

सूर्य-नुवर्तक-पञ्च-तपानां कुक्कुर-गो-व्रतिका मृग-चर्या । चारिक तीर्थ्य दश त्रितयानां तेष्व् अपि आचर्या हि भवन्ति ॥

देवत-ज्ञान-प्रवेश-रतानां तीर्थ्-उपदर्शन-देश-चराणां । मूल-फल-अम्बु-चरा अपि भूत्वा धर्म अ-चिन्तिय ते परम-अग्राः ॥

utkuṭa-sthāyina eka-carāṇāṃ kaṇṭaka-bhasma-tṛṇa-śśayanānāṃ | ye muṣale-śaya [doubtful] yukti-vihārī teṣv api ācaryā hi bhavanti ||

यावत बाहिरकाः पृथु-तीर्थ्या आशय तेष्व् अधिमुक्ति समीक्ष्य । तीक्ष्ण-दुर्-आसद-उग्र-तपेभी तीर्थिक दुष्ख-प्रहाण विनेन्ति ॥

दृष्टि-समाकुल लोके विदित्वा सर्व-कु-दृष्टि-समाश्रित तीर्थ्याः । सूक्ष्म-पदेभिर् उपायन येभी सत्य-प्रकाशन तेषु करोन्ति ॥

केषु-चि द्रामिड-मन्त्र-पदेभी देशयि सत्य सु-गुप्त-पदेभिः । केषु उज .. व्यक्त-पदेभिः केषु-चिद् एव रहस्य-पदेभिः ॥

केषु-चि अक्षर-भेद-पदेभिः अर्थ-विनिश्चय-वज्र-पदेभिः । वादि-प्रमर्दन-ज्ञान-पदेभिः शास्त्र-अ-धर्मक-मोक्ष-पदेभिः ॥

केषु-चि मानुष-मन्त्र-पदेभिः सर्व-प्रवेश-निरुक्ति-पदेषु । केषु-चि देव-निरुक्ति-पदेभिः नाग-निरुक्तित यक्ष-पदेभिः ॥

राक्षस-अथ-गन्धर्व-पदेभिः भूत-कुम्भाण्ड-महा-उर-गकेभिः । किंनर-अप्सर-गरुड-पदेभिः सत्य-प्रकाशन-मोक्ष्-उपनेन्ति ॥

ते यथ-सत्य निरुक्त्i-vidhi-jञा एवम् अ-शेषत ये जिन-धर्मा । धर्मम् अ-चिन्तिय वाक्य-पथ-ज्ञा देशयि एष समाधि-विकुर्वा ॥

ते जग-सौख्यत अग्र-समाधी सर्व-जगे अभिनिर्हरमाना । रश्मिम् अ-चिन्तियम् उत्सृजमाना रश्मि प्रमुञ्चिय सत्व विनेन्ति ॥

रश्मि प्रमुञ्चिय दर्शयमाना यावत सत्व विजानित रश्मि । तेषु सु-दर्शन भोति अ-मोघम् हेतु अन्-उत्तरि ज्ञान-वरस्य ॥

दर्शयि बुद्ध विदर्शयि धर्मं संघ निदर्शयि मार्ग नराणाम् । दर्शयि चेतिक ते जिन-बिम्बा तेन सु-दर्शन-रश्मि निवृत्ता ॥

रश्मि प्रमुञ्चि प्रभं-कर नामा या प्रभ जिह्म करोति मरूणां । सर्व-रजं च तमं च हनित्वा सो प्रभ भासति लोक-हितानां ॥

ताय प्रभासय चोदित सत्वास् ते जिन-पूज-प्रदीप धरेन्ती । ते जिन-पूज-प्रदीप धरित्वा लोक-प्रदीप-करा जिन भोन्ति ॥

तैल-प्रदीप घृतस्य प्रदीपा दारु तृणा नड-वेणु प्रदीपान् । गन्ध-रसायन-रत्न-प्रदीपान् दत्व जिनेषु प्रभं-कर लब्धाः ॥

रश्मि प्रमुञ्चिय प्रतारणि नामा ताय प्रभासय चोदित सत्वाः । ... नाव-प्रतारण्i-nadya-patheषु । दूषित संस्कृत वर्णित शान्ती तेन प्रतारणि रश्मि निवृत्ता ॥

रश्मि पिपास-विनोदनि नामा ताय प्रभासय चोदित सत्वाः । काम-गुणेषु तृषां प्रजहित्वा धर्म-विमुक्त्i-rasa-arthika भोन्ति ॥

काम-गुणेषु तृषां प्रजहित्वा धर्म-विमुक्त्i-rasa-arthika भूत्वा । बुद्ध भवन्त्य् अ-मृतं-जल-वर्षी तृष्ण-पिपास-विनोदन लोके ॥

