Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

शिक्षासमुच्चय

Tác giả
शान्तिदेव
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

बीजस्य सतो यथा + अङ्कुरो न च यो बीज स च + एव अङ्कुरो । न च अन्य ततो न च + एव तत् । एवम् अन्-उच्छेद अ-शाश्वत धर्मता ॥

संस्कार अ-विद्य-प्रत्ययाः ते च संस्कार न सन्ति तत्वतः । संस्कार अ-विद्य च + एव हि शून्य एते प्रकृती निर्-ईहकाः ॥

मुद्रात् प्रति-मुद्र दृश्यते मुद्र-संक्रान्ति न च + उपलभ्यते । न च तत्र न च + एव सान्यतो एवं संस्कार्-अन्-उच्छेद-शाश्वताः ॥

चक्षुश् च प्रतीत्य रूपतः चक्षु विज्ञानम् इह + उपजायते । न च चक्षुषि रूप-निश्रितं रूप-संक्रान्ति न च + एव चक्षुषि ॥

नैरात्म्य-शुभाश् च धर्मिमे ते पुनर् आत्मा + इति शुभाश् च कल्पिताः । विपरीतम् अ-सद्-विकल्पितं चक्षु-विज्ञान ततो उपजायते ॥

विज्ञान निरोध-संभवं विज्ञ उत्पाद-व्ययं विपश्यति । अ-कहिञ्-चि गतम् अन्-आगतं शून्य माया-उपम योगि पश्यति ॥

अरणिं यथ च + उत्तर-अरणिं हस्त-व्यायाम-त्रयेभि संगतिं । इति प्रत्ययतो * अग्नि जायते जातु कृतु-कार्यु लघू निरुध्यते ॥

अथ पण्डितु कश्-चि मार्गते कुत यम् आगतु कुत्र याति वा । विदिशो दिशि सर्व मार्गतो न गतिर् न + अप्य् अ-गतिश् च लभ्यते ॥

स्कन्ध-आयतनानि धातवः तृष्ण अ-विद्या इति कर्म-प्रत्ययाः । सामग्रि तु सत्व-सूचना सा च परम-अर्थतु न + उपलभ्यते ॥

कण्ठ-ओष्ठ प्रतीत्य तालुकं जिह्व परिवर्तिर् अवर्ति अक्षरा । न च कण्ठ-गता न तालुकैः अक्षर-एक-एक तु न + उपलभ्यते ॥

सामग्रि-प्रतीत्यश् च सा वाचम् अनुबुधि-वशेन निश्चरी । मन-वाच अ-दृश्य-रूपिणी बाह्यतो * अभ्यन्तरि न + उपलभ्यते ॥

उत्पाद-व्ययं विपश्यतो वाच-रुत-घोष-स्वरस्य पण्डिताः । क्षणिकां वशिकां तद् ईदृशीं सर्व-वाचः प्रतिश्रुतक-उपमाः ॥

यथ तन्त्रि प्रतीत्य दारु च हस्त-व्यायाम-त्रयेभि संगतिम् । तुण-वीण-सु-घोषक-आदिभिः शब्दो निश्चरते तद्-उद्भवः ॥

अथ पण्डितु कश्-चि मार्गते कुतो * अयम् आगतु कुत्र याति वा । विदिशो दिश सर्व-मार्गतः शब्दम् अन्-आगमनं न लभ्यते ॥

तथ हेतुभि प्रत्ययेभि च सर्व-संस्कार-गतं प्रवर्तते । योगी पुन भूत-दर्शनात् शून्य संस्कार निर्-ईह पश्यति ॥

स्कन्ध-आयतनानि धातवः शून्य-अध्यात्मिक शून्य-बाह्यकाः । सत्व-आत्म-विविक्तन-आलयाः धर्म-आकाश-स्व-भाव-लक्षणाः ॥

लोक-नाथ-व्याकरणे * अप्य् उक्तम् ॥

शून्या अ-नामका धर्माः नाम किं परिपृच्छसि । शून्यता न क्व-चिद् देवा न नागा न + अपि राक्षसाः ॥

मनुष्या वा + अ-मनुष्या वा सर्वे तु एष विद्यते । नाम्ना हि नामता शून्या नाम्नि नाम न विद्यते ॥

अ-नामकाः सर्वे धर्माः नाम्ना तु परिदीपिताः ॥

यो हि स्व-भावो नाम्नो वै न स दृष्टो न च श्रुतः । न च + उत्पन्नो निरुद्धो वा कस्य नाम + इह पृच्छसि ॥

व्यवहार-कृतं नाम प्रज्ञप्तिर् नाम-दर्शिता । रत्न-चित्रो ह्य् अयं नाम्ना रत्न-उत्तम-पर इति ॥

इति शिक्षा-समुच्चये स्मृत्य्-उपस्थान-परिच्छेदस् त्रयोदशः ॥

[xiv. आत्मभावपरिशुद्धि]

आत्म-भाव-परिशुद्धिः परिच्छेदश् चतुर्दशः ॥

उक्तानि स्मृत्य्-उपस्थानानि । एवं योग्य-चित्तो दशसु दिक्षु शेषस्य जगतो दुष्ख-सागर-उद्धरण-अभिसंबोध्य्-उपायो व्योम-पर्यन्त-त्रैकाल्य-सर्व-धर्म-वश-वर्तित्वाय + एव तु पुनः सर्व-धर्म-शून्यताम् अवतरेत् । एवं हि पुद्गल-शून्यता सिद्धा भवति । ततश् च छिन्न-मूलत्वात् क्लेशा न समुदाचरन्ति ॥

यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे । तद् यथा + अपि नाम शान्तमते वृक्षस्य मूल-छिन्नस्य सर्व-शाखा पत्र-पलाशाः शुष्यन्ति । एवम् एव शान्तमते सत्-काय-दृष्ट्य्-उपशमात् सर्व-क्लेशा उपशाम्यन्ति + इति ॥

शून्यता-भावना-अनुशंसास् त्व् अ-पर्यन्ताः ॥

यथा तावच् चन्द्र-प्रदीप-सूत्रे । सो * असौ शिक्ष न जातु त्रशती सु-गतानां । सो * असौ शूरु न जातु इस्त्रिणां वशम् एती । सो * असौ सासनि प्रीति विन्दते सु-गतानां । यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ॥

सो * असौ न + इह चिरेण भेष्यते dvi-pada-indraः । सो * असौ वैद्य-भिषक् भेष्यते सुख-दाता । सो * असौ उद्धरि शल्य सर्वशो दुखितानां ।यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ॥

सो * असौ क्षान्ति-बलेन उद्गतो नर-चन्द्रः । सो * असौ लोष्टक-दण्ड ताडितो न च कुप्यी । सो * असौ छिद्यति अङ्गम् अङ्गशो न च क्षुभ्यो । यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ॥

न + असौ दुर्गतिषू पतिष्यती अनुव्यञ्जन । नित्यं लक्षण-धारि भेष्यती अभिरूपः । पञ्च्यो तस्य अभिज्ञ भाविता इम नित्यं । पुरतः सो सु-गतान स्थास्यती स च शूर । इत्य् आदि ॥

bhagavatyām apy uktaṃ | punar a-paraṃ śāriputra bodhi-satvena mahā-satvena buddha-kāyaṃ niṣpādayitu-kāmena dvātriṃśan-mahā-puruṣa-lakṣaṇāny aśītiṃ ca + anuvyañjanāni pratilabdhu-kāmena sarvatra jātau jāti-smaratāṃ bodhi-citta-a-vipraṇāśatāṃ bodhi-satva-caryā + a-saṃpramoṣatāṃ pratilabdhu-kāmena sarva-pāpa-mitra-pāpa-sahāyān vivarjayitu-kāmena sarva-buddha-bodhi-satva-kalyāṇa-mitrāṇy ārāgayitu-kāmena sarva-māra-māra-kāyika-devatā-nirjetu-kāmena sarva-āvaraṇī yāni śodhayitu-kāmena sarva-dharma-an-āvaraṇatāṃ pratilabdhu-kāmena prajñā-pāramitāyāṃ śikṣitavyaṃ | punar a-paraṃ śāriputra bodhi-satvena mahā-satvena ye daśasu dikṣu buddhā bhagavantas tiṣṭhanti te me varṇaṃ bhāṣerann iti prajñā-pāramitāyāṃ śikṣitavyaṃ | punar a-paraṃ śāriputra bodhi-satvena mahā-satvena + eka-citta-utpādena pūrvasyāṃ diśi gaṅgā-nadī-vālukā-upamān loka-dhātūn samatikramitu-kāmena | pe | evaṃ sarva-dikṣu prajñā-pāramitāyāṃ śikṣitavyam ity ādy iti [doubtful] vistaraḥ ||

तत्र यथा निर्-आत्मानश् च सर्व-धर्माः । कर्म-फल-संबन्ध-अ-विरोधश् च निः-स्व-भावता च यथा-दृष्ट-सर्व-धर्म-अ-विरोधश् च । तथा पितृ-पुत्र-समागमे दर्शितम् । षड्-धातुर् अयं महा-राज पुरुषः षट्-स्पर्श-आयतनः । अष्टादश-मन-उपविचारः । षड्-धातुर् अयं महा-राज पुरुष इति । न खलु पुनर् एतद् युक्तं । किं वा + एतद् प्रतीत्य + उक्तं षड् इमे महा-राज धातवः । कतमे षट् । तद् यथा पृथिवी-धातुर् अब्-धातुस् तेजो-धातुर् वायु-धातुर् आकाश-धातुर् विज्ञान-धातुश् च । इमे महा-राज षड् धातवः ॥

यावत् षड् इमानि महा-राज स्पर्श-आयतनानि । कतमानि षट् । चक्षुः स्पर्श-आयतनं रूपाणां दर्शनाय । श्रोत्रं स्पर्श-आयतनं शब्दानां श्रवणाय । घ्राणं स्पर्श-आयतनं गन्ध-आराम-आघ्राणाय । जिह्वा स्पर्श-आयतनं रसानाम् आस्वादनाय । काय-स्पर्श-आयतनं स्प्रष्टव्यानां स्पर्शनाय । मनः-स्पर्श-आयतनं धर्माणां विज्ञानाय । इमानि च महा-राज षट् स्पर्श-आयतनानि ॥ पे ॥

अष्टादश + इमे महा-राज मन-उपविचाराः । कतमे * अष्टादश । इह पुरुषश् चक्षुषा रूपाणि दृष्ट्वा । सौमनस्य-दौर्मनस्य-उपेक्षा-स्थानीयान्य् उपविचरति । एवं श्रोत्र-आदिषु वाच्यं । तेन प्रत्य्-एकम् इन्द्रिय-षट्केन सौमनस्य-आदि-त्रयाणां भेदाद् अष्टादश मन-उपविचारा भवन्ति । पे । कतमश् च महा-राज + आध्यात्मिकः पृथिवी-धातुः । यत् किञ्-चिद् अस्मिन् काये * अध्यात्मं कक्खटत्वं खर-गतम् उपात्तं । तत् पुनः कतमत् । तद् यथा । केशा रोमाणि नखा दन्ता इत्य् आदि । अयम् उच्यते + आध्यात्मिकः पृथिवी-धातुः ॥

कतमश् च महा-राज बाह्यः पृथिवी-धातुः । यत् किञ्-चिद् बाह्यं कक्खट्वं खर-गतम् अनुपात्तम् अयम् उच्यते बाह्यः पृथिवी-धातुः । तत्र महा-राज + आध्यात्मिकः पृथिवी-धातुर् उत्पद्यमानो न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चित् संनिचयं गच्छति । भवति महा-राज स समयो यत् स्त्री अध्यात्मम् अहं स्त्री + इति कल्पयति । सा + अध्यात्मम् अहं स्त्री + इति कल्पयित्वा बहिर्-धा पुरुषं पुरुष इति कल्पयति । सा बहिर्-धा पुरुषं पुरुष इति कल्पयित्वा संरक्ता सती बहिर्-धा पुरुषेण सार्धं संयोगम् आकाङ्क्षते । पुरुषो * अध्यात्मं पुरुषो * अस्मि + इति कल्पयति + इति पूर्व-वत् । तयोः संयोग-आकाङ्क्षया संयोगो भवति । संयोग-प्रत्ययात् कललं जायते । तत्र महा-राज यश् च संकल्पो यश् च संकल्पयिता । उभयम् एतन् न संविद्यते । स्त्रियां स्त्री न संविद्यते । पुरुषे पुरुषो न संविद्यते । इति ह्य् अ-सन्न् अ-सद्-भूतः संकल्पो जातः । सो * अपि संकल्पा-स्व-भावेन न संविद्यते । यथा संकल्पस् तथा संयोगो * अपि कललम् अपि स्व-भावेन न संविद्यते । यश् च स्व-भावतो न संविद्यते तत् कथं कक्खटत्वं जनयिष्यति । इति हि महा-राज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यं यथा कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति । निरुध्यमानं न क्व-चित् संनिचयं गच्छति + इति । भवति महा-राज समयो यद् अयं कायः श्मशान-पर्यवसानो भवति । तस्य तत् कक्खटत्वं संक्लिद्यमानं निरुध्यमानं न पूर्वां दिशं गच्छति । न दक्षिणां । न पश्चिमां । न + उत्तरां । न + ऊर्ध्वं । न + अधो । न तु वि-दिशं गच्छति । एवं महा-राज + आध्यात्मिकः

पृथिवी-धातुर् द्रष्टव्यः । भवति महा-राज स समयो यदा + आकाशी-भूते लोक-संनिवेशे ब्राह्मं विमानं संतिष्ठते महा-रत्न-मयं । तन् महा-राज कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति । चक्र-वाड-महा-चक्र-वाडाः संतिष्ठन्ते दृढाः सारा एक-घना वज्र-मयास् तेषाम् अपि कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति । सुमेरवः पर्वत-राजानो युगं-धरा निमिं-धरा ईशा-धरा यावत् काल-पर्वताः संतिष्ठन्ते । सर्वश् च त्रि-साहस्र-महा-साहस्रो लोक-धातुः संतिष्ठते । चतुर्-अशीतिर् योजन-सहस्राण्य् उद्वेधेन । मध्ये च + अष्टषष्टिं योजन-शत-सहस्रं महा-पृथिवी संतिष्ठते । तद् अपि महा-राज कक्खटत्वं समुदागच्छत् कुतश्-चिद् आगच्छति । भवति महा-राज स समयो यदा + अयं लोकः संवर्तते । तदा + इयं महा-पृथिवी अग्निना वा दह्यते * अद्भिर् वा क्लिद्यते वायुना वा विकीर्यते । तस्या अग्निना दह्यमानाया मषिर् अपि न प्रजायते तद् यथा + अपि नाम सर्पिषो वा तैलस्य वा + अग्निना दह्यमानस्य न मषिर् न छायिका प्रज्ञायते एवम् एव + अस्यास् त्रि-साहस्र-महा-साहस्राया लोक-धातोर् अग्निना दह्यमानाया न + एव मषिर् न छायिका + अवशिष्टा प्रज्ञायते । एवम् अद्भिर् लवण-विलय-वद् वायुना वैरम्भ-वात-अभिहत-शकुन्त-वत् पृथिव्यां न किञ्-चिद् अवशिष्टं प्रज्ञायतए इति पठ्यते । तत्र महा-राज पृथिवी-धातोर् उत्पादो * अपि शून्यः व्ययो * अपि शून्य उत्पन्नो * अपि पृथिवी-धातुः स्व-भाव-शून्य । इति हि महा-राज पृथिवी-धातुः पृथिवी-धातुत्वेन न + उपलभ्यते * अन्यत्र व्यवहारात् । सो * अपि व्यवहारो न स्त्री न पुरुषः । एवम् एव + एतन् महा-राज

यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं । तत्र कतमो * अब्-धातुः । यद् इदम् अस्मिन् काये * अध्यात्मं प्रत्य्-आत्मम् आपः । अब्-गतं । अप्त्वं स्नेहः । स्नेह-गतं स्नेहत्वं द्रवत्वम् उपगतम् उपात्तं ॥

तत् पुनः कतमत् । तद् यथा । अश्रु स्वेदः खेटः सिङ्घाणकं वशा लसिका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं क्षीरं प्रस्राव इत्य् आदिर् अयम् उच्यन्ते आध्यात्मिको * अब्-धातुः । पे ॥

भवति महा-राज स समयो यत् प्रियं दृष्ट्वा + अश्रु प्रवर्तते । दुष्खेन च + अभ्याहतस्य धर्म-संवेगेन वा + अश्रु प्रवर्तते । वातेन वा + अक्षि प्रस्यन्दते । यावत् स महा-राज + अब्-धातुर् न कुतश्-चिद् आगच्छति । भवति महा-राज स समयो यदा + आध्यात्मिको * अब्-धातुः परिशुष्यति । स परिशुष्यन् निरुध्यमानो न क्व-चिद् गच्छति । पे । विवर्तमाने खलु पुनर् लोके समन्ताद् द्वात्रिंशत् पटला अभ्र-घनाः संतिष्ठन्ते संस्थाय सर्वावन्तः । त्रि-साहस्र-महा-साहस्रं लोक-धातुं छादयन्ति । यतः पञ्च-अन्तर-कल्पान् ईषाधारो देवो वर्षति । एवं पञ्च गज-प्रमेहो देवो वर्षति । पञ्च-आच्छिन्न-धारः ।पञ्च स्थूल-बिन्दुकः । तत इयं महा-पृथिवी यावद् ब्रह्म-लोकाद् उदकेन स्फुटा भवति । स महा-राज तावन् महान् अब्-धातुर् उत्पद्यमानो न कुतश्-चिद् आगच्छति । भवति महा-राज स समयो यद् अयं लोकः संवर्तते । संवर्तमाने खलु पुनर् लोके द्वितीयस्य सूर्यस्य प्रादुर्-भावो भवति । द्वितीयस्य सूर्यस लोके प्रादुर्-भावाद् उत्साः सरांसि कुनद्यश् च शुष्यन्ति । एवं तृतीयस्य महा-उत्सा महा-नद्यः । चतुर्थस्य + अन्-अवतप्तं महा-सरः सर्वेण सर्वम् उच्छुष्यति । चतुर्थस्य सूर्यस्य प्रादुर्-भावान् महा-समुद्रस्य योजनिकम् अप्य् उदकं परिक्षयं पर्यादानं गच्छति । द्वि-योजनिकम् अपि त्रि-चतुः-पञ्च-दश-विंशति-त्रिंशच्-चत्वारिंशत्-पञ्चाशद्-योजनिकम् अपि यावच् चत्वारिंशd-yojana-sahasram उदकम् अवशिष्टं भवति । यावद् द्वि-ताल-मात्रं ।यावत् कण्ठ-मात्रं । यावद् गोष्पद-मात्रम् उदकम् अवशिष्टं भवति । भवति महा-राज स समयो यन् महा-समुद्रे पृथित-पृथितान्य् अवशिष्टानि भवन्ति । पे ॥

भवति महा-राज स समयो यन् महा-समुद्रे * अङ्गुli-sneha-mआत्रम् अप्य् उदकं न + अवशिष्टं भवति । स महा-राज तावान् अब्-धातुर् निरुध्यमानो न क्व-चिद् गच्छति । पे । तस्य खलु पुनर् महा-राज + अब्-धातोर् उत्पादो * अपि शून्यः । व्ययो * अपि शून्यः तिष्ठन्न् अपि सो * अब्-धातुः स्व-भाव-शून्य इति हि महा-राज + अब्-धातुर् अब्-धातुत्वेन + उपलभ्यते * अन्यत्र व्यवहार-मात्रात् । सो * अपि व्यवहारो न स्त्री न पुरुषः पूर्व-वत् ॥

आध्यात्मिकस् तेजो-धातुः कतमः ॥

यत् किञ्-चिद् अस्मिन् काये तेजस् तेजो-गतम् ऊष्म-गतम् उपगतम् उपात्तं । तत् पुनः कतमत् । येन + अयं काय आतप्यते संतप्यते । येन वा + अस्य + असित-पीत-खादितानि सम्यक्-सुखेन परिपाकं गच्छति । यस्य च + उत्सदत्वाज् ज्वरितो ज्वरित इति संख्यां गच्छति ॥ पे ॥

बाह्यस् तेजो-धातुः कतमः । यद् बाह्यं तेजस् तेजो-गतम् ऊष्म-गतम् उपगतम् उपात्तं । तत् पुनः कतमत् । यन् मनुष्या अरणी-सहगतेभ्यो गर्भल-सहगतेभ्यो वा गो-मय-चूर्णेन वा कार्पास-पिचुना + आवासम् अन्वेषन्ते यद् उत्पन्नं ग्रामम् अपि दहति ग्राम-प्रदेशम् अपि दहति यावद् द्वीपं वा कक्षं तृणानां वा दावं वा काष्ठं वा यावद् दहन् परैति + इत्य् आदि ।तत्र महा-राज + आध्यात्मिकस् तेजो-धातुर् उत्पद्यते न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चित् संनिचयं गच्छति । इति ह्य् अ-भूत्वा भवति भूत्वा च प्रतिविगच्छति स्व-भाव-रहितत्वात् ॥

एवं यत् किञ्-चिद् अस्मिन् काये वायुर् वायु-गतं लघुत्वं समुदीरणत्वं । तत् पुनः कतमत् । तद् यथा ऊर्ध्व-गमा वायवो * अधो-गमाः पार्श्व-आश्रयाः पृष्ठ-आश्रयाः कुक्षि-गमाः शस्त्रकाः क्षुरकाः सूचकाः पिप्पलका वात-अष्ठीला वात-गुल्मा आश्वास-प्रश्वासा अङ्ग-अनुसारिणो वायव इत्य् आदि । सन्ति बहिर्-धा पूर्वे वायवो दक्षिणाः पश्चिमा उत्तरा वायवः स-रजसः अ-रजसः परीत्ता महद्-गता वायव इति । भवति महा-राज स समयो यन् महा-वायु-स्कन्धः समुदागतः । वृक्ष-अग्रान् अपि पातयति । कुड्यान् अपि पर्वत-अग्रान् अपि पातयति । पातयित्वा निर्-उपादानो विगच्छति । यं सत्वाश् चीवर-कर्णिकेन वा विधमनकेन वात-अनुवृत्तेन वा पर्येष्यन्ते । यावद् अयम् उच्यते बाह्यो वायु-धातुः । तस्य + अप्य् उत्पत्तिः पूर्व-वत् ॥

आध्यात्मिक आकाश-धातुः कतमः । यत् किञ्-चिद् अस्मिन् काये * अध्यात्मं प्रत्य्-आत्मम् उपगतम् उपात्तम् आकाश-गतम् इह + अभ्यन्तर-संख्या-भूतं । अ-स्फुटम् अ-स्फरणीयं त्वङ्-मान्स-शोणितेन । तत् पुनः कतमत् । यद् अस्मिन् काये चक्षुः सुषिरम् इति वा यावन् मुखं वा मुख-द्वारं वा कण्ठं वा कण्ठ-नाड्या वा येन च + अभ्यवहरति यत्र च + अवतिष्ठते । येन च + अस्य + अशित-पीत-खादित-आस्वादितम् अधस्तात् प्रघरति । अयम् उच्यतए आध्यात्मिक आकाश-धातुः । एवं बाह्ये * अपि यद् अ-स्फुटम् अ-स्फरणीयं रूप-गतेन + अ-पलिगुद्धं सुषिर-भावश् छिद्रं । अयम् उच्यते बाह्यः आकाश-धातुः ॥

भवति महा-राज स समयो यत् कर्म-प्रत्ययाद् आयतनानि प्रादुर्-भवन्ति तान्य् आकाश-धातुं परिचारयन्ति । तत्र संख्या भवत्य् आध्यात्मिक आकाश-धातुर् इति । स न कुतश्-चिद् आगच्छति । भवति समयो यद् रूपं बिभर्ति सर्वम् आकाशी-भवति । तत् कस्य हेतोः । अ-क्षयो ह्य् आकाश-धातुः स्थिरो * अ-चलः । तद् यथा महा-राज + अ-संस्कृतो निर्वाण-धातुः । एवम् एव + आकाश-धातुः सर्वत्र + अनुगतो द्रष्टव्यः । तद् यथा + अपि नाम महा-राज पुरुष उत्थले देशे उद-पानं वा कुटकं वा कूपं वा पुष्करिणीं वा खानयेत् । तत् किं मन्यसे महा-राज यत् तत्र + आकाशः कुतस् तद् आगतम् इति । आह । न कुतश्-चिद् भगवन् । भगवान् आह । तद् यथा + अपि नाम महा-राज स पुरुषः पुनर् एव तद् उद-पानं वा यावत् पुष्करिणीं वा पूरयेत् । तत् किं मन्यसे महा-राज यत् तद् आकाशं क्व-चिद् गतम् इति । आह । न क्व-चिद् गतं भगवन् । तत् कस्य हेतोः । न ह्य् आकाश-धातुर् गमने वा आगमने वा प्रत्युपस्थितः । न स्त्री-भावेन न पुरुष-भावेन प्रत्युपस्थितः । भगवान् आह । इति हि महा-राज बाह्य-आकाश-धातुर् अ-चलः ।अ-विकारः ।तत् कस्य हेतोः । शून्यो ह्य् आकाश-धातुर् आकाश-धातुत्वेन । विरहित आकाश-धातुर् आकाश-धातुत्वेन । न पुरुष-भावेन न स्त्री-भावेन प्रत्युपस्थितः । एवम् एव यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं ॥

तत्र कतमो विज्ञान-धातुर् या चक्षुर्-इन्द्रिय-अधिपतेया । रूप-आरम्बण-प्रतिविज्ञप्तिः । यावद् इति हि महा-राज या का-चिद् वर्ण-संस्थान-प्रतिविज्ञप्तिर् अयम् उच्यते चक्षुर्-विज्ञान-धातुः । पे । इति हि या षड्-इन्द्रिय-अधिपतेया षड्-विषय-आरम्बणा विषय-विज्ञप्तिर् अयम् उच्यते विज्ञान-धातुः । स खलु पुनर् अयं महा-राज विज्ञान-धातुर् न + इन्द्रिय-निश्रितो न विषयेभ्य आगतो न मध्ये * अन्तर-स्थायी स न + अध्यात्म बहिर्-धा न + उभयम् अन्तरेण । स खलु पुनर् अयं महा-राज विज्ञान-धातुर् वस्तु प्रतिविज्ञप्य निरुद्धः । स उत्पद्यमानो न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चिद् गच्छति । तस्य खलु पुनर् विज्ञान-धातोर् उत्पादो * अपि शून्यः । व्ययो * अपि शून्यः । उत्पन्नो * अपि विज्ञान-धातुः स्व-भाव-शून्यः । इति महा-राज विज्ञान-धातुर् विज्ञान-धातुत्वेन शून्यो न + उपलभ्यते * अन्यत्र व्यवहारात् । सो * अपि व्यवहारो न स्त्री न पुरुषः । एवम् एतद् यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं ॥

तत्र महा-राज कतमच् चक्षुर्-आयतनं । यच् चतुर्णां महा-भूतानां प्रसादः । तद् यथा पृथिवी-धातोर् अब्-धातोस् तेजो-धातोर् वायु-धातोर् यावत् । तत्र पृथिवी-धातु-प्रसादश् चक्षुर्-आयतनं न + अब्-धातु-प्रसादो न तेजो-धातु-प्रसादो न वायु-धातु-प्रसादश् चक्षुर्-आयतनं । तत् कस्य हेतोः । न हि पृथिवी-धातु-प्रसादः कस्य-चिद् धर्म-आयतनं वा आयतन-प्रतिलम्भेन वा प्रत्युपस्थितः । एवं यावन् न वायु-धातु-प्रसादः कस्य-चिद् धर्मस्य + आयतनं वा आयतन-प्रतिलम्भेन वा प्रत्युपस्थितः । तत् कस्य हेतोः । निश्-चेष्टा ह्य् एते धर्मा निष्ठापारा निर्वाण-समा । इति हि महा-राज एक-एकतो धर्मान् मृग्यमाणान् चक्षुर्-आयतनं न + उपलभते * अन्यत्र व्यवहारात् । तत् कस्य हेतोः । शून्यो हि पृथिवी-धातु-प्रसादः पृथिवी-धातु-प्रसादेन । यावच् * छून्यो वायु-धातु-प्रसादो वायु-धातु-प्रसादेन । ये च धर्माः स्व-भावेन शून्याः कस् तेषां प्रसादो वा क्षोभो वा । येषां न प्रसादो न क्षोभ उपलभ्यते । कथं ते रूपं द्रक्ष्यन्ति । इति ह्य् अत्यन्ततया चक्षुर्-आयतनं शून्यं चक्षुर्-आयतन-स्व-भावेन तत् पूर्व-अन्ततो न + उपलभ्यते ॥

अ-पर-अन्ततो * अपि न + उपलभ्यते । अन्-आगमनतां गमनतां च + उपादाय स्थानम् अप्य् अस्य न + उपलभ्यते स्व-भाव-विरहितत्वात् । यच् च स्व-भावेन न संविद्यते । न तत् स्त्री न पुरुषः । तेन का मन्यना । मन्यना च नाम महा-राज मार-गो-चरः । अ-मन्यना बुद्ध-गो-चरः । तत् कस्य हेतोः । मन्यना + अपगता हि सर्व-धर्माः । पे । तत्र महा-राज कतमच् * छ्रोत्र-आयतनं । यच् चतुर्णां महा-भूतानां प्रसादो । यावद् इति हि महा-राज सर्व-धर्मा विमोक्ष-अभिमुखा धर्म-धातु-नियता आकाश-धातु-पर्यवसाना अ-प्राप्तिका अ-व्यवहारा अन्-अभिलाप्या अन्-अभिलपनीयाः । यत्र महा-राज इन्द्रियाणि प्रतिहन्यन्ते ते विषया इत्य् उच्यन्ते । चक्षुर् हि रूपे प्रतिहन्यते तस्माद् रूपाणि चक्षुर्-विषया इत्य् उच्यन्ते । एवं श्रोत्रं शब्देष्व् इत्य् आदि । तत्र चक्षू रूपे प्रतिहन्यत इति निपातः । प्रतिहन्यना तेषां निर्दिष्टा । तथा हि चक्षू रूपेषु त्रि-विधं निपतति + इति । अनु-कूलेषु शुभ-संज्ञया । प्रति-कूलेषु प्रतिघ-संज्ञया । न + एव + अनु-कूलेषु न प्रति-कूलेषु + उपेक्षया । एवं मनो धर्मेष्व् इत्य् आदि । तए इमे विषया मनो-गो-चरा इत्य् उच्यन्ते । अत्र हि मनश् चरति । उपविचरति । तस्मान् मनो-गो-चरा इत्य् उच्यन्ते । यद् एतन् महा-राज मनो * अ-प्रति-कूलेषु रूपेष्व् अनुनीतं चरति । तेन + अस्य राग उत्पद्यते । प्रति-कूलेषु रूपेषु प्रतिहतं चरति तेन + अस्य द्वेष उत्पद्यते । न + एव + अनु-कूलेषु न प्रति-कूलेषु संमूढं चरति । तेन + अस्य मोह उत्पद्यते । एवं शब्द-आदिष्व् अपि त्रि-विधम् आरम्बणम् अनुभवति पूर्व-वत् ॥

