Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
शिक्षासमुच्चय (bản khác)
- Tác giả
- शान्तिदेव
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
डाकिनीजातियोनौ च मांसादे जायते कुले ।
ऋक्ष-
[ cambridge ms f67b ---> ]
मार्जरयोनौ च जायते ऽसौ नराधमः ॥
हस्तिकक्ष्ये महामेघे निर्वाणाङ्गुलिमालिके ।
लङ्कावतारसूत्रे च मया मांसं विगर्हितं ॥
बुद्धैश् च बोधिसत्वैश् च श्रावकैश् च विगर्हितं ।
खादते यदि निर्लज्जोन्मत्तो जायते सदा ॥
ब्राह्मणेषु च जायन्ते ऽथ वा योगिनां कुले ।
प्रज्ञावान् धनवांश् चाइव मांसाद्यानां विवर्जनात् ॥
दृष्टश्रुतविशङ्काभिः सर्वं मांसं विवर्जयेत् ।
तार्किका नावबुध्यन्ते क्रव्यादकुलसंभवाः ॥
यथाइष रागो मोक्षस्यान्तरायकरो भवेत् ।
तथाइव मांसमद्यादि अन्तरायकरं भवेत् ॥
वक्षन्त्य् अनागते काले मांसादा मोहवादिनः ।
कल्पिकं निरवद्यं च मांसं बुद्धानुवर्णितं ॥
[ bendall ed p134 ---> ]
भेषज्यम् इवाहारं पुत्रमांसोपमं पुनः ।
मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत् ॥
मैत्रीविहारिणा नित्यं सर्वथा गर्हितं मया ।
सिंहव्याघ्रमृगाद्यैश् च सहाइकत्र संभवेत् ॥
तस्मान् न भक्षयेन् मांसम् उद्वेजजनकं नृणां ।
मोक्षधर्मनिरुद्धत्वाद् आर्याणाम् एष वै ध्वजः ॥यत् तु ज्ञानवतीपरिवर्ते मांसभक्षणं पठ्यते तन् महार्थसाधकत्वान् निर्दोषम् ॥
एवं हि तथोक्तं ।
एषो आçöकरिष्यद् यदि भिक्षु कालं ।
समाधिशब्दो ऽपि हि जम्बुद्वीपे ।
निरुद्धु सत्वान सदाभविष्यद् ।
चिकित्सिते ऽस्मि समाधि लब्धः ॥
न च महाकरुणाभियुक्तम् ।
तेनास्मिन् न मैत्री शङ्कापि नास्तीत्य् अदोषः ॥
[ bendall ed p135 ---> ]
यद्य् अप्य् आर्यरत्नमेघे ऽभिहितं ।
श्माशानिकेन निरामिषेण भवितव्यम् इति ॥
तद् अन्यत्राइवं जातीयसत्वार्थसंदर्शनार्थं ।
विनये ऽपि यद् अनुज्ञातं तत् तु त्रिकोटिपरिशुद्धभक्षणे न प्रहाणान्तरायेति ।
तत् परित्यागेन शुद्धदृष्टीनाम् अभिमाननिरासार्थं ।
तद् वृद्धतया च भव्यानां शासनानवतारपरिहारार्थं ॥
तथा ह्य् उक्तं लङ्कावतारसूत्रे ।
तत्र तत्र देशना पाठे शिक्षापदानाम् आनुपूर्वीं बन्धन् निश्रेणीपदविन्यासयोगेन ।
त्रिकोटिं बद्ध्वा ।
तत्रोद्दिष्य क्र्टानि प्रतिषिद्धानि ततो ऽन्तशः प्रकृतिमृतान्य् अपि प्रतिषिद्धानीति ॥
उक्तं सततभैषज्यं ।
ग्लानप्रत्ययभैषज्यं तत् सेव्यम् एव ॥
श्रावकविनये ऽपि तावद् आत्मार्थं ब्रह्मचर्यवासार्थं पात्रचीवरम् अपि विक्रीय ।
कायसंधारणम् उक्तं ।
किं पुनर् अपरिमितजनपरित्राणहेतोर् बोधिसत्वशरीरस्य दुर्लभा चेदृशी क्षणप्रतिलाभोत्सवसम्पद् ।
इति तत्प्रदर्शनार्थं च भगवता तत्र स्वयं भैषज्योपयोगः प्रदर्शितः ॥
उक्तं चार्यरत्नमेघसूत्रे ।
तैर् यदा प्रचारितं भवति तदा सत्यां वेलायाम् असत्यां वा तेषाम् इमान्य् एवंरूपाणि कायोपस्तम्भनान्य् उपकरणानि न लभ्यन्ते ऽभ्यवहर्तुं ।
यद् उत सर्पिर् वा तैलं वा मूलरसो वा गण्डरसो वा फलरसो वा ।
न चान्यान् अभ्यवहरतो दृष्ट्वा प्रतिघचित्तम् उत्पादयति ।
यदि पुनः खलु पश्चाद्भक्तिको बोधिसत्वो वा
[ cambridge ms f68a ---> ]
ग्लानो भवति ।
यथारूपेणास्य ग्लान्येन जीवितान्तरायो भवति कुशलपक्षान्तरायो वा तेन निष्कौकृत्येन भूत्वा निर्विचिकित्सकेन भैषज्यचित्तम् उपस्थाप्य प्रतिनिसेव्यानीति ॥
[ bendall ed p136 ---> ]
वसनोपभोगप्रयोजनम् उग्रपरिपृच्छासूत्रे ऽभिहितं ।
ह्रीरपत्राप्यकापैर् निः ... [[दोउब्त्]] प्रच्छादनार्थं तु श्रमणलिङ्गसंदर्शनार्थम् इमानि च काषायाणि देवमानुषासुरस्य लोकस्य चैत्यम् इति ।
चैत्यार्थं सम्यग्धारितव्यानि ।
निर्वृतिविरागरक्तानि [[दोउब्त्]] एतानि ।
न रागरक्तानि ।
उपशमानुकूलान्य् एतानि ।
न संक्लेशसंधुक्षणानुकूलानि ।
एभिश् च काषायैर् विवृतपापा भविष्यामः ।
सुकृतकर्मकारिणो न चीवरमण्डनानुयोगम् अनुयुक्ताः ।
एतानि च काषायाण्य् आर्यमार्गसंभारानुकूलानीति कृत्वा तथा करिष्यामो यथा नाइकक्षणम् अपि सकषायाः काये काषायाणि धारयिष्यामेति ॥
अत्र च कारणं रत्नराशिसूत्रे ऽभिहितं ।
ये पुनस् ते काश्यप वैदर्यासंयतेतः श्रमणगुणधर्माद् उद्धुराः काये काषायाणि वस्त्राणि धारयन्ति ।
न चाइतेषु गौरवम् उत्पादयन्ति ।
तत्र काश्यप श्रमणवर्णप्रतिरूपकं नाम प्रत्येकनरकं ।
तत्र काश्यप प्रत्येकनरके श्रमणरूपप्रतिरूपेण ताः कारणाः कार्यन्ते आदीप्तचैला*आदीप्तशीर्षादीप्तपात्रादीप्तासनादीप्तशयनाः ।
यः कश्चित् तत्र तेषाम् उपभोगपरिभोगः स सर्वादीप्तः संप्रज्वलिताइकज्वालीभूतः ।
