Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

शिक्षासमुच्चय

Tác giả
शान्तिदेव
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नमो रत्न-त्रयाय । नमो मारीच्यै देवतायै । मारीच्या देवताया हृदयम् आवर्तयिष्यामि ॥

त यथा । बत्तालि । बदालि । बदालि । बरालि । वराह-मुखि । सर्व-दुष्टानां निवारय । बन्ध मुखं स्वाहा ॥

इमाम् अपि विद्याम् अन्-अन्त-जात्i-smara-hetuं महा-प्रभावां सप्त-पञ्चाशद्-अक्षरां विद्या-धर-पिटक-उपनिबद्धां सर्व-भय-रक्षा-अर्थं प्रयुञ्जीत ॥

tad yathā | aṭṭe | baṭṭe | naṭṭe | kunaṭṭe | ṭake | ṭhake | ṭharake | urumati | rurumati | turu | hili mili | sarva-jña-udupadagga [doubtful] | namo sabba-samma-saṃbuddhāṇaṃ sijjhantu me manta-padāḥ svāhā ||

एषा रक्षा + आत्म-भावस्य भैषज्य-वसन-आदिभिः । सत्व-अर्थ-स्मृति-पूर्वकम् एव वक्तव्या ॥

आत्म-तृष्णा-उपभोगात् तु क्लिष्ट-आपत्तिः प्रजायते ॥

सर्वं हि बोधि-सत्वेन + उत्सृष्टं सर्व-सत्वेभ्यः ॥

तत्र यदि विस्मृत्य पर-द्रव्यम् आत्म-भरण-तृष्णया परिभुङ्क्ते क्लिष्ट-आपत्तिम् आपद्यते । अथ वि-तृष्णो * अ-न्यासक्तो वा सत्व-कार्यम् अनुस्मृत्य भुङ्क्ते न क्लिष्टाम् आपत्तिम् आपद्यते । पर-द्रव्य-संज्ञी स्व-अर्थेन भुङ्क्ते स्तेय-आपत्तिम् आपद्यते । पूर-अर्घेण प्रातिमोक्षे पाराजिको भवति । सत्व-स्वामिकैस् तु भोगैः सत्व-स्वामिक एव + आत्म-भावः संरक्षत इत्य् अ-दोषः । न हि दासस्य नित्यं स्वाmi-karma-vyआपृतस्य स्व-द्रव्यम् अस्ति येन वर्तेत ॥

उक्तं च धर्म-सङ्गीति-सूत्रे । दास-उपमेन बोधि-सत्वेन भवितव्यं सर्व-सत्व-किङ्-करणीय-प्रापणतया + इति ॥

न च + एक-अन्त-स्वाम्य्-अर्थ-परस्य दासस्य व्याध्य्-आdi-viklava-mateः स्वामिनम् अन्-अनुज्ञाप्य + अपि भुञ्जानस्य कश्-चिद् दोषः । न + अप्य् एवं कुर्वाणस्य बोधि-सत्वस्य + अन्तिके कस्य-चिद् विदित-वृत्ता-अन्तस्य + अप्य् अ-प्रसादो युज्यते मात्सर्य-त्याग-चित्त-अ-परिज्ञानात् ॥

न च + अत्र न्याये कश्-चित् संदेहो युक्तः । सर्व-उत्सर्गो हि पूर्वम् एव भगवत्-कण्ठ-उक्त्या प्रतिपादितः । तथा च + आत्म-भाव-रक्षा सत्व-अर्थम् एव + उक्ता । तस्य स्पष्ट-अवबोध-अर्थम् अयं न्यायो * अभियुक्तो न तु स्व-अर्थ-अपेक्षया + इति ॥

इति शिक्षा-समुच्चये आत्म-भाव-रक्षा षष्ठः परिच्छेदः ॥

[vii. भोग-पुण्य-रक्षा]

भोग-पुण्य-रक्षा सप्तमः परिच्छेदः एवं तावद् आत्म-भाव-रक्षा वेदितव्या । भोग-रक्षा तु वक्तव्या । तत्र सु-कृत-आरम्भिणा भाव्यं मात्र-ज्ञेन च सर्वत इति शिक्षा-पदाद् अस्य भोग-रक्षा न दुष्-करा ॥

उग्र-परिपृच्छायां हि शिक्षा-पदम् उक्तं । सु-समीक्षित-कर्म-कारिता सु-कृत-कर्म-कारिता च । तेन भोगानां दुर्-न्यासा प्रेत्यवेक्षा । अवज्ञा-प्रतिषेधः सिद्धो भवति । शमथ-प्रस्तावेन च मात्र-ज्ञता युक्ति-ज्ञता च + उक्ता ॥

तेन + इदं सिद्धं भवति । यद् इदं । अल्प-अधम-भोगेन + अपि कार्य-सिद्धौ सत्यां स्वयम् अन्यैर् वा बहूत्तम-भोग-नाशन-उपेक्षा न कार्या + इति ॥

अत एव + उग्र-परिपृच्छायाम् उक्तं । पुत्र-भार्या-दासी-दास-कर्म-कर-पौरुषेयाणां सम्यक्-परिभोगेन + इति । तथा स्व-पर-बोधि-पक्ष-श्रुत-आद्य्-अन्तराय-करौ त्याग-अ-त्यागौ न कार्यौ । अधिक-सत्व-अर्थ-शक्तेस् तुल्य-शक्तेर् वा बोधि-सत्वस्य + अधिक-तुल्य-कुशल-अन्तराय-करौ त्याग-अ-त्यागौ न कार्याव् इति सिद्धं भवति + इति ॥

इदं च संधाय बोध्i-satva-prआतिमोक्षे * अभिहितं । यस् तु खलु पुनः शारिपुत्र + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वो बोध्य्-अङ्गैर् अभियुक्तस् तेन कथं दानं दातव्यं । कतरं दानं दातव्यं । कियद्-रूपं दानं दातव्यं ॥ पे ॥

धर्म-दायकेन भवितव्यं धर्म-दान-पतिना । यश् च शारिपुत्र गृही बोधि-सत्वो गङ्गा-नदी-वालिका-समानि बुद्ध-क्षेत्राणि सप्त-रत्न-प्रतिपूर्णानि कृत्वा तथा-गतेभ्यो * अर्हद्भ्यः सम्यक्-संबुद्धेभ्यो दानं दद्याद् । यश् च शारिपुत्र प्रव्रज्या-पर्यापन्नो बोधि-सत्व एकां चतुष्-पदिकां गाथां प्रकाशयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति । न शारिपुत्र तथा-गतेन प्रव्रजितस्य + आमिष-दानम् अनुज्ञातं ॥ पे ॥

यस्य खलु पुनः शारिपुत्र पात्र-आगतः पात्र-पर्यापन्नो लाभो भवेद् धार्मिको धर्म-लब्धः । तेन साधारण-भोजिना भवितव्यं सार्द्धं स-ब्रह्म-चारिभिः । सचेत् पुनः कश्-चिद् एव + आगत्य पात्रं वा चीवरं वा याचेत । तस्य + अतिरिक्तं भवेद् बुद्ध-अनुज्ञातात् त्रि-चीवराद् । यथा परित्यक्तं दातव्यं । सचेत् पुनस् तस्य + ऊनं चीवरं भवेद् यन् निश्रित्य ब्रह्म-चर्य-वासः । तन् न परित्यक्तव्यं । तत् कस्य हेतोः । अ-विसर्जनीयं त्रि-चीवरम् उक्तं तथा-गतेन । सचेत् पुनः शारिपुत्र बोधि-सत्वः त्रि-चीवरं परित्यज्य याचनक-गुरुको भवेन् न तेन + अल्प-इच्छता आसेविता भवेत् । यस् तु खलु पुनः शारिपुत्र + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् तेन धर्म आसेवितव्यः । तन् न तेन + अभियुक्तेन भवितव्यम् इति ॥

अन्यथा ह्य् एक-संग्रह-अर्थं महतः सत्व-राशेस् तस्य च सत्वस्य बोधि-सत्व-आशय-परिकर्म-अन्तरायान् महतो * अर्थस्य हानिः कृता स्याद् । अत एव + उदार-कुशल-पक्ष-विवर्जनता + अपक्षाल इत्य् उच्यते । एवं तावत् त्याग-प्रतिषेधः । अ-त्याग-प्रतिषेधो * अपि ॥

यथा + आर्य-सागरमति-सूत्रे महा-यान-अन्तरायेषु बहु-लाभता पठ्यते । यो * अयं विधिर् आत्मन्य् उक्तः सो * अन्यस्मिन्न् अपि बोधि-सत्वे प्रतिपाद्य इति कुतो गम्यते । आर्य-उग्र-परिपृच्छायां देशितत्वात् । पर-कृत्य-कारितः स्व-कार्य-परित्याग इति ॥

तथा + आर्य-विमलकीर्ति-निर्देशे * अप्य् उक्तं । संसार-भय-भीतेन किं प्रतिसर्तव्यम् । आह । संसार-भय-भीतेन मञ्जुश्रीर् बोधि-सत्वेन बुद्ध-माहात्म्यं प्रतिसर्तव्यं । आह । बुद्ध-माहात्म्य-स्थातु-कामेन कुत्र स्थातव्यं । आह । बुद्ध-माहात्म्ये स्थातु-कामेन सर्व-सत्व-समतायां स्थातव्यं । आह । सर्व-सत्व-समतायां स्थातु-कामेन कुत्र स्थातव्यं । आह ।सर्व-सत्व-समतायां स्थातु-कामेन सर्व-सत्व-प्रमोक्षाय स्थातव्यम् इति ॥

तथा च धर्म-सङ्गीतौ सार्थवाहो बोधि-सत्व आह । यो भगवन् बोधि-सत्वः सर्व-सत्वानां प्रथमतरं बोधिम् इच्छति न + आत्मनः । यावद् इयं भगवन् धर्म-सङ्गीतिर् इति ॥

उत्सर्गाद् एव च + अस्य स्व-अर्थ-अ-भावः सिद्धः । किं तु सत्व-अर्थ-हानि-भयाद् अ-योग्ये सत्वे सु-भरं न + आरोपयति । यत्र तु सत्व-अर्थ-हानिं न पश्यति तत्र स्वयं कृतम् अन्येन वा जगद् * धितम् आचरितम् इति को विशेषो । यद् अयम् अ-पर-बोध्i-satva-kuशल-सिद्धये न स्व-कुशलम् उत्सृजति । अथ स्व-दुर्-गति-दुष्ख-द् बिभेति । द्वितीयस्य + अपि तद् एव दुष्खं । अथ तद्-दुष्खेन मे बाधा न + अस्ति + इत्य् उपेक्षते । यथा + उक्तैः सूत्रैः स-आपत्तिको भवति ॥

यथा च रत्न-कूट-सूत्रे । चत्वार इमे काश्यप बोध्i-satva-prati-rऊपका इत्य् आरभ्य + उक्तं । आत्म-सुख-अर्थिको भवति न सर्व-सत्व-दुष्ख-अपनयन-अर्थिक इति ॥

तस्माद् उग्र-परिपृच्छा-विधिना पूर्व-वद् आत्मा गर्हणीयः एषा तु बोधि-सत्व-शिक्षा यथा + आर्य-निर्-आरम्भेण धर्म-सङ्गीति-सूत्रे निर्दिष्टा । कथं कुल-पुत्राः प्रतिपत्ति-स्थीत वेदितव्याः । आह । यदा सत्वेषु न विप्रतिपद्यन्ते । आह । कथं सत्वेषु न विप्रतिपद्यन्ते । आह । यन् मैत्रीं च महा-करुणां च न त्यजन्ति । सुभूतिर् आह । कतमा बोधि-सत्वानां महा-मैत्री । आह । यत् काय-जीवितं च सर्व-कुशल-मूलं च सर्व-सत्वानां निर्यातयन्ति न च प्रतिकारं काङ्क्षन्ति । आह । कतमा बोधि-सत्वानां महा-करुणा । यत् पूर्वतरं सत्वानां बोधिम् इच्छन्ति न + आत्मन इति ॥

अत्र + एव च + आह । महा-करुणा-मूलाः सर्व-बोधि-सत्व-शिक्षा इति । अ-वश्यं च भगवता + इदं न निवारणीयं । अन्यतर-बोध्i-satva-arthe न + अर्थित्वाद् अ-वश्यं तु + उपदिशति + इति निश्चीयते । येन दातुर् महा-दक्षिणीये महा-अर्थ-दानान् महा-पुण्य-सागर-विस्तरो दृश्यते । अन्यथा तु केवलम् एव विघातिनो मरणं स्यात् ॥

यत् तु प्रशान्त-विनिश्चय-प्रातिहार्य-सूत्रे देशितम् । य एष ते महा-राज वर्ष-शत-सहस्रेण परिव्ययो * अत्र प्रविष्टः स सर्वः पिण्डी-कृत्य + एकस्य भिक्षोर् यात्रा भवेद् एवं प्रत्य्-एकं सर्व-भिक्षूणां । यश् च + उद्देश-स्व-अध्याय-अभियुक्तो बोधि-सत्वः स-गौरवो धर्म-क-मः श्रद्धा-देयम् आहारं परिगृह्य + एवं चित्तम् उत्पादयेत् । अनेन + अहं धर्म-पर्येष्टिम् आपत्स्यए इति । अस्य कुशलस्य + एष देय-धर्म-परित्यागः शततमीम् अपि कलां न + उपैति + इति ॥

तद् गृह-सुख-पलिशुद्धम् अधिकृत्य + उक्तं । न तु पूर्व-उक्त-विधिना कश्-चिद् दोषः ॥

उक्तो समासता भोग-रक्षा । पुण्य-रक्षा वाच्या । तत्र स्व-अर्थ-विपाक-वैतृष्ण्याच् * छुभं संरक्षितं भवेत् ॥

यथा + उक्तं नारायण-परिपृच्छायां । स न + आत्म-हेतोः शीलं रक्षति । न स्वर्ग-हेतोः । न शक्रत्व-हेतोः । न भोग-हेतोः । न + ऐश्वर्य-हेतोः । न रूप-हेतोर् न वर्ण-हेतोर् न यशो-हेतोः । पे ॥

न निरय-भय-भि-तः शीलं रक्षति । पे ॥

एवं न तिर्यग्-योन्i-bhaya-bhईतः शीलं रक्षति । अन्यत्र बुद्ध-नेत्री-प्रतिष्ठापनाय शीलं रक्षति । यावत् सर्व-सत्व-हित-सुख-योग-क्षेम-अर्थिकः शीलं रक्षति ॥

स एवं-रूपेण शील-स्कन्धेन समन्वागतो बोधि-सत्वो दशभिर् धर्मैर् न हीयते । कतमैर् दशभिः । यद् उत न चक्र-वर्ति-राज्यात् परिहीयते । तत्र च भवत्य् अ-प्रमत्तो बोधि-प्रतिकाङ्क्षी बुद्ध-दर्शनम् अभिकाङ्क्षते । एवं ब्रह्मत्वाद् बुद्ध-दर्शन-अ-भेद्य-प्रतिलम्भाद् धर्म-श्रवणान् न परिहीयते । यावद् यथा-श्रुत-प्रतिपत्ति-संपादनाय बोध्i-satva-saंवर-समादानान् न परिहीयते । अन्-आछेद्य-प्रतिभानात् सर्व-कुशल-धर्म-प्रार्थन-ध्यानान् न परिहीयते ॥