तत्र महा-राज माया-उपमानि + इन्द्रियाणि । स्वप्न-उपमा विषयाः । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे जन-पद-कल्याण्या स्त्रिया सार्धं परिचरेत् । स शयित-विबुद्धो जन-पद-कल्याणीं स्त्रियम् अनुस्मरेत् । तत् किं मन्यसे महा-राज संविद्यते स्वप्न-अन्तरे जन-पद-कल्याणी स्त्री । आह । न + उ हि + इदं भगवन् । भगवान् आह । तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयो भवेत् । यः स्वप्न-अन्तरे जन-पद-कल्याणीं स्त्रियम् अनुस्मरेत् । तया वा सार्धं क्रीडितम् अभिनिवेशेत् । आह । न + उ हि + इदं भगवन् । तत् कस्य हेतोः । अत्य्-अन्ततया हि भगवन् स्वप्न-अन्तरे जन-पद-कल्याणी न संविद्यते न + उपलभ्यते । कुतः पुनर् अनया सार्धं परिचरणा । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य भागी स्यात् । यस् ताम् अभिनिविशेत् ॥

भगवान् आह । एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा सौमनस्य-स्थानीयान्य् अभिनिविशेत् । सो * अभिनिविष्टः सन्न् अनुनीयते * अनुनीतः संरज्यते । संरक्तो राग-जं कर्म + अभिसंस्करोति । त्रि-विधं कायेन चतुर्-विधं वाचा त्रि-विधं मनसा । तच् च कर्म + अभिसंस्कृतम् आदित एव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वां दिशं निश्रित्य तिष्ठति । न दक्षिणां न पश्चिमां न + उत्तरां न + ऊर्ध्वं न + अधो न + अनुविदिशं । न + इह न तिर्यक् । न उभयम् अन्तरा । तत् पुनः काल-अन्तरेण मरण-काल-समये प्रत्युपस्थिते । जीवित-इन्द्रिय-निरोधे आयुषः परिक्षयात् तत्-स-भागस्य कर्मणः क्षीणत्वाच् चरम-विज्ञानस्य निरुध्यमानस्य मनस आरम्बणी-भवति । तद् यथा + अपि नाम शयित-विबुद्धस्य जन-पद-कल्याणी + इति मनस आरम्बणं भवति । इति हि महा-राज चरम-विज्ञानेन + अधिपतिना तेन च कर्मणा आरम्बणेन + औपपत्त्य्-अंशिक-द्वय-प्रत्ययं प्रथम-विज्ञानम् उत्पद्यते । यदि वा नरकेषु यदि वा तिर्यग्-योनौ यदि वा यम-लोके यदि वा आसुरे काये यदि वा मनुष्येषु यदि वा देवेषु । तस्य च प्रथम-विज्ञानस्य औपपत्त्य्-अंशिकस्य समनन्तर-निरुद्धस्य + अन्-अन्तर-स-भागा चित्त-संततिः प्रवर्तते । यत्र विपाकस्य प्रतिसंवेदना प्रज्ञायते । तत्र यश् चरम-विज्ञानस्य निरोधस् तत्र च्युतिर् इति संख्यां गच्छति । यः प्रथम-विज्ञानस्य प्रादुर्-भावस् तत्र + उपपत्तिः । इति हि महा-राज न कश्-चिद् धर्मो * अस्माल् लोकात् परं लोकं गच्छति । च्युत्य्-उपपत्ती च प्रजायेते । तत्र महा-राज चरम-विज्ञानम् उत्पद्यमानं न कुतश्-चिद् आगच्छति ॥

निरुध्यमानं न क्व-चिद् गच्छति । कर्म + अप्य् उत्पद्यमानं न कुतश्-चिद् आगच्छति । निरुध्यमानं न क्व-चिद् गच्छति । प्रथम-विज्ञानम् अप्य् उत्पद्यमानं न कुतश्-चिद् आगच्छति । निरुध्यमानं च न क्व-चिद् गच्छति । तत् कस्य हेतोः । स्व-भाव-विरहितत्वात् । चरम-विज्ञानं चरम-विज्ञानेन शून्यं । कर्म कर्मणा शून्यं । प्रथम-विज्ञानं प्रथम-विज्ञानेन शून्यं । च्युतिश् च्युत्या शून्या । उपपत्तिर् उपपत्त्या शून्या । कर्मणां च + अ-बन्ध्यता प्रजायते विपाकस्य च प्रतिसंवेदना न च + अत्र कश्-चित् कर्ता न भोक्ता + अन्यत्र नाम-संकेतात् । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे शत्रुणा सार्धं संग्रामयेत् । स शयित-विबुद्धः । तम् एव + अनुस्मरेत् । तत् किं मन्यसे महा-राज संविद्यते स्वप्न-अन्तरे शत्रुः । शत्रुणा वा सार्धं संग्राम इति । आह । न + उ हि + इदं भगवन् । भगवान् आह । तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयो भवेत् । यो * असौ स्वप्न-अन्तरे शत्रुम् अभिनिविशेत् । शत्रुणा वा सार्धं संग्रामं । आह । न + उ हि + इदं भगवन् । तत् कस्य हेतोः । अत्य्-अन्ततया हि भगवन् स्वप्ने शत्रुर् न संविद्यते कुतः पुनस् तेन सार्धं संग्रामः । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् यस् तम् अभिनिविशेत् । भगवान् आह । एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्या-स्थानीयान्य् अभिनिविशते * अभिनिविष्टः सन् प्रतिहन्यते । प्रतिहतः संतुष्यति । दुष्टो दोष-जं कर्म + अभिसंस्करोति + इति पूर्व-वत् । तद् यथा + अपि नाम महा-राज पुरुषह् सुप्तः

स्वप्न-अन्तरे पिशाचेन परिपात्यमानो भीतः संओहम् आपद्यते । स शयित-विबुद्धस् तं पिशाचं तं च संमोहम् अनुस्मरेत् । तत् किं मन्यसे महा-राज संविद्यन्ते स्वप्ने पिशाचः संमोहो वा । यावद् एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा उपेक्षा-स्थानीयान्य् अभिनिविशते * अभिनिविष्टः सन् मुह्यति मूढो मोह-जं कर्म + अभिसंस्करोति + इति पूर्व-वत् । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे जन-पद-कल्याण्या गायन्त्या मधुरं गीत-स्वरं मधुरं च तन्त्री-स्वरं च शृणुयात् । सा तेन गीत-वादितेन परिचारयेत् । स शयित-विबुद्धस् तद् एव गीत-वादितम् अनुस्मरेत् । तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयः स्वप्न-अन्तरे जन-पद-कल्याण्या गीत-वादितम् अभिनिविशेत् । आह । न + उ हि + इदं भगवन् । भगवान् आह । तत् कस्य हेतोः । अत्य्-अन्ततया हि भगवन् स्वप्न-अन्तरे जन-पद-कल्याणी स्त्री न संविद्यते न + उपलभ्यते । कुतः पुनर् अस्या गीत-वादितं । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् । यस् तद् अभिनिविशेत् । भगवान् आह । एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनः श्रोत्रेण शब्दान् श्रुत्वा सौमनस्य-स्थानीयान्य् अभिनिविशते । इति पूर्व-वत् । एवं गन्ध-आदिषु त्रि-धा त्रि-धा वेदितव्यम् ॥ पे ॥

अत्र महा-राज मानसं निवेशयितव्यं । किम् इत्य् अहं स-देवकस्य लोकस्य चक्षुर् भवेयं । उल्का प्रदीप आलोक-भूतः । कूलं नौस् तीर्थं । नायकः परिणायकः दैशिकः स-अर्थ-वाहः । पुरो जवेयं । मुक्तो मोचयेयम् आश्वस्त आश्वासयेयं परिनिर्वृत्तः परिनिर्वापयेयम् इति । पूर्वा हि कोटिर् महा-राज न प्रज्ञायते ऐश्वर्य-आधिपत्यानाम् अनुभूय मानानां । इति हि महा-राज माया-उपमानि + इन्द्रियाण्य् अ-तृप्तान्य् अ-तर्षणीयानि । स्वप्न-उपमा विषया अ-तर्षका अ-तृप्ति-कराः ॥

अत्र + अन्-अन्त-यशश्-चक्रवर्तिनः कथा स्वर्गाच् च पतिते तस्मिन् स-राजकैः पौरैः परिवृत एवं पठ्यते । तद् यथा + अपि नाम महा-राज सर्पिर्-मण्डो वा नव-नीत-मण्डो वा तप्तायां वालुकायाम् उपनिक्षिप्तो * अवसीदति । न संतिष्ठते । एवम् एव महा-राज + अन्-अन्त-यशा अवसीदति न संतिष्ठते । अथ राजा प्रियंकरो राजानम् अन्-अन्त-यशसं तथा + अवसीदन्तं । उपसंक्रम्य + एतद् अवोचत् । किं वयं महा-राज लोकस्य व्याकुर्यामः । किं राज्ञो * अन्-अन्त-यशसः सु-भाषितम् इति । स आह । वक्तव्यं । महा-राज-अन्-अन्त-यशाश् चतुर्-द्वीपेषु राज्य-ऐश्वर्यं कारयित्वा + अ-बन्ध्य-मनो-रथताम् अनुभूय सर्व-द्रुम-अ-काल-फलतां सर्व-उपद्रव-प्रस्रब्ध्i-sarva-satva-a-bandhya-mano-rathatआं गन्ध-उदक-वर्षं हिरण्य-वर्षं सुवर्ण-वर्षं सर्व-उपकरण-वर्षं च + अनुभूय चतुरो महा-द्वीपान् अध्यावसित्वा शक्रस्य + अर्ध-आसनम् आक्रम्याति + इच्छया न मुक्तो * अ-तृप्त एव कामैः काल-गत इति । एवं त्वं महा-राज व्याकुर्या इत्य् एवम् उक्त्वा च राजा + अन्-अन्त-यशाः कालम् अकार्षीत् । पे ॥

तस्मात् तर्हि ते महा-राज मरीचिकायाम् उदक-स्व-भावो न + अभून् न भविष्यति न च + एतर्हि विद्यते । एवम् एव महा-राज रूप-वेदना-संज्ञा संस्कार-विज्ञनां स्व-भावो न + अभून् न भविष्यति न च + एतर्हि विद्यतए इत्य् आदि ॥

पुनर् अप्य् उक्तं । एतावच् च + एतत् ज्ञेयम् । यद् उत संवृतिः परम-अर्थश् च । तच् च भगवता शून्यतः सु-दृष्टं सु-विदितं सु-साक्षात्-कृतं । तेन स सर्व-ज्ञ इत्य् उच्यते । तत्र संवृतिर् लोक-प्रचारतस् तथा-गतेन दृष्टा । यः पुनः परम-अर्थः सो * अन्-अभिलाप्यः । अन्-आज्ञेयो * अ-विज्ञेयो * अ-देशितो * अ-प्रकाशितो यावद् अ-क्रियो यावन् न लाभो न + अ-लाभो न सुखं न दुष्खं न यशो न + अ-यशः । न रूपं न + अ-रूपम् इत्य् आदि ॥

तत्र जिनेन जगस्य कृतेन संवृति देशित लोक-हिताय । येन जगत् सु-गतस्य सकाशे संजनयीह प्रसाद-सुख-अर्थे ॥

संवृति प्रज्ञ-मयी नर-सिंहः षड्-गतयो भणि सत्व-गणानां । नरक-तिरश् च तथा + एव च प्रेतान् आसुर-काय नरांश् च मरूंश् च ॥

नीच-कुलांस् तथ उच्च-कुलांश् च आढ्य-कुलांश् च दरिद्र-कुलांश् च + इत्य् आदि ॥

पुनश् च + उक्तं । कतम एष धर्मो यो भगवता व्याकृतो * अन्-उत्तरायां सम्यक्-संबोधौ । किं रूपम् उत वेदना आहो श्वित् संज्ञा उत-आहो संस्कारा अथ विज्ञानं भगवता व्याकृतम् अन्-उत्तरायां सम्यक्-संबोधाव् इति । तेषाम् एतद् अभूत् । न रूपं यावन् न विज्ञानं भगवता व्याकृतम् अन्-उत्तरायां सम्यक्-संबोधौ । तत् कस्य हेतोः । अन्-उत्पादो हि रूपम् अन्-उत्पादो बोधिः । तत् कथम् अन्-उत्पादो * अन्-उत्पादम् अभिसंबुध्यते । एवं यावद् विज्ञानम् ॥ पे ॥

तद् एवम् अन्-उपलभ्यमानेषु सर्व-धर्मेषु कतमो * अत्र बुद्धः । कतमा बोधिः । कतमो बोधि-सत्वः । कतमद् व्याकरणम् । शून्यं हि रूपं रूपेण यावद् विज्ञानं ॥ पे ॥

यावद् एव व्यवहार-मात्रम् एतत् । नाम-धेय्-मात्रं संकेत-मात्रं संवृति-मात्रं प्रज्ञप्ति-मात्रं । न + अलम् अत्र पण्डितैर् अभिनिवेश उत्पादयितव्य इति ॥

तथा + अत्र + एव + आहुः । निर्माण-रतयो देवा यथा वयं भगवन् । भगवतो भाषितस्य + अर्थम् आजानीमः । सर्व-धर्मा भूत-कोटिर् अन्-अन्त-कोटिर् अन्-आवरण-कोटिर् अ-प्रतिष्ठित-कोटिर् इत्य् आदि ॥

सर्व-धर्मा भगवन् बोधिः । स्व-भाव-विरहिता बोद्धव्याः । अन्तश आनन्तर्याण्य् अपि बोधिः । तत् कस्य हेतोः । अ-प्रकृतिका हि भगवन् बोधिर् अ-प्रकृतिकानि च * पञ्च + आनन्तर्याणि । तेन + उच्यते आनन्तर्याणि बोधिर् इति । तथा विहस्यन्ते भगवन् ये के-चित् परिनिर्वातु-कामाः । तत् कस्य हेतोः । यदि कश्-चित् संसार-प्रतिपन्नो भवेत् । स निर्वाणं पर्येषतए इति ॥

पुनर् उक्तं । भूत-कोटिर् इति भगवन् यद् उक्तं निर्माण-रतिभिर् देवैस् तत्र वयं भूतम् अपि न + उपलभामहे । किं पुनर् अस्य कोटिम् । तत् कस्य हेतोः । यो हि कश्-चिद् भगवन् भूतम् उपलभते । कोटिम् अपि स तस्य + उपलभते द्वये च + असौ चरति + इति ॥