पुष्करिणी नदि-कूप-तडागा उत्सय कारित बोधि-निदानाः । काम विवर्णित वर्णित-ध्याना तृष्ण-विनोदनि तेन निवृत्ता ॥

प्रीति-करी यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । प्रीति-फुटा वर-बोधि-निदानं चिन्त जनेन्ति भविष्य स्वयं-भू ॥

लक्षण-मण्डित पद्म-निषण्णा यत् कृत-विग्रह कारुणिकानां । भाषित बुद्ध-गुणाः सद कालं प्रीति-करी प्रभ तेन निवृत्ता ॥

रश्मि प्रमुञ्चि रतिं-कर नामा ताय प्रभासय बोधित सत्वा । बुद्ध-रती-रत धर्म-रती-रत संघ-रती-रत ते सद भोन्ति ॥

त्रितय-रती-रत ते सद भूत्वा बुद्ध-समागम-धर्म-गण-आर्ये । लब्ध-नुपत्तिक-क्षान्ति लभन्ति चोदित स्मारित ये बहु सत्वा ॥

बुद्ध-अनुस्मृत्i-dharma-gaण-आर्ये बोधि य चित्त-गुणान् विवरित्वा । तेन रतिं-कर रश्मि निवृत्ता ॥

पुण्य-समुच्चय-रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा । दानु ददन्ति विचित्रम् अन्-एकं प्रार्थयमानु अन्-उत्तरु बोधिं ॥

आशय पूरितु याचनकानां यज्ञ निर्-अर्गड तैर् यजमानैः । सर्व-भिप्रायत दानु ददित्वा पुण्य-समुच्चय रश्मि निवृत्ता ॥

ज्ञानवती यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । एक तु धर्म मुखातु अन्-एका धर्म-मुखान् अवबुद्धि क्षणेन ॥

धर्म-प्रभेद ... ग्राहित सत्वान् अर्थ-विनिश्चय ज्ञान विभक्ती । धर्म-पद-अर्थ-विभाषण कृत्वा ज्ञानवती प्रभ तेन निवृत्ता ॥

प्रज्ञ-प्रदीपय ओसरि रश्मि ताय प्रभासय चोदित सत्वाः । शून्य नि-सत्व अ-जात-विपन्नान् ओतरि धर्म अ-भाव-स्व-भावान् । माय-मरीचि-समा दक-चन्द्र-स्वप्न-समान् प्रतिबिम्ब-समान् वा । धर्म अ-स्वामिक शून्य निर्-ईहान् भाषति प्रज्ञ-प्रदीप निवृत्ता ॥

धर्म-विकुर्वणि रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा । धारणि अ-क्षय-कोषु लभित्वा सर्व-तथा-गत-कोषु लभेन्ति ॥

धर्म-धराणु परिग्रहु कृत्वा धार्मिक-रक्ष करित्व ऋषीणां । धर्म अनुग्रह कृत्व जगस्य धर्म-विकुर्वणि रश्मि निवृत्ता ॥

त्यागवती यद रश्मि विमुञ्ची ताय य मत्सर चोदित सत्वा । ज्ञात्वा अ-नित्य अ-शाश्वत-भोगान् त्याग-रती-रत ते सद भोन्ति ॥

मत्सर-दुर्-दम सत्व अ-दान्ता ज्ञात्व धनं सुपिन-अभ्र-स्व-भावं । बृंहित त्याग प्रसन्नम् अनेन त्यागवती-प्रभ तेन निवृत्ता ॥

निष्-परिदाह य ओसरि रश्मिः ताय दुः-शीलय चोदित सत्वा । शील-विशुद्धि प्रतिष्ठित भूत्वा चिन्त जनेन्ति भवेय स्वयं-भूः ॥

कर्म-पथे कुशले परिशुद्धे शील समादयि यद् बहु-सत्वान् । बोधयि चित्त समादयनेन रश्मि निवृत्त स निष्-परिदाहः ॥

क्षान्ति-वियूह य ओसरि रश्मि ताय य अ-क्षम चोदित सत्वाः । क्रोध-खिलं अधिमान जहित्वा क्षान्ति-रती-रत ते सद भोन्ति ॥

दुः-कृत क्षान्ति अपाय-मतीनां चित्त अ-क्षोभित बोधि-निदानं । वर्णित क्षान्ति-गुणाः सद-कालं तेन निवृत्त स क्षान्ति-वियूहा ॥

रश्मि उत्तप्तवती यद मुञ्ची ताय कुशीदय चोदित सत्वाः । युक्त प्रयुक्त त्रिषू रतनेषु पूज करोन्ति अ-खिन्न-प्रयोगाः ॥

युक्त प्रयुक्त त्रिषू रतनेषु पूज करित्व अ-खिन्न-प्रयोगाः । ते चतु मार-पथा अतिक्रान्ताः क्षिप्र स्पृशन्ति अन्-उत्तर बोधिं ॥