एवं शील-स्कन्ध-प्रतिष्ठितो बोधि-सत्वो महा-सत्वः सदा नमस्-कृतो भवति देवैः । सदा प्रशंसितो भवति नागैः । सदा नमस्-कृतो भवति यक्षैः । सदा पूजितो भवति गन्धर्वैः सदा + अपचायितश् च भवति नाग-इन्द्र-असुर-इन्द्रैः । सदा सु-मानितश् च भवति ब्राह्मण-क्षत्रिय-श्रेष्ठि-गृह-पतिभिः । सदा + अभिगमनीयश् च भवति पण्डितैः । सदा समन्वाहृतश् च भवति बुद्धैः । शास्तृ-संमतश् च भवति स-देवकस्य लोकस्य + अनुकम्पकश् च भवति सर्व-सत्वानां ॥ पे ॥

चतस्रो गतीर् न गच्छति । कतमाश् चतस्रो । यद् उत + अ-क्षण-गतिं न गच्छत्य् अन्यत्र सत्व-परिपाकात् । बुद्ध-शून्य-बुद्ध-क्षेत्रं न गच्छति । मिथ्या-दृष्ट्i-kula-upapattiं न गच्छति । सर्व-दुर्-गति-गतिं न गच्छति ॥

एवं पूर्व-उत्सृष्टस्य + अपि पुण्यस्य क्लेश-वशात् पुनर् उपादीयमानस्य रक्षा कार्या । पुण्य-दानाद् अपि यत् पुण्यं ततो * अपि न विपाकः प्रार्थनीयो * अन्यत्र पर-अर्थात् । किं च पुण्यं रक्षितु-कामः । पश्चात् तापं न कुर्वीत ॥

यथा + उक्तम् उग्र-परिपृच्छायां । दत्त्वा च न विप्रतिसार-चित्तम् उत्पादयितव्यम् इति ॥

पृष्ठ-दौर्बल्याद् दौर्बल्यं । विप्रतिसारात् पाप-वत् पुण्यस्य + अपि क्षयः स्याद् इत्य् अभिप्रायः । न च कृत्वा प्रकाशयेद् । अन्-एक-पर्यायेण हि भगवता प्रछन्न-कल्याणता । विवृत-पापता वर्णिता । तत्र विवृतसय् क्षयो गम्यते । पापस्य दौर्मनस्येन + एव पुण्यस्य सौमनस्येन + आपत्तिः सत्व-अर्थं निर्-आमिष-चित्तस्य प्रकाशयतः ॥

यथा रत्न-मेघे वैद्य-दृष्ट-अन्तेन आत्म-उत्कर्षो निर्-दोष उक्तः । पुनः पुण्य-रक्षा कामो लाभ-सत्-कार-भीतः स्याद् उन्नतिं वर्जयेत् सदा । बोधि-सत्वो प्रसन्नः स्याद् धर्मे विमतिम् उत्सृजेत् ॥

इदं च रत्न-कूटे * अभिहितं । चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधि-सत्वस्य + उत्पन्न-उत्पन्नाः कुशला धर्माः परिहीयन्ते । यैः चतुर्भिर् मुक्ताः न वर्धन्ते कुशल-धर्मैः । कतमैश् चतुर्भिः । यद् उत + अभिमानिकस्य लोक-आयत-मन्त्र-पर्येष्ट्या । लाभ-सत्-कार-अध्यवसितस्य कुल-प्रत्यवलोकनेन । बोध्i-satva-vidveष-अभ्याख्यानेन । अ-श्रुतानाम् अ-निर्दिष्टानां च सूत्र-अन्तानां प्रतिक्षेपेण + इति ॥

आर्य-सर्व-अस्ति-वादानां च पठ्यते । पश्यध्वं भिक्षव एतं भिक्षुं केश-नख-स्तूपे सर्व-अङ्गेन प्रणिपत्य चित्तम् अभिप्रसादयन्तम् ।एवं भदन्त । अनेन भिक्षवो भिक्षुणा यावती भूमिर् आक्रान्ता + अधर-शीत्i-yojana-sahasrआणि यावत् काञ्चन-चक्रं । अत्र + अन्तरे यावन्त्या वालिकास् तावन्त्य् अनेन भिक्षुणा चक्र-वर्ति-राज्य-सहस्राणि परिभोक्तव्यानि । यावद् अथ + आयुष्मान् उपालिर् येन भगवान् तेन + अञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् । यद् उक्तं भगवता + अस्य भिक्षोर् एवं महान्ति कुशल-मूलानि । कुत्र + इमानि भगवन् कुशल-मूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति । न + अहम् उपाले एवं क्षतिं च + उपहतिं च समनुपश्यामि । यथा स-ब्रह्म-चारी स-ब्रह्म-चारिणो * अन्तिके दुष्ट-चित्तम् उत्पादयति । अत्र + उपाले इमानि महान्ति कुशल-मूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति । तस्मात् तर्ह्य् उपाले एवं शिक्षितव्यं यद् दग्ध-स्थूणायाम् अपि चित्तं न प्रदूषयिष्यामः । प्राग् एव स-विज्ञानके काय इति ॥

आर्य-मञ्जुश्री-विक्रीडित-सूत्रे * अप्य् आह । प्रतिघः प्रतिघ इति कल्प-शत-उपचितं कुशल-मूलं प्रतिहन्ति तेन + उच्यते प्रतिघ इति ॥

आर्य-गण्ड-व्यूह-सूत्रे च समन्त-सत्व-परित्राण्य् ओजसः स्त्रिया रात्रि-देवतया पूर्व-अवदानं कथयन्त्या + अभिहितं । ते तेन + अन्यो-न्य-अवमन्यन-अ-समुदितेन + अ-कुशल-मूलेन + आयुः-प्रमाणाद् अपि परिहीयन्ते स्म । वर्णाद् अपि बलाद् अपि परिहीयन्ते स्म + इति । अत्र च न कदा-चिद् उन्नतिः कार्या + इति प्रदर्शन-अर्थं सदा + इत्य् उच्यते ॥

लाभ-सत्-कारस् तु कदा-चिद् अभ्युपगम्यते * अपि । यथा + उक्तं आर्य-रत्न-मेघे । इह कुल-पुत्र बोधि-सत्वः सुमेरु-मात्रम् अपि रत्न-राशिं लभमानः प्रतिगृह्णाति । प्रत्यवरम् अपि वस्तु प्रतिलभमानः । तत् कस्य हेतोः । तस्य + एवं भवति । एते सत्वा मत्सरिणो लुब्धा लोभ-अभिभूताः । तद्-धेतोः तत्-प्रत्ययं तन्-निदानं महा-वार्i-skandha-avaष्टब्दा इव संसार-सागरे उन्मज्ज-निमज्जनं कुर्वन्ति । तद् एषां भविष्यति दीर्घ-रात्रम् अर्थाय हिताय सुखाय । सर्वं प्रतिगृह्य न स्वी-करोति । न लोभ-चित्तम् उत्पादयति । अन्यत्र सर्व-सत्व-साधारणां बुद्ध-धर्म-संघेषु कारां करोति । यथा दुष्खितानां च सर्व-सत्वानाम् उपजीव्यं करोति ।तं च दान-पतिं समुत्तेजयति संप्रहर्षयति + इति ॥

तथा + अत्र + एव + उक्तं । तेन च दानेन न + उन्नतो भवति + इति ॥

पुनर् अत्र + एव + आह । यदि पुनर् अस्य तद्-धेतोस् तत्-प्रत्ययं तन्-निदानं कीर्ति-शब्द-श्लोको भवति तत्र न + उन्नाम-जातो भवति न मान-जातो न मद-जातः । एवं च + अस्य भवति । न चिरेण कालेन यस्य च + अयं कीर्ति-श्लोक-शब्दः समुत्थितो यैश् च समुत्थापितो यश् च कीर्ति-शब्द-श्लोकस् त्रयम् अप्य् एतत् सर्वेण सर्वं न भविष्यति । तत्र कः पण्डित-जातीयो * अ-नित्येषु न च स्थितेषु धर्मेष्व् अ-ध्रुवेष्व् अन्-आश्वासिकेष्व् अनुनय-चित्तम् उत्पादयेद् उन्नतो भवेन् मान-दर्पितो वा । एवं हि बोधि-सत्वो लाभ-सत्-कार-कीर्ति-शब्द-श्लोकेषु सु-उपस्थित-स्मृतिर् विहरति + इति ॥

पुनर् आह । चण्डाल-कुमार-उपमाश् च लोके विहरन्ति नीच-नीचेन मनसा । मान-मद-दर्प-अधिगताश् च भवन्ति पैशुन्य-संज्ञायाः सतत-समितं प्रत्युपस्थितत्वाद् इति ॥

पुनर् अप्य् उक्तं । इह कुल-पुत्र + अभिनिष्क्रान्त-गृह-वासः प्रव्रजितो बोधि-सत्वो मृतक-सदृशो * अहं मित्र-अमात्य-ज्ञाति-सालोहितानाम् इति निहतमानो भवति । वैरूप्यं मे * अभ्युद्गतं वि-वर्णानि च मे वासांसि प्रावृतान्य् अन्यश् च मे आकल्पः संवृत्त इति निहतमानो भवति । मुण्डः पात्र-पाणिः कुलात् कुलम् उपसंक्रमामि भिक्षा-हेतोर् भिक्षा-निदानम् इति निहतमानो भवति । नीच-नीचेन चित्तेन चण्डाल-कुमार-सदृशेन पिण्डाय चरामि + इति निहतमानो भवति । पैण्डिलिको * अस्मि संवृतः । पर-प्रतिबद्धा च मे जीविका + इति निहतमानो भवति । अवधूतम् अवज्ञातं प्रतिगृह्णामि + इति निहतमानो भवति । आराधनीया मे आचार्य-गुरु-दक्षिणीया इति निहतमानो भवति । संतोषणीया मे स-ब्रह्म-चारिणो । यद् उत तेन तेन + आचार-गो-चर-समुदाचारेण + इति निहतमानो भवति । अ-प्रतिलब्ध-अनुबद्ध-धर्मान् प्रतिपत्स्यए इति निहतमानो भवति । क्रुद्धानां व्यापन्न-चित्तानां सत्वानां मध्ये क्षान्ति-बहुलो विहरिष्यामि + इति निहतमानो भवति + इति ॥

आर्य-सागरमति-सूत्रे * अप्य् उक्तं । सत्-काय-परिशुद्धश् च भवति । लक्षण-समलं-कृत-गात्र-मृदु-तरुण-हस्त-पादः स्व-विभक्त-पुण्य-निष्यन्द-गात्रो * अ-हीन-इन्द्रियः सर्व-अङ्ग-प्रत्य्-अङ्ग-परिपूर्णः । न च रूप-मद-मत्तो भवति । न काय-मण्डन-योग-अनुयुक्तः । स कियद् * धीनानाम् अपि सत्वानां रूप-विकलानाम् अप्य् अवनमति प्रणमति धर्म-ग्राह्यताम् उपादाय + इति ॥

पुनर् अत्र + एव + उक्तं । स्याद् यथा + अपि नाम भगवन् यदा महा-सागरः प्रतिसंतिष्ठते तदा निम्ने पृथिवी-प्रदेशे संतिष्ठते । तस्य निम्नत्वाद् अल्प-कृच्छ्रेण सर्व-नद्यश् च सर्व-प्रश्रवणानि च प्रपतन्ति । एवम् एव भगवन् निर्-मानस्य गुरु-दक्षिणीय-गौरवस्य बोधि-सत्वस्य + अल्प-कृच्छ्रेण तानि गम्भीराणि धर्म-सुखानि श्रोत-इन्द्रियस्य + आभासम् आगच्छन्ति । स्मृतौ च + अवतिष्ठन्ते । तस्मात् तर्हि भगवन् यो बोधि-सत्वो मान-उन्नतो भवति मान-स्तब्धः न च गुरु-दक्षिणीयेभ्यो * अवनमति न प्रणमति वेदितव्यं भगवन् मार-अङ्कुश-आविद्धो वत + अयं बोधि-सत्व इति ॥

आर्य-लोक-उत्तर-परिवर्ते च + उक्तं । दश + इमानि भो जिन-पुत्र बोधि-सत्वानां मार-कर्माणि । कतमानि दश । यद् इदं गुरु-दक्षिणीय-आचार्य-माता-पितृ-श्रमण-ब्राह्मण-सम्यग्-गत-सम्यक्-प्रतिपन्नेष्व् अ-गौरवता मार-कर्म । धर्म-भाणकानां विशिष्ट-धर्म-अधिगतानाम् उदार-धर्म-देशकानां महा-यान-समारूढानां निर्वाण-पथ-विधि-ज्ञानां धारणी-सूत्र-अन्त-राज-प्रतिलब्धानां न + अवनमति । गर्वित-स्तब्धश् च भवति । धर्म-भाणके न गौरवम् उत्पादयति । न शुश्रूषां न चित्री-कारं करोति । मार-कर्म धर्म-श्रवण-सांकथ्ये च निषण्णए उदार-धर्म-वेगे समुत्पन्ने धर्म-भाणकस्य साधु-कारं न प्रयच्छति मा कश्-चिद् अस्मिन् प्रशंसति + इति मार-कर्म ॥

अभिमानं च + उत्पाद्य + आत्मानं प्रतिगृह्णाति । परांश् च न गृह्णाति । आत्म-ज्ञतां च न + अवतरति । चित्त-निध्यप्तिं न + उत्पादयति । मार-कर्म ॥

अधिमानं च + उत्पाद्य + अ-जानन्न् अ-बुध्यमानो वर्ण-अर्हाणां पुद्गलानां वर्णं प्रतिच्छादयति । अ-वर्णं भाषते । न च परस्य गुण-वर्णेन + आत्त-मना भवति । मार-कर्म ॥

जानाति च । अयं धर्मो * अयं विनयो भूतम् इदं बुद्ध-वचनम् इति । पुद्गल-विद्वेषेण धर्म-विद्वेषं करोति । सद्-धर्मं प्रतिक्षिपति । अन्यांश् च विग्राहयति । मार-कर्म ॥

उच्च-मानसं प्रार्थयते परिहार-धर्मं न मार्गयति । पर-उपस्थानं सो * अभियाति । अभिनन्दति । वृद्ध-स्थविराणां चिर-चरित-ब्रह्म-चर्याणां न प्रत्युपतिष्ठते न च प्रत्युद्गच्छति । मार-कर्म ॥

भृकुटी-मुखः खलु पुनर् भवति । न स्मित-मुखः । न खिल मधुर-वचनः । सदा कठिन-चित्तश् छिद्र-अन्वेषी ॥

अवतार-प्रेक्षी । मार-कर्म ॥

अभिमानं च पतित्वा पण्डितान् न + उपसंक्रामति । न सेवते । न भजते । न पर्युपास्ते । न परिप्रश्नयति । न परिपृच्छति । किं कुशलं किम् अ-कुशलं किं करणीयं किं कृतं दीर्घ-रात्रम् अर्थाय हिताय सुखाय भवति । किं वा + अ-कृतं दीर्घ-रात्रम् अन्-अर्थाय + अ-हिताय + अ-सुखाय भवति + इति । सजडः सजडतरो भवति । मोह-व्यूहो मान-ग्राही । अ-निःसरण-दर्शी । मार-कर्म ॥

सअ मान-अभिभूतो बुद्ध-उत्पादं विरागयति । पूर्व-कुशल-मूलं क्षपयति । नवं न + उत्थापयति । अ-निर्देशं निर्दिशति । विग्रहम् आरभते विवाद-बहुलश् च भवति । स एवं धर्म-विहारी स्थानम् एतद् विद्यते यस्मिन् मिथ्या महा-प्रपातं पतेत् । अथ च पुनर् बोध्i-citta-bala-adhईनाद् ऐश्वर्यं प्रतिलभते । स कल्प-शत-सहस्रेषु बुद्ध-उत्पादं न + आसादयति । कुतः पुनर् धर्म-श्रवणम् । इदं दशमं मार-कर्म ॥

