Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
शिक्षासमुच्चय (bản khác)
- Tác giả
- शान्तिदेव
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
शान्तिदेव: शिक्षासमुच्चय
शिक्षासमुच्चयः ।
दानपारमिता नाम प्रथमः परिच्छेदः ॥
नमः सर्वबुद्धबोधिसत्वेभ्यः ॥
यस्याश्रवेण नरकादि महाप्रपातदाहादिदुष्खम्
अनुभूतम् अभूद् भवद्भिः ।
तीव्रं पुनः पुनर् अनन्तम् अशान्तचित्तैस् तच् छ्रोतुम् आदरम् उदारतरं भजध्वम् ॥
श्रुत्वा ... पापं अनुद्धतात्मा पूर्वार्जितं च विपुलं क्षपयत्य् अशेषम् ।
अप्राप्तपूर्वम् अपि सौख्यम् अवाप्नुवन्ति हानिं सुखाच् च न कदाचिद् अपि प्रयान्ति ॥
सम्बोधिसत्वसुखम् उत्तमम् अक्षय ... अप्य् असमसंपदम् आप्नुवन्ति ।
तद् धर्मरत्नम् अतिदुर्लभम् अप्य् अलब्धं लब्धक्षणाः
शृण्वत सादरम् उच्यमानम् ॥
आयान्तु च त्रिभुवनाइकहितस्य वाक्यं श्रोतुं प्रसन्नमनसः
सुरनागसत्वाः ।
गन्धर्वयक्षगरुडासुरकिन्नरेन्द्राः प्रेतादयः
श्रवणजाततृषः सहर्षाः ॥
सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतो ऽखिलांश् च वन्द्यान् ।
सुगतात्मजसम्वरावतारं कथयिष्यामि
समुच्चितार्थवाक्यैः ॥
न च किञ्चिद् अपूर्वम् अत्र वाच्यं न च संग्रन्थनकौशलं ममास्ति ।
अताइव न मे परार्थयत्नः स्वमनो भावयितुं ममेदम्
इष्टम् ॥
मम तावद् अनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः ।
यदि मत्समधातुर् एव पश्येद् अपरो ऽप्य् एनम् अतो ऽपि सार्थको ऽयम् ॥
[ bendall ed p2 ---> ]
क्षणसम्पद् इयं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी ।
यदि नात्र विचि-
[ cambridge ms f2a ---> ]
न्त्यते हितं पुनर् अप्य् एष समागमः कुतः ॥
यथोक्तम् आर्यगण्डव्यूहसूत्रे ।
आर्यजयोष्मायतनविमोक्षे ॥
दुर्लभाष्टाक्षणनिर्वृत्तिर् दुर्लभो मनुष्यप्रतिलम्भो दुर्लभा क्षणसंपत्विशुद्धिर् दुर्लभो बुद्धोत्पादो ।
दुर्लभाविकलेन्द्रियता ।
दुर्लभो बुद्धधर्मश्रवो ।
दुर्लभं सत्पुरुषसमवधानं ।
दुर्लभानि भूतकल्याणमित्राणि ।
दुर्लभो भूतनयानुशासन्य्- उपसंहारः ।
दुर्लभं सम्यग्जीवितं ।
दुर्लभः सद्धर्मे तदनुकूलः प्रयत्नो मनुष्यलोकए इति ॥
तद् एवंविधं समागमम् आसाद्य संवृतिपरमार्थतः
सुविदितसंसारदुष्खस्योपशमनसुखाभिलाषिणो बुद्धगोत्रानुभावात् तु यस्य महासत्वस्याइवं प्रत्यवेक्षोत्पद्यते ॥
यदा मम परेषां च भयं दुष्खं च न प्रियं ।
तदात्मनः को विशेषो यत् तं रक्षामि नेतरम् ।
इति तेनात्मनः सत्वधातोश् च ॥
दुष्खान्तं कर्त्तुकामेन सुखान्तं गन्तुम् इच्छता ।
श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर् दृढा ॥
उक्तं हि रत्नोल्काधारण्याम् ॥
श्रद्धयमानु जिनान् जिनधर्म्मान् श्रद्धयते चरि बुद्धसुतानाम् ।
बोधि अनुत्तर श्रद्धयमानो जायति चित्तं महापुरुषाणाम् ॥
श्रद्ध पुरोगतमातृजनेत्री पालिकवर्द्धिक सर्वगुणानाम् ।
[ bendall ed p3 ---> ]
कांक्षविनोदनि ओघप्रतारणि ।
श्रद्धनिदर्शनि
[ cambridge ms f2b ---> ]
क्षेमपुरस्य ॥
श्रद्धानाविलचित्तप्रसादो मानविवर्जितगौरवमूला ।
श्रद्ध निधानधनं चरणाग्रं पाणि यथा
शुभसंग्रहमूलम् ॥
श्रद्ध प्रमोदकरी परित्यागे ।
श्रद्ध प्रहर्षकरी जिनधर्म्मे ।
श्रद्ध विशेषकरी गुणज्ञाने ।
दैशिक प्रापणि बुद्धगती ये ॥
इन्द्रियतीक्ष्णप्रभास्वरतायै ।
श्रद्धबलं अविमर्दनतायै ।
निश्रयक्लेशाधर्षिकतायै ।
ऐषिका श्रद्ध स्वयंभुगुणानाम् ॥
श्रद्धासङ्गतसङ्गसुखेषु अक्षणवर्जिताइकक्षणाग्रम् ।
श्रद्धातिक्रमु मारपथस्य ।
दर्शिकोत्तममोक्षपथस्य ॥
वीजम् अपूतिकु हेतुगुणानां ।
श्रद्ध विरोहणि बोधिद्रुमस्य ।
वर्द्धनि ज्ञानविशेषसुखानां ।
श्रद्ध निदर्शिक
सर्वजिनानां ॥
ये सद श्रद्ध सगौरवबुद्धे ।
ते तु न शील न शिक्ष त्यजन्ति ।
ये तु न शील न शिक्ष त्यजन्ती ।
ते गुणवां स्तुतये [[दोउब्त्]]
गुणवन्तः ॥
ये सद श्रद्ध सगौरवधर्म्मे ।
ते जिनधर्म्मातृप्तशृणोन्ती [[दोउब्त्]] ॥
ये जिनधर्म्म् अतृप्तशृणोन्ती ।
तेष्व् अधिमुक्ति अचिन्तियधर्म्मे ॥
ये सद श्रद्ध सगौरवसंघे ।
ते ऽविवर्त्तिक संघप्रसन्नाः ॥
ये ऽविवर्त्तिक संघप्रसन्नास् ते ऽविवर्त्तिक श्रद्धबलातः ।
[ bendall ed p4 ---> ]
ये ऽविवर्त्तिक श्रद्धबलातो ।
इन्द्रियतीक्ष्णप्रभास्वर तेषाम् ॥
इन्द्रियतीक्ष्णप्रभास्वर येषाम् तेहि विवर्जित पापकमित्राः ।
[ cambridge ms f3a ---> ]
येहि विवर्जित पापकमित्राः धार्म्मिकमित्रपरिग्रह तेषाम् ॥
धार्मिकमित्रपरिग्रह येषाम् ।
ते विपुलं कुशलोपचिन्वन्ति ।
ये विपुलं कुशलोपचिनोन्ती हेतुबलोपगताय महात्मा ॥
हेतुबलोपगताय महात्मा ।
तेषोदारधिमुक्तिविशेषाः ।
येषोदारधिमुक्तिविशेषास् ते सदाधिष्ठित सर्वजिनेभिः ॥
ये सदाधिष्ठित सर्वजिनेभिस् तेषूपपद्यति बोधयि चित्तम् ।
येषूपपद्यति बोधयि चित्तं ते ऽभियुक्त महर्षिगुणेषु ॥
ये ऽभियुक्त महर्षिगुणेषु जातयबुद्धकुले ऽनुजाताः ।
जातय बुद्धकुले ऽनुजातास् ते समयोगायोगविमुक्ताः ॥
ये समयोगायोगविमुक्ताः ।
आशय तेष प्रसादविशुद्धः ॥
आशयु येष प्रसादविशुद्धः तेषाध्याशयूत्तमश्रेष्ठः ।
येषाध्याशयूत्तमश्रेष्ठस् ते सद पारमितासु चरन्ति ॥
ये सद पारमितासु चरन्ती ते प्रतिपन्नेहो महयाने ।
ये प्रतिपन्नेहो महयाने ते प्रतिपत्तितु पूजयि बुद्धान् ॥
ये प्रतिपत्तितु पूजयि बुद्धान् तेषु अनुस्मृति बुद्धाभेद्या ।
येषु अनुस्मृति बुद्धाभेद्या ।
ते सद पश्यिय चिन्तिय बुद्धान् ॥
ये सद पश्यिय चिन्तिय बुद्धान् ।
तेष न जातु न तिष्ठति बुद्धः ॥
येष न जातु न तिष्ठति बुद्धः तेष न जातु रहायति धर्म्मः ।
[ bendall ed p5 ---> ]
येष न जातु रहायति धर्मः ते सद धिष्ठित सर्वजिनेभिर् ।
ityā- [ cambridge ms f3b ---> ]
दिश्रद्धामूलो गुणविस्तरो ऽनन्तस् तत्रोक्तः ।
तत् परिसमाप्य संक्षेपतः पुनर् आह ।
दुर्ल्लभसत्वपृथग्जनकाया ।
ये इमि श्रद्दधीदृशि धर्म्मान् ।
ये तु शुभोपचिताः कृतपुण्यास् ते इमि श्रद्दधि हेतुबलेन ॥
यो दशक्षेत्ररजोपमसत्वान् कल्पम् उपस्थिहि सर्वसुखेन ।
नोत तु तादृशु पुण्यविशेषो यादृश श्रद्दधतो इमि धर्म्मान् ॥
इति ।
तथार्यदशधर्मसूत्रे ऽपि देशितं ॥
श्रद्धा हि परमं यानं येन निर्यान्ति नायकाः ।
तस्माद् बुद्धानुशारित्वं भजेत मतिमान् नरः ॥
अश्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहति ।
वीजानाम् अग्निदग्धानाम् अङ्कुरो हरितो यथा ॥
इति ।
अताइवार्यललितविस्तरसूत्रे प्रतिवेदितं ।
श्रद्धायाम् आनन्द योगः करणीयेदं तथागतो विज्ञपयतीति ॥
तथा सिंहपरिपृच्छायां ।
श्रद्धया ।
क्षणम् अक्षणं वर्जयतीत्य् उक्तम् ॥
तद् एवं ।
श्रद्धामूलं दृढीकृत्य बोधिचित्तं दृढं कर्तव्यं सर्वपुण्यसंग्रहत्वात् तद् यथार्यसिंहपरिपृच्छायां ।
सिंहेन राजकुमारेण भगवान् पृष्तः ॥
संग्रहः सर्वधर्माणां ।
कर्मणा केन जायते ।
प्रियश् च भोति सत्वानां-
[ cambridge ms f4a ---> ]
यत्र यत्रोपपद्यते ॥
भगवान् आह ।
सर्वसत्वप्रमोक्षाय चित्तं बोधाय नामयेत् ।
एष संग्रह धर्माणां भवते तेन च प्रियः ॥
इति ।
तथार्यगण्डव्यूहसूत्रे ऽपि वर्णितं ।
बोधिचित्तं हि कुलपुत्र वीजभूतं सर्वबुद्धधर्मा-
[ bendall ed p6 ---> ]
णां ।
क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया ।
धरणिभूतं सर्वलोकप्रतिशरणतया यावत् पितृभूतं सर्वबोधिसत्वारक्षणतया ॥
पेयालं ॥
वैश्रवणभूतं सर्वदारिद्र्यसंछेदनतया ।
चिन्तामणिराजभूतं सर्वार्थसंसाधनतया ।
भद्रघटभूतं सर्वाभिप्रायपरिपूरणतया ।
शक्तिभूतं क्लेशशत्रुविजयाय ।
धर्मभूतं योनिशो मनस्कारसंछेदनतया ।
खड्गभूतं क्लेशशिरःप्रपातनतया ।
कुठारभूतं दुष्खवृक्षसंछेदनतया ।
प्रहरणभूतं सर्वोपद्रवपरित्राणतया ।
वडिसभूतं संसारजलचराभ्युद्धरणतया ।
वातमण्डलीभूतं सर्वावरणनिवरणतृनविकिरणतया ।
उद्दानभूतं सर्वबोधिसत्वचर्याप्रणिधानसंग्रहणतया ।
चैत्यभूतं सदेवमानुषासुरस्य लोकस्य ।
इति हि कुलपुत्र बोधिचित्तम् एभिश् चान्यैश् चाप्रमाणैर् गुणविशेषैः समन्वागतम् इति ॥
कथं पुनर् ज्ञायते ।
पृथग्जनस्यापि बोधिचित्तम् उत्पद्यते ।
न वाङ्मा-
[ cambridge ms f4b ---> ]
त्रम् एतद् इति ।
अनेकसूत्रान्तदर्शनात् ॥
यथा तावद् आर्यविमलकीर्त्तिनिर्देशे निर्दिष्टं ।
सुमेरुसमां सत्कायदृष्टिम् उत्पाद्य बोधिचित्तम् उत्पद्यते ।
ततश् च बुद्धधर्मा विरोहन्तीति ॥
रत्नकरण्डसूत्राच् च पृथग्जनो ऽपि बोधिसत्वेति ज्ञायते ॥
यथोक्तं ।
तद् यथापि नाम मञ्जुश्रीः अण्डकोषप्रक्षिप्तो ऽपि
कलविङ्कपोतो ।
असंभिन्नाण्डानिश्क्रान्तः कोषात् कलविङ्करुतम् एव मुञ्चति ॥
एवम् एव मञ्जुश्रीः अविद्याण्डकोषप्रक्षिप्तो ऽपि बोधिसत्वो ।
असंभिन्नात्मदृष्टिर् अनिष्क्रान्तस् त्रैधातुकाद् बुद्धरुतम्
एव मुञ्चति ।
यद् इदं शून्यतानिमित्ताप्रणिहितरुतम् एव ॥
सर्वधर्मप्रवृत्तिनिर्देशे ऽपि कथितं ।
जयमतेश् च बोधिसत्वस्य पृथिवी विदारम् अदात् ।
स कालगतो महानिरयं प्रापतद् इति ।
स हि शून्यतां नाधिमुक्तवान् शून्यतावादिनि च प्रतिघं कृतवान् ॥
[ bendall ed p7 ---> ]
नियतानियतावतारमुद्रासूत्रे ऽप्य् आख्यातं ॥
कतमः पशुरथगतिको बोधिसत्वः ।
तद् यथा ।
कश्चित् पुरुषः पञ्चबुद्धक्षेत्रपरमाणुरजःसमान्