तत्र तैः श्रमणवर्णरूपेण दुष्खां वेदनाम् अनुभवन्तीति ॥
[ bendall ed p137 ---> ]
आर्यरत्नमेघे ऽप्य् उक्तं ।
यदि भवेद् अभ्यवकाशिको बोधिसत्वो ग्लानकायो ऽप्रतिबलकायस् तेन विहारक्षितेनाइवं चित्तम् उत्पादयितव्यं ।
क्लेशप्रतिपक्षार्थं तथागतेन धुतगुणाः प्रज्ञप्ताः ।
[ cambridge ms f68b ---> ]
तथाहं करिष्यामि यथा विहारस्याइव क्लेशानां प्रहाणाय घटिष्यामि ।
तत्र च विहारे न गृद्धिम् उत्पादयामि नाध्यवसानं ।
एवं चास्य भवति ।
कर्तव्यो दानपतीनाम् अनुग्रहो नास्माभिर् आत्मम्भरिभिर् भवितव्यम् इति ॥
पुनर् अत्राइवाह ।
ते शय्यां कल्पयन्तो दक्षिणेन पार्श्वेन शय्यां कल्पयन्ति ।
पादस्योपरि पादम् आधाय चीवरैः असंवृतकायाः स्मृताः ।
संप्रजानानोत्थानसंज्ञिनालोकसंज्ञिनः शय्यां कल्पयन्ति ।
न च निद्रासुखम् आस्वादयन्ति ।
न पार्श्वसुखम् अन्य्त्र यावद् एवाइषां महाभूतानां स्थितये जापनायै ।
इत्य् अनया दिशा सर्वपरिभोगाः सत्वार्थम् अधिष्ठातव्याः ।
आत्मतृष्णोपभोगात् तु क्लिष्टापत्तिः प्रजायते ॥
यथोक्तं चन्द्रप्रदीपसूत्रे ।
ते भोजनं स्वादुरसं प्रणीतं ।
लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः ।
तेषां साहारु बधाय भोती ।
यथ हस्तिपोतान विषाधौता ॥
इति ॥
आर्यरत्नराशिसूत्रे ऽपि भगवता श्रद्धादेयपरिभोगे परिकीर्तिते ।
अथ तस्याम् एव पर्षदि योगाचाराणां भिक्षूणां द्वे शते इमं धर्मपर्यायं श्रुत्वा प्ररुदिते ।
एवं च वाचम् अभाषन्त ।
कालं वयं भगवन् करिष्यामो ।
न पुनर् अप्राप्तफलाइकपिण्डपातम् अपि श्रद्धादेयस्य परिभोक्ष्यामः ॥
[ bendall ed p138 ---> ]
भगवान् आह ।
साधु साधु कुलपुत्राइवंरूपैर् लज्जाभिः कौकृत्यसंपन्नैः परलोकावद्यभयदर्शिभिर् इदं प्रवचनं शोभते ॥
अपि तु ॥
द्वयोर् अहं काश्यप श्रद्धादेयम् अनुजानामि ।
कतमयोर् द्वयोः ।
युक्तस्य मुक्तस्य च ।
यदि भिक्षवो भिक्षुर् युक्तो योगाचारो मम शिक्षायां प्रतिपन्नः सर्वसंस्कारेष्व् अनित्यदर्शी ।
सर्वसंस्कारदुःखविदितः सर्वधर्मेष्व् अनात्माधिमुक्तिः शान्तनिर्वाणाभिकाङ्क्षी सुमेरुमात्रैर् आलोपैः श्रद्धादेयं भुञ्जीत ।
अत्यन्तपरिशुद्धाइव तस्य सा दक्षिणा भवति ।
येषां च दायकानां दानपतीनां सकाशाच् छ्रद्धादेयं परिभुक्तं ततस् तेषां दायकदानपतीनां महर्द्धिकः
[ cambridge ms f69a ---> ]
पुण्यविपाको भवति ।
महाद्युतिकः ।
तत् कस्माद् धेतोः ।
अग्रम् इदम् औपधिकानां पुण्यक्रियावस्तूनां येयं मैत्रचित्तसमापत्तिः ।
तत्र काश्यप यो भिक्षुर् दायकस्य दानपतेर् अन्तिकाच् चीवरपिण्डपातं परिभुज्याप्रमाणं चेतःसमाधिं समापद्यते ऽप्रमाणस् तस्य दायकस्य दानपतेः पुण्यक्रियाविपाकः प्रतिकाङ्क्षितव्यः ।
स्यात् काश्यप त्रिसाहस्रमहासाहस्रायां लोकधातौ महासमुद्राणां क्षयो न त्व् एव तस्य पुण्यनिष्यन्दनस्य कश्चित् क्षयेति ॥
तद् एवं पिण्डपातगमनआरम्भे भोजनारम्भे वा त्रिषु स्थानेषु स्मृतिर् उपस्थाप्या दायकानुग्रहे ।
कायक्रिमिसंग्रहे ।
सर्वसत्वार्थसाधके च सद्धर्मपरिग्रहे ॥
तथागताज्ञासंपादने तु सर्वकार्येषु स्मृतिः कार्या ।
आदिशब्दान् मन्त्रैर् अपि रक्षा कार्या ॥
तत्रापि तावद् इमां त्रिसमयराजोक्तां विद्यां मण्डलसमयार्थम् उच्चारयेत् ।
नमः सर्वबुद्ध-
[ bendall ed p139 ---> ]
बोधिसत्वानां ओं विरजि महाचक्रविरजि ।
सत सारत त्रपि विधमनि ।
सभजनि ।
संभजनि ।
तरमति ।
सिद्धाग्रे त्वं स्वाहा ॥
अनेन सर्वमण्डलप्रविष्टो भवति ॥
अथवा तथागतहृदयम् अष्टसहस्त्रं जपेत् सलौकिकलोकोत्तरमण्डलप्रविष्टो भवति ।
कतमच् च तत् ॥
नमस् त्रैयब्धिकानां तथागतानां ।
सर्वत्राप्रतिहतावाप्तिधर्मताबलिनां ।
आं असमसम समन्ततो ऽनन्तनावाप्तिशासनि ।
हर स्मर स्मरण विगतरागबुद्धधर्मते ।
सर समबला ।
हस ।
त्रय ।
गगन महाचलरक्षण ।
ज्वल ज्वलन सागरे स्वाहा ॥
अयं सर्वतथागतानाम् आत्मभावः ।
अत्रानुत्तरं गौरवं भावयितव्यं ।
अनेनादिकर्मिकापि सत्वेष्व् अनन्तं बुद्धकृत्यं कुर्वन्ति ।
अयम् एव परमां रक्षां*मारादिभ्यः सर्वदुष्टेभ्यः करोति ।
हस्तताडेन भस्मना सर्षपैर् उदकेन दृष्ट्या मनसा वा सीमाबन्धं करोति ॥
व्याधि-
[ cambridge ms f69b ---> ]
षु भैषज्यम् उदकं चाभिमन्त्र्योपयोज्यं ॥वनकुसुमानि वा चैत्ये प्रतिमायां सद्धर्मपुस्तके वा समाहितो निवेदयेत् ॥
पक्षप्रयोगान् महा व्याधिभिर् अभिमुच्यते ।
बुद्धबोधिसत्वालम्बनेन सर्वसत्वार्थाभिलाषिणा च चित्तेन भद्रचरिविधिपूर्वकं च जप्तव्यः ।
अयं विधिर् अस्य कल्पस्यावसाने द्रष्टव्यः ।