वीर्य समादयि यद् बहु-सत्वान् पूज करित्व त्रिषू रतनेषु । धर्म धरित्व क्षयं-गत काले तेन उतप्तवती प्रभ लब्धा ॥

शान्ति-करी यद रश्मि प्रमुञ्ची ताय विभ्रान्तय चोदित सत्वाः । तेषु न रागु न द्वेष न मोहाः बोधित भोन्ति समाहित चित्ताः ॥

पाप कु-मित्र किलिष्ट चरीये संगणिका-विनिवर्तन कृत्वा ।वर्णित ध्यान प्रशान्त अरण्ये शान्ति-करी प्रभ तेन निवृत्ता ॥

प्रज्ञ-वियूह य ओसरि रश्मी ताय दुः-प्रज्ञ संचोदित सत्वाः । सत्य-प्रतीत्य विमोक्षनये अस्मिन् निद्रिय ज्ञान-गतिं गत भोन्ति ॥

इन्द्रिय-ज्ञान-गतिं गत भूत्वा ... । सूर्य-प्रदीप-समाधि लभित्वा प्रज्ञ-प्रभास-करा जिन भोन्ति ॥

राज्य-धन-आत्म-प्रियैः परित्यागैः धर्म य मार्गित बोधि-निदानं । तं च सत्-कृत्य प्रकाशिय धर्मं रश्मि निवृत्त स प्रज्ञ-वियूहाः ॥

बुद्धवती यद रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वाः । बुद्ध सहस्र अन्-एक अ-चिन्त्यान् पश्यिषु पद्म-वनेषु निषण्णान् ॥

बुद्ध-महा-आत्मत बुद्ध-विमोक्षा भासित बुद्ध-विकुर्व अन्-अन्ता । बुद्ध-बल-अवि-प्रभावन कृत्वा बुद्धवती प्रभ तेन निवृत्ता ॥

ते * अ-भयं-दद रश्मि प्रमुञ्ची ताय + अ-भय-अर्दित सत्व स-स्पृष्टाः । भूत-ग्रह-अवध-ताडन-बन्धे मुच्यिषु सर्v-upasarga-bhayebhyअः ॥

ये अ-भयेन निमन्त्रित सत्वाः प्राणि-बधात् तु निवारित भोन्ति । त्रायित यच्-छरण-आगत भीतास् तेन भयं-दद रश्मि निवृत्ता ॥

सर्व-सुख-आवह ओसरि रश्मी ताय गिलानय आतुर स्पृष्टाः । सर्वत व्याधि-दुखात् प्रतिमुक्ता ध्यान-समाधि-सुखानि लभन्ति ॥

रोग-विनोदनि मूल फल्-ओषध रत्न रसायन गन्ध्-अनुलेपान् । फाणित क्षीर मधू घृत तेलान् भोजन पान ददित्वय लब्धा ॥

बुद्ध-निदर्शनि रश्मि प्रमुञ्ची ताय स-चोदित आयु क्षयान्ते । बुद्ध अनुस्मरि पश्यिषु बुद्धम् ते च्युत गच्छि स-बुद्ध-क्क्षेत्रं ॥

काल करोन्ति च स्मारित बुद्धा दर्शित-प्रीत-करा जिन-बिम्बान् । बुद्ध-गताः शरणं मरण-अन्ते भासिय बुद्ध-निदर्शनि लब्धा ॥

धर्म-प्रभावनि रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वा । धर्म पठन्ति शृण्वन्ति लिखन्ती धर्म-रती रत ते सद भोन्ति ॥

।धर्म-दुर्-भिक्षय द्योतितु धर्मो धर्म-गवेषिण पूरित आशा । छन्द जनित्व प्रयुज्यथ धर्मे भाषत धर्म-प्रभावनि लब्धा ॥

घोषवती यद रश्मि प्रमुञ्ची बुद्ध-सुता परिचोदनतायां । यातुक शब्द-प्रचारु त्रि-लोके सर्व तथा-गत-घोष शृण्वन्ति ॥

उच्च स्वरेण स्तवन्ति मह-र्षीन् तूर्य-महत्तर-घण्ट-प्रदानैः । सर्व-जगे जिन-घोष-रुत-अर्थं निश्चरि घोषवती प्रभ-लब्धा ॥

ते * अ-मृतं-दद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । सर्व प्रमाद चिरं प्रजहित्वा सर्व-गुणैः प्रतिपद्यति योगं ॥

दुष्ख अन्-एक उपद्रव-पूर्णं भाषित संस्कृत नित्यम् अ-क्षेमं । शान्त्i-nirodha-sukhaं सद क्षेमं भाषयता अ-मृतं-दद लब्धा ॥

रश्मि विशेषवती यद मुञ्ची ताय प्रभासय चोदित सत्वाः । शील-विशेष समाधि-विशेषं प्रज्ञ-विशेष शृणोन्ति जिनानां ॥