लोकधातून् अभिक्रमितुकामः स्यात् ।
स पशुरथम् अभिरुह्य मार्गं प्रतिपद्यते स चिरेण दीर्घेणाध्वना योजनशतं गच्छेत् ।
स तत्र महत्या वातमण्डल्या पश्चात् खलु पु-
[ cambridge ms f5a ---> ]
नर् अशीतिं योजनसहस्राणि प्रत्याकृष्य प्रत्युदावर्त्येति ।
तत् किं शक्नुयात् स पुरुषस् तान् लोकधातून् पशुरथेनातिक्रमितुम् ।
यावद् अनभिलाप्यानभिलाप्यैर् अपि कल्पैर् एकम् अपि लोकधातुम्
अतिक्रमितुम् ।
आह ।
नो हीदं भगवन् ।
भगवान् आह ।
एवम् एव मञ्जुश्रीः यः कश्चिद् बोधिचित्तम् उत्पाद्य महायानं ।
न धारयति ।
न पठति ।
श्रावकयानीयान् सेवते ।
तैश् च सार्द्धं संस्तवं करोति ।
श्रावकयानं च पठति स्वाध्यायति मीमांसते परिबुध्यते ऽर्थांश् च पाठयति यावद् बोधयति ।
स तेन धन्वप्रज्ञो भवति सो ऽनुत्तरज्ञानमार्गात्
प्रत्याकृष्यते प्रत्युदावर्त्त्यते ।
यद् अपि तस्य बोधिसत्वस्य बोधिभावनातः प्रज्ञेन्द्रियं प्रज्ञाचक्षुः तद् अपि तस्य धन्वीक्रियते प्रतिहन्यते ।
श्रयं पशुरथगतिको बोधिसत्वेति ॥
तद् एवम् एषा शून्यतानधिमुक्तिर् महायानानभिरतिश् चासंपूर्णाधिमुक्तिचित्तचर्यस्यापि प्रायो न संदृश्यते ।
प्राग् एवाधिमात्राधिमुक्तिचर्यस्य बोधिसत्वस्य ।
स हि रत्नमेघे ।
सर्वबालचरितविपत्तिसमतिक्रान्तः पठ्यते ऽसंख्येयसमाधिधारणीविमोक्षाभिज्ञाविद्याविक्रीदितो । अनन्तधर्मारामरतिनिरामिषापरान्तकल्पकोट्यनाभोगनिर्विकल्पप्रीतिवेगालोकप्रतिलब्धश् चाप्रमेयकल्पकोटीनियुतशतसहस्रपरममहायानप्रस्थानविचित्रभावनासंपूर्ण परार्थप्रतिपत्तिनिर्याण पुण्यज्ञानसंभाराभिनिहाराभिनिर्वृत्तिः पूर्वयोगशतसहस्रसमृद्धश् च
पठ्यते ।
अथाइतन् नेयार्थं ।
कस्माद् अन्ये बोधिचित्तोत्पादकास्यां भूमौ नेष्यन्ते ।
न चात्रेच्छया किञ्चिद् विशेषचिह्नं नीतार्थं कर्त्तुं लभ्यते ।
अधिमात्राधिमुक्तिचर्याधर्मता वचनाच् च गम्यते ।
यथा मध्यमृदुप्रकाराप्य् अधिमुक्तिचर्यास्त्य् एवेति ॥
अस्य पुनस् तथागतगुह्यसूत्रस्य को ऽभिप्रायो ।
यद् उक्तं ।
[ bendall ed p8 ---> ]
कस्य भगवन् बोधिचित्तोत्पादः ।
आह ।
यस्य महाराजाध्याशयो ऽविकोपितः ।
आह ।
कस्य भगवन्न् अध्याशयो ऽविकोपितः ।
आह ।
यस्य महाराज महाकरुणोत्पादः ।
आह ।
कस्य भगवन् महाकरुणोत्पादः ।
आह ।
यस्य महाराज सर्वसत्वापरित्यागः ।
आह ।
कथं भगवन् सत्वापरित्यक्ता भवन्ति ।
आह ।
यदा महाराजात्मसौख्यं परित्यक्तं भवतीति ।
बोधिचित्तमात्रासन्तुष्टानां करुणाभिलाषसंजनार्थम्
इदम् उक्तं ।
यथा न ते तथागतशासने प्रव्रजिता येषां नास्ति त्यागेति ।
एवम् इहान्यबोधिचित्तनिन्दा द्रष्टव्या न तु बोधिचित्तम् अन्यथा
नोत्पद्यतए एव ॥
यथा दशधर्मकसूत्रे देशितं ।
इह कुलपुत्र बोधिसत्वो गोत्रस्थः सन्न् अनुत्पादितबोधिचित्तः
तथागतेन वा तथागतश्रावकेण वा संचोद्यमानः
संवेद्यमानः समादाप्यमानो ऽनुत्तरायां सम्यक्सम्बोधौ
[ cambridge ms f6a ---> ]
बोधिचित्तम् उत्पादयतीदं प्रथमं कारणं बोधिचित्तोत्पादाय ।
संबोधेर् वा बोधिचित्तस्य वा वर्णं भाष्यमाणं श्रुत्वानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयतीदं द्वितीयं कारणं ।
स सत्वा ... नशरणान् अद्वीपान् दृष्ट्वा कारुण्यचित्तम् उपस्थाप्य
यावद् अनुत्तरायां सम्यक्सम्बोधौ चित्तम् उत्पादयतीदं तृतीयं कारणं बोधिचित्तोत्पादाय ।
स तथागतस्य सर्वाकारपरिपूर्णतां दृष्ट्वा प्रीतिम्
उत्पाद्यानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयतीदं चतुर्थं कारणम् इति ।
तच् च बोधिचित्तं द्विविधं बोधिप्रणिधिचित्तं च
बोधिप्रस्थान चित्तं च ।
यथार्यगण्डव्यूहसूत्रे भाषितं ।
दुर्लभाः कुलपुत्र ते सत्वाः सर्वलोके ये ऽनुत्तरस्यां सम्यक्संबोधौ चित्तं प्रणिदधति ।
ततो ऽपि दुर्लभतमास् ते सत्वा ये ऽनुत्तरां सम्यक्संबोधिम्
अभिसंप्रस्थितेति ।
तत्र बोधिप्रणिधिचित्तं ।
मया बुद्धेन भवितव्यम् इति चित्तं प्रणिधानाद् उत्पन्नं भवति ।
शूरङ्गमसूत्रे ऽपि ।
शाठ्योत्पादितस्यापि बोधिचित्तस्य बुद्धत्वहेतुत्वाभिधानात् ।
कः पुनर् वादः किञ्चिद् एव कुशलं कृत्वा ।
यथोक्तं भद्रकल्पिकसूत्रे ।
घोषदत्तो नाम
[ bendall ed p9 ---> ]
तथागतो यत्र नक्षत्रराजेन तथागतेन
प्रथमं बोधिचित्तम् उत्पादितं ताम्बूलपत्रं दत्त्वा
गोपालकभूतेन ।
एवं विद्युत्प्रदीपो नाम तथागतो यत्र यशसा तथागतेन
प्रथमं बोधिचित्तम् उत्पादितं दशिकां दत्त्वा
तन्त्रवायभूतेन ।
एवम् अनन्तप्रभो नाम तथागतो यत्रार्चिष्मता तथागतेन
प्रथमं बोधिचित्तम् उत्पादितं तृणप्रदीपं दत्त्वा
नगरावलम्बकभूतेन ।
एवं दृढविक्रमो नाम तथागतो यत्र दुष्प्रधर्षेण
तथागतेन प्रथमं बोधिचित्तम् उत्पादितं दत्तकाष्ठं दत्त्वा काष्ठहारकभूतेनेत्य् आदि ॥
चर्याविकले ऽपि च बोधिचित्ते नावमन्यता कर्त्तव्या ।
तस्याप्य् अनन्तसंसारसुखप्रसवनत्वात् ।
यथार्यमैत्रेयविमोक्षे वर्णितं ।
तद् यथापि नाम कुलपुत्र चित्तम् अपि वज्ररत्नं सर्वप्रतिविशिष्टं सुवर्णालंकारम् अभिभवति ।
वज्ररत्ननाम च न विजहाति ।
सर्वदारिद्र्यं विनिवर्त्तयति ।
एवम् एव कुलपुत्राशयप्रतिपत्तिभिन्नम् अपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालंकारम् अभिभवति बोधिसत्त्वनाम च न विजहाति ।
सर्वसंसारदारिद्र्यं विनिवर्त्तयतीति ।
इतश् च विनापि चर्यया बोधिचित्तम् उपकारकम् इति ज्ञातव्यं ।
येनापरराजाववादकसूत्रे कथितं ।
यस्माच् च त्वं महाराज बहुकृत्यो बहुकरणीयः ।
[ cambridge ms f7a ---> ]
असहः सर्वेण सर्वः सर्वथा सर्वं सर्वदा दानपारमितायां शिक्षितुं ।
एवं यावत् प्रज्ञापारमितायां शिक्षितुं ।
तस्मात् तर्हि त्वं महाराजाइवम् एव सम्यक्सम्बोधिछन्दं श्रद्धां त्र ... प्रणिधिं च गच्छन्न् अपि तिष्ठन्न् अपि
निषण्णो ऽपि शयानो ऽपि जाग्रद् अपि भुञ्जानो ऽपि ।
पिवन्न् अपि ।
सततसमितम् अनुस्मर ।
मनसिकुरु भावय ।
सर्वबुद्धबोधिसत्वप्रत्येकबुद्धार्यश्रावकपृथग्जनानाम्
आत्मनश् चातीतानागतप्रत्युत्पन्नानि सर्वकुशलमूलान्य् अभिसंक्षिप्य तुलयित्वा पिण्डयित्वानुमोदस्वाग्रयानुमोदनया
यावद् आकाशसमतया निर्वाणसमतयानुमोदस्वानुमोद्य च
सर्वबुद्धबोधिसत्वप्रत्येक-
[ bendall ed p10 ---> ]
बुद्धार्यश्रावकाणां पूजाकर्मणे निर्यातय ।
निर्यात्य च सर्वसत्वसाधारणानि कुरु ।
ततः सर्वसत्वानां यावत् सर्वज्ञातप्रतिलम्भाय
सर्वबुद्धधर्मपरिपूरणाय दिने दिने त्रैकाल्यम् अनुत्तरायां सम्यक्संबोधौ परिणामयाइवं खलु त्वं महाराज प्रतिपन्नः
सन् राज्यं कारयिष्यसि राज्यकृत्यानि च न हाययिष्यसि
बोधिसंभारांश् च परिपूरयिष्यसीति ॥
अत्राइव चास्य विपाकोक्तः ।
स खलु पुनस् त्वं महाराज तस्य सम्यक्संबोधिचित्तकुशलमूलकर्मणो-
[ cambridge ms f7b ---> ]
विपाकेनानेकशतकृत्वो देवेषूपपन्नो ऽभूः ।
अनेकशतकृत्वो मनुष्येषूपपन्नो ऽभूः ।
सर्वासु च देवमनुष्योपपत्तिष्व् आधिपत्यम् एव कारयसि ।
न च तावत् तव महाराज तस्य सम्यक्संबोधिचित्तस्य
कुशलकर्मणोनत्वं वापूर्णत्वं वा प्रज्ञायते ।
अपि च महाराजाइकम् अपि सम्यक्संबोधिचित्तं सर्वसत्त्वोत्तारणारम्बणत्वात् सर्वसत्वामोचनारम्बणत्वात्
सर्वसत्वसमाश्वासनारम्बणत्वात् सर्वसत्वपरिनिर्वाणारम्बणत्वाद् अप्रमेयासंख्येयकुशलोपचयम् ।
कः पुनर् वादो याइवं बहुलीकरोतीति ॥
एतच् च बोधिचित्तं रूपकायदर्शनोत्पन्नं ।
तत्र पूर्वावदाने पठ्यते ।
एवं तावत् प्रणिधिबोधिचित्तं वेदितव्यं ।
इदं तु वक्तव्यं किम् अभूमिप्रविष्ठस्यापि
बोधिसत्वसम्वराधिकारो ऽस्ति न वेति ।
अस्तीति वेदितव्यं आकाशगर्भसूत्रे लाभसत्कारार्थं मूलापत्तिश्रवणात् ।
दशभूमिकसूत्रे तु प्रथमायां भूमौ दर्शितं ।
न च कञ्चित् सत्कारां कस्यचित् सकाशात् प्रतिकांक्षत्य् अन्यत्र
मयाइवाइषां सर्वसत्वानां सर्वोपकरणबाहुल्यम्
उपनामयितव्यम् इति ।
तथा चाह ।
प्रमुदितायां बोधिसत्वभूमौ सुव्यवस्थितो भवत्य् अचलनयो-
[ cambridge ms f8a ---> ]
गे
... ति ।
पुनश् चोक्तं ।
तथाग-
[ bendall ed p11 ---> ]
तवंशनियतो भवति संबोधिपरायणेति ।
आकाशगर्भसूत्रे त्व् आह ।
श्रावकयानम् एवास्य न भवति प्राग् एव महायानम् इति ।
तथार्योग्रपरिपृच्छायां मात्सर्यपर्यवनद्धस्यापि
शिक्षापदानि प्रज्ञप्तानि ।
प्रमुदितायां तु पठ्यते ।
आत्मसंज्ञापगमाच् चास्यात्मस्नेहो न भवति ।
कुतः ।
पुनः सर्वोपकरणस्नेहेति ।
तथा मस्तकादिदानम् अप्य् अत्रास्योक्तं ॥
एवम् आदि सूत्रेषु भूमिप्रविष्टस्यापि शिक्षाप्रज्ञप्तिर् दृश्यते ।
यत्र वासामान्येन बोधिसत्वम् अधिकृत्योपदेशस् तत्राभ्यासयोग्यतया प्रतिषेधवाक्येन वादिकर्मिकबोधिसत्वेन न
शिक्षितव्यं भवेद् एतत् ।
उभयासंभवे तु सर्वत्र शिक्षितव्यं ।
तत्राप्य् एकस्यां शिक्षायां शिक्षणायाम् अशक्तस्येतरशिक्षानभ्यासादनापत्तिः ॥
आर्याक्षयमतिसूत्रे ऽप्य् एवम् अवोचत् ।
दानकाले शीलोपसंहारस्यापेक्षेति विस्तरः ।
न चात्र शिथिलेन भवितव्यं न च शेषासु न समुदागच्छति ।
यथाबलं यथाभजमानम् इति दशभूमिकसूत्रे वचनात् ।
अयं च संवरः स्त्रीणाम् अपि मृदुक्लेशानां बोध्यभिलाषचित्तानां लभ्यते ।
उक्तं हि बोधिसत्वप्रातिमोक्षे ।
चतुर्भिः शारिपुत्र धर्मैः
[ cambridge ms f8b ---> ]
समन्वागताः बोधिसत्वाः