त्रिसमयजापिनश् चाम्नायतो न दोषः ।
उत्सिष्टस्याप्य् अशुचेर् न दोषः ।
मुद्राकारा न भक्षणीया न लङ्घनीया ।
न मञ्चारोहः कर्तव्यः ।
न मद्यं पातव्यं ।
अधिमुक्तिचर्या शिक्षापदेष्व् अचलस्य निर्विचिकित्सस्य दुःशीलपूर्वस्यापि सिध्यति ।
पण्डितस्यापण्डितस्य वा नियतं सिध्यति ॥
[ bendall ed p140 ---> ]
तथा चात्राइवोक्तं ।
बोधिचित्तं दृढं यस्य निःसंगा च मतिर् भवेत् ।
विचिकित्सा नाइव कर्तव्या तस्येदं सिध्यति ध्रुवम् ।
इति ॥
बोधिचित्तदृढता चात्र पृथग्जनचलचित्तताया नियमार्थम् उक्ता न तु भूमिप्रविष्टम् अधिकृत्य ॥
यस्माद् अत्रोक्तं ।
प्रत्युद्धारताम् अवभासतां च प्रतिलब्धुकामेन ।महान्धकाराद् आलोकं प्रवेष्टुकामेन ।
यद् भूयसा विनिपतितेन साध्यं ।
तथा कुतो ममाल्पपुण्यस्य सिद्धिर् इति नीचचित्तप्रतिषेधः ।
न चातिक्रान्तदुर्गतेर् उत्साहोर्मिबहुलस्योपचिताप्रमेयपुण्यस्कन्धस्य भूमिप्रविष्टस्यायं पूर्वोक्तो दोषः संभवति ।
अत्र च मन्त्राणाम् अज्ञानान् नाधिकाक्षरपाठे दोषो ऽस्ति ।
नापि न्यूनतादोषः ।
नापि विधिभ्रंसदोषः ।
किंतु श्रद्धावेगं बोधिचित्तवेगं सर्वोत्सर्गवेगं च प्रमाणीकृत्याविचारतः प्रवर्तितव्यम् अवश्यं बुद्धबोधिसत्वम् इहाइव यथेष्टसिद्धिश् च भवति ॥
अथवानेन सर्ववज्रधरमन्त्रेण रक्षां कुर्यात् ।
नमस् त्रैयब्धिकानां तथागतानां सर्ववज्रधराणां चण्डाल ।
चल ।
वज्र ।
शान्तन ।
फलन ।
चर ।
मारण ।
वज्रडालफट ।
ललितशिखर समन्तवज्रिणि ।
ज्वल ।
नमो ऽस्तु ते ऽग्रोग्रशासानानां रण हं फुल स्फाट वज्रोत्तमे स्वाहा ॥
अनेन पठितमात्रेण सर्वविघ्नविनायका नोपसंक्रामन्ति ।
देवनागादयो न प्रसहन्ते ।
भोजनपानशयनासनवसनपूजोपकरणानि चाभिमन्त्रितेन
[ cambridge ms f70a ---> ]
जलेन दृष्ट्या मनसा वा रक्षेत ।
अचलहृदयेन वा सर्वम् एतत् कुर्यात् ॥
इदं च तत् ॥
[ bendall ed p141 ---> ]
नमः समन्तवज्राणां त्राट ।
अमोघ चण्डमहारोषण स्फाटय हूं ।
भ्रामय हूं ।
त्राट हूं ।
मां ।
ओं बलं ददे तेजोमालिनि स्वाहा ॥
अनेन प्रथमं पिण्डम् अष्टाभिमन्त्रितं भुञ्जीत भैषज्यराजतां बुद्धबोधिसत्वानाम् अनुस्मृत्य ॥
विषप्रतीकारस् तु ॥
तद् यथा ।
इलिमित्ते ।
तिलिमित्ते ।
इलितिलिमित्ते ।
दुम्बे ।
दुःसे ।
दुःसालीये ।
दुम्बालीये ।
तक्के ।
तर्क्करणे ।
मर्म्मे ।
मर्मरणे ।
कश्मीरे ।
कश्मीरमुक्ते ।
अघने ।
अघनघने ।
इलिमिलीये ।
अखाप्ये ।
अपाप्ये श्वेते ।
श्वेततुण्डे ।
अनानुरक्षे स्वाहा ॥
येमां विद्यां सकृच् छृणोति स सप्त वर्षाण्य् अहिना न दश्यते ।
न चास्य काये विषं क्रामति ।
यश् चाइनं अहिर् दशति सप्तधास्य स्फुटेन् मूर्द्धार्जकस्येव मञ्जरी ॥येमां विद्यां धारयति स यावज्जीवम् अहिना न दश्यते ।
न चास्य काये विषं क्रामति ।
इमानि च मन्त्रपदानि सर्पस्य पुरतो न वक्तव्यानि यत्कारणं सर्पो म्रियते ॥
तद् यथा ।
इल्ला ।
चिल्ला ।
चक्को ।
बक्को ।
कोडा कोडेति ।
निकुरुडा निकुरुडेति ।
पोडा पोडेति ।
मोडा ।
मोडेति ।
पुरुडा पुरुडेति ।
फट रहे ।
फुट्टण्ड रहे ।
नाग रहे ।
नागट्टण्डरहे ।
सर्प रहे ।
सर्पट्टण्डरहे ।
अच्छे ।
छल विषशाते ।
शीतवत्ताले ।
हलले ।
हलले ।
तण्डि ।
तड ।
ताडि ।
मल ।
स्फुट ।
फुटु ।
स्वाहा ॥
[ bendall ed p142 ---> ]
इति हि भिक्षवो जाङ्गुल्यां विद्यायां उदाहृतायां सर्वभूतसमागते सर्वं तथावितथानन्यथाभूतं सत्यम् अविपरीतम् अविपर्यस्तं ।
इदं विषम् अविषं भवतु ।
दातारं गच्छतु ।
दंष्ट्रारं गच्छतु ।
अग्निं गच्छतु ।
जलं गच्छतु ।
स्थलं गच्छतु ।
स्तम्भं गच्छतु ।
कुड्यं गच्छतु ।
भूमिं संक्रामतु ।
शान्तिं गच्छतु स्वाहा ॥
चोरादिप्रतीकारे मारीचीं जपेत् ॥
तद् यथा ।
पराक्रमसि ।
उदयम् असि ।
वैरम् असि अर्कम् असि ।
मर्कम् असि ।
वनम् असि ।
अन्तर्द्धानम् असि ।
प-
[ cambridge ms f70b ---> ]
थे मे रक्ष ।
उत्पथे मे रक्ष ।
जनतो मे रक्ष ।
चौरतो मे रक्ष ।
राजतो मे रक्ष ।
सिंहतो मे रक्ष ।
व्याघ्रतो मे रक्ष ।
नागतो मे रक्ष ।
सर्पतो मे रक्ष ।
सर्वतो मे रक्ष ।
रक्ष मां सर्वसत्वांश् च सर्वभयेभ्यः सर्वोपाये सोपसर्गेभ्यः स्वाहा ॥
उंवडिलि सर्वदुष्टानां ग्रन्थिं वन्दामि स्वाहा ॥
नमो रत्नत्रयाय ।
नमो मारीच्यै देवतायै ।
मारीच्या देवताया हृदयम् आवर्तयिष्यामि ॥
त यथा ।
बत्तालि ।
बदालि ।
बदालि ।
बरालि ।
वराहमुखि ।
सर्वदुष्टानां निवारय ।
बन्ध मुखं स्वाहा ॥
इमाम् अपि विद्याम् अनन्तजातिस्मरहेतुं महाप्रभावां सप्तपञ्चाशदक्षरां विद्याधरपिटकोपनिबद्धां सर्वभयरक्षार्थं प्रयुञ्जीत ॥
तद् यथा ।