इमानि भो जिन-पुत्र दश मार-कर्माणि । यानि परिवर्ज्य बोधि-सत्वा दश ज्ञान-कर्माणि प्रतिलभन्ते । अत्र + एव च ज्ञान-कर्मसु पच्यते । निर्-मानता सर्व-सत्वेष्व् इति ॥

आर्य-राष्ट्रपाल-सूत्रे * अप्य् उक्तं । अपाय-भूमिं । गतिम् अ-क्षणेषु । दरिद्रतां । नीच-कुल-उपपत्तिम् । जात्य्-अन्ध्य-दौर्बल्यम् अथ + अल्प-स्थामतां । गृह्णन्ति ते मान-वशेन मूढाः ॥

इति ॥

धर्म-संगीति-सूत्रे * अप्य् उक्तं । सत्व-क्षेत्रं बोधि-सत्वस्य बुद्ध-क्षेत्रं यतश् च बुद्ध-क्षेत्राद् बुद्ध-धर्माणां लाभ-आगमो भवति । न + अर्हामि तस्मिन् विप्रतिपत्तुम् । एवं च + अस्य भवति । सर्वं सु-चरितं दुश्-चरितं च सत्वान् निश्रित्य प्रवर्तते । दुश्-चरित-आश्रमाच् च + अपायाः प्रवर्तन्ते । सु-चरित-आश्रयाद् देव-मनुष्या इति ॥

अत एव रत्न-उल्का-धारण्याम् अप्य् उक्तं । इह भो जिन-पुत्राः प्रथम-चित्त-उत्पादिको बोधि-सत्वः आदित एव सर्व-सत्वानाम् अन्तिके दश-प्रकारं चित्तम् उत्पादयति । कतमद् दश-प्रकारं । तद् यथा । हित-चित्ततां सुख-चित्ततां दाया-चित्ततां स्निग्ध-चित्ततां प्रिय-चित्ततां अनुग्रह-चित्ततां आरक्षा-चित्ततां सम-चित्ततां आचार्य-चित्ततां शास्तृ-चित्ततां । इदं दश-प्रकारं चित्तम् उत्पादयति + इति ॥

श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे * अप्य् उक्तं । सर्व-सत्वानां शिष्यत्व-अभ्युपगमे स्थितो * अस्मि । परांश् च सर्व-सत्व-शिष्यत्व-अभ्युपगमे प्रतिष्ठापयिष्यामि + इत्य् आश्वासं प्रतिलभते ॥

पेयालं ॥

सर्व-सत्वेष्व् अवनम-प्रणमनतायां प्रतिष्ठितो * अस्मि + इति पूर्व-वत् ॥

तत्र + अवनमन-प्रणमनतायां सर्व-सत्वेषु निर्-मानता ॥

तथा + आर्य-विमलकीर्ति-निर्देशे । परिशुद्ध-बुद्ध-क्षेत्र-उपपत्तये सर्व-सत्वेषु शास्तृ-प्रेम + उक्तं । लोक-प्रसाद-अनुरक्षा-अर्थं त्व् आसन-पाद-प्रख्यालन-कर्म कुर्वता + अपि चेतसा स्त्रीषु वा + अ-क्षण-प्राप्तेषु वा विनिपतितेषु बोधि-सत्वेन प्रेम-गौरव-अभ्यासः कार्यः ॥

उक्तं हि गण्ड-व्यूहे तस्य समनन्तर-निषण्णस्य तस्मिन् महा-सिंह-आसने सर्वः स जन-कायो * अभिमुखः प्राञ्जलि-स्थितो * अभूत् । तम् एव राजानं नमस्यमानः ॥ पे ॥

स खलु सर्व-धर्म-निर्नाद-च्छत्र-मण्डल-निर्घोषो राजा तेषां याचनकानां सह दर्शनेन + आत्त-मनस्कतरो राज्ञा + अनेन च त्रि-साहस्र-चक्र-वर्ति-राज्य-प्रतिलाभेन + अ-सीम-आप्राप्त-कल्प-पर्यवसानेन । यावत् शुद्ध-आवास-देव-शान्ति-विमोक्ष-मुख-विहारेण + अ-पर्यन्त-कल्प-आवसानेन । तद् यथा कुल-पुत्र पुरुषस्य + एक-अन्त-तृष्णा-चरितस्य माता-पितृ-भ्रातृ-भगिनी-मित्र-अमात्य-ज्ञाति-सालोहित-पुत्र-दुहितृ-भार्या-चिर-काल-वियुक्तस्य + अटवी-कान्तार-विप्रणष्टस्य तद्-दर्शन-कामस्य । तेषां समवधानेन महती प्रीतिर् अध्यवसानम् उत्पतेत् तद्-दर्शन-अ-वितृप्ततया । एवम् एव कुल-पुत्र राज्ञः सर्व-धर्म-निर्नाद-च्छत्र-मण्डल-निर्घोषस्य तेषां याचनकानां सह दर्शनेन महा-प्रीति-वेगाः संजाताः । चित्त-तुष्टि-सुखम् अवक्रान्तं महांश् चित्त-उदग्रता-वेगः प्रादुर्-भूतो यावत् तेषु सर्व-याचनकेषु एक-पुत्रक-संज्ञा माता-पितृ-संज्ञा दक्षिणीय-संज्ञा कल्याण-मित्र-संज्ञा वर्ण-संज्ञा दुर्-लभ-संज्ञा दुष्-कर-कारक-संज्ञा बहु-कर-संज्ञा परम-उपकारि-संज्ञा बोधि-मार्ग-उपस्तम्भ-संज्ञा आचार्य-शास्तृ-संज्ञा + उत्पद्येत + इति ॥

एवम् अन्य-गत-भावे सत्वानाम् अग्रतो-गमन-उपस्थान-आदि-प्रसङ्गे सर्व-उत्सर्गं स्मरेत् । एषाम् एव + अयम् आत्मीयः कायः । यथा-इष्टम् अत्र वर्तन्ताम् । पृथिवी-शोधन-उपलेपन-आदिष्व् इव स्व-सुख-अर्थम् इति । अथ-वा स्वाम्य्--अ-प्रसाद-भीतेन + इव तत्-प्रसाद-अर्थिना + इव तद्-आज्ञा-संपादना मनसि कर्तव्या । भगवतो * अप्य् उपस्थानं कुर्वतो * अन्य-गत्य्-अ-भावात् । भिक्षुणा ग्लानेन + अङ्गी-कृतं ॥

यथा + उक्तं भिक्षु-प्रकीर्णके । भगवान् आह । मा भाय भिक्षु मा भाय भिक्षु । अहं ते भिक्षु + उपस्थास्यं । आहर भिक्षु चीवराणि यावत् ते धोपामि । एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । मा भगवान् एतस्य ग्लानस्य + अ-शुचि-म्रक्स्.इतानि चीवराणि धोवतु । अहं भगवन् धोविष्यं । भगवान् आह । तेन ह्य् आनन्द त्वम् एतस्य भिक्षुस्य चीवराणि धोव । तथा-गतो उदकम् आसिञ्चिष्यति । अथ खल्व् आयुष्मान् आनन्दो तस्य ग्लानस्य भिक्षुस्य चीवराणि धोवति । भगवान् उदकम् आसिञ्चति ॥ पे ॥

अथ खल्व् आयुष्मान् आनन्दस् तं ग्लानं भिक्षुं साधु च सुष्ठु च + अनुपरिगृह्य बहिर्-धा हरित्वा स्नापयेत् । भगवान् उदकम् आसिञ्चति + इति । आह च। यान् आराध्य महत् त्वं विराध्य कष्टां विपत्तिम् आप्नोति । प्राण-परित्यागैर् अपि तेषां ननु तोषणं न्याय्यं ॥

एते ते वै सत्वाः प्रसाद्य यान् सिद्धम् आगता बहवः । सिद्धि-क्षेत्रं न + अन्यत् सत्वेभ्यो विद्यते जगति ॥

एते चिन्ता-मणयो भद्र-घटा धेनवश् च काम-दुघाः । गुरु-वच् च देवता + इव च तस्माद् आराधनीयास् ते ॥

किं च निश्-छद्म-बन्धूनाम् अ-प्रमेय-उपकारिणाम् । सत्व-आराधनम् उत्सृज्य निष्-कृतिः का परा भवेत् ॥

शिरसा धारयाम् आस पुरा नाथो यथा-ईप्सितम् । जटा-स्व्-अध्युषितान् सत्वान् भूत्वा यत्नेन निश्-चलः ॥

भिन्दन्ति देहं प्रविशन्त्य् अवीचीम् येषां कृते तत्र कृते कृतं स्यात् ॥

महा-अपकारिष्व् अपि तेन सर्वं कल्याणम् एव + आचरणीयम् एषु ॥

स्वयं मम स्वामिन एव तावद् यद् अर्थम् आत्मन्य् अपि निर्-व्यपेक्षाः । अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दास-भावम् ॥

येषां सुखे यान्ति मुदं मुनि-इन्द्राः येषां व्यथायां प्रविशन्ति मन्युम् । तत्-तोषणात् सर्व-मुन्i-indra-tuष्टिस् तत्र + अपकारे * अपकृतं मुनीनां ॥

आदीप्त-कायस्य यथा समन्तान् । न सर्व-कामैर् अपि सौमनस्यम् । सत्व-व्यथायाम् अपि तद्-वद् एव न प्रीत्य्-उपायो * अस्ति महा-कृपाणाम् ॥

तस्मान् मया यज्-जन-दुष्खनेन । दुष्खं कृतं सर्व-महा-दयानां । तद् अद्य पापं प्रतिदेशयामि यत्-खेदितास् ते मुनयः क्षमन्ताम् ॥

आराधनाय + अद्य तथा-गतानां सर्व-आत्मना दास्यम् उपैमि लोके । कुर्वन्तु मे मूर्ध्नि पदं जन-ओघाः निघ्नन्तु वा तुष्यतु लोक-नाथाः ॥

आत्मी-कृतं सर्वम् इदं जगत् तैः कृपा-आत्मभिर् न + एव हि संशयो * अत्र । दृश्यन्तए एते ननु सत्व-रूपास् । तए एव नाथाः किम् अन्-आदरो * अत्र ॥

तथा-गत-आराधनम् एतद् एव स्व-अर्थस्य संसाधनम् एतद् एव । लोकस्य दुष्ख-अपहम् एतद् एव तस्मान् मम + अस्तु व्रतम् एतद् एव ॥

यथा + एको राज-पुरुषः प्रमथ्नाति महा-जनं । विकरोति न शक्नोति दीर्घ-दर्शी महा-जनः ॥

यस्मान् न + एव स एकाकी तस्य राज-बलं बलं । तथा न दुर्-बलं कं-चिद् अपराद्धं विमानयेत् ॥

यस्मान् नरक-पालाश् च कृपावन्तश् च तद्-बलं । तस्माद् आराधयेत् सत्वान् भृत्यश् चण्ड-नृ-पं यथा ॥

कुपितः किं नृ-पः कुर्याद् येन स्यान् नरक-व्यथा । यत्-सत्व-दौर्मनस्येन कृतेन ह्य् अनुभूयते ॥

तुष्टः किं नृ-पतिर् दद्याद् यद् बुद्धत्व-समं भवेत् । यत् सत्व-सौमनस्येन कृतेन ह्य् अनुभूयते ॥

आस्तां भविष्यद्-बुद्धत्वं सत्व-आराधन-संभवं । इह + एव सौभाग्य-यशः सौस्थित्यं किं न पश्यसि ॥

प्रासादिकत्वम् आरोग्यम् प्रामोद्यं चिर-जीवितं । चक्र-वर्ति-सुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥

मैत्रा-आशयश् च यत् पूज्यः सत्व-माहात्म्यम् एव तत् । बुद्ध-प्रसादाद् यत् पुण्यं बुद्ध-माहात्म्यम् एव तत् ॥

ata eva hi candra-pradīpa-sūtre maitrī-bhāva-phalam udbhāvitam | yāvanti pūjāṃ bahu-vidha a-prameyāḥ | kṣetraṃ śateṣu niyuta ca bimbareṣū | tāṃ pūja kṛtvā a-tuliya-nāyakānāṃ | saṃkhyā-kalāpī [doubtful] na bhavati maitra-citte ||

तस्माद् एवं-विधेषु महा-दक्षिणीयेषु + उन्नतिं वर्जयेत् सदा । एषा च + उन्नतिर् अ-योनिशो-मनस्-कारात् संभवति + इति ॥

तस्य + अन्-अवतारे यत्नः कार्यः । यथा + उक्तं रत्न-मेघे । कथं च कुल-पुत्र बोधि-सत्वो * अ-योनिशो-मनस्-कार-अपगतो भवति । इह बोधि-सत्व एकाकी रहो-गतः प्रविवेक-स्थितो न + एवं चित्तम् उत्पादयति । अहं अ-संकीर्ण-विहारी । अहं प्रविवेक-स्थितः । अहं प्रतिपन्नस् ताथागते धर्म-विनये । ये त्व् अन्ये श्रमणा वा ब्राह्मणा वा सर्वे ते संकीर्ण-विहारिणः । संसर्ग-बहुला उद्धुरास् ताथागताद् धर्म-विनयात् ॥

एवं हि बोधि-सत्वो * अ-योनिशो-मनस्-कार-अपगतो भवति ॥

पुनर् अत्र + एव + उक्तम् । इह बोधि-सत्वो वीर्यम् आरभमाणो न तन् महद् वीर्यम् आस्वादयति । न च तेन वीर्येण + आत्मानम् उत्कर्षयति । न परान् पंसयति । तस्य + एवं भवति । को हि नाम स-प्रज्ञ-जातीयः स्व-कर्म-अभियुक्तः परांश् चोदयेत् ॥

एवं हि बोधि-सत्वो * अन्-उन्नत-वीर्यो भवति ॥

एष तु पुण्य-रक्षायाः संक्षेपो यद् बोधि-परिणामना ॥

तथा ह्य् उक्तम् आर्य-अक्षयमति-सूत्रे । न हि बोधि-परिणामितस्य कुशल-मूलस्य + अन्तरा कश्-चित् परिक्षयो यावद् बोधि-मण्ड-निषदनात् । तद् यथा + अपि नाम भदन्त शारद्वतीपुत्र महा-समुद्र-पतितस्य + उदक-बिन्दोर् न + अन्तरा + अस्ति क्षयो यावन् न कल्प-पर्यवसान । इति ॥

इति शिक्षा-समुच्चये भोग-पुण्य-रक्षा सप्तमः परिच्छेदः ॥

[viii. पापशोधन]

पाप-शोधनं अष्टमः परिच्छेदः । उक्ता त्रयाणाम् अप्य् आत्म-भाव-आदीनां रक्षा । शुद्धिर् अधुना वक्तव्या । किम् अर्थम् । शोधितस्य + आत्म-भावस्य भोगः पथ्यो भविष्यति । सम्यक्-सिद्धस्य भक्तस्य निष्-कणस्य + इव देहिनाम् ॥

यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे । यानि च तानि महा-नगरेषु महा-श्मशानानि भवन्त्य् अन्-एक-प्राणि-शत-सहस्र-आकीर्णानि । तत्र + अपि स बोधि-सत्वो महा-सत्वो महान्तम् आत्म-भावं मृतं काल-गतम् उपदर्शयति । तत्र ते तिर्यग्-योनि-गताः सत्वा यावद् अर्थं मांसं परिभुज्य + आयुः-पर्यन्ते मृताः काल-गताः सु-गतौ स्वर्ग-लोके देवेषु + उपपद्यन्ते । स च + एव तेषां हेतुर् भवति यावत् परिनिर्वाणाय । यद् इदं । तस्य + एव बोधि-सत्वस्य पूर्व-प्रणिधान-परिशुद्ध्या । येन दीर्घ-रात्रम् एवं प्रणिधानं कृतं । ये मे मृतस्य काल-गतस्य मांसं परिभुञ्जीरन् । स एव तेषां हेतुर् भवेत् स्वर्ग-उत्पत्तये यावत् परिनिर्वाणाय तस्य शीलवतः । ऋध्यति चेतना । ऋध्यति प्रार्थना । ऋध्यति प्रणिधानम् इति ॥

