Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
शिक्षासमुच्चय (bản khác)
- Tác giả
- शान्तिदेव
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यावत् सप्त वर्षाण्य् एकसमाधिसमापन्नाइवाभूत् ।
सदाप्ररुदितो बोधिसत्वो महासत्वः सप्त वर्षाणि न कामवितर्कम्
उत्पादयाम् आस ।
न व्यापादवितर्कं न विहिंसावितर्कम् उत्पादयाम् आस ।
न रसगृ-
[ bendall ed p40 ---> ]
द्धिम् उत्पादयाम् आसान्यत्र ।
कदा नाम धर्मोद्गतो बोधिसत्वो महासत्वो व्युत्थास्यति ।
यद् वयं धर्मोद्गतस्य बोधिसत्वस्य महासत्वस्य धर्मासनं प्रज्ञापयिष्यामो यत्रासौ कुलपुत्रो निषद्य धर्मं देशयिष्यति तं च पृथिवीप्रदेशं सिक्तं संमृष्टं च
करिष्यामो नानापुष्पाभिकीर्णं इति चिन्तयाम् आस ॥
तान्य् अपि श्रेष्ठिदारिका प्रमुखाणि पञ्चदारिकाशतानि
सदाप्ररुदितस्य बोधिसत्वस्यानुशिक्षमाणानि द्वाभ्याम् एवेर्यापथाभ्यां कालम् अतिनामयाम् आसुः ॥
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वो दिव्यं निर्घोषम्
अश्रौषीद् इतः सप्तमे दिवसे धर्मोद्गतो बोधिसत्वो महासत्वो ऽस्मात् समाधेर् व्युत्थाय मध्ये नगरस्य निषद्य
[ cambridge ms f26a ---> ]
धर्मं देशयिष्यतीति ।
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वस् तं निर्घोषं श्रुत्वात्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस् तं पृथिवीप्रदेशं शोधयाम् आस सार्द्धं श्रेष्ठिदारिकाप्रमुखैः पञ्चभिर् दारिकाशतैर् धर्मासनं प्रज्ञपयाम् आस सप्तरत्नमयं ।
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वस् तं पृथिवीप्रदेशं सेक्तुकामश् च ।
न चोदकं समन्तात् पर्येषमाणो ऽपि लभते येन तं पृथिवीप्रदेशं सिञ्चेद् ।
यथापि नाम मारेण पापीयसा तत् सर्वम् उदकम् अन्तर्धापितं अप्य् एव नामास्योदकम् अलभमानस्य चित्तं दुष्खितं स्याद् दौर्मनस्यं च भवेच् चित्तस्य वान्यथात्वं भवेद् येनास्य
कुशलमूलान्तर्धानं भवेन् न वा भ्राजेरन् कुशलमूलानि ।
अथ खलु सदाप्ररुदितस्य बोधिसत्वस्य महासत्वस्याइतद् अभूत् ।
यन् न्व् अहम् आत्मनः कायं विद्ध्वेमं प्रदेशं रुधिरेण
सिञ्चेयं ।
तत् कस्य हेतोः ।
अयं हि पृथिवीप्रदेशए उद्धतरजस्को ।
मा रजोधातुर् इतो धर्मोद्गतस्य बोधिसत्वस्य महासत्वस्य काये
निपततु ।
किम् अहम् अनेनात्मभावेनावश्यंभेदनधर्मिणा कुर्यां ।
वरं खलु पुनर् ममायं कायाइवंरूपया क्रियया विनश्यतु
न च निःसामर्थ्यक्रियया ।
कामहेतोः कामनिदानं बहूनि मे
[ bendall ed p41 ---> ]
आत्मभावसहस्राणि पुनः
पुनर् अपरिमाणे संसारे संसरतो भिन्नानि ।
यदि पुनर् भिद्यन्ते कामम् एवंरूपेष्व् इव धर्मस्थानेषु
भिद्यन्तां ॥
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वेति प्रतिसंख्याय
तीक्ष्णं शस्त्रं गृहीत्वा स्वकायं सम-
[ cambridge ms f26b ---> ]
न्ततो विद्ध्वा तं पृथिवीप्रदेशं स्वरुधिरेण सर्वम् असिञ्चत् ।
एवं ताभिर् अपि दारिकाभिः कृतं ।
न च सदाप्ररुदितो बोधिसत्वस्य महासत्वस्य तासां वा
सर्वासां दारिकाणां चित्तस्यान्यथात्वम् अभूत् ।
यत्र मारः पापीयान् अवतारं लभेतेति ॥
अताइवं चतुर्धर्मकसूत्रे ऽप्य् उक्तं ।
कल्याणमित्रं भिक्षवो बोधिसत्वेन महासत्वेन यावज्जीवं न
परित्यक्तव्यम् अपि जीवितहेतोर् इति ॥
तद् एवं कल्याणमित्रानुत्सर्गाद् आत्मभावादीनां रक्षादिकं कार्यं ॥
सूत्राणां च सदेक्षणाद् बोधिसत्वशिक्षापदानि हि प्रायः
सूत्रेष्व् एव दृश्यन्ते ।
तेषु तेषु सूत्रान्तेषु बोधिसत्वसमुदाचारा बोधिसत्वशिक्षापदानि प्रज्ञप्तानीति वचनात् ।
तस्मात् तदनीक्षणे मा भूद् आपत्तिम् आपन्नस्याप्य् अज्ञानाद् अविरतिर् इति सदा सूत्रदर्शनायादरः कार्यः ।
तद् अनेन कल्याणमित्रानुत्सर्गेण सूत्रान्तदर्शनेन च सर्वः
सद्धर्मपरिग्रहोक्तो भवति ॥
यथोक्तम् आर्यसागरमतिसूत्रे ।
याभिर् अक्षरनिरुक्तिभिः सो ऽनभिलाप्यो धर्मः सूच्यते तासाम्
अक्षरनिरुक्तीनां यदा धारणं देशना यावद् ।
अयम् उच्यते सद्धर्मपरिग्रहः ।
पुनर् अपरं कुलपुत्र ये ते धर्मभाणकाइषाम्
एवंरूपाणां सूत्रान्तानां देशयितारः प्रतिपत्तिसाराश् च
तेषाम् अपि धर्मभाणकानां यत् सेवनं भजनं पर्युपासनम्
उत्थानम् उपस्थानं गौरवं चित्रीकारः शुश्रूषारक्षा
परिग्रहश् चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारदानं साधुकारदानं स्वाम्य्-आरक्षा
कुशलपक्षरक्षा वर्णभाषणम् अवर्णप्रतिच्छाद्-
[ cambridge ms f27a ---> ]
अनता ।
अयम् अपि सद्धर्म-
[ bendall ed p42 ---> ]
परिग्रहः ।
पेयालं ॥
पुनर् अपरं कुलपुत्र याविवादपरमता ।
अधर्मे धर्मवादिनां च पुद्गलानां सह धर्मेण निग्रहः ।
अयम् अपि सद्धर्मपरिग्रहः ।
पुनर् अपरं कुलपुत्राप्रतिहतसन्तानस्य
सर्वसत्वप्रमोक्षबुद्धेर् निरामिषचित्तस्य परेभ्यो धर्मदानम्
अयम् अपि सद्धर्मपरिग्रहः ।
पुनर् अपरं कुलपुत्र यो धर्मश्रवणहेतुको वा
धर्मदेशनाहेतुको वान्तशाइकक्रमव्यतिहारो ऽन्तशाइकोच्छ्वासप्रश्वासो वा ।
अयम् अपि सद्धर्मपरिग्रहः ।
पेयालं ॥
प्रह्रुतं वतेदं कुलपुत्र चित्तं विषयेषु ।
तस्य या निवारणा परिरक्षाइकाग्रीभावो दमः शमोपशमो विनयो ऽयम् उच्यते सद्धर्मपरिग्रहः ।
पेयालं ॥
पुनर् अपरं कुलपुत्र येन धर्मेण यो ऽधर्मः प्रवर्तते तस्य
धर्मस्यापरिग्रहो ऽनुपादानम् अयम् अपि सद्धर्मपरिग्रहेत्य् आदि ॥
तत्र् धर्मभाणकसेवादिना कल्याणमित्रानुत्सर्गोक्तः ।
कल्याणमित्रलक्षणं च ।
तद् एतेन सद्धर्मपरिग्रहेण विना ।
न रक्षा ।
न शुद्धिर् न वृद्धिस् [[दोउब्त्]] ततश् च सो ऽपि न बोधिसत्वेत्य् अवश्यकार्यः सद्धर्मपरिग्रहः ॥
उक्तं हि श्रीमालासिंहनादसूत्रे ।
यान्य् अपीमानि भगवन् गङ्गानदीवालिकासमानि
बोधिसत्वप्रणिधानानि तान्य् एकस्मिन् महाप्रणिधाने
उपनिक्षिप्तान्य् अन्तर्गतान्य् अनुप्रतिष्ठानि यद् उत
सद्धर्मपरिग्रहे ।
एवं महाविषयो भगवन् सद्धर्मपरिग्रहेति ॥
पुनर् अत्राइवाह ।
स्याद् यथापि नाम देवि महाबलवतो ऽपि पुरुषस्याल्पो ऽपि
मर्मणि प्रहारो ।
वेधनीयो भवति वाधाकरश् च ।
एवम् एव देवि मारस्य पापीयसः परीत्तो ऽपि सद्धर्मपरिग्रहो-
[ cambridge ms f27b ---> ]
वेधनीयो भवति शोकावहः परिदेवकरश् च भवति ।
नाहं देवि अन्यम् एकम् अपि धर्मं कुशलं समनुपश्यामि मारस्य
पापीयसाइवं वेधनीयं शोकावहं परिदेवकरं च ।
यथायम् अल्पो ऽपि
[ bendall ed p43 ---> ]
सद्धर्मपरिग्रहेति ॥
पुनर् आह ।
स्याद् यथापि नाम देवि सुमेरुः पर्वतराजः सर्वान्
कुलपर्वतान् अभिभवन्न् अभिरोचते च समभिरोचते चोच्चत्वेन
विपुलत्वेन च ।
एवम् एव देवि महायानिकस्य कायजीवितनिरपेक्षस्य न च
गृहीतचित्तस्य सद्धर्मपरिग्रहो नवयानसंप्रस्थितानाम् अपि
कायजीवितसापेक्षाणां महायानिकानां सर्वान् कुशलान्
धर्मान् अभिभवतीत्य् आदि ॥
तथार्यसागरमतिसूत्रे ऽप्य् आह ।
परिगृहीतो भवती जिनेभिर् देवेभि नागेभि च किन्नरेभिः ।
पुण्येन ज्ञानेन परिगृहीतः
सद्धर्मधारित्व तथागतानाम् ॥
पेयालं ॥
स शून्यक्षेत्रेषु न जातु जायते
सर्वत्र जातौ च जिनं स पश्यति ।
दृष्ट्वा च तस्मिंल् लभते प्रसादं सद्धर्मधारित्व तथागतानाम् ॥
जातिस्मरो भवति महात्मधर्मा
प्रव्रज्यलाभी भवते पुनः पुनः ।
परिशुद्धचारी प्रतिपत्तिसारः
सद्धर्मधारित्व तथागतानाम् ॥
पेयालं ॥
लाभी च भोती विदुधारणीये
न नश्यते कल्पशतेभि यच्छुभम् ।
[ bendall ed p44 ---> ]
प्रतिभानवन्तो भवते ऽसक्तः
सद्धर्मधारित्व तथागतानां ॥
शक्रो ऽथ ब्रह्मा तथ लोकपाल्-ओ मनुष्यराजा भुवि चक्रवर्त्ती ।
सुखेन सौख्येन स बोधि बुध्यते
सद्धर्मधारित्व तथागतानाम् ॥
द्वात्रिंश काये ऽस्य भवन्ति लक्षणाः
[ cambridge ms f28a ---> ]
अनिन्दिताङ्गो भवते विचक्षणः ।
न तस्य तृप्तिं लभि प्रेक्षमाणाः
सद्धर्मधारित्व तथागतानाम् ॥
न तस्य संमुह्यति बोधि चित्तं न चोद्धुरः पारमिता चरीषु ।
असंगृहीतः कुशलः शतेभिः
सद्धर्मधारित्व तथागतानाम् इति ॥
शीलपारमितायां सद्धर्मपरिग्रहो नाम द्वितीयः परिच्छेदः ॥
धर्मभाणकादिरक्षा तृतीयः परिच्छेदः ॥
उक्तस् त्रयाणाम् अपि सामान्येन रक्षाद्युपायः ।
रक्षादयस् तु वाच्याः ।
तत्रात्मभावे का रक्षा यद् अनर्थविवर्जनं ॥
तत्रेति सद्धर्मपरिग्रहे वर्त्तमानस्यात्मभावरक्षा
चिन्त्यते यथा परान् न नाशयेत् ।
इदं चानर्थविवर्जनम् आर्यगगनगञ्जसूत्रे
सद्धर्मधारणोद्यतैर् बोधिसत्वैर् भाषितं ॥
[ bendall ed p45 ---> ]
वयम् उत्सहामो भगवन् निर्वृते द्विपदोत्तमे ।
सद्धर्मं धारयिष्यामः त्यक्त्वा कायं स्वजीवितम् ॥
लाभसत्कारम् उत्सृष्ट्वा सर्वं चोत्सृज्य संस्तवं ।
अनुत्सृष्ट्वेमं धर्मं बुद्धज्ञाननिदर्शकम् ॥
आक्रोशपरिभाषांश् च दुरुक्तवचनानि च ।
क्षान्त्या तान् मर्षयिष्यामः सद्धर्मप्रतिसंग्रहात् ॥
उच्चग्घनां तर्जनां चावर्णम् अयशांसि च ।
सर्वांस् तान् मर्षयिष्यामो धारयन्तेमं नयम् ॥
पे ॥
एवंविधे महाघोरे भिक्षुराजानक्षोभणे ।
विलोपकाले सत्वानां सद्धर्मं धारयामहे ॥
गम्भीरा ये च सूत्रान्ता विमुक्तिफलसंहिताः ।