सत्यवादिनो भवन्तीत्य् आरभ्याह ।
इह शारिपुत्र कुलपुत्रो वा कुलदुहिता वानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्यारब्धवीर्यो विहरति
कुशलधर्मपर्येषणायेत्य् आरभ्य सर्वोपदेशः ॥
संवरग्रहणं च बोधिसत्वशिक्षापदाभ्यासपरमस्य
सांवरिकस्यान्तिकात् कर्तव्यं ।
एवं-
[ bendall ed p12 ---> ]
ह्य् अस्य शिक्षातिक्रमे तीव्रम् अपत्राप्यं गुरुविसंवादनभयं चोत्पद्यते ।
तत्र चानाभोगतः प्रेमगौरवसिद्धिर् इत्य् एष
सामान्यसंवरधर्मः ।
अताइव बोधिसत्वाः तथागतानां पुरतः शिक्षाणाम् अन्यतमशिक्षानिष्पत्तिकामाः समादानं कुर्वन्ति ।
तस्य च कल्याणमित्रस्याभावे दशदिगवस्थितबुद्धबोधिसत्वाभिमुखीभावभावनया संवरो ग्राह्यः संवरम्
आत्मबलं च तुलयित्वा ।
अन्यथा तु सर्वबुद्धबोधिसत्वाः सदेवकश् च लोको विसंवादितः स्यात् ।
सद्धर्मस्मृत्युपस्थानसूत्रे हि किञ्चिन् मात्रं चिन्तयित्वाप्य् अददतः प्रेतगतिर् उक्ता प्रतिज्ञातं चाददतो नरकगतिः ।
किं पुनर् अनुत्तरम् अर्थम् अखिलस्य जगतः प्रतिज्ञायासंपादयतः ।
अताइवोक्तं धर्मसंगीतिसूत्रे ।
सत्यगुरुकेण कुलपुत्र बोधिसत्वेन भवितव्यं ।
सत्यसंगीतिः कुलपुत्र धर्मसंगी-
[ cambridge ms f9a ---> ]
तिः ।
तत्र कुलपुत्र कतमत् सत्यं यद् बोधिसत्वो ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य तच् चित्तं जीवितहेतोर् अपि न
परित्यजति न सत्वेषु विप्रतिपद्यते ।
इदं बोधिसत्वस्य सत्यं ॥
यत् पुनर् बोधिसत्वो ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य
पश्चात् तच् चित्तं परित्यजति सत्वेषु विप्रतिपद्यते ऽयं बोधिसत्वस्य प्रतिकृष्टो मृषावादेति ।
आर्यसागरमतिसूत्रे ऽपि देशितं ।
स्याद् यथापि नाम सागरमते राजा वा राजमात्रो वा सर्वं नागरकं जनं श्वो भक्तेनोपनिमन्त्र्योपेक्षको भवेन् नान्नपानं समुदानयेत् सत्यं सर्वजनकायं विसंवादयेत् ।
तत्र ते ऽन्नपानभोजनम् अलभमानोच्चग्घन्तः प्रक्रामेयुः ।
एवम् एव सागरमते यो बोधिसत्वः सर्वसत्वान् आश्वास्यातीर्णतारणायामुक्तमोचनायानाश्वस्ताश्वासनाय यावन् न
बाहुश्रुत्ये ऽभियोगं करोति नापि ततो ऽन्येषु बोधिपक्ष्यकुशलमूलेषु धर्मेषु ।
अयं बोधिसत्वो विसंवादयति
[ bendall ed p13 ---> ]
सदेवकं लोकं ।
एवं च तं पूर्वबुद्धदर्शिन्यो देवतोच्चग्घन्ति विवादयन्ति ।
दुर्लभास् ते यज्ञस्वामिनो ये महायज्ञं प्रतिज्ञायोत्तारयन्ति ।
तस्मात् तर्हि सागरमते न सा बोधिसत्वेन वाग् भाषितव्या यया
सदेवमानु-
[ cambridge ms f9a ---> ]
षासुरं लोकं विसंवादयेत् ॥
पुनर् अपरं सागरमते बोधिसत्वः केनचिद् एवाधीष्टो भवति धर्मेष्व् अर्थकरणीयेषु ।
तत्र बोधिसत्वेन वाग् भाषिता भवति यावद् आत्मपरित्यागो ऽपि
बोधिसत्वेन कर्तव्यो भवेत् तत्र न पुनः स सत्वो विसंवादयितव्येति ।
तस्मात् स्वबलानुरूपेणाइकम् अपि कुशलमूलं समादाय
रक्षितव्यं ।
यथोक्तम् आर्यक्षितिगर्भसूत्रे ।
एभिर् दशभिः कुशलैः कर्मपथैर् बुद्धत्वं ।
न पुनर् यो ऽन्तशाइकम् अपि यावज्जीवं कुशलं कर्मपथं न
रक्षति अथ च पुनर् एवं वदति ।
अहं महायानिको ऽहं चानुत्तरां सम्यक्संबोधिं पर्येषामीति ।
स पुद्गलः परमकुहको महामृषावादिकः सर्वेषां बुद्धानां भगवतां पुरतो विसंवादको लोकस्योच्छेदवादी
स मूढः कालं कुरुते विनिपातगामी भवतीति ।
यावत् कालं च शक्नोति तावत् कालं कुशलं समादाय
वर्तितव्यं ॥
एतच् च भैषज्यगुरुवैडूर्यप्रभसूत्रे द्रष्टव्यं ।
यस् तु महासत्वाइवं श्रुत्वापि बोधिसत्वचर्यादुष्करताम्
अपि प्रज्ञयावगाह्योत्सहतए एव सकलदुष्खितजनपरित्राणधुरम् अववोढुं तेन वन्दनपूजनपापदेशनपुण्यानुमोदनबुद्धाध्येषणयाचनबोधिपरिणामनं कृत्वा
कल्याणमित्रम् अभ्येत्य त-
[ cambridge ms f10a ---> ] duktânuvādena svayaṃ vā vaktavyaṃ |
समन्वाहराचार्याहम् एवं नामेत्य् उक्त्वा ।
यथार्यमञ्जुश्रीबुद्धक्षेत्रगुणव्यूहालङ्कारसूत्रे
भगवता मञ्जुश्रिया पूर्वजन्मावदाने चर्योपेतं बोधिचित्तम्
उत्पादितं तथोत्पादयितव्यं ।
एवं हि तेनोक्तं ॥
यावती प्रथमा कोटिः संसारस्यान्तवर्जिता ।
तावत् सत्वहितार्थाय चरिष्याम्य् अमितां चरिम् ॥
[ bendall ed p14 ---> ]
उत्पादयाम संबोधौ चित्तं नाथस्य संमुखम् ।
निमन्त्रये जगत् सर्वं दारिद्र्यान् मोचितास्मि तत् ॥
व्यापादखिलचित्तं वेर्ष्यामात्सर्यम् एव वा ।
अद्याग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता ।
ब्रह्मचर्यं चरिष्यामि कामांस् त्यक्ष्यामि पापकान् ॥
बुद्धानाम् अनुशिक्षिष्ये शीलसंवरसंयमे ।
नाहं त्वरितरूपेण बोधिं प्राप्तुम् इहोत्सहे ॥
परान्तकोटिं स्थास्यामि सत्वस्याइकस्य कारणात् ।
क्षेत्रं विशोधयिष्यामि अप्रमेयम् अचिन्तियम् ॥
नामधेयं करिष्यामि दश दिक्षु च विश्रुतं ।
कायवाक्कर्मणी चाहं शोधयिष्यामि सर्वशः ॥
शोधयिष्ये मनस्कर्म कर्म कर्त्तास्मि नाशुभम् ।
इति ॥
न चात्र सार्वकालिकात् संवरग्रहणाज् जन्मान्तरापत्तिशङ्का कर्तव्यात्राइव सूत्रे ऽक्षोभ्यप्रणिधानानुज्ञानाद् एवं ह्य् उक्तं ।
यथा तेनाक्षोभ्येण तथागतेन पूर्वं बोधिसत्वभू-
[ cambridge ms f10b ---> ]
तेनाइवं वाग् भाषिता ।
विसंवादिता मे बुद्धा भगवन्तो भवेयुर् यदि सर्वस्यां जातौ न
प्रव्रजेयम् इति ।
एका जातिः प्रयत्नेन संशोध्या विबुधात्मना ।
अन्यास् तु जातीर् आबोधेः साइव संशोधयिष्यतीत्य् उक्तेः ॥
एवं शारिपुत्र बोधिसत्वेनाक्षोभ्यस्य तथागतस्य
अनुशिक्षितव्यं ।
एवं शिक्षमाणः शारिपुत्र बोधिसत्वो महासत्वः सर्वस्यां जातौ प्रव्रजत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वावश्यं गृहावासान् निष्क्रामति ।
तत् कस्य हेतोः ।
परमो ह्य् अयं शारिपुत्र लाभो यद् उत गृहावासान् निष्क्रमणम् इति ।
यावत् ।
भार्यापुत्रदुहितृतृष्णा चास्य न भवतीति ।
यथा जन्मान्तरेष्व् अयं दोषो न भवति तथात्राइव
वक्ष्यमाणम् इत्य् आस्तां तावद् एतत् ॥
[ bendall ed p15 ---> ]
तद् एवं समात्तसंवरस्य सामान्यम् आपत्तिलक्षणम् उच्यते ।
येनापत्तिलक्षणेन युक्तं वस्तु स्वयम् अप्य् उत्प्रेक्ष्य परिहरेन् न चापत्तिप्रतिरूपकेष्व् अनापत्तिप्रतिरूपकेषु च संमुह्येत ।
बोधिसत्वः सर्वसत्वानां वर्त्तमानानागतसर्वदुष्खदौर्मनस्योपशमाय वर्त्तमानानागतसुखसौमनस्योत्पादाय
च निःशाठ्यतः कायवाङ्मनःपराक्रमैः प्रयत्नं करोति ।
यदि तु तत्प्रत्ययसामग्रीं नान्वेषते तदनन्तराय
प्रतिकाराय न घटते ऽल्पदुष्खदौर्मनस्यं बहुदुष्खदौर्मनस्यप्रतिकारभूतं नोत्पादयति ।
महार्थसिद्ध्यर्थं चाल्पार्थहानिं न करोति क्षणम् अप्य् उपेक्षते ।
सापत्तिको भवति ।
संक्षेपतो ऽनापत्तिः स्वशक्त्यविशयेषु कार्येषु तत्र
निष्फलतया शिक्ष्याप्रज्ञप्त्यभावात् ।
प्रकृतिसावद्यतया त्व् अन्यद् गृह्यतए एव ।
यत्र स्वशक्त्यगोचरे ऽपि त्यागसामर्थ्याद् आपत्तिः स्यात् तन् न
चिन्त्यं ।
सामान्यपापदेशना न ... वात् तु ततो मुक्तिः ॥
एतत् समासतो बोधिसत्वशिक्षाशरीरं ।
विस्तरतस् त्व् अप्रमाणकल्पापर्यवसाननिर्देशं ।
अथवा संक्षेपतो द्वे बोधिसत्वस्यापत्ती ।
यथा शक्तियुक्तायुक्तम् असमीक्ष्यारभते ।
निवृत्तः समीक्ष-
[ cambridge ms f11a ---> ]
ते सापत्तिको भवति ।
निरूप्य यथार्हम् अतिक्रामत्य् अन्तशश् चण्डालदासेनापि
चोदितः सापत्तिको भवति ।
कुतः ॥
एतद् अध्याशयसंचोदनसूत्रे वचनात् ।
अपि तु मैत्रेय चतुर्भिः कारणैः प्रतिभानं सर्वबुद्धभाषि ... भिः ।
इह मैत्रेय प्रतिभानं सत्योपसंहितं भवति ।
नासत्योपसंहितं धर्मोपसंहितं भवति न
अधर्मोपसंहितं ।
क्लेशहायकं भवति न क्लेशविवर्द्धकं ।
निर्वाणगुणानुशंससन्दर्शकं भवति न संसारगुणानुशंससन्दर्शकं ।
एभिश् चतुर्भिः पेयालं ।
यस्य कस्यचिन् मैत्रेयाइभिश् चतुर्भिः कारणैः प्रतिभानं प्रतिभाति प्रतिभास्यति वा ।
तत्र श्राद्धैः कुलपुत्रैः कुलदुहितृभिर् वा बुद्धसंज्ञोत्पादयितव्या शास्तृसंज्ञां कृत्वा ।
स धर्मः श्रोतव्यः ।
तत् कस्य हेतोः ।
यत् किञ्चिन् मैत्रेय सुभाषितं सर्वं तद् बुद्धभाषितं ।
तत्र मैत्रेय येमानि प्रतिभानानि प्रतिक्षिपेन् नाइतानि
बुद्धभाषितानीति ।
तेषु चागौरवम् उत्पादयेत् पुद्गलविद्वेषेण तेन
सर्वबुद्धभाषितं प्रतिभानं प्रतिक्षिप्तं भवति ।
धर्मं प्रतिक्षिप्य धर्मव्यसनसंवर्तनीयेन कर्मणापायगामी भवति ॥
[ bendall ed p16 ---> ]
यः पुनर् एतद् अभ्यासार्थं व्युत्पादितम् इच्छति ।
तेनात्र शिक्षासमुच्चये तावच् चर्यामुखमात्रशिक्षणार्थम्
अभियोगः करणीयः शिक्षारम्भस्याइव महाफलत्वात् ।
यथोक्तं प्रशान्तविनिश्चयप्रतिहार्यसूत्रे ।
यश् च मञ्जुश्रीर् बोधिसत्वो गङ्गानदीवालिकासमेभ्यो बुद्धेभ्यः प्रत्येकं सर्वेभ्यो गंगानदीवालिकासमानि
बुद्धक्षेत्राणि वशिराजमहामणिरत्नप्रतिपूर्णानि कृत्वा
दह्याद् एवं ददङ् गङ्गानदीवालिकासमान् कल्पान् दानं दद्याद् ।
यो वान्यो मञ्जुश्रीर् बोधिसत्वेमान् एवंरूपान् धर्मान्
श्रुत्वाइकान्तेन ग-
[ cambridge ms f11b ---> ]
त्वा चित्तेनाभिनिरूपयेद् इमेष्व् एवंरूपेषु
धर्मेषु शिक्षिष्यामीति ।
सो ऽशिक्षितो ऽपि मञ्जुश्रीर् बोधिसत्वो ऽस्यां शिक्ष्यायां छन्दिको वततरं पुण्यं प्रसवति ।
न त्व् एव तद् दानम् अयं पुण्यक्रियावस्त्व् इति ।
