Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

शिक्षासमुच्चय

Tác giả
शान्तिदेव
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

श्रुत-अनुशंसास् तु नारायण-परिपृच्छायाम् उक्ताः । तथा हि कुल-पुत्राः श्रुतवतः प्रज्ञा-आगमो भवति । प्रज्ञावतः क्लेश-प्रशमो भवति । निः-क्लेशस्य मारो * अवतारं न लभते ॥

अत्र च मह-र्षेर् उत्तरस्य जातकं विस्तरेण कृत्वा + आह । धर्म-कामानां हि । vi-mala-tejaः । बोधि-सत्वानां महा-सत्वानां स-गौरवाणां स-प्रतीशानां अन्य-लोक-धातु-स्थिता अपि बुद्धा भगवन्तो मुखम् उपदर्शयन्ति धर्मं च + अनुश्रावयन्ति । धर्म-कामानां । vi-mala-tejaः । बोधि-सत्वानां महा-सत्वानां पर्वत-कन्दर-वृक्ष-मध्येषु धर्म-निधानानि निक्षिप्तानि । धर्म-मुखान्य् अन्-अन्तानि पुस्तक-गतानि कर-तल-गतानि भवन्ति । धर्म-कामानां vi-mala-tejaः बोधि-सत्वानां पूर्व-बुद्ध-दर्शिन्यो देवता बुद्ध-प्रतिभानम् उपसंहरन्ति ॥ पे ॥

परिक्षीण-आयुष्काणां बुद्धा भगवन्तो देवताश् च + आयुर्-बलं च + उपसंहरन्ति । बुद्ध-अधिष्ठानेन देवता-अधिष्ठानेन च काङ्क्षामाणा वर्ष-सहस्रम् अवतिष्ठन्ते ॥ पे ॥

यावत् कल्पं वा कल्प-अवशेषं वा यावद् वा आकाङ्क्षन्ति धर्म-गौरव-जातानां बोधि-सत्वानां बुद्धा भगवन्तो जराम् अप्य् अपनयन्ति । व्याधीन् अपनयन्ति । स्मृतिम् उपसंहरति । गतिं मतिं प्रतिभानं च + उपसंहरन्ति ॥ पे ॥

दृष्टि-कृतानि विनोदयन्ति । सम्यग्-दृष्टिं च + उपसंहरन्ति । धर्म-गौरवेण । vi-mala-tejaः । बोधि-सत्वानां महा-सत्वानां सर्व-उपक्रम-भयानि न भवन्ति । तस्मात् तर्हि vi-mala-tejaः श्रुत-संभार-कौशल्य-अभियुक्तेन बोधि-सत्वेन भवितव्यम् इति ॥

किम् आकारं श्रुतं बोध्i-satva-vinaye प्रशस्तं । यथा आर्य-अक्षयमति-सूत्रे * अभिहितं । अशीत्य्-आकार-प्रवेशं श्रुतं । तद् यथा । छन्द-आकारम् आशय-आकारम् अध्याशय-आकारं प्रयोग-आकारं निर्माण-आकारम् अ-प्रमाण-आकारं कल्याण-मित्र-आकारं गौरव-आकारं प्रदक्षिण-आकारं सु-वचन-आकारं पर्युपासन-आकारम् अवहित-श्रोत्र-आकारं मनस्-कार-आकारम् अ-विक्षेप-आकारम् अवस्थान-आकारं रत्न-संज्ञा-आकारं भैषज्य-संज्ञा-आकारं सर्व-व्याधि-शमन-आकारं स्मृति-भजन-आकारं गति-बोधन-आकारं मति-रोचन-आकारं बुद्धि-प्रवेश-आक् आरम् अ-तृप्त-बुद्ध-धर्म-श्रवण-आकारं त्याग-वृंहण-आकारं दान्त-आजानेय-आकारं बहु-श्रुत-सेवना-आकारं सत्य-कृत्य-प्रीत्य्-अनुभवन-आकारं काय-औद्बिल्य-आकारं चित्त-प्रह्लादन-आकारम् अ-परिखेद-श्रवण-आकारं धर्म-श्रवण-आकारं प्रतिपत्ति-श्रवण-आकारं पर-देशना-श्रवण-आकारं अ-श्रुत-श्रवण-आकारं अभिज्ञा-श्रवण-आकारम् अन्य-यान-अ-स्पृहणा-श्रवण-आकारं प्रज्ञा-पारमिता-श्रवण-आकारं बोध्i-satva-piटक-श्रवण-आकारं संग्रह-वस्तु-श्रवण-आकारम् उपाय-कौशल्य-श्रवण-आकारं ब्रह्म-विहार-श्रवण-आकारं स्मृति-संप्रजन्य-श्रवण-आकारं गौरव-आकारं उत्पाद-कौशल्य-श्रवण-आकारम् अन्-उत्पाद-कौशल्य-श्रवण-आकारम् अ-शुभ-आकारं मैत्र्याः श्रवण-आकारं प्रतीत्य-समुत्पाद-आकारं अ-नित्य-आकारं दुष्ख-आकारम् अन्-आत्मा-आकारं शान्त-आकारं शून्यता-निमित्त-अ-प्रणिहित-आकारं अन्-अभिसंस् कार-आकारं कुशल-अभिसंस्कार-आकारं सत्व-अधिष्ठान-आकारं अ-विप्रणाश-आकारं स्व-अधीन-आकारं स्व-चित्त-आरक्षण-आकारं वीर्यस्य + आश्रंसन-आकारं

धर्म-निध्यप्त्य्-आकारं क्लेश-विपक्ष-आकारं स्व-पक्ष-परिकर्षण-आकारं पर-पक्ष-क्लेश-निग्रह-आकारं सप्त-धन-समवशरण-आकारं सर्व-दारिद्र्य-उपछेद-आकारं सर्व-विद्वत्-प्रशस्त-आकारं पण्डित-अभिनन्दन-आकारं आर्य-संमत-आकारं अन्-आर्य-प्रसादन-आकारं सत्य-दर्शन-आकारं स्कन्ध-दोष-विवर्जन-आकारं संस्कृत-दोष-परितुलन-आकारम् अर्थ-प्रतिशरण-आकारं धर्म-प्रतिशरण-आकारं सर्व-पाप-अ-करण-आकारं आत्म-पर-हित-आकारं सु-कृत-कर्म-अन्-अनुतप्यन-आकारं विशेष-गमन-आकारं सर्व-बुद्ध-धर्म-प्रतिलाभ-आकारम् इति ॥

पुनर् अत्र + एव + आह । यश् च धर्म-संभार-योगः स एव + अस्य ज्ञान-संभारो भवति । तत्र कतमो धर्म-संभार-योगो या + इयम् अल्प-अर्थता + अल्प-कृत्यता + अल्प-भाषता + अल्प-परिष्कारता पूर्व-रात्र-अ-पर-रात्रं जागरिका-योगम् अनुयुक्तस्य श्रुत-अर्थ-परितुलनता । भूयो भूयः पर्येषणता । चित्तस्य + अन्-आविलता । नीवरणानां विष्कम्भनता । आपत्तिषु निः-शरण-ज्ञानं । अ-कौकृत्यता । अ-पर्युत्थानता । प्रतिपत्ति-सारता । धर्म-निम्नता धर्म-प्रवणता धर्म-प्राग्-भारता । पराक्रम-संपन्नता आदीप्त-शिरश्-चैल-उपमता ज्ञान-पर्येष्ट्या । तन्-मय-विहारिता । अ-शिथिल-शीलता + अ-निक्षिप्त-धुरता विशेष-गामिता संगणिका-विवर्जनम् एक-आरामता + अरण्य-अभिमुख-मनस्-कारता आर्य-वंश-सन्तुष्टिः धुत-गुणेष्व् अ-चलनता धर्म-आराम-रति-रतता लौकिक-मन्त्र-अ-स्मरणता लोक-उत्तर-धर्म-पर्येष्टिता स्मृत्य्-अ-प्रमोषता । अर्थ-गत्य्-अनुगमता । मत्या मार्ग-अनुलोमता । धृत्या संवर-प्रत्ययैर् ज्ञान-अनुगमः । ह्रीर्-अपत्राप्य-अलं-कारता । ज्ञान-अनुगमन-सारता । अ-ज्ञान-विधमनता । अ-विद्या-मोह-तमस्-तिमिर-पटल-पर्यवनद्धस्य प्रज्ञा-चक्षुर्-विशुद्धिः । सु-विशुद्ध-बुद्धिता । बुद्धि-विस्तीर्णता । अ-संकुचित-बुद्धिता प्रभिन्न-बुद्धिता । प्रत्य्-अक्ष-बुद्धिता । अ-पर-अधीन-गुणता । स्व-गुणैर् अ-मन्यनता । पर-गुण-परिकीर्तनता । सु-कृत-कर्म-कारिता । कर्म-विपाक-अन्-उद्धुरता । कर्म-परिशुद्धि-ज्ञानम् इति ॥

किं श्रोतव्यं । उक्तं भगवता ज्ञान-वैपुल्य-सूत्रे । स-अर्थकानि शास्त्राणि शिक्षितव्यानि । अप-अर्थकानि परिवर्जयितव्यानि । तद् यथा । लोक-आयत-शास्त्राणि दण्ड-नीति-शास्त्राणि कार्खेद-शास्त्राणि वाद-विद्या-शास्त्राणि कुमार-क्रीडा-शास्त्राणि जम्भक-विद्या-शास्त्राणि ॥ पे ॥

यान्य् अपि तद् अन्यानि कानि-चिन् मोक्ष-प्रति-कूलानि शास्त्राणि संमोहाय संवर्तन्ते तानि सर्वाणि बोध्i-satva-yआन-संप्रस्थितेन परिवर्जयितव्यानि + इति ॥

एवं श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयं । कथं पुनर् आशय-संपन्नस्य + अप्य् उग्रदत्त-परिपृच्छायां गृहम् अनुज्ञातं । यत्नवतो * अप्य् अ-सामर्थ्यात् । पर-दार-आदिष्व् अपि तर्हि न + आपत्तिः स्यात् । न तेषाम् अ-सामर्थ्ये * अपि प्रकृति-दुष्टत्वाद् गृह-आवासस्य च प्रज्ञप्त्i-sa-avadyatvआद् इति ॥

इति शिक्षा-समुच्चये वीर्य-पारमिता परिच्छेदो दशमः ॥

[xi. अरण्यसंवर्णनः]

अरण्य-संवर्णनं नाम + एकादशः परिच्छेदः ॥

तद् एवम् उग्रदत्त-परिपृच्छा-विधिना गृह-दोषान् भावयित्वा श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयम् इति स्थितं ॥

तथा च + उक्तं चन्द्र-प्रदीप-सूत्रे । न जातु कामान् प्रतिषेवमाणः पुत्रेषु दारेषु जनित्व तृष्णां । गृहं च सेवित्व जुगुप्सनीयम् अन्-उत्तरां प्राप्स्यति सो * अग्र-बोधिम् ॥

ये काम वर्जेन्ति यथा + अग्नि-कर्षूं पुत्रेषु दारेषु जनित्व तृष्णां । उत्तस्त गेहाद् अभिनिष्क्रमन्ति न दुर्-लभा तेष्व् इयम् अग्र-बोधिः ॥

न कश्-चि बुद्धः पुरिमेण आसीद् अन्-आगतो भेष्यति यो * अवतिष्ठते । येहि स्थितैर् एव अगार-मध्ये प्राप्ता इयं उत्तम अग्र-बोधिः ॥

प्रहाय राज्यं यथ खेट-पिण्डं वसेद् अरण्येषु विवेक-कामः । क्लेशान् प्रहाय विनिहत्य मानं बुध्यन्ति बोधिं वि-रजाम् अ-संस्कृताम् ॥ पे ॥

अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि । न + उपस्थिता भोन्ति नर-उत्तमा जिना यथ प्रव्रजित्वा चरमाण-धर्मान् ॥

यश् च + एव बोधिं प्रतिकाङ्क्षमाणः सत्व-अर्थ निर्विण्ण कु-संस्कृतातः । अरण्य-अभिमुख सप्त पदानि गच्छेद् अयं ततः पुण्य-विशिष्ट भोति ॥

यदि पुनर् विसभाग-सत्व-अनुनयात् परिषत्-कामतया वा लाभ-आदि-कामतया वा विवेक-प्रवेशे विलम्बेत । तद्-अर्थम् अत्र + एव + उक्तं । न विज्ञ बालेहि करोन्ति विग्रहं सत्-कृत्य बालान् परिवर्जयन्ति । मम + अन्तिके च + इति प्रदुष्ट-चित्ता न बाल-धर्मेहि करोन्ति संस्तवम् ॥

न विज्ञ बालान करोति सेवनां विदित्व बालान स्व-भाव-संततिम् । कियच्-चिरं बाल-सु-सेविता पि पुनो * अपि ते भोन्ति अ-मित्र-सन्निभाः ॥

न विज्ञ बालेष्व् इह विश्वसन्ति विज्ञाय बालान स्व-भाव-संततिम् । स्व-भाव-भिन्ना प्रकृतीय बालाः कुतो * अस्ति मित्रं हि पृथग्-जनानां ॥

सह-धार्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च अ-प्रत्ययं च । प्राविष्करोन्ति इमि बाल-धर्मा इमम् अर्थ विज्ञाय न विश्वसन्ति ॥

बाला हि बालेहि समं समेन्ति यथा अ-मेध्येन अ-मेध्य सार्द्धम् । विज्ञः पुनर् विज्ञ-जनेन सार्द्धं समेन्ति सर्पिर् यथ सर्पि-मण्डे ॥

तथा च पुनर् अत्र + एवम् आह । सू-सुखिताः सद ते नर-लोके येषु प्रिय-अ-प्रिय न + अस्ति कहिं-चित् । ये च न कन्दरके * अभिरमन्ते श्रामणकं सु-सुखं अनुभोन्ति ॥

येषु मम + अपि तु न + अस्ति कहिं-चित् । येषु परिग्रहु सर्वशु न + अस्ति । खड्ग-समा विचरन्ति मु लोकं गगने पवन यथा + इव व्रजन्ति ॥

स्युः सुखिता वत ते नर-लोके येषु न सज्जति मानस लोके । वायु-समं सद तेष्व् इह चित्तं न + उ च प्रिय-अ-प्रिय विद्यति संगो ॥

अ-प्रिय ये दुखितेहि निवासो ये * अपि प्रिया दुखितेहि वियोगो । अन्त उभे अपि तेहि जहित्वा ते सुखिता नरये रत धर्मे ॥

पुनर् अत्र + एव + उक्तम् । भवति सततम् अल्प-कृत्य-योगी पृथु गुण दोषत सर्वि वर्जयित्वा । न विवदति कदा-चि युक्त-योगी इमि गुण तस्य भवन्त्य् अरण्य-वासे ॥

सद भवति निविण्ण संस्कृते * असौ न भवति तस्य पृहा कहिं-चि लोके । न च भवति विवृद्धिर् आस्रवाणां वन-वसतो * अस्य भवन्ति आनुशंसाः ॥

अधिकरण न तस्य जातु भोती सद उपशान्त-रतो विवेक-चारी । वचचि मनसि काय संवृत-स्यो बहु-गुण तस्य भवन्त्य् अरण्य-वासे ॥