प्रतीच्छका न भेस्यन्ति ।
चित्रा मृक्ष्यन्ति ते कथास् ॥
पे ॥
मैत्रीं तेषु करिष्यामो ये धर्मेष्व् अप्रतिष्ठिताः ।
कारुण्यं च करिष्यामो धारयन्तेमं नयम् ॥
दृष्ट्वा दुःशीलसत्वांश् चेच्छालोभप्रतिष्ठितान् ।
अश्रुपातं करिष्यामो गतिः कान्धस्य भाविता ॥
[ bendall ed p46 ---> ]
[ cambridge ms f28b ---> ]
सहसाइव च तं दृष्ट्वा सद्धर्मप्रतिबाधकं ।
दूरतो मैत्रम् एष्यामो मा नो रुष्येताइव हि ॥
रक्षिष्यामो यथाशक्त्या वाचाकर्मसु संवृताः ।
सहसाइनान् न वक्ष्यामः स्वपापे ऽस्मिन् प्रतिष्ठितान् ॥
दानैस् तथापि सत्कारैः परिपाच्येह तान् नरान् ।
पश्चाइनांश् चोदयिष्यामो भूतम् आपायगोचरान् ॥
गृहिसंभवसंत्यक्ताः प्रान्तारण्यसुगोचराः ।
मृगभूता भविष्यामो ऽल्पार्थाल्पकृत्यकाः ॥
पे ॥
दान्ताः शान्ताश् च मुक्ताश् च ग्रामे ऽस्मिन्न् अवतीर्य च ।
देशयिष्यामहे धर्मं सत्वा ये धर्मतार्थिका ॥
सुदूरम् अपि यास्यामो धर्मकामान् निशम्य च ।
धर्मारामरतिप्राप्तार्थं कर्त्तास्म देहिनाम् ॥
संमुखं तत्र संदृश्य सत्वानां स्खलितं पृथु ।
आत्मप्रेक्षा भविष्यामो धर्मसौरत्यसंस्थिताः ॥
असत्कृताः सत्कृता वा मेरुकल्पाः प्रभूय च ।
अनुपलिप्ता लोकेन भेस्यामो लोकनायकाः ॥
भिक्षूणां भिन्नवृत्तानां परिवादं निशम्य च ।
कर्मस्वका भविस्यामो माइषां कर्म विपच्यताम् ॥
[ bendall ed p47 ---> ]
बधकान् योजयिष्यन्ति धर्मेष्व् एषु हि वर्ततां ।
एते धर्मा न चास्माकं संविद्यन्ते कथञ्चन ॥
अस्माकं श्रमणानां हि न च श्रामणका गुणाः ।
भूतां चोदन संश्रुत्येदं सूत्रं प्रतिक्षिपन् ॥
संछिन्नकर्णनासानाम् आदर्शाइषां कुतः प्रियः ।
चोदनां भूततः श्रुत्वा सद्धर्मं ते क्षिपन्ति तम् ॥
ये भिक्षवो भविष्यन्ति सद्धर्मप्रतिग्राहकाः ।
चेष्टिष्यन्ते तथा तेषां कश्चिद् धर्मम् इमं शृणोत् ॥
राजानो ग्राहयिष्यन्ति भेस्यन्ति च महाजनः ।
बुद्धाधिष्ठानतः सत्वा धर्मं श्रोष्यन्तीमं [[दोउब्त्]]
तदा ॥
तस्मिन् काले वयं-
[ cambridge ms f29a ---> ]
कष्टे त्यक्त्वा कायं सजीवितं ।
सद्धर्मं धारयिष्यामः सत्वानां हितकारणाद् ।
इति ॥
आर्यसद्धर्मपुण्डरीके ऽप्य् उक्तं ॥
आचारगोचररक्षी असंसृष्टः शुचिर् भवेत् ।
वर्जयेत् संस्तवं नित्यं राजपुत्रेभि राजभिः ॥
[ bendall ed p48 ---> ]
ये चापि राज्ञां पुरुषाः कुर्यात् ते हि न संस्तवं ।
चण्डालमुष्टिकैः शौण्डैस् तीर्थिकैश् चापि सर्वशः ॥
अधिमानीन् न सेवेत [[दोउब्त्]] विनयेच् चागमे स्थितान् ।
अर्हन्तसंमतान् भिक्षून् दुःशीलांश् चाइव वर्जयेत् ॥
भिक्षुणीं वर्जयेन् नित्यं हास्यसंलापगोचरां ।
उपासिकाश् च वर्जेया प्रकटम् अनवस्थिताः ॥
स्त्रीपण्डकाश् च ये सत्वाः संस्तवं तैर् विवर्जयेत् ।
कुलेषु चापि वधुकाः कुमार्यश् च विवर्जयेत् ॥
न ताः संमोदयेज् जातु कौशल्यं साधु पृच्छितृं [[दोउब्त्]] ।
संस्तवं च विवर्जेया सौकराउरभ्रिकैः सह ॥
स्त्रीपोषकाश् च ये सत्वा वर्जयेत् तेहि संस्तवं ।
नटैर् झल्लकमल्लेभिर् ये चान्ये तादृशा जनाः ॥
[ bendall ed p49 ---> ]
वारमुख्यान् न सेवेत ये चान्ये भोगवृत्तिनः ।
प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत् ॥
यदा च धर्मं देशेया मातृग्रामस्य पण्डितो ।
न चाइकः प्रविशेत् तत्र नापि हास्यस्थितो भवेद् इति ॥
अयं चापरो ऽनर्थो भवेद् यद् इदं मारकर्मोक्तं प्रज्ञापारमितायां ।
मारः पापीयांस् तस्य बोधिसत्वस्याचिरं यानसंप्रस्थितस्यान्तिके बलवत्तरम् उद्योगम् आपत्स्यते ।
अत्राइवाह ।
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्वो महासत्वः
प्रज्ञापारमितायां योगम् आपद्यते तस्मिन् समये माराः
पापीयांसो बोधिसत्वस्य विहेठनम् उपसंहरन्ति भयं संजनयन्ति ।
उल्कापातान् दिशि दिग्व-
[ cambridge ms f29b ---> ]
हान् उत्सृजन्ति संदर्शयन्ति ।
अप्य् एव नामायं बोधिसत्वो महासत्वो ऽवनीयेत वा
रोमहर्षो- वास्य भवेद् इति ।
येनास्याइकचित्तोत्पादो ऽपि क्षीयेतानुत्तरायाः
सम्यक्संबोधेर् इति ।
पुनर् अपरम् अन्यविज्ञानसंज्ञिनो लिखिष्यन्ति यावत्
पर्यवाप्स्यन्ति ।
न वयम् अत्रास्वादं लभामहे इत्य् उत्थायासनात्
प्रक्रमिष्यन्ति ।
एवं विजृम्भमाणोच्चग्घन्तो यावत् पर्यवाप्स्यन्तीति
मारकर्म ।
एवम् उत्पत्स्यन्ते जनपदग्रामादिवितर्काः ।
एवम् आचार्योपाध्यायमातापितृमित्रामात्यज्ञातिसालोहितमनसिकाराः ।
एवं चोरमनसिकाराः ।
एवं चीवरादिमनसिकाराः ।
पुनर् अपरं धर्मभाणकश् छन्दिको भविष्यतीमां गम्भीरां प्रज्ञापारमितां लेखयितुं यावद् वाचयितु.ं धर्मश्रवणिकश् च किलासी भविष्यति ।
एवं विपर्ययात् ।
धर्मभाणकश् च देशान्तरं गन्तुकामो भविष्यति
धार्मश्रवणिकाश्*च नेति नेयं ।
एवं धर्मभाणको महेच्छो भविष्यति धार्मश्रवणिको ऽल्पेच्छेति नेयं ।
संक्षेपाद् धर्मभाणकधार्मश्रवणिकयोर् या काचिद् विधुरता सर्वं तन् मारकर्मेत्य् उक्तं ॥
[ bendall ed p50 ---> ]
आर्यगगनगञ्जसूत्रे ऽप्य् उक्तं ।
इति हि यावद् अकुशलधर्मानुवर्त्तनता ।
कुशलधर्मोत्सर्गश् च सर्वं तन् मारकर्मेति ॥
आर्यसागरमतिसूत्रे ऽप्य् आह ।
पुनर् अपरं भगवन् बोधिसत्वारण्यको भवति
प्रान्तशय्यासनाभिरतो ऽल्पेच्छुः संतुष्टः प्रविविक्तो ऽसंसृष्टो गृहस्थप्रव्रजितैः ।
सो ऽल्पार्थतयाल्पकृत्यतया च सुखं विहरति न च
बाहश्रुत्यपर्येष्टाव् अभियुक्तो भवति न सत्वपरिपाकाय न च
धर्मश्रवणे वा धर्मसां-
[ cambridge ms f30a ---> ]
कथ्ह्ये वार्थविनिश्चयकथायां वा वर्तमानायां संक्रमितव्यं मन्यते ।
न परिपृच्छनजातीयो भवति ।
न किंकुशलाभियुक्तो भवति ।
तस्यारण्यवासेन चाइकारामरतितया च क्लेशा न
समुदाचरन्ति ।
स पर्युत्थानविष्कम्भणमात्रेण तुष्टिं विन्दति ।
न चानुशयसमुद्याताय मार्गं भावयति ।
स तत्र नात्मार्थाय प्रतिपन्नो भवति न परार्थाय ।
अयं भगवन् बोधिसत्वस्यारण्यवासप्रतिसंयुक्तः सप्तमो माराङ्कुशेति ॥
पे ॥
पुनर् अपरं भगवन् बोधिसत्वः कल्याणमित्रप्रतिरूपकाणि
पापमित्राणि सेवते भजते पर्युपास्ते ।
ये ह्य् एनं संग्रहवस्तुभ्यो विच्छन्द्य पुण्यसंभारात्
सद्धर्मपरिग्रहाद् विच्छन्द्य प्रविवेके नियोजयन्ति ।
अल्पार्थायाल्पकृत्यतायां नियोजयन्ति ।
श्रावकप्रत्येकबुद्धप्रतिसंयुक्ताश् चास्मै कथा
अभीक्ष्णं देशयन्ति ॥
यस्मिंश् च समये बोधिसत्वो विवेकवासेन महायाने ऽभ्युद्गच्छेत्
तस्मिन् समये तं बोधिसत्वं वैयावृत्यपलिबोधे नियोजयन्ति
वैयावृत्यं बोधिसत्वेनावश्यं करणीयं ॥
यस्मिंश् च समये बोधिसत्वो वैयावृत्ये संनियोजयितव्यस् तस्मिन्
समये विवेके नियोजयन्ति ।
एवं चाइनं वदन्ति ।
आरब्धवीर्यस्य बोधिसत्वस्य बोधिर् न कुसीदस्य ।
सचेत् त्वम् अष्टाभिर् नवभिर् वा कल्पैर् अनुत्तरां स-
[ bendall ed p51 ---> ]
म्यक्संबोधिं नाभिसंभोत्स्यसे ।
न भूयः शक्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् ।
तत्र भगवन् ।
बोधिसत्वो ऽत्यारब्धेन वीर्येण स्थानं खलु पुनर् एतद् विद्यते
यन् निर्वाणफलं-
[ cambridge ms f30b ---> ]
प्राप्नुयाद् ।
अयं भगवन् ।
बोधिसत्वस्य कल्याणमित्रप्रतिरूपकेण दशमो माराङ्कुशः ॥
ये ऽपि ततो ऽन्ये बोधिसत्वयानीयाः पुद्गला माराङ्कुशाविद्धाः प्रत्यवेतेषु धर्मेषु चरन्ति तैः सार्द्धं रतिं विन्दति ।
तथा हि तदनुवर्त्तका भवन्ति स हीनसेवी विशेषम् अनधिगतो हीनगतिं गच्छति यद् उत धन्वगतिं जडाइडमूकगतिं यावद् एकादशो माराङ्कुशेति ॥
येन चाइवं संतत्यारब्धवीर्यस्य निर्वेदात् सर्वथा
बोधिसत्वभावाइव भवत्य् अताइव रत्नमेघे ऽभिहितं ।
इह बोधिसत्वः सर्वेर्यापथेषु वीर्यम् आरभते ।
तथा चारभते यथा न कायखेदं संजनयति ।
न चित्तखेद्.अम् ।
इदम् उच्यते बोधिसत्वस्य सांतत्यवीर्यम् इति ।
कीदृशं तद् वीर्यं ।
येन खेदो भवति ।
यद् इदम् अल्पबलस्य गुरुकर्मारम्भो ऽतिवेलायां वापरिपक्वाधिमुक्तेर् वा दुष्करकर्मारम्भस् तद् यथा
स्वमांसदानादिः ।
दत्तश् चानेनात्मभावः ।
किन्त्व् अकालपरिभोगाद् वारयति ।
अन्यथा हि तेषाम् एव सत्वानां बोधिसत्वखेदेन
बोधिचित्तवीजनाशान् महतः फलराशेर् नाशः स्यात् ॥
अतश् च गगनगञ्जसूत्रे ऽभिहितं ।
अकालप्रतिकाङ्क्षणता मारकर्मेति ।
नाप्य् अकालेत्य् आत्मभावत्यागचित्तम् एव नोत्पाद्याभ्यासानारम्भाद् धि न कदाचिद् दद्यात् ।
तस्माद् एवं स्मृतिम् उपास्थाप्य बोधिचित्तपरिपाचनविरोधिभ्यो मोहात् स्वार्थघातिभ्यः पिशिताशनेभ्यः कर्मकारिभ्यश् चात्मभावो रक्षितव्यः ॥
भैषज्यवृक्षस्य सुदर्शनस्य मूलादिभोग्यस्य यथाइव
वीजं ।
दत्त्वापि संरक्ष्यम् अकालभोगात् संबुद्धभैषज्यतरोस् तथाइव ॥
अयं समासतो मारकर्मानर्थः ॥
अस्य विसर्जनं रत्नमेघसूत्रे कथितं ।
कथं च कुलपुत्रात्र बोधिसत्वो मारकर्मपरिहारोपायकुशलो भवति ।
इह बोधिसत्वो ऽकल्याणमित्रं सर्वेण सर्वं परिव-
[ bendall ed p52 ---> ]
र्जयति ।
अप्रतिरूपदेशवासं लोकायतमन्त्रसेवनभावनां लाभसत्कारपूजोपस्थानबहुमानं सर्वेण सर्वं परिवर्जयति ।
ये चान्ये उपक्लेशा बोधिपक्ष्यमार्गान्तरायिकास् तान् सर्वेण
