Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
शिक्षासमुच्चय (bản khác)
- Tác giả
- शान्तिदेव
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
उपसंहृतैर् न प्रभवन्ति श्रमणब्राह्मणेभ्यो दानं दातुं कृपणवनीपकयाचकेभ्यो ऽवशीकृताः स्त्रीभिः
स्त्रीनिर्जिताः स्त्रीनिगृहीताः स्त्रीदासाः ।
तेनाइव स्त्रीप्रेम्णा तस्याइव पोषणाय न शक्नुवन्ति दानं दातुं शीलं च समादातुं ।
स तत्र रक्तः समानः स्त्रीपरिभाषितानि सहते
तर्जनावलोकननिर्भर्त्सनाम् अपि सहते ।
स मातृग्रामेण तर्जितः पुरुषः संसीदति विषीदति सुखं चास्यावलोकयति ।
कामहेतोः कामनिदानं च वशगता भवति ।
अयं महाराज कामलोलुपस्य पुरुषस्योच्चारसुखपरमस्याशुचौ रतस्यासंप्रजन्याचारिणो दोषः ॥
पे ॥
[ bendall ed p83 ---> ]
श्रुत्वेदृशं तु संवेगं न तेषां भवति निर्वृतिः ।
भूयः कुर्वन्ति संसर्गं स्त्रीभिः सार्द्धं प्रमोदिताः ॥
दुष्खकामान् निषेवन्ते भाषन्ते च जुगुप्सिताः ॥
धर्मं श्रुत्वार्थसंमूढाः भाषन्ते च सुभाषितं ।
स्त्रीगतं चास्य तच् चित्तं विडालस्येव मूषिके ॥
मुहूर्तं भवति संवेगः श्रुत्वाथ जिनभाषितं ।
पुनः कुप्यति रागो ऽस्य विषहालाहलं यथा ॥
सूकरस्येवोत्त्रासो मुहूर्तम् अनुवर्त्तते ।
दृष्ट्वा वै अथोच्चारं गृद्धतां जनयत्य् असौ ॥
एवं सुखार्थिनो बालाः प्रहाय जिनशासनं ।
हीनान् कामान् निषेवन्ते येन गच्छन्ति दुर्गतिं ॥
रक्ताः प्रमत्ताः कामेषु कृत्वा कर्म सुपापकम् ।
शीलवत्तां विसंवाद्य पश्चाद् गच्छन्ति दुर्गतिम् ॥
यस्येदृशं धर्मनयं विदित्वा ।
स्त्रीषु प्रसादः पुरुषस्य नो भवेत् ।
विशोधितः स्वर्गपथो ऽस्य नित्यम् ।
न दुर्लभा तस्य वराग्रबोधिः ॥
लब्ध्वा क्षणं हि स प्रज्ञो धर्मं श्रुत्वा चेदृशम् ।
सर्वान् कामान् विवर्ज्येह प्रव्रज्यां निष्क्रमेद् बुध ।
इति ॥
प्रशान्तवि-
[ cambridge ms f47b ---> ]
निश्चयप्रातिहार्यसूत्रे ऽप्य् अपरो ऽनर्थोक्तः ॥
यः कश्चिन् मञ्जुश्रीः कु-
[ bendall ed p84 ---> ]
लपुत्रो वा कुलदुहिता वा जाम्बूद्वीपकान्
सर्वसत्वाञ् जीविताद् व्यपरोप्य सर्वस्वं हरेत् ।
यो वान्यो मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता बोधिसत्वस्याइककुशलचित्तस्यान्तरायं कुर्याद् अन्तशस् तिर्यग्योनिगतस्याप्य् एकालोपदानसहगतस्य कुशलमूलस्यान्तरायं कुर्याद् अयं ततो ऽसंख्येयतरं पापं प्रसवति ।
तत् कस्य हेतोः ।
बुद्धोत्पादसंजनकानां सकुशलमूलानाम् अन्तरायः स्थितो भवति ।
यः कश्चिन् मञ्जुश्रीः परकुलेषु बोधिसत्वस्येर्ष्यामात्सर्यं कुर्यात् तस्य तस्मिन् समये ततो निदानं [[दोउब्त्]] त्रीणि
भयानि प्रतिकाङ्क्षितव्यानि ।
कतमानि त्रीणि ।
नरकोपपत्तिभयं जात्यन्धभयं प्रत्यन्तजन्मोपपत्तिभयं चेति ॥
पुनर् आह ॥
यस् तस्य कुर्यात् पुरुषो ऽप्रियं वा भूतं ह्य् अभूतं च
वदेद् अवर्णं ।
परुषं वदेत् क्रुद्धमनापि यस् तं क्षोभं च कुर्यात् पुनर् अस्य यो ऽपि ॥
आत्मभावेन महता नरकेषु स दुर्मतिः ।
उत्पद्यते विपन्नात्मा दुष्खां स वेत्ति वेदनां ॥
योजनानां शतं पञ्च जायते ऽस्य समुच्छ्रयः ।
कोटीपरिवृतः शश्वद् भक्ष्यते च शुना भृशम् ॥
पञ्चमूर्द्धसहस्राणि भवन्त्य् अस्यापवादिनः ।
जिह्वानां च शताः पञ्च भवन्त्य् एकाइकमूर्द्धनि ॥
एकाइकस्यां च जिह्वायां शताः पञ्च ज्वलन्मुखाः ।
लाङ्गलानां च वहन्त्य् अस्य वाचं भाषित्व पापिकाम् ॥
[ bendall ed p85 ---> ]
प्रतापने च पच्यन्ते तीव्रदुष्खानलाकुले ।
उत्पीडां बोधिसत्वानां ये कुर्वन्ति असङ्गताः ॥
तिर्यग्योनिः सनरका न तेषां भोति दुर्लभा ।
कल्पकोटिसहस्राणि शतानि नियुतानि च ॥
ततः च्युता घोरविषा भोन्ति सर्पाः सुदारुणाः ।
क्षुत्पिपा-
[ cambridge ms f48a ---> ]
साभिभूताश् च कुर्वते कर्म दारुणम् ॥
लब्ध्वापि भोजनपानं तृप्तिं नाइवाधिगच्छति ।
ततश् च्युतो मनुष्येषु स ... यद्य् उपपद्यते ॥
जात्यन्धो भोति दुर्मेधा दुष्टचेतासंवृतः ।
आर्यानाराधिकां [[दोउब्त्]] वाचम् उक्त्वा दुर्भाषितं नरः ॥
मनुष्येभ्यश् च्युतश् चापि पुनर् गच्छति दुर्गतिम् ।
कल्पकोटिसहस्रेषु जातबुद्धं न पश्यति ॥
पुनर् अत्राइवाह ।
यावन्ति मञ्जुश्रीर् बोधिसत्वो बोधिसत्वस्यान्तिके
प्रतिघचित्तान्य् उत्पादयत्य् अवमन्यनाचित्तानि वा ।
तावतः कल्पान् सन्नाहः सन्नद्धव्यो वस्तव्यं मया
महानरकेष्व् इति ।
न मञ्जुश्रीर् बोधिसत्वो ऽन्येन कर्मणा शक्यो विनिपातयितुम्
अन्यत्र बोधिसत्वापवादाद् एव ।
तद् यथा मञ्जुश्रीर् वज्रमणिरत्नं नान्येन काष्ठेन
लोष्ठेन वा शक्यं भेत्तुम् अन्यत्र वज्राद् ।
एवम् एव मञ्जुश्रीर् बोधिसत्वो ऽन्येन कर्मणा न शक्यो विनिपातयितुम् अन्यत्र बोधिसत्वापवादाद् एवेति ॥ ॥
[ bendall ed p86 ---> ]
आर्यश्रद्धाबलाधानावतारमुद्रासूत्रे ऽप्य् आह ॥
यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा दशसु दिक्षु
सर्वलोकधातुषु सर्वसत्वान्धकारेषु बन्धने क्रुद्धः
प्रवेशयेत् ।
यश् चान्यः कुलपुत्रो वा कुलदुहिता वा बोधिसत्वे क्रुद्धः
पराङ्मुखं तिष्ठेत् ।
नाइनं दुरात्मानं पश्यामीत्य् अयं ततो ऽसंख्येयतरं पापं प्रवसति ॥
अत्राइवोक्तं ।
यः कश्चिन् मञ्जुश्रीः सर्वजाम्बूद्वीपकानां सत्वानां सर्वस्वं हरेद् यश् चान्यो यादृशं तादृशं बोधिसत्वं गर्हेद् ततो ऽसंख्येयतरं पापं प्रसवति ॥
अत्राइवोक्तं ।
यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा
गङ्गानदीवालिकासमान् स्तूपान् विनिपातयेद् दहेत वा ।
यश् चान्यः कुलपुत्रो वा कुलदुहिता वा महा-
[ cambridge ms f48b ---> ]
यानाधिमुक्तस्य
बोधिसत्वस्य व्यापादखिलक्रोधचित्तम् उत्पाद्य क्रोशयेत्
परिभाषयेद् अयं ततो ऽसंख्येयतरं पापं प्रसवति ।
तत् कस्माद् धेतोः ।
बोधिसत्वनिर्याता हि बुद्धा भगवन्तो बुद्धनिर्याताश् च
स्तूपाः सर्वसुखोपधानानि च सर्वदेवनिकायाश् च ।
बोधिसत्वम् असत्कृत्य सर्वबुद्धासत्कृता भवन्ति ।
बोधिसत्वं सत्कृत्य सर्वबुद्धाः सत्कृता भवन्ति ।
सर्वबुद्धान् अनुत्तरया पूजया पूजयितुकामेन बोधिसत्वाः
पूजयितव्याः ॥
एतत् पूजाविपाकश् च प्रशान्तविनिश्चयप्रातिहार्यसूत्रे ऽभिहितः ॥
यस् त्व् एषां कुरुते रक्षां धार्मिकीं धर्मवादिनां ।
हित्वा सुदुर्गतीः सर्वाः शक्रो भवति देवराट् ॥
ब्रह्मापि यामस् तुषितो वशवर्त्ती पुनः पुनः ।
मनुष्येषूपपन्नश् च चक्रवर्त्ती स जायते ॥
[ bendall ed p87 ---> ]
श्रेष्ठी गृहपतिश् चापि भवत्य् आढ्यो महाधनः ।
प्रज्ञास्मृतिभ्यां संयुक्तः सुखितो निरुपद्रव ।
इति ॥
अथ कतमं बोधिसत्वम् अधिकृत्येयं कारापकारचिन्ता ।
पृथग्जनम् एव ॥
यथोक्तं श्रद्धाबलाधानावतारमुद्रासूत्रे ।
यः क-
[ cambridge ms f49a ---> ]
श्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा
सर्वलोकधातुरजोउपमानां सत्वानां दिवसे दिवसे दिव्यं शतरसम् आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गानदीवालिकासमान् कल्पसमुद्रान् दानं दद्यात् ।
यश् चान्यः कुलपुत्रो वा कुलदुहिता वाइकस्योपासकस्यानन्यशास्तुर् दशकुशलकर्मपथसमन्वागतस्याइकदिवसम्
एकम् आहारं दद्याद् बुद्धस्यायं भगवतः शिक्षायां शिक्षितेति समारोपं कृत्वा ।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥
यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा
सर्वलोकधातुरजोउपमानां दशकुशलकर्मपथसमन्वागतानां उपासकानां दिवसे दिवसे दिव्यं शतरसम्
आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गानदीवालिकासमान् कल्पान् दद्यात् ।
यश् चान्यः
कुलपुत्रो वा कुलदुहिता वाइकस्य भिक्षोर् एकदिवसम् आहारं दद्याद् ।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवतीति ॥
नियतानियतावतारमुद्रासूत्रे ऽप्य् आह ।
सचेन् मञ्जुश्रीर् दशसु दिक्षु सर्वलोकधातुषु सर्वसत्वोत्पाटिताक्षा भवेयुः परिकल्पम् उपादाय ।
अथ कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा तेषां सर्वसत्वानां मैत्रचित्तस् तान्य् अक्षीणि जनयेत् परिकल्पम्
उपादाय ।
यो वान्यो मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा
महायानाधिमुक्तं बोधिसत्वं प्रसन्नचित्तः पश्येद् ।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥
यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा दशसु दिक्षु
सर्वसत्वान् बन्धनागारप्रविविष्टान् बन्धनागारान् मोचयित्वा
चक्रवर्तिसुखे स्थापयेद् ब्रह्मत्वसुखे वा ।
यो वान्यो मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा
महायानाधिमुक्तस्य प्रसन्नचित्तो दर्शनाभिलाषी भवेद् वर्णं चास्योदाहरेद् ।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवतीति ॥
[ bendall ed p88 ---> ]
तथा क्षितिगर्भसूत्रे ऽप्य् आह ।
यः पुनर् भदन्त भगवन् क्षत्रियकल्याणो वामात्यकल्याणो वा भट्टकल्याणो वा श्रमणकल्याणो वा ब्राह्मणकल्याणो वा परं रक्षत्य् आत्मानं रक्षति परलोकं रक्षति ।
भगवच्छासने पात्रभूतम् अपात्रभूतं वा यावन् मुण्डं काषायखण्ड-
[ cambridge ms f49b ---> ]
प्रावृतं परिरक्षति श्रोष्यति पूजयिष्यति
श्रावककथां एवं प्रत्येकबुद्धकथां श्रोष्यति