अट्टे ।
बट्टे ।
नट्टे ।
कुनट्टे ।
टके ।
ठके ।
ठरके ।
उरुमति ।
रुरुमति ।
तुरु ।
हिलि मिलि ।
सर्वज्ञोदुपदग्ग [[दोउब्त्]] ।
नमो सब्बसम्मसंबुद्धाणं सिज्झन्तु मे मन्तपदाः स्वाहा ॥
[ bendall ed p143 ---> ]
एषा रक्षात्मभावस्य भैषज्यवसनादिभिः ।
सत्वार्थस्मृतिपूर्वकम् एव वक्तव्या ॥
आत्मतृष्णोपभोगात् तु क्लिष्टापत्तिः प्रजायते ॥
सर्वं हि बोधिसत्वेनोत्सृष्टं सर्वसत्वेभ्यः ॥
तत्र यदि विस्मृत्य परद्रव्यम् आत्मभरणतृष्णया परिभुङ्क्ते क्लिष्टापत्तिम् आपद्यते ।
अथ वितृष्णो अन्यासक्तो वा सत्वकार्यम् अनुस्मृत्य भुङ्क्ते न क्लिष्टाम् आपत्तिम् आपद्यते ।
परद्रव्यसंज्ञी स्वार्थेन भुङ्क्ते स्तेयापत्तिम् आपद्यते ।
पूरार्घेण प्रातिमोक्षे पाराजिको भवति ।
सत्वस्वामिकैस् तु भोगैः सत्वस्वामिकाइवात्मभावः संरक्षतेत्य् अदोषः ।
न हि दासस्य नित्यं स्वामिकर्मव्यापृतस्य स्वद्रव्यम् अस्ति येन वर्तेत ॥
उक्तं च धर्मसङ्गीतिसूत्रे ।
दासोपमेन बोधिसत्वेन भवितव्यं सर्वसत्वकिङ्करणीयप्रापणतयेति ॥
न चाइकान्तस्वाम्यर्थपरस्य दासस्य व्याध्यादिविक्लवमतेः स्वामिनम् अननुज्ञाप्यापि भुञ्जानस्य कश्चि-
[ cambridge ms f71a ---> ]
द् दोषः ।
नाप्य् एवं कुर्वाणस्य बोधिसत्वस्यान्तिके कस्यचिद् विदितवृत्तान्तस्याप्य् अप्रसादो युज्यते मात्सर्यत्यागचित्तापरिज्ञानात् ॥
न चात्र न्याये कश्चित् संदेहो युक्तः ।
सर्वोत्सर्गो हि पूर्वम् एव भगवत्कण्ठोक्त्या प्रतिपादितः ।
तथा चात्मभावरक्षा सत्वार्थम् एवोक्ता ।
तस्य स्पष्टावबोधार्थम् अयं न्यायो ऽभियुक्तो न तु स्वार्थापेक्षयेति ॥
इति शिक्षासमुच्चये आत्मभावरक्षा षष्ठः परिच्छेदः ॥
भोगपुण्यरक्षा सप्तमः परिच्छेदः
एवं तावद् आत्मभावरक्षा वेदितव्या ।
भोगरक्षा तु वक्तव्या ।
तत्र सुकृतारम्भिणा भाव्यं मात्रज्ञेन च सर्वतेति शिक्षापदाद् अस्य भोगरक्षा न दुष्करा ॥
उग्रपरिपृच्छायां हि शिक्षापदम् उक्तं ।
सुसमीक्षितकर्मकारिता सुकृतकर्मकारिता च ।
तेन भोगानां दुर्न्यासा प्रेत्यवेक्षा ।
अवज्ञाप्रतिषेधः सिद्धो भवति ।
शमथप्रस्तावेन च मात्रज्ञता युक्तिज्ञता चोक्ता ॥
तेनेदं सिद्धं भवति ।
यद् इदं ।
अल्पाधमभोगेनापि कार्यसिद्धौ सत्यां स्वयम् अन्यैर् वा बहूत्तमभोगनाशनोपेक्षा न कार्येति ॥
अताइवोग्रपरिपृच्छायाम् उक्तं ।
पुत्रभार्यादासीदासकर्मकरपौरुषेयाणां सम्यक्परिभोगेनेति ।
तथा स्वपरबोधिपक्षश्रुताद्यन्तरायकरौ त्यागात्यागौ न कार्यौ ।
अधिकसत्वार्थशक्तेस् तुल्यशक्तेर् वा बोधिसत्वस्याधिकतुल्यकुशलान्तरायकरौ त्यागात्यागौ न कार्याव् इति सिद्धं भवतीति ॥
इदं च संधाय बोधिसत्वप्रातिमोक्षे ऽभिहितं ।
यस् तु खलु पुनः शारिपुत्राभिनिष्क्रान्तगृहावासो बोधिसत्वो बोध्यङ्गैर् अभियुक्तस् तेन कथं दानं दातव्यं ।
कतरं दानं दातव्यं ।
कियद्रूपं दानं दातव्यं ॥
पे ॥
धर्मदायकेन भवितव्यं धर्मदानपतिना ।
यश् च शारिपुत्र गृही बोधिसत्वो गङ्गानदीवालिकासमानि बुद्धक्षेत्राणि सप्तरत्नप्रतिपूर्णानि कृत्वा तथागतेभ्यो ऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्याद् ।
यश् च शारिपुत्र प्रव्रज्यापर्यापन्नो बोधिसत्वाइकां चतुष्पदिकां-
[ cambridge ms f71b ---> ]
गाथां प्रकाशयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति ।
न शारिपुत्र तथागतेन प्रव्रजितस्यामिषदानम् अनुज्ञातं ॥
पे ॥
यस्य खलु पुनः शारिपुत्र पात्रागतः पात्रपर्यापन्नो लाभो भवेद् धार्मिको धर्मलब्धः ।
तेन साधारणभोजिना भवितव्यं सार्द्धं सब्रह्मचारिभिः ।
सचेत् पुनः कश्चिद् एवागत्य पात्रं वा चीवरं वा याचेत ।
तस्यातिरिक्तं भवेद् बुद्धानुज्ञातात् त्रिचीवराद् ।
यथा परित्यक्तं दातव्यं ।
सचेत् पुनस् तस्योनं चीवरं भवेद् यन् निश्रित्य ब्रह्मच-
[ bendall ed p145 ---> ]
र्यवासः ।
तन् न परित्यक्तव्यं ।
तत् कस्य हेतोः ।
अविसर्जनीयं त्रिचीवरम् उक्तं तथागतेन ।
सचेत् पुनः शारिपुत्र बोधिसत्वः त्रिचीवरं परित्यज्य याचनकगुरुको भवेन् न तेनाल्पेच्छतासेविता भवेत् ।
यस् तु खलु पुनः शारिपुत्राभिनिष्क्रान्तगृहावासो बोधिसत्वस् तेन धर्मासेवितव्यः ।
तन् न तेनाभियुक्तेन भवितव्यम् इति ॥
अन्यथा ह्य् एकसंग्रहार्थं महतः सत्वराशेस् तस्य च सत्वस्य बोधिसत्वाशयपरिकर्मान्तरायान् महतो ऽर्थस्य हानिः कृता स्याद् ।
अताइवोदारकुशलपक्षविवर्जनतापक्षालेत्य् उच्यते ।
एवं तावत् त्यागप्रतिषेधः ।
अत्यागप्रतिषेधो ऽपि ॥
यथार्यसागरमतिसूत्रे महायानान्तरायेषु बहुलाभता पठ्यते ।