सर्वं परिवर्जयति ।
तेषां च प्रतिपक्षं भजते ॥
अत्राइव चाकल्याणमित्रलक्षणम् उक्तं ।
शीलविपन्नपुद्गलविवर्जनतया पापमित्रपरिवर्जना वेदितव्या ।
एवं दृष्टिविपन्नाचारविपन्नाजीवविपन्नपुद्गलविवर्जनतया ।
सङ्गणिकारामपुद्गलविवर्जनतया ।
कुशीदपुद्गलविवर्जनतया ।
संसाराभिरतपुद्गलविवर्जनतया ।
बोधिपराङ्मुखपुद्गलपरिवर्जनतया ।
गृहिसंसर्गविवर्जनतया पापमित्रपरिवर्जना वेदितव्या ।
तेन च कुलपुत्राइतानि स्थानानि परिवर्जयता न तेषां पुद्गलानाम् अन्तिके दुष्टचित्तम् उत्पादयितव्यं न प्रतिघचित्तं नावमन्यनाचित्तम् उत्पादयितव्यम् ।
एवं चानेन चित्तम् उपस्थापयितव्यम् ।
उक्तं हि भगवता धातुशः सत्वाः कामादिधातुं आस्रवन्ति
जायन्ते संस्यन्दन्ते संसर्गाच् च विनश्यन्ति ।
तस्माद् अहं संसर्गं वर्जयिष्यामीति ॥
बोधिचित्तसंप्रमोषो ऽप्य् अनर्थः तस्य च हेतुर् उक्तो रत्नकूटे ।
चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्य बोधिचित्तं मुह्यति ।
कतमैश् चतुर्भिः ।
आचार्यगुरुदक्षिणीयविसंवादनतया परेषाम् अकौकृत्ये
कौकृत्योपसंहरणतया ।
महायानसंप्रस्थितानां-
[ cambridge ms f31b ---> ]
च सत्वानाम् अवर्णायशो ऽकीर्त्यलोकनिश्चारणतया मायाशाठ्येन च परम् उपचरति नाध्यायाशयेनेति अस्य विवर्जनम् अत्रोक्तं ।
चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्य सर्वासु
जातिषु जातमात्रस्य बोधिचित्तम् आमुखीभवति ।
न चान्तरा मुह्यति यावद् बोधिमण्डनिषदनात् ।
कतमैश् चतुर्भिः ।
यद् उत जीवितहेतोर् अपि संप्रजानन् मृषावादं न प्रभाषते ।
अन्तशो हास्यप्रेक्षिकयापि ।
[ bendall ed p53 ---> ]
अध्याशयेन च सर्वसत्वानाम् अन्तिके तिष्ठत्य् अपगतमायाशाठ्यतया सर्वबोधिसत्वेषु च शास्तृसंज्ञाम्
उत्पादयति ।
चतुर्दिशं च तेषां वर्णं निश्चारयति ।
यांश् च सत्वान् परिपाचयति तान् सर्वान् अनुत्तरायां सम्यक्संबोधौ समादापयति ।
प्रादेशिकयानास्पृहणतया ।
एभिः काश्यप चतुर्भिर् इति ॥
सिंहपरिपृच्छायाम् अप्य् आह ।
न जातु धर्मदानस्यान्तरायं करोति यः ।
तेनासौ लभते क्षिप्रं लोकनाथेहि सङ्गमम् ॥
तथा जातिस्मराद् धर्मदानाज् जानीष्वाइवं कुमारकेति ॥
तथात्राइव ।
बोधिचित्तं न रिञ्चति तेन सर्वासु जातिषु ।
स्वप्नान्तरे ऽपि तच्चित्तं किं पुनर् यदि जाग्रतः ॥
आह ।
येषु विरतिस्थानेषु ग्रामेषु नगरेषु वा ।
समादायेति बोधाय तेन चित्तं न रिञ्चति ॥
आर्यमञ्जुश्रीबुद्धक्षेत्रगुणव्यूहालंकारसूत्रे ऽप्य् आह ।
चतुर्भिर् धर्मैः समन्वागतो बोधिसत्वः प्रणिधानान् न चलति ॥
पे ॥
निहतमानश् च भवतीर्ष्यमात्सर्यपरिवर्जकश् च भवति
परसंपदं च दृष्ट्वात्तमना भवतीति ।
इदम् एव पात्रबोधिचित्तस्य स्फुटतरम् असंप्रमो-
[ cambridge ms f32a ---> ]
षकारणं यत्
तत्राइव रत्नकूटे ऽभिहितम् ।
सर्वेर्यापथेषु बोधिचित्तपरिकर्मणतया ।
बोधिचित्तपूर्वङ्गमतया चेति ॥
तथा हि चन्द्रप्रदीपसूत्रे पाठः ।
आरोचयामि प्रतिवेदयामि वो यथा यथा बहुलु
[ bendall ed p54 ---> ]
वितर्कयेन् नरः
तथा तथा भवति तन्निम्नचित्तः तेही वितर्केहि तन्निश्रितेहीति ॥
अवसादो ऽप्य् अनर्थाइतद्वर्जनं च रत्नमेघे दृष्टं ।
इह बोधिसत्वो नाइवं चित्तम् उत्पादयति ।
दुष्प्रापा बोधिर् मनुष्यभूतेन सता ।
इदं च मे वीर्यं परीत्तं च कुसीदो ऽहं बोधिश् चादीप्तशिरश्चैलोपमेन बहून् कल्पान् ।
बहूनि कल्पशतानि बहूनि कल्पसहस्राणि समुदानेतव्या ।
तन् नाहम् उत्सहए ईदृशं भारम् उद्वोढुं ॥
किं तर्हि बोधिसत्वेनाइवं चित्तम् उत्पादयितव्यं ।
ये ऽपि ते ऽभिसंबुद्धास् तथागतार्हन्तः सम्यक्संबुद्धा ये
चाभिसंबुद्ध्यन्ते ये वाभिसंभोत्स्यन्ते ऽपीदृशेनाइव
नयेनेदृश्या प्रतिपदा ।
ईदृशेनाइव वीर्येणाभिसंउद्धाभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च ।
यावन् न ते तथागतभूताइवाभिसंबुद्धाः ।
अहम् अपि तथा तथा घटिष्ये तथा तथा व्यायंस्ये
सर्वसत्वसाधारणेन वीर्येण सर्वसत्वारम्बणेन वीर्येण यथाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यए इति ॥
पुनर् अपरो ऽनर्थो रत्नकूटे दृष्टः ।
अपरिपाचितेषु सत्वेषु विश्वासो बोधिसत्वस्य स्खलितं अभाजनीभूतेषु सत्वेषूदारबुद्धधर्मसंप्रकाशनात्
बोधिसत्वस्य स्खलितं ॥
उदाराधिमुक्तिकेषु सत्वेषु हीनयानसंप्रकाशनाद् बोधिसत्वस्य
स्खलितम् इति ।
सम्यक्स्मृत्युपस्थितेषु शीलवत्सु कल्याणधर्मेषु प्रतिविमानना दुःशीलपापधर्मसंग्रहा बोधिसत्वस्य स्खलितम् इति ॥
अनधिमुक्तिर् अप्य् अनर्थः ।
यथोक्तं राष्ट्रपालसूत्रे ।
यस्याधिमुक्ति न विद्यति बुद्धधर्मगणे च न तस्य धिमुक्तिः ।
शिक्षव्रतेषु न तस्य धिमुक्तिः पापमतेस् तिरपायमुखस्य ॥
सेतश् च्युतो मनुजेषु कर्मवशाद् अबुधो हि विमूढः ।
नरकेष्व् अथ तिर्यगतीषु प्रेतगतीषु च विन्दति दुष्खम् ॥
इति अस्य विसर्जनं रत्नकूटे ऽभिहितं दृष्टं ।
येषु चास्य गम्भीरेषु बुद्धिनावगाहते ।
तत्र तथागताइव साक्षीति कृत्वा न प्रतिक्षिपति ।
तथागताइव जनीते ।
नाहं जाने ।
अनन्ता बुद्धबोधिर् नानाधिमुक्तिकतया तथागतानां सत्वेषु
धर्मदेशना प्रवर्त्ततए इति ॥
वैयावृत्यवर्तमानेनानर्थविवर्जनकुशलेन भवितव्यं ।
बोधिसत्वप्रातिमोक्षे हि सहधार्मिके धर्मश्रवणे ।
तथागतपूजायां च वैयावृत्यम् उपदिष्टं तत्र या वृत्तिः
सा रत्नराशिसूत्राद् आगता ।
तत्र वैयावृत्यकरेण भिक्षुणा सर्वभिक्षुसंघस्य चित्तम्
अभिराधयितव्यं ।
तत्र ये भिक्षवारण्यकाः प्रान्तशय्यासनिकास् तेषां ।
वैयावृत्यकरेण भिक्षुणा सर्वेण सर्वं न कर्मसमुत्थानं दातव्यं ।
यदि पुनर् आरण्यकस्य भिक्षोः संघपर्यापन्नं शैक्षकं कर्म प्राप्नुयात् ।
एतेन वैयावृत्यकरेण भिक्षुणात्मनाइव तत् कर्तव्यं ।
अन्यतरो वा भिक्षुर् अध्येष्यो न पुनः सारण्यको भिक्षुर् उत्पीडयितव्यस् तत्र यो भिक्षुः पिण्डचारिको भवति तस्य तेन
वैयावृत्यकरेण भिक्षुणा प्रणीतभोजनेषु संविभागः
कर्तव्यः ।
तत्र काश्यप यो भिक्षुर् योगा-
[ cambridge ms f33a ---> ]
चारी भवति ।
तस्य तेन वैयावृत्यकरेण भिक्षुणानुलोमिकान्य् उपकरणान्य् उपसंहर्तव्यानि ग्लानप्रत्ययभैषज्यपरिष्काराश् च ।
यस्मिंश् च प्रदेशे स योगाचारी भिक्षुः प्रतिवसति तस्मिन् प्रदेशे
नोच्चशब्दः कर्तव्यः ।
रक्षितव्यो वैयावृत्यकरेण भिक्षुणा योगाचारी भिक्षुः ।
शय्यासनोपस्तम्भनास्य कर्तव्या ।
प्रणीतानि च संप्रियाणि योगाचारभूम्यनुकूलानि
खादनीयभोजनीयान्य् उपनामयितव्यानि ॥
पे ॥
ये भिक्षवो बाहुश्रुत्ये ऽभियुक्ता भवन्ति तेषाम् उत्साहो दात-
[ bendall ed p56 ---> ]
व्यः ।
यावत् ते ऽपि परिरक्षितव्याः ।
ये धार्मकथिका भिक्षवो भविष्यन्ति ।
तेषां प्रतीहारधर्मता कर्तव्या ।
यावद् धार्मश्रवणिकाश् चोद्योजयितव्याः पर्षन्मण्डलं परिसंस्थापयितव्यं ।
सांकथ्यमण्डलं विशोधयितव्यं यावत् साधुकारबहुलेन चास्य भवितव्यं ॥
पे ॥
न क्वचिद् वस्तुनि ऐश्चर्यसंज्ञोत्पादयितव्या ।
कियत् परीत्तम् अपि कार्यं संघमतेन कर्तव्यं ।
न स्वमतेन यावन् न सांघिकश् चातुर्दिशसांघिकेन
संसृष्टः कर्तव्यः ।
एवं विपर्ययाद् एवं स्तौपिकेन सहान्योन्यसंसर्गप्रतिषेधः ।
यदि चातुर्दिशे संघे वैकल्यं भवेत् सांघिकश् च लाभोत्सदो भवेत् तेन वैयावृत्यकरेण भिक्षुणा भिक्षुसंघम्
एकमानसं कृत्वा ।
सांघिकलाभाच् चातुर्दिशसांघिककार्यं कर्तव्यं ।
एवं स्तूपे ऽपि प्रलुग्ने ऽयम् एव विधिर् दायकान् दानपतीन् वा
समादाप्य प्रतिसंस्कर्तव्येत्य् आज्ञा ।
यदि पुनः काश्यप कियद् बहुर् अपि स्तौपिको लाभो भवेत् ।
स वैयाकृत्यकरेण न संघेन चातुर्दिशसंघे उपनामयितव्यः ।
तत् कस्माद् धेतोः ।
या स्तौपिकान्तशाइकदशापि श्राद्धैः प्रसादबहुलैर् निर्यातिता भवति ।
सा स-
[ cambridge ms f33b ---> ]
देवकस्य लोकस्य चैत्यं ।
कः पुनर् वादो रत्नं वा रत्नसंमतं वा यच् च स्तूपे
चीवरं निर्यातितं भवति ।
तत् तत्राइव तथागतचैत्ये वातातपवृष्टिभिः परिक्षयं गच्छतु ।
न पुनः स्तौपिकं चीवरं हिरण्यमूल्येन परिवर्तयितव्यं ।
न हि स्तौपिकस्य कश्चिद् अर्घो नापि स्तूपस्य केनचिद् वैकल्यं यो हि कश्चित् काश्यप वैयावृत्यकरो भिक्षू रुष्टचित्तः
शीलवतां दक्षिणीयानाम् [[दोउब्त्]] ऐश्वर्याद् आज्ञप्तिं ददाति
स तेनाकुशलेन कर्मणा नरकगामी भवतीति ।
यदि मनुष्यलोकम् आगच्छति दासो भवति परकर्मकरो लाभी च
भवति खटचपेटप्रचण्डप्रहाराणां ।
पे ।
दण्डकर्मभयतर्जितं भिक्षुं-
[ bendall ed p57 ---> ]
करोत्य् अकालप्रेषणम्
अकालज्ञप्तिं ददाति ।
स तेनाकुशलेन कर्मणा बहुशङ्कुर् नाम प्रत्येकनरकस् तत्रास्योपपत्तिर् भवति ।
यावत् सहस्रविद्धः कायो भवति ।
आदीप्तः ।
प्रदीप्तः संप्रज्वलितः ।
पे ।
योजनशतविस्तारप्रमाणा जिह्वा भवति ।
तस्य तत्र जिह्वेन्द्रिये बहूनि शङ्कुशतसहस्राणि आदीप्तानि
अयस्मयानि निखातानि भवन्ति ।
यो हि कश्चित् काश्यप वैयवृत्यकरो भिक्षुर् आगतागतं सांघिकं लाभं सन्निधिं करोति न कालानुकालं ददाति ।
उद्वश्यापयितव्या विहेठयित्वा ददाति ।
केषाञ्चिन् न ददाति ।