पूजयिष्यति ।
महायानकथां च महायानसंप्रस्थितान् पुद्गलान् शीलवतो गुणाढ्यान् युक्तमुक्तप्रतिभानान् तैः सार्द्धं रमति क्रीडति
परिपृच्छति परिप्रश्नयति तेषां श्रोतव्यं कर्तव्यं मन्यते ॥
पे ॥
कियन्तं भगवन् पापं क्षपयिष्यति ॥
भगवान् आह ॥
तद् यथापि नाम कुलपुत्र कश्चित् पुरुषोत्पद्यते ।
यः सर्वं जम्बूद्वीपं सप्तरत्नपरिपूर्णं कृत्वा
तिष्ठतां बुद्धानां भगवतां दानं दद्यात् तथाइव
मध्याह्नसमये तथाइव सायाह्नसमये दानं दद्याद् अनेन
पर्यायेण वर्षशतसहस्रम् एवंरूपं दानं दद्यात् ।
तत् किं मन्यसे कुलपुत्रापि नु स पुरुषो बहु पुण्यं प्रसवेत् ॥
आह ॥
बहु भदन्त भगवन् स पुरुषः पुण्यस्कन्धं प्रसवेद् अप्रमेयम्
असंख्येयं ।
न तस्य पुण्यस्कन्धस्य केनचिच् छक्यं प्रमाणम् उद्ग्रहीतुं अन्यत्र तथागतेन ॥
भगवान् आह ॥
यस् तु कुलपुत्र क्षत्रियकल्याणो वा यावद् यथा पूर्वोक्तं ।
पे ।
स बहुतरं पुण्यं प्रसवति ।
यावद् विपुलतरम् अप्रमाणतरम् असंख्येयतरं पुण्यस्कन्धं प्रसवति ।
यो मम पश्चिमायां पञ्चशत्यां वर्तमानायां सद्धर्मनेत्री रक्षति स रक्षत्य् आत्मानं ।
रक्षति परांश् च रक्षति परलोकं रक्षति मम शासनं श्रावकान् पात्रभूतान् अपात्रभूतान् वा याव-
[ bendall ed p89 ---> ]
न् मुण्डान्
काषायवस्त्रप्रावृतान् अपि रक्षति ।
न विहेठयति ।
यावत् स्वकं राष्ट्रं परराष्ट्रं च वर्धयति ।
अपायान् क्षपयति ।
सुरालयं च प्रापयति चिरं चायुः पालयति ।
स्वक्लेशांश् च परक्लेशांश् च झाषयति ।
संबोधिमार्गं षट्पारमिता-
[ cambridge ms f50a ---> ]
श् चोपस्तम्भयति ।
सर्वापायाञ् जहाति ।
न चिरं संसारे संसरति ।
नित्यं कल्याणमित्रैर् बुद्धैश् च भगवद्भिर् बोधिसत्वैश् च
महासत्वैश् च सार्द्धं समवधानगतो भवति ।
सततं कल्याणमित्राविरहितो न चिरेण यथाभिप्रायेषु
बुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते ॥
अथ तावद् एव सर्वदेवेन्द्राः सपरिवारा ।
यावत् पिशाचेन्द्राः सपरिवारोत्थायासनाद् येन भगवान्
तेनाञ्जलिं प्रणम्याइवम् आहुः ।
ये ते भदन्त भगवन् एतर्ह्य् अनागते ऽध्वनि यावत् पश्चिमायां पञ्चशत्यां क्षत्रियकल्याणा भवन्ति यावद् गहपतिकल्याणाः ।
पे ।
एवं सद्धर्मरक्षकाइवं त्रिरत्नवंशज्वालयितारः ।
पे ।
वयम् अपि सर्वे सपरिवारास् तं क्षत्रियकल्याणं यावद् गहपतिकल्याणं दशभिर् आकारै रक्षिष्यामः
परिपालयिष्यामो वर्धयिष्यामः ॥
कतमैर् दशभिः ।
आयुश् चास्य वर्धयिष्यामः आयुरन्तरायं च धर्मेण
निवारयिष्यामः ।
आरोग्यं च परिवारं च धनस्कन्धं चोपभोगपरिभोगं चाइश्वर्यं च यशः कल्याणमित्राणि प्रज्ञासम्पदं च
वर्धापयिष्यामः ।
एभिर् दशभिर् इति विस्तरः ॥
एवम् अभूमिप्रविष्टेष्व् एवायं विपाकविस्तरो द्रष्टव्यः ॥
अवलोकनासूत्रे ऽपि ।
संबोधौ चित्तम् उत्पाद्य हितार्थं सर्वप्राणिनां ।
यः स्तूपं लोकनाथस्य करोतीह प्रदक्षिणं ॥
[ bendall ed p90 ---> ]
इत्य् आद्य् अनुशंसविस्तरम् उक्त्वाह ।
यस् त्व् एषां बुद्धपुत्राणां नरः कुर्वीताप्रियं ।
देवान् मनुष्यान् वर्जित्वा नरकं तस्य गोचरं ॥
इति विस्तरः पूर्ववत् ॥
न चात्र विशेषहेतुः कश्चिद् उपदर्शयितुं शक्यतए इत्य् अलं विकल्पेन ॥
कर्मावरणविशुद्धिसूत्रे ऽप्य् आवरणशब्देनान-
[ cambridge ms f50b ---> ]
र्थोक्तः ।
आवरणं मञ्जुश्रीर् उच्यते रागावरणं द्वेषावरणं मोहावरणं दानम् आवरणं शीलक्षान्तिवीर्यध्यानप्रज्ञावरणं ।
पे ।
तत् कस्य हेतोः बालपृथग्जना मञ्जुश्रीर् दानं ददाना मत्सरिणाम् अन्तिके ऽप्रसादं कुर्वन्ति ।
ते तेनाप्रसादेन प्रतिघचित्तम् उत्पादयन्ति ।
प्रतिघखिलदोषेण महानरकेषूपपद्यन्ते ।
शीलं रक्षन्तो दुःशीलान् कुत्सयन्ति परिभाषन्ति ।
ते तेषाम् अवर्णं च भाषन्ति ।
ते तेषां दोषं श्रुत्वा बहुजनस्याप्रसादं कुर्वन्ति ।
ते तेनाप्रसादेन दुर्गतिगामिनो भवन्ति ।
ते क्षान्तिं भावयन्तः क्षान्तिमदेनात्मानम् उत्कर्षयन्ति
प्रमाद्यन्ति ।
वयं क्षान्तिवादिनः ।
इमे पुनर् अन्ये व्यापन्नचित्ताः ।
तेषां क्षान्तिमदनमत्तानां प्रमादमूलकानि दुःखान्य् उत्पद्यन्ते ।
ते वीर्यम् आरभमाणात्मानम् उत्कर्षयन्ति परान् पंसयन्ति ।
कुसीदेमे भिक्षवो विहरन्त्य् अनभियुक्ताः श्रद्धादेयं परिभुञ्जानाः ।
नाइते ऽर्हन्ति पानीयस्थालकम् अपि ।
ते तेन वीर्यारम्भेणात्मानम् उत्कर्षयन्ति परं च पंसयन्ति ।
तान् अहं बालान् इति वदामि ।
ते ध्यानं समापद्यमानास् तत्र ध्यानसमापत्तौ स्पृहाम्
उत्पादयन्ति ।
तेषाम् एवं भवति ।
वयं समाधिविहारिण ।
इमे ऽन्ये भिक्षवो विक्षिप्तचित्ता विहरन्ति ।
कुतस् ते बुद्धा भविष्यन्तीति विस्तरः ॥
सर्वधर्माप्रवृत्तिनिर्देशे ऽप्य् आह ।
बोधिसत्वापत्त्या चोदयति ।
दूरीभवति बोधिः ।
क-
[ bendall ed p91 ---> ]
र्मावरणं च परिगृह्णाति ।
ईर्यया चोदयति ।
दूरीभवति बोधिः ।
ईर्यापथेन चोदयति दूरीभवति बोधिः ।
सचेद् बोधिसत्वस्यान्तिके हीनसंज्ञाम् उत्पादयति आत्मनि चोदारसंज्ञां क्षिणोत्य् आत्मानं-
[ cambridge ms f51a ---> ]
कर्मावरणं च गृह्णाति ।
इह बोधिसत्वेन बोधिसत्वम् अववदतानुशासता वा
शास्तृसंज्ञाम् उपस्थाप्याववदितव्यो ऽनुशासितव्यः ।
बोधिसत्वेन बोधिसत्वस्यान्तिके न परिभवचित्तम् उत्पादयितव्यं ।
सचेद् अस्यापरित्यक्ता बोधिः ।
न देवपुत्र बोधिसत्वः क्वचिद् एव कुशलमूलानि समुच्छिनत्ति ।
यथाद्वितीयबोधिसत्वम् आगम्येति ।
अनुत्पादितबोधिचित्ते ऽपि तावद् बोधिर् भव्ये सत्वे ऽवमन्यना
प्रतिषिद्धा ।
किं पुनर् उदितबोधिचित्ते ॥
यथोक्तं शूरङ्गमसमाधिसूत्रे ।
तत्र दृढमते कतमद् अनुत्पादितबोधिचित्तव्याकरणं ॥
इह दृढमते स पुद्गलः पाञ्चगतिके संसारे उपपन्नो भवति ।
यदि वा निरयेषु यदि वा तिर्यग्योनौ यदि वा यमलोके यदि वा देवेषु
यदि वा मनुष्येषु ।
स च पुद्गलस् तीक्ष्णेन्द्रियो भवति ।
उदाराधिमुक्तिकः ।
तम् एनं तथागतः प्रजानाति ।
अयं पुरुषपुद्गलो यावद् इयद्भिः
कल्पकोटीनियुतशतसहस्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयिष्यति ॥
पे ॥
इयद्भिश् चासंख्येयकल्पशतसहस्रैर् बोधिम् अभिसंभोत्स्यते ॥
पे ॥
इदं दृढमते उच्यते ।
बोधिसत्वस्यानुत्पादितबोधिचित्तव्याकरणं ।
अथ खल्व् आयुष्मान् महाकाश्यपो भगवन्तम् एतद् अवोचत् ।
अद्याग्रेणास्माभिर् भगवन् सर्वसत्वानाम् अन्तिके
शास्तृसंज्ञोत्पादयितव्या ।
तत् कस्य हेतोः ।
न ह्य् अस्माकम् एतज् ज्ञानं प्रवर्त्तते ।
कतमस्य बोधिसत्वस्य बोधिपरिपाचकानीन्द्रियाणि संविद्यन्ते ।
कतमस्य न संविद्यन्ते ।
ततो वयं भगवन्न् अजानानास् तथारूपेषु हीनसंज्ञाम्
उत्पादयेम ।
तेन
[ bendall ed p92 ---> ]
वयं क्षण्येम ॥
भगवान् आह ।
साधु साधु काश्यप सुभाषिता ते इयं वाक् ।
इदं च मया काश्यपार्थवशं स-
[ cambridge ms f51b ---> ]
म्पश्यमानेन युष्माकम्
एवं धर्मो देशितो ।
मा भिक्षवः पुद्गलेन पुद्गलं प्रविचेतव्यं ।
यच् छीघ्रं क्षण्यति हि भिक्षवः पुद्गलः पुद्गलं प्रविचिन्वन् ।
अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः ।
एतेन काश्यप निर्देशेन बोधिसत्वेन वा श्रावकेण वा
सर्वसत्वानाम् अन्तिके शास्तृसंज्ञोत्पादयितव्या ।
मात्र कश्चिद् बोधिसत्वयानिकः पुद्गलो भवेत् तेन तत्रात्मा रक्षितव्येति ।
यस्य तु नियतम् एव बोधिप्राप्तिचिह्नम् अस्ति तत्र सुतराम् अवमन्यना
रक्षितव्या ॥
यथोक्तम् आर्यसद्धर्मपुण्डरीकसूत्रे ।
इष्टामयान् मृत्तिकसंचितान् वा प्रीताश् च कुर्वन्ति जिनस्य
स्तूपान् ।
उद्दिश्य वा पांशुकराशयो ऽपि अटवीषु दुर्गेषु च
कारयन्ति ॥
सिक्तामया वा पुन कूट कृत्वा ये केचिद् उद्दिश्य जिनान स्तूपान् ।
कुमारकाः क्रीडिषु तत्र तत्र ।
ते सर्वि बोधायाभूषि लाभिनः ॥
[ bendall ed p93 ---> ]
यावत् ॥
ये चित्रभित्तीषु करोन्ति विग्रहं ।
परिपूर्णगात्रांश् छतपुण्यलक्षणान् ॥
लिखेत् स्वयं चापि लिखापयेद् वा ।
ते सर्वि बोधायाभूषि लाभिनः ॥
ये चापि केचित् तर्हि शिक्षमाणाः ।
क्रीडारतिं चापि विनोदयन्तः ॥
नखेन काष्ठेन कृतासि विग्रहान् ।
भित्तीषु पुरुषाथ कुमारका वा ॥
सर्वे च ते बोधि अभूषि लाभिनः ॥
पे ॥
वादापिता झल्लरियो ऽपि ये ही ।
जलमण्डका वाप्य् अथ मण्डका वा ।
सुगतानम् उद्दिश्यथ पूजनार्थं गीतं च गीतं मधुरं मनोज्ञं ।
सर्वे च ते बुद्धाभूषि लोके ॥
कृत्वा च यां बहुविधधातुपूजां ।
किम् अल्पकम्पी सुगतान धातुषु ।
एकं पि वादायिय वाद्यभाण्डम् ।
पुष्पेण चाइकेन हि पूजयित्वा ।
[ bendall ed p94 ---> ]
अनुपूर्व द्रक्ष्यन्ति हि बुद्धकोट्यः ।
यैश् च
[ cambridge ms f52a ---> ]
अञ्जलिस् तत्र कृतापि स्तूपे ।
परिपूर्णाइकातलशक्तिका वा ।
ओनामितं शीर्ष भवेन् मुहूर्त्तं ।
ओनामितं काय तथाइकवारं ।
नमो ऽस्तु बुद्धाय कृताइकवारं ।
ये ही तदा धातुधारेषु तेषु ।
विक्षिप्तचित्तैर् अपि यथाइकवारं ।
ते सर्वि प्राप्तेमम् अग्रबोधिम् ।
सुगतान तेषां तद तस्मि काले ।
परिनिर्वृतानाम् अथ तिष्ठतां वा ।
ये धर्मनामापि शृणूषु सत्वास् ।
ते सर्वि बोधायाभूषि लाभिन ।
इति ॥
महाकरुणासूत्रे ऽप्य् उक्तं ॥
तद् यथा वाडिशिकेन महत्य् उदकसरसि मत्स्याकर्षणार्थं सामिषं वडिशं प्रक्षिप्तं भवेत् समनन्तरप्रक्षिप्तं च