भवति अनुकूल तस्य मोक्षो लघु प्रतिविध्यति सो * अधिमुक्ति शान्ताम् । वनि-चरि धिमुक्ति सेवते * अस्य इमि गुण भोन्त्य् अरण्य-वासि सर्वे ॥

पुनर् आह । वन-षण्ड सेवथ विविक्त सदा विजहित्व ग्राम-नगरेषु रतिम् । अ-द्वितीय-खड्ग-सम भोथ सदा न चिरेण लप्स्यथ समाधि-वरम् । इति ॥

आर्य-राष्ट्रपाल-सूत्रे * अप्य् आह । त्यक्त्वा गेहम् अन्-अन्त-दोष-गहनं चिन्ता-अन्-अपेक्षाः सदा । ते * अरण्ये रतिम् आप्नुवन्ति गुणिनः शान्त-इन्द्रियाः सूरताः ॥

न स्त्री-संभव न + एव च + अपि पुरुषैस् तेषां क्व-चिद् विद्यते । एकाकी विहरन्ति खड्ग-सदृशाः शुद्ध-आशया निर्-मलाः ॥

लाभैर् न + अपि च तेषु हर्ष स्व-मनो लीयन्त्य् अ-लाभैर् न च । अल्प-इच्छा इतर-इतरैर् अभिरता माया-कुहा-वर्जिताः । ति ॥

उग्रदत्त-परिपृच्छायाम् अप्य् आह । सत्व-संसर्गो मे न कर्तव्यो न हि मया + एक-सत्वस्य कुशल-मूलानि संजनयितव्यानि + इत्य् आदि ॥

यदि पुनः श्रुतवान् इमां क्षण-संपदम् आसाद्य लाभ-आदौ सक्तः चित्तं न शोधयेत् स एव + एकः । स-देवके लोके वञ्चितः स्याद् ॥

उक्तं ह्य् आर्य-रत्न-कूटे । तद् यथा काश्यप कश्-चिद् एव पुरुषो महता उदक-अर्णवेन + उह्यमान उदक-तृष्णया कालं कुर्याद् । एवम् एव काश्यप इह + एके श्रमण-ब्राह्मणा बहून् धर्मान् उद्गृह्य पर्यवाप्य न राग-तृष्णां विनोदयन्ति । न द्वेष-तृष्णां । न मोह-तृष्णां विनोदयन्ति । ते महता धर्म-अर्णवेन + उह्यमानाः क्लेश-तृष्णया काल-गता । दुर्-गति-विनिपात-गामिनो भवन्ति + इति ॥

तस्माद् अ-वश्यम् अरण्यम् आश्रयेत् ॥

तादृशानि च स्थानानि आश्रयेत् । येषु च स्थानेषु न + अति-दूरे पिण्ड-पात-गो-चरो भवति न + अति-संनिकृष्टे । येषु पानीयानि भवन्त्य् अच्छानि शुचीनि निर्-मलान्य् अल्प-आयासानि मुख-परिभोगानि यानि च स्थानानि वृक्ष-संपन्नानि भवन्ति पुष्प-संपन्नानि फल-संपन्नानि पत्त्र-संपन्नान्य् अपगत-दुष्ट-श्वा-पदानि गुहा-संपन्नानि प्राग्-भार-संपन्नानि सुख-परिसर्प्यकाणि शान्तान्य् अ-द्वितीयानि तादृशानि स्थानान्य् आश्रयेत् । स तेषु स्थानेष्व् आश्रितो यद् अनेन पूर्व-पठितं भवति तत् त्रिभी रात्रैस् त्रिर्-दिवसस्य स्व-अध्यायति न + अत्य्-उच्चेन स्वरेण न + अति-नीचेन न + उद्धतैर् इन्द्रियैर् न बहिर्-गतेन चित्तेन प्रसादम् उपजीवन् ग्रन्थम् उपधारयन् निमित्तान्य् उद्गृह्णन् मिद्धम् अपक्रामन् । सचेद् आरण्यकस्य भिक्षो राजा वा + उपसंक्रामति राज-मात्रो वा + अन्ये वा ब्राह्मण-क्षत्रिय-नैगम-जानपदाः । तेन तेषाम् आदरेण स्व्-आगत-क्रिया कर्तव्या । एवं च + अनेन वक्तव्यं । निषीद महा-राज यथा प्रज्ञप्तए आसने । सचेद् उपविशति द्वाभ्याम् अप्य् उपवेष्टव्यं । सचेन् न + उपविशति उभाभ्याम् अपि न + उपवेष्टव्यं । सचेच् चञ्चल-इन्द्रियो भवति उत्कर्षयितव्यं । तस्य ते महा-राज लाभाः सु-लब्धा यस्य ते भू-प्रदेशे शीलवन्तो गुणवन्तो बहु-श्रुताः श्रमण-ब्राह्मणाः प्रतिवसन्ति । अन्-उपद्रुताश् चौर-भट-आदिभिः ॥

सचेत् स्थिरो भवति विनीतः प्रशान्त-इन्द्रियः भव्यश् च भवति धर्म-देशनायाः ततो * अस्य विचित्रा धर्म-देशना उपसंहर्तव्या । सचेद् विचित्रां न प्रियायते । संवेग-अनुकूला धर्म-देशना उपसंहर्तव्या । सचेत् संवेग-अनुकूलां न प्रियायते उदार-उदाराणि तथा-गत-माहात्म्यानि उपदेष्टव्यानि । ब्राह्मण-क्षत्रिय-नैगम-जानपदानाम् अप्य् उपसंक्रामतां यथा-अनुरूपाः क्रिया उपसंहर्तव्या । स एवं बहु-श्रुतः सन् प्रति-बलो भवति धार्म-श्रवणिकानां चित्तम् आराधयितुं । ते च सत्वास् तस्य + अन्तिके प्रीतिं च प्रसादं च प्रामोद्यं च प्रतिलभन्तए इति ॥

उग्रदत्त-परिपृच्छायाम् अप्य् आह । पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये प्रतिवसता एवम् उपपरीक्षितव्यं । किम् अर्थम् अहम् अरण्ये प्रतिवसामि । न केवलम् अरण्य-वासेन श्रमणो भवति । बहवो * अप्य् अत्र + अ-दान्ता अ-विनीता अ-युक्ता अन्-अभियुक्ताः प्रतिवसन्ति । तद् यथा । मृग-वानर-पक्षि-संघ-चौर-चण्डालाः प्रतिवसन्ति । न च ते श्रमण-गुण-समन्वागता भवन्ति । अपि तु खलु पुनर् अहं यस्य + अर्थाय + अरण्ये प्रतिवसामि स मया + अर्थः परिपूरयितव्यो यद् उत श्रामण्य-अर्थः ॥ पे ॥

पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये विहरता एवम् उपपरीक्षितव्यं । किम् अर्थम् अहम् अरण्य्म् आगतः । तेन + एवं मीमांसयितव्यं । भय-भीतो * अस्म्य् अहम् अरण्यम् आगतः । कुतो भय-भीतः । संगणिका-भय-भीतः । संसर्ग-भय-भीतो राग-द्वेष-मोह-भय-भीतो मान-मद-म्रक्ष-परिदाह-भय-भीतो लोभ-ईर्ष्या-मात्सर्य-भय-भीतः रूप-शब्द-गन्ध-रस-स्पर्ष्टव्य-भय-भीतः । सो * अहं-कार-मम-कार-भय-भीतः । औद्धत्य-विचिकित्सा-भय-भीतः । स्कन्ध-मार-भय-भीतः । क्लेश-मार-भय-भीतो । मृत्यु-मार-भय-भीतो । देव-पुत्र-मार-भय-भीतः । अ-नित्ये नित्य इति विपर्यास-भय-भीतो * अन्-आत्मन्य् आत्मा + इति विपर्यास-भय-भीतो * अ-शुचौ शुचिर् इति विपर्यास-भय-भीतो । दुष्खे सुखम् इति विपर्यास-भय-भीतः । चित्त-मनो-विज्ञान-भय-भीतो । निवरण-आवरण-पर्युत्थान-भय-भीतः । सत्-काय-दृष्ट्i-bhaya-bhईतः पाप-मित्र-भय-भीतो । लाभ-सत्-कार-भय-भीतो * अ-काल-मन्त्र-भय-भीतो * अ-दृष्टे दृष्टम् इति भय-भीतो * अ-श्रुते श्रुतम् इति भय-भीतो * अ-मते मतम् इति भय-भीतो * अ-विज्ञाते विज्ञातम् इति भय-भीतो * अ-श्रमणे श्रमण-मद-भय-भीतो * अन्यो-न्य-विद्वेषण-भय-भीतः काम-धातु-रूप-धात्v-a-rऊप्य-धातु-भय-भीतः सर्व-भव-गत्य्-उपपत्त्i-bhaya-bhईतो निरय-तिर्यग्-योनि-पितृ-विषय-भय-भीतः संक्षेपेण सर्वेभ्यो * अ-कुशलेभ्यो मनसि-कारेभ्यो भय-भी त एभ्यो ह्य् अहम् एवं-रूपेभ्यो भय-भैरवेभ्यो भीतो * अरण्य-आवासम् उपगतः ॥ पे ॥

पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्य-वास-स्थितेन भीतेन वा त्रस्तेन वा एवं शिक्षितव्यं । यानि कानि-चिद् भयान्य् उत्पद्यन्ते सर्वाणि तान्य् आत्म-ग्राहत उत्पद्यन्ते ॥ पे ॥

सचेत् पुनर् अहम् अरण्ये प्रतिवसन् न + आत्म-ग्राहं परित्यजेयं न + आत्म-अभिनिवेशं न + आत्म-परिग्रहं न + आत्म-निदानं न + आत्म-तृष्णां न + आत्म-संज्ञां न + आत्म-वाद-उपादानं न + आत्म-दृष्टिं न + आत्म-अधिष्ठानं न + आत्म-परिकल्पनां न + आत्म-रक्षां परित्यजेयं । निर्-अर्थको मे * अरण्य-वासः स्याद् । अपि तु खलु पुनर् गृह-पते न + अस्त्य् आत्म-संज्ञिनो * अरण्य-वासो । न + अस्ति पर-संज्ञिनः ॥ पे ॥

अरण्य-वासो नाम गृह-पते उच्यते सर्व-धर्मेष्व् अ-संभव-वासः सर्व-धर्मेष्व् अ-संग-वासः ॥ पे ॥

तद् यथा गृह-पते * अरण्ये तृण-गुल्म-औषध्i-vanas-patayaः प्रतिवसन्तो न बिभ्यति न + उत्त्रस्यन्ति न संत्रस्यन्ति न संत्रासम् आपद्यन्ते । एवम् एव गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये विहरता तृण-गुल्म-औषध्i-vanas-pati-kआष्ठ-कुड्य-वद् आत्म-प्रतिभास-वत् संज्ञा काये उत्पादयितव्या । माया-समता चित्तस्य + उत्पादयितव्या । को * अत्र बिभेति । को * अस्मिन्न् उत्त्रस्यति ।तेन भय-भीतेन वा त्रस्तेन वा एवं योनिशः काय उपपरीक्षितव्यः । न + अस्त्य् अत्र काये आत्मा वा सत्वो वा जीवो वा पोषो वा पुद्गलो वा मनु-जो वा मानवो वा । अ-भूत-परिकल्प एष यद् उत भयं नाम । स मया + अ-भूत-परिकल्पो न परिकल्पयितव्यः । तेन यथा + अरण्ये तृण-गुल्म-औषध्i-vanas-patayaः प्रतिवसन्ति अ-ममा अ-परिग्रहाः । एवम् एव + अ-ममेन + अ-परिग्रहेण + अरण्यम् एव सर्व-धर्मा इति ज्ञात्वा उपसम्पद्य विहर्तव्यं । तत् कस्य हेतोः । रण-छेदो * अरण्य-वासो * अ-ममो * अ-परिग्रहः ॥ पे ॥

पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन बुद्ध-अनुज्ञातो * अरण्य-वास इति ज्ञात्वा + अरण्ये वस्तव्यं । अत्र हि शुक्ल-धर्म-परिपूरिर् भवति । उपस्तब्ध-कुशल-मूलः पश्चाद्-ग्राम-नगर-निगम-राष्ट्र-राज-धानीष्व् अवतीर्य धर्मं देशयिष्यामि ॥ पे ॥

सचेत् पुनर् गृह-पते प्रव्रजितो बोधि-सत्व उद्देश-स्व-अध्याय-अर्थं गणम् अवतरति । तेन तत्र स-गौरवेण भवितव्यं स-प्रतीसेन + आचार्य-उपाध्यायेषु स्थविर-मध्य-नवकेषु भिक्षुषु प्रदक्षिण-भवितव्यम् अन्-अलसेन स्वयं-कारिणा + अ-पर-उपतापिना न च तेन + उपस्थान-गुरुकेण भवितव्यं । एवं च + अनेन + उपपरीक्षितव्यं । तथा-गतो * अप्य् अर्हन् सम्यक्-संबुद्धः स-देवस्य लोकस्य स-मारकस्य स-ब्रह्मकस्य स-श्रमण-ब्राह्मणिकायाः प्रजायाः पूजितो दक्षिणीयः सर्व-सत्वानां । सो * अपि तावन् न कस्य-चित् सकाशाद् उपस्थानं स्वी-करोति । किं पुनर् अस्माभिर् अ-शिक्षितैः शिक्षितु-कामैः । अपि तु वयम् एव सर्व-सत्वानाम् उपस्थायका भविष्यामः । वयम् एव परेषाम् उपस्थान-परिचर्यां करिष्यामो न च पुनः कस्य-चित् सकाशाद् उपस्थान-परिचर्यां स्वी-करिष्यामः । तत् कस्य हेतोः । उपस्थान-गुरुकस्य हि गृह-पते भिक्षोर् गुण-धर्म-अनुग्रहो नश्यति । येषां च संग्रहं करोति तेषाम् एवं भवति । उपस्थान-हेतोर् एषो * अस्माकं संग्रहं करोति ॥

पुनर् अत्र + एव + आह । सचेत् पुनर् गृह-पते आरण्यको बोधि-सत्वो धर्म-श्रवण-अर्थिक आचार्य-उपाध्याय-दर्शन-अर्थिको वा ग्लान-परिपृच्छको वा ग्राम-अन्तिकं शयन-आसनम् आगच्छेत् तेन सा + अयम् आगमनाय प्रक्रमणाय च चित्तम् उत्पादयितव्यं । सचेत् पुनर् अस्य पर-प्रतिबद्ध उद्देशः स्व-अध्यायो वा तेन विहारे प्रतिवसता + अरण्य-प्रवण-चित्तेन भवितव्यं । एष एव तस्य + अरण्य-वासो यत् सर्व-वस्तुष्व् अरण्य-संज्ञा धर्म-पर्येष्ट्या च + आतृप्ता + इति ॥