स तेनाकुशलमूलेन जङ्घा नाम गूथमृतिकाप्रेतयोनिस् तत्रास्योपपत्तिर् भवति ।
तत्रास्यान्ये प्रेता भोजनं गृहीत्वापदर्शयन्ति ।
सोद्वश्यमानस् तद्भोजनम् अनिमिषाभ्यां नेत्राभ्यां पश्यमानः क्षुत्पिपासापरिगतो दुष्खां ।
वेदनां वेत्ति न च वर्षसहस्रेणापि तस्य भोजनस्य लाभी
भवति ।
यद् अपि कदाचित् कर्हिचिद् भोजनं लब्धं-
[ cambridge ms f34a ---> ]
भवति तद् उच्चारं भवति पूयशोणितं वेति ॥
संघरक्षितावदाने ऽप्य् अनर्थोक्तः ।
यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः कुड्याकारांस् ते
भिक्षवासन् ।
तैः सांघिकं कुड्यं श्लेष्मणा नाशितं ।
तस्य कर्मणो विपाकेन कुड्याकाराः संवृत्ताः ।
यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः स्तम्भाकारांस् ते
भिक्षवासन् ।
तैः सांघिकस्तंभः सिंहाणकेन नाशितः ।
तेन स्तम्भाकाराः संवृत्ताः ।
यांस् त्वं सत्वान् अद्राक्षीर् वृक्षाकारान् पत्राकारान्
फलाकारान् ते ऽपि भिक्षवासन् ।
तैर् अपि सांघिकानि वृक्षपत्रपुस्.पफलानि पौद्गलिकपरिभोगेन
परिभुक्तानि तेन ते वृक्षपत्रपुष्पफलाकाराः संवृत्ताः ।
यांस् त्वं सत्वान् अद्राक्षी रज्ज्वाकारान्
संमार्जन्य्-आकारांस् ते भिक्षवासन् ।
तैः सांघिका रज्जुसम्मार्जन्यः पौद्गलिकपरिभोगेन परिभुक्तास् तेन रज्ज्वाकाराः सम्मार्जन्य्-आका-
[ bendall ed p58 ---> ]
राश् च संवृत्ताः ।
यं त्वं सत्वम् अद्राक्षीस् तट्टाकारं स श्रामणेरकासीत् ।
स तट्टुकं निर्मादयति ।
आगन्तुकाश् च भिक्षवो ऽभ्यागताः ।
तैर् असौ दृष्टश् च पृष्टश् च श्रामणेरक किम् अयं संघस्य
पानकं भविष्यति ।
स मात्सर्योपहतचित्तः कथयति ।
किं न पश्यथ तट्टुकं निर्मादितं पीतं पानकम् इति ।
ते वृत्ता वेलेति नैराश्यम् आपन्ना हीनदीनवदनाः
प्रक्रान्ताः ।
स तस्य कर्मणो विपाकेन तट्टुकाकारः संवृत्ताः ॥
यं त्वम् सत्वम् अद्राक्षीर् उदूखलाकारं सो ऽपि
भिक्षुर् आसीत् ।
तस्य पात्रकर्म प्रत्युपस्थितं ।
तत्र चाइकः श्रामणेरको ऽर्हन् मुद्रावारे नियुक्तः ।
स तेनोक्तः श्रामणेरक ददस्व मे खलिस्ताकं कुट्टयित्वेति ।
स कथयति ।
स्थविर तिष्ठ तावन् मुहूर्तं व्यग्रो ऽस्मि पश्चात् कुट्टयित्वा
दास्यामीति ।
स संजातामर्षः कथयति ।
[ cambridge ms f34b ---> ]
श्रामणेरक यदि मम कल्पते उदूखलं स्प्रष्टुं त्वाम् एवाहम्
उदूखले प्रक्षिप्य कुट्टयेयं ।
प्राग् एव खलिस्तोकम् इति ।
स श्रामणेरः संलक्षयति ।
तीव्रपर्यवस्थानपर्यवस्थितो ऽयं ।
यद्य् अहम् अस्मै प्रतिवचनं दास्यामि भूयस्या मात्रया प्रकोपम्
आपत्स्यतीति तूष्णीम् अवस्थितः ।
यदास्य पर्यवस्थानं विगतं तदोपसंक्रम्य कथयति ।
स्थविर जानीषे त्वं को ऽहम् इति ।
स कथयति ।
जाने त्वां काश्यपस्य सम्यक्संबुद्धस्य प्रव्रजितं श्रामणेरकं ।
अहम् अपि भिक्षुः स्थविरः ।
श्रामणेरकः कथयति ।
यद्य् अप्य् एवं तथापि तु यन् मया प्रव्रजितेन करणीयं तत्
कृतं ।
किं कृतं क्लेशप्रहाणं छिन्नसकलबन्धनो ऽहं सर्वबन्धनविनिर्मुक्तः ।
खरं ते वाक्कर्म निश्चारितं ।
अत्ययम् अत्ययतो देशय ।
अप्य् एव नामाइतत् कर्मपरिक्षयं तनुत्वं पर्यादानं गच्छेद् इति ।
तेनात्ययम्-
[ bendall ed p59 ---> ]
अत्ययतो न देशितं तेन कर्मणोदूखलाकारः
संवृत्तः ॥
यांस् त्वं सत्वान् अद्राक्षीः स्थाल्याकारान् ।
ते कल्पिकारकासन् भिक्षूणाम् उपस्थायकाः ।
ते भैषज्यानि क्वाथयन्तो भिक्षुभिर् अप्रियम् उक्ताः तैश् चित्तं प्रदूष्य स्थाल्यो भिन्नाः तेन स्थाल्याकाराः
संवृत्ताः ।
यं त्वं सत्वम् अद्राक्षीर् मध्ये छिन्नं तन्तुना धार्यमाणं सो ऽपि भिक्षुर् आसील् लाभी ग्राहिकः तेन मात्सर्याभिभूतेन
लाभः संपरिवर्तितः ।
यो वार्षिकः स हैमन्तिकः परिणामितः ।
यस् तु हैमन्तिकः स वार्षिकः परिणामितः ।
तस्य कर्मणो विपाकेन मध्ये छिन्नस् तन्तुना धार्यमाणो गच्छति ॥
शिक्षासमुच्चये धर्मभाणकादिरक्षापरिच्छेदस् तृतीयः ॥
शिक्षासमुच्चये चतुर्थः परिच्छेदः ॥
अपरे ऽपि महन्तो ऽनर्थाः सूत्रान्तेषूक्ताः ।
यथा तावद् आकाशगर्भसूत्रे ।
पञ्चेमाः कुलपुत्र क्षत्रियस्य मूर्द्धाभिषिक्तस्य
मूलापत्तयः ।
याभि-
[ cambridge ms f35a ---> ]
र् मूलापत्तिभिः क्षत्रियो मूर्द्धाभिषिक्तः सर्वाणि
पूर्वावरोपितानि कुशलमूलानि झाषयति ।
वस्तुपतितः पाराजिकः सर्वदेवमनुष्यमुखेभ्यो ऽपायगामी
भवति ।
कतमाः पञ्च ।
यः कुलपुत्र मूर्द्धाभिषिक्तं स्तौपिकं वस्त्व् अपहरति
सांघिकं वा चातुर्दिशसांघिकं वा निर्यातितं वा ।
स्वयं वापहरति हारयति वा ।
इयं प्रथमा मूलापत्तिः ॥
यः पुनर् धर्मं प्रतिक्षिपति श्रावकनिर्याणभाषितं वा
प्रत्येकबुद्धनिर्याणभाषितं वा
महायाननिर्याणभाषितं वा प्रतिक्षिपति प्रतिषेधयतीयं द्वितीया मूलापत्तिः ॥
यः पुनर् माम् उद्दिश्य शिरस्तुण्डमुण्डकाषायवस्त्रप्रावृतः
शिक्षाधारी वा शि-
[ bendall ed p60 ---> ]
क्षाधारी वा तस्य दुःशीलस्य वा
शीलवतो वा काषायाणि वस्त्राण्य् अपहरति अपहरायति ।
गृहस्थं वा करोति काये दण्डैः प्रहरति चारके वा प्रक्षिपति
जीवितेन वा वियोजयतीयं तृतीया मूलापत्तिः ॥
यः पुनः क्षत्रियः संचिन्त्य मातरं जीविताद् व्यपरोपयति
पितरम् अर्हन्तं भगवच्छ्रावकं वा जीविताद् व्यपरोपयति
समग्रं वा संघं भिनत्ति तथागतस्यार्हतः
सम्यक्संबुद्धस्य संचिन्त्य दुष्टचित्तो रुधिरम् उत्पादयति ॥
एभिः पञ्चभिर् आनन्तर्यैर् कर्मभिर् अन्यतरान्यतरं कर्मोत्पादयतीयं चतुर्थी मूलापत्तिः ॥
यः पुनः क्षत्रियो ऽहेतुवादी भवति परलोकोपेक्षकः ।
दशाकुशलान् कर्मपथान् समादाय वर्तते ऽन्यांश् च बहून्
सत्वान् दशस्व् अकुशलेषु कर्मपथेषु समादापयति विनयति
निवेशयति प्रतिष्ठापयतीयं पञ्चमी मूलापत्तिः ॥
पे ॥
यः पुनर् ग्रामभेदं जनपदभेदं नगरभेदं राष्ट्रभेदं करोतीयं मूलापत्तिः ॥
पे ॥
आदिकर्मिणां महायानसंप्रस्थितानां-
[ cambridge ms f35b ---> ]
कुलपुत्राणां कुलदुहित्-र्णां वाष्टौ मूलापत्तयो ।
याभिर् मूलापत्तिभिः स्खलितादिकर्मिका महायानसंप्रस्थिताः सर्वाणि पूर्वावरोपितानि कुशलमूलानि
झाषयन्ति ।
वस्तुपतिताः पराजिता देवमनुष्यमहायानमुखाद् अपायगामिनो भवन्ति चिरं च संसारे सीदन्ति
कल्याणमित्रविरहिताः ।
कतमाष्टौ ।
ये सत्वाः पूर्वदुश्चरितहेतुनास्मिन् क्लिष्टे पञ्चकषाये लोके
उपपन्नास् तए इत्वरकुशलमूलाः कल्याणमित्रं संनिःश्रित्येदं परमं गम्भीरं महायानं शृण्वन्ति ।
ते च परीत्तबुद्धयो ऽपि कुलपुत्रानुत्तरायां सम्यक्संबोधौ
चित्तम् उत्पादयन्ति ।
तेषां आदिकर्मिका ये च बोधिसत्वेदं परमगम्भीरं शून्यताप्रतिसंयुक्तं सूत्रान्तं शृण्वन्ति उद्दिशन्ति पठन्ति ।
ते यथाश्रुतं यथापर्यवाप्तं परेषां पूर्वबुद्धिसदृशानां स्वर्थं सुव्यञ्जनं विस्तरेणाग्रतः स्मारयन्ति प्रकाशयन्ति ।
ते ह्य् अकृतशमा बालाः पृथग्जनाः शृण्वन्तोत्त्रस्यन्ति
संत्रस्यन्ति संत्रासम् आपद्यन्ते ।
ते संत्रासेन विवर्त्तयन्त्य् अनुत्तरायाः
[ bendall ed p61 ---> ]
सम्यक्संबोधेश् चित्तं श्रावकयाने चित्तं प्रणिदधति ।
एषादिकर्मिकबोधिसत्वस्य मूलापत्तिः प्रथमा ॥
यया मूलापत्त्या स कुलपुत्रः सर्वं पूर्वावरोपितं कुशलमूलं झाषयति ।
वस्तुपतितः पराजितः स्वर्गापवर्गसुखात् ।
विसंवादितं चास्य बोधिचित्तम् अपायगामि भवति ।
तस्माद् बोधिसत्वेन महासत्वेन परपुद्गलानाम् आशयानुशयं प्रथमं ज्ञात्वा यथाशयानां सत्वानाम् अनुपूर्वेण
धर्मदेशना कर्तव्या ।
तद् यथा महासमुद्रे ऽनुपूर्वेणावतारयति ॥
पे ॥
पुनर् अपरम् आदिकर्मिको बोधिसत्वः कस्यचिद् एव
[ cambridge ms f36a ---> ]
वक्ष्यति ॥
न त्वं शक्यसि षट्पारमितासु चर्यां चर्तुं ।
न त्वं शक्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं ।
शीघ्रं त्वं श्रावकयाने प्रत्येकबुद्धयाने वा चित्तम्
उत्पादय ।
तेन त्वं संसारान् निर्यास्यसि ।
यावद् यथापूर्वोक्तम् इयम् आदिकर्मिकस्य बोधिसत्वस्य द्वित्-या
मूलापत्तिः ॥
पुनर् अपरम् आदिकर्मिको बोधिसत्वः कस्यचिद् एवं वक्ष्यति ।
किं भोः प्रातिमोक्षविनयेन ।
शीलेन सुरक्षितेन शीघ्रं त्वम् अनुत्तरायां सम्यक्संबोधौ
चित्तम् उत्पादयस्व ।
महायानं पठ ।
यत् ते किञ्चित् कायवाङ्मनोभिः क्लेशप्रत्ययाद् अकुशलं कर्म
समुदानीतं तेन पाठेन शुद्धिर् भवत्य् अविपाकं ।
यावद् यथापूर्वोक्तम् अयम् आदिकर्मिकस्य बोधिसत्वस्य तृतीया
मूलापत्तिः ॥
पुनर् अपरं कुलपुत्र केषाञ्चिद् आदिकर्मिको बोधिसत्वाइवं वक्ष्यति ।
वर्जयत यूयं कुलपुत्राः श्रावकयानकथां ।
मा शृणुत मा पठत मा परेषाम् उपदिशत ।
गोपयत श्रावकयानकथां ।
न यूयं तस्मात् महत् फलं प्राप्स्यथ ।
न यूयं ततो निदानाच् छक्ताः क्लेशान्तं कर्तुं ।
श्रद्दधत महायानकथां ।
शृणुत महायानं पठत महायानं परेषां चोपदिशत ।
ततो यूयं सर्वदुर्गत्यपायपथान् शमयिष्यथ ।
क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यथ ॥
यदि ते तस्य वचनकारिणो भवन्तीदृशं दृष्टिगतम्
उपगृह्णीयुः ।
उभयोर् अपि मूलापतिर् भवतीयम् आदिकर्मिकस्य बोधिसत्वस्य
चतुर्थी मूलापत्तिः ॥