शीलत अग्र समाधित अग्रो प्रज्ञत अग्र महा-मुनि-राजा । य स्तुत वर्णित बोधि-निदानं तेन विशेषवती प्रभ लब्धा ॥

रत्न-वियूह य ओसरि रश्मि ताय प्रभासय चोदित सत्वाः । अक्षर रत्न-निधान लभित्वा पूजयि रत्न-वरेभि मह-र्षीन् ॥

रत्न-विसर्ग जिने जिन-स्तूपे संग्रहि कृत्स्न-जनं रतनेभिः । रत्न-प्रदान करित्व जिनानां रश्मि निवृत्त य रत्न-वियूहाः ॥

गन्ध-प्रभास य ओसरि रश्मी ताय प्रभासय चोदित सत्वाः । घ्रात्वा अ-मानुष गन्ध मनो-ज्ञान् बुद्ध-गुणे नियुतानि भवन्ति ॥

gandh-anulepanu-mānuṣa-divyair [doubtful] yat kṛta pūja nara-adhipatīnāṃ | gandha-mayān jina-vigraha-stūpān kṛtva nivṛtta su-gandha-prabhāsaḥ ||

मुञ्चति रश्मि विचित्र-वियूहान् इन्द्र-पताक-ध्वज-अग्र विचित्रान् । तूर्य-निनादित-गन्ध-प्रधूपित शोभ्i-sura-uttama-puष्प-विकीर्णं ॥

तूर्य-प्रत्युद्गमि पूज-जिनानां पुष्प-विलेपन-धूपन-चूर्णैः । छत्त्र-ध्वज-अग्र-पताक-वितानैस् तेन विचित्र-वियूह निवृत्ताः ॥

रश्मि प्रसाद-करी यद मुञ्ची पाण्i-tala-upama संस्थिहि भूमिः । शोधयतो ऋषि आश्रम-स्तूपान् तेन प्रसाद-करी प्रभ लब्धा ॥

मुञ्चति मेघवती यद रश्मिं संस्थिहि गन्ध प्रवर्षति मेघं । स्तूप वर-अङ्गण-गन्ध-जलेन + आसिञ्चिय मेघवती प्रभ लब्धा ॥

भूषण-व्यूह प्रमुञ्चतु रश्मीन् नग्न अचेल सु-भूषण भोन्ती । वस्त्र-निबन्धन-हार-विचित्रं दत्व विभूषण रश्मि निवृत्ता ॥

रश्मि रस-अग्रवती यद मुञ्ची भुक्षित भोज्य रस-अग्र लभन्ती । भोजन पान विचित्र रस-अग्रान् दत्व रस-अग्रवती प्रभ लब्धा ॥

अर्थ-निदर्शनि मुञ्चति रश्मीन् रत्न-निधान लभन्ति दरिद्राः । अ-क्षय-रत्न-निधिं त्रिभि रत्नैर् दानत अर्थ-निदर्शनि लब्धा ॥

चक्षु-विशोधनि मुञ्चति रश्मीन् अन्ध तदा दृशि रूप विचित्रम् । दीप-प्रदान जिने जिन-स्तूपे चक्षु-विशोधनि रश्मि निवृत्ता ॥

श्रोत्र-विशोधनि मुञ्चति रश्मीन् श्रोत्र-विहीन श्रुणी पृथु-शब्दान् । वाद्य-प्रदान-जिने जिन-स्तूपे श्रोत्र-विशोधनि रश्मि निवृत्ता ॥

घ्राण-विशोधनि मुञ्चति रश्मीन् घ्रायि अ-घ्रायित-पूर्व सु-गन्धान् । गन्ध-प्रदान जिने जिन-स्तूपे घ्राण-विशोधनि रश्मि निवृत्ता ॥

जिह्व-विशोधनि मुञ्चति रश्मीन् स्निग्ध-मनो-ज्ञ-रुतै स्तुति बुद्धान् । वाच दुर्-उक्त विवर्जित रुक्षा श्लक्ष्ण उदीरित रश्मि निवृत्ता ॥

काय-विशोधनि मुञ्चति रश्मीन् इन्द्रिय-हीन सु-इन्द्रिय भोन्ति । काय-प्रणाम जिने जिन-स्तूपे कुर्वत काय-विशोधनि लब्ध्वा ॥

चित्त-विशोधनि मुञ्चति रश्मीन् उन्मतु सर्व स-चित भवन्ति । चित्त समाधि-वश-अनुग कृत्वा चित्त-विशोधनि रश्मि निवृत्ता ॥

रूप-विशोधनि मुञ्चति रश्मीन् पश्यिय चिन्तिय रूप-नर-इन्द्रान् । रूपक-शोधनि चित्र-समन्तात् स्तूप अलं-करता प्रतिलब्धा ॥