तस्माद् एवम् अनुशंसदर्शिना बोधिसत्वेन न कथंचिन् निवर्त्तितव्यं ।
यथात्राइवाह ।
तत्र मञ्जुश्रीर् ये त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमाः सत्व-स् तेषाम् एकाइकः सत्वो राजा भवेज् जम्बूद्वीपाधिपतिस् ते सर्वए एवं घोषयेयुः ।
यो महायानम् उद्ग्रहिष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति
प्रवर्त्तयिष्यति तस्य नखछेदेन मासं पञ्चपलिकेन दिवसेनावतारयिष्यामः तं चाइतेनापक्रमेण जीविताद् व्यपरोपयिष्यामेति ।
सचेन् मञ्जुश्रीर् बोधिसत्वाइवम् उच्यमानो नो त्रस्यति न संत्रासम्
आप्स्यते ऽन्तशाइकचित्तोत्पादेनापि न बिभेति न विषीदति न
विचिकित्सते ।
उत्तरि च सद्धर्म्मपरिग्रहार्थम् अभियुज्यते पाठस्वाध्यायाभिमुक्तो विहरति ।
अयं मञ्जुश्रीर् बोधिसत्वश् चित्तशूरो दानशूरः
शीलशूरः क्षान्तिशूरः वीर्यशूरः ध्यानशूरः
प्रज्ञाशूरः समाधिशूरः इति वक्तव्यः ॥
सचेन् मञ्जुश्रीर् बोधिसत्वः तेषां वधकपुरुषाणां न
कुप्यति न रुष्यति न खिल दोषचित्तम् उत्पादयति ।
स मञ्जुश्रीर् बोधिसत्वो ब्रह्मसमेन्द्रसमो ऽकम्प्येति ॥
इतश् चाग्र्यकाले शिक्षादरो महाफलविपाकः ।
तथा हि चन्द्रप्रदीपसूत्रे ।
[ bendall ed p17 ---> ]
बुद्धान कोटीन् अयुतान् उपस्थिहे ।
दत्तेन पानेन प्रसन्नचित्तः ।
छत्रैः पताकाभि च दीपमालैः ।
कल्पान कोट्यो यथ गङ्ग-
[ cambridge ms f12a ---> ]
वालिकाः ॥
यश् चाइव सद्धर्मे प्रलुज्यमाने ।
निरुध्यमाने सुगतस्य शासने ।
रात्रिं दिवं एक चरेय शिक्षाम् ।
इदन् ततः पुण्यविशिष्ट भोति ॥
तस्मात् कर्तव्यो ऽत्रादरः ॥
उक्तानि च सूत्रान्तेषु बोधिसत्वशिक्षापदानि ।
यथोक्तम् आर्यरत्नमेघे ।
कथं च कुलपुत्र बोधिसत्वा बोधिसत्वशिक्षासंवरसंवृता भवन्ति ।
इह बोधिसत्वः एवं विचारयति ।
न प्रातिमोक्षसंवरमात्रकेण मया शक्यम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं ।
किं तर्हि यानीमानि तथागतेन तेषु तेषु सूत्रान्तेषु
बोधिसत्वसमुदाचारा ।
बोधिसत्वशिक्षापदानि प्रज्ञप्तानि तेषु तेषु मया शिक्षितव्यम्
इति विस्तरः ।
तस्माद् अस्मद्विधेन मन्दबुद्धिना दुर्विज्ञेयो विस्तरोक्तत्वाद् बोधिसत्वस्य संवरः ।
ततः किं युक्तं ॥
मर्मस्थानान्य् अतो विद्याद् येनानापत्तिको भवेत् ॥
कतमानि च तानि मर्मस्थानानि यानि हि सूत्रान्तेषु महायानाभिरतानाम् अर्थायोक्तानि ।
यद् उत ।
आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च ।
उत्सर्गः सर्वसत्वेभ्यस् तद्रक्षा शुद्धिवर्धनम् ॥
एष बोधिसत्वसंवरसंग्रहः ।
यत्र बोधिसत्वानाम् अभ्यासविश्रामे ऽप्य् आपत्तयो व्यवस्थाप्यन्ते ॥
यथोक्तं बोधिसत्वप्रातिमोक्षे ।
यो बोधिसत्वेन मार्गः परिगृहीतः सर्वसत्वानां कृतेन
दुष्खम् उपगामी ।
सचेद् बोधिसत्वस्य तं मार्गं परिगृह्यावस्थितस्यापि
कल्पकोटेर् अत्ययेनाइकं सुखचित्तम् उत्पद्येतान्तशो निषद्य
चित्तम् अपि ।
तत्र बोधिसत्वेनाइवं चित्तम् उत्पादयितव्यं सर्वसत्वानाम्
आत्ययिकं परिगृह्याइतद् अपि मे वर्जयन् निषीदामीति ।
परिगृह्येत् तम् [[दोउब्त्]] ।
[ cambridge ms f12b ---> ]
अपि मञ्जुश्रीर् आह ॥
पञ्चेमानि देवपुत्रानन्तर्याणि यैर् आनन्तर्यैः
समन्वागता बोधिसत्वाः क्षिप्रम् अनुत्तरासम्यक्संबोधिम्
अभिसंबुध्यते ।
कतमानि पञ्च ।
यदा देवपुत्र बोधिसत्वो ऽध्याशयत्य् अनुत्तरायां सम्य-
[ bendall ed p18 ---> ]
क्संबोधौ चित्तम् उत्पाद्य नान्तरा श्रवकप्रत्येकबुद्धभूमौ चित्तम् उत्पादयतीदं देवपुत्र प्रथमम्
आनन्तर्यं ।
सर्वस्वपरित्यागितायां चित्तम् उत्पाद्य नान्तरा
मात्सर्यचित्तेन सार्द्धं स न्यसतीदं देवपुत्र द्वितीयम्
आनन्तर्यम् ।
सर्वसत्वा मया त्रातव्येत्य् एवं चित्तम् उत्पाद्य नान्तरा
सीदतीदं देवपुत्र तृतीयम् आनन्तर्यम् ।
अनुत्पन्नानिरुद्धान् सर्वधर्मान् अवभोत्स्यए इत्य् एवं चित्तम्
उत्पाद्य नान्तरा दृष्टिगतेषु प्रपततीदं देवपुत्र
चतुर्थम् आनन्तर्यम् ।
एकक्षणसमायुक्तया प्रज्ञया सर्वधर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य नान्तरा तिष्ठति न विष्ठीवति अप्राप्तायां सर्वज्ञतायाम् इदं देवपुत्र पञ्चमम् आनन्तर्यम् इति ॥
तस्माद् एवम् आत्मभावभोगपुण्यानाम् अविरतम् उत्सर्गरक्षाशुद्धिवृद्धयो यथायोगं भावनीयाः ॥
तत्र तावद् उत्सर्गार्थं परिग्रहदोषभावनाद्वारेण
वैराग्यम् उत्पादयेत् त्यागानुशंसांश् च भावयेत् ।
यथा तावच् चन्द्रप्रदीपसूत्रे ।
अध्यवसिता ये बालाः काये ऽस्मिन् पूतिके सम्यग् ।
जीविते चञ्चले ऽवश्ये मायास्वप्ननिभोपमे ॥
अतिरौद्राणि कर्माणि कृत्वा मोहवशानुगाः ।
ते यान्ति नरकान् घोरान् मृत्युयानगताबुधा ।
इति ॥
तथानन्तमुखनिर्हारधारण्याम् उक्तं ॥
ये केचित् सत्वा न भवन्ति विग्रहाः परिग्रहस् तत्र निदानमूलम् ।
तस्मात् त्यजेद् यत्र भवेत् तृष्णा ।
उत्सृष्टतृष्णस्य हि धारणी भवेत् ॥
बोधिसत्वप्रातिमोक्षे कथितं ।
पुनर् अपरं शारिपुत्र बोधिसत्वः सर्वधर्मेषु
परकीयसंज्ञाम् उत्पादयति ।
न कञ्चिद् भावम् उपादत्ते ।
तत् कस्य हेतोः ।
उपादानं हि भयम् इति ॥
आर्योग्रदत्तपरिपृ-
[ bendall ed p19 ---> ]
च्छायाम् अप्य् आह ।
यद् दत्तं तन् न भूयो रक्षितव्यं ।
यद् गृहे तद् रक्षितव्यं ।
यद् दत्तं तत् तृष्नाक्षयाय ।
यद् गृहे तत् तृष्णावर्द्धनं ।
यद् दत्तं तद् अपरिग्रहं यद् गृहे तत् सपरिग्रहं ।
यद् दत्तं तद् अभयं यद् गृहे तत् सभयम् ।
यद् दत्तं तद् बोधिमार्गोपस्तम्भाय ।
यद् गृहे तन् मारोपस्तम्भाय ।
यद् दत्तं तद् अक्षयम् ।
यद् गृहे तत् क्षयि ।
यद् दत्तं ततः सुखम् यद् गृहे तदारभ्य दुष्खं ।
यद् दत्तं तत् क्लेशोत्सर्गाय ।
यद् गृहे तत् क्लेशवर्द्धनम् ।
यद् दत्तं तन् महाभोगतायै । यद् गृहे न तन् महाभोगतायै ।
यद् दत्तं तत् सत्पुरुषकर्म ।
यद् गृहे तत् कापुरुषकर्म ।
यद् दत्तं तत् सत्पुरुषचित्तग्रहणाय ।
यद् गृहे तत् कापुरुषचित्तग्रहणाय ।
यद् दत्तं तत् सर्वबुद्धप्रशस्तं ।
यद् गृहे तद् बालजनप्रशस्तम् ॥
यावत् सचेत् पुनर् अस्य पुत्रे ऽतिरिक्ततरं प्रेमोत्पद्यते तथान्येषु सत्वेषु तेन तिसृभिः परिभाषणाभिः स्वचित्तं परिभाषितव्यं ।
कतमाभिस् तिसृभिः ।
सम्यक्प्रयुक्तस्य समचित्तस्य बोधिसत्वस्य बोधिर् न विषमचित्तस्य
बोधिर् न मिथ्याप्रयुक्तस्य ।
अनानात्वचारिणो बोधिसत्वस्य बोधिर् न नानात्वचारिणः ।
आभिस् तिसृभिः परिभाषणाभिः स्वचित्तं परिभाष्य अन्यत्रे ऽमित्रसंज्ञोत्पादयितव्यामित्रं ह्य् एतन् मम ।
न मैत्रं ।
यो ऽहम् अस्यार्थाय बुद्धप्रज्ञप्ताशिक्षायोद्धुरताद् गत्वास्मिन् पुत्रे ऽतिरिक्ततरं प्रेमोत्पादयामि ।
न तथान्येषु सत्वेषु ।
तेन तथा तथा चित्तम् उत्पादयितव्यं यथा यथास्य
सर्वसत्वेषु पुत्रप्रेमानुगता मैत्र्य्- उत्पद्यते ।
आत्मक्षेमानु ... मैत्र्य्- उत्पद्यते ।
एवं चानेन योनिशः प्रत्यवेक्षितव्यं ।
अन्यताइषागत ।
अन्यतो ऽहं ।
सर्वसत्वापि मम पुत्राभूवन् ।
अहं च सर्वसत्वानां पुत्रो ऽभूवम् ।
नेह संविद्यते कश्चित् कस्यचित् ... परो वा ।
यावद् एवं हि गृहपते ।
गृहिणा बोधिसत्वेन न कस्मिंश्चिद् वस्तुनि ममत्वं परिग्रहो वा कर्तव्यः ।
नाध्यवसानं ।
न नियतिः न तृष्णानुशयः कर्तव्यः ।
सचेत् पुनर् गृहपते गृहिणं बोधिसत्वं याचनकोपसंक्रम्य
किञ्चिद् एव वस्तु याचेत ।
सचेद् अस्य वस्त्व् अपरित्यक्तं भवेत् ।
नाइवं चित्तं निध्यापयितव्यं ।
यद्य् अहम् एतद् वस्तु परित्यजेयं यदि वा न परित्यजेयम् अवश्यं ममाइतेन वस्तुना विनाभावो भविष्यति ।
अकामकेन मरणम् उप-
[ bendall ed p20 ---> ]
गन्तव्यं भविष्यति ।
एतच् च वस्तु मां त्यक्ष्यति अहं चाइनं त्यक्ष्यामि ।
एतच् च वस्तु परित्यज्याहं आत्तसारः कालं करिष्यामि एतच् च परित्यक्तं न मे मरणकाले चित्तं पर्यादाय स्थास्यति ।
एतच् च मे मरणकाले प्रीतिं प्रामोद्यम् अविप्रतिसारितां च
जनयिष्यति ।
सचेत् पुनर् एवम् अपि समन्वाहरन् शक्नुयात् तद् वस्तु परित्यक्तुम् ।
तेन स याचनकश् चतसृभिः संज्ञप्तिभिः संज्ञपयितव्यः ।
कतमाभिश् चतसृभिः ।
दुर्बलस् तावद् अस्म्य् अपरिपक्वकुशलमूलः ।
आदिकर्मिको महायाने ।
न चित्तस्य वशी परित्यागाय ।
सोपादानदृष्टिको ऽस्मि ।
अहंकारममकार-
[ cambridge ms f14a ---> ]
स्थितः ।
क्षमस्व सत्पुरुष ।
मा परिताप्सीस् तथाहं करिष्यामि तथा प्रतिपत्स्ये ।
तथा वीर्यम् आरप्स्ये ।
यथाइनं च तवाभिप्रायं परिपूरयिष्यामि
सर्वसत्वानां चेति ।
एवं खलु गृहपते ।
तेन याचनकः संज्ञपयितव्यः ।
एतच् च संज्ञपनम् उपरि दोषपरिहारायोक्तं ।
मा भूद् बोधिसत्वस्य तत्राप्रसादो बोधिसत्वे वा याचनकस्येति ।
न तु मात्सर्यम् एवं अनवद्यं भवति कुत्सितं चेदं भगवता बोधिसत्वानां ॥
यथाह बोधिसत्वप्रातिमोक्षे ।
चत्वारेमे शारिपुत्र धर्मा बोधिसत्वानां न संविद्यन्ते ।
कतमे चत्वारः ।
शाठ्यं बोधिसत्वानां न संविद्यते ।
मात्सर्यं बोधिसत्वानां न संविद्यते ।
ईर्ष्यापैशुन्यं बोधिसत्वानां न संविद्यते ।
नाहं शक्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् इति ।
लीनं चित्तं बोधिसत्वानां न संविद्यते ।
यस्येमे शारिपुत्र चत्वारो धर्माः संविद्यन्ते स पण्डित.इर् ज्ञातव्यः ।
कुहको वतायं ।
लपको वतायं ।
नष्टधर्मो वतायं ।