पुनर् अपरम् आदिकर्मिका बोधिसत्वा द्विजिह्विका भवन्ति अन्यथा
निदर्शयन्ति ।
इदं च महायानं कीर्तिशब्दश्लोकार्थं ल्ōüभसत्क्ōüरहेतोः पठन्ति स्वाध्य्ōüयन्ति ध्ōüरयन्ति व्ōüचयन्ति
[ bendall ed p62 ---> ]
देशयन्ति परेषां च श्रुतमा-
[ cambridge ms f36b ---> ]
त्रम् उपदिशन्ति ।
एवं च वक्ष्यन्ति ।
वयं महायानिका नान्ये ।
ते परेषाम् ईर्ष्यायन्ति लाभसत्कारहेतोर् यतस् ते लभन्ते
उपभोगपरिभोगान् परेभ्यस् तत्प्रत्ययात् ते प्रकुप्यन्ति तेषां चावर्णं निश्चारयन्ति कुत्सन्ति पंसयन्ति विजुगुप्सन्ति ।
आत्मानं चोत्कर्षयन्ति न तान् ।
अतस् ते ईर्ष्यहेतुना चोत्तरिमनुष्यधर्मैर् आत्मानं विज्ञपयन्ति ।
ततस् ते तेन वस्तुना पतिताः पराजिता महायानसुखाद् एतां महागुरुकाम् आपत्तिम् आपद्यन्ते ययापायगामिनो भवन्ति ।
यथा कश्चित् पुरुषो रत्नद्वीपं गच्छेद् गन्तुं नावा समुद्रम्
अवतरते स महासमुद्रे स्वयम् एव तां नावं भिन्द्यात् तत्राइव
मरणं निगच्छेद् ।
एवम् एव ये आदिकर्मिका बोधिसत्वा महागुणसागरम्
अवतर्तुकामेर्ष्याहेतोस् तद् वदन्ति ।
तत्प्रत्ययात् ते श्रद्धानावं भित्त्वा प्रज्ञाजीवितेन वियोगं प्राप्नुवन्ति ।
एवं ते बालादिकर्मिका बोधिसत्वेर्ष्याहेतोर् अनृतप्रत्यया महागुरुकाम् आपत्तिम् आपद्यन्ते ।
इयं पञ्चमी मूलापत्तिर् आदिकर्मिकस्य बोधिसत्वस्य ॥
पुनर् अपरं कुलपुत्र भविष्यन्त्य् अनागते ऽध्वनि
गृहस्थप्रव्रजितादिकर्मिका बोधिसत्वा ये ते गम्भीराः
शून्यताप्रतिसंयुक्ताः सूत्रान्ताधारणीक्षान्तिसमाधिभूमिस्वलंकृतमहाविद्वत्पुरुषाणां कृतश्रमाणां बोधिसत्वानां गोचरास् तान् महायानसूत्रान्तान् धारयन्ति
पठन्ति स्वाध्यायन्ति परेषां च विस्तरेण वाचयित्वा
प्रकाशयन्ति ।
अहं चेमान् धर्मान् स्वबुद्ध्या बुद्ध्वाइवं च पुनर् अहं कारुण्यहेतोस् तवोपदिशामि ।
त्वया वा पुनस् तथा भावयितव्यं यथा त्वम् अत्र गम्भीरेषु
धर्मेषु
[ cambridge ms f37a ---> ]
प्रत्यक्षो भविष्यसि ।
एवं ते ज्ञानदर्शनं भविष्यति यथा मम ।
एतर्हि न पुनर् एव ददाति पठितमात्रेणाहम् इमान् एवंरूपान्
धर्मान् गम्भीरगम्भीरान् उपदिशामि न साक्षात्क्रियया ॥
ल-भसत्कारहेतोर् आत्मानं विक्रीणाति ।
तत्प्रत्ययात् सर्वत्र्यध्वगतानाम् अर्हतां सम्यक्संबुद्धानां बोधिसत्वानाम् आर्यपुद्गलानां च पुरतः सापराधिको भवति ।
महागुरुकम् आपत्तिम् आपद्यते ।
विसंवादयति देवमनुष्यान् महायानेन ।
श्रावकयानम् एवास्य न भव-
[ bendall ed p63 ---> ]
ति ।
प्राग् एव महायानस्यावतारविशेषाधिगमः ।
प्राग् एवानुत्तरा सम्यक्संबोधिः ॥
तद् यथा कश्चित् पुरुषो महाटवीं प्रस्थितः
क्षुत्तर्षप्रपीडितः स तत्र महाफलवृक्षे प्रतिष्ठितः ।
आहारार्थं सोदारफलवृक्षम् अपहाय गन्धसंपन्नं रससंपन्नम् अनास्वाद्य विषवृक्षम् अभिरुह्य विषफलानि
भुञ्जीत भुक्त्वा च कालं कुर्यात् ।
तदुपमांस् तान् पुद्गलान् वदामि ।
ये दुर्लभं मनुष्यलाभं लब्ध्वा कल्याणमित्रं सन्निश्रित्य
महायानम् अवतर्तुकामा लाभसत्कारयशोहेतोर् आत्मानम्
उपदर्शयन्ति परान् पंसयन्ति एवंरूपां महागुरुकाम् आपत्तिम्
आपद्यन्ते यया गुरुकयापत्त्या सर्वविज्ञानां परमजुगुप्सिता भवन्ति ।
अपायगामिनस् तथारूपाश् च पुद्गला न सेवनीयाः
सर्वक्षत्रियब्राह्मणविट्शूद्राणां ।
यश् च तान् सेवते स सातिसारो भवति सर्वविज्ञानां ।
इयं कुलपुत्र बोधिसत्वस्य षष्ठी मूलापत्तिः ॥
पुनर् अपरं कुलपुत्र भविष्यन्त्य् अनागते ऽध्वनि
क्षत्रियाणां पुरोहितचण्डालामात्यचण्डाला भटचण्डाला मूर्खाः पण्डितमानिनो महाधना महाभोगाः ।
बहुविधेषु दानमयपुण्यक्रियावस्तु-
[ cambridge ms f37b ---> ]
षु संदृश्यन्ते ते
त्यागमदमत्ता मानमददर्पेण क्षत्रियं विभेदयन्ति ।
श्रमणान् क्षत्रियैः ।
ते क्षत्रियान् निश्रित्य श्रमणान् दण्डापयन्ति ।
अर्थं दण्डेन मुषन्ति ।
तेनोपद्रवेण ते भिक्षवः पौद्गलिकं वा सांघिकं वा
चातुर्दिशसांघिकं वा स्तौपिकं वा श्रमणैर् अपहृत्य
तेषां प्राहृतं प्रदाप्यन्ते ।
ते पुनश् चण्डालाः क्षत्रियस्योपनामयिष्यन्ति ।
ते उभयतो ऽपि मूलापत्तिम् आपद्यन्ते ।
ये क्षत्रियचण्डालाः श्रमणैः सार्द्धं प्रदुष्यन्ति
तथारूपं च ते धर्मं प्रज्ञपयिष्यन्ति ।
अधर्मं वा धर्मम् अपहाय ।
सूत्रविनयशिक्षानपेक्ष्य कालोपदेशमहाप्रदेशान् अपहाय ।
महाकरुणानेत्रीप्रज्ञापारमितशिक्षोपायकौशल्यशिक्षाः
याश् चापरेषु सूत्रेषु शिक्षोपदिष्टास् तापहाय ।
तथारूपां धर्मयुक्तिं भिक्षूणां विहेठन-
[ bendall ed p64 ---> ]
अर्थपूर्वकं क्रियाकारं प्रज्ञपयन्ति ।
यैः क्रियाकारैर् भिक्षूणां विहेठना भवति ।
रञ्चति शमथविपश्यनानुयोगमनस्कारं ।
ते ऽवध्यायन्तो व्यापादबहुला भवन्ति ।
तेन च हेतुना भिक्षूणाम् अप्य् उपशान्ताः क्लेशा नोपशम्यन्ति
न तनूभवन्ति ।
तत्काले पुनस् ते भिक्षवाशयविपन्ना भवन्ति शीलविपन्नाश् च भवन्ति ।
आचारविपन्ना भवन्ति दृष्टिविपन्ना भवन्ति तद्धेतोः
शैथिलिका भवन्ति ।
बाहुलिका भवन्ति ।
अश्रमणाः श्रमणप्रतिज्ञाः ।
अब्रह्मचारिणो ब्रह्मचारिप्रतिज्ञाः शङ्खस्वरसमाचाराः
प्रष्टव्यधर्मदेशकाः ।
ते भूयस्या मात्रया सपरिचारस्य क्षत्रियस्य सत्कृता भवन्ति
मानिताः पूजिता भवन्ति ।
ते च प्रहाणाभियुक्तानां भिक्षूणां गृहस्थेष्व् अवर्णं निश्चारयन्ति ।
स च क्षत्रियः सपरिवारः प्रहाणाभियुक्तानां भिक्षूणाम्
[ cambridge ms f38a ---> ]
अन्तिके प्रदुष्यति अवध्यायति ।
यस् तत्र प्रहाणिकानां भिक्षूणाम् उपभोगपरिभोगस् तं स्वाध्यायाभिरतानां भिक्षूणां निर्यातयन्ति ।
ते उभयतो मूलापत्तिम् आपद्यन्ते ।
तत् कस्य हेतोः ॥
ध्यायी भिक्षुः सुक्षेत्रं ।
नाध्ययनवैयावृत्याश्रिता नाध्ययनाभियुक्ताः ॥
सम्-धिधारणीक्षान्तिभूमिषु भाजनीभूता दक्षिणीयाः
पात्रभूताः ।
आलोककरालोकस्य मार्गोपदेशकाः ।
कर्मक्षेत्रक्लेशक्षेत्रान् सत्वान् उत्तारयन्ति ।
निर्वाणगमने च मार्गे प्रतिष्ठापयन्ति ।
इमाः कुलपुत्राष्टौ मूलापत्तयेति ॥
आसां निःसरणम् इहाइव सूत्रे ऽभिहितं ।
यदि ते बोधिसत्वाकाशगर्भस्य बोधिसत्वस्य नाम श्रुत्वा
दर्शनम् अस्याकाङ्क्षेरन् ।
अपायप्रपतनभयात् मूलापत्तीर् दशयितुकामा ।
यदि ते आकाशगर्भं बोधिसत्वं नमस्कुर्युः नाम चास्य
परिकीर्त्तयेयुस् तेषां स कुलपुत्रो यथा भाग्यतया स्वरूपेणाग्रतस् तिष्ठति ब्राह्मणरूपेण यावद् दारिकारूपेण पुरतः
स्थास्यति ।
तस्यादिकर्मिकस्य बोधिसत्वस्य यथा समुत्थितास् तापत्तीः
प्रतिदेशयति ।
गम्भीरं च-
[ bendall ed p65 ---> ]
अस्योपायकौशल्यं महायाने चर्याम्
उपदर्शयति ।
यावद् अवैवर्त्तिकभूमौ च प्रतिष्ठापयति ॥
पे ॥
यदि तेषां संमुखं दर्शनं न ददाति ।
यस् तम् अभियाचति ।
तेनादिकर्मिकेण बोधिसत्वेन सापराधेन पश्चिमे यामे उत्थायासनात् प्राङ्मुखेन स्थित्वा धूपं धूपयितव्यं ।
अरुणो देवपुत्रायाचितव्यः ।
एवं च वक्तव्यं ।
अरुणारुण महाकृप महाभाग महोदितस् त्वं जम्बुद्वीपे
मां करुणयाछादयस्व ।
शीघ्रम् आकाशगर्भं महाकारुणिकं मम वचनेन बोधय ।
[ cambridge ms f38b ---> ]
मम स्वप्नान्तरे तम् उपायम् उपदर्शय येनाहम् उपायेनापत्तिं प्रतिदेशयामि ।
आर्ये महायाने उपायप्रज्ञां प्रतिलप्स्यामीति ॥
तेन तत्कालं शय्यायां निद्रापयितव्यं सहोद्गते ऽरुणे इह
जम्बुद्वीपे आकाशगर्भस्य बोधिसत्वस्येह समागमो भवति
स्वरूपेण च ।
तस्यादिकर्मिकस्य बोधिसत्वस्य स्वप्नान्तरे पुरतः स्थित्वा तां मूलापत्तिं देशयति महायानोपायेन ।
तथारूपं च तस्योपायज्ञानं संदर्शयति ।
येनोपायकौशल्येन सादिकर्मिको बोधिसत्वस् तत्राइव
बोधिचित्तासंप्रमोषं नाम समाधिं प्रतिलभते
सुदृढव्यवस्थितश् च भवति महायानए इत्य् आदि ॥
अथ वा यो ऽत्र सूत्रे ऽध्येषणमन्त्रः पूर्वम् उक्तः ।
तेनायं विधिः कार्यः ।
एवं स्यात् ।
अरण्ये उपवने ऽभ्यवकाशे वागरं वा तगरं वा कालानुसारि
वा धूपयितव्यं ।
प्राञ्जलिना च भूत्वा समन्ततो दिग्विदिक्षु च पञ्चमण्डलकेन
वन्दित्वेमे मन्त्रपदाः प्रवर्तयितव्याः ।
तद् यथा ।
सुमृश [[दोउब्त्]] ।
कारुणिक ।
चरतु [[दोउब्त्]] ।
विचर ।
सञ्चर ।
कारुणिक ।
मुरर ।
मुरर वेगधारि नमुचमे भुजयत कारुणिक चिन्तामणि पूरय कारुणिक
सर्वाशां मे स्थापय ।
आज्ञाधारी
[ bendall ed p66 ---> ]
स्फुगु ।
रतिविवेक गु ।
दृष्टिविवेक गु ।
पूरय कारुणिक पूरयन्तु ममाशां ।
सर्वथा चाशोकगति स्वाहा ॥
विधिः पूर्ववत् ।
सर्वव्याधिदुःखसर्वभयसर्वोपकरणविघातप्रतिघाते
सर्वाभीष्टसिद्धये च कार्यः ॥
यदि क्षत्रियादयो ऽपि बोधिसत्वाः कथम् एषाम् आपत्तिनियमो ऽन्येषां चाधिक्यं ।
अथ तेन साम्वरिकाः ।
कथम् एषाम् आपत्तिव्यवस्था ।
कथं वा तद्दोषात् साम्वरिकापि गृह्यन्ते ।
नाइष दोषः ।
ये-
[ cambridge ms f39a ---> ]
षां यत्र बहुलं संभवः ते तत्राकोटिताः
स्वनामग्रहणदर्शनाद् भयोत्पादनार्थं ।
परस्परतस् तु सर्वैः सर्वापत्तयः परिहर्तव्याः ॥
येन वा प्रकृतिमहासावद्यतयासमादानो ऽप्य् अभव्यो भवत्य् उच्छिन्नकुशलमूलश् च सुतरां तेन साम्वरिकेत्य् अलम्