मत्स्येन निगीर्णं भवेत् ।
किं चापि स मत्स्योदकसरसि भ्रमत्य् अथ च पुनर् वद्धाइव
स वक्तव्यो दृढेन सूत्रेण स्थलगतदण्डसुनिबद्धेन ।
यत् स वाडिशिकागत्य तेन सूत्रलाघवेन जानाति ।
गृहीतो मत्स्येति ।
तम् एनं सूत्राद् गृहीत्वा स्थलगतं क-
[ bendall ed p95 ---> ]
रोति
यथाकामकरणाय परिभोगाय ।
एवम् एव ये सत्वा बुद्धेषु भगवत्सु चित्तं प्रसाद्य कुशलमूलम्
अवरोपयन्ति ।
अन्तशाइकचित्तप्रसादम् अपि ।
किं चापि ते सत्वा दुष्कृतेन कर्मावरणेनाक्षणेषूपपन्ना भवन्त्य् अथ च बुद्धा भगवन्तस् तान् सत्वान् बौद्धेन
ज्ञानेन संग्रहवस्तुसूत्रेण गृहीत्वा संसारोदकसरसोद्धृत्य निर्वाणस्थले स्थापयन्तीति ॥
तस्माद् एषु शास्तृसंज्ञा कार्या ।
वन्दमानाश् च मनसा वन्दितव्याः ।
भवति हि नवको ऽपि बोधिचित्तबलाद् वन्द्यो ।
यथा मेघेन द्रमिडेन महाबोधिसत्वेनापि सता नवकार्यसुधनः सर्वशरीरेण प्रणिपत्य वन्दितः ।
नियतार्थं चेदं ।
यथाध्याशयसंचोदनादिषु
सर्वबोधिसत्वयानिकपुद्गलनमस्कारो ऽनुज्ञातव्यः ।
सर्वशब्देनात्मनो ऽपि ग्रहणात् ।
कथम् एकत्र वन्द्य
[ cambridge ms f52b ---> ]
वन्दकत्वं न विरुध्यते ।
परस्परं वन्द्यत्वेनाइवालम्बनात् ।
अताइवानास्वादनाद् अपुण्यभावः ।
किं च बुद्धानाम् अप्य् एवम् इष्यते ।
मा भूद् अनवस्था ।
एकस्य चान्यूनतेति ॥
आर्यसर्वधर्मवैपुल्यसंग्रहसूत्रे ऽप्य् अनर्थोक्तः ।
सूक्ष्मं हि मञ्जुश्रीः सद्धर्मप्रतिक्षेपकर्मावारणं ।
यो हि कश्चिन् मञ्जुश्रीस् तथागतभाषितधर्मे कस्मिंश्चिच् छोभनसंज्ञां करोति ।
क्वचिद् अशोभनसंज्ञां स सद्धर्मं प्रतिक्षिपति ।
तेन सद्धर्मं प्रतिक्षिपता तथागतो ऽभ्याख्यातो भवति ।
धर्मः प्रतिक्षिप्तो भवति ।
संघो ऽपवादितो भवति ।
याइवं वदतीदं युक्तम् इदम् अयुक्तम् इति स सद्धर्मं प्रतिक्षिपति ।
न मया पृथक् कश्चिद् धर्मः श्रावकयानसंप्रयुक्तः
प्रत्येकबुद्धयानसंप्रयुक्तो महायानसंप्रयुक्तो देशितः ।
तत् ते मोहपुरुषेमं मम धर्मं नानाकरिष्यन्ति ।
इदं श्रावकाणां देशितम् इदं प्रत्येकबुद्धानाम् इदं बोधिसत्वानाम् इति ।
स नानात्वसंज्ञया सद्धर्मं प्रतिक्षिपति ।
इयं बोधिसत्वस्य शिक्षा ।
इयं बोधिसत्वस्याशिक्षेति सद्धर्मं प्रतिक्षिपति ।
धर्मभाणकस्यास्ति प्रतिभानं नास्ति प्रतिभानम् इति
सद्धर्मं प्रतिक्षिपति ।
धर्मं धर्मतया क-
[ bendall ed p96 ---> ]
थयति सद्धर्मं प्रतिक्षिपति ।
अपगते बुद्धोत्पादे नास्ति धारणीप्रतिलम्भेति धर्मं प्रतिक्षिपति ।
नास्ति धर्मभाणकस्य धारणीप्रतिलम्भेति धर्मं प्रतिक्षिपति ।
धर्मभाणकस्य चर्यां दूषयति धर्मं प्रतिक्षिपति ।
धर्मभाणको न प्रतिपत्तिसंपन्नेति धर्मं प्रतिक्षिपति ।
प्रमादेनाइनं चोदयति सद्धर्मं प्रतिक्षिपति ।
ईर्यापथेन चोदयति सद्धर्मं प्रतिक्षिपति ।
अक्षरचर्यया शीलविपत्त्या चोदयति धर्मं प्रतिक्षिपति ।
प्रति-
[ cambridge ms f53a ---> ]
भानेन संपादयतीति धर्मं प्रतिक्षिपति ।
आलोको ऽस्य धर्माणां न सुविदितेति धर्मं प्रतिक्षिपति ।
मन्त्रेण मन्त्रम् अबुध्यमानः प्रतिवदतीति धर्मं प्रतिक्षिपति ।
अक्षरसंज्ञ्या तथागतशासनं नावगाहतेति धर्मं प्रतिक्षिपति ।
सूत्रेण सूत्रं विरोधयतीति धर्मं प्रतिक्षिपति ।
गाथया गाथां विरोधयतीति धर्मं प्रतिक्षिपति ।
अक्षरसंज्ञया कञ्चिद् अधिमुक्तं करोति कञ्चिन् न करोतीति
धर्मं प्रतिक्षिपति ।
धर्मभणकस्यार्थान्य् अकथाम् अभिनामयतीति धर्मं प्रतिक्षिपति ।
विचक्षुः कर्मास्य करोति धर्मं प्रतिक्षिपति ।
संलापयन् वदतीति धर्मं प्रतिक्षिपति ।
इहास्यास्ति चर्येहास्य नास्ति चर्येति धर्मं प्रतिक्षिपति ।
इदं सूक्तम् इदम् असूक्तम् इति धर्मं प्रतिक्षिपति ।
अनेन नास्ति चर्येति धर्मं प्रतिक्षिपति ।
अनेन बुद्धवचनसमयोक्तो नानेन बुद्धवचनसमयोक्तेति
धर्मं प्रतिक्षिपतीति हि मञ्जुश्रीर् यावत् किञ्चिद् विलोपयति
तावद् धर्मं प्रतिक्षिपति ।
धर्मभाणकस्येदं रूपम् इति चिन्तयति वदति भिक्षुर् वा
भिक्षुणी वोपासको वोपासिका वा ।
सर्वः स सद्धर्मं प्रतिक्षिपतीत्य् आदि ॥
अत्राइव चोक्तं ।
यस्य कस्यचित् कुलपुत्र तथागतस्य परिनिर्वृतस्य धर्मः प्रतिभाति
यथाधिमुक्तानां सत्वानां देशयितुं ।
तस्यां च पर्षदि यद्य् एकसत्वस्यापि एकरोमहर्षो भवेद् एकाश्रुपातो वा सर्वः स तथागतानुभावेन ।
तत्र मोहपुरुषाबोधिसत्वा बोधिसत्वप्रतिज्ञा बोधिसत्वदूषका धर्मस्तैन्यकुहकाइवं वक्ष्यन्ति
धर्मोपदेशकेभ्यः ।
किम् एते ।
न बुध्यन्तए इति ॥
[ bendall ed p97 ---> ]
पे ॥
ये बोधिसत्वेष्व् अवमन्यनां कुर्वन्ति ।
नाहं तेषां पर्यन्तकृतं निरयं-
[ cambridge ms f53b ---> ]
संवदामि ।
तत् कस्य हेतोः ।
यो बोधिसत्वो धर्मभाणकम् अपवादति बुद्धं स विगर्हति
धर्मं स प्रतिक्षिपति संघं स जुगुप्सति ।
बुद्धे सो ऽगौरवो यो धर्मभाणके ऽगौरवः ।
बुद्धं स न द्रष्टुकामो यो धर्मभाणकम् अद्रष्टुकामः ।
बुद्धस्य सो ऽवर्णं भाषते यो धर्मभाणकस्यावर्णं भाषते ।
बुद्धस् तेन परित्यक्तो भवति यः प्रथमचित्तोत्पादिके ऽपि
बोधिसत्वे प्रतिघचित्तं करोतीति ॥
पे ॥
यो ऽप्य् अयं मैत्रेय षट्पारमितासमुदागमो बोधिसत्वानां संबोधाय तं ते मोहपुरुषाइवं वक्ष्यन्ति ।
प्रज्ञापारमितायाम् एव बोधिसत्वेन शिक्षितव्यं ।
किं शेषाभिः पारमिताभिः ।
ते ऽन्यां पारमितां दूषयितव्यां मन्यन्ते ।
तत् किं मन्यसे ऽजित दुष्प्रज्ञः स काशिराजाभूद् येन
कपोतार्थं श्येनाय स्वमांसानि दत्तानि ।
मैत्रेयाह ।
नो हीदं भगवन् ।
भगवान् आह ।
यानि मया मैत्रेय बोधिसत्वचर्यां चरता षट्पारमिताप्रतिसंयुक्तानि कुशलमूलान्य् उपचितानि अपकृतं नु तैः कुशलमूलैः ॥
मैत्रेयाह ।
नो हीदं भगवन् ॥
भगवान् आह ।
त्वं तावद् अजित षष्टिं कल्पान् दानपारमितायां षष्टिं कल्पान् शीलपारमितायां षष्टिं कल्पान्
क्षान्तिपारमितायां षष्टिं कल्पान् वीर्यपारमितायां षष्टिं कल्पान् ध्यानपारमितायां षष्टिं कल्पान् प्रज्ञापारमितायां समुदागतः ।
तत् ते मोहपुरुषाइवं वक्ष्यन्ति ।
एकनयेनाइव बोधिर् यद् उत शून्यतानयेनेति ।
ते चर्यासु परिशुद्धा भविष्यन्तीत्य् आदि ॥
इति शिक्षासमुच्चये चतुर्थः परिच्छेदः ॥
शीलपारमितायाम् अनर्थवर्जनं पञ्चमः परिच्छेदः ॥
उक्तः संक्षेपतो ऽनर्थः ।
तस्य विवर्जनं यथाध्यशयसंचोदनसूत्रे ।
एवंविधानर्थश्रवणभयभीरुकैः
[ cambridge ms f54a ---> ]
आदिकर्मिकबोधिसत्वैः समादानानि यथा गृहीतानि तथा कार्यं ।
एवं-
[ bendall ed p98 ---> ]
हि तैर् उक्तं ।
एते वयं भगवन्न् अद्याग्रेण तथागतस्य पुरतः ।
एवं समादानं कुर्मः ।
सचेद् वयं भगवन्न् अद्याग्रेण बोधिसत्वयानिकं पुद्गलं गृहिणं वा प्रव्रजितं वापत्त्या चोदयिष्यामो भूतेन वाभूतेन वा विसंवादितो ऽस्माभिस् तथागतो ऽर्हन् सम्यक्संबुद्धो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेण बोधिसत्वयानिकं पुद्गलम् अवमन्येमावर्णं चास्य भाषेम विसंवादितो ऽस्माभिस् तथागतो भवेद् अर्हन् सम्यक्संबुद्धः ।
सचेद् वयं भगवन्न् अद्याग्रेण बोधिसत्वयानिकं पुद्गलं गृहिणं वा प्रव्रजितं वा पञ्चभिः कामगुणैः क्रीडन्तं परिचारयन्तं दष्ट्वाप्रसादं कुर्याम विलेखं वा चित्तस्योत्पादयेमागौरवं वोत्पादयेम न च तत्र शास्तृसंज्ञाम् उत्पादयेम ।
विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेण मित्रकुलभिक्षाद् अकुलनिदानं बोधिसत्वयानिकानां पुद्गलानां कायपीडां चित्तपीडां वा कुर्याम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेण बोधिसत्वयानिकं पुद्गलं दृष्ट्वाइकेनाप्य् अमनोज्ञवचनेनाभाषेम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेण त्रिस्कृत्वो रात्रेः त्रिस्कृत्वो दिवस्य बोधिसत्वयानिकं पुद्गलं न नमस्येम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेणास्य व्रतसमादानस्य कृतशो राज्यप्रतिलम्भं वा धनप्रतिलम्भं वा कायजीवितं वा न परित्यजेम
[ cambridge ms f54b ---> ]
विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेण श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा पुद्गलम् अवमन्येम ।
वयं विशिष्टतरा नाइते इति विसंवादितो ऽस्माभिस् तथागतो भवेत् ।सचेद् वयं भगवन् नीचचित्ताश् चण्डालसदृशचित्ता न विहरेम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेणात्मानम् उत्कर्षयेम परं वा पंसयेम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेण व्यापादविग्रहभयाद् योजनं वा योजनशतं वा न पलायेमेरिताः समाना विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेण शीलवन्तम् आत्मानं प्रतिजानीम बहुश्रुतं वा धुतगुणिनं वान्यतरान्यतरेण वा गुणेनात्मानम् उद्भावयेम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्याग्रेण प्रतिच्छन्नकल्याणा विवृतपापा न विहरेम विसंवादितो ऽस्माभिस् तथागतो भवेद् अर्हन् सम्यक्संबुद्धः ॥
पे ॥
तत्र भगवान् मैत्रेयं बोधिसत्वं महासत्वम् आमन्त्रयते स्म ।
कर्मावरणं मैत्रेय
[ bendall ed p99 ---> ]
क्षपयितुकामेन कुलपुत्रेण वा कुलदुहित्रा वाइवं समादानं कर्तव्यं यथाइभिः कुलपुत्रैः कृतम् इति ॥