तथा + अत्र + एव सहांपति-ब्रह्मणा शास्ता स्तुतः ॥

सुपिति यथ नरः क्षुधा + अभिभूतः शत-रस-भोजन-भुञ्जिनो च तृप्तः । न पि च क्षुध न भोजनं न सत्वः सुपिन यथा + एव निदृष्ट सर्व-धर्माः ॥

भणि नरु पठने मनो-ज्ञ-वाचं प्रियु भवती न च संक्रमो * अस्ति वाचं । न च वचन च + अस्य रक्त वाचाम् उपलभसे न च तत्र संशयो * अस्ति ॥

श्रुणति यथ मनो-ज्ञ वीण-शब्दं मधुर न च + अस्ति स्व-भावतः स शब्दः । तथ इमि विदु स्कन्ध प्रेक्षमाणो न लभति भावु स्व-भावतः सु-मेधाः ॥ पे ॥

यथ नरु इह शङ्ख-शब्द श्रुत्वा विमृशति विद्व कुतो य प्रादु-भूतः । न च लभति स्व-भाव शून्य-भावं तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥

यथ नरु इह भोजनं प्रणीतं विमृशति अङ्गशु सिद्धम् अ-स्वभावम् । यथ रसु तथ ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥

यथ नरु इह इन्द्र-यष्टि दृष्ट्वा विमृशति अङ्गशु निः-स्व-भाव शून्यम् । विमृशतु यथ यष्टि ते * अङ्ग शून्यास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥

पुर-वर यथ अङ्गशो विभज्य नगरु स्व-भावतु नामतो न लब्धम् । यथ नगर तथ + अङ्ग सर्व-शून्यास् तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥

मुदित यथ नराग मुक्त भेरी हर्ष जनेति स्व-भाव-शून्य-शब्दा । स्वरु यथ तथ ते * अङ्ग तत्-स्वभावं तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥

... ... हनतु यथ नरस्य तां हि भेरीं प्रतिघु न विद्यति न + अपि स्नेह-धातुः । विमृशतु भेरी + इव ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥

हनतु यथ नरस्य तां हि भेरीं स्वरु न स मन्यति रामयामि लोकम् । स्वरु यथ तथ ते * अङ्ग तत्-स्व-भावाः तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥

हनतु यथ नरस्य तस्य भेर्यां न पि स्वरु अङ्गशु न + अपि स स्व-तन्त्रः । स्वरु यथ तथ ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥

पुनश् च + उक्तं । सत्व-आरम्बण-नायकेन कथिता मैत्री शुभा-भावना । सत्वश् च + अस्य विभावितः सु-विदितं निः-सत्व सर्वं जगत् । तत्र + एवं dvi-pada-uttamo * अ-कलुषो निः-संशया मानसः । तेन त्वा सु-गतं विभावित-मतिं पूजेम पूजा-अरिहम् ॥

duṣkhaṃ cā * su-gatā [doubtful] daśa-ddiśi-gataṃ na + evaṃ parīdṛśyate | satveṣū karuṇā ca nāma bhaṇitā deva-ati-deva tvayā | evaṃ bho jina-puṅ-gavā jina-mataṃ ajñāta yathāvataḥ | tena tvāṃ dvi-pada-uttamā nara-varāḥ pūjema pūjā-ariham ||

सत्वान + एव न दुष्खं शाक्य-मुनिना यस्य + अपनीतं दुखं । जातास् ते मुदिताश् च हृष्ट-मनसो * अ-रतीश् च तैर् न + उदिताः ॥

एवं बुद्ध-नयं अ-चिन्तिय-नयं याथावतो जानतो । तस्मात् पूजिय त्वां नराण प्रवरं प्रायेम प्राप्तं फलं ॥

कायः काय-विवर्जितेन मुनिना न + आसादितो मार्गतां । न + एवं ते स्मृति-नायका न भणिता न + एव प्रमुष्टा स्मृतिः ॥

उक्तं च + उ सु-गतेन भाव-पथिमाः कायं गता भावनाः । एवं बुद्ध-नयं विदित्व सु-गता पूजा कृता तायिनः ॥

भावेथः शमथं विपश्यनम् अयं मार्गं दुखा शान्तये । शान्तास् ते भगवन् स-वासन-मला येही जगत् क्लिष्यते ॥

शमथश् च + अथ विपश्यना न च मला सर्वे * अति शून्या मुने । अस्मिन् देव-गणा न काङ्क्ष क्व-चना पूजेन्तु त्वां नायकं । इत्य् आदि ॥

पुनर् उक्तं । शून्यं हि चक्षुश् चक्षुः-स्व-भावेन । यस्य च धर्मस्य स्व-भावो न विद्यते सो * अ-वस्तुकः । यो * अ-वस्तुकः सो * अ-परिनिष्पन्नः यो * अ-परिनिष्पन्नः स न + उत्पद्यते न निरुध्यते । पे ॥

यत् त्रिष्व् अप्य् अध्वसु न + उपलभ्यते न तच् चक्षुर् न + इन्द्रियं कथं तस्य व्यवहारो ज्ञेयः । तद् यथा + अपि नाम रिक्त-मुष्टिर् अ-लीकः । यावद् एव नाम-मात्रं न + उ तु खलु परम-अर्थतो रिक्तम् उपलभ्यते न मुष्टिः । एवं चक्षुश् च + इन्द्रियं च रिक्ते मुष्टि-सदृशम् अ-लीकम् अ-सद्-भूतं तुच्छं मृषा-मोष-धर्मे बाल-उपलापनं मूर्ख-संमोहनम् यावद् एव नाम-मात्रम् ॥

पुनर् अत्र + एव + आह । स्वप्न-अन्तरे महा-वृष्टिर् आस्रवाणां प्रवर्तना । दर्शिता ते महा-वीर आस्रव-उत्पत्ति-पण्डिताः ॥

स्वप्ने यथा शिरश्-छेदो दृष्टस् ते आस्रव-क्षयः । दर्शितः सर्व-विज्ञानां सर्व-दर्शिन् नमो * अस्तु ते ॥

अत्र + एव च द्रुमेण किन्नर-राजेन भगवान् पृष्टः प्रत्याह । यद् वदसि शून्यतां च व्याकरणं । च + अप्य् अहं न जानामि । स्याद् यदि किं-चिद् अ-शून्यं न भवेज् जिनेन + अस्य व्याकरणम् ॥

किं-कारणं । तथा हि । स्थितं भवेत् तत् स्वके भवे । कूट-स्थ-निर्-विकारं । न तस्य वृद्धिर् न परिहाणिः । न क्रिया न च कारणं । यत् स्व-भाव-शून्यम् आदर्श-मण्डले सु-परिशुद्धे संदृश्यते प्रतिबिम्बम् । तथा + एव द्रुम जानीहि + इमान् धर्मान् । अ-वि-कारं धर्म-धातुम् इमां च पूजां द्रुम + अङ्गशो विचारयसि । अङ्गशो निरीक्ष्य पूजां । कतमे * अ-वि-कारिणो * अङ्गाः ॥

यद् अपि च निर्-ईहकत्वं क्रियां च न जानसे मया प्रोक्तं । शकट-अङ्ग संनिपातं निरीक्ष्व शकटस्य च + एव क्रियां ॥

कर्म च मे आख्यातं कर्ता न विद्यते दशसु दिक्षु । वात-ईरिताद् इव तरोर् यथा हि निवर्तते वह्निः ॥

न च मारुतो न च तरुश् चेतयति हुत-अशनं च यजने । न निवर्तते वह्निस् तथा + एव कर्मस्य कर्तारः ॥

यद् अपि वदसे न च संचय पुण्यस्य हि विद्यते । सु-चरितस्य समुदागमश् च । बोधिस् तस्य + अपि शृणु क्रमन्त त्वं । यथा भणसि मनुष्याणाम् आयुः-परिमाणं वर्ष-शतं जीविन् । न च + अस्ति वर्ष-पुञ्जी । अयम् अपि समुदागमस् तद्-वद् इति ॥

भगवत्याम् अप्य् उक्तं । किं पुनर् आयुष्मन् सुभूते उत्पन्नो धर्म उत्पद्यते उत + अन्-उत्पन्नः । सुभूतिर् आह । न + अहम् आयुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्य + उत्पत्तिम् इच्छामि न च + अन्-उत्पन्नस्य + इति ॥

धर्म-संगीत्याम् अप्य् उक्तं । तथता तथता + इति कुल-पुत्र शून्यताया एतद् अधिवचनं । सा च शून्यता न + उत्पद्यते न निरुध्यते । आह । यद्य् एवं धर्माः शून्या उक्ता भगवता तस्मात् सर्व-धर्मा न + उत्पत्स्यन्ते न निरोत्स्यन्ते । निर्-आरम्भो बोधि-सत्वः । आह । एवम् एव कुल-पुत्र तथा यथा + अभिसंबुध्यसे सर्व-धर्मा न + उत्पद्यन्ते न निरुध्यन्ते । आह । यद् एतद् उक्तं भगवता । संस्कृता धर्मा उत्पद्यन्ते निरुध्यन्ते च + इत्य् अस्य तथा-गत-भाषितस्य को * अभिप्रायः । आह । उत्पाद-निरोध-अभिनिविष्टः कुल-पुत्र लोक-संनिवेशः । तत्र तथा-गतो महा-कारुणिको लोकस्य + उत्त्रास-पद-परिहार-अर्थं व्यवहार-वशाद् उक्तवान् उत्पद्यन्ते निरुध्यन्ते च + इति । न च + अत्र कस्य-चिद् धर्मस्य + उत्पादो न निरोध इति ॥

पुनर् अत्र + एव + उक्तं । तत्र भगवंश् चक्षू-रूपेषु न रणति श्रोत्रं । शब्देषु । यावन् मनो-धर्मेषु न रणति । स धर्मः । तत्र कथं चक्षू-रूपेषु न रणति । संसर्ग-अ-भावात् । न हि चक्षू-रूपेण संसृज्यते । यावन् न मनो-धर्मेण संसृज्यते । यन् न संसृज्यते तन् न रणति । अ-द्वितीयस्य भगवन् धर्मस्य रणं न + अस्ति । अ-द्वितीयाश् च भगवन् सर्व-धर्माः परस्-परं न जानन्ति न विजानन्ति । न कल्पयन्ति न विकल्पयन्ति । न संभवन्ति न विसंभवन्ति । न हीयन्ते न वर्द्धन्ते । न रज्यन्ति । न विरज्यन्ति । न संसरन्ति न परिनिर्वान्ति न + एते कस्य-चित् । न + एषां कश्-चित् । न + एते भगवन् धर्मा उद्विजन्ते न संक्लिश्यन्ते न व्यवदायन्ते । एवम् अहं भगवन् जानाम्य् एवम् अवबुध्ये । यद् अप्य् अहं । भगवन्न् एवं वदामि । एवम् अहं जानाम्य् एवम् अहं बुध्यामि + इति । आयतनानाम् एष वि-कारः । न च भगवन्न् आयतनानाम् एवं भवति । अस्माकम् एष वि-कार इति । यो ह्य् एवं जानाति स न केन-चित् सार्द्धं विवदति । यन् न विवदति तच् * छ्रमण-धर्मम् अनुसरति + इति । तथा धर्म-दर्शनं बुद्ध-दर्शनं सर्व-सत्व-दर्शनं सर्व-सत्व-हेतु-प्रत्यय-दर्शनं शून्यता-दर्शनं शून्यता-दर्शनम् अ-दर्शनं । अ-दर्शनं भगवन् सर्व-धर्माणां दर्शनं सम्यग्-दर्शनम् इति ॥

कथम् अन्-अधिष्ठाना संवृतिर् युक्ता । कथं पुनर् अ-युक्ता । यथा + अ-सति स्थाणौ पुरुष-भ्रान्तिः । कस्य पुनः शून्यता-वादिनः परम-अर्थतः स्थाणुः सिद्धो यद्-आश्रयात् पुरुष-भ्रान्तिः स्याद् । अ-मूला एव च सर्व-धर्मास् तत्वतो मूल-अन्-उपपत्तेः ॥

तथा च + उक्तम् आर्य-विमलकीर्ति-निर्देशे । अ-भूत-परिकल्पस्य किं मूलं । आह । विपर्यस्ता संज्ञा मूलं । आह । विपर्यस्तायाः संज्ञायाः किं मूलं । अ-प्रतिष्ठानं मूलं । आह । अ-प्रतिष्ठायाः किं मूलं । आह । यन् मञ्जुश्रीर् अ-प्रतिष्ठानं न तस्य किञ्-चिन् मूलम् इति ह्य् अ-प्रतिष्ठान-मूल-प्रतिष्ठिताः सर्व-धर्मा इति ॥

इयं समासतः प्रज्ञा-पारमिता चित्त-शुद्ध्य्-अर्थिना भावयितव्या । भावयित्वा च क्लेश-रिपु-रण-कुशलेन भवितव्यं । न स्व-गृह-शूरेण ॥

यथा + उक्तम् आर्य-धर्म-संगीति-सूत्रे । न शून्यता-वादी लोक-धर्मैः संह्रियते * अ-निश्रितत्वात् । न स लाभेन संहृष्याति । अ-लाभेन न वि-मना भवति । यशसा न विस्मयते * अ-यशसा न संकुचति । निन्दया न + अवलीयते । प्रशंसया न + अनुनीयते । सुखेन न रज्यते दुष्खेन न विरज्यते । यो ह्य् एवं लोक-धर्मैर् न संह्रियते स शून्यतां जानीतए इति ॥

तथा शून्यता-वादिनो न क्व-चिद् अनुरागो न वि-रागः । यस्मिन् रज्येत तच् * छून्यम् एव जानीते । शून्यम् एव पश्यति । न + असौ शून्यतां जानीते यः क्व-चिद् धर्मे रज्यते वा विरज्यते वा तथा न + असौ शून्यतां जानीते यः केन-चित् सार्द्धं वि-ग्रहं वि-वादं वा कुर्याच् * छून्यम् एव जानीते तच् * छून्यम् एव पश्यति + इत्य् आदि ॥

एतत् संक्षेपाच् चित्त-शोधनम् ॥

अथ + एवम् अपि परम-विशुद्धिर् धर्म-दर्शने सति । इह पञ्च-कषाय-संक्लिष्टस्य कल्याण-मित्र-अवसादितस्य वा संक्षेपेण तावत् कुत्र यत्नं कृत्वा शीघ्रं चित्त-शुद्धिर् भवति । आत्म-बहु-मान-पर-अवज्ञा-त्यागे * अनयोर् मूलम् आत्म-सत्व-दृष्टिः । सा च + एतद्-अभ्यासात् सु-करं प्रहीयतए इति पर-गौरवम् आत्म-अवज्ञा च + एवं भावनीया ॥

यदि सत्वो यदि स्कन्धाः क्षमता सर्वथा स्थिता । एकस्य हि पर-आत्मत्वं विरुद्धं संभवेत् कथं ॥

विना + आलम्बनम् अप्य् एतद् आचरन्त्य् एव देहिनः । अन्-आदि-कल्यान-अभ्यासात् किम् अभ्यासस्य दुष्-करम् ॥

एवम् अभ्यास-वश्यत्वे तुल्ये कस्मात् सुख-उदयम् । पर-गौरवम् उत्सृज्य स्व-सुखायान् यद् इष्यते ॥