संक्लेशधर्मो वतायं लोकामिषगुरुको वतायं भक्तचोडकपरमो वतायम् इति ।
तथा चित्तशूराः खलु पुनः शारिपुत्र बोधिसत्वा भवन्ति ।
यावत् स्वहस्तपरित्यागी भवति पादपरित्यागी ।
नासापरित्यागी ।
शीर्षपरित्यागी ।
अङ्गप्रत्यङ्गपरित्यागी ।
पुत्रपरित्यागी ।
दुहितृपरित्यागी ।
भार्यापरित्यागी ।
रतिपरित्यागी ।
परिवारपरित्यागी ।
चित्तपरित्यागी ।
सुखपरित्यागी ।
गृहपरित्यागी ।
वस्तुपरित्यागी ।
देशपरित्यागी रत्नपरित्यागी ।
सर्वस्वपरित्यागीति ॥
[ bendall ed p21 ---> ]
एवं नारायणपरिपृच्छायाम् अप्य् उक्तं ।
न तद् वस्तूपादातव्यं यस्मिन्
[ cambridge ms f14b ---> ]
वस्तुनि नास्य त्यागचित्तम्
उत्पद्यते ।
न त्यागबुद्धिः क्रमेत ।
न स परिग्रहः परिग्रहीतव्यो यस्मिन् परिग्रहे नोत्सर्जनचित्तम्
उत्पादयेन् न स परिवारोपादातव्यो यस्मिन् याचनकैर् याच्यमानस्य परिग्रहबुद्धिर् उत्पद्यते ।
न तद् राज्यम् उपादातव्यं न ते भोगा न तद् रत्नम्
उपादातव्यं यावन् न तत् किञ्चिद् वस्तूपादातव्यं ।
यस्मिन् वस्तुनि बोधिसत्वस्यापरित्यागबुद्धिर् उत्पद्यते ॥
अपि तु खलु पुनः कुलपुत्र बोधिसत्वेन महासत्वेनाइवं चित्तम्
उत्पादयितव्यं ।
अयं ममात्मभावः सर्वसत्वेभ्यः परित्यक्तः उत्सृष्टः ।
प्राग् एव बाह्यानि वस्तूनि यस्य यस्य सत्वस्य येन येन यद् यत्
कार्यं भविष्यति तस्मै तस्मै तद् दास्यामि सत्संविद्यमानं हस्तं हस्तार्थिकेभ्यो दास्यामि पादं पादार्थिकेभ्यो नेत्रं नेत्रार्थिकेभ्यो दास्यामि ।
मांसं मांसार्थिकेभ्यः शोणितं शोणितार्थिकेभ्यो मज्जानं मज्जार्थिकेभ्यो ऽङ्गप्रत्यङ्गान्य् अङ्गप्रत्यङ्गार्थिकेभ्यः शिरः शिरोर्थिकेभ्यः परित्यक्ष्यामि ।
कः पुनर् वादो बाह्येषु वस्तुषु यद् उत धनधान्यजातरूपरजतरत्नाभरणहयगजरथवाहनग्रामनगरनिगमजनपदराष्ट्रराजधानीपत्तनदासीदासकर्मकरपौरुषेयपुत्रदुहितृपरिवारेषु ।
अपि तु खलु पुनर् यस्य यस्य येन येन यद् यत् कार्यं भविष्यति
तस्मै तस्मै सत्वाय तत् तद् देयं संविद्यमानं दास्यामि ।
अशोचन्न् अविप्रतिसारी अविपाकप्रतिकाङ्क्षी परित्यक्ष्यामि ।
अनपेक्षो दास्यामि सत्वानुग्रहाय सत्वकारुण्येन
सत्वानुकम्पया तेषाम् एव सत्वानां संग्रहाय ।
यथा मे ऽमी सत्वाः सं-
[ cambridge ms f15a ---> ]
गृहीता बोधिप्राप्तस्य
धर्मजानकाः स्युर् इति ।
पेयालं ॥
तद् यथापि नाम कुल-पुत्र भैषज्यवृक्षस्य मूलतो वा
ह्रियमाणस्य गण्डतः शाखातः त्वक्तः पत्रतो वा ह्रियमाणस्य
पुष्पतः फलतः सारतो वा ह्रियमाणस्य नाइवं भवति
विकल्पो ।
मूलतो मे ह्रियते यावत् सारतो मे ह्रियतए इति ॥
अपि तु खलु पुनर् अविकल्पाइव हीनमध्योत्कृष्टानां सत्वानां व्याधीन् अपनयति ।
एवम् एव कुलपुत्र बोधिसत्वेन महासत्वेनास्मिंश् चातुर्महाभौतिके आत्मभावे भैषज्यसंज्ञोत्पादयितव्या
येषां येषां सत्वानां येन येनार्थः तत् तद् एव मे
हरन्तु हस्तं हस्तार्थिनः पादं पादार्थिनेति पूर्ववत् ॥
आर्याक्षयमतिसूत्रे ऽपि देशितं ।
अयम् एव मया कायः सर्वसत्वानां किंकरणीयेषु
क्षपयितव्यः ।
तद् यथापि नामेमानि बाह्यानि चत्वारि महाभूतानि
पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुश् च
[ bendall ed p22 ---> ]
नानासुखैर् नानापर्यायैर् नानारम्बणैर् नानोपकरणैर् नानापरिभोगैः सत्वानां नानोपभोगं गच्छन्ति ।
एवम् एवाहम् इमं कायं चतुर्महाभूतसमुच्छ्रयं नानासुखैर् नानापर्यायैर् नानारम्बणैर् नानोपकरणैर् नानापरिभोगैर् विस्तरेण सर्वसत्वानाम्
उपभोग्यं करिष्यामीति ।
सेमम् अर्थवशं संपश्यन् कायदुष्खतां च प्रत्यवेक्षते
कायदुष्खतया च न परिखिद्यते सत्वावेक्षयेति ॥
आर्यवज्रध्वजसूत्रे ऽप्य् आह ॥
इति हि बोधिसत्वात्मानं सर्वसत्वेषु निर्यातयन् सर्वकुशलमूलोपकारित्वेन सर्वसत्वानां कुशलमूलैः समन्वा-
[ cambridge ms f15b ---> ]
हरन्
प्रदीपसमम् आत्मानं सर्वसत्वेषूपनयन् सुखसमम्
आत्मानं सर्वसत्वेष्व् अधितिष्ठन् ।
धर्मकुक्षिसमम् आत्मानं सर्वजगति संधारयन् आलोकसमम्
आत्मानं सर्वसत्वेष्व् अनुगच्छन् जगत्प्रतिष्ठापनसमम्
आत्मानं संपश्यन् ।
कुशलमूलप्रत्ययभूतम् आत्मानं सर्वजगत्य् अनुगच्छन् ।
मित्रसमम् आत्मानं सर्वसत्वेषु नियोजयमानो ऽनुत्तरसुखमार्गसमम् आत्मानं सर्वसत्वेषु संदर्शयमानः अनुत्तरसुखोपधानसमम् आत्मानं सर्वसत्वेषु परिशोधमानः
सूर्यसमम् आत्मानं सर्वजगति समीकुर्वाणः ।
एवंधर्मोपेतम् आत्मानं सर्वसत्वेषु प्रयच्छन् ।
यथाकामकरणीयवश्यम् आत्मानं सर्वलोके संपश्यन्न् अग्रचैत्या भविष्यामः ... सर्वजगत्स्थित्यात्मानं संपश्यन् ।
समचित्ततां सर्वजगति निष्पादयन् ।
सर्वोपकरणतीर्थम् आत्मानं संपश्यन् ।
सर्वलोकसुखदातारम् आत्मानं प्रत्यवेक्षमाणः ।
सर्वजगतो दानपतिम् आत्मानम् अधिमुच्यमानः सर्वलोकज्ञानसमम् आत्मानं कुर्वाणः बोधिसत्वचर्याप्रयुक्तम् आत्मानं संजनयमानः ।
यथावादितथाकारित्वेनात्मानं नियोजयमानः ।
सर्वज्ञतासन्नाहसन्नधम् आत्मानं प्रत्यवेक्षमाणः ।
पूर्वनिमन्त्रितं चित्तम् अनुपालयमानः ।
प्रतिपत्तौ चात्मानं स्थापयमानो बो-
[ bendall ed p23 ---> ]
धिसत्वत्यागचित्ततां मनसि कुर्वाणोद्यानभूतम् आत्मानं सर्वसत्वेषु संपश्यन् ।
धर्मरतिभूतम् आत्मानं सर्वलोकेष्व् आदर्शयमानः
[ cambridge ms f16a ---> ]
सौमनस्यदातारम् आत्मानं सर्वसत्वानाम् अधितिष्ठन् ।
अनन्तप्रीतिसंजननम् आत्मानं सर्वजगतो निर्यातयमानः
सर्वशुक्लधर्माय द्वारभूतम् आत्मानं सर्वलोके
संधारयमानः ।
बुद्धबोधिदातारम् आत्मानं सर्वसत्वानां प्रणिदधत् ।
पितृसमम् आत्मानं सर्वप्रजायां नियोजयमानः ।
सर्वोपकरणावैकल्याधिकरणम् आत्मानं सर्वसत्वधातौ
प्रतिष्ठापयमानः ॥
इति हि बोधिसत्वात्मानम् उपस्थायकत्वाय ददानः याचनकेषु
नीचमनसिकारचित्तो भूम्यास्तरणाधिष्ठानचेता धरणिसमसर्वदुष्खसहनमनसिकारप्रवृत्तः सर्वसत्वोपस्थानाक्लान्तमानसप्रयुक्तो बालजनदुष्कृतस्थिरः
स्थावराधिवासनजात्यः अस्थितः कुशलमूलाभियुक्तः
अप्रयुक्तसर्वलोकधातूपस्थानः कर्णो नासा संपरित्यजन्
याचनकेभ्योपसंक्रान्तेभ्यो बोधिसत्वचर्योपात्ततथागतकुलकुलीनसंभूतचित्तः सर्वबोधिसत्वानुस्मरणविहारप्रसृतो ऽसारात् सर्वत्रैलोक्यात् स ... त्यवेक्षमाणः
स्वशरीरानध्यवसितसन्तानः अनिकेतसर्वबुद्धधर्मानुस्मृतिविहार्य्- असाराच् छरीरात् सारादानाभिप्रायेति हि
बोधिसत्वो जिह्वां याचितः समानो म ... वाता प्रेमणीयया
मैत्र्योपचारविततया भद्रे सिंहासने राजार्हे निषाद्य
तं याचनकम् अभिभाषते दृष्टः ।
अरिष्टचित्तो भूत्वाक्षतचित्तो ऽनुपहतचित्तो महात्मन् सला ... चि-
[ cambridge ms f16b ---> ]
त्तो बुद्धवंशसंभूतचित्तो ऽलुलितसन्तानचित्तो महास्थामबलाधानो ऽनध्यवसितशरीरचित्तो ऽनभिनिविष्टवचनचित्तो जानुमण्डलप्रष्ठितकायो भूत्वा स्वकान् मुखाज् जिह्वा ... याचनकस्य सर्वशरीरम्
अधीनं कृत्वा वाचं प्रमुञ्चन् स्निग्धां मृद्वीं प्रेमणीयां मैत्र्योपचारां ।
गृहाण त्वं मम जिह्वां यथा कामकरणीयां कुरु ।
तथा कुरु यथा त्वं प्रीतो भवसि
[ bendall ed p24 ---> ]
प्रीतमानसात्मना
प्रमुदितो हृष्टः प्रीतिसौमनस्यजातेति स शिरः परित्यजन्
सर्वधर्माग्रशिरः परमज्ञानम् अवतरन्
सर्वसत्वपरित्राण शिरोबोधि ... गच्छन् सर्वजगदग्र्यशिरः अनुपमज्ञानम् अभिलषन् सर्वदिक्छिरः प्राप्तुं ज्ञानराजम्
अधिमुच्यमानो ऽनुत्तरसर्वधर्माइश्वर्यशीर्षतां परिपूरयितुकामो ऽनन्तयाचनकप्रीतिपरिस्फुटचेता ।
इति हि बोधिसत्वो हस्तपादान् परित्यजन् याचनकेभ्यः
श्रद्धाहस्तप्रयुक्तेनानुग्रह चारित्रेण
बोधिसत्वसिंहविक्रमत्यागप्रततपाणिना व्यवसर्गाभिरतेन
हस्तपादपरित्यागेन महाप्रतिष्ठानक्रमतलव्यतिहारेण
बोधिसत्वचर्याध्यवसायेन वेदनानुपहततया
दानप्रसादशक्त्या विमलचित्तोत्पादसंवरो निष्पर्यवस्थानज्ञा-
[ cambridge ms f17a ---> ]
नधर्मशरीराछिन्नाभिन्नालुप्तकायसंज्ञः अनीचचित्तः सर्वमारकर्माकल्याणमित्रोपस्तब्धवृंहितचेताः सर्वबोधिसत्वसंवर्णिताइकत्यागनिर्याणेति हि बोधिसत्वः स्वशरीरम् आक्षिप्य रुधिरम्
अनुप्रयच्छन् याचनकेभ्यः प्रहर्षितबोधिचित्तो ।
बोधिसत्वचर्याभिलषितचित्तो ऽपर्यात्तवेदितचित्तः सर्वयाचनकाभिलषितचित्तः सर्वप्रतिग्राहकाविद्विष्टचित्तः
सर्वबोधिसत्वत्यागप्रतिपत्प्रतिपन्नो ऽनिवर्त्त्यया
प्रीतिप्रस्रब्ध्या स्वशरीरानपेक्षचित्तः स्वशरीराद् रुधिरम्
अनुप्रयच्छन् ज्ञानायतनमहायानप्रसृतचेता महायानाविनष्टमनेष्टमनास् तुष्टमनाः प्रीतमनाः
मुदितमना मैत्र्य्-मनाः सुखमनाः प्रसन्नमनाः प्रमुदितप्रीतिसौमनस्यजातो मज्जामांसं स्वशरीरात् परित्यजन्
याचनकेभ्यः कल्याणत्यागया ।
याचकाभिलषितया वाचा तान् याचकान् अभिलपन् ।
गृह्णन्तु भवन्तो मम शरीरान् मज्जामांसं यथा
कामकरुणाया तुल्यप्रीतिविवर्द्धनेन त्यागचित्तेन ।
बोधिसत्वविज्ञगणनिषेवितेन महाकुशलमूलेन लोक-
[ bendall ed p25 ---> ]
मलापकर्षितेन प्रवरेणाध्याशयेन ।
सर्वबोधिसत्वसमतोपात्तैर् महादानारम्भैर् मनसाकाङ्क्षितैः सर्वयाचकैर् अननुताप्यचित्तैर् दानवस्तुभिः
अप्रत्यवेक्षितेन कर्मविपाकप्रत्ययेन सर्वलोकधात्वविमुखया
सर्वबुद्धक्षेत्रालंकारव्यूहपूजया सर्वजगदभिमुखया
करुणापरित्राणतया ।
सर्वबुद्धबोध्यभिमुखया ।
दशबल ...