शब्द-विशोधनि मुञ्चति रश्मीन् शब्द अ-शब्दत शून्य विजानी । प्रत्यय जात प्रति-श्रुत-तुल्यं शब्द-प्रकाशन रश्मि निवृत्ता ॥

गन्ध-विशोधनि मुञ्चति रश्मीन् सर्व दु-गन्ध सु-गन्ध भवन्ती । गन्ध-वर-अग्र जनैर् जिन-स्तूपान् स्नापन-बोधि-द्रुम प्रभ एषा ॥

ते रस-शोधनि मुञ्चति रश्मीन् स-द्विष निर्-विष भोन्ति रस-अग्राः । बुद्ध स-श्रावक-मातृ-पितॄणां सर्व-रस-अग्र-प्रदान प्रभ + एषां ॥

sparśa-viśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī | śakti-tri-śūla + asi [doubtful] tomara-varṣā mālya mṛdū paduma-utpala bhontī ||

दुष्य अन्-एक मृदू सुख-स्पर्शा संस्तरि मार्गि व्रजन्ति जिनानां । पुष्प-विलेपन-चीवर-सूक्ष्मा माल्य-वितान प्रदान प्रभा + इयम् ॥

धर्म-विशोधनि मुञ्चति रश्मीन् सर्वत रोमत चिन्तिय धर्मान् । निश्चरतः श्रुणि लोक-हितानां तोषयि सर्व-धिमुक्ति-जिनानाम् ॥

प्रत्यय जात अ-जात स्व-भावा धर्म-शरीर अ-जात-शरीराः । धर्मत नित्य-स्थिता गगन-स्था सूचत धर्म-विशोधनि लब्धा ॥

रश्मि सुखा-प्रमुखा इति कृत्वा एकतु रोम-मुखात् तु ऋषीणां । निश्चरि गङ्ग-रज-उपम रश्मी सर्व-पृथग्-विध-कर्म-प्रयोगाः ॥

ते यथ एकत रोम-मुखातो ओसरि गङ्ग-रज-उपम रश्मी । एवम् अ-शेषत सर्वतु रोमा देश समाधि-विकुर्व ऋषीणां ॥

येन गुणेन य रश्मि निवृत्ता तस्मि गुणेषु सहायक पूर्वे । तेषु तम् एव प्रमुञ्चति रश्मिं ज्ञान-विकुर्वण एष ऋषीणां ॥

तेष य पुण्य सहायक पूर्वे यैर् अनुमोदित याचित येभिः । येभि च दृष्ट शुभ-उपचितं वा ते इम रश्मि प्रजानति तेषां ॥

ये च शुभ-उपचिताः कृत-पुण्याः पूजित येभि पुनः पुनः बुद्धाः । अर्थिक छन्दिक बुद्ध-गुणेभिः चोदन तेष करोतिय रश्मिः ॥

सूर्य यथा जात्य्-अन्ध न पश्यी न + उ च स न + अस्ति उदेति स लोके । चक्षु-समेत उदागमु ज्ञात्वा सर्व प्रयुज्य स्वक स्वक धर्मे ॥

एवत रश्मि महा-पुरुषाणां अस्ति च ते इतरे च न पश्यी । मिथ्य-हता अधिमुक्ति-विहीनाः दुर्-लभ ते च उदार-मतीनां ॥

आभरणानि निपान विमानाः रत्न रसायन गन्ध्-अनुलेपाः । ते पि तु अस्ति महा-आत्म-जनस्य ते च सु-दुर्-लभ कृच्छ्र-गतानां ॥

एवत रश्मि महा-पुरुषाणां अस्ति च ते इतरे च न पश्यी । मिथ्य-हता अधिमुक्ति-विहीनाः दुर्-लभ ते च उदार-मतीनां ॥

yasy imu [doubtful] raśmi-prabheda śruṇitvā bheṣyanti śraddadhi-mukti [doubtful] prasādaḥ | tena na kāṅkṣa na saṃśaya kāryo na + aṅga na bheṣyi mahā-guṇa-ketuḥ ||

ते परिवार-वियूह-विकुर्वा अग्र-समाध्य्-अभिनिर्हरमाणाः । सर्व-दश-द्दिशि अ-प्रतिमानाः दर्शयि बुद्ध-सुताः परिवारं ॥

ते त्र्i-sahasra-pramआणु-विचित्रं पद्मम् अधिष्ठिहि रश्मि-वियूहाः । काय-पर्यङ्क परिस्फुट-पद्मं दर्शयि एष समाधि-विकुर्वा ॥

ते दश-क्षेत्र-रज-उपम अन्ये पद्मम् अधिष्ठिहि संपरिवारं । सर्व परीवृत बुद्ध-सुतेभी ये च समाध्य्-अ-समाधि-विहारी ॥