सर्वधर्माप्रवृत्तिनिर्देशे ऽप्य् आह ॥
तृष्कृत्व रात्रिं दिवसं तथाइव ।
स बोधिसत्वान् प्रणमेत मूर्ध्ना ।
तेषां न किञ्चित् स्खलितं गवेषेत् ।
चरेत चर्यां हि सदा यथेष्टम् ॥
पश्येद् यदा कामगुणै रमन्तं ।
न तस्य किञ्चित् स्खलितं गवेषेत् ।
गुणैर् अनन्तां वर बोधिचर्यां ।
एषो ऽपि कालेन हितां स्पृशेत ॥
युक्त्यानुपूर्व्या क्रिययानुपूर्व्या ।
भवेज् जिनो नाइव हि एकवाचा ।
बहुकल्पकोट्यो नियुतानि चाइष ।
सन्नाहसंप्रस्थितना-
[ cambridge ms f55a ---> ]
न्य् अभावी ॥
अत्राइवाह ।
ये कुलपुत्राइवंरूपेण कर्मावरणेनानर्थिकाः ।
तैर् न द्वितीयस्य बोधिसत्वस्य सर्वचर्यासु विप्रतिपत्तव्यं ।
सर्वाः क्रियास् तस्य विमोक्तव्याः ।
एवं चित्तम् उत्पादयितव्यं ।
नाहं परचित्तं जाने दुर्विज्ञेया सत्वचर्या ।
इदं च खलु कुलपुत्रार्थवशं संपश्यंस् तथागताइवं-
[ bendall ed p100 ---> ]
धर्मं देशयति ।
न पुद्गलेन पुद्गलः प्रमातव्यः ॥
अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः ॥
यः कुलपुत्रात्मानं रक्षितुकामस् तेन न कस्यचिच् चर्या विवेचयितव्या ।
न परेषां विकुट्टना कर्तव्या ।
अयम् ईदृशो ऽयम् ईदृशेति ।
बुद्धधर्माभियुक्तेन भवितव्यं रात्रिं दिवं धर्मपलिगुद्धमानसेनेति ॥
तथा क्षितिगर्भसूत्रे ऽपि कथितं ।
अथ तावद् एव बहूनि शतसहस्राणि विद्वांसः सत्वोत्थायासनाद् येन भगवांस् तेनाञ्जलिं प्रणम्याइवम् आहुः ।
वयं भदन्त भगवतः पुरताइवं प्रणिधानं कुर्मः यावच् चिरं वयं भदन्त भगवन् संसारे संसरेम तावन् मात्र प्रतिलब्धक्षान्तिकामा राजस्थानं प्रतिलभेम ।
मामात्यस्थानं ।
मा नगरज्येष्ठस्थानं ।
मा ग्रामज्येष्ठस्थानं ।
मा निगमज्येष्ठस्थानं ।
मा पुरोहितज्येष्ठस्थानं मा भट्टज्येष्ठस्थानं ।
यावन् मा सार्थवाहज्येष्ठस्थानं ।
मोपाध्यायज्येष्ठस्थानं ।
मा श्रमणज्येष्ठस्थानं ।
मा गृहपतिज्येष्ठस्थानं ।
मा कुटुम्बिज्येष्ठस्थानं यावत् सर्वशो वयं मा सत्वानाम् अधिपतिस्थानं प्रतिलभेम यावन् न क्षान्तिप्रतिलब्धाः स्याम ।
यतो निदानं वयम् एवंरूपम् अतिगाढं कर्म बुद्धानां शासनम् आक्षिपेम ।
इति विस्तरः ॥
चन्द्रप्रदीपसूत्रे ऽप्य् अनर्थविवर्जनम् उक्तम् ।
नास्ति पापम् अकर्तव्यं कुमारा तेषु भेष्यति ।
मा तेहि संस्त-
[ cambridge ms f55b ---> ]
वं सार्द्धं कुर्याः त्वं कालि पश्चिमे ॥
आलपे संलपेय्यासि कुर्यासी तेष्व् अगौरवं ।
आनालीनः सत्करेय्यास्य् अग्रबोधयि कारणात् ॥
[ bendall ed p101 ---> ]
वर्षाग्रं परिपृच्छित्वा यस् ते वृद्धतरो भवेत् ।
कुर्यासि गौरवं तत्र शिरसा पादवन्दनैः ॥
न तेषां स्खलितं पश्येद् बोधिमण्डं विपश्यतां ।
प्रतिघातं न जनयेत् मैत्रचित्तः सदा भवेत् ॥
यद्य् एषां स्खलितं पश्येद् दोषांस् तेषां न कीर्तयेत् ।
यादृशं काहिति कर्म तादृशं लप्स्यते फलं ॥
स्मितेन मुखचन्द्रेण वृद्धेषु नवकेषु च ।
पूर्वाभाषी भवेन् नित्यं हतमानश् च सर्वतः ॥
चीवरैः पिण्डपातैश् च कुर्यात् तेषाम् अनुग्रहं ।
एवं चित्तं प्रदध्यास् त्वं सर्वे भेष्यन्ति नायका ।
इति ॥
यस्य च बोधिचित्तोत्पादिके गौरवं प्रसादश् च नोत्पद्येते ।
तेन स्वदुर्गतिप्रपातभयरक्षार्थं दृष्टादृष्टप्रामोद्यानुभवनार्थं स्वचित्तकलुषप्रसादनार्थं चित्तकल्यताचित्तकर्मण्यताप्रतिलाभार्थं च यथार्यगण्डव्यूहे बोधिचित्तोत्पादिकगुणा भगवदार्यमैत्रेयेणाचार्यसुधनम् अधिकृत्योद्भावितास् तथा भावयितव्याः ॥
एष दृष्ट्व जरव्याधिपीडितान् प्राणिनो दुष्खशतैर् उपद्रुतान् ।
जन्ममृत्युभयशोकतापितान् तेषार्थि चरते क्र्पाशयः ॥
दुष्खयन्त्रपरिपीडितं जगत् दृष्ट्व पञ्चगतिचक्रमण्डले ।
ज्ञानवज्रमयम् एष ते दृढं दुष्खयन्त्रगतिचक्रभेदनं ॥
[ bendall ed p102 ---> ]
रागदोषतृणखाणुकण्टकं दृष्टिसंगबहु कक्षसंकुलम् ।
सत्वक्षेत्रपरिशोधनार्थिकः प्रज्ञलाङ्गलदृढं गवेषते ॥
मोहविद्यगहनाशयं जगत् प्रज्ञचक्षुहत नष्टदैशिकं ।
तस्य क्षेम दिश-
[ cambridge ms f56a ---> ]
दैशिकः प्रभुः सार्थवाह जगतो भविष्यति ॥
क्षान्तिधर्मत्रिविमोक्षवाहनो ज्ञानखड्ग रिपुक्लेशधर्षकः ।
शूरसूताभयस्य दायको दैशको हि जगतो भविष्यति ॥
धर्मनाव समुदानयत्य् अयं ज्ञानसागरपथे सुशिक्षितः ।
शान्तिरत्नवरद्वीपनायकः कर्णधार त्रिभवार्णवे ऽयम् ॥
ज्ञानरश्मिप्रणिधानमण्डलः सर्वसत्व भवनावभासकः ।
धर्मधातुगगने समुद्गतो बुद्धसूर्य समुदेश्यते ऽयम् ॥
मैत्रिचन्दनसमाधिशीतलः सर्वसत्वसम चित्तसुप्रभः ।
शुक्लधर्मपरिपूर्णमण्डलो बुद्धचन्द्र समुदेश्यते ऽयम् ॥
आशये दृढतले प्रतिष्ठितो बोधिचर्यानुपूर्वोद्गतः ।
सर्वधर्मरतनाकरो ह्य् अयं ज्ञानसारवरो भविष्यति ॥
बोधिचित्तभुजगेन्द्रसंभवो धर्मधातुगगने समुद्गतः ।
[ bendall ed p103 ---> ]
धर्ममेघयुगपत्प्रवर्षणः सर्वशुक्लफल शस्यवर्धनः ॥
शुद्धि वर्त्ति त्रिमलत्तमो ऽप्य् अहं मैत्रिस्नेह स्मृतिभाजनं दृढम् ।
बोधिचित्तविमलाग्निसुप्रभम् धर्मदीप समुज्ज्वालयिष्यति ॥
बोधिचित्तकललः कृपार्बुदो मैत्रपेशिर् अचलाशयो घनः ।
बोधि अङ्गम् अनुपूर्वसंभवो बुद्धगर्भायु संप्रवर्धते ॥
पुण्यगर्भम् अभिवर्द्धयिष्यति प्रज्ञगर्भम् अभिशोधयिष्यति ।
ज्ञानगर्भ समुदेश्यते ऽयं यादृशः प्रणिधिगर्भसंभवः ॥
ईदृशाः करुणमैत्रधर्मिताः सत्वमोचन मती हिताशयां ।
दुर्लभा जगि स्देवमानुषे यादृशो ऽयु विशुद्धमानसः ॥
ईदृशाशयसुमूलसंस्थितो ईदृशो दृढप्रयोगवर्द्धितः ।
ईदृशस् त्रिभवछादनप्रभो ज्ञानवृक्षफलदः सुदुर्लभः ॥
एष सर्वगुणसंभवार्थिकः सर्वधर्मपरिपृ-
[ cambridge ms f56b ---> ]
च्छनार्थिकः ।
सर्वसंशयविदारणार्थिकः सर्वमित्र भजते ऽतन्द्रितः ॥
[ bendall ed p104 ---> ]
एष मारकलिक्लेशसूदनो एष दृष्टिमलक्लेशशोधनः ।
एष सर्वजगमोक्षणोद्यतो एष ते सद विशेष पण्डितः ॥
एष दुर्गति विशोधयिष्यति स्वर्गमार्गम् उपदर्शयिष्यति ।
मोक्षमार्गम् उपनेष्यते जगद् यादृशे गुणपथे प्रतिष्ठितः ॥
एष सर्वतदुष्खमोचको ।
एष सर्वगतिसौख्यदायकः ।
एष सर्वभयपाशछेदको ।
भेष्यते भगवतीनिसूदन ।
इति ॥
एवम् अनया भावनयानर्थविवर्जनं सुकरं भवति ।
तथाध्याशयसञ्चोदनसूत्रे ऽप्य् अनर्थविवर्जनम् उक्तं ।
चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधिसत्वयानिकः पुद्गलः पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने ऽक्षतो ऽनुपहतः स्वस्तिना परिमोक्ष्यते ॥
कतमैश् चतुर्भिः ।
आत्मस्खलितप्रत्यवेक्षणतया ।
परेषां बोधिसत्वयानिकानां पुद्गलानाम् आपत्त्यचोदनतया ।
मित्रकुलभिक्षाद् अकुलानवलोकनतया ।
अमनस्कवचनप्रतिविरमणतया ।
एभिर् मैत्रेय चतुर्भिर् इति पूर्ववत् ॥
अपरैश् चतुर्भिः ।
कतमैः ।
अल्पश्रुतसत्वपरिवर्जनतया ।
पर्षदनुपादानतया ।
प्रान्तशय्यासननिषेवणतया च ।
आत्मदमशमथयोगम् अनुयुक्ततया च ।
एभिश् चतुर्भिर् इति विस्तरः ॥
पुनर् अत्राइवाह ।
आदिकर्मिकेण मैत्रेय बोधिसत्वेन प्रज्ञाबलाधानप्राप्तेन लाभसत्कारपरिवर्जितेन लाभसत्कारदोषदर्शिना भवितव्यं ॥
पे ॥
संगणिकारामपरिवर्जितेन संग-
[ bendall ed p105 ---> ]
णिकारामदोषदर्शिना भवितव्यं ।
भाष्यारामपरिवर्जितेन भाष्यारामदोषदर्शि-
[ cambridge ms f57a ---> ]
ना भवितव्यं ।
निद्रारामवर्जितेन निद्रारामदोषदर्शिना भवितव्यं ।
कर्मारामवर्जितेन कर्मारामदोषदर्शिना भवितव्यं ।
प्रपञ्चारामवर्जितेन प्रपञ्चारामदोषदर्शिना भवितव्यं ॥
पे ॥
इह मैत्रेय बोधिसत्वेन महासत्वेन रागसंजननो लाभसत्कारः प्रत्यवेक्षितव्यः ।
स्मृतिविध्वंसनकरो लाभसत्कारः प्रत्यवेक्षितव्यः ।
लाभालाभतयोन्नामावनामकरो लाभसत्कारः प्रत्यवेक्षितव्यः ।
मोहोत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः ।
कुलमात्सर्याध्यवसानो लाभसत्कारः प्रत्यवेक्षितव्यः ।
आत्मार्थनिष्पादनतया शाठ्योत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः ।
चतुरार्यवंशपरिवर्जनतयाह्रीक्यानपत्राप्यसंजननो लाभसत्कारः प्रत्यवेक्षितव्यः ।
एवं सर्वबुद्धाननुज्ञानो लाभसत्कारः प्रत्यवेक्षितव्यः ।
मानमदोत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः ।
गुरूणाम् अवमाननो लाभसत्कारः ।
मारपक्षो लाभसत्कारः ।
एकान्तप्रमादमूलः कुशलमूलापहरणो लाभसत्कारः ।
विद्युच्चक्राशनिसदृशो लाभसत्कारः ।
बहुपलिगोधपलिगुद्धो मित्रकुलभिक्षाद् अकुलावलोकनो दौर्मनस्यसंजननः ।
बुद्धिविभ्रामणो लाभसत्कारः प्रियवस्तुपरिणामनतया शोकभाजनो लाभसत्कारः ।चतुःस्मृत्युपस्थानसंमोषणः शुक्लधर्मदुर्बलीकरणः चतुःसम्यक्प्रहाणपरिहाणकरणो लाभसत्कारः ।
ऋद्ध्यभिज्ञापरिहाणकरणः ।
पूर्वं सत्कारपश्चाद् असत्कारकरणः ।
अमित्रसत्करणमित्रप्रहाणो लाभसत्कारः ।
पराभिसंधानतया गणिकासदृशः ।
ध्यन-
[ cambridge ms f57b ---> ]
अप्रमाणपरिवर्जनः ।
नरकतिर्यग्योनियमलोकप्रपातनो लाभसत्कारः ।
देवदत्तोद्रकसमाचारो लाभसत्कारः प्रत्यवेक्षितव्यः ॥
[ bendall ed p106 ---> ]
इमे एवंरूपा मैत्रेय लाभसत्कारे आदीनवा ये बोधिसत्वेन प्रत्यवेक्षितव्याः ।
प्रत्यवेक्ष्य चाल्पेच्छतायां रन्तव्यं न परितप्तव्यं ।
तत् कस्य हेतोः ।
अल्पेच्छस्य हि मैत्रेयेमए एवंरूपा दोषा न भवन्ति न चास्यान्तराया भवन्ति बुद्धधर्माणां ।