[ cambridge ms f17b ---> ]
चारणयातीतानागतप्रत्युत्पन्नसर्वबोधिसत्वाभिमुखयाइककुशलमूलपरिचर्यया सर्ववैशारद्याभिमुखेनार्षभसिंहनादनदनेन त्र्यध्वाभिमुखेन ।
सर्वाध्वसमताज्ञानेन ... लोकाभिमुखेनापरान्तकोटीगतकल्पव्यवसायेन बोधिसत्वप्रणिधानेनापरित्रस्यनाभिमुखेनाखेदचित्तोत्पादेन बोधिसत्वः स्वहृदयं परित्यजन्
याचनकेभ्यो दानवशशिक्षितचित्तः पारमितानिष्पादनचित्तः
सर्वबोधिसत्वदानानुद्धतसुप्रतिष्ठितचित्तः ।
अधिष्ठानसर्वयाचनकप्रतिमाननचित्तः ।
अध्याशयं परिशोधयमानः ।
सर्वजगत्परिपाचननिदानं महाप्रणिधानं प्रतिपद्यमानो बोधिसत्वचर्यायां संवसमानः सर्वज्ञतासंभारं संभरमाणः प्रणिधिम् अरिञ्चन् सो ऽत्र यकृत्बुक्काफुप्फुषं याचकेभ्यः परित्यजन् याचनकाभिप्रसन्नया दृष्ट्या
प्रसन्नप्रीत्याकारैर् नेत्रैर् बोधिसत्वनिर्यातेन प्रेम्णाव्युत्थितमनसिकारेण त्यागेनासारात् कायात्
सुप्रत्यवेक्षितेन सारादानचित्तेन श्मशानपर्यन्तेन
कायानुस्मृतिमनसिकारेण वृकशृगालश्वभक्ष्यं शरीरं प्रत्यवेक्षमाणः परभक्तिमनसिकृतया ।
शरीरानित्यतयापविद्धशरीरेण परभक्तचेतनेन एवं धर्ममनसिकारप्रयुक्तो बोधिसत्वस् तान् याचनकान् अनिमिषं प्रेक्षमाणाइवं चित्तम् उत्पादयति ।
यदि चाहम् एतद्याचनकस्याइतच्छरीराद् अन्त्रं यकृत्बुक्काफुष्फुषं दद्यां ।
यदि वा न दद्यां ।
आयुःक्षयपर्यन्ते नाइषो-
[ cambridge ms f18a ---> ]
नित्यः श्मशानपर्यवसान-
[ bendall ed p26 ---> ]
इति ।
साइवं मनसिकारसंतोषितेन सन्तानेनाइवं धर्मज्ञानेनाशयेन कल्याणमित्रसंज्ञाधिष्ठितेन याचनकदर्शनेनासारात् कायात् सारम् आदातुकामो धर्मकामतया स्वमांसान् नखं परित्यजन्न् एव तत्कुशलमूलं परिणामयतीत्य् आत्मभावोत्सर्गं कृत्वा ॥
भोगपुण्योत्सर्गो ऽप्य् अत्राइवोक्तेः ।
इति हि बोधिसत्वो नानादक्षिणीयप्रतिग्राहकेष्व् अन्यान्यपुद्गलदिगागतेष्व् अप्रमेयकृपणवनीपकेषु
बोधिसत्वश्रवागतेषु बोधिसत्वशब्दं श्रुत्वागतेषु
बोधिसत्वप्रत्ययावकाशगतेषु बोधिसत्वदानपूर्वं प्रणिधानश्रुतेषु ।
बोधिसत्वप्रणिधानचित्तनिमन्त्रितेषु ।
सर्वत्यागमनसाभिलषितेषु तृप्तयाचनकप्रतिमाननाचेतनागतयाचनकक्षमापणचेतनो ।
मयाइव तत्र दिशं गत्वा यूयं प्रतिमानयितव्याभविष्यत येन युष्माकम् आगमनक्लमो न स्यात् ।
एवं समृद्धप्रणिपातेन क्षमयति सर्वयाचनकान् क्षमयित्वा
स्नापयित्वा विश्रामितशरीरान् कृत्वा तेभ्यो यदृच्छयोपकरणं प्रतिपादयति ।
यद् इदं मणिरथान् जम्बुद्वीपकल्याणकन्यारत्नपरिपूर्णान्
यद् इदं सुवर्णरथान् जनपदविशुद्धकन्यारत्नपरिपूर्णान् ।
यद् इदं वैडूर्यरथान् वानुकुलगीतवाद्यसंप्रवादितपरिपूर्णान् ।
एवं स्फटिकरथान् सुमुखसुवेशधारिस्वलंकृतरूपान्
अप्रतिकूलदर्शनचतुरकन्यारत्नपरिपूर्णान् इति ।
तथात्राइव देशितं मणिरथान् वा ददानः सर्वरत्नजालसंछन्नान् आजानेयहस्त्युपेतान् ।
[ cambridge ms f18b ---> ]
सवाहनान् ।
चन्दनरथान् ददानो रत्नचक्ररथ्यप्रयुक्तान् रत्नसिंहासनप्रतिष्ठितान् यावन् नानारत्नछत्रसंछन्नव्यूहान्
रत्नवितानविततसंछन्नान् ध्वजपताकालंकृतचतुर्दि-
[ bendall ed p27 ---> ]
क्कान्
नानागन्धविधूपित ... सारगन्धानुलेपानुलिप्तान् ।
सर्वपुष्पव्यूहावकीर्णान् कन्याशतसहस्ररत्नसूत्रप्रकर्षितान् अभ्रान्तगमनान् अभ्रान्तसमवाहनप्रयुक्तान् ।
यावद् अप्रतिकूलमनोज्ञप्रवातगन्धान् सुदुहितृपुत्रवचनोपचारप्रयुक्तान् ।
विविधगन्धचूर्णसम्भृतकृतोपचारान् इति ॥
पुनर् अत्राइवाह ।
आत्मानं च सर्वसत्वानां निर्यातयन्न् उपस्थानं वा
सर्वबुद्धानाम् उपाददानो राज्यं वा परित्यजन् पटभेदकं वा नगरराजधानीं सर्वालंकारभूषितां यथार्हं वा याचनकेषु सर्वपरिवारं परित्यजन् पुत्रदुहितृभार्यां वा ददानो याचनकेभ्यः सर्वगृहं वापसृजन् ।
यावत् सर्वोपभोगपरिभोगान् वा ददानः ।
एवं पानदानं रसदानम् अपि बोधिसत्वो ददानो विविधान्
कल्याणान् उदारान् विशुद्धान् अविकलांस् तिक्तांल् लवणान्
कटकान् कषायान् नानारसाग्रोपेतान् सुस्निग्धान् विविधरसविधिनोपेतान् धातुक्षोभणसमतास्थापनान् चित्तशरीरबलोपस्तम्भनान् प्रीतिप्रसादप्रामोद्यकल्पताजननान् ।
यावत् सर्वपरोपक्रमप्रतिषेधकान् सर्वव्याधिसमनारोग्यसंजननान् ।
एवं वस्त्रदानं पुष्पदानं गन्धदानं विलेपनदानं माल्यदानं ।
शयनदानम् आवासदानम् अपाश्रयदानं प्रदीपदानं च ।
ग्लानप्रत्ययभैषज्य-
[ cambridge ms f18b ---> ]
परिष्कारान् बोधिसत्वो ऽनुप्रयच्छन्
यावन् नानाभाजनानि विविधसंभाराण्य् अनेककांस्यपात्रीर् अप्रमेयसंभारोपचिता हिरण्यसुवर्णरूप्यचूर्णपरिपूर्णास् तानि बुद्धेभ्यो भगवद्भ्यो ददानो ऽचिन्त्यदक्षिणीयाधिमुक्तचेता बोधिसत्वरत्नेभ्यो वा ददानः ।
कल्याणमित्रसुदुर्लभचित्तोत्पादेनार्यसंघाय वा ददानः ।
बुद्धशासनोपस्तम्भाय पुद्गलाय वा ददानः ।
श्रावकप्रत्येकबुद्धेभ्यो वार्यगुणसुप्रसन्नचित्ततया
मातापितृभ्यां ददानो ।
गुरुशुश्रूषोपस्थानचित्ततयाचार्यगुरुदक्षिणीयेभ्यो वा
ददानस् तत्र तत्र गुरुसंभाराववादशिक्षणप्रयुक्तः ।
अशनवसनं वा कृपणवनीपकयाचनकेभ्यो ददानः ।
सर्वसत्वाप्रतिहतचक्षुर् मैत्रीपरिभावितचित्ततया ।
पेयालं ॥
इति हि बोधिसत्वो हस्त्याजानेयान् ददानः
सप्ताङ्गसुप्रतिष्ठितान् ।
षष्टिहा-
[ bendall ed p28 ---> ]
यनान् षड्गन्त्रोपेतान् पद्मवर्णान् मुखविशुद्धान्
सुवर्णालंकारान् हेमजालप्रतिच्छन्नशरीरान् नानारत्नविचित्रालंकारजालशुण्डप्रक्षिप्तव्यूहान् सुवर्णकल्याणान्
कल्याणचारुदर्शनान् ।
अक्लान्तयोजनसहस्रगमनोपचारान् अश्वाजानेयान् वा ददानः ।
सुखवाहनसुखशरीरोपेतान् अनुजवसंपन्नांश् चतुर्दिग्गमनाहारजवोपेतान् आरोहसंपन्नान् दिव्यकल्याणचारुसदृशसर्वविभूषणोपेतान् । स तान् ददानः परित्यजन् गौरवेण गुरुजनेभ्यः कल्याणमित्रमातापितृभ्यः कृपणवनीपकयाचनकेभ्यः सर्वजगत्प्रतिग्राहकभ्यो मुक्तचित्तया ददानो ।
नागृहीतचित्ततयावसृजन् महाकरुणापरिस्फुटेन
सन्तानेन महात्यागपरिमाणबो-
[ cambridge ms f19b ---> ]
धिसत्वगुनेषु प्रतिपद्यमानो ऽभिजातबोधिसत्वाध्याशयान् परिशोधयमानो यावद् इति हि
बोधिसत्वासनदानं ददानः परित्यजन् राजभद्रासनानि
वैडूर्यपादकानि सिंहप्रतिष्ठितानि सुवर्णसूत्ररत्नजालवितानान्य् अनेकचीवरस्पर्शोपेतप्रज्ञप्तानि सर्वसारगन्धवासितोपचाराणि विचित्रमणिराजसमुच्छ्रितध्वजान्य् अनेकरत्नकोटीनियुतशतसहस्रालंकारव्यूहानि
हेमजालवितानविततानि सुवर्णकिङ्किणीजालसंघटितमनोज्ञनादनिर्घोषशब्दानि महान्त्यासनान्य् अभ्युद्गतो द्विद्धचक्षुर्दशनान्य् एकछत्रमहापृथिव्य्-अनुशासननिषदनाभिषिक्तानि ।
सर्वराज्याइश्वर्याधिपतेयनियतनिषद्याप्रतिहतचक्रशासनानुशासनसर्वराजाधिपतेये प्रवर्त्तते ।
एवं यावद् इति हि बोधिसत्वश् छत्राणि ददानः परित्यजन्
महारत्नव्यूहप्रतिमण्डितानि रत्नदण्डानि किङ्किणीजालसंछन्नानि ।
रत्नसूत्रकर्णकण्ठाव-
[ bendall ed p29 ---> ]
लीविनामितवैडूर्यमणिहाराभिप्रलम्बितानि नन्दीघोषमनोज्ञशब्दोपचाराणि हेमजालाभ्यन्तरविशुद्धछदनानि रत्नशलाकालंकारशतसहस्रविततानि रत्नकोषसन्धारितान्य् अगुरुचन्दनान्य् एकसारवरगन्धकोटीनियुतशतसहस्रविधूपितवासितोपचाराणि
जाम्बुनदप्रभास्वरशुद्धानि ।
तादृशानां छत्राणाम् अनेककोटीनियुतशतसहस्रालंकाराणां तदतिरिक्तानि चासंख्येयकोटीनियुतशतसहस्रालंकाराण्य् अनपेक्षचित्तो ददानः परित्यजन्न् अवसृजन्न् अनुप्रयच्छन् संमुखीभूतेभ्यो वा सत्वसारेभ्यो निर्वृतानां वा तथागतानां चैत्यालंकाराय ।
धर्मपर्येष्टये बोधिसत्वकल्याणमित्रे-
[ cambridge ms f20a ---> ]
भ्यो वाभिजातबोधिसत्वधर्मभाणकेभ्यो वा मातापितृभ्यां वा संघरत्ने वा
सर्वबुद्धशासने वा यावत् सर्वप्रतिग्राहकेभ्यः साइवं तत्कुशलमूलं परिणामयति ॥
यथा तावत् प्रथमायाम् एव परिणामनायां सर्वकुशलमूलप्रस्तावेषूपदिष्टं ।
एवं प्रणिधानम् उत्पादयति ।
कथम् एतानि कुशलमूलानि सर्वजगदुपजीव्यान्य् उपकारिभूतानि
भवेयुर् विशुद्धधर्मपर्यवसानानि येन सर्वसत्वानाम् एतैः
कुशलमूलैर् नरकापायप्रतिप्रस्रब्धिर् भवति ।
तैर्यग्योनिकयामलौकिकाद् दुष्खस्कन्धान् निवर्त्तयेयुः ।
स तानि कुशलमूलानि परिणामयन्न् एवं तत्कुशलमूलं परिणामयति ।
अनेनाहं कुशलमूलेन सर्वसत्वानां नयनं भवेयं सर्वदुष्खस्कन्धविनिवर्त्तनाय ।
सर्वसत्वानां त्राणं भवेयं सर्वक्लेशपरिमोचनतया ।
सर्वसत्वानां शरणं भवेयं सर्वभयारक्षणतया ।
सर्वसत्वानां गतिर् भवेयं सर्वभूम्यनुगमनतया ।
सर्वसत्वानां परायणं भवेयम्
अत्यन्तयोगक्षेमप्रतिलम्भतया ।
सर्वसत्वानां आलोको भवेयं वितिमिरज्ञानसंदर्शनतया ।
सर्वसत्वानां उल्का भवेयम्