आर्य-रत्न-राशि-सूत्रे * अप्य् उक्तं । यदि पुनर् अस्य तत्र + अरण्य-आयतने विहरतो * अ-प्राप्त-फल-पृथग्-जनस्य व्याड-मृगा आगच्छेयुः । तेन तत्र न भयं न त्रास उत्पादयितव्यः । एवं च चित्तम् उत्पादयितव्यं । पूर्वम् एव + अहम् उत्सृष्ट-काय-जीवितो * अरण्य-वासम् उपगतो । न मया + अत्र भेतव्यं । न + उत्त्रसितव्यं । अपि तु मैत्रीम् उत्पादयित्वा दोषं विवर्जयिष्यामि भयम् अपनयिष्यामि । यद्य् एवम् अपि कृत्वा ते व्याड-मृगा मां जीविताद् व्यपरोप्य भुञ्जीरन् । तेन मया + एवं चित्तम् उत्पादयितव्यं । लाभा मे सु-लब्धा यस्य मे * अ-सारात् कायात् सारम् आदत्तं भविष्यति । न पुनर् इमे व्याड-मृगाः शक्या मया + आमिषेण तोषयितुं मम मांसं भक्षयित्वा सुख-स्पर्शं विहरिष्यन्ति ॥ पे ॥

यदि पुनस् तत्र + अरण्य-आयतने विहरतो * अ-मनुष्या उपसंक्रमिष्यन्ति सु-वर्णा वा दुर्-वर्णा वा । तेन न तत्र + अनुनेतव्यं न प्रतिहन्तव्यं । यदि पूर्व-बुद्ध-दर्शिन्यो देवता आरण्यकं भिक्षुम् उपसंक्रम्य प्रश्नं परिपृच्छेयुः । तत्र तेन + आरण्यकेन भिक्षुणा यथा-शक्ति यथा-बलं यथा-धर्म + अधिगमाय तासां देवतानां धर्मो देशयितव्यः । यदि पुनस् तावङ् गम्भीरान् प्रश्नान् परिपृच्छेयुर् यान् स आरण्यको भिक्षुर् न शक्नुयाद् विसर्जयितुं । तेन निर्-मानेन भूत्वा वाग् भाषितव्या + अ-शिक्षितो न परिभवितव्यः । युञ्जिष्यामि घटिष्ये बुद्ध-शासने । भविष्यति स कालः स समयो यदा + अधिगतान् धर्मान् श्रुत्वा सर्व-कथां विसर्जयिष्यामि । अपि तु प्रतिभातु ते । वयं धार्म-श्रवणिका इति ॥ पे ॥

तेन तत्र + अरण्य-आयतने प्रतिवसता तृण-गुल्म-औषध्i-vanas-patईनां निमित्तं ग्रहीतव्यं । कथम् एते भवन्ति । यथा + एषां भावनाम् अ-स्वामिकानाम् अ-ममानाम् अ-परिग्रहाणाम् एवं निश्-चेष्टानां निर्-व्यापाराणां भवत्य् उत्पादो भङ्गश् च । न च + एषां कश्-चिद् उत्पादयिता । न निरोधयिता । एवम् एव + अयं कायस् तृण-काष्ठ-कुड्य-प्रतिभास-उपमो * अ-स्वामिको * अ-ममो * अ-परिग्रहो निश्-चेष्टो निर्-व्यापारो हेतु-प्रत्यय-युक्त्या उत्पद्यते । हेतु-प्रत्यय-वैकल्यान् निरुध्यते । न पुनर् अत्र कश्-चिद् धर्मः परम-अर्थत उत्पद्यते वा निरुध्यते वा + इति ॥

पुनश् च + उक्तं । तेन तत्र + अरण्य-आयतने विहरता एवं चित्तम् उत्पादयितव्यं । यद्य् अप्य् अहम् अरण्यम् आगत एको * अ-द्वितीयो । न मे कश्-चित् सहायो यो मां सु-कृतं दुष्-कृतं वा चोदयेत् । अपि तु खलु पुनः सन्ति + इमे देव-नाग-यक्षा बुद्धाश् च भगवन्तो ये मम चित्त-आशयं जानन्ति । ते मम साक्षिणः । सो * अहम् इह + अरण्य-आयतने प्रतिवसन्न् अ-कुशल-चित्तस्य वशं गच्छामि । यदि पुनर् अहम् इयद्-दूरम् आगत एको * अ-द्वितीयो * अ-संस्तब्धो * अ-ममो * अ-परिग्रहः काम-वितर्कं वा वितर्कयेयं । व्यापआदं विहिन्सा-वितर्कं वा वितर्कयेयम् अन्यं वा + अ-कुशल-वितर्कं वितर्कयेयं । निर्-विशेषो भवेयं संसर्ग-संगणिकाभिर् एतैः सत्वैः । ते च मे देव-नाग-यक्षा विसंवादिताः बुद्धाश् च भगवन्तो * अन्-अभिराद्धा भविष्यन्ति + इति ॥

इति शिक्षा-समुच्चये अरण्य-संवर्णनो नाम + एकादशः परिच्छेदः ॥

[xii. चित्तपरिकर्म]

चित्त-परिकर्म द्वादशः परिच्छेदः ॥

तद् एवम् अरण्ये वसन् समाधानाय युज्यते ॥

उक्तं हि भगवत्यां । स तेषाम् एव सत्वानाम् अर्थाय ध्यान-पारमितायां चरन्न् अ-विक्षिप्त-चित्तो भवति । तत् कस्य हेतोः । तथा ह्य् अस्य + एवं भवति । लौकिकी ध्यान-उपपत्तिर् अपि तावद् विक्षिप्त-चित्तस्य दुर्-लभा । कः पुनर् वादो * अन्-उत्तरा सम्यक्-संबोधिः । तस्मान् मया + अ-विक्षिप्त-चित्तेन भवितव्यम् । यावन्न् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धेयम् इति ॥

पुनर् अस्याम् उक्तं । पुनर् अ-परं सुभूते बोधि-सत्वो महा-सत्वः प्रथम-चित्त-उत्पादम् उपादाय ध्यान-पारमितायां चरन् सर्व-आकार-ज्ञता-प्रतिसंयुक्तैर् मनसि-कारैर् ध्यानं समापद्यते । स चक्षुषा रूपाणि दृष्ट्वा न निमित्त-ग्राही भवति न + अनुव्यञ्जन-ग्राही । यतो * अधिकरणम् अस्य चक्षुर्-इन्द्रियेण + अ-संवर-संवृतस्य विहरतो * अभिध्या-दौर्मनस्ये अन्ये वा पापका अ-कुशला धर्माश् चित्तम् अनुप्राप्नुयुः । तेषां संवराय प्रतिपद्यते । रक्षति चक्षुर्-इन्द्रियम् । एवं श्रोत्रेण शब्दान् श्रुत्वा । घ्राणेन गन्धान् घ्रात्वा । जिह्वया रसान् आस्वाद्य । कायेन स्प्रष्टव्यानि स्पृष्ट्वा । मनसा धर्मान् विज्ञाय न निमित्त-ग्राही भवति । न + अनुव्यञ्जन-ग्राही । यतो * अधिकरणम् अस्य मन इन्द्रियेण + अ-संवर-संवृतस्य पापकाश् चित्तम् अनुप्राप्नुयुः । तेषां संवराय प्रतिपद्यते । रक्षति मन इन्द्रियं । स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो * अपि शयानो * अपि भाषमाणो * अपि समाहित-अवस्थाम् अ-समाहित-अवस्थां न विजहाति । स भवत्य् अ-हस्त-लोलः । अ-पाद-लोलो * अ-मुख-लोलो * अ-प्रकीर्ण-वाक् । अ-विक्षिप्त-इन्द्रियो * अन्-उद्धतो * अन्-उन्नतो * अ-चपलो * अन्-अलसो * अ-संभ्रान्त-कायो * अ-संभ्रान्त-चित्तः । शान्त-कायः शान्त-वाक् शान्त-चित्तः । रहस्य् अ-रहसि वा कल्पित-ईर्या-पथः संतुष्टः ॥ पे ॥

सु-भरः सु-पोषः । सु-उपास्यः कल्याण-आचार-गो-चरः । संगणिकया + अपि विवेक-गो-चरः । लाभे * अ-लाभे च समो निर्-विकारः । अन्-उन्नतो * अन्-अवनतः । एवं सुखे दुष्खे । स्तुतौ निन्दायां । यशस्य् अ-यशसि । जीविते मरणे च समो निर्-विकारो * अन्-उन्नतो * अन्-अवनतः । एवं शत्रौ मित्रे च । मन-अपवर्तिनि ... । आर्येष्व् अन्-आर्येषु । शब्देषु संकीर्णेष्व् अ-संकीर्णेषु । प्रिय-अ-प्रियेषु च रूपेषु समो निर्-विकारः । अन्-उन्नतो * अन्-अवनतः । अनुरोध-विरोध-अपगतः । तत् कस्य हेतोः । तथा हि स स्व-लक्षण-शून्यान् अ-संभूतान् अ-निष्पन्नान् अन्-अभिनिर्वृत्तान् सर्व-धर्मान् पश्यति + इति विस्तरः ॥

तत्र लीने मनसि मुदिता भावनया + उत्तेजनं कुर्यात् । उद्धते त्व् अ-नित्यता-मनसि-कारैः प्रशमः ॥

उभय-प्रति-पक्ष-अर्थं च + आर्य-राष्ट्रपाल-उक्तां गाथां स्मरेत् । बहु कल्प-कोटीभि कदा-चि बुद्धो उत्पद्यते लोक-हितो मह-र्षि । लब्धो * अधुना स प्रवरः क्षणो * अद्य त्यजति प्रमादं यदि मोक्तु-काम । इति ॥

तथा । मया + उपमं वितथम् एतत् स्वप्न-उपमं च संस्कृतम् अवेक्ष्य न चिराद् भविष्यति वियोगः सर्व-प्रियैः । न नित्यम् इह कश्-चित् । उद्युज्य यथा घटत नित्यं पारमितासु भूमिषु बलेषु । मा जातु स्रंसय वीर्यं यावन् न बुध्यथा प्रवर-बोधिम् । इति ॥

आर्य-ललित-विस्तरे * अप्य् उक्तं । ज्वलितं त्रि-भुवं जर-व्याधि-दुखैर् मरण-अग्नि-प्रदीप्तम् अ-नाथम् इदम् । भव-निः-शरणे सद मूढ जगद् भ्रमति भ्रमरो यथा कुम्भ-गतः ॥

अ-ध्रुवं त्रि-भुवं शरd-abhra-nibhaं नट-रङ्ग-समा जगि जन्म-च्युतिः । गिर्i-nadya-samaं लघु-शीघ्र-जवं व्रजतायु जगे यथ विद्यु नभे ॥

भुवि देव-पुरे त्रि-अपाय-पथे भव-तृष्ण-अ-विद्य-वशा जनता । परिवर्त्तिषु पञ्च-गतिष्व् अ-बुधा यथ कुम्भ-करस्य हि चक्र भ्रमी ॥

प्रिय-रूप-वरैः सद स्निग्ध-रुतैः शुभ-गन्ध-रसैर् वर-स्पर्श-सुखैः । परिषिक्तम् इदं कलि-पाश जगत् मृग-लुब्धक-पाशि यथा + एव कपि ॥

स-भयाः स-रणाः सद वैर-कराः बहु-शोक-उपद्रव काम-गुणाः । असि-धार-समा विष-पत्त्र-निभाः जहित-आर्य-जनैर् यथ मीढ-घटः ॥

स्मृति-मोष-करास् तमसी-करणा भय-हेतु-करा दुख-मूल सदा । भव-तृष्ण-लताय विवृद्धि-कराः स-भयाः स-रणा सद काम-गुणाः ॥

यथ अग्नि-खदाः ज्वलिताः स-भयाः तथ काम इमे विदिता + आर्य-जनैः । मह-पङ्क-समा अशि-शूल-समा मधु-दिग्ध इव क्षुर-धार-समा ॥

यथ सर्प-शिरो यथ मीढ-घटः तथ काम इमे विदिता विदुषाम् । तथ शूल-सामा dvi-ja-peशि-समा यथ श्वान-करं किश-वैर तथा + उदक-चन्द्र-निभा इमि काम-गुणाः प्रतिबिम्ब इवा गिरि-घोष यथा । प्रतिभास-समा नट-रङ्ग-निभा तथ स्वप्न-समा विदिता + आर्य-जनैः ॥

क्षणिका-वसिका इमि काम-गुणाः तथ माय-मरीचि-समा अलिक-उदक-बुद्बुद-फेन-समा वितथाः परिकल्प-समुत्थित बुद्ध बुधैः ॥

प्रथमे वयसे वर-रूप-धरः प्रिय इष्ट-मतो इय बाल-चारी । जर-व्याधि-दुखैर् हत-तेज-वपुं विजहन्ति मृगा इव शुष्क-नदीम् ॥

धन-धान्य-वरो बहु-द्रव्य-बली प्रिय इष्ट-मतो इय बाल-चारी । परिहीण-धनं पुन कृच्छ्र-गतं विजहन्ति नरा इव शून्य-टवीम् ॥

यथ पुष्प-द्रुमो स-फलो व द्रुमो नरु-दान-रतः तथ प्रीति-करः । धन-हीनु जरा-अर्दितु याचनको भवते तद अ-प्रिय-गृध्र-समः ॥

प्रभु-द्रव्य-बली वर-रूप-धरः प्रिय-सङ्ग-मन-इन्द्रिय-प्रीति-करः । जरा-व्याध्i-dukha-arditu क्षीण-धनो भवते तद अ-प्रिय-मृत्यु-समः ॥

जरया जरितः समतीत-वयो द्रुम विद्यु-हतो व यथा भवति । जर-जीर्ण अगार यथा स-भयो जर-निः-शरणं लघु ब्रूहि मुने ॥

जर शोषयते नर-नारि-गणं यथ मालु-लता घन शाल-वनम् । जर वीर्य-पराक्रम-वेग-हरी जर पङ्क-निमग्न यथा पुरुषो ॥

जर रूप सु-रूप-वि-रूप-करी जर तेज-हरी बल-स्थाम-हरी । सद सौख्य-हरी परिभाव-करी जर मृत्यु-करी जर ओज-हरी ॥

बहु-रोग-शतैर् घन-व्याधि-दुखैः उपसृष्टु जगज् ज्वलना + इव मृगाः । जर व्याधि-गतं प्रसमीक्ष्य जगत् दुख-निः-शरणं लघु देशय ही ॥

शिशिरेहि यथा हिम-धातु महं तृण-गुल्म-वन-औषधि ओज-हरो । तथ ओज-हरो * अयु व्याधि जगे परिहीयति इन्द्रिय-रूप-बलम् ॥

धन-धान्य-महा-अर्थ-क्षय-अन्त-करः परिभाव-करः सद् व्याधि जगे । प्रतिघात-करः प्रिय-द्वेष-करः परिदाह-करो यथ सूर्यु नभे ॥

मरणं च्यवनं च्युति काल-क्रिया प्रिय-द्रव्य-जनेन वियोगु सदा । अ-पुन-आगमनं च अ-संगमनं द्रुम-पत्त्र-फला नदि-श्रोतु यथा ॥

मरणं वशितान् अ-वशी-कुरुते मरणं हरते नदि दारु यथा । अ-सहाय-नरो व्रजते * अ-द्वितीयः स्वक-कर्म-फल-अनुगतो वि-वशः ॥

मरणं ग्रसते बहु प्राणि-शतान् मकरो व जल-आकरि भूत-गणान् । गरुडो उर-गं मृग-राज गज ज्वलनो व तृण-औषधि-भूत-गणम् । इति ॥