अनिर्विण्णश् च भवति गृहिप्रव्रजितेभ्यः ।
अनुरक्षणीयश् च भवति देवमनुष्याणां परिशुद्धाशयस्थितः ।
असंत्रस्तश् च भवति सर्वदुर्गतिनिपातेभ्यः ।
अनभिभूतश् च भवति तर्जनाविगतः ।
असंहार्यश् च भवति मारविषयविमुक्तः ।
अधर्षणीयश् च भवति सर्वव्यसनैः ।
अभिलषणीयश् च भवति देवमनुष्याणां ध्यानाभ्यासावस्थितः [[दोउब्त्]] ।
स्पष्टश् च भवति मायाशाठ्यप्रहीणो ऽप्रमत्तश् च भवति पञ्चकामगुणदोषदर्शी यथावादी तथाकारी भवत्य् आर्यवंशे स्थितः ।
अभिलषितश् च भवति विद्वद्भिः सब्रह्मचारिभिः ।
इमां मैत्रेयाइवंरूपाम् अनुशंसां विदित्वा पण्डितेन बोधिसत्वेनाध्याशयेनाल्पेच्छतायां रन्तव्यं ।
अल्पेच्छतासेवितव्या सर्वलाभसत्करप्रहाणायेति ॥
संगणिकाम् अधिकृत्याह ।
विजह्य रागं विजह्य दोषं न तिष्ठते संगणिकासु योगी ।
भवत्य् असौ तत्प्रवणस् तन्निम्नः ।
एतेन दोषेण रतिं न कुर्यात् ।
औद्धत्य हास्यं च तथा वितर्का ।
भवन्त्य् अमी संगणिकासु सर्वे ॥
संकीर्णचारी हि भवत्य् असंवृतः ।
करोति यः संगणिकाम् असाराम् ॥
लोकस्य मन्त्रेषु रमन्ति बाला ।
हीयन्ति चेहाग्रकथासु बालाः ।
[ bendall ed p107 ---> ]
प्रदोष वर्धेन्ति वितर्कोत्सदा ।
एतेन दोषेण न तत्र राजते ॥
न वर्धते चापि श्रुतेन भिक्षुः ।
अयुक्तमन्त्रेषु रतिं जनित्वा ।
तस्मात्
[ cambridge ms f57b ---> ]
परित्यज्यायुक्तमन्त्रान् ।
धर्मे रतिं विन्दथ नित्यकालम् ॥
सहस्रशो ऽष्ठानि मया स्वकानि ।
त्यक्तानि बोधिं प्रतिकाङ्क्ष तर्हि ।
न चास्मि तृप्तः शृणुमान धर्मं ।
ते खेदम् एष्यन्ति शृणोन्त धर्मम् ॥
सर्वेण सर्वं परिवर्जनीया ।
अयुक्तमन्त्राश् चाशिष्टमन्त्राः ।
धर्मे वरे तत्र रतिं जनेथ ।
यो दुर्लभः कल्पशतैर् अनेकैः ॥
वने वसन्तेन गुणार्थिकेन ।
परस्य दोषा न हि वीक्षितव्याः ।
अहं विशिष्टो ऽहम् एव श्रेष्ठो ।
नाइव चित्तं समुपादनीयम् ॥
[ bendall ed p108 ---> ]
मदो ऽयं सर्वप्रमादमूलो ।
न हीनभिक्षू अवमन्यितव्याः ।
अनुपूर्वाइषो इह शासनस्य ।
नाइकेन जन्मेन लभते बोधिम् ॥
अत्रेव भाष्यारामम् अधिकृत्याह ।
अगौरवो भोति श्रुतेन मत्तो ।
विवादमन्त्रेषु निविष्ट भोति ।
मुषितश्रुतिश् चापि असंप्रजन्यो ।
भाष्ये रमन्तस्य
[ cambridge ms f58b ---> ]
इमे हि दोषाः ॥
अध्यात्मचिन्तात्त [[दोउब्त्]] सुदूर भोती ।
चित्तं न कायश् च प्रसन्न भोति ।
उन्नामनामानि बहूनि गच्छती ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
सद्धर्मचित्तात् तु प्रणष्टु बालाः ।
सुकर्कशो भोति अस्निग्धचित्तः ।
विपश्यनायाः शमथाच् च दूरे ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
अगौरवो भोति सदा गुरूणां ।
[ bendall ed p109 ---> ]
पलिगोधमन्त्रेषु रतिं जनित्वा ।
असारस्थायी परिहीणप्रज्ञो ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
अमानितो देवगुणैः स भोति ।
नाप्य् अस्य तस्मिन् स्पृह संजनन्ति ।
प्रतिसंविदातो भवती विहीनो ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
परिभाष्यते चापि स पण्डितेभिः ।
ये कचिद् अस्ती पृथकायसाक्षी [[दोउब्त्]] ।
निरर्थकं जीवितु तस्य भोती ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
स शोचते कालु करोतु बालः ।
प्रतिपत्ति हीनो ऽस्मि किम् अद्य कुर्यां ।
सुदुष्खितो भोति अलब्धगाधो ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
चलाचलो भोति तृणं यथेरितं ।
विचिकित्सते एवम् असौ न संशयः ।
न तस्य जातू दृढ बुद्धि भोती ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
[ bendall ed p110 ---> ]
नटा यथा तिष्ठति रङ्गमध्ये ।
अन्यान शूराण गुणान् प्रभाषते ।
स्वयं च भोती प्रतिपत्तिहीनो ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
शठश् च सो भोति लघुनिराशः ।
पुनः पुनश् चारभते विवादम् ।
सो दूरतो आर्यधर्मस्य भोती ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
संहृष्यते सत्क्र्टाल्पस्थामः ।
प्रकम्पते विप्रकृतो ऽजानी ।
कपिर् यथा चञ्चलचित्त भोती ।
भाष्ये रमन्तस्येमे हि दोषाः ॥
पे ॥
रमित्व भाष्यस्मि चिरं पि कालं ।
न विन्दते प्रीतिम् इहात्मसौख्यं ।
वरं हि एकस्य पदस्य चिन्तना ।
प्रीतिं पदे यत्र लभेद् अनन्तम् ॥
नेक्षुत्वचे सारम् इहास्ति किञ्चिन् ।
मध्ये ऽस्ति तत्सार सुप्रेमणीयः ।
भुक्त्वा त्वचं नेह पुनः सशक्यं ।
लब्धुं नरेणेक्षुरसं प्रधानम् ॥
[ bendall ed p111 ---> ]
यथा त्वचं तद्वद् अवैहि भाष्यं ।
यथा रसस् तद्वद् इहार्थचिन्ता [[दोउब्त्]] ।
तस्माद् धि भाष्ये तु रतिं विहाय ।
चिन्तेथार्थं सदाप्रमत्ताः ॥
निद्रारामम् अधिकृत्याह ।
महच् च सो वर्धति मोहजालं ।
विचिकित्सको भोति स दृष्टिप्राप्तः ॥
दृष्टीकृतान्य् अस्य बहूनि भोन्ती ।
यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
प्रज्ञा च तेषां भवती सुदुर्बला ।
परिहीयते बुद्धि न तस्य भोति ।
ज्ञानाच् च सो हीयति नित्यकालं ।
यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
कुसीदाज्ञो ऽलसो ऽप्रज्ञो ऽमनुष्यावतार लभेन्ति तस्य ।
विहेठयन्ते च वने वसन्तं यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
कुशलेन चित्तेन सदानर्थिको ।
धर्मे च छन्दो न हि भोति तस्य ।
अधर्मकायश् च स भोति भूयो यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
सद्धर्मछन्देन विहीनमूढः परिहोयते सर्वगुणेहि बा-
[ cambridge ms f59a ---> ]
लः ।
शुक्लं च घातेति तमो ऽधिगच्छती ।
[ bendall ed p112 ---> ]
यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
अविशारदो भोति प्रलीनचित्तः ।
प्रामोद्य तस्यो भवती न नित्यं ।
निद्रयापग्रस्तः शिथिलाङ्ग भोती ।
यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
आत्मा तु ज्ञात्वा च कुसीदप्राप्तः ईर्ष्यायते वीर्यबलैर् उपेतान् ।
वीर्यान्वितानां चावर्ण भाषते यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
पे ॥
यत् सर्वदुष्खस्य तमस्य नाशनं ।
अपायपरिवर्जनतया मूलं ।
सर्वेहि बुद्धैर् हि सदा प्रशस्तं ।
तं वीर्यम् आर्यं सततं भजस्व ॥
कर्मारामम् अधिकृत्याह ॥
सुदुर्वचो भोति गुरूभि चोदितः ।
प्रदक्षिणं गृह्णति नानुशासनं ।
विपन्नशीलश् च स भोति क्षिप्रं ।
दोषामी कर्मरते भवन्ति ॥
उत्कण्ठितो भोति स नित्यकालं ।
गृहस्थकर्माणि सदा विचिन्तयन् ।
ध्यानप्रहाणैश् च न तस्य कृत्यं ।
दोषामी कर्मरते भवति ॥
तीव्रश् च संजायति तस्य रागो ।
रसारसेषु ग्रसितः स मूर्च्छितः ।
[ bendall ed p113 ---> ]
न तुष्यते ऽसाव् इतरेतरेण ।
दोषामी कर्मरते भवन्ति ॥
महत्या च भोती परिषाय तुष्ठो ।
स दुष्खितो भोति तया विहीनः ।
संकीर्ण भोती सयथेह गर्दभो ।
दोषामी कर्मरते भवन्ति ॥
पे ॥
दिवा च रात्रौ चानन्यचित्तो ।
भक्ते च चोडे च भवत्य् अभीक्ष्णं ।
स्वनर्थिको भोति गुणैः स सर्वदा ।
दोषामी कर्मरते भवन्ति ॥
कृत्यान्य् असौ पृच्छति लौकिकानि ।
अयुक्तमन्त्रैश् च रतिं प्रयाति ।
युक्तैश् च मन्त्रैः स न विन्दते रतिं ।
दोषामी कर्मरते भवन्ति ॥
पे ॥
अथ खलु मैत्रेयो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत् ।
सुपरीत्तप्रज्ञास् ते भगवन् बोधिसत्वा भविष्यन्ति विहीनप्रज्ञा ये ऽग्रधर्मान् वर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते ॥
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्वं महासत्वम् एतद् अवोचत् ।
एवम् एतन् मैत्रेय ।
एवम् एतद् यथा वदसि
[ cambridge ms f59b ---> ]
सुपरीत्तप्रज्ञास् ते बोधिसत्वा भविष्यन्ति ये ऽग्रधर्मान् परिवर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते ।
अपि त्व् आरोचयामि ते मैत्रेय प्रतिवेदयामि ते ।
न ते बोधिसत्वास् तथागत-
[ bendall ed p114 ---> ]
शासने प्रव्रजिता येषां नास्ति योगो नास्ति ध्यानं नास्ति प्रहाणं नास्त्य् अध्ययनं नास्ति बाहुश्रुत्यपर्येष्टिः ।
अपि तु मैत्रेय ध्यानप्रहाणप्रभावितं तथागतशासनं ज्ञानसंस्कृतं ज्ञानसमाहितं अभियोगप्रभावितं ।
न गृहिकर्मान्तवैयापृत्यप्रभावितं ।
अयुक्तयोगानाम् एतत् कर्म संसाराभिरतानां यद् उत वैयापृत्यं लौकिककृत्यपलिगोधः ।
न तत्र बोधिसत्वेन स्पृहोत्पादयितव्या ।
सचेन् मैत्रेय वैयापृत्याभिरतो बोधिसत्वः सप्तरत्नमयैः स्तूपैर् इमं त्रिसाहस्रमहासाहस्रं लोकधातुं पूरयेत् ।
नाहं तेनाराधितो भवेयं न मानितो नापि सत्कृतः ॥
पे ।
तत्र जम्बूद्वीपः पूरितः स्याद् वैयापृत्यकरैर् बोधिसत्वैः ।
सर्वैस् तैर् एकस्योद्देशस्वाध्यायाभियुक्तस्य बोधिसत्वस्योपस्थानपरिचर्या करणीया ।
जम्बूद्वीपप्रमाणैश् चोद्देशस्वाध्यायाभियुक्तैर् बोधिसत्वैर् एकस्य प्रतिसंलयनाभियुक्तस्य बोधिसत्वस्योपस्थानपरिचर्या कर्तव्या ॥
पे ॥
तत् कस्य हेतोः ।
दुष्करम् एतत् कर्म यद् उत प्रज्ञाकर्म ।
उत्तरं निरुत्तरं सर्वत्रैलोक्यप्रतिविशिष्टम् अभ्युद्गतं तस्मात् तर्हि मैत्रेय बोधिसत्वेन योगार्थिकेन वीर्यम् आरब्धुकामेन प्रज्ञायाम् अभियोक्तव्यम् इति ॥
प्रपञ्चारामम् अधिकृत्याह ।
अष्टाक्षणा तस्य न भोन्ति दूरे ।