ये परिपाचित तेन ऋषीणां सत्व निष्प-दित बुद्ध-गुणेषु । ते परिवारि अतं मह-पद्मं सर्व उदिक्षिषु प्राञ्जलि-भूताः ॥

ते च समाहित बाल-शरीरे व्युत्थिहि यौवन-वेग-स्थितेभ्यः ॥

यौवन-वेग-स्थितेषु समाहित व्युत्थिहि जीर्णक वृद्ध शरीराः । जीर्णक-वृद्ध-शरीरि समाहित व्युत्थिहि श्रद्ध उपासिक-कायात् ॥

श्रद्ध उपासिक-काय-समाहित व्युत्थिहि भिक्षुणि-काय-शरीरा । भिक्षुणि-काय शरीरि समाहित व्युत्थिहि भिक्षु-बहु-श्रुत-कायाः ॥

भिक्षु-बहु-श्रुत-काय समाहित व्युत्थिहि शैक्ष अ-शैक्ष-शरीराः । शैक्ष अ-शैक्ष-शरीरि समाहित व्युत्थिहि प्रत्यय-बुद्ध-शरीरा ॥

प्रत्यय बुद्ध शरीरि समाहित व्युत्थिहि बुद्ध-वर-अग्र-शरीरा । बुद्ध-वर-अग्र-शरीरि समाहित व्युत्थिहि देवत-काय शरीरा ॥

देवत-काय-शरीरि समाहित व्युत्थिहि नाग-मह-र्द्धिक-कायाः । नाग-मह-र्द्धिक-काय-समाहित व्युत्थिहि यक्ष-मह-र्द्धिक-कायाः ॥

यक्ष-मह-र्द्धिक-काय-समाहित व्युत्थिहि सर्वत-भूत-शरीराः । सर्वत-भूत-शरीरि समाहित व्युत्थिहि एकतु-रोम-मुखातः ॥

एकतु रोम-मुखस्मि समाहित व्युत्थिहि सर्वत रोम-मुखेषु । सर्विषु रोम-मुखेषु समाहित व्युत्थिहि एकतु वाल-पथातः ॥

एकतु वाल-पथस्मि समाहित व्युत्थिहि सर्वत वाल-पथेभ्यः । सर्विषु वाल-पथेषु समाहित व्युत्थिहि ते परम-अणु-रजातः ॥

एक-रजस्मि समाहित भूत्वा व्युत्थिहि सर्व-रजेभ्य अ-शेषम् । सर्व-रजेषु समाहित भूत्वा व्युत्थिहि सागर-वज्र-तलातः ॥

सागर-वज्र-तलस्मि समाहित व्युत्थिहि ते मणि-वृक्ष-फलेभ्यः । वृक्ष-फलेषु समाहित भूत्वा व्युत्थिहि रश्मि-मुखेभि जिनानां ॥

रश्मि-मुखेषु जिनान समाहित व्युत्थिहि सागर-तोय-नदीभ्यः । सागर-तोय-नदीषु समाहित व्युत्थिहि तेज-पथातु महा-आत्मा ॥

तेज-पथस्मि समाहित भूत्वा व्युत्थिहि वायु-पथ-अनुस्मृति + इमान् । वायु-पथे तु समाहित भूत्वा व्युत्थिहि भूमि-तलानु महा-आत्मा ॥

भूमि-तले तु समाहित भूत्वा व्युत्थिहि सर्वतु देव-विमानात् । सर्वि तु देव-बलान समाहित व्युत्थिहि ते गगन-अनुस्मृति + इमान् ॥

एति समाधि विमोक्ष अ-चिन्त्यास् तेष अ-चिन्त्य-गुण-उपचितानां । कल्प अ-चिन्त्य प्रभाषियमाणाः सर्व-जिनेभि न शक्य क्षयीतुम् ॥

सर्व-जिनेभि च भाषित एते कर्म-विपाकु जगस्य अ-चिन्त्यो । नाग-विकुर्वित बुद्ध-विकुर्वा ध्यायिन ध्यान अ-चिन्त्य विकुर्वा ॥

ते च वशे स्थित अष्ट विमोक्षाः श्रावक एक भवी-बहु भोन्ती । भूत्व बहुः पुन एक भवित्वा ध्यायति प्रज्वलते गगनस्मिन् ॥

ते हि महा-करुणाय विहीना बोधि अन्-अर्थिकु लोक उपेक्षी । दर्शयि काय-विकुर्व अ-चिन्त्या कस्य न दर्शयि लोक हित-एषी ॥

चन्द्र स सूर्य नभे विचरन्तौ दर्शयि सर्व-दिशि प्रतिभासं । उत्स-सरो-ह्रद-कूप-तडागे भाजन-रत्न-समुद्र-नदीषु ॥