चिन्ता-मणिर् यथा + उक्ताश् च सन्ति गौरव-हेतवः । न तु मे गौरवात् सौख्यम् इह + अपि जन-दुर्-भगात् ॥

तस्मात् सत्व-अन्तरे यद्-वद् रूक्ष-मत्सर-मानिनः । आत्म-स्नेहवतो वृत्तिर् भावयेत् तद्-विपर्ययम् ॥

आत्मनो बहु-मानो * अयं स्तुति-निन्दा-आदि-सेकतः । वर्धते नारक-वशात् सेकान् नरक-वह्नि-वत् ॥

शब्दस् तावद् अ-चित्तत्वान् मां स्तौति + इति न संभवः । परः किल मयि प्रीत इत्य् अयं मे मति-भ्रमः ॥

तत्-तुष्ट्या + एव मम प्रीतिः सामान्ये न सदा + अस्तु सा । तत्-सुखेन न चेत् कार्यं तेन तुष्टेन किं मम ॥

अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया । न मे परेण तुष्टेन काये सौख्यम् इह + अण्व् अपि ॥

एवं ज्ञात्वा प्रहातव्या कल्पना निर्-विबन्धना । अ-कीर्ति-निन्दा सत्-कारा एवं ज्ञेयाश् च निष्-फलाः ॥

न धर्मो न + आयुर् आरोग्यं न बलं वन्दना-आदिभिः । यद्-वद् उत्प्रास्यमानस्य विकारैर् अन्य-कायिकैः ॥

हृष्टस्य + अथ विषण्णस्य लाभ-अ-लाभौ सम-उदयौ । विवर्ज्य निष्-फलं तस्माद् भवेयं शैल-मानसः ॥

संस्तव-त्यागाच् च शीघ्रं चित्त-विशुद्धिर् भवति । इति ॥

तत्र + अपि चिन्त्यते । निमित्त-उद्ग्रह-संभूता प्रत्य्-अभिज्ञा पुनः पुनः । उत्पादयत्य् अनु-नयं जायते प्रतिघो * अप्य् अतः ॥

प्रतिघ-अनुनयौ यस्य तस्य पापम् अ-वारितम् । अभ्याख्यानानि चित्राणि मात्सर्यं च + ईर्ष्यया सह ॥

लाभ-आदि-कामता नाम इत्य् आद्य् आवर्तते बहु । तस्मात् सर्व-प्रयत्नेन संस्तवं प्रहरेन् मुनिः ॥

सादृश्याद् अन्यद् अप्य् एतद् वार्i-sroto-vad ईक्ष्यते । तद् एव + इदम् इति भ्रान्त्या तत्वे तिष्ठाम्य् अतो बलात् ॥

अ-वस्तु च + एतत् सादृश्यं दुष्खं च जनयिष्यति । अहं च + एतच् च सर्वं च न चिरान् न भविष्यति । इति ॥

आत्म-भाव-परिशुद्धिश् चतुर्दशः परिच्छेदः ॥

[xv. भोगपुण्यशुद्धि]

भोग-पुण्य-शुद्धिः पञ्चदशः परिच्छेदः ॥

शिक्षा-समुच्चयस्य + आत्म-शुद्ध्य्-अन्-अन्तरं भोग-शुद्धिः संचय-अ-भावात् । पृथग् इह लेखिता । भोग-शुद्धिं च जानीयात् सम्यग्-आजीव-शोधनात् ॥

यथा + उक्तम् आर्य-उग्र-परिपृच्छायाम् । इह गृह-पते गृही बोधि-सत्वो धर्मेण भोगान् पर्येषते न + अ-धर्मेण । समेन न वि-षमेण । सम्यग्-आजीवो भवति न वि-षम-आजीव इति ॥

आर्य-रत्न-मेघे * अप्य् उक्तं । न बोधि-सत्वो दायकं दान-पतिं दृष्ट्वा + ईर्या-पथम् आरचयति । कथं न + ईर्या-पथम् आरचयति । न शनैर् मन्दं मन्दं क्रमान् उत्क्षिपति न निक्षिपति युग-मात्र-प्रेक्षिकया स-विश्वस्त-प्रेक्षिकया + अन्-आभोग-प्रेक्षिकया । एवं काय-कुहनां न करोति । कथं वाक्-कुहनां न करोति । न बोधि-सत्वो लाभ-हेतोर् लाभ-निदानं मन्द-भाणी मृदु-भाणी न प्रिय-भाणी भवति । न + अनुवर्तन-वचनानि निश्चारयति । पे ॥

कथं न चित्त-कुहनां कुरोति । बोधि-सत्वो दायकेन दान-पतिना वा लाभेन प्रवार्यमाणो वा च + अल्प-इच्छतां दर्शयति । चित्ते न स्पृहाम् उत्पादयति । अन्तर्-दाह एष कुल-पुत्र यद् वाच-अल्प-इच्छता चित्तेन लाभ-कामता । एवं हि कुल-पुत्र बोधि-सत्वः कुहन-लपन-लाभ-अपगतो भवति । पे । न बोधि-सत्वो दान-पतिं वा दृष्ट्वा निमित्तं करोति । विघातो मे चीवरेण । विघातो मे पात्रेण । विघातो मे ग्लान-भैषज्येन । न च तं दायकं दान-पतिं वा किं-चित् प्रार्थयते । न वाचं निश्चारयति । एवं हि बोधि-सत्वो निमित्त-लाभ-अपगतो भवति । यावन् न बोधि-सत्वो दायकं दान-पतिं दृष्ट्वा एवं वाचं निश्चारयति । अमुकेन + अमुकेन वा मे दान-पतिना + अमुकं वस्तु प्रतिपादितं तस्य च मया + अमुक उपकारः कृतः । तेन मे शीलवान् अयम् इति कृत्वा इदं च + इदं च दत्तं बहु-श्रुत इति । अल्प-इच्छ इति कृत्वा । मया च तस्य कारुण्य-चित्तम् उपस्थाप्य परिगृहीतं । पे ॥

तत्र काय-क्षतिर् यद् उत लाभ-हेतोर् लाभ-निदानम् आधावन-परिधावनं दौःशील्य-समुदाचरणं च । चित्त-क्षतिर् यद् उत प्रार्थना । लाभिनां च ब्रह्म-चारिणाम् अन्तिके व्यापाद-बहुलता । एवं हि बोधि-सत्वो विषम-पर्येष्टि-लाभ-अपगतो भवति । पे ॥

इह बोधि-सत्वो न तुला-कूटेन न मान-कूटेन न विस्रंभ-घातिकया न धूर्ततया लाभम् उपार्जयति । एवं हि बोधि-सत्वो * अ-धर्म-लाभ-अपगतो भवति । पे । ये ते लाभा स्तौपिक-संसृष्टा वा धार्मिक-संसृष्टा वा सांघिक-संसृष्टा वा + अ-दत्ता वा + अन्-अनुज्ञाता वा । तान् न प्रतीच्छति न स्वी-करोति । एवं हि बोधि-सत्वो * अ-परिशुद्ध-लाभ-अपगतो भवति । यावल् लब्धा लाभं न ममायते । न धनायते । न संनिधिं करोति । काल-अनुकालं च श्रमण-ब्राह्मणेभ्यो ददाति । माता-पितृ-मित्र-अमात्य-ज्ञाति-सालोहितेभ्यः काल-अनुकालम् आत्मना परिभुङ्क्ते परिभुञ्जानश् च + अ-रक्तः परिभुङ्क्ते । स्व्-अनध्यवसितो न च + आलभ्यमाने लाभे खेद-चित्तम् उत्पादयति । न परितप्यति न च दायक-दान-पतीनाम् अन्तिके * अ-प्रसाद-चित्तम् उत्पादयति + इत्य् आदि ॥

तत्र + एष + अप्य् अस्य बोधि-सत्वस्य भोग-शुद्धिर् आत्म-भाव-शुद्धि-वत् पर-हिताय भवेत् ॥

यथा + उक्तम् आर्य-विमलकीर्ति-निर्देशे । पुनर् अ-परं भदन्त शारिपुत्र ये प्रविशन्ति + इदं गृहं तेषां समनन्तर-प्रविष्टानां सर्व-क्लेशा न बाधन्ते * अयं द्वितीय आश्चर्य-अद्भुतो धर्मः ॥

पुनर् अत्र + एव + उक्तं । अथ ततो भोजनात् सर्वावती सा पर्षत् तृप्ता भूता । न च तत् भोजनं क्षीयते । यैश् च बोधि-सत्वैः श्रावकैश् च शक्र-ब्रह्म-लोक-पालैस् तद् अन्यैश् च सत्वैस् तद् भोजनं भुक्तं तेषां तादृशं सुखं काये * अवक्रान्तं यादृशं सर्व-सुख-मण्डितायां लोक-धातौ बोधि-सत्वानां सुखं । सर्व-रोम-कूपेभ्यश् च तेषां तादृशो गन्धः प्रवाति । तद् यथा + अपि नाम तस्याम् एव सर्व-गन्ध-सु-गन्धायां लोक-धातौ वृक्षाणां गन्धः ॥

पुनश् च + उक्तं । यैश् च भदन्त + आनन्द भिक्षुभिर् अन्-अवक्रान्त-नियामैर् एतद् भोजनं भुक्तं तेषाम् एव + अवक्रान्त-नियमानां परिणंस्यति । पे । यैर् अन्-उत्पादित-बोधि-चित्तैः सत्वैः परिभुक्तं तेषाम् उत्पादित-बोधि-चित्तानां परिणंस्यति । यैर् उत्पादित-बोधि-चित्तैर् भुक्तं तेषां न + अ-प्रतिलब्ध-क्षान्तिकानां परिणंस्यति + इति विस्तरः ॥

शून्यता-करुणा गर्भ-चेष्टितात् पुण्य-शोधनम् ॥

उक्तं ह्य् आर्य-गगन-गञ्ज-सूत्रे । यद् उत + अहं-कार-विशुद्धं तद् दानं ददाति । मम-कार-विशुद्धं तद् दानं ददाति । हेतु-विशुद्धं तद् दानं ददाति । दृष्टि-विशुद्धं तद् दानं ददाति । निमित्त-विशुद्धं तद् दानं ददाति । नानात्व-विशुद्धं तद् दानं ददाति । विपाक-प्रतिकाङ्क्षणा-विशुद्धं तद् दानं ददाति । यथा गगनं सम-विशुद्धं तद् दानं ददाति ॥

पे । यथा गगनम् अ-पर्यन्तम् एवम् अ-पर्यन्ती-कृतेन चित्तेन तद् दानं ददाति । यथा गगनं विस्तीर्णम् अन्-आवरणम् एवं बोधि-परिणामितं तद् दानं ददाति । यथा गगनम् अ-रूपि एवं सर्व-रूप-अ-निश्रितं तद् दानं ददाति । यथा गगनम् अ-वेदयितृ । एवं सर्व-वेदित-प्रतिप्रस्रब्धं दानं ददाति । एवम् अ-संज्ञि अ-संस्कृतम् अ-विज्ञप्ति-लक्षणम् एवम् अ-प्रतिज्ञानं तद् दानं ददाति । यथा गगनं सर्व-बुद्ध-क्षेत्र-स्फरणम् एवं सर्व-सत्व-मैत्री-स्फरणं तद् दानं ददाति । पे । यथा गगनं सदा-प्रकाशम् एवं चित्त-प्रकृति-विशुद्धं तद् दानं दद-ति । यथा गगनं सर्व-सत्व-अवकाशं एवं सर्व-सत्व-उपजीव्यं तद् दानं ददाति । यावद् यथा निर्मितो निर्मिताय ददाति निर्-विकल्पो * अन्-आभोगः । चित्त-मनो-विज्ञान-विगतः सर्व-धर्म-निः-प्रतिकाङ्क्षी । एवं द्वय-विगमतया माया-लक्षण-स्व-भाव-विशुद्धं बोधि-सत्वस् तद् दानं ददाति । यस्य + ईदृशो दान-परित्यागः प्रज्ञा-ज्ञानेन च सर्व-सत्व-क्लेश-परित्यागः । उपाय-ज्ञानेन च सत्व-अ-परित्यागः । एवं त्याग-चित्तः कुल-पुत्र बोधि-सत्वो गगन-सम-दानो भवति ॥

आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं । न + अस्ति सत्व-उत्पीडना-दानम् । यावन् न + अस्ति यथा-उक्ते ऊन-दानं । यावन् न + अस्ति सर्व-सत्वेषु दक्षिणीया-अवमन्यना-दानं । पे । न + अस्ति निक्रन्द-दानं यावन् न + अस्ति याचनकेषु + उपतप्त-दानं न + अस्त्य् उच्चग्घन उल्लापन-दानं न + अस्ति पराङ्-मुख-दानं न + अस्त्य् अपविद्ध-दानं न + अस्त्य् अ-स्व-हस्त-दानं । पे । न + अस्त्य् अ-कल्पिक-दानं । न + अस्त्य् अ-काल-दानं न + अस्ति विष-शस्त्र-दानं न + अस्ति सत्व-विहेठना-दानम् इति ॥

यत् तर्ह्य् उग्र-परिपृच्छायाम् उक्तं । दान-पारमिता-कालो * अयं यस्य येन + अर्थस् तस्य तत्-प्रदान-कालः । अपि तु तथा + अहं करिष्यामि । मद्य-पेभ्य एव मद्य-पानं दास्यामि । तांस् तान् स्मृति-संप्रजन्ये समादापयिष्यामि + इति ॥

मद्य-पानाद् अपि नैराश्य-कृते बोधि-सत्वे प्रतिघो गरीयान् । सत्व-संग्रह-हानिश् च + अतो * अन्य-प्रसादन-उपाय-अ-संभवे मद्यं देयम् इत्य् अभिप्रायः । शस्त्र-आदिष्व् अपि यद्य् अनुबध-गुरुल-आद्य्-अवविचाराद् दानम् आपद्येत । न + एव + आपत्तिर् इत्य् अत एव गम्यते । सूत्रेषु तु सामान्येन प्रतिषेध । इत्य् उक्ता दान-विशुद्धि-दिक् ॥

शील-विशुद्धिर् आर्य-गगन-गञ्ज-सूत्रे एव + अभिहिता । अ-विरहित-बोधि-चित्तता चित्त-विशुद्ध्यै अपगत-श्रावक-प्रत्य्-एक-बुद्ध-चित्तता प्रामाणिक-विशुद्ध्यै इत्य् आदि ॥

पुनर् अ-परा शील-विशुद्धिः । शुद्धं गगनं शुद्धं तच्-छीलं ।वि-मलं गगनं वि-मलं तच्-छीलं । शान्तं गगनं शान्तं तच्-छीलं । अन्-उन्नतं गगनम् अन्-उन्नतं तच्-छीलं । अनुनीतं गगनम् अनुनीतं तच्-छीलम् । यावद् अ-छेद्य-अ-भेद्यं गगनम् अ-छेद्य-अ-भेद्यं तच्-छीलम् इत्य् आदि ॥

अ-प्रतिहतं गगनं सर्व-सत्व-अ-प्रतिघ-चित्तस्य क्षान्ति-परिशुद्धिः । सम-प्रयोगं गगनं सर्व-सत्व-सम-चित्तस्य क्षान्ति-परिशुद्धिर् इत्य् आदि ॥