पुनर् अत्र + एव + उक्तं । स धर्म-काय-प्रभावितो दर्शनेन + अपि सत्वानाम् अर्थं करोति । श्रवणेन + अपि स्पर्शनेन + अपि सत्वानाम् अर्थं करोति । तद् यथा + अपि नाम शान्तमते जीवकेन वैद्य-राजेन सर्व-भैषज्यानि समुदानीय भैषज्य-तरु-संहातम् अयं दारिका-रूपं कृतं प्रासादिकं दर्शनीयं सु-कृतं सु-निष्ठितं सु-परिकर्म-कृतं । सा + आगच्छति गच्छति तिष्ठति निषीदति शय्यां च कल्पयति । तत्र ये आगच्छन्त्य् आतुरा महा-आत्मानो राजानो वा राज-मात्रा वा श्रेष्ठि-गृह-पत्य्-अमात्य-कोट्ट-राजानो वा । तान् स जीवको वैद्य-राजस् तया भैषज्य-दारिकया सार्द्धं संयोजयति । तेषां समनन्तर-संयोगम् आपन्नानां सर्व-व्याधयः प्रस्रभ्यन्ते * अ-रागाश् च भवन्ति सुखिनो निर्-विकाराः । पश्य शान्तमते जीवकस्य वैद्य-राजस्य लौकिक-व्याधि-चिकित्सा-ज्ञानं यद्य् अन्येषां वैद्यानां संविद्यते । एवम् एव शान्तमते तस्य धर्म-काय-प्रभावितस्य बोधि-सत्वस्य यावन्तः सत्वाः स्त्री-पुरुष-दारक-दारिका राग-दोष-मोह-संतप्ताः कायं स्पृशन्ति । तेषां संस्पृष्ट-मात्राणां सर्व-क्लेशाः प्रस्रभ्यन्ते विगत-संतापं च कायं संजानन्ति ॥

यद् इदं तस्य + एव बोधि-सत्वस्य पूर्व-प्रणिधान-सु-परिशुद्धत्वात् । एतद्-अर्थम् आत्म-भावः शोध्यः ॥

किं च अ-शोधने दोषम् आह ।तृण-छन्नं यथा शस्यं रोगैः सीदति न + एधते । बुद्ध-अङ्कुरस् तथा वृद्धिं क्लेश-छन्नो न गच्छति ॥

प्रति-पक्ष-निरासेन वृद्ध्य्-अर्थं च + इत्य् अभिप्रायः ॥

आत्म-भावस्य का शुद्धिः । पाप-क्लेश-विशोधनं । संबुद्ध-उक्त्य्-अर्थ-सारेण । यत्न-अ-भावे त्व् अपाय-गः ॥

तत्र पाप-शोधनं चतुर्-धर्मक-सूत्रे देशितं । चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधि-सत्वो महा-सत्वः कृत-उपचितं पापम् अभिभवति । कतमैश् चतुर्भिः । यद् उत । विदूषण-अ-समुदाचारेण प्रति-पक्ष-समुदाचारेण । प्रत्य्-आपत्ति-बलेन । आश्रय-बलेन च ॥

तत्र विदूषण-अ-समुदाचारो * अ-कुशलं कर्म + अध्यचारति तत्र तत्र + एव च विप्रतिसार-बहुली भवति ॥

तत्र प्रति-पक्ष-समुदाचारः कृत्वा + अप्य् अ-कुशलं कर्म कुशले कर्मण्य् अत्य्-अर्थ-अभियोगं गतः ॥

प्रत्य्-आपत्ति-बलं संवर-समादानाद् अ-करण-संवर-लाभः ॥

तत्र + आश्रय-बलं बुद्ध-धर्म-संघ-शरण-गमनम् अन्-उत्सृष्ट-बोधि-चित्तता च । सु-बलवत्-संनिश्रयेण न शक्यते पापेन + अभिभवितुं । एभिर् मैत्रेय चतुर्भिर् धर्मैः समन्वागतो बोधि-सत्वो महा-सत्वः कृत-उपचितं पापम् अभिभवति + इति ॥

तत्र कथं विदूषण-अ-समुदाचारो भावयितव्यः । यथा सुवर्ण-प्रभास-उत्तम-सूत्रे * अभिहितं ॥

समन्वाहरन्तु मां बुद्धाः कृपा-कारुण्य-चेतसः । ये च दश-दिशि लोके तिष्ठन्ति dvi-pada-uttamआः ॥

यच् च मे पापकं कर्म कृतं पूर्वं सु-दारुणं । तत् सर्वं देशयिष्यामि स्थितो दश-बल-अग्रतः ॥

माता-पितॄन् अ-जानता बुद्धानाम् अ-प्रजानता । कुशलं च + अ-प्रजानता यत् तु पापं कृतं मया ॥

ऐश्वर्य-मद-मत्तेन कुल-भोग-मदेन च । तारुण्य-मद-मत्तेन यत् तु पापं कृतं मया ॥

दुश्-चिन्तितं दुर्-उक्तं च दुष्-कृतेन + अपि कर्मणा । अन्-आदीनव-दर्शिना यत् तु पापं कृतं मया ॥

बाल-बुद्धि-प्रचारेण अ-ज्ञान-आवृत-चेतसा । पाप-मित्र-वशाच् च + एव क्लेश-व्याकुल-चेतसा ॥

क्रीडा-रति-वशाच् च + एव शोक-रोग-वशेन वा । अ-तृप्त-धन-दोषेण यत् तु पापं कृतं मया ॥

अन्-आर्य-जन-संसर्गैर् ईर्ष्या-मात्सर्य-हेतुना । शाठ्य-दारिद्र्य-दोषेण यत् तु पापं कृतं मया ॥

व्यसन-आगम-काले * अस्मिन् कामानां भय-हेतुना । अन्-ऐश्वर्य-गतेन + अपि यत् तु पापं कृतं मया ॥

चल-चित्त-वशेन + एव काम-क्रोध-वशेन वा । क्षुत्-पिपास-आर्दितेन + अपि यत् तु पापं कृतं मया ॥

पान-अर्थं भोजन-अर्थं च वस्त्र-अर्थं स्त्रीषु हेतुना । विचित्रैः क्लेश-संतापैर् यत् तु पापं कृतं मया ॥

काय-वाङ्-मनसां पापं त्रिधा दुश्-चरितं चित्तं । यत् कृतम् ईदृशै रूपैस् तत् सर्वं देशयाम्य् अहम् ॥

यत् तु बुद्धेषु धर्मेषु श्रावकेषु तथा + एव च । अ-गौरवं कृतं स्याद् * धि तत् सर्वं देशयाम्य् अहम् ॥

यत् तु प्रत्य्-एक-बुद्धेषु बोधि-सत्वेषु वा पुनः ।अ-गौरवं कृतं स्याद् * धि तत् स्र्वं देशयाम्य् अहम् ॥

सd-dharma-bhआणकेष्व् एव अन्येषु गुणवत्सु वा । अ-गौरवं कृतं स्याद् * धि तत् सर्वं देशयाम्य् अहम् ॥

सद्-धर्मः प्रतिक्षिप्तः स्याद् अ-ज्ञानं तेन मे सदा । माता-पितृष्व् अ-गौरवं तत् सर्वं देशयाम्य् अहम् ॥

मूर्खत्वेन बालत्वेन मान-दर्प-आवृतेन च । राग-द्वेषेण मोहेन तत् सर्वं देशयाम्य् अहम् ॥

व्यवलोकयन्तु मां बुद्धाः समन्वाहृत-चेतसः । अत्ययं प्रतिगृह्णन्तु कारुण्य-अर्पित-चेतसः ॥

यत् तु पापं कृतं पूर्वं मया कल्प-शतेषु च । तस्य + अर्थं शोक-चित्तो * अहं क्र्पणीयो भय-आर्दितः ॥

भवामि पाप-कर्माणां सततं दीन-मानसः । यत्र यत्र चरिष्यामि न च + अस्ति मे बलं क्व-चित् ॥

सर्वे कारुणिका बुद्धाः सर्वे भय-हरा जगे । अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् ॥

क्लेश-कर्म-फलं मह्यं प्रवाहयन्तु तथा-गताः । स्नापयन्तु च मां बुद्धाः कारुण्य-सरित-उदकैः ॥

सर्वं पापं देशयामि यत् तु पूर्वं कृतं मया । यच् च एतर्हि मे पापं तत् सर्वं देशयाम्य् अहम् ॥

आयत्यां संवरम् आपद्ये सर्व-दुष्-कृत-कर्मणाम् । न छादयामि तत् पापं यद् भवेन् मम दुष्-कृतम् ॥

त्रि-विधं कायिकं कर्म वचसा च चतुर्-विधम् । मनसा त्रि-प्रकारेण तत् सर्वं देशयाम्य् अहम् ॥

काय-कृतं वाच-कृतं मनसा च विचिन्तितं । कृतं दश-विधं कर्म तत् सर्वं देशयाम्य् अहम् ॥

यच् च मे पापकं कर्म अन्-इष्ट-फल-दायकं । तत् सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः ॥

भव-गति-संकटे बाल-बुद्धिना पापं यन् मे कृतं सु-दारुणम् । दश-बलम् अग्रतः स्थितः तत् सर्वं पापं प्रतिदेशयामि । देशयामि च तत् पापं यन् मया संचितं जन्म-संकटे विविधैः काय-प्रचार-संकटैर् भव-संकट-लोक-संकटे चापल-चल-चित्त-संकटे मूर्ख-बाल-कृत-क्लेश-संकटे । पाप-मित्र-आगम-संकटे च । भय-संकट-राग-संकटे दोष-मोह-तम-संकटैर् अपि क्षण-संकटे काल-संकटे पुण्य-उपार्जन-संकटैर् अपि । जिन-संकट-संमुख-स्थितः । तत् सर्व-पापं प्रतिदेशयामि ॥

विशेषतस् तु बोधि-सत्व-आपत्तीनां गुर्वीणां लघ्वीनां देशना + आर्य-उपालि-परिपृच्छायाम् उक्ता । का पुनर् गुर्वी मूल-आपत्तिः ॥

सामान्यतस् तु तत्र + उक्तं । सचेद् उपाले महा-यान-संप्रस्थितो बोधि-सत्वो महा-सत्वो गङ्गा-नदी-वालिक-उपमा राग-प्रतिसंयुक्ता आपत्तीर् आपद्येत । यां च + एकतो द्वेष-संप्रयुक्ताम् आपत्तिम् आपद्येत बोध्i-satva-yआनं प्रमाणी-कृत्य ॥ पे ॥

इयं ताभ्यो गुरुतरा आपत्तिर् या + इयं द्वेष-संयुक्ता । तत् कस्य हेतोः । यो * अयं द्वेष उपाले सत्व-परित्यागाय संवर्तते । रागः सत्व-संग्रहाय संवर्तते । तत्र + उपाले यः क्लेशः सत्व-संग्रहाय संवर्तते । न तत्र बोधि-सत्वस्य छलं न भयं ॥ पे ॥

तस्मात् तर्हि त्वाम् उपाले याः काश्-चन राग-प्रतिसंयुक्ता आपत्तयः सर्व-स् ता अन्-आपत्तय इति वदामि । को * अत्र + अभिप्रायः । सत्व-संग्रहस्य + एव पूर्वम् एव विशेषितत्वाद् । अध्याशय-कृपावतो ह्य् अयम् उपदेशः ॥

यस्माद् अन्-अन्तरम् आह । तत्र + उपाले ये * अन्-उपाय-कुशला बोधि-सत्वास् ते राग-प्रतिसंयुक्ताभ्य आपत्तिभ्यो बिभ्यति । ये पुनर् उपाय-कुशला बोधि-सत्वास् ते द्वेष-संप्रयुक्ताभ्य आपत्तिभ्यो बिभ्यति न राग-प्रतिसंयुक्ताभ्य इति ॥

के पुनर् उपाय-कुशलाः । ये प्रज्ञा-कृपाभ्यां सत्व-त्यागान् निवार्यन्ते । उभयथा हि सत्व-त्यागो भवति । केवल-प्रज्ञया दुष्ख-शून्यता-अवबोधात् । केवलया च कृपया क्लेश-बलाद् अ-चिरेण कृपा-हानिः ॥

यद् उक्तम् उपाय-कौशल्य-सूत्रे । तद् यथा कुल-पुत्र मंत्र-विद्या-धरः पुरुषो राज्ञा पञ्च-पाशकेन बन्धनेन बद्धः स्यात् । स यदा काङ्क्षेत प्रक्रमणाय तदा + एक-मन्त्र-विद्या-बलेन सर्व-बन्धनानि छित्त्वा प्रक्रमेत् । एवम् एव कुल-पुत्र + उपाय-कुशलो बोधि-सत्वः पञ्चभिः काम-गुणै रतिं विन्दति तैश् च + आकीर्णो विहरति । यदा च पुनर् आकाङ्क्षते तदा प्रज्ञा-बल-अधीनेन एकेन च सर्व-ज्ञता-चित्तेन सर्व-काम-गुणान् प्रभुज्य च्युतो ब्रह्म-लोकए उपपद्यतए इति ॥

द्वेषे * अपि किं न + एवम् इष्यते । प्रकृति-महा-स-अवद्यत्वात् । कृपा-वैकल्ये च + उपायस्य + एव + अ-संभवात् ॥

पर-अर्थ-सिद्धिं वा स्व-अर्थाद् गुरुतराम् अधिमुच्यमानः कोप-परवत्तया + अपि परम् अनुशास्य-अनुताप-पूर्वकम् आयत्यां संवरम् उत्पद्यते । अ-हित-निवारके क्रोधे को दोषः । अवकाश-दानेन तद्-वासना-दोषात् कृपा-हानि-दोषः । तच्-छेदेन मूल-च्छेद-दोष इति पश्चाद् दर्शयिष्यामः । यद्य् अपि तस्य सत्वस्य तद्-धितं तथा + अपि बोध्i-satva-kऋपा-हान्या महतः सत्व-अर्थ-अनुबन्धस्य हानिः स्यात् ॥

आर्य-सत्यके परिवर्त्ते * अपि पुत्र-दृष्ट-अन्तः करुणा-अधिष्ठित एव वेदितव्यः । यश् च तत्र + अपि कृपा-प्रतिषेधः स लोक-अर्थ-पाण्डित्येन लोक-आवर्जन-अर्थं । निवार्यमाणश् च यदि हित-कामे बोधि-सत्वे प्रतिघं लभेत स बोधि-सत्वः स्याद् उभयोर् अन्-अर्थः ॥

रागे * अपि तर्हि दोषः पठ्यते । काम-अनुषेवणि भोति अन्ध मनु-जो । माता-पितृ-घातयी । कामान् सेवतु शीलवन्तु वधयी । तस्माद् विवर्जेत् सदा इति ॥

स्व-सौख्य-संगेन च पर-दुष्ख-उपेक्षा दृष्टा ॥

सत्यं दृष्टा । येन पर-दुष्खं स्व-दुष्खतया न + अभ्यस्तं । येन त्व् अभ्यस्तं । तस्य + उभय-दोष-अ-संभवः ॥