राज-अववादक-सूत्रे * अप्य् आह । तद् यथा महा-राज चतसृभ्यो दिग्भ्यश् चत्वारः पर्वता आगच्छेयुर् दृढाः । सारवन्तो * अ-खण्डा अ-च्छिद्रा अ-सुषिराः सु-संवृता एक-घना नभः स्पृशन्तः पृथिवीं च + उल्लिखन्तः सर्व-तृण-काष्ठ-शाखा-पर्ण-पलाश-आदि सर्व-सत्व-प्राणि-भूतानि निर्मथ्नन्तस् तेभ्यो न सु-करं जवेन वा पलायितुं बलेन वा द्रव्य-मन्त्र-औषधिभिर् वा निवर्तयितुम् । एवम् एव महा-राज चत्वारि + इमानि महा-भयान्य् आगच्छन्ति येषां न सु-करं जवेन वा पलायितुं बलेन द्रव्य-मन्त्र-औषधैर् वा निवर्तनं कर्तुम् । कतमानि चत्वारि । जरा व्याधिर् मरणं विपत्तिश् च ॥

जरा महा-राज आगच्छति यौवनं प्रमथमाना । व्याधिर् महा-राज आगच्छत्य् आरोग्यं प्रमथमानः । मरणम् आगच्छति जीवितं प्रमथमानं । विपत्तिर् महा-राज + आगच्छति सर्वाः संपत्तीः प्रमथमाना । तत् कस्य हेतोः । तद् यथा महा-राज सिंहो मृग-राजो रूप-संपन्नो जव-संपन्नः सु-जात-नख-दंष्ट्रा-करालो मृग-गणम् अनुप्रविश्य मृगं गृहीत्वा यथा-काम-करणीयं करोति । स च मृगो * अति-बलं व्याड-मुखम् आसाद्य वि-वशो भवति । एवम् एव महा-राज विद्धस्य मृत्यु-शल्येन + अपगत-मदस्य + अ-परायणस्य मर्मसु छिद्यमानेषु मुच्यमानेषु सन्धिषु मांस-शोणिते परिशुष्यमाणे परितप्त-तृषित-विह्वल-वदनस्य कर-चरण-विक्षेप-अभियुक्तस्य + अ-कर्मण्यस्य + अ-समर्थस्य लाला-सिङ्घाणक-पूय-मूत्र-पुरीष-उपलिप्तस्य ईषज्-जीवित-अवशेषस्य कर्म-भवात् पुनर् भवम् आलम्बानस्य यम-पुरुष-भय-भीतस्य काल-रात्रि-वश-गतस्य चरम-आश्वास-प्रश्वासेषु + उपरुध्यमानेषु ए काकिनो * अ-द्वितीयस्य + अ-सहायस्य + इमं लोकं जहतः पर-लोकम् आक्रामतो महा-पथं व्रजतो महा-कान्तारं प्रविशतो महा-गहनं समवगाहमानस्य महा-अन्ध-कारं प्रतिपद्यमानस्य महा-अर्णवेन + उर्ज्यमानस्य कर्म-वायुना + आह्रियमाणस्य + अ-निमित्ती-कृतां दिशं गच्छतो न + अन्यत् त्राणं न + अन्यच् * छरणं न + अन्यत् परायणम् ऋते धर्मात् । धर्मो हि महा-राज तस्मिन् समये त्राणं लयनं शरणं परायणं भवति । तद् यथा शीत-आर्त्तस्य + अग्नि-प्रतापः । अग्निम् अपगतस्य + अ-निर्वापणं । उष्ण-आर्त्तस्य शैत्यं । अध्वानं प्रतिपन्नस्य शीतलं छाया-उपवनं । पिपासितस्य शीतल-जलं ।

बुभुक्षितस्य वा प्रणीतम् अन्नं । व्याधितस्य वैद्य-ओषधि-परिचारकाः । भय-भीतस्य बलवन्तः सहायाः । साधवः प्रति-शरणा भवन्ति । एवम् एव महा-राज विद्धस्य मृत्यु-शल्येन + अपगत-मदस्य + अ-त्राणस्य + अ-शरणस्य + अ-परायणस्य न + अन्यत् त्राणं न + अन्यत् परायणम् अन्यत्र धर्मात् । तस्मात् तर्हि ते महा-राज + अ-नित्यता-अनुदर्शिना भवितव्यं क्षय-व्यय-अनुदर्शिना भवितव्यं मरण-भय-भीतेन । धर्मेण + एव ते महा-राज राज्यं कारयितव्यं न + अ-धर्मेण । तत् कस्य हेतोः । अस्य + अपि ते महा-राज + आत्म-भावस्य + एवं सु-चिरम् अपि परिरक्षितस्य सु-चिरम् अपि शुचिना प्रणीतेन खादनीय-भोजनीय-आस्वादनीयेन संतर्पितस्य संप्रवारितस्य । क्षुत-पिपासा-परिगतस्य काल-क्रिया भविष्यति । एवं काशि-कौशेय-दूकूल-पत्त्र-ऊर्णा-क्षौम-आदिभिर् वस्त्र-विशेषैर् आच्छादितस्य चरम-शयन-अवस्थितस्य विविध-स्वेद-अम्बु-क्लिन्न-मलिन-वसन-आवृतस्य काल-क्रिया भविष्यति । एवम् अपि ते महा-राज स्नान-अनुलेपन-वास-धूप-पुष्प-सुरभि-गन्धस्य + आत्म-भावस्य न चिरेण दुर्-गन्धता भविष्यति । एवं स्त्र्य्--आगार-मध्य-गतस्य + अपि ते स्त्री-गण-परिवृतस्य नाना-वाद्य-गीत-तूर्य-नाद्यैर् उपगीयमानस्य सु-मनसः क्रीडतो रममाणस्य परिचारयतो मरण-भय-भीतस्य + अतीव दुष्ख-दौर्मनस्याभ्यां काल-क्रिया भविष्यति । एवम् अपि ते महा-राज गृहेषु + उपलेपन-उपलिप्तेषु सु-स्थापित-अर्गलेषु सु-पिहित-वात-आयनेषु बहु-गन्ध-धूप-पुष्प-तैल-वर्ति-प्रज्वालितेष्व् आसक्त-पट्ट-दाम-कलापेषु मुक्त-कुसुम-अवकीर्णेषु गन्ध-घटिका-निर्धूपितेषु

अ-न्यस्त-पाद-पीठ-पटिका-आस्तरण-गोणिका-आस्तरण-काच-लिन्दिक-प्रावरण-स-अन्तर-उछद-पटिका-उभय-कृत-उपधानेषु पर्यङ्केषु शयित्वा । पुनश् च शृगाल-काक-गृध्र-मृतक-डेवर-मांस-अस्थि-केश-रुधिर-वश-आकुले परम-बीभत्से श्मशाने गत-चेष्टस्य + आत्म-भावः पृथिव्याम् अ-वशः शेष्यते । एवम् अपि ते महा-राज गज-स्कन्ध-अश्व-पृष्ठ-रथ-अभिरूढस्य शङ्ख-पटहेष्व् आहन्यमानेषु छत्रेण धार्यमाणेन बाल-व्यजनेन वीजयमानस्य + अन्-एक-हस्त्य्-अश्व-रथ-पदातिभिर् अनुयातस्य + अञ्जलि-शत-सहस्रैर् नमस्-क्रियमाणस्य । निर्गमनम् अनुभूय न चिरान् निश्-चेष्टस्य मृत-शयन-अभिरूढस्य चतुर्भिः पुरुषैर् उत्क्षिप्तस्य दक्षिणेन नगर-द्वारेण निर्णीतस्य माता-पितृ-भ्रातृ-भगिनी-भार्या-पुत्र-दुहितृ-वयस्य-दासी-दास-कर्म-कर-पौरुषेयैः शोक-गत-हृदयैर् विक्षिप्त-केशैर् उत्क्षिप्त-भुजैः स-उरस्-ताडं परम-करुणं । हा पुत्र हा नाथ हा तात हा स्वामिन्न् इत्य् आक्रन्दमानैः पौर-जानपदैः स-परिभाव-दृश्यमानस्य श्मशानं नीतस्य पुनः काक-गृध्र-श्व-शृगाल-आदिभिर् भक्षितस्य तान्य् अस्थीन्य् अग्निना वा दग्धानि पृथिव्यां वा निखानितानि अद्भिर् वा क्लिन्नानि वात-आताप-वर्षैर् वा चूर्णी-कृतानि दिग्-वि-दिक्षु प्रक्षिप्तानि तत्र + एव पूत-भवम् आयास्यन्ति । एवम् अ-नित्याः सर्व-संस्कारा एवम् अ-ध्रुवा इति विस्तरः ॥

तत्र क्लेशाः प्राधान्येन राग-द्वेष-मोहा यस्य + एषाम् एकतरस्य तावत् प्रति-पक्षम् आदौ भावयेत् तन्-निदानं च वर्जयेत् ॥

तत्र + आर्य-रत्न-मेघे तावद् आह । स रागस्य प्रति-पक्षं भजते । राग-उत्पत्ति-प्रत्ययांश् च वर्जयति । कतमश् च स रागस्य प्रति-पक्षः । कतमे च ते राग-उत्पत्ति-प्रत्ययाः । अ-शुभा-भावना + अ-रागस्य प्रति-पक्षः । जन-पद-कल्याणी-राग-उत्पत्ति-प्रत्ययः । कतमा च सा + अ-शुभा-भावना । यद् उत सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वक् मांस-अस्थि स्नायुः शिरा वृक्का हृदयं प्लीहकः क्लोमकः । अन्त्राण्य् अन्त्र-गुण आम-आशयः पक्व-आशयः । औदर्यकं यकृत् पुरीषम् अश्रु स्वेदः खेटः सिङ्घाणकं वसा लसिका मज्जा मेदः पित्तं श्लेश्मा पूयं शोणितं मस्तकं मस्तक-लुङ्गं प्रस्रावः । एषु च वस्तुषु बोधि-सत्व उपपरीक्षण-जातीयो भवति । तस्य + एवम् उपपरीक्षमाणस्य + एवं भवति । यो * अपि तावत् स्याद् बालो मूढः अ-भव्यो * अ-कुशलः सो * अपि तावद् एतानि वस्तूनि ज्ञात्वा राग-चित्तं न + उत्पादयेत् । प्राग् एव स-प्रज्ञ-जातीयः । एवं हि बोधि-सत्वो * अ-शुभा-भावना-बहुलो भवति + इति ॥

भगवत्याम् अप्य् उक्तं । पुनर् अ-परं सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एवं कायं यथा-भूतं प्रजानाति । तद् यथा + अपि नाम सुभूते गो-घातको वा गो-घातक-अन्ते-वासी वा गां हत्वा तीक्ष्णेन शस्त्रेण चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितो * अथ-वा निषण्णः । एवम् एव सुभूते बोधि-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एव कायं धातुशो यथा-भूतं प्रजानाति । अस्त्य् अस्मिन् काये पृथिवी-धातुर् अब्-धातुर् अपि तेजो-धातुर् अपि वायु-धातुर् अपि + इति । पे ॥

पुनर् अप्य् आह । तद् यथा + अपि सुभूते कर्षकस्य मूतोडी पूर्णा नाना-धान्यानां शालीनां व्रीहीणां तिलानां तण्डुलानां मुद्रानां माषाणां यवानां गो-धूमानां मशूराणां सर्षपाणां ।तान् एतान् चक्षुष्मान् पुरुषः प्रत्यवेक्षमाणः । एवं-जातीयाद् अयं शालिर् अयं व्रीहिर् अमी तिला अमी तण्डुला अमी मुद्रा अमी माषा यवा अमी गो-धूमा अमी मशूरा अमी सर्षपा इति ॥

एवम् एव बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एव कायम् ऊर्द्ध्वं पाद-तलाद् अधः केश-मस्तक-नख-रोम-त्वक् रोम-पर्यन्तं पूर्णं नाना-प्रकारस्य + अ-शुचेर् यथा-भूतं प्रत्यवेक्षते । सन्त्य् अस्मिन् काये केशा रोमाणि नखा यावन् मस्तकं मस्तक-लुङ्गम् अक्षि-गूथं कर्ण-गूथम् इति ॥ पे ॥

पुनर् अ-परं सुभूते बोधि-सत्वः श्मशान-गतः पश्यति नाना-रूपाणि मृत-शरीराणि श्मशाने * अपविद्धानि शव-शयने उज्झितानि एक-अह-मृतानि वा द्व्य्-अह-मृतानि वा त्र्य्-अह-मृतानि वा चतुर्-अह-मृतानि वा पञ्च-अह-मृतानि वा व्याध्मातकानि विनीलकानि विपूयकानि विपठ्यकानि । स इमम् एव कायं तत्र + उपसंहरति । अयम् अपि काय एवं-धर्मा एवं-स्व-भावः । एतां धर्मताम् अ-व्यतिवृत्तए इति ॥

एवं हि सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन् बहिर्-धा काये काय-अनुदर्शी विहरति ॥ पे ॥

पुनर् अ-परं यदा मृत-शरीराणि श्मशाने उत्सृष्टानि पश्यति । षड्-रात्र-मृतानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा श्वभिर् वा शृगालैर् वा ततो * अन्यैर् वा नाना-विधैः प्राणक-जातैः खाद्यमानानि स इमम् एव कायं तत्र + उपसंहरति । अयम् अपि काय एवं-धर्मा एवं-स्व-भावः । एतां धर्मतां न व्यतिवृत्तए इति ॥

पुनर् अ-परं यदा मृत-शरीराणि पश्यति श्मशाने उत्सृष्टानि विखादितान्य् अ-शुचीनि दुर्-गन्धानि । स इमम् एव कायं तत्र + उपसंहरति + इति पूर्व-वत् ॥ पे ॥

पुनर् अ-परं यदा पश्यति मृत-शरीराणि शिव-पथिकायाम् अस्थि-संकलिकां मांस-शोणित-म्रक्षितां स्नायु-विनिबद्धां ।स तत्र + इमम् एव कायम् इति पूर्व-वत् ॥

पुनर् अ-परं यदा मृत-शरीराणि पश्यति शिव-पथिकायाम् अस्थि-संकली-भूतानि अपगत-मांस-शोणित-स्नायु-बन्धनानि । स इमम् एव कायम् इति पूर्व-वत् ॥

पुनर् अ-परं यदा पश्यति शिव-पथिकायाम् अस्थीनि दिग्-वि-दिक्षु क्षिप्तानि । यद् उत + अन्येन पाद-अस्थीनि । अन्येन जङ्घ-अस्थीनि । अन्येन च + ऊर्व्-अस्थीनि । अन्येन श्रोणि-कटाहकं । अन्येन पृष्ठ-वंशम् अन्येन पार्श्वक-अस्थीनि । अन्येन ग्रीव-अस्थीनि । अन्येन बाह्व्-अस्थीनि । स इमम् एव कायम् उपसंहरति + इति पूर्व-वत् ॥ पे ॥

पुनर् अ-परं यदा पश्यति शिव-पथिकायाम् अस्थीन्य् अन्-एक-वार्षिकाणि वात-अनुपरिशोषितानि शङ्ख-सन्निभानि । इमम् एव कायं तत्र + उपसंहरति + इति पूर्व-वत् । अयम् अपि काय एवं-धर्मा एवं-स्व-भाव एतां धर्मतां न व्यतिवृत्तए इति ॥