यो ऽयं विधिर् आत्मन्य् उक्तः सो ऽन्यस्मिन्न् अपि बोधिसत्वे प्रतिपाद्येति कुतो गम्यते ।
आर्योग्रपरिपृच्छायां देशितत्वात् ।
परकृत्यकारितः स्वकार्यपरित्यागेति ॥
तथार्यविमलकीर्तिनिर्देशे ऽप्य् उक्तं ।
संसारभयभीतेन किं प्रतिसर्तव्यम् ।
आह ।
संसारभयभीतेन मञ्जुश्रीर् बोधिसत्वेन बुद्धमाहात्म्यं प्रतिसर्तव्यं ।
आह ।
बुद्धमाहात्म्यस्थातुकामेन कुत्र स्थातव्यं ।
आह ।
बुद्धमाहात्म्ये स्थातुकामेन सर्वसत्वसमतायां स्थातव्यं ।
आह ।
सर्व-
[ cambridge ms f72a ---> ]
सत्वसमतायां स्थातुकामेन कुत्र स्थातव्यं ।
आह ।सर्वसत्वसमतायां स्थातुकामेन सर्वसत्वप्रमोक्षाय स्थातव्यम् इति ॥
तथा च धर्मसङ्गीतौ सार्थवाहो बोधिसत्वाह ।
यो भगवन् बोधिसत्वः सर्वसत्वानां प्रथमतरं बोधिम् इच्छति नात्मनः ।
यावद् इयं भगवन् धर्मसङ्गीतिर् इति ॥
उत्सर्गाद् एव चास्य स्वार्थाभावः सिद्धः ।
किं तु सत्वार्थहानिभयाद् अयोग्ये सत्वे सुभरं नारोपयति ।
यत्र तु सत्वार्थहानिं न पश्यति तत्र स्वयं कृतम् अन्येन वा जगद् धितम् आचरितम् इति
[ bendall ed p146 ---> ]
को विशेषो ।
यद् अयम् अपरबोधिसत्वकुशलसिद्धये न स्वकुशलम् उत्सृजति ।
अथ स्वदुर्गतिदुष्ख-द् बिभेति ।
द्वितीयस्यापि तद् एव दुष्खं ।
अथ तद्दुष्खेन मे बाधा नास्तीत्य् उपेक्षते ।
यथोक्तैः सूत्रैः सापत्तिको भवति ॥
यथा च रत्नकूटसूत्रे ।
चत्वारेमे काश्यप बोधिसत्वप्रतिरूपकेत्य् आरभ्योक्तं ।
आत्मसुखार्थिको भवति न सर्वसत्वदुष्ख अपनयनार्थिकेति ॥
तस्माद् उग्रपरिपृच्छाविधिना पूर्ववद् आत्मा गर्हणीयः एषा तु बोधिसत्वशिक्षा यथार्यनिरारम्भेण धर्मसङ्गीतिसूत्रे निर्दिष्टा ।
कथं कुलपुत्राः प्रतिपत्तिस्थीत वेदितव्याः ।
आह ।
यदा सत्वेषु न विप्रतिपद्यन्ते ।
आह ।
कथं सत्वेषु न विप्रतिपद्यन्ते ।
आह ।
यन् मैत्रीं च महाकरुणां च न त्यजन्ति ।
सुभूतिर् आह ।
कतमा बोधिसत्वानां महामैत्री ।
आह ।
यत् कायजीवितं च सर्वकुशलमूलं च सर्वसत्वानां निर्यातयन्ति न च प्रतिकारं काङ्क्षन्ति ।
आह ।
कतमा बोधिसत्वानां महाकरुणा ।
यत् पूर्वतरं सत्वानां बोधिम् इच्छन्ति नात्मनेति ॥
अत्राइव चाह ।
महाकरुणामूलाः सर्वबोधिसत्वशिक्षेति ।
अवश्यं च भगवतेदं न निवारणीयं ।
अन्यतरबोधिसत्वार्थे न
[ cambridge ms f72b ---> ]
अर्थित्वाद् अवश्यं तूपदिशतीति निश्चीयते ।
येन दातुर् महादक्षिणीये महार्थदानान् महापुण्यसागरविस्तरो दृश्यते ।
अन्यथा तु केवलम् एव विघातिनो मरणं स्यात् ॥
यत् तु प्रशान्तविनिश्चयप्रातिहार्यसूत्रे देशितम् ।
याइष ते महाराज वर्षशतसहस्रेण परिव्ययो ऽत्र प्रविष्टः स सर्वः पिण्डीकृत्याइकस्य भिक्षोर् यात्रा भवेद् एवं प्रत्येकं सर्वभिक्षूणां ।
यश् चोद्देशस्वाध्यायाभियुक्तो बोधिसत्वः सगौरवो धर्मक-मः श्रद्धादेयम् आहारं परिगृह्याइवं चित्तम् उत्पादयेत् ।
अनेनाहं धर्मपर्येष्टिम् आपत्स्यए इति ।
अस्य कुशलस्याइष देयधर्मपरित्यागः शततमीम् अपि कलां नोपैतीति ॥
तद् गृहसुखपलिशुद्धम् अधिकृत्योक्तं ।
न तु पूर्वोक्तविधिना कश्चिद् दोषः ॥
उक्तो समासता भोगरक्षा ।
पुण्यरक्षा वाच्या ।
तत्र स्वार्थविपाकवैतृष्ण्याच् छुभं संरक्षितं भवेत् ॥
[ bendall ed p147 ---> ]
यथोक्तं नारायणपरिपृच्छायां ।
स नात्महेतोः शीलं रक्षति ।
न स्वर्गहेतोः ।
न शक्रत्वहेतोः ।
न भोगहेतोः ।
नाइश्वर्यहेतोः ।
न रूपहेतोर् न वर्णहेतोर् न यशोहेतोः ।
पे ॥
न निरयभयभि-तः शीलं रक्षति ।
पे ॥
एवं न तिर्यग्योनिभयभीतः शीलं रक्षति ।
अन्यत्र बुद्धनेत्रीप्रतिष्ठापनाय शीलं रक्षति ।
यावत् सर्वसत्वहितसुखयोगक्षेमार्थिकः शीलं रक्षति ॥
साइवंरूपेण शीलस्कन्धेन समन्वागतो बोधिसत्वो दशभिर् धर्मैर् न हीयते ।
कतमैर् दशभिः ।
यद् उत न चक्रवर्तिराज्यात् परिहीयते ।
तत्र च भवत्य् अप्रमत्तो बोधिप्रतिकाङ्क्षी बुद्धदर्शनम् अभिकाङ्क्षते ।
एवं ब्रह्मत्वाद् बुद्धदर्शनाभेद्यप्रतिलम्भाद् धर्मश्रवणान् न परिहीयते ।
यावद् यथाश्रुतप्रतिपत्तिसंपादनाय बोधिसत्वसंवरसमादानान् न परिहीयते ।
अनाछेद्यप्रति-
[ cambridge ms f73a ---> ]
भानात् सर्वकुशलधर्मप्रार्थनध्यानान् न परिहीयते ॥एवं शीलस्कन्धप्रतिष्ठितो बोधिसत्वो महासत्वः सदा नमस्कृतो भवति देवैः ।
सदा प्रशंसितो भवति नागैः ।
सदा नमस्कृतो भवति यक्षैः ।
सदा पूजितो भवति गन्धर्वैः सदापचायितश् च भवति नागेन्द्रासुरेन्द्रैः ।
सदा सुमानितश् च भवति ब्राह्मणक्षत्रिय श्रेष्ठिगृहपतिभिः ।
सदाभिगमनीयश् च भवति पण्डितैः ।
सदा समन्वाहृतश् च भवति बुद्धैः ।