तद् यथा + अपि स्यान् महा-शाल-वनं । तस्मिन् कश्-चिद् एव + आगत्य शालं छिन्द्यात् । तत्र तेषाम् अवशिष्टानां न + एवं भवति । एष छिन्नो वयम् अ-च्छिन्ना इति । न तेषाम् अनुनयो न प्रतिघः । न कल्पो न विकल्पो न परिकल्पः ॥

या + एवं क्षान्तिर् इयं बोधि-सत्वस्य परमा गगन-समा क्षान्तिर् । इति ॥

आर्य-रत्न-चूड-सूत्रे विस्तरम् उक्त्वा आह । इदम् उच्यते वीर्यं । तस्य काय-परिशुद्धिः । यत् कायस्य प्रतिभास-प्रतिबिम्ब-ज्ञानं वाचो * अन्-अभिलाप्य-ज्ञानं । चित्तस्य + अत्य्-अन्त-उपशम-ज्ञानं । तथा मैत्री-संनाह-संनद्धो महा-करुणा-अधिष्ठान-प्रतिष्ठितः । सर्व-आकार-वर-उपेतं शून्यता-आकार-अभिनिर्हृतं ध्यानं ध्यायति । तत्र कतमा सर्व-आकार-वर-उपेता शून्यता । या न दान-वि-कला । यावन् न + उपाय-वि-कला । न महा-मैत्री-मुदिता-उपेक्षा-वि-कला । न सत्य-ज्ञान-अवतार-वि-कला । न बोध्i-citta-satva-apekषा-वि-कला । न + आशय-अध्याशय-प्रयोग-वि-कला । न दान-प्रिय-वद्यता + अर्थ-क्रिया समान-अर्थता-वि-कला । न स्मृति-संप्रजन्य-वि-कला । न स्मृत्य्-उपस्थान-सम्यक्-प्रहाण-र्द्धि-पाद-इन्द्रिय-बल-बोध्य्-अङ्ग-अष्ट-अङ्ग-मार्ग-वि-कला न शमथ-विपश्यना-वि-कला । पे । उपशान्ता च स्व-भावेन । अन्-उपशान्ता च कर्म-क्लेशेषु । उपेक्षिका च सर्व-धर्माणां । अवेक्षिका च बुद्ध-धर्माणां । जहा च स्व-लक्षणेन । विक्रान्ता च + अधिष्ठान-कार्यतया । अ-व्यापृता च स्व-रसेन । सदा व्यापृता च बुद्ध-कार्येषु । शीती-भूता च + उपशमेन । सदा + उज्ज्वलिता च सत्व-परिपाके । इयम् उच्यते सर्व-आकार-वर-उपेता शून्यता ॥

यावद् इयं कुल-पुत्र ध्यान-पारमिता चर्या-परिशुद्धिर् इति ॥

एतेन प्रज्ञा-परिशुद्धिर् वेदितव्या । एवं सर्व-पुण्येष्व् इति ॥

तथा + आर्य-विमलकीर्ति-निर्देशे * अप्य् उक्तं ।सd-dharma-cakra-pravartaन-महा-परिनिर्वाण-संदर्शन-गो-चरश् च बोध्i-satva-caryआ + अ-त्यजन-गो-चरश् च + अयम् अपि बोधि-सत्वस्य गो-चर । इति ॥

भोग-पुण्य-शुद्धिः पञ्चदशः परिच्छेदः ॥

[xvi. भद्रचर्याविधिः]

भद्र-चर्या-विधिः षोडशः परिच्छेदः ॥

इदानीं त्रयाणाम् अपि वृद्धिर् वाच्या ॥

किम् अर्थं । ग्रहीतारः सु-बहवः स्व्-अल्पं च + इदम् अनेन किं । न च + अति-तृप्ति-जनकं वर्धनीयम् इदं ततः ॥

अति-तृप्ति बुद्धत्वं । तन् न श्रावक-साधारणेन शुद्धि-मात्रेण सत्वानां जन्यतए इत्य् अर्थः । आत्म-भावस्य का वृद्धिर् बल-अन्-आलस्य वर्धनं ॥

तत्र + आर्य-रत्न-मेघे बलम् उक्तं ।न स सत्वः सत्व-निकाये संविद्यते यो बोधि-सत्वस्य बलेन बलं मर्दयेद् इत्य् आदि ॥

तस्य कथं वर्धनम् । यद् उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे आर्य-वज्रपाणेर् बल-दर्शन-विस्मित-अजातशत्रु-पृष्टेन भगवता । दशभिर् महा-राज धर्मैः समन्वागतो बोधि-सत्व एवं-रूपां बलवत्तां प्रतिलभते ।कतमैर् दशभिः । इह महा-राज बोधि-सत्वः कायं जीवितं च परित्यजति । न च पुनः सद्-धर्मं परित्यजति । सर्व-सत्वानां च + अवनमति न च पुनर् मानं बृंहयति । दुर्-बलानां च सत्वानां क्षमते । न प्रतिघं करोति । जिघत्सितानां च सत्वानाम् अग्रं वर-भोजनं ददाति । भीतानां च सत्वानाम् अ-भयं ददाति । ग्लानानां च सत्वानां भूत-चिकित्सायै उत्सुको भवति । दरिद्रांश् च सत्वान् भोगैः संतर्पयति । तथा-गत-चैत्ये च सु-धा-पिण्ड-लेपनं करोति । आनन्द-वचनं सत्वानां श्रावयति । दरिद्र-दुष्खितानां च सत्वानां भोग-संविभागं करोति । श्रान्त-क्लान्तानां च सत्वानां भारं वहति । एभिर् महा-राज दशभिर् इति ॥

अन्-आलस्य-वर्धनं कतमत् । यद् वीर्य-वर्धनं । यथा + उक्तं सागरमति-सूत्रे । आरब्ध-वीर्येण सागरमते बोधि-सत्वेन भवितव्यं सदा दृढ-पराक्रमेण । तीव्र-च्छन्देन बोधि-सत्वेन भवितव्यम् अ-निक्षिप्त-धुरेण । आरब्ध-वीर्याणां हि सागरमते बोधि-सत्वानां न दुर्-लभा भवत्य् अन्-उत्तरा सम्यक्-संबोधिः । तत् कस्य हेतोः । यत्र सागरमते वीर्यं तत्र बोधिः । कुसीदानां पुनः सु-दूर-विदूरे बोधिः । न + अस्ति कुसीदस्य दानं यावन् न + अस्ति प्रज्ञा न + अस्ति कुसीदस्य पर-अर्थ इति ॥

चन्द्र-प्रदीप-सूत्रे * अप्य् आह । उत्पलं वारि-मध्ये वा सो * अनुपूर्वेण वर्धतए ।इत्य् आदि ॥

इयं संक्षेपाद् आत्म-भाव-वृद्धिः ॥

शून्यता करुणा-गर्भाद् दानाद् भोगस्य वर्धनं ॥

यथा + उक्तं वज्र-च्छेदिकायां । यो बोधि-सत्वो * अ-प्रतिष्ठितो दानं ददाति । तस्य पुण्य-स्कन्धस्य न सु-करं प्रमाणम् उद्ग्रहीतुम् इति ॥

महत्याम् अपि प्रज्ञा-पारमितायाम् उक्तं । पुनर् अ-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन + अल्पम् अपि दानं ददता सर्व-सत्वेषु सर्व-आकार-ज्ञतायाम् उपाय-कौशल्य-परिणामनतायाम् अ-प्रमेयम् अ-संख्येयं कर्तु-कामेन प्रज्ञा-पारमितायां शिक्षितव्यम् । तथा सर्व-सत्वानां मनो-रथान् परिपूरयितु-कामेन । यावज् जात-रूप-रजत-उद्यान-राज्य-आदिभिर् उपकरणैः प्रज्ञा-पारमितायां शिक्षितव्यम् इति ॥

विना च करुणया न बोधि-सत्वानां किं-चिच् चेष्टितम् इति वक्ष्यामः । इति संक्षेपाद् भोग-वृद्धिः ॥

पुण्य-वृद्धिः सर्व-वृद्धीनां मूलम् इति तद्-अर्थं परिकर-बन्ध उच्यते ॥

कृत्वा + आदाव् एव यत्नेन व्यवसाय-आशायौ दृढौ । करुणां च पुरस्-कृत्य यतेत शुभ-वृद्धये ॥

चित्त-शुद्धि-काल-भावितानां व्यवसाय-आदीनां प्रयोग-आरम्भे पुनर् आमुखी-करणेन दृढता + अ-पादन-अर्थः श्लोकः । कृत्वा + इत्य् आदि-पूर्वक एव ॥

आसन्न-युद्ध-कालानां अस्त्र-कौशल्य-आदर-वत् प्रयोग-सम-कालं दृढी-करिष्यामि + इति शैथिल्य-निवारण-अर्थम् आदि-ग्रहणम् । तत्र कथं व्यवसायं दृढी-करोति ॥

yathā + ārya-sudhana ārya-maitreyam upasaṃprakrāntaḥ samyak-caryā-niḥ-samarthaḥ | pūrva-anta-koṭī-gata-kāya-praṇāmaḥ kāya-samanvāhāreṇa kāya-balaṃ dṛḍhī-kurvāṇaḥ | pūrva-anta-koṭī-gata-kāya citta-pariśuddhi-niṣ-kāraṇa-sāṃsārika-citta-pracāra-samanvāhāreṇa citta-manasi-kāraṃ nigṛhṇan | pūrva-anta-koṭy--a-sat-karma-laukika-kārya-prayukta-niṣ-prayojana-parisyanda-samanvāhāreṇa praty-utpanna-prayojana-mahā-sāmarthyaṃ vicintayan | pūrva-anta-a-bhūta-parikalpa-samutthita-vitatha-saṃkalpa-saṃdarśita-manasi-kāra-samanvāhāreṇa sarva-bodhi-satva-caryā-samyak-saṃkalpa-abhisaṃskāra-balaṃ samutthāpayan | atīta-ātma-bhāva-artha-prayoga-ārambha-viṣamatā-samanvāhāreṇa sarva-satva-ārambha-vaiśeṣikatayā + adhyāśaya-balaṃ dṛḍhī-kurvāṇaḥ | atīta-kāya-samudācāra-nir-āsvādatā-samanvāhāreṇa | sarva-buddha-dharma-pratilābha-prayoga-mahā-āśvāsa-pratilābha-indriya-vegān vivardhayamāno * atīta-adhva-viparyāsa-prayukta-mithyā-āśaya-prayoga-samanvāhṝeṇa | praty-utpanna-adhva-samyag-darśana-a-viparyāsa-saṃprayuktena bodhi-satva-praṇidhāna-samādānena saṃtatiṃ pariśodhayan | pūrva-anta-gata-āyoga-vīrya-ārambha-kārya-a-pariniṣpanna-ārya-samādāna-samanvāhāreṇa [doubtful] | praty-utpanna-buddha-dharma-samudāgama-pratyupasthānena mahā-vīrya-ārambha-vikrameṇa kāya-citta-saṃpragrahaṃ saṃjanayamānaḥ | pūrva-anta-koṭī-pañca-gaty-apāya-nikṣipta-ātma-para-nir-upakaraṇa-ākhya-nir-upajīvya-samucchraya-parigraha-samanvāhāreṇa |

सर्व-बुद्ध-धर्म-उत्थापक-सर्व-जगद्-उपजीव्य-सर्व-कल्याण-मित्र-आरागण-समर्थ्य-आत्म-भाव-परिग्रहणतया विपुल-प्रीति-प्रामोद्य-वेगान् विवर्धयमानः प्रत्य्-उत्पन्न-जन्म-अभिनिर्वृत्तं जरा-व्याधि-मरण-शोक-आकर-भूतं संयोग-वियोग-निधान-भूतं समुच्छ्रयं । अपर-अन्त-कल्प-कोटी-गत-बोध्i-satva-caryआ-आचरण-प्रयुक्तस्य सत्व-परिपाचन-बुद्ध-धर्म-परिग्रह-प्रयुक्तस्य तथा-गत-संदर्शन-सर्व-बुद्ध-क्षेत्र-अनुचरण-सर्व-धर्म-भाणक-उपस्थान-सर्व-तथा-गत-शासन-समन्वाहरण-प्रयुक्तस्य सर्व-धर्म-पर्येष्टि-सहाय-भूतस्य सर्व-कल्याण-मित्र-दर्शन-सर्व-बुद्ध-धर्म-समुदानयन-प्रयुक्तस्य बोध्i-satva-praणिधि-ज्ञान-शरीरस्य हेतु-प्रत्यय-भूतम् अवलोक्य-अ-चिन्त्य-कुशल-मूल-इन्द्रिय-वेगान् विव र्धयमान इति । आर्य-अक्षयमति-निर्देशे महा-यान-सूत्रे * अप्य् उक्तं । एको बोधि-सत्वो * अ-द्वितीयो * अ-सहायो * अन्-उत्तरायां सम्यक्-संबोधौ संनाहं संनह्यति । स वीर्य-बल-परिगृहीतेन + अध्याशयेन + अ-पर-अवकाश-अ-स्वयं-कारी । स्व-बल-बल-उद्गतः । स एवं दृढ-संनाहः संनद्धो । यत् किञ्-चित् सर्व-सत्वानां परिप्रापयितव्यं भविष्यति तद् अहं परिप्रापयिष्यामि । यत् सर्व-आर्याः सर्व-नव-यान-संप्रस्थिता बोधि-सत्वा न परिप्रापयिष्यन्ति तद् अहं परिप्रापयिष्यामि । न मम दानं सहायकं ।अहं पुनर् दानस्य सहायः । न मम शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञाः सहायिकाः । अहं पुनः शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञानां सहायो । न + अहं पारमिताभिर् उपस्थातव्यो मया पुनः पारमिता उपस्थातव्याः । एवं संग्रह-वस्तुषु

सर्व-कुशल-मूलेषु चलेयम् । यावद् एकाकिना मया + अ-द्वितीयेन + अ-सहायेन वज्र-मये मही-मण्डले स्थितेन स-बलं स-वाहनं मारं धर्षयित्वा एक-चित्त-क्षण-सम-आयुक्तया प्रज्ञया + अन्-उत्तरा सम्यक्-संबोधिर् अभिसंबोद्धव्या + इति ॥

आर्य-वज्र-ध्वज-सूत्रे * अप्य् आह । तद् यथा + अपि नाम सूर्यो देव-पुत्र उदयमानो न तिष्ठति । जात्य्-अन्ध-दोषेण । न तिष्ठति गन्धर्व-नगर-दोषेण । न तिष्ठति चतुर्-द्वीप-लोक-धातु-भूmi-rajo-doषेण । न तिष्ठति राह्v-asura-indra-doषेण । न तिष्ठति धूम-मण्डल-दोषेण । न तिष्ठति जम्बू-द्वीप-क्लेश-दोषेण । न तिष्ठति नाना-छाया-दोषेण । न तिष्ठति वि-षम-पर्वत-दोषेण । एवम् एव बोधि-सत्वो महा-सत्वः स्मृति-संप्रजन्य-विपुल-गम्भीर-चेता अ-दीन-सत्वो गुण-चर्या-ज्ञान-चर्या-अवसानं यावन् न विवर्तते सत्व-द्रौहिल्य-दोषैः । न विप्रवसति कुशल-मूल-परिणामैः । सत्व-दृष्टि-कालुष्य-दोषैर् न विवर्तते । सत्व-क्षोभ-चेतोभिर् न दूरी-भवति । सत्व-विनष्ट-संतत्या बोधि-संनाहं न विष्कम्भयति । सर्व-जगत्-परित्राण-प्रणिधानस्य सत्व-कलि-कलुषैर् न स्रंसनां करोति यावद् बाल-जन-समवधानेन । न निर्विद्यते पर-सत्व-दोषैश् च । तत् कस्य हेतोः । अन्-आवरण-मण्डलम् एतद् उदयति । यद् उत सर्व-जगद्-विशुद्धि-विनयाय । पे ॥