अविद्यातमोअन्धकारविनिवर्त्तनतया ।
सर्वसत्वानां प्रद्योतो भवेयम्
अत्यन्तविशुद्धिप्रतिष्ठापनतया ।
सर्वसत्वानां नायको भवेयम् अचिन्त्यधर्मनयावतारणतया ।
सर्वसत्वानां परिणायको भवेयम्
अनावरणज्ञानस्कन्धोपनयनतया ।
पेयालं ॥
तच् चाध्याशयतः परिणामयति न वचनमात्रेण ।
तच् चोदग्रचित्तः परिणामयति ।
हृष्टचित्तः परिणामयति ।
प्रसन्नचित्तः परिणामयति ।
प्रमु-
[ bendall ed p30 ---> ]
दितचित्तः स्निग्धचित्तः परिणामयति ।
मैत्रचित्तः प्रेम-
[ cambridge ms f20b ---> ]
चित्तः अनुग्रहचित्तो हितचित्तः सुखचित्तः
परिणामयति ।
तच् चाइवं परिणामयति ।
इदं मम कुशलमूलं सर्वसत्वानां गतिविशुद्धये
संवर्तेत ।
उपपत्तिविशुद्धये संवर्त्तेत ।
पुण्यमाहात्म्यविशुद्धये संवर्त्तेत ।
अनभिभूततायां संवर्त्तेत ।
अपर्यादानतायां संवर्त्तेत ।
दुरासदचित्ततायां संवर्त्तेत ।
स्मृत्यप्रमोषतायां संवर्त्तेत ।
गतिमतिविनिश्चयतायां संवर्त्तेत ।
बुद्ध्यप्रमाणतायां संवर्त्तेत ।
कायकर्ममनस्कर्मसर्वगुणालंकारपरिपूर्यां संवर्त्तेत ॥
अनेन मे कुशलमूलेन ते सर्वसत्वाः सर्वबुद्धान् आरागयेयुर् आरागयित्वा च मा विरागयेयुः ।
तेषु च बुद्धेषु भगवत्सु प्रसादम् अभेद्यं प्रतिलभेरन् ।
तेषां च तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके
धर्मदेशनां शृणुयुः ।
श्रुत्वा च सर्वा विमतीर् विनिवर्त्तयेयुः ।
यथाश्रुतं च संधारयेयुः ।
सन्धारयन्तश् च प्रतिपत्त्या संपादयेयुः ।
तांश् च तथागतान् आराधयेयुः ।
चित्तकर्मण्यतां च प्रतिलभेरन् ।
अनवद्यानि कर्माणि समुदानयेयुः ।
महत्सु च कुशलमूलेष्व् आत्मानं प्रतिष्ठापयेयुर् अत्यन्तं च
दारिद्र्यं विनिवर्त्तयेयुः सप्त धनप्रतिलम्भांश् च
परिपूरयेयुः सर्वबुद्धानां चानुशिक्षयेयुः
कल्याणेन्द्रियप्रतिलम्भं चाधिगच्छेयुः ।
उदाराधिमुक्तिसमतां च परिनिष्पादयेयुः ।
सर्वज्ञज्ञाने चावकाशं प्रतिलभेरन् ।
अप्रतिहतचक्षुष्मत्तां च सर्वजगत्य् उत्पादयेयुः ।
लक्षणालंकृततां च कायप्रतिपूरिं प्रतिलभेरन् ।
सर्वगुणालङ्कारं च वाक्यविशुद्धिं परि-
[ cambridge ms f21a ---> ]
गृह्णीयुः ।
संवृतेन्द्रियतां दशबलप्रयुक्तां चित्तकल्यतां समुदानयेयुः ।
अनि-
[ bendall ed p31 ---> ]
श्चितविहारतां च परिपूरयेयुः ।
येन च सुखोपधानेन सर्वबुद्धाः समन्वागतास् तत्सुखोपधानप्रतिलब्धाः सर्वसत्वा भवेयुर् इति ॥
यथा षष्ठी परिणामनोक्तेन विधिना परिणामयति ।
सर्वसत्वा ।
ज्ञानाहाराद् भवन्तु असङ्गप्रयुक्तचेतसः ।
आहारप्रज्ञातापिनो ऽनध्यवसिताहाराः प्रीतिभक्षानिरामिषाहारा यावत् कामतृष्णाविनिवर्त्तकाः ।
सर्वसत्वाः धर्मरसमेघप्रवर्षका भवन्तु ।
अनुत्तरधर्मरतिप्रीणितसन्तानाः ।
सर्वसत्वाः सर्वरसाग्रजिह्वा भवन्तु रसनिमित्ता ग्रहीतारः सर्वबुद्धधर्मचित्तनप्रयुक्ताः अविपन्नयानाग्रयानोत्तमयानाः शीघ्रयाना महायानाः ।
सर्वसत्वातृप्तदर्शना भवन्तु बुद्धप्रीतिप्रतिलब्धाः ।
सर्वसत्वाः सर्वकल्याणमित्रदर्शनानुपहतसन्ताना भवन्तु । सर्वसत्वागदभैषज्यराजोपदर्शना भवन्तु ।
सर्वसत्वाः क्लेशविषविनिवर्त्तकाः ।
सर्वसत्वादित्यमण्डलोद्गतदर्शना भवन्तु सर्वसत्वतमस्तिमिरपटलविधमनत्वात् ॥
एवम् आत्मानम् उपनिधाय स्वभावनानुकूल्येन पठितव्यं ।
सर्वसत्वानाम् अभिरुचिरदर्शनतायां परिणामयामि ।
सौमनस्यदर्शनतायां कल्याणदर्शनतायां परिणामयामि ।
अभिलषितदर्शनतायां प्रहर्षितदर्शनतायां दौर्मनस्यादर्शनतायां बुद्धदर्शनोपेतायां परिणामयामि ॥
सर्वसत्वाः शीलगन्धोपेता भवन्त्व् अनाच्छेद्यशीला बोधिसत्वपारमिताशीला-
[ cambridge ms f21b ---> ]
ः ॥
सर्वसत्वा दानवासिता भवन्तु सर्वत्यागपरित्यागिनः ।
सर्वसत्वाः क्शान्तिवासिता भवन्तु अक्षोभ्यचेतनाप्रतिलब्धाः ।
सर्वसत्वा वीर्यवासिता भवन्तु महावीर्ययानसन्नद्धाः ।
सर्वसत्वा ध्यानवासिता भवन्तु प्रत्युत्पन्नबुद्धसंमुखीभावस्थिताः समाधिप्रतिलब्धाः ।
सर्वसत्वा बोधिसत्वपरिणामनावासिता भवन्तु सर्वसत्वाः
सर्वशुक्लधर्मवासिता भवन्तु सर्वाकुशलधर्मप्रहीणाः ।
सर्वसत्वा दिव्यशयनप्रतिलब्धा भवन्तु महाज्ञानाधिगमाय ।
सर्वसत्वार्यशयन-
[ bendall ed p32 ---> ]
प्रतिलब्धा भवन्तु ।
निःपृथग्जनबोधिचित्तावासनत्वात् सर्वसत्वाः
सुखशयनप्रतिलब्धा भवन्तु ।
सर्वसंसारावचरदुःखपरिवर्जनत्वात् सर्वसत्वाः
क्षेमशयनप्रतिलब्धा भवन्तु धर्मकामस्पर्शोपेताः ।
सर्वसत्वाः परिशुद्धबुद्धक्षेत्रावभासा भवन्तु
गुणवाससुप्रयुक्तार्यावासनिकेतोच्चलिताः ।
अनुत्तरसर्वबुद्धावासाविरहिताः ।
सर्वसत्वा बुद्धोपनिश्चयविहारिणो भवन्तु ।
सर्वसत्वानन्तालोका भवन्तु सर्वबुद्धधर्मेषु सर्वसत्वाप्रतिहतावभासा भवन्तु सर्वधर्मधात्वेकस्फरणाः ।
सर्वसत्वारोग्यशरीरा भवन्तु तथागतकायप्रतिलब्धाः ।
सर्वसत्वा भैषज्यराजोपमा भवन्तु
अत्यन्ताकल्पनधर्माणः ।
सर्वसत्वाप्रतिहतभैषज्यस्तम्भोपमा भवन्तु
जगच्चिकित्साप्रतिपन्नाः ।
सर्वसत्वा रोगशल्यनिरुद्धा भवन्तु
सर्वज्ञारोग्यप्रतिलब्धाः ।
सर्वसत्वाः सरव्जगद्भैषज्यकुशला भवन्तु
यथाशयभैषज्यप्रयोगसंप्रयोक्ता-
[ cambridge ms f22a ---> ]
रः ॥
सर्वसत्त्वेषु सर्वरोगविनिवर्त्तनाय परिणामयामि ।
सर्वसत्त्वेष्व् अपर्यन्तस्थामबलशरीरतायां परिणामयामि ।
सर्वसत्वानां चक्रवाडपर्वतानवमर्द्यकायबलोपपत्तये
परिणामयामि ।
सर्वसत्वानां सर्वबलोपस्तम्भनातृप्तायां परिणामयामि ॥
सर्वसत्वाप्रमाणभाजना भवन्त्व् आकाशधातुविपुलाः
स्मृतीन्द्रियोपेताः सर्वलौकिकलोकोत्तरभाषसंग्रहणाद् ग्रहणस्मृत्यसंप्रमूढाः ।
सर्वसत्वाः कल्याणविशुद्धिभावना भवन्तु ।
अतीतानागतप्रत्युत्पन्नसर्वबुद्धबोध्यभेदप्रसादग्राहिणः ।
सर्वसत्वा कामङ्गमा भवन्तु
सर्वत्रगामिनीबुद्धभूमिप्रतिलब्धाः ।
सर्वसत्वाः सर्वसत्त्वेष्व् अप्रतिहतचित्ता भवन्तु ।
सर्वसत्वानाभोगसर्वबुद्धक्षेत्रपरिस्फुटगमना भवन्तु ।
एकचित्तक्षणसर्वधर्मविक्रमाः ।
सर्वसत्वाः श्रान्ताक्लान्तसर्वलोकधातुगमना भवन्तु ।
अविश्राम्यमानमनोमयकायप्रतिलब्धाः ।
[ bendall ed p33 ---> ]
सर्वसत्वाः सुखगमनमुक्ता भवन्तु
सर्वबोधिसत्वचर्यानुप्रवेशिनः ।
अनेन कुशलमूलेन सर्वसत्वाः कल्याणमित्रात्यागचित्तानुत्सृष्टा भवन्तु कृतज्ञाः कृतानुपालनतया ।
सर्वसत्वाः कल्याणमित्रैः सहाइकार्था भवन्तु
सभागकुशलमूलसंग्रहणतया ।
सर्वसत्वाः कल्याणाशया भवन्तु कल्याणमित्रसंवसनसंपदविहारानुधन्वनतया ।
सर्वसत्वाः कल्याणमित्रकुशलमूलकर्मविपाकविशुद्धा भवन्त्व् एकप्रणिधानाः ।
सर्वसत्वा महायानाभिरक्ताः सं-
[ cambridge ms f22b ---> ]
प्रस्थिता भवन्त्व् अविष्कम्भितयानसर्वज्ञतापर्यवसानाः ।
सर्वसत्वाः प्रच्छादितकुशलमूला भवन्तु सर्वबुद्धावस्थागोपनप्रतिलब्धाः ।
सर्वसत्वा गुणज्ञानाभिच्छादिता भवन्तु
सर्वलोकोपक्लेशव्यपवृत्ताः ।
सर्वसत्वाच्छिन्नाविक्षिप्तशुक्लधर्माणो भवन्त्व् अविपन्नबुद्धधर्मप्रवाहाः ।
सर्वसत्वाश् छत्रभूता भवन्तु दशबलवितानान्विताः ।
सर्वसत्वात्यन्तबोध्यासनप्रतिलब्धा भवन्तु ।
सर्वसत्वा बुद्धविक्रान्तिसिंहासनप्रतिलब्धा भवन्तु
सर्वजगदवलोकनीयेति ॥
आर्यगगनगञ्जसूत्रे ऽप्य् आह ।
मा भूत् तन् मम कुशलमूलं धर्मज्ञानकौशल्यं वा यन् न
सर्वसत्त्वोपजीव्यं स्याद् इति ॥
अतीतानागतशुभोत्सर्गस् त्व् आर्याक्षयमतिसूत्रे अभिहितः ।
कुशलानां च चित्तचैतसिकानानाम् अनुस्मृतिर् अनुस्मृत्य च
बोधिपरिणामना ।
इदम् अतीतकौशल्यं ।
यो ऽनागतानां कुशलमूलानां निध्यप्तिबोधेर् आमुखीकर्मसमन्वाहारः ।
ये मे उत्पत्स्यन्ते कुशलाश् चित्तोत्पादास् तान् अनुत्तरायां सम्यक्संबोधौ परिणामिष्यामीतीदम् अनागतकौशल्यं ॥
तद् एवं चैतसिके-
[ bendall ed p34 ---> ]
नाभ्यासेन सर्वत्यागाधिमुक्तिं परिपूर्ये
त्यागचित्तवेगापन्नेन कायप्रयोगेणोत्सृष्टसर्वपरिग्रहः ।
सर्वपरिग्रहमूलाद् भवदुष्खाद् विमुक्तो मुक्तेत्य् उच्यते ।
अनुत्तरांश् चाप्रमेयासंख्येयान् कल्पान्
नानाकारानन्तान् लौकिकलोकोत्तरान् सुखसंपत्प्रवर्षान्
अनुभवति ।
तेन चात्मभावादिना [[दोउब्त्]] वडिषामिषेनेव स्वयम्
अनभिगतोपभोगेनाप्य् आकृष्य परान् अपि तारयति ॥
अताइव-
[ cambridge ms f23a ---> ]
उक्तं रत्नमेघे ।
दानं हि बोधिसत्वस्य बोधिर् इति ॥
शिक्षासमुच्चये दानपारमिता प्रथमः परिच्छेदः ॥
शीलपारमितायां सद्धर्मपरिग्रहो नाम द्वितीयः परिच्छेदः ॥
एवम् एषाम् आत्मभावादीनाम् उत्सृष्टानाम् अपि रक्षा कार्या ।
कुतो ।
यस्मात् ॥
परिभोगाय सत्वा नामात्मभावादि दीयते ।
अरक्षिते कुतो भोगः ।
किं दत्तं यन् न भुज्यते ॥