अनया चिन्तया ॥
उपायकौशल्यसूत्रे ऽपि मूलापत्तिर् उक्ता ।
किं वापि कुलपुत्र बोधिसत्वः प्रातिमोक्षशिक्षायां शिक्षमाणाः कल्पशतसहस्रम् अपि मूलफलभक्षः स्यात् ।
सर्वसत्वानां च सूक्तदुरुक्तानि क्षमेत् ।
श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैश् च मनसिकारैर् विहरेद् इयं बोधिसत्वस्य गुरुका मूलापत्तिः ।
तद् यथा कुलपुत्र श्रावकयानीयो मूलापत्तिम् आपन्नः सो ऽभव्यस् तैर् एव स्कन्धैः परिनिर्वातुम् ।
एवम् एव कुलपुत्रो ऽप्रतिदेश्याइताम् आपत्तिम् अनिःसृज्य तान्
श्रावकप्रत्येकबुद्धमनसिकारान् अभव्यो बुद्धभूमौ
परिनिर्वातुम् इति ॥
आसां च मूलापत्तीनां सुखग्रहणधारणार्थम्
एकीयमतानां च संग्रहकारिकोच्यन्ते ॥
रत्नत्रयस्वहरणाद् आपत्पाराजिका मता ।
सद्धर्मस्य प्रतिक्षेपाद् दूतीया मुनिनोदिता ॥
दुःशीलस्यापि वा भिक्षोः काषायस्तैन्यताडनात् ।
चारके वा विनिक्षेपाद् अपप्रव्राजनेन च ॥
[ bendall ed p67 ---> ]
पञ्चानन्तर्यकरणान् मिथ्यादृष्टिग्रहेण वा ।
ग्रामादिभेदनाद् वापि मूलापत्तिर् जिनोदिता ॥
शून्यतायाश् च कथनात् सत्वेषु कृतबुद्धिषु ।
बुद्धत्वप्रस्थितानां वा संबोधेर् विनिवर्त्तनात् ॥
प्रातिमोक्षं परित्याज्य महायाने नियोजनात् ।
शिष्ययानं न रागादिप्रहाणायेति वा ग्रहात् ॥
परेषां ग्रहणाद् वापि पुनः स्वगुणकाशनात् ।
परपंसनतो ला-
[ cambridge ms f39b ---> ]
भसत्कारश्लोकहेतुना ॥
गम्भीरक्षान्तिको ऽस्मीति मिथ्याइव कथनात् पुनः ।
दण्डापयेद् वा श्रमणान् दद्याद् वा शरणत्रयात् ॥
गृह्णीयाद् दीयमानं वा शमथे त्याजनात् पुनः ।
प्रतिसंलीनभोगं च स्वाध्यायिषु निवेदनात् ॥
मूलापत्तयो ह्य् एता महानरकहेतवः ।
आर्यस्याकाशगर्भस्य स्वप्ने देश्याः पुरःस्थितैः ॥
बोधिचित्तपरित्यागाद् याचकायाप्रदानतः ।
तीव्रमात्सर्यलोभाभ्यां क्रोधाद् वा सत्वताडनात् ॥
प्रसाद्यमानो यत्नेन सत्वेषु न तितिक्षते ।
श्लोकात् परानुवृत्त्या वा सद्धर्माभासवर्णनाद् ।
इति ॥
आर्यक्षितिगर्भसूत्रे ऽप्य् उक्तं ।
यो महाब्रह्मन् ममोद्दिश्य प्रव्रजितो दुःशीलपापसमाचारो भिक्षु-
[ bendall ed p68 ---> ]
र् अनुभूतः कशम्बकजातो ऽश्रमणः श्रमणप्रतिज्ञः
अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः ।
ध्वस्तः पतितः पराजितो विविधैः क्लेशैः ।
अथ च पुनः स दुःशीलपापसमाचारो भिक्षुर् अद्यापि
सर्वदेवानां यावत् सर्वमनुष्याणां यावत् पुण्यनिधीनां दर्शयिता भवति कल्याणमित्रं ।
किं चापि सापात्रीभूतः तेन च पुनः शिरस्तुण्डमुण्डेन
काषायवस्त्रप्रावरणेर्यापथेन दर्शनहेतुनापि
बहूनां सत्वानां विविधकुशलमूलोपस्तम्भनकरः
सुगतिमार्गदर्शको भवति ।
तस्माद् यो ममोद्दिश्य प्रव्रजितः शीलवान् दुःशीलो वा तस्य
नानुजानामि चक्रवर्त्तिर् आज्ञाम् अपि यन् ममोद्दिश्य
प्रव्रजितस्य सहधर्मेणापि काये दण्डप्रहारं वा दातुं चारके वा प्रक्षेप्तुं ।
अङ्गम् अङ्गं विकर्त्तनं वा कर्तुं जीविताद् वा व्यपरोपणं कर्तुं-
[ cambridge ms f40a ---> ]
किं पुनर् अधर्मेण ॥
किं चापि मृतः कथ्यते ऽस्मिन् धर्मविनये ।
अथ च पुनः स पुद्गलो गोरोचनकस्तूरिकासदृशेति ।
अत्राइवाह ।
ये ममोद्दिश्य प्रव्रजितान् यानभूतान् पात्रभूतान् वा
विहेठयिष्यन्ति ते सर्वेषां त्र्यध्वगतानां बुद्धानाम् अतीव
सापराधा भवन्ति ।
समुच्छिन्नकुशलमूला दग्धसन्तानावीचिपरायणा भवन्तीति ।
अत्राइवाह ।
सर्वबुद्धैर् अधिष्ठितो ऽयं मोक्षध्वजो यद् उत
रक्तकाषायवस्त्रम् इति ।
अस्मिन्न् एव चोक्तं ।
तेन खलु पुनः समयेन बहूनि श्रावकनियुतशतसहस्राणि बहूनि
च बोधिसत्वनियुतशतसहस्राणि भगवतो ऽन्तिके एवंरूपं पूर्वकृतं कर्मावरणं प्रतिदेशयन्ति ।
वयम् अपि भदन्त भगवन् बहूनां पूर्वकाणां तथागतानां प्रवचने पात्रभूतान् पात्रभूतांश् च बुद्धानां भगवतां श्रावकयानीयान् पुद्गलाञ् जुगुप्सितवन्तः पंसितवन्तो रोषितवन्तो ऽवर्णायशःकथाश् च निश्चारितवन्तः ।
तेन वयं कर्मावरणेन त्रिष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुःखां वेदनां प्रत्यनुभूतवन्तः ॥
पेयालं ॥
वयं तत्कर्मावरणशेषम् एतर्हि भगवतो ऽन्तिके
प्रतिदेशयिष्यामः ।
केचिद् वदन्ति ।
वयं भगवतः श्रावकान् वचनैस् तर्जितवन्तः परिभाषितवन्तः ।
केचिद् वदन्ति ।
वयं भगवतः श्रावकान् अपात्रभूतान् पत्राभूतांश् च
प्रहरितवन्तः ।
केचिद् वदन्ति ।
वयं चीवरान् हृतवन्तः ।
केचिद् वदन्ति ।
वयं भगवतः श्रावकाणाम् उपभोगपरिभोगान् आच्छिन्नवन्तः ।
केचिद् वदन्ति ।
वयं भगवन्तम् उद्दिश्य प्रव्रजितान् गृहस्थान् कारितवन्तः
[ cambridge ms f40b ---> ]
ततास्थानं सादिताः ।
केचिद् वदन्ति ।
अस्माभिर् भगवन् बुद्धानां भगवतां श्रावकापत्रभूताः
पात्रभूताश् च सापराधिकाश् चारके प्रक्षिप्तास् तेन वयं कर्मावरणेन बहून् कल्पांस् तृष्व् अपायेषु विविधां ती-
[ bendall ed p69 ---> ]
व्रां प्रचण्डां दुष्खां वेदनां प्रत्यनुभूतवन्तः ॥
पे ॥
तद् वयम् एतर्हि कर्मावरणशेषां भगवतो ऽन्तिके
प्रतिदेशयामः ।
आयत्यां संवरम् आपद्येम ।
प्रतिगह्णातु भगवान् अस्माकम् अनुकम्पाम् उपादाय ।
उद्धरतु भगवान् अस्मान् अनन्तपापेभ्येति विस्तरः ॥
प्रव्रज्यान्तरायसूत्रे ऽप्य् अनर्थोक्तः ।
चतुर्भिर् महानामन् धर्मैः समन्वागतो गृही अक्षणप्राप्तो भवति ।
जात्यन्धश् च जडश् चाजिह्वकश् च चण्डालश् च जातु
सुखितो भवत्य् अभ्याख्यानबहुलश् च षण्डकश् च पण्डकश् च
नित्यदासश् च ।
स्त्री च भवति श्वा च शूकरश् च गर्दभश् चोष्ट्रश् च
आशीविषश् च भवति तत्र तत्र जातौ ॥
कतमैश् चतुर्भिः ।
इह महानामन् गृही पूर्वजिनक्र्टाधिकाराणां सत्वानां नैष्क्रम्यचित्तस्य प्रव्रज्याचित्तस्यार्यमार्गचित्तस्यान्तरायं करोति ।
अनेन प्रथमेन ॥
पुनर् अपरं गृही धनलौल्येन पुत्रलौल्येन कर्मविपाकम्
अश्रद्दधत् पुत्रस्य वा दुहितुर् वा भार्याया वा ज्ञातिसंघस्याइश्वर्यस्थाने वर्तमाने प्रव्रज्यान्तरायं करोति ।
अनेन द्वितीयेनेति ॥
अन्यद्वयं ।
सद्धर्मप्रतिक्षेपः श्रमणब्राह्मणेषु च प्रतिघः ॥
दश चाकुशलाः कर्मपथाः अनर्थाः ।
सद्धर्मस्मृत्युपस्थानाद् विपाककटुका द्रष्टव्याः ।
ततः किञ्चिन्मात्रं सूत्रं सूच्यते ।
प्राणातिपातविपाकलवस् तावद् ।
यथाह ।
तद् यथाग्निशिखाचरा नाम पक्षिणो ये ऽग्निशिक्षामध्यगता-
[ cambridge ms f41a ---> ]
न दह्यन्ते संहृष्टतराश् च
नारकेयाणां कपालं भित्त्वा रुधिरं पिबन्ति ।
कपालान्तरचरा नाम पक्षिणो ये मस्तकं भित्त्वा
ज्वलितमस्तकलुङ्गान् पिबन्ति ।
जिह्वामिषभुजो नाम पक्षिणो ये जिह्वां विदार्याभितो ऽभितः प्रभक्षयन्ति ।
सापि जिह्वा भुक्ता पुनर् अपि संजायते पद्मदलकोमलतरा ।
एवम् अर्थानुरूपसंज्ञा दन्तोत्पाटका-
[ bendall ed p70 ---> ]
नाम
कण्ठनाड्यपकर्षका नाम ।
क्लोमकाशिनः ।
आमाशयादाः ।
प्लीहसंवर्तका ।
अन्त्रविवरखादिनः ।
पृष्ठवंशचरा नाम ।
मर्मगुह्यका नाम पक्षिणो ये सर्वाणि मर्मविवराणि भित्त्वा
मर्माणि कृन्तयित्वा विवराणि प्रविश्य मज्जामण्डं पिबन्ति
क्रन्दमानानां ।
सूचीछिद्रा नाम पक्षिणो ये सूचीसदृशतुण्डा रक्तं पिबन्ति ।
एवम् अस्थिविवराशिनः षट्त्वग्भक्षिणः ।
नखनिकृन्तका मेदोदाः स्नायुविशेषकाः ।
केशोण्डुका नाम पक्षिणो ये केशमूलान्य् उत्पाटयन्ति ॥
साइवम् अवीचिप्रदेशस् त्रीणि योजनशतसहस्राणि
पक्षिभैरवपक्षो नाम ।
तत्र तैर् अन्यैर् नारकेयैः सहानेकानि वर्षशतसहस्राणि
भक्ष्यते संभवति च ।
स कथञ्चिद् अपि तस्मान् मुक्तः सर्वस्माद् दुष्खजालपरिवृतः ।
श्वभ्रप्रपातो नाम द्वितीयः प्रदेशस् तत्र गच्छति ।
त्राणान्वेषी शरणान्वेषी परित्राणान्वेषी समन्तताइकादशभिर् अर्चिस्कन्धैर् आवृतो निःसहायः
कर्मपाशबन्धनबद्धः समन्ततः शत्रुभिर् आवृतः कान्तारम्
अनुप्रपन्नः सर्वस्मान् नरकपुञ्जाद् अधिकतरं व्यसनम्
अभिप्रपन्नस् तं श्वभ्रप्रपातं नाम प्रदेशम् अनुधावति ।
पतिते ऽतीव पादः प्रविलीयते ।
उत्क्षिप्तः पु-
[ cambridge ms f41b ---> ]
नर् अपि संभवति ।
सुकुमारतरः श्लक्ष्णतरः खराभिस् तीव्राभिर् वेदनाभिर् अभिभूतः ।
तस्याइवं भयविक्लववदनस्य करचरणसर्वाङ्गप्रत्यङ्गप्रविलीयमानस्य स प्रदेशः श्वभ्रप्रपातो नाम प्रादुर्भवति ।
स तस्मिन् देशे निपतति पतितः श्वभ्रे प्रपतति त्रीणि
योजनसहस्राणि ।
पुनर् अपि कर्मकृतेन वायुनोत्क्षिप्यते ।
स प्रपतमानः कंकवायसग्र्ध्रोलूकैर् भक्ष्यते ।
यावत् तस्याइवम् उत्क्षिप्यमानस्य च प्रपततश् चानेकानि
वर्षशतसहस्राणि गच्छन्ति ।
कथञ्चिद् अपि तस्मान् मुक्तः परिभ्रामितश् चक्राङ्कं विवरं नाम प्रदेशम् अनुधावति ।
तस्मिंश् च प्रदेशे सहस्राराणि चक्राणि प्रादुर्भवन्ति
वज्रनाभीनि तीक्ष्णज्वालानि शीघ्रभ्रमाणि तस्य सहगमनाद् एव ता-
[ bendall ed p71 ---> ]
नि चक्राणि शरीरं प्राप्य भ्रमन्ति ।
पे ॥
प्रत्येकं सर्वाङ्गानि प्रमथ्नन्तो दहन्ति पादतले चास्य
शङ्कुभिर् भिद्येते ।
एवं मक्कोटकपर्वते ।
माक्कोटकैः प्राणिजातिभिः सान्तर्वहिःपरमाणुशः
प्रभक्ष्यते ।