क्षणसंपदा तस्य न भोति श्रेष्ठा ।
एते ऽनर्था स्य भवन्ति नित्यं ।
दोषामी तस्य प्रपञ्चचारिणः ॥
पे ॥
दोषान् इमान् सम्यग् अवेत्य पण्डितः सर्वान् प्रपञ्चान् परिवर्जीत ।
सुलभानर्था हि प्रप-
[ cambridge ms f60a ---> ]
ञ्चचारिणः ।
तस्मात् प्रपञ्चेन न संवसेत ॥
[ bendall ed p115 ---> ]
यायाच् छतं योजनकं परं वरं ।
यत्र प्रपञ्चो स्तिय विग्रहो वा ।
न तत्र वासं न निकेतु कुर्यान् मुहूर्त्तमात्रं स्तिय यत्र क्लेशः ॥
नार्थार्थिकाः प्रव्रजिता गुणार्थिका ।
मा विग्रह कुर्वथ दुस्तचित्ताः ।
न वो ऽस्ति क्षेत्रं न कृषिर् वणिज्या ।
स्युर् यस्यार्थाय प्रपञ्चाइते ॥
न पुत्र धीता न च वो ऽस्ति भार्या ।
न चास्य मित्रं न च बन्धुवर्गः ।
दास्यो न दासा न चेश्वरत्वं ।
मा विग्रहं कुर्वथ प्रव्रजित्वा ॥
काषायवस्त्राणि गृहीत्व श्रद्धया ।
शान्तप्रशान्तैर् हि निषेवितानि ।
शान्तप्रशान्तोपशान्त भोथ ।
प्रपञ्च वर्जित्व जनेथ क्षान्तिम् ॥
आशीविषान् रक्षथ रौद्रचित्तान् ।
नरकाश् च तिर्यग् विषयो यमस्य ।
प्रपञ्चचारस्य न भोन्ति दूरे ।
तस्माद् धि क्षान्तौ जनयेत वीर्यम् ॥
पे ॥
इमेन योगेन लभेत शुद्धिं ।
क्षपयित्व कर्मावरणं अशेषं ।
धर्षेति मारं सचलं सवाहनं यो धीरु तस्याइव जनेति क्षान्तिम् ।
इति ॥
[ bendall ed p116 ---> ]
संक्षेपतस् तत्रानर्थविवर्जनम् उक्तं ।
तस्मात् तर्हि मैत्रेय बोधिसत्वयानिकेन कुलपुत्रेण वा कुलदुहित्रा वा पश्चिमायां पञ्चशत्यां सद्धर्मप्रलोपे वर्तमाने ऽक्षतनानुपहतेन स्वस्तिना परिमोक्तुकामेन सर्वकर्मावरणानि क्षपयितुकामेनासंसर्गाभिरतेन भवितव्यम् अरण्यवनप्रान्तवासिनानभियुक्तसत्व परिवर्जितेनात्मस्खलितगवेषिणा परस्खलितागवेषिणा तुष्णीभावाभिरतेन प्रज्ञापारमिताविहाराभिरतेनेति ॥
आर्यरत्नमेघे ऽप्य् अनर्थवर्जनम् उक्तं ।
तावत् पिण्डाय चरति यावद् अस्य कार्यस्य प्राप्तिर् भवति ।
अन्यत्र येषु स्थानेषु चण्डा वा कुक्कुरास् तरुणवत्सा वा गावः प्रकृतिदुःशीला वा तिर्यग्योनिगता ।
विहेठनाभिप्राया वा स्त्रीपुरुषदारकदारिका जुगुप्सि-
[ cambridge ms f60b ---> ]
तानि वा स्थानानि ।
तानि सर्वेण सर्वं वर्जयतीति ॥
अनेनाइतद् दर्शितं भवति यद् दृष्टे ऽपि बाधाकराइवंविधे ।
तद् अवर्जयतापत्तिर् भवतीति ॥
अथ यद् एवमाद्य् अनर्थवर्जनम् उक्तं केनाइतल् लभ्यते सर्वनिष्फलस्यन्दवर्जनात् ।
फलम् अत्र परार्थं ।
तदर्थं यः स्यन्दो न संवर्तते ।
स निष्फलत्वाद् वर्जयितव्यः ॥यथा चन्द्रप्रदीपसूत्रे कायसंवरमध्ये पठ्यते ।
न हस्तलोलुपो भवति न पादलोलुपः हस्तपादसंयतेति ॥
तथा दशधर्मकसूत्रे ऽपि देशितं हस्तविक्षेपः पादविक्षेपो ऽधावनं परिधावनं लङ्घनं प्लवनम् इदम् उच्यते कायदौष्ठुल्यम् इति ॥
[ bendall ed p117 ---> ]
आर्यधर्मसंगीतिसूत्रे तु यथा बोधिसत्वानां परार्थाद् अन्यत् कर्म न कल्पते ।
तथा स्पष्टम् एव परिदीपितं यत् किञ्चिद् भगवन् बोधिसत्वानां कायकर्म यत् किञ्चिद् वाक्कर्म यत् किञ्चिन् मनस्कर्म तत् सर्वं सत्वावेक्षितं प्रवर्तते महाकरुणाधिपतेयं सत्वहिताधिष्ठाननिमित्तं सर्वसत्वहितसुखाध्याशयप्रवृत्तं ।
साइवं हिताशयः एवं संज्ञीभवति ।
स मया प्रतिपत्तिः प्रतिपत्तव्यया सर्वसत्वानां हितावहा सुखावहा च ॥
पे ॥
आयतनेषु शून्यग्रामवत् प्रत्यवेक्षणा प्रतिपत्तिः ।
न चायतनपरित्यागं स्पृहयतीति ॥
आर्यगगनगञ्जसूत्रे ऽप्य् उक्तं ।
तद् यथापि नाम छिद्रान् मारुतः प्रविशति ।
एवम् एव यतो यताइव चित्तस्य छिद्रं भवति ततस् तताइव मारो ऽवतारं लभते ।
तस्मात् सदाछिद्रचित्तेन बोधिसत्वेन भवितव्यं ।तत्रेयम् अछिद्रचित्तता यद् इदं सर्वाकारज्ञतायाः शून्यतायाः परिपूरिर् इति ॥
का पुनर् इयं सर्वाकारवरोपेता शून्यता ।
येयं बोधिसत्वचर्यायापरित्यागेनाभ्यस्यमाना ।
अभ्यस्ता वा ।
सर्वभावशून्यता ।
एषा च रत्नचूडसूत्रे विस्तरेणाख्याता ॥
तथाक्षयमतिसूत्रे ऽपि दर्शितं ।
पापका-
[ cambridge ms f61a ---> ]
नाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयतीत्य् अत्र प्रस्तावे यानि चान्यानि पुनः कानिचिद् अन्यान्य् अपि चित्तविक्षेपकराणि यानि समाधिस्कन्धस्य विपक्षाय संवर्तन्ते ।
अयम् उच्यते समाधिविपक्षः ।
यावद् इमे उच्यन्ते पापकाकुशला धर्मेति ॥
शिक्षासमुच्चये शीलपारमितायाम् अनर्थविवर्जनं पञ्चमः परिच्छेदः ॥
आत्मभावरक्षा षष्ठः परिच्छेदः ।
उक्तं निष्फलस्यन्दवर्जनं ।
कथम् एतत् सिध्येद् इत्य् आह ।
एतत् सिध्येत् सदा स्मृत्येति ॥
द्वादशेमाः स्मृतयो निष्फलस्यन्दवर्जनया संवर्तन्ते ।
यद् उत ।
तथागताज्ञानतिक्रमानुपालनविपाकगौरवस्मृतिः ।
सर्वकायस्य निश्चलस्वभावताप्रतिष्ठिततानुस्मृतिः ।
सति सत्वार्थे यद् अङ्गम् अनुपयोगि तद् दृढतरस्मृत्यपेक्षानिश्चलमाध्यछन्दपरापत्तीकृतं सर्वधीरचेष्टास्मृतिः ।
न चास्य भयोत्सवादिसंबन्धसंभ्रमे ऽङ्गमुक्तस्मृतिः ।
ईर्यापथचतुष्काक्षेपनिरूपणस्मृतिः ।
अन्तरान्तरा चेर्यापथविकोपारक्षणार्थम् ईर्यापथसंपदवलोकनस्मृतिः ।
भाषणकाले चातिप्रसादाउद्धत्यसंरम्भ पक्षपातादिवशाद् अतिमात्राप्रासादिकहस्तपादशिरोमुखविकारनियमनस्मृतिः ।
यः श्रोता वक्तव्यः स यावन्मात्रेण ध्वनिनार्थं जानाति ।
तदनतिरेकेण स्वरेण भाषणस्मृतिर् अन्यत्र पराशङ्कादोषसंभवात् ।
अशिक्षितजनसमागमसङ्कटे स्वचित्ततच्चित्तप्रसादनादितात्पर्यस्मृतिः ।
चित्तमत्तद्विपस्य शमथस्तम्भे नित्यबद्धस्मृतिः ।
मुहुर् मुहुश् च चित्तावस्थाप्रत्यवेक्षणास्मृतिः ।
महाजनसंपातं प्रायो ऽन्यकार्यत्यागेनापि यथोक्तस्मृतिरक्षातात्पर्यस्मृतिर् इति ॥
[ bendall ed p119 ---> ]
एवम् एताभिः स्मृतिभिर् निष्फलस्यन्दनवर्जनं सिध्यति ।
सा च स्मृतिस् तीव्रादराद् भवेत् ।
तत्रादरः कार्येषु
[ cambridge ms f61b ---> ]
सर्वभावेनाभिमुख्यम् ।
अवज्ञाप्रतिपक्षः ।
अयं चादरः शमथमाहात्म्यं ज्ञात्वा तात्पर्येण जायते ।
कस् तावद् अयं शमो नाम ।
यार्याक्षयमतिसूत्रे शमथोक्तः ॥
तत्र कतमा शमथाक्षयता ।
या चित्तस्य शान्तिर् उपशान्तिर् अविक्षेपकेन्द्रियसंयमः ।
अनुद्धतता ।
अनुन्नहनताचपलताचञ्चलता सौम्यता गुप्तता कर्मण्यताजानेयताइकाग्रताइकारामता संगणिकावर्जनता विवेकरतिः कायविवेकश् चित्ताविभ्रमो ऽरण्यमुखमनसिकारताल्पेच्छता ।
यावद् ईर्यापथगुप्तिः कालज्ञता समयज्ञता मात्रज्ञता मुक्तिज्ञता ।
सुभरता सुपोषतेत्यादि ॥
किं पुनर् अस्य शमस्य माहात्म्यं यथाभूतज्ञानजननशक्तिः ।
यस्मात् समाहितो यथाभूतं प्रजानातीत्य् अवदन् मुनिः ॥
यथोक्तं धर्मसंगीतौ ।
समाहितमनसो यथाभूतदर्शनं भवति ।
यथाभूतदर्शिनो बोधिसत्वस्य सत्वेषु महाकरुणा प्रवर्तते ।
एवं चास्य भवति ।
इदं मया समाधिमुखं सर्वधर्मयथाभूतदर्शनं च सर्वसत्वानां निष्पादयितव्यं ।
स तया महाकरुणया संचोद्यमानो ऽधिशीलम् अधिचित्तम् अधिप्रज्ञं च शिक्षां परिपूर्यां चतुरां सम्यक्संबोधिम् अभिसंबुध्यते ।
तस्मान् मया शीलसुस्थितनाप्रकम्पेनाशिथिलेन भवितव्यम् इति ।
इदं शमथमाहात्म्यम् आत्मनः परेषां चानन्तापायादिदुःखसमतिक्रमानन्त लौकिकलोकोत्तरसुखसंपत्प्रकर्षपारप्राप्त्यात्मकम् अवगम्य तदभिलाषेणातापो भावयितव्यः ।
आदीप्तगृहान्तगतेनेव शीतलजलाभिलाषिणा ।
तेन तीव्रादरो भवति शिक्षासु ।
तेनापि स्मृतिर् उपतिष्ठति ।
उपस्थितस्मृतिर् निष्फलं वर्जयति ।
[ bendall ed p120 ---> ]
यश् च निष्फलं वर्जयति तस्यानर्था न संभव-
[ cambridge ms f62a ---> ]
न्ति ।
तस्माद् आत्मभावं रक्षितुकामेन स्मृतिमूलम् अन्विष्य नित्यम् उपस्थितस्मृतिना भवितव्यं ॥
अताइवोग्रपरिपृच्छायां गृहिणं बोधिसत्वम् अधिकृत्योक्तं ।
सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतेन भवितव्यम् अमत्तेनानुन्मत्तेनाचपलेनाचञ्चलेनासंभ्रान्तेनामुखरेणानुन्नडेनानुद्धतेनोपस्थितिस्मृतिसंप्रजन्येनेति ॥
अत्राइव च प्रव्रजितबोधिसत्वम् अधिकृत्योक्तं स्मृतिसंप्रजन्यस्याविक्षेपेति ॥
तत्र स्मृतिः आर्यरत्नचूडसूत्रे ऽभिहिता ।
यया स्मृत्या सर्वक्लेशानां प्रादुर्भावो न भवति ।
यया स्मृत्या सर्वमारकर्मणाम् अवतारं न ददाति ।
यया स्मृत्योत्पथे वा कुमार्गे वा न पतति ।
यया स्मृत्या दौवारिकभूतया सर्वेषाम् अकुशलानां चित्तचैतसिकानां धर्माणाम् अवकाशं ददातीयम् उच्यते सम्यक्स्मृतिर् इति ॥
संप्रजन्यं तु प्रज्ञापारमितायाम् उक्तं ।
चरंश् चरामीति प्रजान्-ति ।
स्थितः स्थितो ऽस्मीति प्रजानाति ।
शयनः शयितेति प्रजानाति ।
निषण्णो निषण्णो ऽस्मीति प्रजानाति ।
यथा यथा चास्यः [[दोउब्त्]] कायः स्थितो भवति तथा तथाइव प्रजानाति ॥
पे॥
सो ऽतिक्रामन् वा प्रतिक्रामन् वा संप्रजानंश् चारी भवति ।
आलोकिते विलोकिते संमिञ्जिते प्रसारिते संघाटीपट्टपात्रचीवरधारणे ।
अशिते पीते खादिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तुष्णीभावे प्रतिसंलयने संप्रजानंश् चारी भवतीति ॥
[ bendall ed p121 ---> ]
शीलं हि समाधिसंवर्तनीयं ॥
यथोक्तं चन्द्रप्रदीपसूत्रे ।
क्षिप्रं समाधिं लभते निरङ्गणं ।
विशुद्धशीले ऽस्मिन्न् आनुशंसेति ॥
अतो ऽवगम्यते ये केचित् समाधिहेतवः प्रयोगास् ते शीलान्तर्गतेति ।