शास्तृसंमतश् च भवति सदेवकस्य लोकस्यानुकम्पकश् च भवति सर्वसत्वानां ॥
पे ॥
चतस्रो गतीर् न गच्छति ।
कतमाश् चतस्रो ।
यद् उताक्षणगतिं न गच्छत्य् अन्यत्र सत्वपरिपाकात् ।
बुद्धशून्यबुद्धक्षेत्रं न गच्छति ।
मिथ्यादृष्टिकुलोपपत्तिं न गच्छति ।
सर्वदुर्गतिगतिं न गच्छति ॥
एवं पूर्वोत्सृष्टस्यापि पुण्यस्य क्लेशवशात् पुनर्*उपादीयमानस्य रक्षा कार्या ।
पुण्यदानाद् अपि यत् पुण्यं ततो ऽपि न विपाकः प्रार्थनीयो ऽन्यत्र परार्थात् ।
किं च पुण्यं रक्षितुकामः ।
पश्चात् तापं न कुर्वीत ॥
यथोक्तम् उग्रपरिपृच्छायां ।
दत्त्वा च न विप्रतिसारचित्तम् उत्पादयितव्यम् इति ॥
[ bendall ed p148 ---> ]
पृष्ठदौर्बल्याद् दौर्बल्यं ।
विप्रतिसारात् पापवत् पुण्यस्यापि क्षयः स्याद् इत्य् अभिप्रायः ।
न च कृत्वा प्रकाशयेद् ।
अनेकपर्यायेण हि भगवता प्रछन्नकल्याणता ।
विवृतपापता वर्णिता ।
तत्र विवृतसय् क्षयो गम्यते ।
पापस्य दौर्मनस्येनाइव पुण्यस्य सौमनस्येनापत्तिः सत्वार्थं निरामिषचित्तस्य प्रकाशयतः ॥
यथा रत्नमेघे वैद्यदृष्टान्तेनात्मोत्कर्षो निर्दोषोक्तः ।
पुनः पुण्यरक्षा कामो लाभसत्कारभीतः स्याद् उन्नतिं वर्जयेत् सदा ।
बोधिसत्वो प्रसन्नः स्याद् धर्मे विमतिम् उत्सृजेत् ॥
इदं च रत्नकूटे ऽभिहितं ।
चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्योत्पन्नोत्पन्नाः
[ cambridge ms f73b ---> ]
कुशला धर्माः परिहीयन्ते ।
यैः चतुर्भिर् मुक्ताः न वर्धन्ते कुशलधर्मैः ।
कतमैश् चतुर्भिः ।
यद् उताभिमानिकस्य लोकायतमन्त्रपर्येष्ट्या ।
लाभसत्काराध्यवसितस्य कुलप्रत्यवलोकनेन ।
बोधिसत्वविद्वेषाभ्याख्यानेन ।
अश्रुतानाम् अनिर्दिष्टानां च सूत्रान्तानां प्रतिक्षेपेणेति ॥
आर्यसर्वास्तिवादानां च पठ्यते ।
पश्यध्वं भिक्षवाइतं भिक्षुं केशनखस्तूपे सर्वाङ्गेन प्रणिपत्य चित्तम् अभिप्रसादयन्तम् ।एवं भदन्त ।
अनेन भिक्षवो भिक्षुणा यावती भूमिर् आक्रान्ताधरशीतियोजनसहस्राणि यावत् काञ्चनचक्रं ।
अत्रान्तरे यावन्त्या वालिकास् तावन्त्य्- अनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि ।
यावद् अथायुष्मान् उपालिर् येन भगवान् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् ।
यद् उक्तं भगवतास्य भिक्षोर् एवं महान्ति कुशलमूलानि ।
कुत्रेमानि भगवन् कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति ।
नाहम् उपाले एवं
[ bendall ed p149 ---> ]
क्षतिं चोपहतिं च समनुपश्यामि ।
यथा सब्रह्मचारी सब्रह्मचारिणो ऽन्तिके दुष्टचित्तम् उत्पादयति ।
अत्रोपाले इमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति ।
तस्मात् तर्ह्य् उपाले एवं शिक्षितव्यं यद् दग्धस्थूणायाम् अपि चित्तं न प्रदूषयिष्यामः ।
प्राग् एव सविज्ञानके कायेति ॥
आर्यमञ्जुश्रीविक्रीडितसूत्रे ऽप्य् आह ।
प्रतिघः प्रतिघेति कल्पशतोपचितं कुशलमूलं प्रतिहन्ति तेनोच्यते प्रतिघेति ॥
आर्यगण्डव्यूहसूत्रे च समन्तसत्वपरित्राण्य् ओजसः स्त्रिया रात्रिदेवतया पूर्वावदानं कथयन्त्याभिहितं ।
ते तेनान्योन्यावमन्यनासमुदितेनाकुशलमूलेनायुःप्रमाणाद् अपि परिहीयन्ते स्म ।
वर्णाद् अपि बलाद् अपि परिहीयन्ते स्मेति ।
अत्र च न कदाचिद् उन्नतिः कार्येति प्रदर्शनार्थं सदेत्य् उ-
[ cambridge ms f74a ---> ]
च्यते ॥
लाभसत्कारस् तु कदाचिद् अभ्युपगम्यते ऽपि ।
यथोक्तं आर्यरत्नमेघे ।
इह कुलपुत्र बोधिसत्वः सुमेरुमात्रम् अपि रत्नराशिं लभमानः प्रतिगृह्णाति ।
प्रत्यवरम् अपि वस्तु प्रतिलभमानः ।
तत् कस्य हेतोः ।
तस्याइवं भवति ।
एते सत्वा मत्सरिणो लुब्धा लोभाभिभूताः ।
तद्धेतोः तत्प्रत्ययं तन्निदानं महावारिस्कन्धावष्टब्देव संसारसागरे उन्मज्जनिमज्जनं कु-
[ bendall ed p150 ---> ]
र्वन्ति ।
तद् एषां भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय ।
सर्वं प्रतिगृह्य न स्वीकरोति ।
न लोभचित्तम् उत्पादयति ।
अन्यत्र सर्वसत्वसाधारणां बुद्धधर्मसंघेषु कारां करोति ।
यथा दुष्खितानां च सर्वसत्वानाम् उपजीव्यं करोति ।तं च दानपतिं समुत्तेजयति संप्रहर्षयतीति ॥
तथात्राइवोक्तं ।
तेन च दानेन नोन्नतो भवतीति ॥
पुनर् अत्राइवाह ।
यदि पुनर् अस्य तद्धेतोस् तत्प्रत्ययं तन्निदानं कीर्तिशब्दश्लोको भवति तत्र नोन्नामजातो भवति न मानजातो न मदजातः ।
एवं चास्य भवति ।
न चिरेण कालेन यस्य चायं कीर्तिश्लोकशब्दः समुत्थितो यैश् च समुत्थापितो यश् च कीर्तिशब्दश्लोकस् त्रयम् अप्य् एतत् सर्वेण सर्वं न भविष्यति ।