यथा + उक्तं चन्द्र-प्रदीप-सूत्रे । तद् यथा + अपि नाम + आनन्द कश्-चिद् एव पुरुषो * अधस्तात् पाद-तलम् आदाय यावन् मुर्द्धन्य् आदीप्तो भवेत् । संप्रज्वलित एक-ज्वली-भु-तस् तं कश्-चिद् एव पुरुष उपसंक्रम्य एवं वदेद् । एहि त्वां भोः पुरुष निर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः समर्पितः समन्वङ्गी-भूतः क्रीडस्व रमस्व परिचारयस्व + इति । तत् किं मन्यसे आनन्द । अपि तु स पुरुषो * अ-निर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः क्रीडेत रमेत् परिचरेत् ॥

आनन्द आह ॥

न + उ हि + इदं भगवन् ॥

ग्

भगवान् आह । क्रीडेत + आनन्द स पुरुषो रमेत् परिचरेत् परिकल्पम् उपादाय + अ-परिनिर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः समर्पितः समन्वङ्गी-भूतो । न त्व् एवं तथा-गतस्य पूर्वं बोध्i-satva-caryआं चरमाणस्य सत्वान् त्रिभिर् अपायैर् दुष्खितान् दृष्ट्वा दरिद्रान् अभूत् सौमनस्यं वा चित्त-प्रसादो वा + इति विस्तरः ॥

लोके * अपि पुत्रे शूलम् आरोप्यमाणे । पश्यतोर् माता-पित्रोर् न स्व-सौख्य-संगो दृष्टः स्व-अनुरूप-कृपा-वशात् । प्रच्छन्नस् तर्हि स-स्वामिकासु नि-स्वामिकासु बाहुल-धर्म-ध्वज-रक्षितासु काम-मिथ्या-आचारो न स्यात् । सति सत्व-अर्थे सत्व-अन्-उपघाते च + अनुबन्धं निरूप्य + अ-दोषः ॥

सम्यग्-ब्रह्म-चारिणीषु कृत-अर्थत्वाद् दूरात् परिहारः । पूज्या च मातृ-भगिन्य्--आदि-वत् । एवं तर्हि भिक्षोर् अप्य् एवम् आपन्नं । न तस्य + अ-परेण ब्रह्म-चर्य-प्रकारेण सत्व-अर्थ-साधनात् ॥

तथा ह्य् उक्तम् आर्य-अक्षयमति-सूत्रे । काल-अ-काले पुनर् अनेन + उपेक्षा करणीया + इति ॥

अथ ततो * अप्य् अधिकं सत्व-अर्थं पश्येत् । शिक्षां निक्षिपेत् ॥

उपाय-कौशल्य-सूत्रे ज्योतिर्-माणवकं द्वाचत्वारिंशद्-वर्ष-सहस्र-ब्रह्म-चारिणम् अधिकृत्य सप्तमे पदे स्थितस्य कारुण्यम् उत्पद्येत । किं च + अप्य् अहम् इदं व्रतं खण्डयित्वा निरय-परायणः स्यां । तथा + अप्य् उत्सहे * अहं नैरयिकं दुष्खं प्रतिवेदयितुम् अथ च + इयं स्त्री सुखिता भवतु । मा कालं करोतु । इति हि कुल-पुत्र ज्योतिर्-माणवकः पश्चान्-मुखो निवर्त्य तां स्त्रियं दक्षिणेन पाणिना गृहीत्वा + एवम् आह । उत्तिष्ठ भगिनि यथा-काम-करणीयस् ते भवामि + इति ॥ पे ॥

सो * अहं कुल-पुत्र महा-कारुण्य-चित्त-उत्पादेन + इत्वरेण काम-उपसंहितेन दश-कल्प-सहस्राणि पश्चान्-मुखम् अकार्षम् । पश्य कुल-पुत्र यद् अन्येषां निरय-संवर्तनीयं कर्म । तद् उपाय-कुशलस्य बोधि-सत्वस्य ब्रह्म-लोक-उपपत्ति-संवर्तनीयम् इति ॥

पुनर् अत्र + एव + आह । यदि बोधि-सत्व एकस्य सत्वस्य कुशल-मूलं संजनयेत् तथा-रूपां च + आपत्तिम् आपद्येत यथा-रूपया + आपत्त्या + आपन्नया कल्प-शत-सहस्रं निरये पच्येत । उत्सोढव्यम् एव भगवन् बोधि-सत्वेन + आपत्तिम् आपत्तुं तच् च नैरयिकं दुष्खं । न त्व् एव तस्य + एकसय् सत्वस्य कुशलं परित्यक्तुम् इति ॥

पुनर् अत्र + एव + आह । इह कुल-पुत्र + उपाय-कुशलो बोधि-सत्वो यदा कदा-चित् कस्मिंश्-चित् पाप-मित्र-वशेन + आपत्तिम् आपद्येत । स इतः प्रतिसंशिक्षते । न मया + एभिः स्कन्धैः परिनिर्वापयितव्यं । मया पुनर् एवं संनाहः संनद्धव्यः । अ-पर-अन्त-कोटिः संसरितव्या सत्वानां परिपाचन-हेतोर् इति । न मया चित्त-दाहः करणीयो । यथा यथा संसरिष्यामि तथा तथा सत्वान् परिपाचयिष्यामि । अपि त्व् एतां च + आपत्तिं यथा-धर्मं प्रतिकरिष्यामि । आयत्यां संवरम् आपत्स्ये । सचेत् कुल-पुत्र प्रव्रजितो बोधि-सत्वः परिकल्पम् आदाय सर्वाश् चतस्रो मूल-आपत्तीर् अतिक्रमेद् अनेन च + उपाय-कौशल्येन विनोदयेद् । अन्-आपत्तिं बोधि-सत्वस्य वदामि + इति ॥

स्फुटं च + आर्य-रत्न-मेघे आनन्तर्य-चिकीर्षु-पुरुष-मारण-अनुज्ञानात् ॥

श्रावक-विनये * अपि मूल-आपत्ति-स्थानए एव कारुण्यान् मृग-आदि-मोक्षणे * अन्-आपत्तिर् उक्ता + एव ॥

अयं च रागे गुणो यद् बोधि-सत्वे रागम् उत्पाद्य सु-गतिर् लभ्यते । न तु क्रोधेन ॥

यथा + उक्तम् उपाय-कौशल्य-सूत्रे । प्रियंकरे बोधि-सत्वे रक्ता ... धव्योत्तरां दारिकाम् अधिकृत्य । प्रियंकरस्य प्रणिधेः पुनः पुनर् या इस्त्रि प्रेक्षेत स-राग-चित्ता । सा इस्त्रि-भावं परिवर्जयित्वा पुरुषो भवेत् यादृग् उदार-सत्वः ॥

पश्यस्व आनन्द गुणा + अस्य ईदृशाः । येन + अन्य-सत्वा निरयम् व्रजन्ति । तेन + एव शूरेषु जनित्व रागं गच्छन्ति स्वर्गं पुरुषत्वम् एव च ॥ पे ॥

भैषज्य-राजेषु महा-यशेषु । को बोधि-सत्वेषु जनयेत द्वेषम् । येसां किलेशो * अपि सुखस्य दायकः । किं वा पुनर् यः तान् सत्-करेया । इति ॥

एवम् अन्यस्मिन् सत्व-अर्थ-उपाये सति राग-ज-आपत्तिर् अन्-आपत्तिर् उक्ता ॥

उपाय-कौशल्य-सूत्रे च गणिका-वत् कृत-अर्थो बोधि-सत्वो निर्-अपेक्षस् तं सत्वं त्यजति + इति विस्तरेण + उक्तम् ॥

अ-लब्ध-भूमेश् च षट्-पारमितासु चरितवत इयं चिन्ता । न + इतरस्य + इत्य् आस्तां प्रासङ्गिकम् ॥

तस्माद् द्वेषस्य + अवकाशो न देय । उक्तं ह्य् उपालि-परिपृच्छायां । बोधि-सत्वानां शारिपुत्र द्वे महा-स-अवद्ये आपत्ती । कतमे द्वे । द्वेष-सह-गता मोह-सह-गता च + इति । तत्र शारिपुत्र प्रथमा आपत्तिर् दश-वर्गे ऋजुकेन देशयितव्या । हस्त-आपत्तिः पञ्च वर्गे गुर्वी देशयितव्या । स्त्रिया हस्त-ग्रहणं चक्षुर्-दर्शनं । दुष्ट-चित्त-आपत्तिर् एक-पुद्गलस्य द्वयोर् वा शारिपुत्र तां गुर्वीं दशयेत् । पञ्च + आनन्तर्य-समन्वागता + आपत्तिर् बोधि-सत्वेन स्त्र्य्--आपत्तिर् दारिका-आपत्तिर् हस्त-आपत्तिः स्तूप-आपत्तिः संघ-आपत्तिस् तथा + अन्याश् च + आपत्तयो बोधि-सत्वेन न पञ्चत्रिंशतां बुद्धानां भगवताम् अन्तिके रात्रिं-दिवं एकाकिना गुर्व्यो देशयितव्याः ॥

तत्र + इयं देशना । अहम् एवं-नामा बुद्धं शरणं गच्छामि । धर्मं शरणं गच्छामि । संघं शरणं गच्छामि ॥

नमः शाक्य-मुनये तथा-गताय + अर्हते सम्यक्-संबुद्धाय । नमो वज्र-प्रमर्दिने । नमो रत्न-अर्चिषे । नमो नाग-ईश्वर-राजाय । नमो वीर-सेनाय । नमो वीर-नन्दिने । नमो रत्न-श्रिये । नमो रत्न-चन्द्र-प्रभाय । नमो * अ-मोघ-दर्शिने । नमो रत्न-चन्द्राय । नमो निर्-मलाय । नमो वि-मलाय । नमः शूर-दत्ताय । नमो ब्रह्मणे । नमो ब्रह्म-दत्ताय । नमो वरुणाय । नमो वरुण-देवाय । नमो भद्र-श्रिये । नमश् छन्दन-श्रिये । नमो * अन्-अन्त-ओजसे । नमः प्रभास-श्रिये । नमो * अ-शोक-श्रिये । नमो नारायणाय । नमः कुसुम-श्रिये । नमो ब्रह्म-ज्योतिर्-विक्रीडित-अभिज्ञाय तथा-गताय । नमो धन-श्रिये । नमः स्मृति-श्रिये । नमः सु-परिकीर्तित-नाम-धेय-श्रिये । नम इन्द्र-केतु-ध्वज-राजाय । नमः सु-विक्रान्त-श्रिये । नमो विचित्र-संक्रमाय । नमो विक्रान्त-गामिने । नमः समन्त-अवभास-व्यूह-श्रिये । नमो रत्न-पद्म-विक्रामिणे । नमो रत्न-पद्म-सु-प्रतिष्ठित-शैल-इन्द्र-राजाय तथा-गताय + अर्हते सम्यक्-संबुद्धाय ॥

evaṃ-pramukhā yāvantaḥ sarva-loka-dhātuṣu tathā-gata-arhantaḥ samyak-saṃbuddhās tiṣṭhanti dhriyante yāpayanti | te māṃ samanvāharantu buddhā bhagavanto yan mayā + asyāṃ jātau anyāsu vā jātiṣv an-avara-agre jāti-saṃsāre saṃsaratā [doubtful] pāpakaṃ karma kṛtaṃ syāt kāritaṃ vā kriyamāṇaṃ vā + anumoditaṃ bhavet | staupikaṃ vā sāṅghikaṃ vā dravyam apahṛtaṃ syāt hāritaṃ vā hriyamāṇaṃ vā + anumoditaṃ bhavet | pañca-an-antaryāṇi kṛtāni syuḥ kāritāni vā kriyamāṇāni vā + anumoditāni bhaveyuḥ | daśa-a-kuśalān karma-pathān samādāya vartitaṃ syāt pare vā samādāpitāḥ syur vartamānā vā + anumoditā bhaveyur yena karma-āvaraṇena + āvṛto * ahaṃ nirayaṃ vā gaccheyaṃ tiryag-yoniṃ vā yama-viṣayaṃ vā gaccheyaṃ praty-anta-jana-padeṣu mleccheṣu vā pratyājāyeyaṃ dīrgha-āyuṣkeṣu deveṣu + upapadyeyam indriya-vikalatāṃ vā + adhigaccheyaṃ mithyā-dṛṣṭiṃ vā + upagṛhṇīyāṃ buddha-utpādaṃ vā virāgayeyaṃ | tat sarvaṃ karma-āvaraṇaṃ teṣāṃ buddhānāṃ bhagavatāṃ jñāna-bhūtānāṃ cakṣur-bhūtānāṃ sa-akṣi-bhūtānāṃ pramāṇa-bhūtānāṃ jānatāṃ paśyatām agrataḥ pratideśayāmi āviṣ-karomi na praticchādayāmy āyatyāṃ saṃvaram āpadye | samanvāharantu māṃ te buddhā bhagavanto yan mayā + asyāṃ jātāv anyāsu vā jātiṣv an-avara-agre vā jāti-saṃsāre saṃsaratā dānaṃ dattaṃ bhaved antaśas tiryag-yoni-gatāya + apy ālopaḥ śīlaṃ vā rakṣitaṃ bhaved yac ca me brahma-carya-vāsa-kuśala-mūlaṃ yac ca me satva-paripāka-kuśala-mūlaṃ yac ca me bodhi-citta-kuśala-mūlaṃ yac ca me * an-uttara-jñāna-kuśala-mūlaṃ tat sarvam aikadhyaṃ piṇḍayitvā

tulayitvā + abhisaṃkṣipya + an-utt arāyāṃ samyak-saṃbodhau uttara-uttarayā pariṇāmanayā yathā pariṇāmitam atītair buddhair bhagavadbhir yathā pariṇāmayiṣyanty an-āgatā buddhā bhagavanto yathā pariṇamanty etarhi daśasu dikṣu praty-utpannā buddhā bhagavantaḥ | tathā + aham api pariṇāmayāmi | sarvaṃ puṇyam anumodayāmi | sarvān buddhān adhyeṣayāmi | bhavatu me jñānam an-uttaram | ye ca + abhyatītās tathā + api ca ye an-āgatā ye ca + api tiṣṭhanti nara-uttamā jināḥ | an-anta-varṇān guṇa-sāgara-upamān upaimi sarvān śaraṇaṃ kṛta-añjaliḥ | ye bodhi-satvāḥ karuṇa-balair upetā vicarati loke satva-hitāya śūrāḥ trāyantu te māṃ sada-pāpa-kāriṇaṃ [doubtful] | śaraṇaṃ yāmi tān buddha-bodhi-satvān ||

इति हि शारिपुत्र बोधि-सत्वेन + इमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्व-तथा-गत-अनुगतैर् मनसि-कारैः पाप-शुद्धिः कार्या । तस्य + एवं सर्व-पाप-विशुद्धस्य तत्र च बुद्धा भगवन्तो मुखान्य् उपदर्शयन्ति सत्व-विमोक्ष-अर्थम् एव । नाना-व्यञ्जन-आकारम् उपदर्शयन्ति विभ्रान्त-बाल-पृथग्-जनानां परिपाचना-हेतोः ॥ पे ॥

न शक्यं सर्व-श्रावक-प्रत्य्-एक-बुद्ध-निकायैर् आपत्ति-कौकृत्य-स्थानं विशोधयितुं यद् बोधि-सत्वस् तेषां बुद्धानां भगवतां नाम-धेय-धारण-परिकीर्तनेन रात्रिं-दिवं त्रि-स्कन्धक-धर्म-पर्याय-प्रवर्तनेन + आपत्ति-कौकृत्यान् निःसरति समाधिं च प्रतिलभते ॥

उक्तो विदूषण-अ-समुदाचारः । प्रति-पक्ष-समुदाचार उच्यते । तत्र गम्भीर-सूत्र-अन्त-परिचयात् पाप-क्षयो भवति ॥