यश् च तेषां सर्व-सत्वानां दुष्ख-स्कन्धो विविधं च + आवरणीयं कर्म समुत्थितं येन ते आवरणीयेन कर्मणा बुद्धान् न पश्यन्ति । धर्मं न शृण्वन्ति । संघं न जानन्ति । तद् अहं तेषां त्रि-विधम् आवरणीयं कर्म + उपचितं दुष्ख-स्कन्धेन स्वकेन शरीरेण + उपाददामि तासु तासु नरक-उपपत्तिष्व् अपाय-भूमिषु संवासेषु च । ते च सर्व-सत्वास् ततश् च्यवन्तां । अहं च दुष्ख-उपादानम् उपाददामि व्यवस्याम्य् उत्सहे । न निवर्ते न पलायामि न + उत्त्रस्यामि न संत्रस्यामि न बिभेमि न प्रत्युदावर्ते न विषीदामि । तत् कस्य हेतोः । अ-वश्यं निर्वाहयितव्यो मया सर्व-सत्वानां भारो । न + एष मम काम-कारः । सर्व-सत्व-उत्तारण-प्रणिधानं मम । मया सर्व-सत्वाः परिमोचयितव्या । मया सर्व-जगत् समुत्तारयितव्यं । जाति-कान्ताराज् जरा-कान्ताराद् व्याधि-कान्ताराच् च्युत्य्-उपपति-कान्तारात् सर्व-आपत्ति-कान्तारात् सर्व-अपाय-कान्तारात् सर्व-संसार-कान्तारात् सर्व-दृष्ट्i-gahana-kआन्तारात् कुशल-धर्म-प्रणाश-कान्ताराद् अ-ज्ञान-समुत्थित-कान्तारात् तद् एते मया सर्व-सत्वाः सर्व-कान्तारेभ्यः परिमोचयितव्याः । तृष्णा-जाल-सक्ता अ-विद्या-निवरण-आवृता भव-तृष्णा-संप्रयुक्ताः प्रणाश-पर्यवसाना दुष्ख-पञ्जर-प्रक्षिप्ताश् चारक-संनिश्रिता । अ-बुधाः प्रतिज्ञा-विरुद्धाः संशय-भूताः सदा वि-मतयो * अ-क्षेम-दर्शिनः । अ-निः-शरण-कुशला भव-अर्णवे आवर्त-मण्डल-एक-चरणाः । पे ॥

सर्व-सत्वानाम् अन्-उत्तर-ज्ञान-राज्य-प्रतिष्ठापन-अर्थम् अहं चरामि । न + अहं केवलम् आत्म-परिमोचन-अभियुक्तः । सर्व-सत्वा ह्य् एते मया सर्व-ज्ञता-चित्त-प्लवेन संसार-दुर्-गाद् * धर्तव्या । महा-प्रपाताद् अभ्युत्क्षेप्तव्याः । सर्व-उपद्रवेभ्यः परिमोचयितव्याः । संसार-स्रोतसः प्रतारयितव्या आत्मना मया सर्व-सत्व-दुष्ख-स्कन्धो * अध्यवसितः । यावद् उत्सहे * अहं सर्व-अपायेषु सर्व-लोक-धातु-पर्यापन्नेषु सर्व-दुष्ख-वासम् अनुभवितुम् । न च मया सर्व-सत्वाः कुशल-मूलैर् वञ्चितव्याः । व्यवस्याम्य् अहम् एक-एकस्मिन्न् अपाये * अपर-अन्त-कोटी-गतान् कल्पान् संवसयितुं । यथा च एक-अपाये तथा सर्व-अपाय-निर्-अवशेष-सर्व-लोक-धातु-पर्यापन्नेषु सर्व-सत्व-परिमोचन-निदानं ।तत् कस्य हेतोः । वरं खलु पुनर् अहम् एको दुष्खितः स्यां न च + इमे सर्व-सत्वाः अपाय-भूमि-प्रपतिताः । मया तत्र + आत्मा बन्धको दातव्यः । सर्व-जगच् च निः-क्रेतव्यं नरक-तिर्यग्-योन्i-yama-loka-kआन्ताराद् अहं च सर्व-सत्वानाम् अर्थाय सर्व-दुष्ख-वेदना-स्कन्धम् अनेन स्वकेन शरीरेण + अनुभवेयम् । सर्व-सत्व-निदानम् अहं च सर्व-सत्वानां प्रातिभाव्यम् उत्सहे सत्य-वादी प्रत्ययितो * अ-विसंवादकः । न च मया सर्व-सत्वाः परित्यक्ताः । तत् कस्य हेतोः । सर्व-सत्व-आरम्बणो मम सर्व-ज्ञता-चित्त-उत्पाद उत्पन्नो यद् उत सर्व-जगत्-परिमोचनाय । न च + अहं रति-कामतया + अन्-उत्तरायां सम्यक्-संबोधौ संप्रस्थितो न + अपि पञ्च-काम-गुण-रत्य्-अनुभवनाय न + अपि काम-विषय-निषेवणाय । न च + अहम् अन्यो-न्य-काम-धातु-पर्यापन्न-रति-व्यूह-समुदानयनाय चरामि

बोध्i-satva-caryआं । तत् कस्य हेतोः । अ-रतयो ह्य् एषा सर्व-लोक-रतयः ।मार-विषय एष यद् उत काम-विषय-निषेवणं । दुर्-बुद्धि-सेवितो ह्य् एष मार्गः ।सर्व-बुद्धि-विवर्णितो ह्य् अयम् उपदेशः यद् उत काम-निषेवणं ।अतश् च + एष सर्व-दुष्ख-स्कन्धस्य + उत्पाद एव निषेवणं अत एव च नरक-तिर्यग्-योन्i-yama-lokआनाम् उत्पादः । कलह-भण्डन-विवाद-क्षोभाश् च सत्वानाम् अत एव प्रादुर्-भवन्ति । एते च सत्वाः कामान् निषेवमाणाः बुद्धानां भगवतां सकाशाद् दूरी-भवन्ति । स्वर्ग-उपपत्तेर् अप्य् एते कामा अन्तरायाय संवर्तन्ते । किं पुनर् अन्-उत्तरस्य ज्ञान-राजस्य सर्व-सत्व-योग-क्षेमस्य । सो * अहम् एवम् अ-प्रमाण-दोषान् कामानां पश्यन् परीत्तान् आदीप्तांस् तस्माद् अहम् एतन् निदानम् अ-चरणतायां प्रतिपत्स्ये ॥ पे ॥

तथा तथा + एव मया कुशल-मूलं परिणामयितव्यं यथा यथा + एव सर्व-सत्वा अत्य्-अन्त-सुखम् अ-वेदित-सुखं यावत् सर्व-ज्ञता-सुखं प्रतिलभेरन् । मया सारथिना मया परिणायकेन मया + उल्का-धारिणा मया क्षेम-गति-दर्शकेन मया क्षण-गति-प्रतिलब्धेन मया + उपाय-ज्ञेन मया + अर्थ-विदुषा मया संसार-सागरे सर्व-ज्ञ-ज्ञान-यान-पात्र-महा-देश-स्थितेन मया परिणामन-कुशलेन मया पार-दर्शकेन ॥ पे ॥

न खलु पुनर् अस्मिंश् चातुर्महा-द्वीपके लोक-धातौ यावन्तः सत्वास् तावन्त एव सूर्या उदागच्छन्ति चातुर्द्वीपक-लोक-धात्व्-अवभासनाय । अथ च पुनर् एक एव + एषां सूर्य उदागच्छति चतुर्-द्वीप-अवभासनाय । न च तेषां सत्वानां चतुर्-द्वीप-उपपन्नानां स्वक-स्वकैः शरीरैर् अवभासः प्रादुर्-भवति । येन ते दिवस-संख्यां जानीयुः । स्व-कार्यं वा परिप्रापयेयुः । सस्यानि वा परिपाचयेयुः । अहर् अहर् वा उद्यान-नगरेषु रति-क्रीडा-परिभोगम् अनुभवेयुः । दिशो वा पश्येयुः । गमन-आगमनं वा ग्राम-नगर-निगम-राष्ट्र-राज-धानीषु कुर्युः । व्यवहार-कार्येषु प्रयुज्येरन् ।पे । अथ च पुनः सूर्यस्य देव-पुत्रस्य + उदयत एकस्य सूर्य-मण्डलस्य + अ-द्वितीयस्य चातुर्द्वीपके लोक-धातौ सर्व-सत्वानाम् अवभासः प्रादुर्-भवति । एवम् एव बोधि-सत्वस्य महा-सत्वस्य कुशल-मूलान्य् उपार्पयमानस्य कुशल-मूलं परिणामयमानस्य + एवं चित्तम् उत्पद्यते । न + एतेषां सत्वानां तत् कुशल-मूलं विद्यते येन ते आत्मानं परित्रायेरन् । कः पुनर् वादः परम् । अहं पुनः सर्व-सत्वानां कृतशः कुशल-मूलानि समुदानयामि कुशल-मूलं परिणामयामि । यद् उत सर्व-सत्व-मोचनाय । सर्व-सत्वानाम् अवभासनाय सर्व-सत्वानां ज्ञापनाय सरव्-सत्वानाम् अवतारणाय सर्व-सत्वानां परिग्रहणाय सर्व-सत्वानां परिनिष्पादनाय सर्व-सत्वानां प्रसादनाय सर्व-सत्वानां प्रह्लादनाय सर्व-सत्वानां संशय-च्छेदनाय आदित्य-मण्डल-कल्पैर् अस्माभिर् भवितव्यं । न परः प्रतिकाङ्क्षितव्यः । न परस्य + अवकाशम् उत्पाद्य सत्वेषु संनाह उत्स्रष्टव्यः । न च सर्व-सत्वानाम् अन्तिकात् सर्व-सत्व-त्राण-व्यवशायो निवर्तयितव्यः । न परिणामनायाः सर्व-दुष्ख-हत्या विनिवर्तितव्यं । न परीत्तानि कुशल-मूलानि परिग्रहीतव्यानि । न परीत्तया परिणामनया तुष्टिर् मन्तव्या इत्य् आदि ॥

आर्य-अक्षयमति-सूत्रे * अप्य् आह । स न कल्प-गणनया बोधिं पर्येषते । इयतः कल्पान् संनत्स्यामि । इयतः कल्पान् संनत्स्यामि + इति । अपि तु खल्व् अ-चिन्त्यम् एव संनाहं संनह्यति । यावती पूर्वा-कोटिः संसारस्य यद्य् एतावद् एकं रात्रिं-दिवं भवेत् । एवं-रूपै रात्रिं-दिवैः पञ्चदश-दैवसिकेन पक्षेण त्रिंशद्-दैवसिकेन मासेन द्वादश-मासिकेन संवत्सरेण अनया वर्ष-गणनया यावद् वर्ष-शत-सहस्रेण + एकं बोधि-चित्तम् उत्पादयेयम् एकं च तथा-गतम् अर्हन्तं सम्यक्-संबुद्धं पश्येयं । अनेन प्रवेशेन + अनया गणनया गङ्गा-नदी-वालुका-समैश् चित्त-उत्पादैस् तथा-गत-दर्शनैश् च एक-एकस्य + अपि सत्वस्य चित्त-चरितं जानीयां । अनेन + एव प्रवेशेन + अनया गणनया सर्व-सत्वानां तावद्भिश् चित्त-उत्पादैस् तथा-गत-दर्शनैः स्व-चित्त-चरितानि प्रजनीयाम् इत्य् अन्-अवलीनः । संनाहो * अयं बोधि-सत्वस्य + अ-क्षयः संनाहः ।एवं दान-आदिषु बोधि-पाक्षिक-महा-पुरुष-लक्षणेषु च नयः ॥

आर्य-रत्न-मेघे * अप्य् उक्तं ॥

न बोधि-सत्वः सत्व-खटुङ्कतां सत्व-दुर्-दान्ततां ज्ञात्वा । अलम् एभिः सत्वैर् एवं खटुङ्कैर् एवं दुर्-दान्तैर् इति । ततो निदानं परिखिन्नः परा-पृष्ठी-भूतः । परिशुद्धायां लोक-धातौ प्रणिधानं करोति । यत्र + ईदृशानां सत्वानां नाम + अपि न शृणुयात् । न च सत्व-अर्थ-वैमुख्यस्य बोध्i-satva-pariशुद्धायां लोक-धाताव् उपपत्तिर् भवति । तत्र प्राज्ञो बोधि-सत्व एवं चित्तम् उत्पादयति । तस्मात् सत्व-धातोर् ये सत्वाः स्युः प्रत्यवरा धजड-एड-मूक-जातीयाः । अ-परिनिर्वाण-धर्मकाः कृत्स्ना सत्व-धातौ न चिकित्सिताः सर्व-बुद्धैः सर्व-बोधि-सत्वैश् च प्रत्याख्याताः । तेषां मदीये बुद्ध-क्षेत्रे संनिपातः स्यात् । तान् अहं सर्वान् बोधि-मण्डे निषीद्य + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोधयेयं ॥

एवं हि बोधि-सत्वस्य चिन्तयतश् चित्त-उत्पादे चित्त-उत्पादे सर्व-मार-भवनानि प्रकम्पन्ते । सर्व-बुद्धाश् च + अस्य वर्ण-वादिनो भवन्ति + इति ॥

एवं तावत् पुण्य-वृद्धि-कामेन आशयो दृढी-कर्तव्यः । आशय-दृढी-करण-अर्थम् अधुना + उच्यते । किं पुनर् अनेन दृढी-कृतेन + इति । विमर्ष-निरासाय धर्म-संगीति-सूत्रे गदितं ।आशये सम्यग् भगवन् बुद्ध-धर्माणां मूलं । यस्य पुनर् आशयो न + अस्ति सर्वे बुद्ध-धर्मास् तस्य दूरे ॥

आशय-संपन्नस्य पुनर् भगवन् यदि बुद्धा न भवन्ति गगन-तलाद् धर्म-शब्दो निश्चरति कुड्म-वृक्षेभ्यश् च । आशय-शुद्धस्य बोधि-सत्वस्य स्व-मनो-जल्पाद् एव सर्व-अववाद-अनुशासन्यो निश्चरन्ति । तस्मात् तर्हि भगवन् बोधि-सत्वेन + आशय-संपन्नेन भवितव्यं ॥