तत्र कः पण्डितजातीयो ऽनित्येषु न च स्थितेषु धर्मेष्व् अध्रुवेष्व् अनाश्वासिकेष्व् अनुनयचित्तम् उत्पादयेद् उन्नतो भवेन् मानदर्पितो वा ।
एवं हि बोधिसत्वो लाभसत्कारकीर्तिशब्दश्लोकेषु सूपस्थितस्मृतिर् विहरतीति ॥
पुनर् आह ।
चण्डालकुमारोपमाश् च लोके विहरन्ति नीचनीचेन मनसा ।
मानमददर्पाधिगताश् च भवन्ति पैशुन्यसंज्ञायाः सततसमितं प्रत्युपस्थितत्वाद् इति ॥
पुनर् अप्य् उक्तं ।
इह कुलपुत्राभिनिष्क्रान्तगृहवासः प्रव्रजितो बोधिसत्वो मृतकसदृशो ऽहं मित्रामात्य-
[ cambridge ms f74b ---> ]
ज्ञातिसालोहितानाम् इति निहतमानो भवति ।
वैरूप्यं मे ऽभ्युद्गतं विवर्णानि च मे वासांसि प्रावृतान्य् अन्यश् च मे आकल्पः संवृत्तेति निहतमानो भवति ।
मुण्डः पात्रपाणिः कुलात् कुलम् उपसंक्रमामि भिक्षाहेतोर् भिक्षानिदानम् इति निहतमानो भवति ।
नीचनीचेन चित्तेन चण्डालकुमारसदृशेन पिण्डाय चरामीति निहतमानो भवति ।
पैण्डिलिको ऽस्मि संवृतः ।
परप्रतिबद्धा च मे जीविकेति निहतमानो भवति ।
अवधूतम् अवज्ञातं प्रतिगृह्णामीति निहतमानो भवति ।
आराधनीया मे आचार्यगुरुदक्षिणीयेति निहतमानो भवति ।
संतोषणीया मे सब्रह्मचारिणो ।
यद् उत तेन तेनाचारगोचरसमुदाचारेणेति नि-
[ bendall ed p151 ---> ]
हतमानो भवति ।
अप्रतिलब्धानुबद्धधर्मान् प्रतिपत्स्यए इति निहतमानो भवति ।
क्रुद्धानां व्यापन्नचित्तानां सत्वानां मध्ये क्षान्तिबहुलो विहरिष्यामीति निहतमानो भवतीति ॥
आर्यसागरमतिसूत्रे ऽप्य् उक्तं ।
सत्कायपरिशुद्धश् च भवति ।
लक्षणसमलंकृतगात्रमृदुतरुणहस्तपादः स्वविभक्तपुण्यनिष्यन्दगात्रो ऽहीनेन्द्रियः सर्वाङ्गप्रत्यङ्गपरिपूर्णः ।
न च रूपमदमत्तो भवति ।
न कायमण्डनयोगानुयुक्तः ।
स कियद् धीनानाम् अपि सत्वानां रूपविकलानाम् अप्य् अवनमति प्रणमति धर्मग्राह्यताम् उपादायेति ॥
पुनर् अत्राइवोक्तं ।
स्याद् यथापि नाम भगवन् यदा महासागरः प्रतिसंतिष्ठते तदा निम्ने पृथिवीप्रदेशे संतिष्ठते ।
तस्य निम्नत्वाद् अल्पकृच्छ्रेण सर्वनद्यश् च सर्वप्रश्रवणानि च प्रपतन्ति ।
एवम् एव भगवन् निर्मानस्य गुरुदक्षिणीयगौरवस्य बोधिसत्वस्याल्पकृच्छ्रेण तानि गम्भीराणि धर्मसुखानि श्रो-
[ cambridge ms f75a ---> ]
तेन्द्रियस्याभासम् आगच्छन्ति ।
स्मृतौ चावतिष्ठन्ते ।
तस्मात् तर्हि भगवन् यो बोधिसत्वो मानोन्नतो भवति मानस्तब्धः न च गुरुदक्षिणीयेभ्यो ऽवनमति न प्रणमति वेदितव्यं भगवन् माराङ्कुशाविद्धो वतायं बोधिसत्वेति ॥
आर्यलोकोत्तरपरिवर्ते चोक्तं ।
दशेमानि भो जिनपुत्र बोधिसत्वानां मारकर्माणि ।
कतमानि दश ।
यद् इदं गुरुदक्षिणीयाचार्यमातापितृश्रमणब्राह्मणसम्यग्गतसम्यक्प्रतिपन्नेष्व् अगौरवता मारकर्म ।
धर्मभाणकानां विशिष्टधर्माधिगतानाम् उदारधर्मदेशकानां महायानसमारूढानां निर्वाणपथविधिज्ञानां धारणीसूत्रान्तराजप्रतिलब्धानां नावनमति ।
गर्वितस्तब्धश् च भवति ।
धर्मभाणके न गौरवम् उत्पादयति ।
न शुश्रूषां न चित्रीकारं करोति ।
मारकर्म धर्मश्रवणसांकथ्ये च निषण्णए उदारधर्मवेगे समुत्पन्ने धर्मभाणकस्य साधुकारं न
[ bendall ed p152 ---> ]
प्रयच्छति मा कश्चिद् अस्मिन् प्रशंसतीति मारकर्म ॥
अभिमानं चोत्पाद्यात्मानं प्रतिगृह्णाति ।
परांश् च न गृह्णाति ।
आत्मज्ञतां च नावतरति ।
चित्तनिध्यप्तिं नोत्पादयति ।
मारकर्म ॥
अधिमानं चोत्पाद्याजानन्न् अबुध्यमानो वर्णार्हाणां पुद्गलानां वर्णं प्रतिच्छादयति ।
अवर्णं भाषते ।
न च परस्य गुणवर्णेनात्तमना भवति ।
मारकर्म ॥जानाति च ।
अयं धर्मो ऽयं विनयो भूतम् इदं बुद्धवचनम् इति ।
पुद्गलविद्वेषेण धर्मविद्वेषं करोति ।
सद्धर्मं प्रतिक्षिपति ।
अन्यांश् च विग्राहयति ।
मारकर्म ॥
उच्चमानसं प्रार्थयते परिहारधर्मं न मार्गयति ।
परोपस्थानं सो ऽभियाति ।
अभिनन्दति ।
वृद्धस्थविराणां चिरचरितब्रह्मचर्याणां न प्रत्युपतिष्ठते न च प्रत्युद्गच्छति ।
मारकर्म ॥
भृकुटीमुखः खलु पुनर् भवति ।
न स्मितमुखः ।
न खिल मधुरवचनः ।
सदा कठिनचित्तश् छिद्रान्वेषी ॥
अवतारप्रेक्षी ।
मा-
[ cambridge ms f75b ---> ]
रकर्म ॥
अभिमानं च पतित्वा पण्डितान् नोपसंक्रामति ।
न सेवते ।
न भजते ।
न पर्युपास्ते ।
न परिप्रश्नयति ।
न परिपृच्छति ।
किं कुशलं किम् अकुशलं किं करणीयं किं कृतं दीर्घरात्रम् अर्थाय हिताय सुखाय भवति ।
किं वाकृतं दीर्घरात्रम् अनर्थायाहितायासुखाय भवतीति ।
सजडः सजडतरो भवति ।
मोहव्यूहो मानग्राही ।
अनिःसरणदर्शी ।
मारकर्म ॥
सअ मानाभिभूतो बुद्धोत्पादं विरागयति ।