एवम् अ-चिन्तिय दर्शियि रूपं सर्व-दश-द्दिशि ते नर-वीराः । सर्व-समाधि-विमोक्ष-विधि-ज्ञा यत्र तथा-गत साक्षि स्वयं-भूः ॥

सागर-देव रुतावति-नामा यावत् सत्व समुद्र्य् उत्पन्ना । तेषु स्वर-अङ्ग-रुतेषु विधि-ज्ञा तोषयि सर्व-रुतान् स्व-रुतेन ॥

सा हि स-राग स-दोष रुतावति सर्व-रुते प्रतिघोष विधि-ज्ञा । धारण्i-dharma-balaं वशि-प्राप्ता कः स न तोषि स-देवक-लोकम् ॥

माय-करो यथ विद्य-विधि-ज्ञो दर्शयि रूप विचित्र अन्-अन्तान् । रात्र्i-diva-eka-muhऊर्तुकु मासान् वर्ष-शतं पुन स्फीत-प्रदीप्तान् ॥

माय-करो हि स-रागु स-दोषो तोषयि माय-विकुर्वित लोकं । ध्यान अभिज्ञ विमोक्ष-सु-शिक्षित कस्य न तोषयि चर्य-विधि-ज्ञः ॥

राहु यथ-इष य निर्मणि कायं कुर्वति वज्र पदे तल-बन्धं । दर्शन सागरु नाभि-प्रमाणं भोति सुमेरु-तले सम शीर्षः ॥

सो * अपि स-रागु स-दोष स-मोहो राहु निदर्शयि ईदृश ऋद्धी । मार-प्रमर्दन लोक-प्रदीप कस्य न दर्शयि ऋद्धि अन्-अन्ता ॥

पश्य अ-चिन्तिय शक्र-विकुर्वा देव-सुर-इन्द्र-रणस्मि प्रवृत्ते । यातुक बिम्बर्-अन्-एक-सुराणां तातुक निर्मणि शक्रु स्व-कायान् ॥

सर्व-सुर-इन्द्र-सुराश् च विजानी शक्रम ... पुरतो गत स्व-आयुम् ।एष गृह्येत वज्र-धराणां संभ्रमु गच्छिसु सर्व-सुर-इन्द्राः ॥

नेत्र सहस्र भयङ्-कर दर्शी ज्वाल-प्रमुञ्चन वज्र गृहीतं । वर्मित काय दुर्-आसद तेज शक्रम् उदीक्ष्य पलात्व् असुर-इन्द्राः ॥

सो हित इत्वर-पुण्य-बलेना शक्र विकुर्वति देव-जय-अर्थी । सर्व-जगस्य अ-शेषत त्राणां अ-क्षय-पुण्य कुतो न विकुर्वी ॥

... वायुत संभुत मेघ-प्रवर्षी वायुत मेघ पुनः प्रसमेन्ती । वायुत सस्य विरोहति लोके वायु सुख-आवह सर्व-जगस्य ॥

सो हि अ-शिक्षित पारमितासु बुद्ध-गुणेषु अ-शिक्षित वायुः । दर्शयि लोक-विपाक अ-चिन्त्या कस्य न दर्शयि ते वर-लब्धा ॥

इति शिक्षा-समुच्चये रत्न-त्रय-अनुस्मृति-नाम + अष्टादशः परिच्छेदः समाप्तः ॥

[xix. (पुण्यवृद्धि)]