भुक्तो भुक्तः पुनर् अपि संजायते सुकुमारतरः ।
सुकुमारतया भूयो ऽप्य् आधिकतरां वेदनाम् अनुभवति ।
भुक्तभुक्तस्य प्रभूततरम् एवास्य त्वङ्मांसं प्रादुर्भवति ।
तस्य प्राणातिपातकृतोपचितस्य तत्फलं भवति ॥
अदत्तादानविपाकम् आह ।
साइष दुष्कृतकर्मान्तचारी आलातचक्रनिर्माणगन्धर्वनगरमृगतृष्णिकासदृशं महद् अर्थजातं पश्यति रत्नवस्त्रधनधान्यनिकरभूतं ।
तस्याइवं लोभाभिभूतस्य कर्मणा मोहितस्याइवं भवति ।
ममेदम् इति ।
साइवं मोहितः पापकारी प्रज्वलिताङ्गारकर्षूर् लङ्घयित्वा
तद्द्रविणम् अनुधावति ।
स कर्मकृतैर् यमपुरुषैर् गृह्यते
[ cambridge ms f42a ---> ]
शस्त्रजालमध्यगतः
सर्वाङ्गप्रत्यङ्गशः पाट्यते विशस्यते दह्यते ऽस्थ्यवशेषः
क्रियते ।
न चास्यानादिकालप्रवृत्तः स लोभस् ताम् अप्य् अवस्थां गतस्य परिहीयतए इति ॥
काममिथ्याचारम् अधिकृत्याह ।
एष स पापकर्ता तस्माच् छस्त्रसङ्कटान् मुक्तः कथमप्य् अङ्गारकर्षूर् लङ्घयित्वा कर्मणा भ्रामितः प्रदेशम् अन्यं प्रपद्यते ।
वितथदर्शनं नाम तत्र कर्मकृतां स्त्रियं पश्यति या तेन
पूर्वं नष्टस्मृतिना दृष्टा ।
दृष्ट्वा चानादिकालाभ्यस्तो रागाग्निर् उत्पद्यते ।
स तेन धावति येन ता स्त्रियः ।
ताश् चायोमय्यो नार्यः कर्मकृताः ।
ताभिर् असौ गृह्यते ।
गृहीत्वा चाउष्ठात् प्रभृति तथा भुज्यते यथास्य
सर्षपफलमात्रप्रमाणम् अपि नावशिष्टं ।
तस्मिञ् शरीरे भवति ।
पुनर् अपि संभवति ।
पुनर् अपि भुज्यते ।
स कटुकां खरां वेदनाम् अनुभवंस् तस्माद् रागाग्नेर् न
निवर्तते ।
येन ता स्त्रियस् तेन भूयः सः संधावति ।
न चास्य तत्पीडा त-
[ bendall ed p72 ---> ]
था बाधते यथा रागाग्निः ।
अथ ता स्त्रियो भूयो वज्रमयायोमयप्रज्वलितगात्रास् तं मनुष्यम् आदाय ज्वालामालाकुलसर्वशरीरास् तं नारकेयं सिक्तामुष्टिवद् भिन्दन्ति ।
पुनर् अपि संभवतीति पूर्ववत् ॥
पे ॥
स्त्रियो मूलम् अपायस्य धननाशस्य सर्वथा ।
स्त्रीविधेया नरा ये तु कुतस् तेषां भवेत् सुखम् ॥
पे ॥
यावत् ।
स्त्री विनाशो विनाशानाम् इह लोके परत्र च ।
तस्मात् स्त्रियो विवर्ज्याः स्युर् यदीच्छेत् सुखम् आत्मनेति ॥
मृषावादम् अधिकत्याह ।
स तैर् यमपुरुषैर् गृह्यते गृहीत्वा च तन्मुखं विदारयन्ति
तस्माज् जिह्वाम् अपकर्षयन्ति ।
सा च जिह्वा कर्मवशात् पञ्चयोजनशतप्रमाणा भवति ।
तस्य मृषावादस्य बलेन
[ cambridge ms f42b ---> ]
तस्याश् च सहनिर्गमनकाले ते
यमपुरुषा भूमाव् आनाहयन्ति प्रदीप्तायोमय्यां ।
कर्मकृतं च हलसहस्रं प्रादुर्भवति प्रदीप्ताग्रसंयुक्तं बलवद्भिर् बलीवर्दैस् तद् अस्यान्तर्गतं जिह्वायां वहति ।
तत्र पूयरुधिरकृमिश्राविण्यो नद्यः प्रवहन्ति ॥
पे ॥
सा च जिह्वा तथा सुकुमारा यथा देवानाम् अक्षि ॥
यावत् स वेदनातस् तनति क्रन्दति विक्रोशति न चास्य तद्दुःखं कश्चिद् अपनयतीति विस्तरः ।
तस्याइवं प्रचण्डाम् वेदनाम् अनुभवतो ऽनेकानि
वर्षशतसहस्राणि सा च जिह्वा कृष्यते ।
सा कथञ्चित् तस्य नारकस्य मुखे प्रविशति ।
स भयविह्वलवदनो येन वा तेन वा निःपलायते ऽङ्गारकर्षूषु
दह्यमानो निमज्जन् ।
तस्याइवं दुःखार्त्तस्याशरणस्यापरा-
[ bendall ed p73 ---> ]
यणस्य पुनर् अपि
यमपुरुषाः प्रादुर्भवन्ति मुद्गरासिपाणयः ।
ते तं पुरुषं मस्तकात् प्रभृति यावत् पादौ चूर्णयन्तीत्य् आदि ॥
पैशुन्यविपाकस् तु यथाइव मृषावादस्य त्रीणि योजनशतानि
जिह्वेति विशेषस् तु ।
तां यमपुरुषा निस्त्रिंशान् आदाय प्रदीप्तधारान् जिह्वां निकृन्तन्ति ।
जम्बुकैश् चान्य्समिन् प्रदेशे भक्ष्यते ।
परमकटुकां वेदनां प्रतिवेदयते स क्रन्दति विक्रोशत्य् अव्यक्ताक्षरं जिह्वाविरहितेत्य् आदि ॥
पारुष्यविपाकम् आह ।
ते तां जिह्वाम् आस्यं विदार्य गृह्णन्ति ।
गृहीत्वा निशितधारैः शस्त्रैश् छित्त्वा तस्य भूयाइव
खादनीयार्थेन मुखे प्रक्षिपन्ति ।
स च जिघन्सार्दितः क्षुत्क्षामवदनः
स्वरुधिरलालापरिस्रुतां ताम् एव स्वजिह्वां भक्षयति ।
सा च जिह्वा छिन्ना पुनर् अपि संजायते कर्मवशात् ।
अथ स भूमौ वेदनार्त्तः परि-
[ cambridge ms f43a ---> ]
वर्तते विचेष्टते क्रन्दते ।
तस्याइवं वेदनार्त्तस्य परिवृत्तनयनतारकस्य
दुष्खार्त्तस्य दीनस्यासहायस्याइकाकिनः स्वकृतम्
उपभुञ्जानस्य यमपुरुषानुशासनीगाथां भाषन्ते ॥
जिह्वाधनोर् विनिर्मुक्तस् तीक्ष्णो वाग् विशिखस् त्वया ।
पारुष्यम् इति यद् दृष्टं तस्याइतत् फलम् आगतम् ॥
इति विस्तरः ॥
संभिन्नप्रलापविपाकम् आह ॥
तस्य तत् प्रज्वलितं ताम्रद्रवलोहितं जिह्वां दहति ।
जिह्वां दग्ध्वा कण्ठं दहति ।
कण्ठं दग्ध्वा हृदयं दहति हृदयं दग्ध्वान्त्राणि दहति ।
तान्य् अपि दग्ध्वा पक्वाशयं दहति ।
पक्वाशयम् अपि दग्ध्वाधोभागेन निर्गच्छति ॥
यमपुरुषा गाथाम् आहुः ।
[ bendall ed p74 ---> ]
पूर्वोत्तराबद्धपदं निरर्थकम् असंगतम् ।
अबद्धं यत् त्वया प्रोक्तं तस्याइतत् फलम् आगतं ॥
या न [[दोउब्त्]] सत्यवती नित्यं न चाध्ययनतत्परा ।
न सा जिह्वा बुधैर् दृष्टा केवलं मांसखण्डिका ।
इति विस्तरः ॥
अभिध्याविपाकम् आह ।
अथ पश्यति रिक्तं तुच्छम् असारकं कर्मकृतं बहुद्रविणं परपरिगृहीतं तस्य कर्मचोदितव्यामोहितस्याइवं भवति ।
ममेदं स्याद् इति ।
ततः स नारकस् तेनाइव धावति येन तद् द्रव्यं ।
तस्याभिध्याख्यमानसस्याकुशलस्यासेवितभावितबहुलीकृतस्य तत्फलं यद् असौ नरके विपरीतं पश्यति ।
तस्याइवं पश्यतो ऽभिध्याबहुलस्य हस्ते शस्त्रं प्रादुर्भवति स तेन धावति ।
तेषाम् अप्य् अन्येषां नारकाणां हस्ते शस्त्राणि प्रादुर्भवन्ति ।
स तैः सह शस्त्रेण युध्यते यावत् तथा कर्त्यते यथा
सर्षपफलमात्रम् अपि न भवति मांसम् अस्य शरीरे तथास्थिकङ्कालावशेषः क्रियते ॥
पे ॥
परेषां सम्प ...
[ cambridge ms f43b ---> ]
मम स्याद् इति चिन्तितं ।
तस्याभिध्यासमुत्थस्य विषस्य फलम् आगतम् इति ॥
व्यापादफलम् आह ।
कर्ममयाः सिंहव्याघ्रसर्पाः क्रोधाभिभूताः पुरतस् तिष्ठन्ते ।
एतेभ्यो भयभीतो येन वा तेन वा निःपलायते ।
स कथं शक्नोति पलायितुम् अशुभस्य कर्मणः ।
स तैर् गृह्यते ।
गृहीत्वा च पूर्वं तावन् मस्तकाद् भुज्यते यावत् पार्श्वतः
सर्पैर् विषदंष्ट्रैः संदश्य संदश्य भक्ष्यते ।
व्याघ्रैर् अपि पृष्ठतो भक्ष्यते ।
पादाव् अपि वह्निना दाह्येते स यमपुरुषैर् दूराद् इषुभिर् विध्यतए इति विस्तरः ॥
[ bendall ed p75 ---> ]
मिथ्यादृष्टिफलं पुनर् अपरिमितं ।
पाठस् तु संक्षिप्यते ।
शस्त्रवर्षतोमरवज्रवर्षाशनिपाषाणवर्षे हन्यते ।
एकादशभिर् अर्च्चिस्कन्धैः क्षुत्पिपासाग्निना च सुखनिर्गतेन
निरन्तरं दह्यतए इति ॥
काममूलाश् च सर्वानर्थेति तेभ्याइवोद्वेजितव्यं ।
यथात्राइवाह ।
अस्त्य् अग्निकुण्डो नाम नरकः ।
तत्र कतरेण कर्मणा सत्वोपपद्यन्ते ।
येनाश्रमणेन श्रमणप्रतिज्ञेन मातृग्रामस्य नृत्तगीतस्याभरणानां वा शब्दं श्रुत्वायोनिशेन मनस्कारेणाक्षिप्तबुद्धिना तच् छ्रुत्वा हसितलडितक्रीडितान्य् अशुचिम्
उक्तं ॥
पे ॥
तत्र ते नारकायोवर्षेण सर्वाङ्गप्रत्यङ्गशश् चूर्ण्यन्ते ऽङ्गारवर्षेण च पच्यन्ते दह्यन्तए इत्य् आदि ।
एवं पौराणकामास्वादनस्मरणात् पदुमो नाम नरकः
पठ्यते स्वप्नान्तभूतस्मरणाच् च ।
तत्र ते नारकाः कुम्भिषु पच्यन्ते ।
ते द्रोणिष्व् अयोमयैर् मुषलैर् हन्यन्तए इति विस्तरः ॥
एवम् अप्सरसः प्रार्थनया ब्रह्मचर्यपरिणामनान् महापदुमो नाम नरकोक्तः ।
तत्र क्षारनदीतरङ्गिनी नाम प्रवहति ।
तस्यां नद्यां यान्य् अस्थीनि ते पाषाणाः ।
यच् छे-
[ cambridge ms f44a ---> ]
वालं ते केशाः ।
यः पङ्कस् तन् मांसं ।
यापः तत् कथितं ताम्रं ।
ये मत्स्यास् ते नारकेत्य् आदि ॥
एवं पुरुषस्य पुरुषेण सह मैथुनविप्रतिपत्तेः अप्रमेयाकारणा विशेषाः पठ्यन्ते ।
एवं शिशुभिः सह विप्रतिपत्तेः क्षारनद्याम् उह्यमानान् दारकान्
पश्यति ।
ते तं विलपन्ति ।
स तां नदीम् अवगाहते ।
तेषु बालकेषु तीव्रस्नेहप्रतिबन्धशोकदुष्खवेगात् ।
एवं गोवडवाजाइडकादिषु प्रकृतिसावद्यः
काममिथ्याचारः खरतरविपाकः पठ्यते ।
तासाम् एव गोवडवादीनां तप्तायोमयीनां अकुशलनिर्मितानां योनिमार्गेण स तिर्यक्कामसेवी प्रविशति ।
स तासा-
[ bendall ed p76 ---> ]
म् उदरे प्रदीप्ताङ्गारनिकरपरिपूर्णे स्विद्यते पच्यते
बहूनि वर्षशतसहस्राणीति विस्तरेण द्रष्टव्यं ॥
एवम् अन्यनाशितास्व् अपि भिक्षुणीषु विप्रतिपन्नानां महानरकपातनाः पठ्यन्ते ।
एवं स्वस्त्रीष्व् अप्य् अयोनिमार्गेण गच्छतः ।
एवं प्रसह्यानीतास्व् अपि परस्त्रीषु लब्धासु च कन्यासु ।
एवम् उपवासस्थासु एवं गुरूणां पत्नीषु
ज्ञातिशब्दमानितासु च विप्रतिपत्तेः तीव्राश् चापरिमाणाश् च महानरकपातनाः पठ्यन्ते ॥
सप्तमैथुनसंयुक्तसूत्रे ऽप्य् आह ।
इह ब्राह्मणाइकत्यो ब्रह्मचारिणम् आत्मानं प्रतिजाणीते ।
स नेहाइव मातृग्रामेण सार्द्धं द्वयं समापद्यते ऽपि तु
मातृग्रामं चक्षुषा रूपं निध्यायन् पश्यति ।
स तदा स्वादयति अध्यवस्यति अध्यवसाय तिष्ठति ।
अयम् उच्यते ब्राह्मण ब्रह्मचारी संयुक्तो मैथुनेन धर्मेण न