पुनर् अ-परं सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन् यदा पश्यति शिव-पथिकायाम् अस्थीन्य् अन्-एक-वार्षिकाणि तिरो-भूतानि नीलानि कपोत-वर्णानि पूतीनि चूर्णक-जातानि पृथिव्यां पांसुना अ-सम-समी-भूतानि स इमम् एव कायं तत्र + उपसंहरति अयम् अपि काय एवं-धर्मा एवं-स्व-भावः । एतां धर्मतां न व्यतिवृत्तए इति ॥

एष तावत् समासतो रागस्य समुदाचार-प्रति-पक्षः । द्वेषस्य मैत्री प्रति-पक्षः । अ-प्रिय-सत्व-अ-दर्शनं च । तेन वा सह भोजन-आद्य्-एक-अर्थतया + अ-प्रीत्य्-उत्पादनं तत्र पर-सुखस्य + आशंसा प्रार्थना तृष्णा + अभिनन्दनं मैत्री । काम-राग-प्रत्य्-उपकार-हेतुभ्याम् अ-क्लिष्टः स्नेह इत्य् अर्थः ॥

सा त्रि-विधा + आर्य-अक्षयमति-सूत्रे * अभिहिता । सत्व-आरम्बणा मैत्री प्रथम-चित्त-उत्पादिकानां बोधि-सत्वानां । धर्म-आरम्बणा चर्या-प्रतिपन्नानां बोधि-सत्वानां । अन्-आरम्बणा मैत्री अन्-उत्पत्तिक-धर्म-क्षान्ति-प्रतिलब्धानां बोधि-सत्वानाम् इति ॥

पुनर् बुद्ध-आरम्बणा बोधि-सत्व-आरम्बणा श्रावक-प्रत्य्-एक-बुद्ध-आरम्बणा सत्व-आरम्बणा च । तत्र सत्व-आरम्बणायाः पूर्वं प्रिये सत्वे हित-सुख-उपसंहारान् न ध्यानम् अभ्यस्य । तत्-समे मैत्रीम् उपसंहरेत् । ततः परिचितेषु । तत उदासीनेषु । ततः समीप-वासिषु । ततः स्व-ग्राम-वासिषु । एवं पर-ग्रामे च । एवं यावद् एकां दिशम् अधिमुच्य स्फरित्वा + उपसंपद्य विहरति । एवं दशसु दिक्षु । बुद्ध-आद्य्-आरम्बणायास् त्व् अयं प्रयासो न + अस्ति ॥

सा च वज्र-ध्वज-परिणामनायाम् उक्ता । स बोध्i-satva-caryआयां चरन् यावन्ति कानि-चिद् दृश्यन्ते रूपाणि मनो-ज्ञानि वा प्रति-कूलानि वा । एवं शब्दा गन्धा रसा स्प्रष्टव्या धर्मा मनो-ज्ञा वा प्रति-कूला वा । अन्-अवद्या विशुद्धाः कल्याण-उदार-प्रभास्वरा वा येन सौमनस्यं जायते । सुखम् अवक्रामति । प्रसादो जायते । प्रीतिः संभवति । प्रामोद्यं संतिष्ठते । हर्षः प्रादुर्-भवति । दौर्मनस्यं निवर्तते । चित्त-कल्यता प्रादुर्-भवति । चित्तं कर्मण्यं भवति । आशयो मृदु-भवति । इन्द्रियाणि प्रह्लादं गच्छन्ति । सतत-सुखं संवेदयमान एवं परिणामयति । सर्व-बुद्धानाम् एतया परिणामनया भूयस्या मात्रया ते बुद्धा भगवन्तो * अ-चिन्त्येन बुद्ध-विहार-सुखेन समन्वागता भवन्त्व् अ-तुल्येन बुद्ध-समाधि-सुखेन सु-संगृहीता भवन्त्व् अन्-अन्त-सुखेन भूयस्या मात्रया + उपस्तब्धा भवन्तु । अ-प्रमाणेन बुद्ध-विमोक्ष-सुखेन समन्वागता भवन्तु । अ-प्रमेयेण बुद्ध-प्रातिहार्य-सुखेन सु-संगृहीता भवन्तु । अ-चिन्त्येन बुद्ध-अ-संग-विहार-सुखेन सु-परिगृहीता भवन्तु । दुर्-आसदेन बुद्ध-वृषभित-सुखेन + अभिछन्ना भवन्तु । अ-प्रमेयेण बुद्ध-बल-सुखेन + आत्यन्त-सुखिता भवन्तु । सर्व-वेदित-शान्तेन + अन्-उत्पत्ति-सुखेन + अधिकार-सुखा भवन्तु । अ-संग-विहार-सतत-समाहितेन तथा-गत-सुखेन + अ-द्वय-समुदाचारेण + अ-विकोपित-सुखा भवन्तु ॥

एवं बोधि-सत्वस् तत्-कुशल-मूलं तथा-गतेषु परिणमय्य बोधि-सत्वेषु परिणमयति । यद् इदम् अ-परिपूर्णानाम् अभिप्रायाणां परिपूर्णाय परिणमयति । अ-परिशुद्धानां सर्व-ज्ञता-अध्याशयानां परिशुद्धये । अ-परिनिष्पन्नानां सर्व-पारमितानां परिनिष्पत्तये । वज्र-उपमस्य बोध्i-citta-utpआदस्य + अधिष्ठानाय । अ-निवर्त्यस्य सर्व-ज्ञता-संनाहस्य + अ-प्रतिप्रस्रब्धये । बोधि-सत्वानां कुशल-मूलानां मार्गणतायै । सर्व-जगत्-समता-स्थितस्य महा-प्रणिधानस्य परिपूरये । सर्व-बोध्i-satva-vihआराणाम् अधिगमाय । सर्व-बोध्i-satva-indriyआणां तीक्ष्ण-अभिज्ञतायै । सर्व-बोध्i-satva-kuशल-मूलानां सर्व-ज्ञता-स्पर्शनतायै ॥

स एवं तत्-कुशल-मूलं बोधि-सत्वानाम् अर्थाय परिणमय्य बुद्ध-शासन-अवचरेषु सर्व-श्रावक-प्रत्य्-एक-बुद्धेषु तत्-कुशल-मूलम् एवं परिणामयति । ते के-चित् सत्वा एक-अच्छट-अ-संहात-मात्रम् अपि बुद्ध-शब्दं सृण्वति । धर्म-शब्दं वा + आर्य-संघ-पर्युपासनं वा कुर्वन्ति तेषां तत्-कुशल-मूलम् अन्-उत्तरायै सम्यक्-संबोधये परिणामयति बुद्ध-अनुस्मृति-परिपूर्यै परिणामयति । धर्म-अनुस्मृति-प्रयोगतायै परिणामयति । आर्य-संघ-गौरवाय परिणामयति । अ-चिर-हित-बुद्ध-दर्शनतायै परिणामयति । चित्त-परिशुद्धये परिणामयति । बुद्ध-धर्म-प्रतिवेधाय परिणामयति । अ-प्रमेय-गुण-प्रतिपत्तये परिणामयति । सर्व-अभिज्ञा-कुशल-परिशुद्धये परिणामयति । धर्म-vi-mati-vinivartअनाय परिणामयति । यथा बुद्ध-शासन-अवचरेषु परिणामयति । श्रावक-प्रत्य्-एक-बुद्धेषु च तथा बोधि-सत्वः सर्व-सत्वेषु तत्-कुशल-मूलं परिणामयति ॥

यद् इदं नैरयिक-मार्ग-विनिवर्तनाय परिणामयति । तिर्यग्-योनि-व्यवच्छेदाय परिणामयति । यम-लोक-उपच्छेद-सुखाय परिणामयति । निर्-अवशेष-सर्व-अपाय-गत्य्-उपपत्ति-व्यवच्छेदाय परिणामयति ॥

तेषां च सर्व-सत्वानाम् अन्-उत्तर-बोध्i-chanda-vivardhaनतायै परिणामयति । अध्याशय-सर्व-ज्ञता-चित्त-लाभाय परिणामयति । सर्व-बुद्ध-धर्म-अ-प्रतिक्षेपाय परिणामयति । अत्य्-अन्त-सुख-सर्व-ज्ञता-भूमि-संवर्तनाय परिणामयति । अत्य्-अन्त-सर्व-सत्व-विशुद्धये परिणामयति । सर्व-सत्वानाम् अन्-अन्त-ज्ञान-अधिगमाय परिणामयति । पे ॥

तस्य यत् किञ्-चिच् चीवर-पिण्ड-पात-शयन-आसन-ग्लान-प्रत्यय-भैषज्य-गमन-आगमन-शरीर-उपस्थान-निषद्य-आदि-निषेवण-आयतनानां प्रवर्तन-कर्म ईर्या-पथ-अधिष्ठानम् ईर्या-पथस्य + अ-विकोपनं काय-कर्म वाक्-कर्म मनस्-कर्म स-चुरितं षण्णाम् इन्द्रियाणां संवरः स्व-शरीर-आछादन-मर्दन-स्नान-कर्म । अशित-पीत-खादितं संमिञ्जित-प्रसारित-अवलोकित-विलोकित-सुप्त-जागरित-स्व-शरीर-गत-उपस्थानं सर्वम् एतद् बोधि-सत्वस्य सर्व-ज्ञता-आलम्बन-प्रयुक्तस्य न किञ्-चिद् अ-परिणामितं सर्व-ज्ञतायां सर्व-सत्व-हित-सुख-चित्तस्य ॥ पे ॥

सर्व-जगत्-परित्राण-मनसो नित्य-उद्युक्त-कुशल-मूलस्य मद-प्रमाद-व्यतिवृत्तस्य ॥ पे ॥

सर्व-क्लेश-पराङ्-मुखस्य सर्व-बोध्i-satva-anuशिक्षण-चेतसः सर्व-ज्ञता-मार्ग-अ-प्रतिहतस्य ज्ञान-भूमि-निषेवणस्य पण्डित-संवास-अभिरतस्य । पे ॥

मधु-कर इव कुशल-मूल-संभरणस्य सर्व-जगd-uccalita-santआनस्य + अन्-अभिनिविष्ट-सर्व-संस्कारस्य । पे ॥

अन्तशः श्वस्व् अपि तद् अन्येष्व् अपि तिर्यग्-योनि-गतेष्व् एक-ओदन-उन्मिञ्जितम् एक-आलोपं वा परित्यजति । सु-गताव् उपपत्तिषु तत् सर्वं तेषाम् एव हिताय तेषाम् एव परिमोचनाय परिणामयति । तस्यास् तिर्यग्-योनेस् तस्माद् दुष्ख-आर्णवात् तस्माद् दुष्ख-उपादानात् तस्माद् दुष्ख-स्कन्धात् तस्माद् दुष्खा-वेदनायाः । तस्माद् दुष्ख-उपचयात् तस्माद् दुष्ख-अभिसंस्कारात् तस्माद् दुष्ख-निदानात् ततो दुष्ख-मूलात् तस्माद् दुष्ख-आयतनात् तेषां सत्वानां विनिवर्तनाय परिणामयति तद्-आरम्बणेन च सर्व-सत्व-आरम्बणी-करोति मनसि-करोति । तत्र कुशल-मूले पूर्वङ्-गमी-करोति । यद् इदं सर्व-ज्ञतायां परिणामयति । बोध्i-citta-utpआदेन प्रतिगृह्णाति । तत्र कुशल-मूलम् उपनयति । संसार-कान्ताराद् विनिवर्तयति । अन्-आवरणेन बुद्ध-सुखेन + अभिमुखी-करोति । संसार-सागराद् उन्मज्जयति । बुद्ध-धर्म-प्रयुक्ताय मैत्र्या स्फरति + इत्य् आदि ॥

इमाश् च सुवर्ण-भास-उक्ता मैत्री-करुणा-गर्भा गाथाः सर्वा आदरतः समन्वाहृत्य भावयितव्या अन्तशो वचसा + अपि ॥

सुवर्ण-भास-उत्तम-दुन्दुभेन शाम्यन्तु दुष्खास् त्र्i-sahasra-loke । अपाय-दुष्खा यम-लोक-दुष्खा दारिद्र्य-दुष्खाश् च इह त्रि-लोके ॥

अनेन च + उ दुन्दुभि-घोष-नादिना शाम्यन्तु सर्व-व्यसनानि लोके । भवन्तु सत्वा ह्य् अ-भय-आहता तथा यथा + अ-भयाः शान्त-भयाः मुनि-इन्द्राः ॥

यथा + एव सर्व-आर्य-गुण-उपपन्नाः संसार-सर्व-ज्ञ-महा-समुद्राः । तथा + एव भोन्तू गुण-सागराः प्रजाः समाध्i-bodhy-aङ्ग-गुणैर् उपेताः ॥

अनेन च + उ दुन्दुभि-घोष-नादिना भवन्तु ब्रह्म-स्वर सर्व-सत्वाः । स्पृशन्तु बुद्धत्व-वर-अग्र-बोधिं प्रवर्तयन्तू शुभ-धर्म-चक्रम् ॥

तिष्ठन्तु कल्पानि अ-चिन्तियानि देशेन्तु धर्मं जगतो हिताय । हनन्तु क्लेशान् विधमन्तु दुष्खान् समेन्तु रागं तथ दोष मोहम् ॥

ये सत्व तिष्ठन्ति अपाय-भूमौ आदीप्त-संप्रज्वलित-अस्थि-गात्राः । शृण्वन्तु ते दुन्दुभि-संप्रवादितं नमो * अस्तु बुद्धाय भणन्तु वाचम् ॥

जाति-स्मराः सत्वा भवन्तु सर्वे जाती-शतं जात्i-sahasra-koट्यः । अनुस्मरन्तू सततं मुनि-इन्द्रान् शृण्वन्तु तेषां वचनं ह्य् उदारं ॥

अनेन च + उ दुन्दुभि-घोष-नादिना लभन्तु बुद्धेहि समागमं सदा । विवर्जयन्तू खलु पाप-कर्म चरन्तु कुशलानि शुभ-क्रियाणि ॥

सर्वत्र क्षेत्रेषु च सर्व-प्राणिनां सर्वे च दुष्खाः प्रशमन्तु लोके । ये सत्व vi-kala-indriya अङ्ग-हीनाः ते सर्वि स-कल-इन्द्रिय भोन्तु सांप्रतम् ॥

ये व्याधिता दुर्-बल-क्षीण-गात्रा निस्-त्राण-भूताः शयिता दिशासु । ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु च + आरोग्य बल-इन्द्रियाणि ॥

ये राज-चौर-भट तर्जित वध्य-प्राप्ता नाना-विधैर् भय-शतैर् व्यसन-उपपन्नाः । ते सर्वि सत्व व्यसन-आगत-दुष्खिता हि मुच्यन्तु तैर् भय-शतैः परमैः सु-घोरैः ॥

ये ताडिता बन्धन-बद्ध-पीडिता विविधेषु व्यसनेषु च संस्थिताहि । अन्-एक आयास-सहस्र आकुला विचित्र-भय-दारुण-शोक-प्राप्ताः ॥

ते सर्वि मुच्यन्त्व् इह बन्धनेभ्यः संताडिता मुच्यिषु ताडनेभ्यः । वध्याश् च संयुज्यिषु जीवितेन व्यसन-आगता निर्-भय भोन्तु सर्वे ॥

ये सत्व क्षुत्-तर्ष-पिपास-पीडिता लभन्तु ते भोजन-पान-चित्रम् । अन्धाश् च पश्यन्तु विचित्र-रूपां बधिराश् च शृण्वन्तु मनो-ज्ञ-घोषान् ॥