नवदशः परिच्छेदः ॥

अन्यो * अपि पुण्य-वृद्धये हेतुः कार्यः । यो * अयं सर्व-अवस्थासु सत्व-अर्थः ॥

यथा कथितं च + आर्य-रत्न-मेघे । स तथा-गत-चैत्ये वा तथा-गत-विग्रहे वा पुष्पं वा धूपं वा गन्धं वा ददत् सर्व-सत्वानां दौःशील्य-दौर्गन्ध्य-मल-अपनयनाय तथा-गत-शील-प्रतिलम्भाय च परिणामयति । स सन्-मार्जन-उपलेपनं कुर्वन् सर्व-सत्वानाम् अ-प्रासादिक-ईर्या-पथ-विगमाय । प्रासादिक-ईर्या-पथ-संपदे च परिणामयति । स पुष्प-च्छत्रम् आरोपयन् सर्व-सत्वानां सर्व-क्लेश-परिदाह-विगमाय परिणामयति । स विहारं प्रविशन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् निर्वाण-पुरं प्रवेशयेयं । स निष्क्रमन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् संसार-चारकान् निष्क्रामयेयं । स लभन-द्वारम् उद्घाटयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां लोक-उत्तरेण ज्ञानेन निर्वाण-सु-गति-द्वारम् उद्घाटयेयं । स पिथद् एवं चित्तम् उत्पादयति । सर्व-सत्वानां सर्व-अपाय-द्वाराणि पिदध्यां । स निषीदन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् बोधि-मण्डे निषादयेयं । स दक्षिणेन पार्श्वेन शय्यां कल्पयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् एव परिनिर्वापयेयं । स ततो व्युत्तिष्ठन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् व्युत्थापयेयं सर्व-क्लेश-पर्युत्थानेभ्यः । स शरीर-गत्या गच्छन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वा महा-पुरुष-गत्या गच्छन्तु । स तत्र + उपविष्टए एवं चित्तम् उत्पादयति । सर्व-सत्वा निः-शल्य-क्रिया यद् उत राग-द्वेष-मोहेभ्यः । स शौचं कुर्वन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां क्लेश-मलात् प्रक्षालयेयं ।स हस्तौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां सर्व-क्लेश-वासनाम् अपनयेयं ।स पादौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति सर्व-सत्वानाम् अन्-एक-प्रकाराणि क्लेश-रजांस्य् अपनयेयं ।मुखं प्रक्षालयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां सर्व-धर्म-मुखानि परिशोधयेयं । स दन्त-काष्ठं भक्षयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां नाना-विधान् क्लेश-मलान् अपनयेयं । सर्वां काय-अवस्थां सर्व-सत्व-हित-सुखाय परिणामयति । तथा-गत-चैत्यं वन्दमान एवं चित्तम् उत्पादयति । सर्व-सत्वा वन्दनीया भवन्तु स-देवकस्य लोकस्य + इति ॥

अथ-वा यथा + आर्य-प्रज्ञा-पारमितायां । पुनर् अ-परं शारिपुत्र व्याड-कान्तार-मध्य-गतेन बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यम् न संत्रासम् आपत्तव्यम् । तत् कस्माद् * धेतोः । तथा हि तेन सर्वं परित्यक्तं सर्व-सत्वानाम् अर्थाय । तेन + एवं चित्तम् उत्पादयितव्यम् ।सचेन् मां व्याडा भक्षयेयुस् तेभ्य एव तद् दानं दत्तं भवतु । मम च दान-पारमिता-परिपूरिर् भविष्यति । अभ्यासन्ना च भविष्यति । तथा च करिष्यामि यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसम्बुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे तिर्यग्-योनि-गताः सत्वाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥

चोर-कान्तार-मध्य-गतेन शारिपुत्र बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।तत् कस्माद् * धेतोः । सर्वस्व-परित्याग-कुशला हि ते बोधि-सत्वा महा-सत्वा उत्सृष्ट-कायेन + अपि च बोधि-सत्वेन भवितव्यं परित्यक्त-परिष्कार-उपकरणेन च । तेन + एवं चित्तम् उत्पादयितव्यं ।ते चेन् मे सत्वाः परिष्कार-उपकरणानि हरन्ति तेभ्य एव + एतद् दानं दत्तं भवतु । सचेन् मां के-चिज् जीविताद् व्यपरोपयेयुः तत्र मया न द्वेषो न क्रोध उत्पादयितव्यः । तेषाम् अपि मया न कायेन न वचसा न मनसा + अपराद्धव्यं । एवं च मे तस्मिन् समये दान-पारमिता च शील-पारमिता च क्षान्ति-पारमिता च परिपूरिं गमिष्यति । अन्-उत्तरा च मे सम्यक्-संबोधिर् अभ्यासन्ना भविष्यति । तथा च करिष्यामि तथा प्रतिपत्स्ये यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे । एते च + अन्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥

पानीय-कान्तार-मध्य-गतेन शारिपुत्र बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।तत् कस्माद् * धेतोः । अ-संत्रस्त-धर्माणो हि बोधि-सत्वा महा-सत्वा भवन्ति । एवं च + अनेन चित्तम् उत्पादयितव्यं । सर्व-सत्वानां मया सर्व-तृष्ण-च्छेदाय शिक्षितव्यं । न बोधि-सत्वेन महा-सत्वेन संत्रासम् आपत्तव्यं ।सचेद् अहं तृष्णया कालं करिष्यामि । अपि तु खलु पुनः सत्वानाम् अन्तिके महा-करुणा-चित्तम् उत्पादयिष्यामि । अहो वत + अल्प-पुण्या अमी सत्वा यद् एतेषां लोके एवं-रूपाणि पानीय-कान्ताराणि प्रज्ञायन्ते । तथा पुनर् अहं करिष्यामि तथा प्रतिपत्स्ये यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीय-कान्ताराणि न प्रज्ञास्यन्ते । तथा च सर्व-सत्वान् पुण्यैः संयोजयिष्यामि यथा + अष्ट-अङ्ग-उपेत-पानीय-लाभिनो भविष्यन्ति । तथा दृढं वीर्यम् आरप्स्ये सर्व-सत्वानां कृतशो यथा वीर्य-पारमिता तस्मिन् समये परिपूरिं गमिष्यन्ति ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.