विसंयुक्तः ।
अपरिशुद्धं ब्रह्मचर्यं चरति ॥
एवं मातृग्रामेण सार्द्धं संक्रीडतः संकिलिकिलायमानस्य
[ cambridge ms f44b ---> ]
आस्वादयतः अपरिशुद्धं ब्रह्मचर्यम् उक्तं ।
एवं मातृग्रामापस्थानम् आस्वादयतः ।
एवं तिरःकुड्यगतस्य तिरोदुष्यगतस्य वा मातृग्रामस्य
नृत्तगीतादिशब्दम् आस्वादयतो मैथुनसंयोगम् इत्य् उक्तम् ।
एवं पञ्चकामगुणसमर्पितं परम् अवलोक्यास्वादयतः ॥
एवं देवादिस्थानेषु ब्रह्मचर्यपरिणामनात् संयुक्तो मैथुनेन
धर्मेण न विसंयुक्तेति ॥
यतश् चाइते कामाइवं स्मरणप्रार्थनाविषयम् अपि गताइवम्
अनर्थकरास् तेनाइव कामापवादकसूत्रे ऽभिहितम् ।
निवारय भिक्षो चित्तं कामेभ्यः ।
सभयश् चाइष मार्गः सप्रतिभयः सकण्टकः सगहनः
उन्मार्गः कुमार्गो वेदनापथः ।
असत्पुरुषसंसेवितः ।
नाइष मार्गः सत्पुरुषसंसेवितः ।
न त्वम् एवं चिन्तयसि ।
कस्मात् अल्पास्वादाः कामोक्ता भगवता ।
बहुदुष्खबहूप-
[ bendall ed p77 ---> ]
द्रवा बहूपायासा ।
आदीनवो ऽत्र भूयान् ।
रोगो भिक्षवः कामा गण्डः शल्यमद्यमद्यमूलम्
आमिषवडिसं मृत्युर् अनित्याः कामास् तुच्छाः
मृषामोषधर्मिणः स्वप्नोपमाः कामाः ।
किम् अप्य् एते बालोल्लापनाः ॥
पे ॥
यथा मृगाणां बन्धनाय कूटं द्विजानां बन्धनाय
जालं ।
मत्स्यानां बन्धनाय कुपिनं ।
मर्कटानां बन्धनाय लेपः पतङ्गानां बन्धनायाग्निस्कन्धः ।
एवं कामाः ॥
पे ॥
कामपर्येषणां चरतो दीर्घरात्रं सिंहानां मुखे
परिवर्तितस्यान्तो न प्रज्ञायते ।
यावद् गोघातकानां गवासनानां मुखे परिवर्तितस्यान्तो न
प्रज्ञायते ।
यावन् मण्डूकानां सतां सर्पाणां मुखे परिवर्तितस्यान्तो न प्रज्ञायते ।
दीर्घरात्रं कामान् प्रतिसेवमानानां चोरेति कृत्वा
गृहीतानां शिरश्छिन्नानाम् अन्तो न प्रज्ञायते ।
पा-
[ cambridge ms f45a ---> ]
रदारिकाः पारिपन्थिका ग्रामघातका जनपदघातका यावद् ग्रन्थिमोचकेति कृत्वा गृहीतानां शिरश्छिन्नानाम्
अन्तो न प्रज्ञायते ।
दुष्खं तीव्रं खरं कटुकम् अनुभूतं रुधिरं प्रस्यन्दितं प्रघरितं यच् चतुर्षु महासमुद्रेषूदकात्
प्रभूततरं ॥
पे ॥
कायो ह्य् अयं बह्वादीनवः ।
अस्थिसंघातः स्नायुसंबद्धो मांसेनानुलिप्तः चर्मणा
पर्यवनद्धः छव्या प्रतिच्छन्नः छिद्रविच्छिद्रः
कृमिसंघनिषेवितः सत्वानाम् अनर्थकः क्लेशकर्मणां वस्तु ॥
अस्मिन् काये विविधाबाधोत्पद्यन्ते ।
तद् यथा चक्षूरोगः श्रोत्ररोगो यावद् अर्शांसि पिटको भगन्दरः ॥
पे ॥
कायिकाः सन्तापाः कायिकं दुष्खं ।
कायस्य जीर्णता भग्नता कुब्जता ।
खालित्यं पालित्यं वलिप्रचुरता ।
इन्द्रियाणां पारिपाकः परिभेदः
[ bendall ed p78 ---> ]
संस्काराणां पुराणीभावो जर्जरीभावः ।
यावन् नार्हस्य् एवम् उद्घरन्तं प्रघरन्तं जुगुप्सनीयं कायं प्रतिषेवितुं ॥
पे ॥
का तव भिक्षो कामाशान्तिः ।
कश् च त्वां प्रलोभयति ।
कथं च त्वं प्राहितो मूर्छितो ऽध्यवसितो ऽध्यवसानम्
आपन्नः ।
यदाहं परिनिर्वृतो भवामि ।
सद्धर्मश् चान्तर्हितो भवति ।
त्वं च कामान् प्रतिसेव्य विनिपातगतो भविष्यसि ।
कदा जरामरणाद् आत्मानं परिमोचयिष्यसि ॥
अलं भिक्षो निवारय चित्तं कामेभ्यः ।
अकालः कामपर्येषणायाः ।
कालो ऽयं धर्मपर्येषणायेति ॥
उग्रदत्तपरिपृच्छायाम् अप्य् आह ।
तेन काममिथ्याचारात् प्रतिविरतेन भवितव्यं स्वदारसंतुष्टेन परदारानभिलाषिणारक्तनेत्रप्रेक्षिणा निर्विण्णमनसा ।
एकान्तदुष्खाः कामा ।
इत्य् अभीक्ष्णं मनसिकारप्रयुक्तेन ।
यदाप्य् अस्य स्वदारेषु का-
[ cambridge ms f45b ---> ]
मवितर्कोत्पद्येत ।
तदापि तेन स्वदारेष्व् अशुभानुदर्शिनोत्त्रस्तमनसा ।
क्लेशवशतया कामाः प्रतिसेवितव्याः ।
न त्व् अध्यवसानविनिबद्धेन नित्यम् अनित्यानात्माशुचिसंज्ञिना ।
एवं चानेन स्मृतिर् उपस्थाप्या ।
तथाहं करिष्यामि यथा संकल्पैर् अपि कामान् न परिभोक्ष्ये ।
कः पुनर् वादो द्वीन्द्रियसमापत्त्या वानङ्गविज्ञप्त्या वेति ॥
पुनर् अत्राइवाह ।
बोधिसत्वेन स्वभार्यायान्तिके तिस्रः संज्ञोत्पादयितव्याः ।
कतमास् तिस्रः ।
रतिक्रीडासहायिकाइषा नाइषा परलोकसहायिका ।
अन्नपानसहायिकाइषा नाइषा कर्मविपाकानुभवनसहायिका ।
सुखसहायिकाइषा नाइषा दुष्खसहायिका ॥
यावद् अपरास् तिस्रः ।
शीलान्तरायसंज्ञा ध्यानान्तरायसंज्ञा
प्रज्ञान्तरायसंज्ञा ॥
अपरास् तिस्रः ।
चोरसंज्ञा बधकसंज्ञा नरकपालसंज्ञेति ॥
चन्द्रोत्तरादारिकापरिपृच्छायाम् अप्य् उक्तं ।
अथ चन्द्रोत्तरादारिका समनन्तरं प्रधावन्तं तं
[ bendall ed p79 ---> ]
महान्तं जनकायं दृष्ट्वा तस्यां वेलायां विहायसान्तरीक्षे
तालमात्रम् अभ्युद्गम्य स्थित्वा च तं महान्तं जनकायं गाथाभिर् अध्यभाषत ॥
कायं ममेक्षध्वम् इमं मनोज्ञं सुवर्णवर्णं ज्वलनप्रकाशम् ।
न रक्तचित्तस्य हि मानुषस्य प्रज्ञायते शोभनकं शरीरम् ॥
ये एत्व् अग्निकर्षूपमसंप्रदीप्तान् त्यजन्ति कामान् विषयेष्व् अगृद्धाः ।
षडिन्द्रियैः संवरसंवृताश् च ये ब्रह्मचर्यं च चरन्ति शुभम् ॥
दृष्ट्वा च दारान् हि परस्य ये वै कुर्वन्ति माताभगिनीति
संज्ञां ।
प्रासादिकास् ते हि सुदर्शनीया भवन्ति नित्यं परमं मनोज्ञाः ॥
स्फुटाम् इमां वेत्थ पुरीं समन्ताद् यो रोमकूपान् मम चातिगन्धः ।
न रागचित्तेन मयार्जितो ऽयम्
[ cambridge ms f46a ---> ]
फलं तु दानस्य दमस्य चेदम् ॥
न मे समुत्पद्यति रागचित्तं मा वीतरागासु जनीष्व रागं ।
साक्षी ममायं पुरतो मुनीन्द्रः सत्यं यथा वेद्मि न जातु
मिथ्या ॥
यूयं च पूर्वं पितरो ममास ।
अहं च युष्माकम् अभूज् जनित्री ।
भ्राता स्वसा चापि पिता बभूव को रागचित्तं जनयेज् जनन्यां ॥
प्रघातिताः प्राक् च ममाथ सर्वे ।
अहं विशस्ता च पुरा भवद्भिः ।
सर्वे ऽमित्रा वधकाः परस्य ।
कथं तु वा जायति रागचित्तम् ॥
न रूपवन्तो हि भवन्ति रागात् ।
न रक्तचित्ताः सुगतिं व्रजन्ति ।
न निर्वृतिं यान्ति च रक्तचित्ता रागो हि तस्मात् परिवर्जनीयः ॥
[ bendall ed p80 ---> ]
कामस्य हेतोर् निरयं पतन्ति ।
प्रेतास् तिरश्चो ऽथ भवन्ति रागात् ।
कुम्भाण्डयक्षासुराः पिशाचा भवन्ति ये
रागपरीत्तचित्ताः ॥
काणाश् च खञ्जाश् च विजिह्वकाश् च ।
विरूपकाश् चाइव भवन्ति रागात् ।
भवन्ति नानाविधदोषभाजाश् चरन्ति ये कामचरीं जघन्याम् ॥
यच् चक्रवर्तित्वम् अवाप्नुवन्ति ।
भवन्ति शक्रास् त्रिदशेश्वराश् च ।
ब्रह्माणेशा [[दोउब्त्]] वशवर्त्तिनश् च तद् ब्रह्मचर्यं विपुलं चरित्वा ॥
जात्यन्धभावा वधिरा विसंज्ञा ।
श्वशूकरोष्ट्राः खरवानराश् च ।
हस्त्यश्वगोव्याघ्रपतङ्गमक्षाः भवन्ति नित्यं खलु
कामलोलाः ॥
क्षितीश्वराश् चाइव भवन्त्य् उदग्राः सुश्रेष्ठिनो वै
गृहपत्यमात्याः ।
सुखसौमनस्येन च यान्ति वृद्धिं ये ब्रह्मचर्यं विपुलं चरन्ति ॥
कभल्लितापान् अथ धूमगारान् बन्धांस् तथा
ताडनतर्ज्जनांश् च ।
छेदं शिरः कर्णकराक्षिनासाः ।
पादस्य चार्च्छन्ति हि कामदासा ।
इति ॥
उदयनवत्सराजपरिपृच्छायां च विवर्णिताः कामाः ॥
दृष्ट्वा व्रणं धावति मक्षिका यथा ।
दृष्ट्वाशुचिं धावति गर्दभो यथा ।
श्वानश् च शूना-
[ cambridge ms f46b ---> ]
इव मांसकारणात् ।
तथाइव धावन्त्य् अबुधाः स्त्रिये रताः ॥
[ bendall ed p81 ---> ]
अविद्यापिधिता बालास् तमःस्कन्धने आवृताः ।
स्त्रीषु सक्तास् तथा मूढामेध्येव वायसाः ॥
मारस्य गोचरो ह्य् एष प्रस्थिता येन दुर्गतिः ।
आस्वादसंज्ञिनो गृद्धा मीटस्थाने यथा क्रिमिः ॥
कीटकुम्भो यथा चित्रो यत्र यत्राइव दृश्यते ।
पूर्णो मूत्रपुरीषेण दृतिर् वा वातपूरिता ॥
सिङ्घाणककफालालाः [[दोउब्त्]] श्लेष्मणि क्लिन्नमस्तकाः ।
दौर्गन्ध्यं स्रवते कायाद् बालानां तद् यथा मधु ॥
अस्थिपूर्णं मुखद्वारं मांसचर्मादिभिश् चितं ।
गण्डभूतो ह्य् अयं कायः कुत्सितो ह्य् आमगन्धिकः ॥
नानाप्राणिभिः संपूर्णो मुखगण्डो यथा भवेत् ।
एवम् एव ह्य् अयं कायो विष्ठाद्यशुचिभाजनम् ॥
अन्त्यान्त्राकुलं ह्य् उदरं सयकृत्फुप्फुषाकुलम् ।
वृक्कौ विलोहितं पित्तं मस्तलुङ्गास्थिमज्जकम् ॥
अशीतिं क्रिमिकुलसहस्राणि यानि तिष्ठन्ति अन्तरे ।
अह बाला न पश्यन्ति मोहजालेनावृताः ॥
[ bendall ed p82 ---> ]
नवव्रणमुखैः प्रस्रवन्त्य् अशुचिं पूतिगन्धिकम् ।
बाला निमित्तं गृह्णन्ति वचने दर्शने ऽपि च ॥
उक्ताः पश्चान् न जानन्ति यो देशः सर्वकुत्सितः ।
उच्चारगोचरा बालाः खेटसिङ्घाणभोजिनः ॥
जुगुप्सनीये रज्यन्ते व्रणं दृष्ट्वेव मक्षिकाः ।
कक्षास्व् आघरते स्वेदो गन्धो वायति कुत्सितः ॥
कुर्वन्ति दुष्कृतं कर्म येन गच्छन्ति दुर्गतिम् ।
हीनान् कामान् निषेवन्तो हीनान् धर्मान् निषेव्य च ॥
गत्वावीचिं दुष्प्रज्ञाः दुष्खां विन्दन्ति वेदनां ।
उच्चारेव दुर्गन्धाः स्त्रियो बुद्धैः प्रकीर्तिताः ॥
तस्माद् धीनस्य हीनाभिः स्त्रीभिर् भवति सङ्गतिः ।
उच्चारभस्त्रां यो गृह्यबालावासं निगच्छति ॥
यादृशं कुरुते कर्म तादृशं लभते फलम् ॥
तथात्राइ-
[ cambridge ms f47a ---> ]
वाह ।
तद् एवंरूपैर् दुष्खपर्येषितैर् भोगैः स्वजीविकार्थम्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