नग्नाश् च वस्त्राणि लभन्तु चित्रां दरिद्र-सत्वाश् च निधिं लभन्तु । प्रभूत-धन-धान्य-विचित्र-रत्नैः सर्वे च सत्वाः सुखिनो भवन्तु ॥

मा कस्य-चिद् भावतु दुष्ख-वेदनाः सौख्य-अन्विताः सत्व भवन्तु सर्वे । अभिरूप-प्रासादिक-सौम्य-रूपा अन्-एक सुख संचित नित्य भोन्तु ॥

मनस-अन्न-पानाः सु-समृद्ध-पुण्याः सह चित्त-मात्रेण भवन्तु तेषां । वीणा मृदङ्गाः पणवाः सु-घोषकाः उत्सा सराः पुष्करिणी तडागाः ॥

सुवर्ण-पद्म-उत्पल-पद्मिनीश् च सह चित्त-मात्रेण भवन्तु तेषाम् । गन्धं च माल्यं च विलेपनं च वासश् च चूर्णं कुसुमं विचित्रम् ॥

त्रिष्-काल-वृक्षेभि प्रवर्षयन्तु गृह्णन्तु ते सत्व भवन्तु हृष्टाः । कुर्वन्तु पूजां दशसू दिशासु अ-चिन्तियां सर्व-तथा-गतानाम् ॥

स बोधि-सत्वान् अथ श्रावकाणां धर्मस्य बोधि प्रतिसृष्टि तस्य । नीचां गतिं सत्व विवर्जयन्तु भवन्तु अष्ट-अक्षण-वीति-वृत्ताः ॥

आसादयन्तू जिन-राजम् उत्तमं लभन्तु बुद्धेहि समागमं सदा । सर्वा स्त्रियो नित्य नरा भवन्तु शूराश् च वीरा विदु-पण्डिताश् च ॥

ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु । पश्यन्तु बुद्धान् दशसू दिशासु रत्न-द्रुम-इन्द्रेषु सुख-उपविष्टान् । वैडूर्य-रत्न-आसन-संनिषण्णान् धर्मांश् च शृण्वन्तु प्रकाश्यमानान् । इति ॥

एषा संक्षेपतो मैत्री ॥

द्वेष-समुदाचार-प्रति-पक्षः ॥

मोह-अनुशयस्य प्रतीत्य-समुत्पाद-दर्शनं प्रति-पक्षः ॥

तत्र प्रतीत्य-समुत्पादः शाli-stamba-sऊत्रे * अभिहितः । तत्र + आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य हेतु-उपनिबन्धः कतमः । यद् इदम् अ-विद्या-प्रत्ययाः संस्कारा यावज् जाति-प्रत्ययं जरा-मरणम् इति । अ-विद्या चेन् न + अभविष्यन् न + एव संस्काराः प्राज्ञास्यन्त । एवं यावद् यदि जातिर् न + अभविष्यन् न जरा-मरणं प्राज्ञास्यत । अथ सत्याम् अ-विद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति । एवं यावज् जात्यां सत्यां जरा-मरणस्य + अभिनिर्वृत्तिर् भवति । तत्र + अ-विद्याया न + एवं भवति । अहं संस्कारान् अभिनिर्वर्तयामि + इति । संस्काराणाम् अप्य् एवं न भवति । वयम् अ-विद्यया + अभिनिर्वृत्ता इति । एवं यावज् जात्या न + एवं भवति । अहं जरा-मरणम् अभिनिर्वर्तयामि + इति । जरा-मरणस्य + अपि न + एवं भवति । अहं जात्या निर्वृत्त इति ।अथ च सत्याम् अ-विद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति प्रादुर्-भावः । एवं यावज् जात्यां सत्यां जरा-मरणस्य + अभिनिर्वृत्तिर् भवति प्रादुर्-भावः ॥

एवम् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य हेतु-उपनिबन्धो द्रष्टव्यः ॥

कथम् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य प्रत्यय-उपनिबन्धो द्रष्टव्य इति । षण्णां धातूनां समवायात् । कतम् एषां षण्णां धातूनां समवायात् । यद् इदं पृथिव्य्--अप्-तेजो-वाय्व्-आकाश-विज्ञान-धातूनां समवायाद् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य प्रत्यय-उपनिबन्धो द्रष्टव्यः ॥

तत्र + आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य पृथिवी-धातुः कतम इति । यो * अयं कायस्य संश्लेषतः कठिन-भावम् अभिनिर्वर्तयत्य् अयम् उच्यते पृथिवी-धातुः । यः कायस्य + अनुपरिग्रहं कृत्यं करोति अयम् उच्यते * अब्-धातुः । यः कायस्य + अशित-पीत-भक्षितं परिपाचयति अयम् उच्यते तेजो-धातुः । यः कायस्य + आश्वास-प्रश्वास-कृत्यं करोत्य् अयम् उच्यते वायु-धातुः । यः कायस्य + अन्तः-सौषिर्य-भावम् अभिनिर्वर्तयत्य् अयम् उच्यते आकाश-धातुः । यो नाम-रूपम् अभिनिर्वर्तयति नड-कलाप-योगेन पञ्च-विज्ञान-काय-संप्रयुक्तं स-आस्रवं च मनो-विज्ञानम् अयम् उच्यते विज्ञान-धातुः ॥

अ-सत्सु प्रत्ययेषु कायस्य + उत्पत्तिर् न भवति । यदा + आध्यात्मिकः पृथिवी-धातुर् अ-विकलो भवत्य् एवम् अप्-तेजो-वाय्व्-आकाश-विज्ञान-धातवश् च + अ-विकला भवन्ति । ततः सर्वेषां समवायात् कायस्य + उत्पत्तिर् भवति ॥

तत्र पृथिवी-धातोर् न + एवं भवति । अहं कायस्य कठिन-भावम् अभिनिर्वर्तयामि + इति । अब्-धातोर् न + एवं भवति । अहं कायस्य + अनुपरिग्रह-कृत्यं करोमि + इति । तेजो-धातोर् न + एवं भवति । अहं कायस्य + अशित-पीत-खादितं परिपाचयामि + इति । वायु-धातोर् न + एवं भवति । अहं कायस्य + आश्वास-प्रश्वास-कृत्यं करोमि + इति । आकाश-धातोर् न + एवं भवति । अहं कायस्य + अन्तः सौर्षिर्यं करोमि + इति । विज्ञान-धातोर् न + एवं भवति । अहम् एभिः प्रत्ययैर् जनित इति । अथ च सत्स्व् एषु प्रत्ययेषु कायस्य + उत्पत्तिर् भवति । तत्र पृथिवी-धातुर् न + आत्मा न सत्वो न जीवो न जन्तुर् न मनु-जो न मानवो न स्त्री न पुमान् न न-पुंसकं । न च + अहं । न मम । न च अप्य् अन्यस्य कस्य-चित् । एवम् अब्-धातुस् तेजो-धातुर् वायु-धातुर् आकाश-धातुर् विज्ञान-धातुर् न सत्वो न जीवो न जन्तुर् न मनु-जो न मानवो न स्त्री न पुमान् न न-पुंसकं न च + अहं न मम न च + अप्य् अन्यस्य कस्य-चित् ॥

तत्र + अ-विद्या कतमा । या एष्व् एव षट्सु धातुष्व् एक-संज्ञा पिण्ड-संज्ञा नित्य-संज्ञा ध्रुव-संज्ञा शाश्वत-संज्ञा सुख-संज्ञा आत्म-संज्ञा सत्व-जीव-मनु-ज-मानव-संज्ञा । अहं-कार-मम-कार-संज्ञा । एवम्-आदि विविधम् अ-ज्ञानम् इयम् उच्यते * अ-विद्या + इति । एवम् अ-विद्यायां सत्यां विषयेषु राग-द्वेष-मोहाः प्रवर्तन्ते । तत्र ये राग-द्वेष-मोहा विषयेष्व् अमी उच्यन्ते संस्कारा इति । वस्तु-प्रति-विज्ञप्तिर् विज्ञानं । विज्ञान-सह-जाश् चत्वारो * अ-रूपिण उपादान-स्कन्धास् तन् नाम-रूपं । चत्वारि च महा-भूतानि च + उपादाय उपादाय र् ऊपम् ऐकध्यम् अभिसंक्षिप्य तन् नाम-रूपं । नाम-रूप-संनिश्रितानि + इन्द्रियाणि षड्-आयतनं । त्रयाणां धर्माणां संनिपातः स्पर्शः । स्पर्श-अनुभवना वेदना । वेदना-अध्यवसानं तृष्णा । तृष्णा वैपुल्यम् उपादानं । उपादान-निर्जातं पुनर्-भव-जनकं कर्म । भवः । तd-dhetuka-skandha-prआदुर्-भावो जातिः । स्कन्ध-परिपाको जरा विनाशो मरणं । म्रियमाणस्य मूढस्य स्व-अभिष्वङ्गस्य + अन्तर्-दाहः शोकः । लालप्यनं परिदेवः । पञ्च-विज्ञान-काय-संप्रयुक्तम् अ-शात-अनुभवनं दुष्खं । मनसि-कार-संप्रयुक्तं मानसं दुष्खं दौर्मनस्यम् । ये च + अन्यए एवम्-आदय उपक्लेशास् तए उपायासाः ॥ पे ॥

पुनर् अ-परं तत्वे * अ-प्रतिपत्तिः मिथ्या प्रतिपत्तिः अ-ज्ञानम् अ-विद्या । एवम् अ-विद्यायां सत्यां त्रि-विधाः संस्काराः अभिनिर्वर्तन्ते । पुण्य-उपगा अ-पुण्य-उपगा आनिञ्ज्य-उपगाश् च + इमए उच्यन्ते * अ-विद्या-प्रत्ययाः संस्कारा इति । पुण्य-उपगानां संस्काराणां पुण्य-उपगम् एव विज्ञानं भवति । अ-पुण्य-उपगानां संस्काराणाम् अ-पुण्य-उपगम् एव विज्ञानं भवति । आनिञ्ज्य-उपगानां संस्काराणाम् आनिञ्ज्य-उपगम् एव विज्ञानं भवति । इदम् उच्यते संस्कार-प्रत्ययं विज्ञानम् इति । एवं नाम-रूपं । नाम-रूप-विवृद्ध्या षड्भिर् आयतन-द्वारैः कृत्य-क्रियाः प्रवर्तन्ते । तन् नाम-रूप-प्रत्ययं षड्-आयतनम् इत्य् उच्यते । षड्भ्य आयतनेभ्यः षट् स्पर्श-कायाः प्रवर्तन्ते * अयं षड्-आयतन-प्रत्ययः स्पर्श इत्य् उच्यते । यज्-जातीयः स्पर्शो भवति तज्-जातीया वेदना प्रवर्तते । इयं स्पर्श-प्रत्यया वेदना + इत्य् उच्यते । यस् तां वेदयति विशेषेण + आस्वादयति । अभिनन्दत्य् अध्यवस्यत्य् अत्यधितिष्ठति । सा वेदना-प्रत्यया तृष्णा + इत्य् उच्यते । आस्वादन-अभिनन्दन-अध्यवसानं । मा मे प्रिय-रूप-शात-रूपैर् वियोगो भवत्व् इति । अ-परित्यागो भूयो भूयश् च प्रार्थना । इदं तृष्णा-प्रत्ययम् उपादानम् इत्य् उच्यते । एवं प्रार्थयमानः पुनर्-भव-जनकं कर्म समुत्थापयति कायेन वाचा मनसा । अयम् उपादान-प्रत्ययो भव इत्य् उच्यते । या कर्म-निर्जातानां स्कन्धानाम् अभिनिर्वृत्तिः सा भव-प्रत्यया जातिर् इत्य् उच्यते । यो जात्य्-अभिनिर्वृत्तानां स्कन्धानाम् उपचय-परिपाकाद् विनाशो भवति । तद् इदं जाति-प्रत्ययं जरा-मरणम् उच्यते ॥ पे ॥

एवम् अयं द्वादश-अङ्गः प्रतीत्य-समुत्पादो * अन्यो-न्य-हेतुको * अन्यो-न्य-प्रत्ययतो । न + एव + अ-नित्यो न नित्यो । न संस्कृतो न + अ-संस्कृतो । न वेदयिता । न क्षय-धर्मो न निरोध-धर्मो । न वि-राग-धर्मो । अन्-आदि-कार-प्रवृत्तो * अन्-उद्भिन्नो * अनुप्रवर्तते नदी-स्रोत-वत् ॥

अथ च + इमान्य् अस्य द्वादश-अङ्गस्य प्रतीत्य-समुत्पादस्य चत्वारि अङ्गानि संघात-क्रियायै हेतुत्वेन प्रवर्तन्ते । कतमानि चत्वारि । यद् उत । अ-विद्या तृष्णा कर्म विज्ञानं च । तत्र विज्ञानं बीज-स्व-भावत्वेन हेतुः । कर्म क्षेत्र-स्व-भावत्वेन हेतुः । अ-विद्या तृष्णा च क्लेश-स्व-भावत्वेन हेतुः । कर्म-क्लेशा विज्ञान-बीजं संजनयन्ति । तत्र कर्म विज्ञान-बीजस्य क्षेत्र-कार्यं करोति । तृष्णा विज्ञान-बीजं स्नेहयति । अ-विद्या विज्ञान-बीजम् अवकिरति । अ-सतां येषां प्रत्ययानां बीजस्य + अभिनिर्वृत्तिर् न भवति ॥

तत्र कर्मणो न + एवं भवति । अहं विज्ञान-बीजस्य क्षेत्र-कार्यं करोमि + इति । तृष्णाया अपि न + एवं भवति ।अहं विज्ञान-बीजं स्नेहयामि + इति । अ-विद्याया अपि न + एवं भवति । अहं विज्ञान-बीजम् अवकिरामि + इति । विज्ञान-बीजस्य + अपि न + एवं भवत्य् अहम् एभिः प्रत्ययैर् जनित इति । अपि तु विज्ञान-बीजे कर्म-क्षेत्र-प्रतिष्ठिते तृष्णा-स्नेह-अभिष्यन्दिते * अ-विद्या-अवकीर्णे तत्र तत्र + उत्पत्त्य्-आयतन-सन्धौ मातुः कुक्षौ विरोहति । नाम-रूप-अङ्कुरस्य + अभिनिर्वृत्तिर् भवति । स च नाम-रूप-अङ्कुरो न स्वयं-कृतो न पर-कृतो न + उभय-कृतो न + ईश्वर-आदि-निर्मितो न काल-परिणामितो न च + एक-कारण-अधीनो न + अप्य् अ-हेतु-समुत्पन्नः । अथ च माता-पितृ-संयोगाद् ऋतु-समवायाद् अन्येषां च प्रत्ययानां समवायाद् आस्वाद-अनुप्रविद्धं विज्ञान-बीजं मातुः कुक्षौ नाम-रूप-अङ्कुर-बीजम् अभिनिर्वर्तयति । अ-स्वामिकेषु धर्मेष्व् अ-ममेष्व् अ-परिग्रहेष्व् अ-प्रत्य्-अर्थिकेष्व् आकाश-समेषु माया-लक्षण-स्व-भावेषु हेतु-प्रत्ययानाम् अ-वैकल्यात् ॥