तद् यथा भगवन् यस्य पादौ तस्य गमनं एवं भगवन् यस्य + आशयस् तस्य बुद्ध-धर्माः ।तद् यथा भगवन् यस्य + उत्तम-अङ्गं तस्य जीवितं एवम् एव भगवन् यस्य + आशयस् तस्य बुद्ध-बोधिः । तद् यथा भगवन् यस्य जीवितं तस्य लाभः । एवम् एव भगवन् यस्य + आशयस् तस्य बुद्धत्व-लाभः । तद् यथा भगवन् सतीत्वेन + अग्निर् ज्वलति । अ-सतीत्वेन न ज्वलति । एवम् एव भगवन्न् आशये सति बोधि-सत्वस्य सर्व-बुद्ध-धर्मा ज्वलन्ति । अ-सत्य् आशये न ज्वलन्ति । तद् यथा भगवन् सत्स्व् अभ्र-मेघेषु वर्षं वर्षत्य् अ-सत्सु न वर्षति । एवम् एव भगवन्न् आशये सति बुद्ध-धर्माः प्रवर्तन्ते । तद् यथा भगवन् यस्य वृक्षस्य मूलं विपन्नं तस्य पुष्प-फलानि न भूयः प्ररोहन्ति । एवम् एव भगवन् यस्य + आशयो विपन्नस् तस्य सर्वे कुशला धर्मा न भूयः संभवन्ति । तस्मात् तर्हि भगवन् बोधि-सत्वेन बुद्ध-बोध्य्-अर्थिकेन स्व-आशयः सु-उद्गृहीतः स्व्-आरक्षितः सु-शोधितः स्व्-अधिष्ठितः कर्तव्य इति ॥

को * अयम् आशयो नाम । आर्य-अक्षयमति-सूत्रे * अभिहितः । स खलु पुनर् आशयो * अ-कृत्रिमः अ-कृतकत्वात् । अ-कृतको निः-साध्यत्वात् । निः-साध्यः सु-विदितत्वात् । सु-विदितो निर्-मायत्वात् । निर्-मायः शुद्धत्वात् । शुद्धः ऋजुकत्वात् । ऋजुकः अ-कुटिलत्वात् । अ-कुटिलः स्पष्टत्वात् । स्पष्टो * अ-वि-षमत्वात् । अ-वि-षमः सारत्वात् । सारो * अ-भेद्यत्वात् । अ-भेद्यो दृढत्वात् । दृढो * अ-चलितत्वात् । अ-चलित अ-निश्रितत्वाद् इत्य् आदि । अयम् एव च + अधिक-अधिक-गुण-अधिगम-प्रवृत्तो * अध्याशय इत्य् उच्यते ॥

यथा + अत्र + एव + उक्तं । उत्तरण-अध्याशयो विशेष-गमनतया इत्य् आदि ॥

api ca + adhyāśaya ucyate | saumyatā bhūteṣu | maitratā satveṣu | hita-cittatā āryeṣu | kāruṇyam an-āryeṣu | gauravaṃ guruṣu | trāṇatā a-trāṇeṣu | śaraṇatā a-śaraṇeṣu | dvīpatā + a-dvīpeṣu | parāyaṇatā a-parāyaṇeṣu | sahāyatā a-sahāyeṣu | ṛjutā kuṭileṣu | spaṣṭatā khaṭuṅkeṣu | a-śaṭhatā śaṭheṣu | a-māyā āgahana-cariteṣu | kṛta-jñatā a-kṛta-jñeṣu | kṛta-veditā drohiṣu | upakāritā an-upakāriṣu | satyatā a-bhūta-gateṣu | nir-mānatā śrabdheṣu | a-ninditā su a-nindanā kṛteṣu [doubtful] | an-ārocanatā para-skhaliteṣu | ārakṣaṇatā vipratipanneṣu | a-doṣa-darśanatā sarva-upāya-kauśalya-caryāsu | śuśrūṣaṇatā sarva-dakṣiṇīyeṣu | pradakṣiṇa-grāhitā + anuśāsanīṣv ity ādi ||

तद् एवं व्यवसाय-आशयौ दृढी-कृत्य कारुण्यं पुरस्-कृत्य यते शुभ-वृद्धये ॥

यथा + उक्तम् आर्य-धर्म-संगीति-सूत्रे । अथ खल्व् अवलोकितेश्वरो बोधि-सत्वो महा-सत्वो भगवन्तम् एतद् अवोचत् । न भगवन् बोधि-सत्वेन + अति-बहुषु धर्मेषु शिक्षितव्यं । एको धर्मो भगवन् बोधि-सत्वेन स्व्-आराधितः सु-प्रतिविद्धः कर्तव्यः । तस्य सर्व-बुद्ध-धर्माः कर-तल-गता भवन्ति । कतम एक-धर्मो । यद् उत महा-करुणा । महा-करुणया भगवन् बोधि-सत्वानां सर्व-बुद्ध-धर्माः कर-तल-गता भवन्ति । तद् यथा भगवन् येन राज्ञश् चक्र-वर्तिनश् चक्र-रत्नं गच्छति । तेन सर्वो बल-कायो गच्छति । एवम् एव भगवन् येन बोधि-सत्वस्य महा-करुणा गच्छति । तेन सर्वे बुद्ध-धर्मा गच्छन्ति । तद् यथा भगवन्न् आदित्ये उदिते सत्वाः कर्म-क्रियासु प्रचुरा भवन्ति । एवम् एव भगवन् महा-करुणा यत्र + उदिता भवति तत्र + अन्य-बोधि-करा धर्माः क्रियासु प्रचुरा भवन्ति । तद् यथा भगवन् सर्वेषाम् इन्द्रियाणां मनसा + अधिष्ठितानां स्व-स्व-विषये ग्रहण-प्राचुर्यं भवति । एवम् एव भगवन् महा-करुणा-अधिष्ठितानाम् अन्येषां बोधि-कराणां धर्माणां स्वस्मिन् स्वस्मिन् करणीये प्राचुर्यं भवति । तद् यथा भगवन् जीवित-इन्द्रिये सत्य् अन्येषाम् इन्द्रियाणां प्रवृत्तिर् भवति । एवम् एव भगवन् महा-करुणायां सत्याम् अन्येषां बोधि-कराणां धर्माणां प्रवृत्तिर् भवति + इति ॥

आर्य-अक्षयमति-सूत्रे * अप्य् आह ॥

तद् यथा + अपि नाम भदन्त सारद्वतीपुत्र पुरुषस्य जीवित-इन्द्रियस्य + आश्वासाः प्रश्वासाः पूर्वं-गमाः । एवम् एव भदन्त सारद्वतीपुत्र बोधि-सत्वस्य महा-यान-समुदागतस्य महा-करुणा पूर्वं-गमाः ॥ पे ॥

स्याद् यथा + अपि नाम श्रेष्ठिनो वा गृह-पतेर् वा एक-पुत्रके गुणवति मज्जा-गतं प्रेम । एवम् एव महा-करुणा-प्रतिलब्धस्य बोधि-सत्वस्य सर्व-सत्वेषु मज्जा-गतं प्रेम + इति ॥

कथम् एषा भावयितव्या । स्वकम् अन्-एक-विधं पूर्व-अनुभूतम् अनुभूयमानं वा दुष्खं भयं च स्व-आत्मन्य् अत्य्-अन्तम् अन्-इष्टं भावयित्वा । प्रिय-आदिषु मैत्री मैत्रीवता भावयितव्या प्रत्य्-उत्पन्न-दुष्ख-व्याधिषु महा-दुष्ख-सागर-अन्-अवधि-दीर्घ-संसार-व्यसन-अनुनीतेषु वा ॥

यथा + उक्तम् आर्य-दश-भूमक-सूत्रे । तस्य + एवं भवत्य् आश्चर्यं यावद् अ-ज्ञान-संमूढा वत + इमे बाल-पृथग्-जनाः । येषाम् अ-संख्येया आत्म-भावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते च । एवं च क्षीयमाणा काये न निर्-वेदम् उत्पादयन्ति । भूयस्या मात्रया दुष्ख-यन्त्रं विवर्धयन्ति । संसार-श्रोतसश् च महा-भयान् न निवर्तन्ते । स्कन्ध-आलयं च न + उत्सृजन्ति । धातु-उर-गेभ्यश् च न निर्विद्यन्ते । नन्दी-राग-अन्धाश् च न + अवबुध्यन्ते । षड्-आयतन-शून्य-ग्रामं च न व्यवलोकयन्ति । अहं-कार-मम-कार-अभिनिवेश-अनुशयं च न प्रजहन्ति । मान-दृष्टि-शल्यं च न + उद्धरन्ति । राग-द्वेष-मोह-जालं च न प्रशमयन्ति । अ-विद्या-मोह-अन्ध-कारं च न विधमयन्ति । तृष्णा-अर्णवं च न + उच्छोषयन्ति । दश-बल-स-अर्थ-वाहं च न पर्येषन्ते । मार-आशय-गहन-अनुगताश् च संसार-सागरे विविध-अ-कुशल-वितर्क-ग्राह-आकुले परिप्लवन्ते । अ-प्रति-शरणाः तथा संवेगम् आपद्यन्ते बहूनि दुष्खानि प्रत्यनुभवन्तः । यद् इदं जाति-जरा-व्याधि-मरण-शोक-परिदेव-दुष्ख-दौर्मनस्य-उपायासान् । हन्त + अहम् एषां सत्वानां दुष्ख-आर्तानाम् अ-नाथानाम् अ-त्राणानाम् अ-शरणानाम् अ-लयनानाम् अ-अ-परायणानाम् अन्धानाम् अ-विद्या-अण्ड-कोष-पटल-पर्यवनद्धानां तमो-अभिभूतानाम् अर्थाय + एको * अ-द्वितीयो भूत्वा तथा-रूप-पुण्य-ज्ञान-संभार-उपचयं बिभर्मि । यथा-रूपेण पुण्य-ज्ञान-संभार-उपचयेन संभृतेन इमे सर्व-सत्वा अभ्यन्त-विशुद्धिम् अनुप्राप्नुयुर् इति ॥

तथा + अत्र + एव + आह । संसार-अटवी-कान्तार-मार्ग-प्रपन्ना वत + इमे सत्वा निरय-तिर्यग्-योन्i-yama-loka-prapआत-अभिमुखाः कु-दृष्टि-वि-षम-जाल-अनुप्राप्ताः मोह-गहन-संछन्ना मिथ्या-मार्ग-वितथ-प्रयाता । अन्धी-भूताः परिणायक-वि-कलाः ॥ पे ॥

saṃsāra-śrota-anuvāhinaḥ tṛṣṇā-nadī-prapannāḥ | mahā-vega-grastā | avalokanā-a-samarthāḥ [doubtful] kāma-vyāpāda-vicikitsā-vihiṃsā-vitarka-prapāta-anucaritāḥ | sva-kāya-dṛṣṭy-udaka-rākṣasa-gṛhītāḥ | kāma-gahana-āvartta-anupraviṣṭāḥ nandī-rāga-madhya-saṃsaktāḥ | asmi-māna-sthala-ucchannāḥ | a-parāyaṇāḥ | āyatana-grāma-an-ucchalitāḥ | kuśala-saṃbhāraka-virahitāḥ | te * asmābhir mahā-kuśala-mūla-balena + uddhṛtya nir-upadrave a-rajasi śiva-sarva-jñatā-ratna-dvīpe pratiṣṭhāpayitavyā | ruddhā vata + ime satvā bahu-duṣkha-daurmanasya-upāyāsa-bahula-anunaya-pratigha-priya-a-priya-vinibandhane sa-śoka-parideva-anucarite tṛṣṇā-nigaḍa-bandhane māyā-śāṭhya-a-vidyā-gahana-saṃchanne traidhātuka-cārake | te asmābhiḥ sarva-traidhātuka-viveke a-bhaya-pure sarva-duṣkha-upaśame [doubtful] an-āvaraṇa-nirvāṇe pratiṣṭhāpayitavyā ity ādi ||

एवम् एभिः परस्-पर-दृढी-कृत्यैर् व्यवसाय-आशय-कारुण्यैः पुण्य-वृद्धिम् आरभेत् । तत्र तावद् भद्र-आचार्या-विधिः कार्या वन्दना-आदिः सद्-आदरात् ॥

आर्य-उग्रदत्त-परिपृच्छायां हि त्रि-रात्रे त्रिर् दिवसस्य च शुचेः शुci-vastra-prआवृतस्य च त्रि-स्कन्धक-प्रवर्तनम् उक्तं ॥

तत्र त्रयः स्कन्धाः पाप-देशना-पुण्य-अनुमोदना-बुद्ध-अध्येषण-आख्याः पुण्य-राशित्वात् । तत्र वन्दना पाप-देशनायाम् अन्तर्-भवति । बुद्धान् नमस्-कृत्य + उपालि-परिपृच्छायां देशना + इति कृत्वा । याचनम् अध्येषणायां एक-अर्थत्वात् । पूजा तु विभव-अ-भावाद् अ-नित्या + इति न + उक्ता । मानसी वाचसी च सूत्र-अन्तर-प्रसिद्धत्वान् न + उक्ताः । त्रयाणां तु वचनात् प्राधान्यं गम्यते । तत्र वन्दना । सर्व-बुद्धान् नमस्यामि + इति ॥

आर्य-अक्षयमति-सूत्रे त्व् आत्म-पर-पाप-देशना पुण्य-संभारे पठ्यते ॥

गाथा-चतुष्टयेन च यथा-गीतैश् च स्तोत्रैः । आर्य-भद्र-चर्या-आदि-गाथाभिर् वा पूजना च ॥

आर्य-रत्न-मेघे यथा + उक्तं । इह बोधि-सत्वो यानि + इमानि भवन्ति पुष्प-जातानि वा फल-जातानि वा अ-ममान्य् अ-परिग्रहाणि । तानि त्रिष्-कृत्वा रात्रौ त्रिष्-कृत्वा दिवसे बुद्ध-बोधिसत्वेभ्यो निर्यातयति ॥ पे ॥

sayathi + ime [doubtful] dhūpa-vṛkṣā vā gandha-vṛkṣā vā ratna-vṛkṣā vā kalpa-vṛkṣā vā a-mamā a-parigrahās tān api triṣ-kṛtvā rātrau triṣ-kṛtvā divase buddha-bodhisatvebhyo niryātayati + iti ||

आर्य-त्र्i-samaya-rआजे * अपि स्थल-जा रत्न-पर्वताः । जल-जा रत्न-पर्वता स्थल-जल-जानि रत्नानि दश-दिग्-अवस्थितानि । अ-ममान्य् अ-परिग्रहाणि देयानि + इत्य् उक्तं ॥

अनया च दिशा सर्व-भैषज्यानि सर्व-रसायनानि सर्व-सलिलानि अन्-अवद्यानि अप्-मण्डलानि । सर्व-काञ्चन-मण्डलानि । विवृत्तेषु वा लोक-धातुषु ये परम-रस-स्पर्श-संपन्ना भू-पर्पटकाः । अ-मृत-लता । अ-कृष्ट-उप्ता वा शालयः । सर्व-उत्तर-कुरु-द्वीपेषु । परिशुद्धेषु च लोक-धातुषु ये रमणीयतराः परिभोगाः ॥

यथा च + आर्य-रत्न-मेघे एव + आह । स यानि + इमानि सूत्र-अन्तेषु + उदार-उदाराणि तथा-गत-पूजा-उपस्थानानि शृणोति । तान्य् आशयतस् तीव्रेण + अध्याशयेन बुद्ध-बोधिसत्वेभ्यः परिणामयति + इति । तथा । स विविधानि पूजा-उपस्थानानि अनुविचिन्तयति + इति ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.