यथा वज्र-च्छेदिकायाम् उक्तं । ये ते सुभूते कुल-पुत्रा वा कुल-दुहितरो वा इमान् एवं-रूपान् सूत्र-अन्तान् उद्ग्रहीष्यन्ति यावत् पर्यवाप्स्यन्ति । ते परिभूता भविष्यन्ति सु-परिभूताः । तत् कस्य हेतोः । यानि तेषां सत्वानां पौर्व-जन्मिकानि कर्माणि कृतान्य् अपाय-संवर्तनीयानि । तानि तया परिभूततया दृष्टए एव धर्मे क्षपयिष्यन्ति बुद्ध-बोधिं च प्राप्स्यन्ति + इति ॥

शून्यता-अधिमुक्त्या + अपि पाप-शुद्धिर् भवति तथा-गत-कोष-सूत्रे वचनात् । यः काश्यप पिता च स्यात् प्रत्य्-एक-बुद्धश् च तं जीविताद् व्यपरोपयेद् इदम् अग्रं प्राण-अतिपातानां । इदम् अग्रम् अ-दत्त-आदानानां यद् उत त्र्i-ratna-dravya-apaharaणता । इदम् अग्रं काम-मिथ्या-आचाराणां यद् उत माता स्याद् अर्हन्ती च । इदम् अग्रं मृषा-वादानां यद् उत तथा-गतस्य + अभ्याख्यानं । इदम् अग्रं पैशुन्यानां यद् उत + आर्य-संघस्य + अ-वर्णः । इदम् अग्रं पारुष्याणां यद् उत + आर्याणाम् अवस्फण्डनं । इदम् अग्रं संभिन्न-प्रलापानां यद् उत धर्म-कामानां विक्षेपः । इदम् अग्रं व्यापादानां यद् उत + आनन्तर्य-परिकर्षणम् । इदम् अग्रम् अभिध्यानां यद् उत सम्यग्-गतानां लाभ-हरण-चित्तता । इदम् अग्रं मिथ्या-दृष्टीनां यद् उत गहनता-दृष्टिः । इमे काश्यप दश + अ-कुशलाः कर्म-पथा महा-स-आवद्याः । सचेत् काश्यप एक-सत्व एभिर् एवं महा-स-आवद्यैर् दशभिर् अ-कुशलैः कर्म-पथैः समन्वागतो भवेत् । स च तथा-गतस्य हेतु-प्रत्यय-संयुक्तां धर्म-देशनाम् अवतरेन् । न + अत्र कश्-चिद् आत्मा वा सत्वो वा जीवो वा पुद्गलो वा यः करोति प्रतिसंवेदयते इति ह्य् अ-कृताम् अन्-अभिसंस्कारां माया-धर्मताम् अ-संक्लेश-धर्मतां प्रकृति-प्रभास्वरतां सर्व-धर्माणाम् अवतरत्य् आदि-शुद्धान् सर्व-धर्मान् अभिश्रद्दधात्य् अधिमुच्यते । न + अहं तस्य सत्वस्य + अपाय-गमनं वदामि + इति ॥

कर्म-आवरण-विशुद्धि-सूत्रे * अप्य् उक्तं । पुनर् अ-परं मञ्जुश्रीर् यो बोधि-सत्व आपत्तिम् अन्-आपत्तिं पश्यति । अ-विनयं विनयं पश्यति । संक्लेशं व्यवदानं पश्यति । संसार-धातुं निर्वाण-धातुं पश्यति । स कर्म-आवरण-विशुद्धिं प्रतिलभतए इति ॥

त्र्i-samaya-rआजे * अपि पाप-प्रति-पक्ष-समुदाचार उक्तः ॥

अक्षिणी निमील्य बुद्ध-बोधि-सत्व-आलम्बन-चित्तः शत-अक्षरम् अष्ट-सहस्रं जपेत् । निमीलित-अक्ष एव बुद्ध-बोधि-सत्वान् पश्यति विगत-पापो भवति । अथ-वा चैत्यं प्रदक्षिणी-कुर्वन्न् अष्ट-सहस्रं जपेच् चैत्य-प्रतिमायाः सd-dharma-pustakआनां च + एकतमं पुरस्-कृत्य + अयम् एव विधिर् इति ॥

चुन्दा-धारणीं वा तावज् जपेद् यावत् पाप-क्षय-निमित्तानि पश्यति स्वप्ने । तद् यथा क्रन्दन-आdi-chardana-dadhi-kषीर-आदि-भोजनात् तु विगत-पापो भवति । वमनाद् वा चन्द्र-सूर्य-दर्शनाद् आकाश-गमनाज् ज्वलित-अनल-महिष-कृष्ण-पुरुष-पराजयाद् भिक्षु-भिक्षुणी-संघ-दर्शनात् क्षीर-वृक्ष-गज-वृष-गिरि-सिंह-आसन-प्रासादन-अवरोहणाद् धर्म-श्रवणाच् च पाप-क्षयः संलक्षयितव्यः ॥

तथा-गत-बिम्ब-परिवर्ते * अपि प्रति-पक्ष-समुदाचार उक्तः । तद् यथा पुरुषो मीढ-अवलिप्तः सु-धौतु-स्नानं कृत्वा गन्धैर् विलिप्यते । तस्य तद् दौर्गन्ध्यं वान्तं विगतं स्याद् एवं पञ्च-आनन्तर्य-कारिणस् तत् पापं विगच्छति । यो * अपि दश-अ-कुशल-कर्म-पथ-समन्वागतस् तथा-गते श्रद्धां प्रतिलभ्य तथा-गत-बिम्बं कारयेत् तस्य + अपि तत् पापं न प्रज्ञायते विशेषतो बोध्i-citta-samanvआगतस्य । विशेषतो * अभिनिष्क्रान्त-गृह-आवासस्य शीलवत इति ॥

पुष्प-कूट-धारण्याम् अप्य् उक्तं । यश् च खलु पुनः सिंह-विक्रीडित-तथा-गतं संमुखं वर्षं वा वर्ष-सहस्रं वा वर्ष-शत-सहस्रं वा सर्व-सुख-उपधानैर् उपतिष्ठेद् । यश् च परिनिर्वृतस्य तथा-गतस्य चैत्ये बोध्i-citta-saंगृहीत एक-पुष्पम् आरोपयेत् तथा-गत-पूजायै जन-अञ्जलिं च + उपनामयेज् जलेन वा सिञ्चयेद् इषिका-पदं वा दद्यान् निर्-माल्यं च + अपनयेद् उपलेपन-प्रदानं वा पुष्प-प्रदानं वा दीप-प्रदानं वा कुर्याद् आत्त-मनाः एक-क्रम-व्यतिहारं वा + अतिक्रम्य वाचं भाषते । नमस् तस्मै बुद्धाय भगवत इति-मात्रे * अत्र सिंह-विक्रीडित-काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा यद् असौ कल्पं वा कल्प-शतं वा कल्प-सहस्रं वा दुर्-गति-विनिपातं गच्छेन् न + इदं स्थानं विद्यतए इति ॥

भैषज्य-गुरु-वैदूर्य-प्रभ-राज-सूत्रे * अप्य् उक्तं । ये पञ्च शिक्षा-पदानि धारयन्ति । ये दश शिक्षा-पदानि धारयन्ति । ये च बोध्i-satva-saंवरं चतुर्थं शतं शिक्षा-पदानां धारयन्ति । ये पुनर् अभिनिष्क्रान्त-गृह-आवासा भिक्षवः पञ्चाश-अधिके द्वे शिक्षा-पद-शते धारयन्ति । याश् च भिक्षुण्यः पञ्च-शिक्षा-पद-शतानि धारयन्ति । ये च यथा-परिगृहीताच् * छिक्षा-संवराद् अन्यतराच् * छिक्षा-पदाद् भ्रष्टा भवन्ति । सचेत् ते दुर्-गत्i-bhaya-bhईतास् तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य नाम-धेयं धारयेयुर् यथा-विभवतश् च पूजां कुर्युः । न भूयस् तेषाम् अपाय-गतिः प्रतिकाङ्क्षितव्या ॥

अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । श्रद्दधासि त्वम् आनन्द । पत्तीयसि । यद् अहं तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य गुणान् वर्णयामि । अथ ते काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा + अत्र गम्भीरे बुद्ध-गो-चरे ॥

अथ + आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । न मे भदन्त भगवन् काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा तथा-गत-भाषितेषु सूत्र-अन्तेषु । तत् कस्य हेतोः । न + अस्ति तथा-गतानाम् अ-परिशुद्ध-काय-वाङ्-मनः-समुदाचारता । इमौ भगवन् चन्द्र-सूर्याव् एवं मह-र्द्धिकाव् एवं महा-अनुभावौ पृथिव्यां पतेतां । सुमेरुः पर्वत-राजा स्थानाच् चलेत् । न तु बुद्धानां वचनम् अन्यथा भवेत् ॥

किं-तु भदन्त भगवन् सन्ति सत्वाः श्रद्धा-इन्द्रिय-विकला ये बुद्ध-गो-चरं श्रुत्वा न श्रद्दधति । तेषाम् एवं भवति । कथम् इदं नाम-धेयं स्मरण-मात्रेण तस्य तथा-गतस्य एत्तका गुण-अनुशंसा भवति । ते न श्रद्दधति । न पत्तीयन्ति । प्रतिक्षिपन्ति । तेषां दीर्घ-रात्रम् अन्-अर्थाय + अ-हिताय + अ-सुखाय विनिपाताय भविष्यति ॥

भगवान् आह । अ-स्थानम् आनन्द + अन्-अवकाशो येषां तस्य नाम-धेयं निपतेत् कर्णे तेषां दुर्-गत्य्-अपाय-गमनं भवेद् इति । दुः-श्रद्धानीयश् च + आनन्द बुद्धानां बुद्ध-गो-चरः ।यच् च त्वम् आनन्द श्रद्दधासि पत्तीयसि । तथा-गतस्य + एषो * अनुभावो द्रष्टव्यः । अ-भूमिश् च + अत्र श्रावक-प्रत्य्-एक-बुद्धानां स्थापयित्वा एक-जाति-प्रतिबद्धान् बोधि-सत्वान् महा-सत्वान् इति ॥

अत्र + एव च + उक्तं । ये च + अन्ये श्राद्धाः कुल-पुत्रा वा कुल-दुहितरो वा + अष्ट-अङ्ग-समन्वागतम् उपवासम् उपवसन्ति । एक-वार्षिकं वा त्रैवार्षिकं वा शिक्षा-पदं धारयन्ति । येषाम् एवम् अभिप्रायः एवं प्रणिधानं । अनेन वयं कुशल-मूलेन पश्चिमायां दिशायां सुखावत्यां लोक-धातौ उपपद्येम यत्र + अमिताभस् तथागतः । यैः श्रुतं भविष्यति तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभव-राजस्य तथा-गतस्य नाम-धेयं । तेषां मरण-काल-समये * अष्टौ बोधि-सत्वा ऋद्ध्या + आगत्य मार्गम् उपदर्शयन्ति । ते तत्र नाना-रङ्गेषु पद्मेषु + उपपादुकाः प्रादुर्-भवन्ति । के-चित् पुनर् देव-लोकए उपपद्यन्ते । तेषां तत्र + उपपन्नानां तत् पूर्वकं कुशल-मूलं न क्षीयते । दुर्-गति-विनिपात-भयं च न भविष्यति । ते ततश् च्युता इह मनुष्य-लोके राजानो भवन्ति । चतुर्-द्वीप-ईश्वराश् चक्र-वर्तिनः । अन्-एकानि सत्व-कोटी-नियुत-शत-सहस्राणि दश कुशलेषु कर्म-पथेषु प्रतिष्ठापयन्ति । अ-परे पुनः क्षत्रिय-महा-शाल-कुलेषु + उपपद्यन्ते । ब्राह्मण-महा-शाल-कुलेषु + उपपद्यन्ते । गृह-पति-महा-शाल-कुलेषु प्रभूत-धन-धान्य-कोष-कोष्ठ-आगार-कुलेषु + उपपद्यन्ते । ते रूप-संपन्ना भवन्ति । परिवार-सम्पन्ना भवन्ति ॥

तत्र + एव + उक्तं । येन च पुनर् मातृ-ग्रामेण तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य नाम-धेयं श्रुतं भविष्यति । उद्गृहीतं वा । स तस्य पश्चिमो मातृ-ग्राम-भावः प्रतिकाङ्क्षितव्य इति ॥

मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलं-कार-सूत्रे * अप्य् उक्तं । ज्ञान-उत्तर-प्रभा-केतुं प्रणिधान-मतिं तथा । शान्त-इन्द्रियं मञ्जु-घोषं भक्तितः प्रणमाम्य् अहम् ॥

य एषां बोधि-सत्वानां नाम-धेयं तु धारयेत् । एतस्य मातृ-ग्रामस्य स्त्री-भावो न भविष्यति ॥

उक्तः संक्षेपात् प्रति-पक्ष-समुदाचारः ॥

प्रत्य्-आपत्ति-बलम् अधुना + उच्यते ॥

यथा + उक्तम् आर्य-क्षितिगर्भ-सूत्रे । प्राण-अतिपातात् प्रतिविरतो भवति बोधि-सत्वो महा-सत्वः सर्व-सत्वानाम् अ-भयं-ददः । अन्-उत्त्रासो * अन्-उपायासो * अ-लोम-हर्षः स तेन कुशल-मूलेन कर्म-विपाकेन । यत् पूर्व-अन्त-कोटि-पञ्च-गति-चक्र-आरुढेन संसार-नद्य्--उद्यातेन प्राण-अतिपात-हेतुना काय-वाङ्-मनसा कर्म-आवरणं क्लेश-आवरणं धर्म-आवरणं कृतं वा स्यात् कारितं वा + अनुमोदितं स्यात् । तत् सर्वं तेन प्राण-अतिपात-वैरमण-चक्रेण सर्व-अन्-अर्थं मर्दयति । यावद् अ-शेषम् अ-विपाकं कुरुते । स-निकाय-स-भागे देव-मनुष्याणां प्रियो भवति निर्-आतङ्को दीर्घ-आयुष्क इति ॥

यावत् पुनर् अ-परं कुल-पुत्र यो बोधि-सत्वो यावज्-जीवम् अ-दत्त-आदानात् प्रतिविरतो भवति स सर्व-सत्वानाम् अ-भयम् ददाति अन्यत्र + अ-स-यत्नेन + अ-संक्षोभेण स्व-लाभेन संतुष्टो विहरति । अ-धार्मिक-भोग-अन्-अभिलाषी स तेन कुशल-मूलेन यावद् अ-दत्त-आदान-हेतुकं कर्म-आवरणं मर्दयति प्रमर्दयति यावद् अ-शेषम् अ-विपाकं कुरुतए इति ॥ पे ॥

एवं दश + अपि कुशलाः कर्म-पथाः स्व-विपक्ष-अ-कुशल-घातकास् तत्र पठ्यन्ते ॥

तथा चन्द्र-प्रदीप-सूत्रे * अपि व्यापाद-विरत्या सर्व-पाप-क्षयः श्रूयते । यथा + आह । सहिष्याम्य् अत्र बालानाम् अ-भूतां परिभाषणां । आक्रोशनं तर्जनां च अधिवासिष्य नायकः ॥

क्षपयिष्ये पापकं कर्म यन् मया पुरिमे कृतम् । अन्येषु बोधि-सत्वेषु व्यापादो जनितो मया + इति ॥

उक्तं प्रत्य्-आपत्ति-बलम् ॥

आश्रय-बलं तु वक्तव्यम् ॥

अत्र सूकरिक-अवदानम् उदाहार्यम् । ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्-गतिं । प्रहाय मानुषान् कायान् दिव्यान् कायांल् लभन्ति ते ॥