तद् यथा पञ्चभिः कारणैश् चक्षुर्-विज्ञानम् उत्पद्यते । कतमैः पञ्चभिः ॥

चक्षुश् च प्रतीत्य रूपं च + आलोकं च + आकाशं तज्-जं च मनसि-कारं च प्रतीत्य + उत्पद्यते चक्षुर्-विज्ञानं ॥

तत्र चक्षुर्-विज्ञानस्य चक्षुर्-आश्रय-कृत्यं करोति । रूपम् आरम्बण-कृत्यं करोति । आलोको * अवभास-कृत्यं करोति । आकाशम् अन्-आवरण-कृत्यं करोति । तज्-ज-मनसि-कारः समन्वाहार-कृत्यं करोति । असत्स्व् एषु प्रत्ययेषु चक्षुर्-विज्ञानं न + उत्पद्यते ॥

यदा चक्षुर् आध्यात्मिकम् आयतनम् अ-विकलं भवति । एवं रूप-आलोक-आकाश-तज्-ज-मनसि-काराश् च + अ-विकला भवन्ति । ततः सर्व-समवायाच् चक्षुर्-विज्ञानस्य + उत्पत्तिर् भवति ॥

तत्र चक्षुषो न + एवं भवति । अहं चक्षुर्-विज्ञानस्य + आश्रय-कृत्यं करोमि + इति । रूपस्य + अपि न + एवं भवति । अहं चक्षुर्-विज्ञानस्य + आरम्बण-कृत्यं करोमि + इति । आलोकस्य + अपि न + एवं भवति । अहम् अवभास-कृत्यं करोमि + इति । आकाशस्य + अपि न + एवं भवति । अहं चक्षुर्-विज्ञानस्य + अन्-आवरण-कृत्यं करोमि + इति । तज्-ज-मनसि-कारस्य + अपि न एवं भवति । अहं चक्षुर्-विज्ञानस्य समन्वाहार-कृत्यं करोमि + इति । चक्षुर्-विज्ञानस्य + अपि न + एवं भवति । अहम् एभिः प्रत्ययैर् जनित इति । अथ च पुनः सत्स्व् एषु प्रत्ययेषु चक्षुर्-विज्ञानस्य + उत्पत्तिर् भवति प्रादुर्-भावः । एवं शेषाणाम् इन्द्रियाणां यथा-आयोगं कर्तव्यं ॥

तत्र न कश्-चिद् धर्मो * अस्माल् लोकात् परं लोकं संक्रामति । अस्ति च कर्म-फल-प्रतिविज्ञप्तिः । हेतु-प्रत्ययानाम् अ-वैकल्यात् । यथा + अग्निर् उपादान-वैकल्यान् न ज्वलति । एवम् एव कर्म-क्लेश-जनितं विज्ञान-बीजं तत्र तत्र + उत्पत्त्य्-आयतन-प्रति-सन्धौ मातुः कुक्षौ नाम-रूप-अङ्कुरम् अभिनिर्वर्तयति । अ-स्वामिकेषु धर्मेष्व् अ-ममेष्व् अ-परिग्रहेष्व् अ-प्रत्य्-अर्थिकेष्व् आकाश-समेषु माया-लक्षण-स्व-भावेषु हेतु-प्रत्ययानाम् अ-वैकल्यात् ॥

तन् न + आध्यात्मिकः प्रतीत्य-समुत्पादः पञ्चभिः कारणैर् द्रष्टव्यः ॥

कतमैः पञ्चभिः । न शाश्वततो न + उच्छेदतो न संक्रान्तितः । परीत्त-हेतुनो विपुल-फल-अभिनिर्वृत्तितस् तत्-सदृश-अनुप्रबन्धतश् च + इति ॥

कथं न शाश्वततः । यस्माद् अन्ये मारण-अन्तिकाः स्कन्धा अन्यए औपपत्त्य्-अंशिकाः । न तु यए एव मारण-अन्तिकाः स्कन्धास् तए एव + औपपत्त्य्-अंशिकाः स्कन्धा । अपि तु मारण-अन्तिकाश् च स्कन्धा निरुध्यमाना औपपत्त्य्-अंशिकाः स्कन्धाश् च प्रादुर्-भवन्ति । अतो न शाश्वततः ॥

कथं न + उच्छेदतः । न च निरुद्धेषु स्कन्धेषु औपपत्त्य्-अंशिकाः स्कन्धाः प्रादुर्-भवन्ति न + अप्य् अ-निरुद्धेषु । अपि तु मारण-अन्तिकाश् च स्कन्धा निरुध्यन्ते औपपत्त्य्-अंशिकाश् च प्रादुर्-भवन्ति । तुला-दण्ड-उन्नाम-अवनाम-वत् । अतो न + उच्छेदतः ॥

कथं न संत्रान्तितः । वि-सदृशात् सत्व-निकायाद् * धि स-भागाः स्कन्धा जात्य्-अन्तरे * अभिनिर्वर्तन्ते । अतो न संक्रान्तितः ॥

कथं परीत्त-हेतुतो विपुल-फल-अभिनिर्वृत्तितः परीत्तं कर्म क्रियते । विपुलः फल-विपाको * अनुभूयते । अतः परीत्त-हेतुतो विपुल-फल-अभिनिवृत्तिः ॥

कथं तत्-सादृश-अनुप्रबन्धतः । यथा वेदनीयं कर्म क्रियते । तथा वेदनीयो विपाको * अनुभूयते । अतस् तत्-सदृश-अनुप्रबन्धतश् च + इति ॥

यः कश्-चिद् भदन्त शारिपुत्र + इमं प्रतीत्य-समुत्पादं भगवता सम्यक्-प्रणीतम् एवं यथा-भूतं सम्यक्-प्रज्ञया सतत-समितम् अ-जीवं निर्-जीवं यथा-वद् अ-विपरीतम् अ-जातम् अ-भूतम् अ-कृतम् अ-संस्कृतम् अ-प्रतिघम् अन्-आवरणं शिवम् अ-भयम् अ-हार्यम् अ-व्ययम् अ-व्युपशमम् अ-स्व-भावं पश्यति । अ-सत्यतस् तुच्छत ऋक्ततो * अ-सारतो * अघतो * अ-नित्यतो दुष्खतः शून्यतो * अन्-आत्मनश् च समनुपश्यति । स न पूर्व-अन्तं प्रतिसरति । किम् अहम् अभूवम् अतीते * अध्वन्य् आहो स्विन् न + अभूवम् अतीते * अध्वनि । को न्व् अहम् अभूवम् अतीते * अध्वनि ॥

अ-पर-अन्तं वा पुनर् न प्रतिसरति । किं नु भविष्याम्य् अन्-आगते * अध्वन्य् आहो स्विन् न भविष्याम्य् अन्-आगते * अध्वनि । को नु भविष्यामि + इति । प्रत्य्-उत्पन्नं वा पुनर् न प्रतिसरति । किं स्विद् इदं कथं स्विद् इदं । के सन्तः के भविष्याम इति ॥

आर्य-दश-भूमके * अप्य् उक्तं । तत्र + अ-विद्या-तृष्णा-उपादानं च क्लेश-वर्त्मनो * अ-व्यवच्छेदः । संस्कारा भवश् च कर्म-वर्त्मनो * अ-व्यवच्छेदः । परिशेषं दुष्ख-वर्त्मनो * अ-व्यवच्छेदः । अपि तु खलु पुनर् यद् उच्यते * अविद्या-प्रत्ययाः संस्कारा इति । एषा पूर्व-अन्तिक्य् अपेक्षा ॥

विज्ञानं यावद् वेदना + इति । एषा प्रत्युत्पन्ना + अपेक्षा । तृष्णा यावद् भव इति । एषा + अ-पर-अन्तिक्य् अपेक्षा + अत ऊर्द्ध्वम् अस्य् प्रवृत्तिर् इति ॥ पे ॥

तस्य + एवं भवति । संयोगात् संस्कृतं प्रवर्तते । वि-संयोगान् न प्रवर्तते । सामग्र्याः संस्कृतं प्रवर्तते । वि-सामग्र्या न प्रवर्तते । हन्त वयम् एवं बहु-दोष-दुष्टं संस्कृतं विदित्वा + अस्य संयोगस्य + अस्याश् च सामग्र्या व्यवच्छेदं करिष्यामो । न च + अत्यन्त-उपशमं सर्व-संस्काराणाम् अधिगमिष्यामः सत्व-परिपाचनतायै । इति ॥

इदं संक्षेपान् मोह-शोधनं ॥

इति शिक्षा-समुच्चये चित्त-परिकर्म परिच्छेदो द्वादशमः ॥

[xiii. स्मृत्युपस्थानपरिच्छेद]

स्मृत्य्-उपस्थान-परिच्छेदः त्रयोदशः । एवं कर्मण्य-चित्तः स्मृत्य्-उपस्थानान्य् अवतरेत् ॥

तत्र + अ-शुभ-प्रस्तावेन काय-स्मृत्य्-उपस्थानम् उक्तम् ॥

तद् एव च भेद-लेशेन धर्म-संगीति-सूत्रे * अभिहितं । पुनर् अ-परं कुल-पुत्र बोधि-सत्व एवं काये स्मृतिम् उपस्थापयति । अयं कायः पाद-पाद-अङ्गुलि-जङ्घ-ऊरु-त्रिक-उदर-नाभि-पृष्ठ-वंश-हृदय-पार्श्व-पार्श्वका-हस्त-कलाची-बाह्व्-अंश-ग्रीवा-हनु-ललाट-शिरः-कपाल-मात्र-समूहः कर्म-भव-कारक-उपचितो नाना-क्लेश-संकल्प-विकल्प-शत-सहस्राणाम् आवास-भूतो । बहूनि च + अत्र द्रव्याणि समवहितानि । यद् उत । केश-रोम-नख-दन्त-अस्थ्i-carma-piशित-वपा-स्नायु-मेदो-वशा-लसीका-यकृन्-मूत्र-पुरीष-आम-आशय-रुधिर-खेट-पित्त-पूय-सिङ्घाणक-मस्तक-लुङ्गानि । एवम् बहु-द्रव्य-समूहः । तत् को * अत्र कायः । तस्य प्रत्यवेक्षमाणस्य + एवं भवति । आकाश-समो * अयं कायः । स आकाश-वत् काये स्मृतिम् उपस्थापयति । सर्वम् एतद् आकाशम् इति पश्यति । तस्य काय-परिज्ञान-हेतोर् न भूयः क्व-चित् स्मृतिः प्रसरति । न विसरति । न प्रतिसरति + इति ॥

पुनर् उक्तं । अयं कायो न पूर्व-अन्ताद् आगतो । न पर-अन्ते संक्रान्तो न पूर्व-अन्त-अ-पर-अन्त-अवस्थितो * अन्यत्र + अ-सद्-विपर्यास-संभूतः कारक-वेदक-रहितो न + आद्य्-अन्त-मध्ये प्रतिष्ठित-मूलः । अ-स्वामिकः । अ-ममः । अ-परिग्रहः । आगन्तुकैर् व्यवहारैर् व्यवह्रियते काय इति देह इति भोग इति आश्रय इति शरीरम् इति कुणप इति आयतनम् इति । अ-सारको * अयं कायो माता-पितृ-शोणित-शुक्र-संभूतो * अ-शुचि-पूत्i-dur-gandha-sva-bhआवो राग-द्वेष-मोह-भय-विषाद-तस्कर-आकुलो नित्यं शतन-पतन-भेदन-विकिरण-विध्वन्सन-धर्मा । नाना-व्याधि-शत-सहस्र-नीत इति ॥

आर्य-रत्न-चूडे * अप्य् आह । अ-नित्यो वत + अयं कायो * अ-चिर-स्थितिको मरण-पर्यवसान इति ज्ञात्वा न काय-हेतोर् विषमया जीवति । सारं च + एव + आदत्ते । स त्रीणि साराण्य् आदत्ते ।कतमानि त्रीणि । काय-सारं भोग-सारं जीवित-सारं च । सो * अ-नित्यः काय इति सर्व-सत्वानां दासत्व-शिष्यत्वम् अभ्युपगम्य किङ्-करणीयतायै उत्सुको भवति । अ-नित्यः काय इति सर्व-काय दोष-वङ्क-शाठ्य-कुहनां न करोति । अ-नित्यः काय इति जीवितेन + आश्वास-प्राप्तो जीवित-हेतोर् अपि पापं कर्म न करोति । अ-नित्यः काय इति भोगेषु तृष्णा-अध्यवसानं न करोति । सर्वस्व-परित्यागी + इव भवति + इति ॥

पुनर् अ-परं कुल-पुत्र बोधि-सत्वः काये काय-अनुदर्शन-स्मृत्य्-उपस्थानं भावयन् सर्व-सत्व-कायांस् तत्र स्व-कायए उपनिबध्नाति । एवं च + अस्य भवति । सर्व-सत्व-काया मया बुद्ध-काय-प्रतिष्ठान-प्रतिष्ठिताः कर्तव्याः । यथा च तथा-गत-काये न + आश्रवस् तथा स्व-काय-धर्मतां प्रत्यवेक्षते । सो न + आश्रव-धर्मता-कुशलः सर्व-सत्व-कायान् अपि तल्-लक्षणान् एव प्रजानाति + इत्य् आदि ॥

vīradatta-paripṛcchāyām apy uktam | yad uta + ayaṃ kāyo * anupūrva-samudāgato * anupūrva-vināśo parama-aṇu-saṃcayaḥ śuṣira unnāma-avanāmau nava-vraṇa-mukha-roma-kūpa-srāvī valmī-kava-dāsī-viṣa-nivāsaḥ [doubtful] | a-jāta-śatruḥ | markaṭa-van mitra-drohī | ku-mitra-vad vi-saṃvādana-ātmakaḥ | phena-piṇḍa-vat prakṛti-dur-balaḥ | udaka-budbuda-vad utpanna-bhagna-vilīnaḥ | marīci-vad vipralambha-ātmakaḥ | kadalī-van nibhujyamānā-sārakaḥ | māyā-vad vañcana-ātmakaḥ | rāja-vad ājñā-bahulaḥ | śatru-vad avatāra-prekṣī | cora-vad a-viśvasanīyaḥ | vadhya-ghātaka-vad an-anuvītaḥ | a-mitra-vad a-hita-eṣī | vadhaka-vat prajñā-jīvita-antarāya-karaḥ | śūnya-grāma-vad ātma-virahitaḥ | kulāla-bhāṇḍa-vad bhedana-paryantaḥ | mūtoḍī-van nānā-a-śuci-paripūrṇaḥ | medaka-sthālī-vad a-śuci-srāvī || pe ||

व्रण-वद् घट्टन-अ-सहिष्णुः । शल्य-वत् तुदन-आत्मकः । जीर्ण-गृह-वत् प्रति-संस्कार-धार्यः । जीर्ण-यान-पात्र-वत् प्रति-संस्कार-वाह्यः । आम-कुम्भ-वद् यत्न-अनुपाल्यः ॥ पे ॥

नदी-तट-वृक्ष-वच् चल-अ-चलः । महा-नदी-स्रोतो-वन् मरण-समुद्र-पर्यवसानः । आगन्तुक-आगार-वत् सर्व-दुष्ख-निवासः । अ-नाथ-शाला-वद् अ-परिगृहीतः । चारक-पाल-वद् उत्कोच-साध्यः ॥ पे ॥