तस्मात् सत्वोपभोगार्थम् आत्मभावादि पालयेत् ॥
उक्तं हि बोधिसत्वप्रातिमोक्षे ।
परं शारिपुत्र रक्षिष्यामीत्य् आत्मा रक्षितव्यः ।
एवंरूपया शारिपुत्र हिताइषिकतया समन्वागतो बोधिसत्वो जीवितहेतोर् अपि पापं कर्म न करोतीति ॥
वीरदत्तपरिपृच्छायाम् अप्य् आह ।
शकटम् इव भारोद्वहनार्थं केवलं धर्मबुद्धिना वाढव्यम्
इति ।
तथाक्षयमतिसूत्रे ऽपि ।
कायदुष्खतया च न परिखिद्यते सत्वावेक्षतयेति ॥
तच् चात्मभावादिकं कथं पालयेत् ।
कल्याणमित्रानुत्सर्जनात् ।
यथोक्तम् आर्यगण्डव्यूहे आर्यश्रीसंभवेन ॥
कल्याणमित्रसन्धारिताः कुलपुत्र बोधिसत्वा न पतन्ति
दुर्गति-
[ bendall ed p35 ---> ]
षु ।
कल्याणमित्रसमन्वाहृता [[दोउब्त्]] नातिक्रामन्ति बोधिसत्वशिक्षां ।
कल्याणमित्रप्रतिच्छन्नाभ्युद्गता भवन्ति लोकात्
कल्याणमित्रपर्युपासिता बोधिसत्वासंप्रमोषचारिणो भवन्ति सर्वबोधिसत्वचर्यासु ।
कल्याणमित्रपरिगृहीताः बोधिसत्वा दुर्द्धर्षा भवन्ति
कर्मक्लेशैः ।
सम्बोधकाः कल्याणमित्राकरणीयानां सन्निवारकाः
प्रमादस्थानात् ।
निष्कासयितारः संसारपुरात् ।
तस्मात् तर्हि कुलपुत्राइवं मनसिकारात् प्रतिप्रश्रब्धेन
कल्याणमित्राण्य् उपसं-
[ cambridge ms f23b ---> ]
क्रमितव्यानि ।
पृथिवीसमचित्तेन सर्वभारवहनापरिणमनतया
वज्रसमचित्तेनाभेद्याशयतया ।
चक्रवाडसमचित्तेन सर्वदुष्खासंप्रवेधनतया ।
लोकदाससमचित्तेन सर्वकर्मसमादानाजुगुप्सनतया ।
रजोहरणसमचित्तेन मानातिमानविवर्जनतया ।
यानसमचित्तेन गुरुभारनिर्वहनतया ।
श्वसमचित्तेनाक्रुध्यनतया ।
नौसमचित्तेन गमनागमनापरित्र-
[ bendall ed p36 ---> ]
स्यनतया ।
सुपुत्रसदृशेन कल्याणमित्रमुखवीक्षणतया ।
आत्मनि च ते कुलपुत्रातुरसंज्ञोत्पादयितव्या ।
कल्याणमित्रेषु च वैद्यसंज्ञा ।
अनुशासनीषु भैषज्यसंज्ञा ।
प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा ।
आत्मनि च ते कुलपुत्र भीरुसंज्ञोत्पादयितव्या ।
कल्याणमित्रेषु शूरसंज्ञा ।
अनुशासनीषु प्रहरणसम्ज्ञा ।
प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञा ॥
अत्राइव वाचनोपासिकाविमोक्षे वर्णितं ।
कल्याणमित्रानुशासनीप्रतिपन्नस्य कुलपुत्र बोधिसत्वस्य बुद्धा भगवन्तो ऽभिराद्धचित्ता भवन्ति ।
कल्याणमित्रवचनाविलोमस्थायिनो बोधिसत्वस्य सर्वज्ञतासन्नीभवति ।
कल्याणमित्रवचनाविचिकित्सकस्यासन्नीभवन्ति
कल्याणमित्राणि ।
कल्याणमित्रमनसिकाराविरहितस्य सर्वार्थाभिमुखा भवन्तीति ।
अताइवार्यसुधनः सारध्वजस्य भिक्षोः पादौ शिरसाभिवन्द्यानेकशतसहस्रकृत्वः प्रदक्षिणीक्र्ट्य
सारध्वजं भिक्षुम् अवलोक्य प्रणिपत्य पुनः पुनर् अवलोकयन्
नियतं प्रणिपतन्
[ cambridge ms f24a ---> ]
नमस्यन्न् अवनमन् मनसि कुर्वन् चिन्तयन् भावयन्
परिभावयन्न् उदानम् उदानयन् हाक्कारं कुर्वन् ।
गुणान् अभिमुखीकुर्वन् निगमयन्न् अत्र सन्न् अनुस्मरन् दृढीकुर्वन्न् अविजहन् मनसागमयन्न् उपनिबध्नन् प्रणिधिं समवसरन्
दर्शनम् अभिलषन् स्वरनिमित्तम् उद्गृह्णन् यावत् तस्यान्तिकात्
प्रक्रान्तः ।
तथा कल्याणमित्रागतं सर्वज्ञतां संपश्यन्न् अश्रुमुखो रुदन् यावन् मेघस्य द्रमितस्यान्तिकात् प्रक्रान्तः ॥
बोधिसत्वप्रतिमोक्षे ऽप्य् उक्तं ।
इह शारिपुत्र बोधिसत्वो धर्मकामतया नास्ति तल् लोके
[ bendall ed p37 ---> ]
रत्नं यन् न परित्यजति ।
नास्ति तत् कायोपस्थानं यन् न करोति ।
नास्ति तज् जङ्घाप्रेषणं यन् नोत्सहते ।
नास्ति तद् वाक्कर्म यन् नोत्सहते
आचार्योपाध्यायगौरवतया ॥
पेयालं ॥
तत् कस्य हेतोः ।
बन्धच्छेदायाइष धर्मः संवर्तते ।
जातिजराव्याधिमरणशोकपरिदेवदुष्खदौर्मनस्यच्छेदायाइष धर्मः संवर्ततए इति रत्नचित्तम् उत्पाद्य भैषज्यचित्तम्
उत्पाद्य ।
सर्वसत्वानां ग्लान्यव्युपशमायाइष धर्मः संवर्ततए इति ।
एष्टव्यश् चास्माभिः सर्वसत्वानां ग्लान्यव्युपशमायाइवंरूपो धर्मेति ॥
उग्रदत्तपरिपृच्छायाम् अप्य् उक्तं ।
सचेत् पुनर् गृहपते पाठस्वाध्यायार्थिको बोधिसत्वः
कस्यचिद् अन्तिकाच् चतुष्पादिकां गाथां शृणुयाद् उद्दिशेद् वोद्गृह्णीयाद् दानशीलक्षान्तिवीर्यध्यानप्रज्ञासंप्रयुक्तां बोधिसत्वसंभारोपचयं वा तेन तस्मिन्न् आचार्ये धर्मगौरवं करणीयं यावद्भिर् नामपदव्यञ्जन ...
[ cambridge ms f24b ---> ]
गाथोद्दिष्टा ।
यदि तावताइवं कल्पांस् तस्याचार्यस्योपस्थानपरिचर्यां कुर्याद् अशठतया
सर्वलाभसत्कारपूजया ।
अद्यापि गृहपते न प्रतिपूरितम् आचार्यस्याचार्यगौरवं भवति ।
कः पुनर् वादो धर्मगौरवं ॥
प्रज्ञापारमितायाम् अष्टसहस्रिकायाम् अप्य् उक्तं ।
कल्याणमित्रेषु च त्वया कुलपुत्र तीव्रं गौरवम् उत्पादयितव्यं ।
प्रेम च करणीयं ।
अथ खलु सदाप्ररुदितो बो-
[ bendall ed p38 ---> ]
धिसत्वो महासत्वाइवंरूपैर् गुणैर् गौरवमनसिकारैर् गच्छन्न् अनुपूर्वेणान्यतमनगरम्
अनुप्राप्तस् ।
तत्र तस्यान्तरायणमध्यगतस्याइतद् अभूत् ।
यन् न्व् अहम् इमम् आत्मभावं विक्रीयानेन मूल्येन धर्मोद्गतस्य
बोधिसत्वस्य महासत्वस्य सत्कारं कुर्यां ।
दीर्घरात्रं हि ममात्मभावसहस्राणि भग्नानि क्षीणानि
विक्रीतानि पुनर् अपरिमाणे संसारे ऽपरिमाणानि यानि मया
कामहेतोः कामनिदानम् अनुभूतानि न पुनर् एवंरूपाणां धर्माणां कृतशाइवंरूपाणां वा सत्वानां सत्काराय ॥
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वो ऽन्तरायणमध्यगतः शब्दम् उदीरयाम् आस घोषम् अनुश्रावयाम्
आस ।
कः पुरुषेणार्थिकः कः पुरुषेणार्थिकेति पेयालं ।
अथ खलु मारः पापीयान् ब्राह्मणगृहपतिकांस् तथा
समुपस्थापयाम् आस यथा तं घोषं नाश्रौषुः ।
यदात्मनः क्रायकं न लभते तदाइकान्तं गत्वा
प्रारोदीद् अश्रूणि च प्रावर्त्तयद् एवं चावदद् ।
अहो वतास्माकं दुर्लभा लाभा ये वयम् आत्मभावस्यापि
क्रेतारं न लभामहे ।
अथ खलु शक्रो दे-
[ cambridge ms f25a ---> ]
वानाम् इन्द्रो माणवकरूपेण यावत्
सदाप्ररुदितं बोधिसत्वं महासत्वम् एतद् अवोचत् ।
किं त्वं कुलपुत्र दीनमनोत्कण्ठितमानसो ऽश्रूणि
प्रवर्त्तयमानः स्थितः ॥
सदाप्ररुदिताइवम् आह ।
अहं माणवक धर्मकामतयेमम् आत्मभावं विक्रीय
धर्मपूजां कर्त्तुकामः सो ऽहम् अस्य क्रायकं न लभे ।
पेयालं ॥
अथ खलु स माणवकः सदाप्ररुदितं बोधिसत्वं महासत्वम्
एतद् अवोचत् ।
न मम कुलपुत्र पुरुषेण कृत्यम् अपि तु खलु पुनः पितुर् मे यज्ञो यष्टव्यः ।
तत्र मे पुरुषस्य हृदयेन कृत्यं लोहितेन चास्थिमज्जया च ।
तद् दास्यसि त्वं क्रयेण ॥
अथ खलु सदाप्ररुदितस्याइतद् अभूत् ।
लाभा मे सुलब्धाः परिनिष्पन्नं चात्मानं जाने
प्रज्ञापारमितोपायकौशल्येषु ।
यन् मयात्मनः क्रायको लब्धो हृदय्स्य रुधिरस्य चास्थिमज्जायाश् च ॥
स हृष्टचित्तः कल्यचित्तः प्रमुदितचित्तस् तं माणवकम् एतद् अवोचत् ।
दास्यामि माणवक येन ते इतात्मभावाद् अर्थः ।
यावत् सदाप्ररुदितो बोधिसत्वो महासत्वस् तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विद्ध्वा लोहितं निस्रावयति स्म
दक्षिणं चोरुं विद्ध्वा निर्मांसं च कृत्वास्थि भेत्तुं कुड्यमूलम् उपसंक्रामति ॥
[ bendall ed p39 ---> ]
अथ खल्व् अन्यतरा श्रेष्ठिदारिकोपरिप्रासादतलगताद्राक्षीत् सदाप्ररुदितं बोधिसत्वं यावत् सा श्रेष्ठिदारिका
येन सदाप्ररुदितो बोधिसत्वस् तेनोपसंक्रम्याइतद् अवोचत् ।
किं नु खलु त्वं कुलपुत्राइवंरूपाम् आत्मनः कारणां कारयासीति ।
यावत् सा दारिका पूजाप्रयोजनं श्रुत्वा पुनर् आह ।
का पुन-
[ cambridge ms f25b ---> ]
स् ते कुलपुत्र ततो गुणजातिर् निष्पत्स्यते ।
स ताम् एतद् अवोचत् ।
स दारिके कुलपुत्रो मम प्रज्ञापारमिताम् उपायकौशल्यं चोपदेक्षय्ति ।
तत्र वयं शिक्षिष्यामस् तत्र वयं शिक्षमाणाः सर्वसत्वानां प्रतिशरणं भविष्यामः ।
पेयालं ॥
अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्वम् एतद् अवोचत् ।
आश्चर्यं कुलपुत्र ।
यावद् उदाराः प्रणीताश् चामी त्वया धर्माः परिकीर्त्तिताः ।
एकाइकस्यापि कुलपुत्राइवंरूपस्य धर्मस्यार्थाय
गङ्गानदीवालिकोपमान् अपि कल्पान् एवम् आत्मभावाः
परित्यक्तव्या भवेयुः ।
तथोदाराः प्रणीताश् चामी त्वया धर्माः परिकीर्त्तिताः ।
अपि तु खलु कुलपुत्र येन येन कृत्यं तत् ते दास्यामि सुवर्णं वा
मणिं वा मुक्तां वा वैडूर्यं वा यावद् येन त्वं तं धर्मोद्गतं बोधिसत्वं सत्करिष्यसि ।
यावद् विस्तरेण तया दारिकया पञ्चशतपरिवारया सार्द्धं तस्य धर्मोद्गतस्य संक्रमणं कर्तव्यं ॥
अथ खलु धर्मोद्गतो बोधिसत्वो महासत्वः उत्थायासनात्
स्वकं गृहं प्राविक्षत् ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