इत्य् एवं धर्मं संघं च + अधिकृत्य पाप-क्षयः ॥

आर्य-मैत्रेय-विमोक्षे तु बोधि-चित्तेन पाप-विशुद्धिर् उक्ता । कल्प-उद्दाहा-अग्नि-भूतं सर्व-दुष्-कृत-निर्दहनतया । पाताल-भूतं सर्व-अ-कुशल-धर्म-पर्यादान-करणतया ॥ पे ॥

तद् यथा कुल-पुत्र हाटक-प्रभासं नाम रस-जातं । तस्य + एकं पलं लोह-पल-सहस्रं सुवर्णी-करोति । न च तत्र तत् पलं शक्यते तेन लोह-पल-सहस्रेण पर्यादातुं । न लोही-कर्तुं । एवम् एव + एकः सर्व-ज्ञता-चित्त-उत्पाद-रस-धातुः कुशल-मूल-परिणामना-ज्ञान-संगृहीतः सर्व-कर्म-क्लेश-आवरण-लोहानि पर्यादाय सर्व-धर्मान् सर्व-ज्ञता-वर्णान् करोति । न च सर्व-ज्ञता-चित्त-उत्पाद-रस-धातुः शक्यः सर्व-कर्म-क्लेश-लोहैः संक्लेशयितुं पर्यादातुं वा । तद् यथा कुल-पुत्र + एकः प्रदीपो यादृशे गृहे वा लयने वा प्रवेश्यते स सह प्रवेशितो वर्ष-सहस्र-संचितम् अपि तमो-न्ध-कारं विधमयति । अवभासं च करोति । एवम् एव + एकः सर्व-ज्ञता-चित्त-उत्पाद-प्रदीपो यादृशे सत्व-आशये गहने * अ-विद्या-तमो-न्ध-कार-अनुगते प्रवेश्यते स सह प्रवेशितो * अन्-अभिलाप्य-कल्प-शत-सहस्र-संचितम् अपि कर्म-क्लेश-आवरण-तमो-न्ध-कारं विधमति । ज्ञान-आलोकं च करोति ॥

तद् यथा कुल-पुत्र चिन्ता-मणि-राज-मुकुटानां महा-नाग-राज्ञां न + अस्ति पर-उपक्रम-भयं । एवम् एव बोध्i-citta-mahआ-करुणा-चिन्ता-मणि-राज-मुकुट-अवबद्धानां बोधि-सत्वानां न + अस्ति दुर्-गत्य्-अपाय-पर-उपक्रम-भयम् इति ॥

आर्य-उपालि-परिपृच्छायाम् अप्य् उक्तं । इह + उपाले महा-यानं संप्रस्थितो बोधि-सत्वः सचेत् पूर्व-अह्ण-काल-समये आपत्तिम् आपद्येत । मध्य-अह्न-काल-समये सर्व-ज्ञता-चित्तेन + अ-विरहितो विहरेद् अ-पर्यन्त एव बोधि-सत्वस्य शील-स्कन्धः । सचेन् मध्य-अह्न-काल-समये आपत्तिम् आपद्यते साय-अह्न-काल-समये सर्व-ज्ञता-चित्तेन + अ-विरहितो भवेद् अ-पर्यन्त एव बोधि-सत्वस्य शील-स्कन्धः । एवं यामे यामे विधिर् उक्तः । एवं ह्य् उपाले स-परिहारा शिक्षा महा-यान-संप्रस्थितानां बोधि-सत्वानां । तत्र बोधि-सत्वेन न + अति-कौकृत्य-पर्युत्थानम् उत्पाद्यं न + अति-विप्रतिसारिणा भवितव्यं । सचेत् पुनः श्रावक-यानीयः पुद्गलः पुनः पुनर् आपत्तिम् आपद्येत । नष्टः श्रावकस्य पुद्गलस्य शील-स्कन्धो वेदितव्यः । इति ॥

इति शिक्षा-समुच्चये पाप-शोधनम् अष्टमः परिच्छेदः ॥

[ix. क्षान्तिपारमिता]

क्षान्ति-पारमिता नवमः परिच्छेदः ॥

तद् एवम् अ-विरत-प्रवृत्तां बहु-सुखां दौःश्-ल्य-उत्पत्तिं रक्षन्न् एवं च कर्म-आवरण-विबन्धम् अपनयन् क्लेश-विशोधने प्रयतेत ॥

तत्र + अदौ तावत् क्षमेत । अ-क्षमस्य हि श्रुत-आदौ वीर्यं प्रतिहन्यते * अ-खेद-सहत्वात् । अ-श्रुतवांश् च न समाध्य्-उपायं जानाति । न + अपि क्लेश-शोधन-उपायम् । तस्माद् अ-खिन्नः श्रुतम् एषेत । ज्ञानतो * अपि संकीर्ण-चारिणः समाधानं दुष्-करम् इति । संश्रयेत वनं ततः । तत्र + अपि विक्षेप-प्रशमन-अन्-अभियुक्तस्य चित्तं न समाधीयतए इति । समाधानाय युज्येत । समाहितस्य च न किञ्-चित् फलम् अन्यत्र क्लेश-शोधनाद् इति । भावयेद् अ-शुभ-आदिकं ॥

इत्य् एतानि तावत् क्लेश-शुद्धेर् उद्देश-पदानि ॥

इदानीं निर्देश उच्यते । तत्र क्षान्तिस् त्रि-विधा धर्म-संगीति-सूत्रे * अभिहिता । दुष्ख-अधिवासन-क्षान्तिः । धर्म-निध्यान-क्षान्तिः । पर-अपकार-मर्षण-क्षान्तिश् च + इति । तत्र दुष्ख-अधिवासन-क्षान्ति-विपक्षो * अन्-इष्ट-आगम-प्राप्त-दुष्ख-भीरुता । इष्ट-विघात-प्राप्तश् च सुख-अभिष्वङ्गस् ताभ्यां दौर्मनस्यं । ततो द्वेषो लीनता च ॥

अत एव + आह चन्द्र-प्रदीप-सूत्रे । सुखे * अन्-अभिष्वङ्गः । दुष्खे * अ-वैमुख्यम् इति ॥

रत्न-मेघ-सूत्रे * अप्य् उक्तं । यए इमे आध्यात्मिकाः शोक-परिदेव-दुष्ख-दौर्मनस्य-उपायासास् तान् क्षमते * अधिवासयति + इति ॥

आर्य-उग्रदत्त-परिपृच्छायाम् अप्य् उक्तं । पुनर् अ-परं गृह-पते गृहिणा बोधि-सत्वेन + अनुनय-प्रतिघा-अपगतेन भवितव्यम् अष्ट-लोक-धर्म-अन्-अनुलिप्तेन । तेन भोग-लाभेन वा भार्या-पुत्र-लाभेन वा धन-धान्य-वित्त-लाभेन वा न + उन्नमितव्यं न प्रहर्षितव्यं । सर्व-विपत्तिषु च + अनेन न + अवनमितव्यं । न दुर्-मनसा भवितव्यं एवं च + अनेन प्रत्यवेक्षितव्यं । माया-कृतं सर्व-संस्कृतं विठपन-प्रत्युपस्थान-लक्षणं । कर्म-विपाक-निर्वृत्ता ह्य् एते । यद् इदं माता-पितृ-पुत्र-भार्या-दासी-दास-कर्म-कर-पौरुषेय-मित्र-अमात्य-ज्ञाति-सालोहिता । न + एते मम स्वकाः । न + अहम् एतेषाम् इति ॥

अपि च । यद्य् अस्त्य् एव प्रतीकारो दौर्मनस्येन तत्र किम् । प्रतीकारे * अपि मुह्येत दुर्-मनाः क्रोध-मूर्च्छितः ॥

लीनत्वाद् वा हत-उत्साहो गृह्यते परया + आपदा । तच्-चिन्तया मुधा यान्ति ह्रस्वम् आयुर् मुहुर् मुहुः ॥

तेन + अभ्यासात् त्यजेद् एतं निर्-अर्थकम् अन्-अर्थ-वत् ॥

कथं च दौर्मनस्य-त्यागो * अभ्यस्यते । लघु-सु-कुमार-चित्त-उत्सर्गात् ॥

यथा + उक्तम् उग्रदत्त-परिपृच्छायां । अपगत-तूल-पिचु-उपमता-चित्तस्य + इति ॥

आर्य-गण्ड-व्यूहे * अप्य् उक्तं । दुर्-योधनं चित्तं ते दारिके उत्पादयितव्यं सर्व-क्लेश-निर्घाताय । अ-पराजित-चित्तं सर्व-अभिनिवेश-विनिर्भेदाय । अ-क्षोभ्य-चित्तं विषम-आशयत्व-सागर-आवर्त-प्रयातेष्व् इति ॥

न च + अभ्यासस्य दुष्-करं नाम किञ्-चिद् अस्ति । तथा हि मूढतराणाम् अपि तावद् भार-हारक-कैवर्तक-र्षक-आदीनां दुष्ख-अभ्यासात् क्षुद्रतर-फले * अपि वस्तुनि संरूढ-किण-अङ्कितं चित्तम् अवसादेन न परिभूयते । किं पुनः सर्व-संसार-सुख-सर्व-बोध्i-satva-sukha-an-uttara-pada-samadhigअम-फले कर्मणि । तथा प्राकृता अपि किञ्-चिद् अपकारिष्व् आत्म-दुष्कृतेन + एव हतेषु स्वयं मृत्युषु प्रहर्तुं गाढ-प्रहार-वेदना अपि संग्रामयन्त्य् एव । कि.ं पुनर् द्राघिष्ठ-काल-अपकारिषु दुष्ख-उपात्त-कुशल-धन-लव-स्तैन्येषु नरकेषु न + अवध्य-घातकेषु भव-चारक-पालकेषु निः-सरण-द्वार-दिग्-नाशकेष्व् आनुकूल्ये * अपि दृढतर-वाधा-करेष्व् अन्-अपकृत-वैरिष्व् अन्-अवधि-कल्प-आबद्ध-दृढ-वैरेषु क्लेश-शत्रुषु प्रहर्तुम् उत्साहो दुष्ख-सहनं वा न भवेत् । विशेषतस् त्र्i-bhuvana-vijayayआ बद्ध-परिकरस्य मार-शवर-प्रतिगृहीत-जगd-bandi-mokषाय संग्रामयतः । तत्र + आत्म-दुष्ख-अभ्यास-पूर्वकं कष्टं कष्टतर-अभ्यासः सिध्यति । यथा च + अभ्यास-वशात् सत्वानां दुष्ख-सुख-स/म्ज्ञा । तथा सर्व-दुष्ख-उत्पादेषु सुख-संज्ञा प्रत्युपस्थान-अभ्यासात् सुख-संज्ञा + एव प्रत्युपतिष्ठते । एतन् निष्यन्द-फलं च सर्व-धर्म-सुख-आक्रान्तं नाम समाधिं प्रतिलभते ॥

उक्तं हि पिता-पुत्र-समागमे । अस्ति भगवन् सर्व-धर्म-सुख-क्रान्तो नाम समाधिः । यस्य समाधेः प्रतिलम्भाद् बोधि-सत्वः सर्व-आरम्बण-वस्तुषु सुखाम् एव वेदनां वेदयते । न + अ-दुष्ख-अ-सुखां । तस्य नैरयिकाम् अपि कारणां कार्यमाणस्य सुख-संज्ञा + एव प्रत्युपस्थिता भवति । मानुषीम् अपि कारणां कार्यमाणस्य हस्तेष्व् अपि छिद्यमानेषु पादेष्व् अपि कर्णेष्व् अपि नासास्व् अपि सुख-संज्ञा + एव प्रत्युपस्थिता भवति । वेत्रैर् अपि ताड्यमानस्य + अर्द्ध-वेत्रैर् अपि कशाभिर् अपि ताड्यमानस्य सुख-संज्ञा + एव प्रवर्तते बन्धन-आगारेष्व् अपि प्रक्स्.इप्तस्य ॥ पे ॥

तैल-पाचिकं वा क्रियमाणस्य । इक्षु-कुट्टितवद् वा कुट्ठ्यमानस्य । नड-चिप्पितिकं वा चिप्यमानस्य तैल-प्रद्योतिकं वा + आदीप्यमानस्य सर्पिः-प्रद्योतिकं वा दधि-प्रद्योतिकं वा + आदीप्यमानस्य सुख-संज्ञा + एव प्रत्युपस्थिता भवति । उल्का-मुखं वा ह्रियमाणस्य सिंह-मुखं वा ह्रियमाणस्य शुष्क-वर्त्तिकां वा वर्त्यमानस्य ॥ पे ॥

कार्षापण-च्छेदिकं वा छिद्यमानस्य पिष्ट-पाचनिकं वा पाच्यमानस्य हस्तिभिर् वा मर्द्यमानस्य सुख-संज्ञा + एव प्रवर्तते । अक्षिण्य्--उत्पाठ्यमाने जीव-शूलिकम् अपि क्रियमाणस्य सर्वशो वा + अ-घातं निर्णीय शिरसि वा प्रपात्यमाने सुख-संज्ञा + एव प्रवर्तते । न दुष्ख-संज्ञा । न + अ-दुष्ख-अ-सुख-संज्ञा ॥

तत् कस्य हेतोः । तथा हि बोधि-सत्वस्य महा-सत्वस्य दीर्घ-रात्रं चर्यां चरत एतत् प्रणिधानम् अभूत् । ये मां भोजयेरन् । ते उपशम-शम-सुखस्य लाभिनो भवेयुः । ये मां पालयेयुः सत्-कुर्युर् गुरु-कुर्युर् मानयेयुः पूजयेयुः सर्वे ते उपशम-सुखस्य लाभिनो भवेयुः । ये * अपि माम् आक्रोशेयुर् विस्पर्शेयुस् ताडयेयुः शस्त्रेण + आछिन्द्युर् यावत् सर्वशो जीविताद् व्यपरोपयेयुः सर्वे ते संबोधि-सुखस्य लाभिनो भवेयुः । अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुध्येरन्न् इति ॥

स एभिर् मनस्-कारैः समन्वागत एतेन कर्मणा । एभिः प्रणिधिभिः समन्वागतः सर्व-सत्व-अनुगतां सुख-संज्ञाम् आसेवते निसेवते भावयति बहुली-करोति । स तस्य कर्मणो विपाकेन सर्व-धर्म-सुख-आक्रान्तं नाम समाधिं प्रतिलभते । यस्मिन् समये बोधि-सत्वेन सर्व-धर्म-सुख-आक्रान्तो नाम समाधिः प्रतिलब्धो भवति तस्मिन् समये अ-क्षोभ्यो भवत्य् अ-संहार्यः सर्व-मार-कर्मभिर् इति विस्तरः ॥

अयं हि प्रयोगः सर्व-परित्याग-पूरणः । सर्व-चर्या-दुष्-कर-चर्या-साधनः सर्व-क्षान्ति-दृढी-करणः सर्व-वीर्य-आसंसादनः । सर्व-ध्यान-प्रज्ञा-अङ्ग-संभारः । तस्मान् नित्य-मुदितः स्यात् ॥

यथा + आह चन्द्र-प्रदीप-सूत्रे । स-गौरवः प्रीत-मनाः सदा भवेत् । सौम्याय दृष्टीय सदा स्थितो भवेद् । इति ॥