बाल-दारक-वत् सतत-परिपाल्यः ॥

पुनर् आह । एवं-विधं कायम् अ-चौक्ष-राशिं । रूप-अभिमानी बहु मन्यते यः । प्रज्ञायमानः स हि बाल-बुद्धिः विष्ठा-घटं याति वहन् वि-चेताः ॥

पूय-प्रकारं वहते * अस्य नासा । वक्त्रं कु-गन्धं वहते सदा च । चिक्कास् तथा + अक्ष्णोः क्रिमि-वच् च जन्तोः । कस् तत्र रागो बहु-मानता वा ॥

अङ्गारम् आदाय यथा हि बालो । घृष्येद् अयं यास्यति शुक्ल-भावम् । याति क्षयं न + एव तु शुक्ल-भावं बालस्य बुद्धिर् वितथा + अभिमाना ॥

एवं हि यः चौक्ष-मतिर् मनुष्यः चौक्षं करिष्ये * अहम् इदं शरीरम् । सु-उद्वर्तितं तीर्थ-शत-अभिषिक्तं याति क्षयं मृत्यु-वशाद् अ-चौक्षम् ॥

तथा प्रभङ्गुरः । प्रस्रवन् बोधि-सत्वेन कायः प्रत्यवेक्षितव्यो नव व्रण-मुखैर् यावत् । आवासो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः । अशीत्i-krimi-kula-sahasrआणाम् ॥ पे ॥

पर-भोजनो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः । वृक-शृगाल-श्व-पिशित-अशिनां । यन्त्र-उपमो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः । अस्थि-स्नायु-यन्त्र-संघात-विनिबद्धः । अ-स्व-अधीनो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः अन्न-पान-संभूत इति विस्तरः ॥

तत्र + एव ज्ञेयं । वेदना स्मृत्य्-उपस्थानं तु यथा तावद् आर्य-रत्न-चूड-सूत्रे । इह कुल-पुत्र बोधि-सत्वो वेदनासु वेदना-अनुपश्यना-स्मृत्य्-उपस्थानं भावयन् वेदित-सुख-आश्रितेषु सत्वेषु महा-करुणां प्रतिलभते । एवं च प्रतिसंशिक्षते । तत् सुखं यत्र वेदितं न + अस्ति स सर्व-सत्व-वेदित-प्रहाणाय वेदनासु वेदना-स्मृत्य्-उपस्थानं भावयति । वेदित-निरोधाय च सत्वानां संनाहं संनह्यति । आत्मना च वेदित-निरोधं न + अर्पयति । स यां कां-चिद् वेदनां वेदयते तां सर्वां महा-करुणा-परिगृहीतां वेदयते । स यदा सुखां वेदनां वेदयते तदा राग-चरितेषु सत्वेषु महा-करुणां प्रतिलभते आत्मनश् च राग-अनुशयं प्रतिजहाति । यदा दुष्खां वेदनां वेदयते तदा द्वेष-चरितेषु सत्वेषु महा-करुणां प्रतिलभते आत्मनश् च दोष-अनुशयं प्रजहाति । यदा + अ-दुष्ख-अ-सुखां वेदनां मोह-चरितेषु सत्येषु महा-करुणां प्रतिलभते । आत्मनश् च मोह-अनुशयं प्रजहाति । स सुखायां वेदनायां न + अनुनीयते । अनुनय-समुद्घातं च + अर्जयति । दुष्खायां वेदनायां न प्रतिहन्यते प्रतिघ-समुद्घातं च + अर्जयति । अ-दुष्ख-अ-सुखायां वेदनायां न + अ-विद्या-गतो भवति । अ-विद्या-समुद्घातं च + अर्जयति । स यां काञ्-चिद् वेदनां वेत्ति सर्वां ताम् अ-नित्य-वेदितां वेत्ति । सर्वां तां दुष्ख-वेदितां वेत्ति । अन्-आत्म-वेदितां वेत्ति । स सुखायां वेदनायाम् अ-नित्य-वेदितो भवति । दुष्खायां वेदनायां शल्य-वेदितो भवति । अ-दुष्ख-अ-सुखायां वेदनायां शान्ति-वेदितो भवति । इति हि यत् सुखं तद् अ-नित्यं यद् दुष्खं सुखम् एव तत् । यद् अ-दुष्ख-अ-सुखं तद् अन्-आत्मकम् इत्य् आदि ॥

आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं । दुष्खया वेदनया स्पृष्टः सर्व-पाप-अ-क्षण-उपपन्नेषु सत्वेषु महा-करुणाम् उत्पादयति ॥ पे ॥

अपि तु खलु पुनर् अभिनिवेशो वेदना परिग्रहो वेदना + उपादानं वेदना + उपलम्भो वेदना विपर्यासो वेदना विकल्पो वेदना + इत्य् आदि ॥

धर्म-संगीति-सूत्रे * अप्य् उक्तं ॥

वेदना-अनुभवः प्रोक्तः । केन + असाव् अनुभूयते । वेदको वेदनाद् अन्यः पृथग्-भूतो न विद्यते ॥

एवं स्मृतिर् उपस्थेया वेदनायां विचक्षणैः । यथा बोधिस् तथा ह्य् एषा शान्ता शुद्धा प्रभास्वरा ॥

एतत् समासतो वेदना-स्मृत्य्-उपस्थानम् ॥

चित्त-स्मृत्य्-उपस्थानं तु यथा + आर्य-रत्न-कूटे । स एवं चित्तं परिगवेषते । कतरत् तु चित्तं । रज्यति वा दुष्यति वा मुह्यति वा । किम् अतीतम् अन्-आगतं प्रत्य्-उत्पन्नं वा + इति । तत्र यद् अतीतं तत् क्षीणं । यद् अन्-आगतं तद् अ-संप्राप्तं । प्रत्युत्पन्नस्य स्थितिर् न + अस्ति । चित्तं हि काश्यप न + अध्यात्मं न बहिर्-धा न + उभयम् अन्तरेण + उपलभ्यते । चित्तं हि काश्यप + अ-रूपम् अ-निदर्शनम् अ-प्रतिघम् अ-विज्ञप्तिकम् अ-प्रतिष्ठम् अ-निकेतं । चित्तं हि काश्यप सर्व-बुद्धैर् न दृष्टं । न पश्यन्ति न द्रक्ष्यन्ति यत् सर्व-बुद्धैर् न दृष्टं ।न पश्यन्ति न द्रक्ष्यन्ति । कीदृशस् तस्य प्रचारो द्रष्टव्यः । अन्यत्र वितथ-पतितया संज्ञया धर्माः प्रवर्तन्ते । चित्तं हि काश्यप माया-सदृशम् अ-भूत-परिकल्पनया विविधाम् उपपत्तिं परिगृह्णाति ॥ पे ॥

चित्तं हि काश्यप नदी-स्रोतः-सदृशम् अन्-अवस्थितम् उत्पन्न-भग्न-विलीनं । चित्तं हि काश्यप दीप-अर्च्चिः-सदृशं हेतु-प्रत्ययतया प्रवर्तते । चित्तं हि काश्यप विद्युत्-सदृशं क्षण-भङ्ग-अन्-अवस्थितम् । चित्तं हि काश्यप + आकाश-सदृशम् आगन्तुकैः क्लेशैर् उपक्लिश्यते । पे ॥

चित्तं हि काश्यप पाप-मित्र-सदृशं सर्व-दुष्ख-संजननतया । पे । चित्तं हि काश्यप मत्स्य-बडिश-सदृशं दुष्खे सुख-संज्ञया । तथा नील-मक्षिका-सदृशम् अ-शुचौ शुचि-संज्ञया । चित्तं हि काश्यप प्रत्य्-अर्थिक-सदृशं विविध-कारण-आकरणतया । चित्तं हि ओजो-हार-यक्ष-सदृशं सदा विवर-गवेषणतया । एवं चोर-सदृशं सर्व-कुशल-मूल-मुषणतया । चित्तं हि काश्यप रूप-आरामं पतङ्-ग-नेत्र-सदृशं । चित्तं हि काश्यप शब्द-आरामं संग्राम-भेरी-सदृशं । चित्तं हि काश्यप गन्ध-आरामं वराह इव + अ-शुचि-मध्ये । चित्तं हि काश्यप रस-आरामं रथ-अवशेष-भोक्तृ-चेटी-सदृशं । चित्तं हि काश्यप स्पर्श-आरामं मक्षिका + इव तैल-पात्रे । चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते । यन् न लभ्यते तन् न + उपलभ्यते । यन् न + उपलभ्यते तन् न + एव + अतीतं न + अन्-आगतं न प्रत्य्-उत्पन्नं । यन् न + एव + अतीतं न + अन्-आगतं न प्रत्य्-उत्पन्नं तत् त्र्य्-अध्व-समतिक्रान्तं । यत् त्र्य्-अध्व-समतिक्रान्तं तन् न + इव + अस्ति न न + अस्ति + इत्य् आदि ॥

आर्य-रत्न-चूड-सूत्रे * अप्य् आह । स चित्तं परिगवेषमाणो न + आध्यात्मं चित्तं समनुपश्यति । न बहिर्-धा चित्तं समनुपश्यति ।न स्कन्धेषु चित्तं समनुपश्यति । न धातुषु चित्तं समनुपश्यति । न + आयतनेषु चित्तं समनुपश्यति । स चित्तम् अ-समनुपश्यंश् चित्त-धारां पर्येषते । कुतः चित्तस्य + उत्पत्तिर् इति । तस्य + एवं भवति आलम्बने सति चित्तम् उत्पद्यते । तत् किम् अन्यद् आलम्बनम् । अथ यद् एव + आलम्बनं तद् एव चित्तं । यदि तावद् अन्यद् आलम्बनम् अन्यच् चित्तं । तद् द्वि-चित्तता भविष्यति । अथ यद् एव + आलम्बनं तद् एव चित्तं । तत् कथं चित्तं चित्तं समनुपश्यति । न हि चित्तं चित्तं समनुपश्यति । तद् यथा न तया + एव + असि-धारया सा + एव + असि-धारा शक्यते छेत्तुम् । न तेन + एव + अङ्गुल्य्--अग्रेण तद् एव + अङ्गुल्य्--अग्रं स्प्रष्टुं शक्यते । न + एव चित्तेन तद् एव चित्तं शक्यते द्रष्टुम् ॥ पे ॥

पुनर् अ-परं कुल-पुत्र यद् उपद्रुत-प्रद्रुत-अन्-अवस्थित-प्रचारस्य वानर-मारुत-सदृशस्य । पे । दूरं-गम-चारिणो * अ-शरीरस्य लघु-परिवर्तिनो विषय-लोलस्य षड्-आयतन-गो-चरस्य + अ-पर-अ-पर-संप्रयुक्तस्य चित्तस्य + अवस्थानाम् एक-अग्रता + अ-शरणम् अ-विशरणं शमथा + एक-अग्रता + अ-विक्षेप इत्य् उच्यते चित्तस्य स्मृतिर् इति ॥

आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं ।विठपनायां मया योगः करणीयः । इयं च चित्त-धर्मता न विहातव्या । तत्र कतमा चित्त-धर्मता । कतमा विठपना । माया-उपमं चित्तम् इयम् उच्यते चित्त-धर्मता । यत् पुनः सर्वस्वं परित्यज्य सर्व-बुद्ध-क्षेत्र-परिशुद्धये परिणामयति + इति + इयम् उच्यते विठपना + इत्य् आदि ॥

धर्म-स्मृत्य्-उपस्थानं तु ॥

यथा तावद् अत्र + आह । धर्मे धर्म-अनुदर्शी विहरन् बोधि-सत्वो न कञ्-चिद् धर्मं समनुपश्यति । यतो न बुद्ध-धर्मा यतो न बोधिः । यतो न मार्गो यतो न निः-सरणं । स सर्व-धर्म-अ-निः-सरणम् इति विदित्वा + अन्-आवरणं नाम महा-करुणा-समाधिं समापद्यते । स सर्व-धर्मेषु सर्व-क्लेशेषु च कृत्रिम-संज्ञां प्रतिलभते । निः-क्लेशा एते धर्मा । न + एते स-क्लेशाः । तत् कस्य हेतोः । तथा ह्य् एते नीत-अर्थे समवसरन्ति । न + अस्ति क्लेशानां संचयो । न राशी-भावः । न राग-भावो न द्वेष-भावो न मोह-भाव । एषाम् एव क्लेशानाम् अवबोधाद् बोधिः । यत् स्व-भावाश् च क्लेशास् तत् स्व-भावा बोधिर् इत्य् एवं स्मृतिम् उपस्थापयति + इति ॥

आर्य-रत्न-चूडे * अप्य् उक्तम् । इह कुल-पुत्र बोधि-सत्वस्य धर्मे धर्म-अनुपश्यना स्मृत्य्-उपस्थानेन विहरत एवं भवति । धर्मा एव + उत्पद्यमाना उत्पद्यन्ते । धर्मा एव निरुध्य्माना निरुध्यन्ते ॥

न पुनर् अत्र कश्-चिद् आत्म-भावे सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनु-जो वा यो जायते वा जीर्यते वा च्यवते वा + उत्पद्यते वा । एषा धर्माणां धर्मता । यदि समुदानीयन्ते । समुदागच्छन्ति । अथ न समुदानीयन्ते न समुदागच्छन्ति । यादृशाः समुदानीयन्ते तादृशाः समुदागच्छन्ति कुशला वा + अ-कुशला वा अनिञ्ज्या वा । न + अस्ति धर्माणां समुदानेता । न च + अ-हेतुकानां धर्माणां का-चिद् उत्पत्तिर् इत्य् आदि ॥

तत्र + एव + आह । स कियद्-गम्भीरान् अपि धर्मान् प्रत्यवेक्षमाणस् तां सर्व-ज्ञता-बोध्i-citta-anusmऋतिं न विजहाति ॥

आर्य-ललित-विस्तर-सूत्रे * अप्य् उक्तम् । संस्कार अ-नित्य अ-ध्रुवा आम-कुम्भ-उपम-भेदन-आत्मकाः । पर-केलिक-याचित-उपमाः पांशु-नगर-उपमता च कालिका ॥

संस्कार प्रलोप धर्मिमे वर्ष-कालि चलितं विलेपनं । नदि-कूल इव स-वालुकं प्रत्यय-अधीन स्व-भाव-दुर्-बलाः ॥

संस्कार प्रदीप अर्चि-वत् क्षिप्र-उत्पत्ति निरोध-धर्मकाः । अन्-अवस्थित-मारुत-उपमाः फेन-पिण्डा-वद् अ-सार-दुर्-बलाः ॥

संस्कार निर्-ईह शून्यकाः कदली-स्कन्ध-समा निरीक्षतः । माया-उपम चित्त-मोहना बाल-उल्लापन-रिक्त-मुष्टि-वत् ॥

हेतूभि च प्रत्ययेभि वा सर्व संस्कार-गतं प्रवर्तते । अन्यो-न्य-प्रतीत्य-हेतुतः तद् इदं बाल-जनो न बुध्यते ॥

यथा मुञ्ज प्रतीत्य बल्ब-जं रज्जु व्यायाम-बलेन वर्तिता । घटि-यन्त्र स-चक्र वर्तते तेष्व् एक-एकशु न + अस्ति वर्तना ॥

तथ सर्व-भव-अङ्ग-वर्तनी अन्यो-न्य-उपचयेन निःश्रिता । एक-एकशु तेषु वर्तनी पूर्व-अ-पर-अन्ततो न + उपलभ्यते ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.