तस्मात् समाध्यर्थि-
[ cambridge ms f62b ---> ]
ना स्मृतिसंप्रजन्यशीलेन भवितव्यं ।
तथा शीलार्थिनापि समाधौ यत्नः कार्यः तत्राइव सूत्रे वचनात् ।
ध्यानानुशंसेषु हि पठ्यते ।
नासौ भोति अनाचारो आचारो सुप्रतिष्ठितः ।
गोचरे चरते योगी विवर्जेति अगोचरं ॥
निष्परिदाहविहारी गुप्तेन्द्रियसंवृत ।
इति ॥
एताभ्यां च शीलसमाधिभ्याम् अन्योन्यसंवर्धनकराभ्यां चित्तकर्मपरिनिष्पत्तिः एतावती चेयं बोधिसत्वशिक्षा यद् उत चित्तपरिकर्म ।
एतन्मूलत्वात् सर्वसत्वार्थानां ॥
उक्तं ह्य् आर्यरत्नमेघे ।
चित्तपूर्वङ्गमाश् च सर्वधर्माः ।
चित्ते परिज्ञाते सर्वधर्माः परिज्ञाता भवन्ति ।
अपि तु
चित्तेन नीयते लोकः चित्तं चित्तं न पश्यति ।
चित्तेन चीयते कर्म शुभं वा यदि वाशुभम् ॥
चित्तं भ्रमते ऽलातवत् ।
चित्तं भ्रमते तुरङ्गवत् ।
चित्तं दहते देवाग्निवत् ।
[ bendall ed p122 ---> ]
चित्तं हरते महाम्बुवत् ॥
साइवं व्युपपरीक्षमाणश् चित्ते सूपस्थितस्मृतिर् विहरति न चित्तस्य वशं गच्छति ।
अप् तु चित्तम् एवास्य वशं गच्छति । चित्तेनास्य वशीभूतेन सर्वधर्मा वशीभवन्तीति ॥
तथार्यधर्मसङ्गीतिसूत्रे ऽप्य् उक्तं ।
मतिविक्रमो बोधिसत्वाह ।
यो ऽयं धर्मो धर्मेत्य् उच्यते नायं धर्मो देशस्थो*न प्रदेशस्थो ऽन्यत्र स्वचित्ताधीनो धर्मः तस्मान् मया स्वचित्तं स्वाराधितं स्वधिष्ठितं सुसमारब्धं सुनिगृहीतं कर्तव्यं ।
तत् कस्य हेतोः ।
यत्र चित्तं तत्र गुणदोषाः ।
नास्ति निश्चित्ततायां गुणदोषः ।
तत्र बोधिसत्वो*दोषेभ्यश् चित्तं निवार्य गुणेषु प्रवर्तयति ॥
तद् उच्यते ।
चित्ताधीनो*धर्मो धर्माधीना बोधिर् इति ॥
अयं भगवन् धर्मं समादानः सुखाभिसंबोधाय संवर्ततए इति ॥
आर्यगण्डव्यूहसूत्रे ऽपि वर्णितं ।
स्वचित्ताधिष्ठानं सर्वबोधिसत्वचर्या
[ cambridge ms f63a ---> ]
स्वचित्ताधिष्ठानं सर्वसत्वपरिपाकविनयः ॥
पे ॥
तस्य मम कुलपुत्राइवं भवति ।
स्वचित्तम् एवोपस्तम्भयितव्यं सर्वकुशलमूलैः ।
स्वचित्तम् एवाभिष्यन्दयितव्यं धर्ममेघैः ।
स्वचित्तम् एव परिशोधयितव्यम् आवरणाय धर्मेभ्यः ।
स्वचित्तम् एव दृढीकर्तव्यं वीर्येणेत्य् आदि ॥
तथात्राइव मायादेव्य्-अदर्शनाकुलीभूते आर्यसुधने रत्ननेत्राया नगरदेवतायास् तद्दर्शनार्थम् इयम् अनुशासनी ।
चित्तनगरपरिपालनकुशलेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरत्य्-
[ bendall ed p123 ---> ]
असंवसनतया ।
चित्तनगरालंकारप्रयुक्तेन ते कुलपुत्र भवितव्यं दशतथागतबलाध्यालम्बनतया ।
चित्तनगरपरिशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यम् ईर्ष्यामात्सर्यशाठ्यापनयनतया ।
चित्तनगरविवर्धनाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारमहावीर्यवेगविवर्धनतया ।
चित्तनगरदुर्योधनदुरासदताभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वक्लेशमारकायिकपापमित्रमारचक्रानवमर्दनतया ।
चित्तनगरप्रविस्तरणप्रयुक्तेन ते कुलपुत्र भवितव्यं महामैत्रीसर्वजगत्स्फुरणतया ।
चित्तनगरप्रतिच्छादनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलधर्मच्छत्रसर्वाकुशल धर्मप्रतिपक्षाभिनिर्हरणतया ।
चित्तनगरविवरणप्रयुक्तेन ते कुलपुत्र भवितव्यं आध्यात्मिकबाह्यवस्तु सर्वजगत्संप्रापणतया ।
चित्तनगरदृढस्थामाभिनिर्हरप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वाकुशलधर्मस्व सन्तत्यवसनतया ।
यावद् एवं चित्तनगरविशुद्ध्यभियुक्तेन कुलपुत्र बोधिसत्वेन शक्यं सर्वकुशलमूल समार्जनम् अनुप्राप्तुं ।
तत् कस्य हेतोः ।
तथा हि तस्य बोधिसत्वस्याइवं चित्तनगर-
[ cambridge ms f63b ---> ]
परिशुद्धय्स सर्वावरणानि पुरतो न संतिष्ठन्ते ।
बुद्धदर्शनावरणं वा धर्मश्रवणावरणं वेत्य् आदि ।
तस्माद् व्यवस्थितम् एवं ।
चित्तपरिकर्माइव बोधिसत्वशिक्षेति ।
तच् चाचपलचेतसः ॥
शमाच् च न चलेच् चित्तं बाह्यचेष्टानिवर्तनात् ॥
असंप्रजन्यपरतन्त्रस्य मुषितस्मृतेश् च चित्तं चलति समीहिताद् आलम्बनाद् अन्यत्र नीयमानत्वात् ।
यदा तु स्मृतिसंप्रजन्येन बाह्याश् चेष्टा*निवर्ति-
[ bendall ed p124 ---> ]
ता भवन्ति तदा तद्वशत्वाद् एकस्मिन्न् आलम्बने निबद्धं यावद् इष्यते तावत् तिष्ठति ।
ततश् च पूर्ववद् अनुशंसविस्तरः ।
अद्यत्वे ऽपि च सत्वार्थक्षमो भवत्य् एव प्रसादकरत्वात् ।
कथं ॥
सर्वत्राचपलमन्दमितस्निग्धाभिभाषणात् ।
आवर्जयेज् जनं भव्यम् आदेयश् चापि जायते ॥
एतद् एव च बोधिसत्वस्य कृत्यम् यद् उत सत्वावर्जनं ।
यथार्यधर्मसंगीतिसूत्रे ।
आर्यप्रियदर्शेन बोधिसत्वेन परिदीपितं ।
तथा तथा भगवन् बोधिसत्वेन प्रतिपत्तव्यं यत् सहदर्शनेनाइव सत्वाः प्रसीदेयुः ।
तत् कस्माद् धेतोः ।
न भगवन् बोधिसत्वस्यान्यत् करणीयम् अस्त्य् अन्यत्र सत्वावर्जनात् ।
सत्वपरिपाकाइवेयं भगवन् बोधिसत्वस्य धर्मसंगीतिर् इति ॥
एवं पुनर् अक्रियमाणे को दोषेत्य् आह ।
अनादेयं तु तं लोकः परिभूय जिनाङ्कुरं ।
भस्मछन्नो यथा वह्निः पच्येत नरकादिषु ॥
यथा प्राग् उपदर्शितं ॥
येन चास्य परिभवाइवम् अनर्थो रत्नमेघे जिनेनोक्तस् तेन संक्षेपसंवरः ।येनाप्रसादः सत्वानां तद् यत्नेन विवर्जयेद् इति ॥
यथाह ।
कतमे च ते बोधिसत्वसमुदाचाराः ।
यावद् इह बोधिसत्वो नास्थाने विहरति नाकाले ।
नाकालभाणी भवति नाकालज्ञो भवति नादेशज्ञो भवति ।
यतो निदानम् अस्यान्तिके सत्वाप्रसादं प्रतिवेदयेयुः ।
स सर्वसत्वानुरक्षया ।
[ cambridge ms f64a ---> ]
आत्मनश् च बोधिसंभारपरिपूरणार्थं*संपन्नेर्यापथो भवति मृदुभाणी मन्दभाणी ।
असंसर्गबहुलः ।
प्रविवेकाभिमुखः ।
सुप्रसन्नमुखेति ॥
[ bendall ed p125 ---> ]
अताइव धर्मसंगीतिसूत्रे देशितं ।
यः सत्वान् रक्षति स शीलं रक्षतीति ।
अनया कनीयेन मातृग्रामेण सह रहोअवस्थादिषु लोकरक्षा च कृता स्यात् ।
एवं भोग्येषु जलस्थलेषु मूत्रपुरीषश्लेष्मपूयादीनां कुत्सितानां रहस्य् अरहसि चोत्सर्गं न कुर्याद् देवमनुष्यचित्तरक्षार्थं ॥
सद्धर्मस्मृत्युपस्थाने च रहोत्सिष्टं कृत्वानुत्सिष्टाहारेष्व् अददतः प्रेतगतिः पठ्यते ॥
तथा बोधिसत्वप्रातिमोक्षे ऽप्य् अप्रसादपरिहारोक्तः ।
न पुरतो दन्तकाष्ठं खादितव्यं न पुरतः खेटे निक्षिप्तव्येति ।
एष च गौरवलज्जाविधिः सर्वद्रष्टव्यो न ब्रह्मचारिष्व् एव ।
अत्र तु सूत्रे ब्रह्मचार्य्-अधिकारः तेषु गुरुतरापत्तिभयसंदर्शनार्थं ॥
यथात्राइवाह ।
नोच्चैर्भाषिणा भवितव्यम् इति ॥
न चायं विधिः प्रादेशिकः ।
तथा ब्रह्मपरिपृच्छायाम् अप्य् उक्तं न च वधसदृशेन बोधिसत्वेन भवितव्यम् इति ।
तथा प्रातिमोक्षाद् अपि लोकाप्रसादकरम् अन्वेष्य वर्जनीयं ।
तन् न तावद् ॥
मुखपूरं न भुञ्जीत सशब्दं प्रसृताननः ।
प्रलम्बपादं नासीत न बाहुं मर्दयेत् समम् ॥
एवं स्वयम् अप्य् उत्प्रेक्ष्य दृष्ट्वा श्रुत्वा च लोकाप्रसादं रक्षेत ।
अप्रसादकरवचनवर्जनं तु न सुकरम् इति स्मरणबोधनार्थम् उपदर्श्यते ।
[ bendall ed p126 ---> ]
आर्यसागरमतिसूत्रे देशितं ।
नावलीनवचनो भवति ।
न व्यवकीर्णवचनः ।
नावस्यन्दनवचनः ।
नोज्ज्वालनवचनः ।
न रागानुनीतवचनः ।
न प्राकृतवचनः ।
नासंरक्षितवचनः ।
न व्यापादसंधुक्षणवचनः ।
न चञ्चलवचनः ।
न चपलवचनः ।
न रटरङ्ग-
[ cambridge ms f64b ---> ]
वचनः ।
न मुखसाक्ष्य्-अवरोपणवचनो भवतीति ॥
आर्यतथागतगुह्यसूत्रे ऽप्य् आह ।
न खलु पुनः कुलपुत्र बोधिसत्वस्य वाग् रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा ।
क्षुण्णव्याकरणा वा स्वपक्षोत्कर्षणवचना वा ।
परपक्षनिग्रहवचना वा ।
आत्मवर्णानुनयवचना वा ।
परवर्णप्रतिघवचना वा ।
प्रतिज्ञोत्तारणवचना वा ।
आभिमानिकव्याकरणवचना वेति ॥
आर्यदशभूमकसूत्रे ऽप्य् उक्तं ।
येयं वागमनोज्ञा स्वसन्तानपरसन्तानविनाशनी तथारूपां वाचं प्रहाय ।
येयं वाक् स्निग्धा मृद्वी मनोज्ञा मधुरा प्रियकरणी मनापकरणी [[दोउब्त्]] हितकरणी कर्णसुखा हृदयंगमा प्रेमणी वर्णविष्पष्टा विज्ञेया श्रवणीयानिश्रिता बहुजनकान्ता बहुजनप्रिया बहुजनमनापा [[दोउब्त्]] विज्ञप्रशस्ता सर्वसत्वहितसुखावहा मनोत्प्लावकरी मनःप्रह्लादनकरी स्वपरसन्तानप्रमोदनकरी रागद्वेषमोहसर्वक्लेशाप्रशामनी तथारूपां वाचं निश्चारयति ।
यावद् इतिहासपूर्वकम् अपि वचनं परिहार्य परिहरतीति ॥
आर्यगगनगञ्जसूत्रे तूक्तं ।
गुरुवचनानवमर्दनतया ।
परवचनानाच्छिन्दनतया चादेयग्राह्यवचनो भवतीति ॥
[ bendall ed p127 ---> ]
धर्मसंगीतिसूत्रे ऽप्य् उक्तं ।
गगनगञ्जो बोधिसत्वाह ।
न बोधिसत्वेनाइषा वाग् भाषितव्या ययापरो व्यापद्येत ।
न सा वाग् भाषितव्या ययापरं तापयेत् ।
न बोधिसत्वेन सा वाग् भाषितव्या यत् परो जानीयात् ।
न सा वाग् भाषितव्या ययार्था निरर्था ।
न बोधिसत्वेन सा वाग् भाषितव्या यया न विद्याम् उत्पादयेत् ।
न सा वाग् भाषितव्या या सत्वानां न हृदयंगमा न पौरी न कर्णसुखा
[ cambridge ms f65a ---> ]
न सा वाग् भाषितव्येति ॥
संक्षेपतस् तु पराप्रसादरक्षार्यसागरमतिसूत्रे देशिता ।
अपराइक धर्मो*महायानसंग्रहाय संवर्तते स्वस्खलितप्रत्यवेक्षणतया सर्वसत्वानुरक्षेति ॥
एषा रक्षात्मभावस्य ।
यथापरैर् न नाश्येत ।
यथा न परान् न नाशयेत् ।