उक्तं च + अक्षयमति-सूत्रे । तत्र कतमा मुदिता । यावद् धर्म-अनुस्मरणात् प्रीतिः प्रसादः प्रामोद्यं चित्तस्य + अन्-अवलीनता + अन्-अवमृद्यता + अ-परितर्षणा । सर्व-काम-रतीनाम् अपकर्षणा सर्व-धर्म-रतीनां प्रतिष्ठानं । चित्तस्य प्रामोद्यं कायस्य + औद्बिल्यं बुद्धेः संप्रहर्षणं मनस उत्प्लवः । तथा-गत-काय-अभिनन्दन-रतिर् लक्षण-अनुव्यञ्जन-विभूषण-पर्येष्टि-कौशल्यं । कुशल-धर्म-श्रवण-अ-परिखेदता । तत्व-धर्म-प्रतिशरण-प्रतिपत्ति-प्रीति-प्रसाद-प्रमोद्यं मुदितस्य धर्म-उत्प्लवः । सततं सत्वेष्व् अ-प्रतिहत-बुद्धिता । तीव्र-च्छन्दता । बुद्ध-धर्म-पर्येष्टिषु तस्य च धर्म-च्छन्दस्य + अन्-उत्सृजनता । उदारेषु बुद्ध-धर्मेष्व् अधिमुक्तिः । विमुक्तिः प्रादेशिक-यान-अपकृष्ट-चित्त-उत्पादः । मात्सर्य-अ-संकुचितश् चित्त-उत्पादः । याचितस्य दातु-कामता । ददतो दत्त्वा च त्रि-मण्डल-परिशोधितं दान-प्रामोद्यं । शीलवत्सु सदा प्रसादः । दुः-शीलेष्व् अनुग्रह-प्रीतिः । स्व-शील-परिशुद्ध्या सर्व-दुर्-गन्धम् अतिक्रम-आश्वासनं । तथा-गत-शील-परिणामनता । दृढ-अ-भेद्यता । पर-दुर्-उक्त-दुर्-आगतेषु वचन-पथेष्व् अ-प्रतिहत-चित्तता । क्षान्ति-सौरत्यं । निर्-मानता । गुरुषु गौरव-अवनामश् चित्री-कारः । सदा स्मित-मुखता भृकुटि-विगतता । पूर्व-अभिलापिता + अ-कुहनता + अन्-एष्यैषिकता शुद्ध-आशयता चित्त-अ-कर्कशता + अ-कुटिलता । सर्वत्र + अनुशंस-दर्शिता आत्म-स्खलित-प्रत्यवेक्षिता । आपत्तिष्व् अ-चोदनता संरञ्जनीय-धर्मेष्व् अनुवर्तनता । शास्तृ-प्रेम बोधि-सत्वेषु । आत्म-प्रेम धर्मेषु । जीवित-प्रेम तथा-गतेषु । माता-पितृ-प्रेम गुरुषु । पुत्र-प्रेम सत्वेषु । बुद्ध-प्रेम आचार्य-उपाध्यायेषु । उत्तम-अङ्ग-शिरः-प्रेम प्रतिपत्तिषु । हस्त-पाद-प्रेम पारमितासु । सर्व-रत्न-प्रेम धर्म-भाणकेषु । सर्व-रति-क्रीडा-प्रेम + अनुशासनीषु । आरोग्य-प्रेम संतुष्टौ । भैषज्य-प्रेम धर्म-पर्येष्टिषु । वैद्य-प्रेम चोदक-स्मारकेषु । इति हि या सर्व-इन्द्रियेष्व् अन्-अवलीन-इन्द्रियता इयम् उच्यते मुदिता + इत्य् आदि ॥

अत्र च शिक्षितान् बोधि-सत्वान् इदं वचनम् अलं-करोति यद् उक्तम् आर्य-महा-मेघे । निरय-गत्i-citta-nitya-samआधान-शीलाश् च निरय-गति-प्रियाश् च निरय-गत्i-pattana-vaणिजश् च भवन्ति । निरय-लोलाश् च भवन्ति निरय-लोभ-मत्सरिणश् च निरय-अग्न्i-citta-praguण्णाः भवन्ति + इति ॥

उक्ता दुष्ख-अधिवासना क्षान्तिः ॥

आर्य-सागरमति-सूत्रे तु त्रि-विधा + अपि क्षान्तिर् उक्ता । इह सागरमते बोधि-सत्वो महा-सत्वः सर्व-ज्ञता-चित्त-उत्पाद-रत्ने । अन्-आर्यैर् दुः-शीलैः सत्वैर् मारैर् मार-कायिकाभिर् वा देवताभिर् मार-अधिष्ठितैर् वा मार-दूतैर् वा विहेठ्यमानः समीर्यमाणः क्षोभ्यमानस् तर्ज्यमानस् ताड्यमानो न भिद्यते ततो । अध्याशय-चित्त-उत्पादो न भिद्यते सर्व-सत्व-प्रमोक्ष-महा-करुणा-वीर्य-आरम्भात् । न भिद्यते त्र्i-ratna-vaंश-अन्-उपच्छेद-पराक्रमात् । न भिद्यते सर्व-धर्म-समुदानयन-कुशल-प्रयोगात् । न भिद्यते लक्षण-अनुव्यञ्जन-परिनिष्पत्ति-गतात् पुण्य-संभार-उपचयात् । न भिद्यते बुद्ध-क्षेत्र-परिशुद्ध्य्-अभिनिर्हार-आहृताद् औत्सुक्यात् । न भिद्यते सर्व-धर्म-अ-परिग्रह-अभियुक्तात् काय-जीवित-उत्सर्गात् । न भिद्यते सर्व-सत्व-परिपाचन-अभियुक्ताद् आत्म-सौख्य-अन्-अध्यवसानात् । स एवम् अध्याशय-संपन्न एव समानः सर्व-सत्वानाम् अन्तिकाद् उच्च-घनां सहते । उन्मननां कुत्सनां सहते सर्व-सत्वानाम् आक्रोश-परिभाषां दुर्-उक्त-दुर्-आगतान् वचन-पथान् सहते । सर्व-सत्व-पीडां सहते । सर्व-सत्व-भारांश् च सहते उत्तारयति वा न च खिद्यते । न च लीयते । न संलीयते । न विषीदति । बलम् उपदर्शयति । स्थाम संजनयति । वीर्यम् आरभते । पराक्रमं पराक्रमते । उत्साहं जनयति । उन्मूढ-चित्तं निगृह्णाति । स आक्रुष्टो न प्रत्याक्रोशति । ताडितो न प्रतिताडयति । रोषितो न प्रतिरोषयति । क्रुद्धाय न प्रतिक्रुध्यति । एवं चित्त-गणना-संनाहं संनह्यति । ... सचेत् पुनर् एते सत्वा यावन्तो दशसु दिक्षु प्रभाव्यमानाः प्रभाव्यन्ते ते सर्वे *

असि-शक्त्i-tomara-pआलि-योगेन मां पृष्ठतः पृष्ठतो * अनुबध्नीयुः । यत्र + एष पृथिवी-प्रदेशे स्थितो वा निषण्णो वा चङ्क्रम्यमाणो वा शयानो वा बोधि-चित्तम् उत्पादयिष्यति दान-चित्तं वा यावत् प्रज्ञा-चित्तं वा श्रुत-कुशल-मूल-चित्तं वा + उत्पादयिष्यति तत्र + अस्य पृथिवी-प्रदेशे शत-धा-बदरी-पत्त्र-प्रमाणं कायं छेत्स्यामो विकरिष्यामो विध्वंसयिष्यामस् । ते चेत् सर्व-सत्वा माम् आक्रोशयेयुः परिभाषेरन् कुत्सयेयुः पंसयेयुर् अ-सत्याभिर् वाग्भिः परुषाभिर् वाग्भिः समुच्चरेयुर् अधिष्ठिता अन्-अर्थ-कर्माणः शत-धा-बदरी-पत्त्र-प्रमाणं मम कायं छिन्ध्युर् भिन्द्युर् विकरेयुर् विध्वंसयेयुः । एवं मया न कस्य-चित् सत्वस्य + अन्तिके क्षोभ-चित्तम् उत्पादयितव्यं । तत् कस्य हेतोः । पूर्वा कोटिः संसारस्य + अ-प्रमाणी-कृता यत्र मे * अयम् आत्म-भावो नरक-गतस्य + अपि तिर्यग्-योनि-गतस्य + अपि यम-लोक-गतस्य + अपि मनुष्य-गतस्य + अपि काम-आहार-पलिगुद्धस्य धर्मान् अ-श्रुतवतो विषम-आजीव-गो-चरस्य निर्-अर्थक-जीविनः अङ्ग-प्रत्य्-अङ्गस्य शत-धा छिन्नो भिन्नो निकृत्तो विविधाभिश् च कारणाभिः कारितो न च मया ततो निदानम् आत्म-अर्थं कृतो न पर-अर्थः । सचेत् पुनर् पुनर् मम + एते सर्व-सत्वा अ-पर-अन्त-कोटिं छिन्द्युर् भिन्द्युर् विकिरेयुर् विध्वंसयेयुस् तथा + अपि मया + अ-परित्यक्ता + एव सर्व-ज्ञता । अ-परित्यक्ता एव सर्व-सत्वाः । अ-परित्यक्तः कुशलो छर्म-छन्दः । तत् कस्य हेतोः । सर्वा ह्य् एषा काय-पीडा काय-विवर्तना । नैरयिकस्य दुष्खस्य शततमीम् अपि कलां न + उपैति यावद् उपनिषदम् अपि न क्षमते । नरक-आवासम् अप्य् अहम् उत्सहे । न पुनर् मया

बुद्ध-धर्माः परित्यक्तव्या न सर्व-सत्व-आरम्बणा महा-करुणा ॥ पे ॥

यन् निदानं पुनर् व्यापाद उत्पद्येत । तं वयं धर्मं प्रहास्यामः । कतमश् च स धर्मो । यद् उत काय-प्रेम काय-निकेतः काय-अध्यवसानं । उत्सृष्टश् च काय उत्सृष्टो व्यापादः । एवं धर्म-गणना-आविष्टः सागरमते बोधि-सत्वः सर्व-सत्व-पीडां सहते ॥ पे ॥

यः कायस्य + उत्सर्गः काय-परित्यागः काय-अन्-अवेक्षा । इयम् अस्य दान-पारमिता ॥

यत् काये छिद्यमाने सर्व-सत्वान् मैत्र्या स्फरति । वेदनाभिश् च न संह्रियते । इयम् अस्य शील-पारमिता ॥

यत् काये छिद्यमाने य एव + अस्य कायं छिन्दति तेषाम् एव प्रमोक्ष-अर्थं क्षमते । न च चित्तेन क्षण्यते क्षान्ति-बलं च + उपदर्शयति + इयम् अस्य क्षान्ति-पारमिता ॥

येन वीर्येण तं सर्व-ज्ञता-छन्दं न + उत्सृजति चित्त-बल-आधीनं च प्रतिगृह्णाति । संसारम् एव च + अनुबध्नाति । कुशल-मूल-आरम्भम् एव च + आरभते । इयम् अस्य वीर्य-पारमिता ॥

यत् काये विकीर्यमाणे तत् सर्व-ज्ञता-चित्त-उत्पाद-रत्नं कर्तुं न संमुह्यति बोधिम् एव + अपेक्षते शान्त-प्रशान्तम् एव प्रत्यवेक्षते । इयम् अस्य ध्यान-पारमिता ॥

यत् काये छिद्यमाने कायस्य तृण-काष्ठ-कुड्यवत्-प्रतिभास-उपमतां प्रत्यवेक्षते माया-धर्मतां च कायस्य + अवतरति । भूत-अ-नित्यतां च भूत-दुष्खतां च भूत-अन्-आत्मतां च भूत-शान्ततां च कायस्य + उपनिध्यायति । इयम् अस्य प्रज्ञा-पारमिता + इति विस्तरः ॥ पे ॥

पुनर् अ-परम् अस्य + एवं भवति । एष सत्वः कुसीदः शुक्ल-धर्म-रहितः । स माम् आक्रोशयति परिभाषते । हन्त वयम् आरब्ध-वीर्या भविष्यामः । अ-तृप्ताः कुशल-मूल-पर्येषण-अभियुक्ता । एष एव तावन् मया सत्वः पूर्वतरं बोधि-मण्डे निषादयितव्यः । पश्चान् मया + अन्-उत्तरा सम्यक्-संबोधिर् अभिसंबोद्धव्या + इति ॥ पे ॥

ईदृशानाम् अस्माभिः सत्वानाम् अ-दान्तानाम् अ-गुप्तानाम् अन्-उपशान्तानाम् अर्थाय संनाहाः संनद्धव्याः ॥ पे ॥

हन्त वयं धर्मतां प्रतिसरिष्यामः । को * अत्र + आक्रोशति वा आक्रुश्यते वा । स परिगवेषमाणो न तं धर्मम् उपलभते । य आक्रोशति वा आक्रुश्यते वा । स आत्म-पर-अन्-उपलब्ध-उपलम्भ-दृष्टि-विगतः क्षमतए इति ॥

bhagavatyām apy uktaṃ | evaṃ cittam utpādayati | yena mayā sarva-satvānāṃ vivāda utsārayitavyaḥ | so * ahaṃ svayam eva vivadāmi | lābhā me dur-labdhā yo * ahaṃ jalpite pratijalpāmi | yena mayā sarva-satvānāṃ saṃkrama-bhūtena bhavitavyaṃ so * ahaṃ parasya tvam ity api vācaṃ bhāṣe | paruṣaṃ vā prati-vāco dadāmi | idaṃ mayā na + eva vaktavyaṃ jaḍa-samena | eḍaka-mūka-samena mayā kalaha-vivādeṣu bhavitavyaṃ | parato dur-uktān dur-āgatān dur-bhāṣitān bhāṣyamāṇān vacana-pathān śṛṇvatā cittaṃ na + āghātayitavyaṃ | pareṣām antike na mama + etat sādhu na prati-rūpaṃ yo * ahaṃ parasya doṣa-antaraṃ saṃjanayeyam | etan na mama prati-rūpaṃ yad ahaṃ pareṣāṃ doṣa-antaram api saṃśrotavyaṃ manye | tat kasya hetoḥ | na mayā + āśayo vikopayitavyo yena mayā sarva-satvāḥ sarva-sukha-upadhānena sukhayitavyāḥ parinirvāpayitavyāś ca + an-uttarāṃ samyak-saṃbodhim abhisaṃbudhya tatra nāma + ahaṃ vyāpadye | na ca mayā pareṣāṃ sv-aparāddhānām api vyāpattavyaṃ | sa nāma + ahaṃ mohaṃ kṣobhaṃ gacchāmi | idaṃ tu mayā karaṇīyaṃ | dṛḍha-parākramatayā parākrāntavyaṃ | na mayā jīvita-antarāye * api kriyamāṇe kṣobhaḥ karaṇīyaḥ | na mayā bhṛkuṭī mukhe [doubtful] utpādayitavyā + iti ||

बोध्i-satva-prआतिमोक्षे * अप्य् उक्तम् । ये क्रुद्धाः सत्वास् तान् आश्वासयति क्षमापयति । अनुलोमयति धर्मेण तोषयति + इति ॥

इति शिक्षा-समुच्चये क्षान्ति-पारमिता परिच्छेदो नवमः ॥

[x. वीर्यपारमिता]

वीर्य-पारमिता दशमः परिच्छेदः ॥

एवं क्षान्ति-प्रतिस्थितः श्रुते वीर्यम् आरभेत । अन्यथा श्रुतम् एव + अस्य विनाशाय संपद्यते ॥

yathā + uktaṃ candra-pradīpa-sūtre | kiyad-bahū dharma-paryāyuṇeyā [doubtful] śīlaṃ na rakṣeta śrute namanta | na bāhuśrutyena sa śakyu trāyituṃ duḥ-śīlayena vrajamāna dur-gatim ||

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.