अस्य तु ग्रन्थविस्तरस्यायं पिण्डार्थो बोधिसत्वेन मनसा नित्यं धारयितव्यः ॥
सुनिश्चलं सुप्रसन्नं धीरं सादरगौरवं ।
सलज्जं सभयं शान्तं पराराधनतत्परम् ॥
आत्मसत्ववशं नित्यम् अनवद्येषु वस्तुषु ।
निर्माणम् इव निर्मानं धारयाम्य् एष मानसम् ।
इति ॥
किम् एतावती आत्मभावरक्षा ।
न हि ।
किं तर्हि भैषज्यवसनादिभिः सह ।
तत्र द्विविधं भैषज्यं ।
सततभैषज्यं ग्लानप्रत्ययभैषज्यं च ।
तत्र सततभैषज्यम् अधिकृत्यार्यरत्नमेघे ऽभिहितं ।
तस्मात् पिण्डपात्राद् एकं प्रत्यंशं सब्रह्मचारिणां स्थापयति ।
द्वितीयं दुष्खितानां तृतीयं विनिपतितानां चतुर्थम् आत्मना परिभुङ्क्ते ।
परिभुञ्जानो न रक्तः परिभुङ्क्ते ऽसक्तो ऽगृद्धो ऽनध्यवसितः ।
अन्यत्र यावद् एव कायस्य स्थितये ।
यापनायै ।
तथा परिभुङ्क्ते यथा नातिसंलिखितो भवति ।
नातिगुरुकायः ।
[ bendall ed p128 ---> ]
तत् कस्य हेतोः ।
अतिसंलिखितो हि कुशलपक्षपराङ्मुखो भवति ।
अतिगुरुकायो मिद्धावष्टब्धो भवति ।
तेन तं पिण्डपातं परिभुज्य कुशलपक्षाभिमुखेन भवितव्यम् इत्य् आदि ॥
आर्यरत्नराशाव् अप्य् उक्तं ।
तेन ग्रामं वा नगरं वा निगमं वा पिण्डाय चरता धर्मसंनाहं संनह्य पिण्डाय चर्तव्यं ।
तत्र कतमो धर्मसंनाहः ।
अमनापानि [[दोउब्त्]] रूपाणि दृष्ट्वा न प्रतिहन्तव्यं ।
मनापानि [[दोउब्त्]] दृष्ट्वा नानुनेतव्यं ।
एवं मनापामनापेषु [[दोउब्त्]] शब्दगन्धरसस्प्रष्टव्येषु विज्ञप्तेषु नानु-
[ cambridge ms f65b ---> ]
नेतव्यं न प्रतिहन्तव्यं ।
इन्द्रियसुसंवृतेनानुत्क्षिप्तचक्षुषा युगमात्रप्रेक्षिणा ।
दान्ताजानेयचित्तेन पूर्वधर्ममनसिकारम् अनुत्सृजता नामिषप्रक्षिप्तया सन्तत्या पिण्डाय चर्तव्यं सावदानचारिणा च भवितव्यं ।
यतश् च पिण्डपातो लभ्यते तत्रानुनयो न कर्तव्यः यतश् च न लभ्यते तत्र प्रतिघातो*नोत्पादयितव्यः ।
दशकुलप्रवेशे न चाइकादशात् कुलाद् भिक्षा न लभ्यते ।
तथापि न परितप्तव्यं एवं च चित्तम् उत्पादयितव्यम् ।
एवं बहुकृत्या ह्य् एते श्रमणब्राह्मणगृहपतयो न तैर् अवश्यं मम दातव्यं ।
इदं तावद् आश्चर्यं यन् माम् एते समन्वाहरन्ति ।
कः पुनर् वादो यद् भिक्षां दास्यन्ति ।
तेनाइवम् अपरितपता पिण्डाय चर्तव्यं ॥
ये चास्य सत्वाश् चक्षुषु आभासम् आगच्छन्ति स्त्रीपुरुषदारकदारिकाः ।
अन्तशस् तिर्यग्योनिगतास् तत्र मैत्रीकरुणाचित्तम् उत्पादयितव्यं ।
तथाहं करिष्यामि यथा ये मे सत्वाश् चक्षुषाभासम् आगच्छन्ति पिण्डपातं वा दास्यन्ति तान् सुगतिगामिनः करिष्यामि ।
तादृशं योगम् आपत्स्ये ।
तेन लूहं वा प्रणीतं वा पिण्डपात संगृह्य समन्ताच् चतुर्दिशं व्यवलोकयितव्यं ।
क-
[ bendall ed p129 ---> ]
इह ग्रामनगरनिगमे दरिद्रः सत्वः ।
यस्यास्मात् पिण्डपातात् संविभागं करिष्यामि ।
यदि दरिद्रं सत्वं पश्यति तेन तत्पिण्डपातात् संविभागः कर्तव्यः ।
अथ न कञ्चित् सत्वं दरिद्रं पश्यति ।
तेनाइवं चित्तम् उत्पादयितव्यं ।
सन्त्य् अनाभासगताः सत्वा ये मम चक्षुषु आभासं नागच्छन्ति ।
तेषाम् इतः पिण्डपाताद् अग्रं*प्रत्यंशं निर्यातयामि ।
दत्तादानाः परिभुञ्जतां ।
तेन तत् पिण्डपातं गृहीत्वा तद् अरण्यायतनम् अभिरुह्य धौतपाणिना शोभनसमाचारेण श्रमणचारित्रकल्प-
[ cambridge ms f66a ---> ]
समत्वागतेनाधिष्ठानाधिष्ठितेन पर्यङ्कं बद्ध्वा सपिण्डपातः परिभोक्तव्यः ॥पे ॥
परिभुञ्जता चाइवं मनसिकारोत्पादयितव्यः ।
सन्त्य् अस्मिन् काये ऽशीतिः क्रिमिकुलसहस्राणि ।
तान्य् अनेनाइवाउजसा सुखं फासुं विहरन्तु ।
इदानीं चाइषाम् आमिषेण संग्रहं करिष्यामि ।
बोधिप्राप्तश् च पुनर् धर्मेण संग्रहं करिष्यामि ।
यदि पुनर् अस्य लूहं पिण्डपातं भवति तेनाइवं चित्तम् उत्पादयितव्यं ।
लूहाहारतया मे लघुः कायो भविष्यति प्रहाणक्षमोच्चारप्रस्रावनिष्यन्दनश् च मे परीत्तो भविष्यति ।
श्रद्धादेयं च परीत्तं भविष्यति ।
कायलघुता चित्तलघुता च मे भविष्यति ।
अल्पम्लानमिद्धश् च मे भविष्यति ।
यदा पुनर् अस्य प्रभूतः पिण्डपातो भवति तत्रापि मात्राभोजिना भवितव्यं उत्सर्जनधर्मिणा च ।
ततः पिण्डपाताद् अन्यतरायां शिलायाम् अवतीर्याइवं चित्तम् उत्पादयितव्यं ।
ये केचिन् मृगपक्षिसंगामिषभोजनेनार्थिकास् ते दत्तादानाः परिभुञ्जताम् इति ॥
पुनर् आह ।
तेन सर्वेण रससंज्ञा नोत्पादयितव्या ॥
पे ॥
चण्डालकुमारसदृशेन मया
[ bendall ed p130 ---> ]
भवितव्यं ।
चित्तकायचौक्षेण ।
न भोजनचौक्षेण ।
तत् कस्माद् धेतोः ।
कियत्प्रणीतम् अपि भोजनं भुक्तं ।
सर्वं तत् पूतिनिष्यन्दपर्यवसानं दुर्गन्धपर्यवसानं प्रतिकूलपर्यवसानं ।
तस्मान् मया न प्रणीतभोजनाकाङ्क्षिणा भवितव्यं ।
तेन नाइवं चित्तम् उत्पादयितव्यं ।पुरुषो मे पिण्डपातं दद्-ति न स्त्रीः ।
स्त्री मे पिण्डपातं ददाति न पुरुषः ।
दारको मे पिण्डपातं ददाति न दारिका ।
दारिका मे पिण्डपातं ददाति न दारकः ।
प्रणीतं लभे ऽहं न लूहं ।
सत्कृत्य लभे ऽहं नासत्कृत्य ।
चपलं लभे ऽहं न कृच्छ्रेण प्रविष्टमात्रं च मां समन्वाहरेयुः ।
न मे कश्चिद् विक्षेपो भवेत् ।
सुनिहितांल् लभे ऽहं-
[ cambridge ms f66b ---> ]
प्रणीतान् नानारसांल् लभे ऽहम् ।
न हीनदरिद्रभोजनं लभे ऽहं प्रत्युद्गच्छेयुर् मां स्त्रीपुरुषदारकदारिकाः ।
इमे ते सर्वे ऽकुशला मनसिकारा नोत्पादयितव्यः ॥
पे ॥
प्रायेण हि सत्वा रसगृद्धा भोजनहेतोः पापानि कर्माणि कृत्वा नरकेषूपपद्यन्ते ।
ये ये पुनः संतुष्टागृद्धालुलोपा रसप्रतिप्रस्रब्धा जिह्वेन्द्रियसंतुष्टाः कियल्लूहेनापि भोजनेन ज्ञापयन्ति ।
तेषां च्युतानां कालगतानां स्वर्गोपपत्तिर् भवति ।
सुगतिगमनं भवति देवमनुष्येषु ।
ते देवोपपन्नाः सुधां परिभुञ्जते ।
एवं काश्यप पिण्डचारिकेण भिक्षुणा रसतृष्णां विनिवर्तयित्वा निध्यप्तचित्तेन सुपरिपक्वान् कुल्माषान् परिभुञ्जता न परितप्तव्यम् ।
तत् कस्माद् धेतोः ।
कायसंधारणार्थं मार्गसंधारणार्थं मया भोजनं परिभोक्तव्यं ॥
पे ॥
यदि पुनः काश्यप पिण्डचारिको भिक्षुर् मेघाकुलवृष्टिकालसमये वर्तमाने न शक्नुयात् पिण्डायावतर्तुं ।
तेन मैत्र्याहारसंनद्धेन धर्मचिन्तामनसिकारप्रतिष्ठितेन द्विरात्रं त्रिरात्रं वा भक्तच्छदच्छिन्नेनाइवं संज्ञोत्पादयितव्या ।
सन्ति यामलौकिकाः प्रेता दुष्करकर्मकारिणो ये वर्षशतेन खेटपिण्डम् अप्य् आहारं न प्रतिलभन्ते ।
तन् मया धर्मयोनिशश् चिन्ताप्रतिष्ठितेन कायदौर्बल्यं वा चित्तदौर्बल्यं वा नोत्पादयितव्यं ।
अधिवासयिष्यामि क्षुत्पिपासां ।
न पुनर् आर्यमार्गभावनायां वीर्यं स्रंसयिष्यामि ॥
पे ॥
यत्र कुले पिण्डपातं शु-
[ bendall ed p131 ---> ]
चिं कारयेत् तत्र कुले आसने निषद्य धार्मी कथा कर्तव्या ।
यावन् न स पिण्डपातः शुचीक्र्टो भवेत् तेन पिण्डपातं गृहीत्वा उत्थायासनात् प्रक्रमितव्यं ।
पिण्डचारिकेण काश्यप भिक्षुणा
[ cambridge ms f67a ---> ]
नावभासकरेण भवितव्यं न लपना न कुहना कर्तव्या ॥
तत्र कतमो ऽवभासः ।
यत् परेषाम् एवं वाचं भाषते ।
लूहो मे पिण्डपातो रुक्षो मे पिण्डपातासीन् न च मे यावदर्थं भुक्तं ।
बहुजनसाधारणश् च मे पिण्डपातः कृतः ।
अल्पं मे भुक्तं जिघत्सितो ऽस्मीति ।
यत् किञ्चिद् एवंरूपम् अवभासनिमित्तं ।
इयम् उच्यते चित्तकुहना ।
सर्वम् एतत् पिण्डचारिकेण भिक्षुणा न कर्तव्यं ।
उपेक्षकभूतेन ।
यत् पात्रे पतितं लूहं वा प्रणीतं वा शुभं वाशुभं वा तत् परिभोक्तव्यम् अपरितप्यमानेनाशयशुद्धेन धर्मनिध्यप्तिबहुलेन ।
कायजापनार्थम् आर्यमार्गस्योपस्तम्भार्थं स पिण्डपातः परिभोक्तव्येति ॥
तथार्योग्रपरिपृच्छायाम् अप्य् उक्तं ।
यस्याश् चान्तिके पिण्डपातं परिभुज्य न शक्नोत्य् आत्मनः परस्य चार्थं परिपूरयितुम् अनुजानाम्य् अहं तस्य पिण्डचारिकस्य बोधिसत्वस्य निमन्त्रणम् इति ॥
एवं तावत् सततभैषज्येनात्मभावरक्षा कार्या ।
तत्रापि न मत्स्यमांसेन लङ्कावतारसूत्रे प्रतिषिद्धत्वात् ॥
[ bendall ed p132 ---> ]
तथा ह्य् उक्तं ।
मांसं सर्वम् अभक्ष्यं कृपात्मानो बोधिसत्वस्येति वदामि ॥
पे ॥
स्वाजन्याद् व्यभिचाराच् च शुक्रशोणितसंभवात् ।
उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत् ॥
मांसानि च पलाण्डूंश् च मद्यानि विविधानि च ।
गृञ्जनं लशुनं चाइव योगी नित्यं विवर्जयेत् ॥
म्रक्षणं वर्जयेत् तैलं शल्यविद्धेषु न स्वपेत् ।
छिद्राछिद्रेषु सत्वानां यच् च स्थानं महाभयम् ॥
पे ॥
लाभार्थं हन्यते प्राणी मांसार्थं दीयते धनं ।
उभौ तौ पापकर्माणौ पच्येते रौरवादिषु ॥
यावत् ॥
यो ऽतिक्रम्य मुनेर् वाक्यं मांसं भक्षेत दुर्मतिः ।
लोकद्वयविनाशार्थं दीक्षितः शाक्यशासने ॥
ते यान्ति परमं घोरं नरकं पापक-रिणः ।
रौरवादिषु रौद्रेषु पच्यन्ते मांसखादकाः ॥
त्रिकोटिक्षुद्धं मांसं वै अकल्पितम् अयाचितं ।
अचोदितं च नाइवास्ति तस्मान् मांसं न भक्ष्ययेत् ॥
मांसं न भक्ष्ययेद् योगी मया बुद्धैश् च गर्हितं ।
अन्योन्यभक्षणाः सत्वाः क्रव्यादकुलसंभवाः ॥
यावत् ॥
दुर्गन्धः कुत्सनीयश् चोत्मत्तश् चापि जायते ।
[ bendall ed p133 ---> ]
चण्डालपुक्कसकुले डोम्बेषु च पुनः पुनः ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