पूर्वकुशलमूलं क्षपयति ।
नवं नोत्थापयति ।
अनिर्देशं निर्दिशति ।
विग्रहम् आरभते विवादबहुलश् च भवति ।
साइवं धर्मविहारी स्थानम् एतद् विद्यते यस्मिन् मिथ्या महाप्रपातं पतेत् ।
अथ च पुनर् बोधिचित्तबलाधीनाद् ऐश्वर्यं प्रतिलभते ।
स कल्पशतसहस्रेषु बुद्धोत्पादं नासादयति ।
कुतः पुनर् धर्मश्रवणम् ।
इदं दशमं मारकर्म ॥
इमानि भो जिनपुत्र दश मारकर्माणि ।
यानि परिवर्ज्य बोधिसत्वा दश ज्ञानकर्माणि प्रतिलभन्ते ।
अत्राइव च ज्ञानकर्मसु पच्यते ।
निर्मानता सर्वसत्वेष्व् इति ॥
[ bendall ed p153 ---> ]
आर्यराष्ट्रपालसूत्रे ऽप्य् उक्तं ।
अपायभूमिं ।
गतिम् अक्षणेषु ।
दरिद्रतां ।
नीचकुलोपपत्तिम् ।
जात्यन्ध्यदौर्बल्यम् अथाल्पस्थामतां ।
गृह्णन्ति ते मानवशेन मूढाः ॥
इति ॥
धर्मसंगीतिसूत्रे ऽप्य् उक्तं ।
सत्वक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रं यतश् च बुद्धक्षेत्राद् बुद्धधर्माणां लाभागमो भवति ।
नार्हामि तस्मिन् विप्रतिपत्तुम् ।
एवं चास्य भवति ।
सर्वं सुचरितं दुश्चरितं च सत्वान् निश्रित्य प्रवर्तते ।
दुश्चरिताश्रमाच् चापायाः प्रवर्तन्ते ।
सुचरिताश्रयाद् देवमनुष्येति ॥
अताइव रत्नोल्काधारण्याम् अप्य् उक्तं ।
इह भो जिनपुत्राः प्रथमचित्तोत्पादिको बोधिसत्वः आदिताइव सर्वसत्वानाम् अन्तिके दशप्रकारं चित्तम् उत्पादयति ।
कतमद् दशप्रकारं ।
तद् यथा ।
हितचित्ततां सुखचित्ततां दायाचित्ततां स्निग्धचित्ततां-
[ cambridge ms f76a ---> ]
प्रियचित्ततां अनुग्रहचित्ततां आरक्षाचित्ततां समचित्ततां आचार्यचित्ततां शास्तृचित्ततां ।
इदं दशप्रकारं चित्तम् उत्पादयतीति ॥
श्रद्धाबलाधानावतारमुद्रासूत्रे ऽप्य् उक्तं ।
सर्वसत्वानां शिष्यत्वाभ्युपगमे स्थितो ऽस्मि ।
परांश् च सर्वसत्वशिष्यत्वाभ्युपगमे प्रतिष्ठापयिष्यामीत्य् आश्वासं प्रतिलभते ॥
पेयालं ॥
सर्वसत्वेष्व् अवनमप्रणमनतायां प्रतिष्ठितो ऽस्मीति पूर्ववत् ॥
तत्रावनमनप्रणमनतायां सर्वसत्वेषु निर्मानता ॥
तथार्यविमलकीर्तिनिर्देशे ।
परिशुद्धबुद्धक्षेत्रोपपत्तये सर्वसत्वेषु शास्तृप्रेमोक्तं ।
लोकप्रसादानुरक्षार्थं त्व् आसनपादप्रख्यालनकर्म कुर्वतापि चेतसा स्त्रीषु वाक्षणप्राप्तेषु वा विनिपतितेषु बोधिसत्वेन प्रेमगौरवाभ्यासः कार्यः ॥
[ bendall ed p154 ---> ]
उक्तं हि गण्डव्यूहे तस्य समनन्तरनिषण्णस्य तस्मिन् महासिंहासने सर्वः स जनकायो ऽभिमुखः प्राञ्जलिस्थितो ऽभूत् ।
तम् एव राजानं नमस्यमानः ॥
पे ॥
स खलु सर्वधर्मनिर्नादच्छत्रमण्डल निर्घोषो राजा तेषां याचनकानां सह दर्शनेनात्तमनस्कतरो राज्ञानेन च त्रिसाहस्रचक्रवर्तिराज्यप्रतिलाभेनासीमाप्राप्तकल्पपर्यवसानेन ।
यावत् शुद्धावासदेवशान्तिविमोक्षमुखविहारेणापर्यन्तकल्पावसानेन ।
तद् यथा कुलपुत्र पुरुषस्याइकान्ततृष्णाचरितस्य मातापितृभ्रातृभगिनीमित्रामात्यज्ञातिसालोहितपुत्रदुहितृभार्याचिरकालवियुक्तस्याटवीकान्तारविप्रणष्टस्य तद्दर्शनकामस्य ।
तेषां समवधानेन महती प्रीतिर् अध्यवसानम् उत्पतेत् तद्दर्शनावितृप्ततया ।
एवम् एव कुलपुत्र राज्ञः सर्वधर्मनिर्नादच्छत्र मण्डलनिर्घोषस्य तेषां याचनकानां सह दर्शनेन महाप्रीतिवेगाः संजाताः ।
चित्ततुष्टिसुखम् अवक्रान्तं महांश् चित्तोदग्रतावेगः प्रादुर्भू-
[ cambridge ms f76b ---> ]
तो यावत् तेषु सर्वयाचनकेषु एकपुत्रकसंज्ञा मातापितृसंज्ञा दक्षिणीयसंज्ञा कल्याणमित्रसंज्ञा वर्णसंज्ञा दुर्लभसंज्ञा दुष्करकारकसंज्ञा बहुकरसंज्ञा परमोपकारिसंज्ञा बोधिमार्गोपस्तम्भसंज्ञाचार्यशास्तृसंज्ञोत्पद्येतेति ॥
एवम् अन्यगतभावे सत्वानाम् अग्रतोगमनोपस्थानादिप्रसङ्गे सर्वोत्सर्गं स्मरेत् ।
एषाम् एवायम् आत्मीयः कायः ।
यथेष्टम् अत्र वर्तन्ताम् ।
पृथिवीशोधनोपलेपनादिष्व् इव स्वसुखार्थम् इति ।
अथवा स्वाम्य्-अप्रसादभीतेनेव तत्प्रसादार्थिनेव तदाज्ञासंपादना मनसि कर्तव्या ।
भगवतो ऽप्य् उपस्थानं कुर्वतो ऽन्यगत्यभावात् ।
भिक्षुणा ग्लानेनाङ्गीकृतं ॥
यथोक्तं भिक्षुप्रकीर्णके ।
भगवान् आह ।
मा भाय भिक्षु मा भाय भिक्षु ।
अहं ते भिक्षूपस्थास्यं ।
आहर भिक्षु चीवराणि यावत् ते धोपामि ।
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् ।
मा भगवान् एतस्य ग्लानस्याशुचिम्रक्स्.इतानि चीवराणि धोवतु ।
अहं भगवन् धोविष्यं ।
भगवान् आह ।
तेन ह्य् आनन्द त्वम् एतस्य भिक्षुस्य चीवराणि धोव ।
तथागतो उदकम् आ-
[ bendall ed p155 ---> ]
सिञ्चिष्यति ।
अथ खल्व् आयुष्मान् आनन्दो तस्य ग्लानस्य भिक्षुस्य चीवराणि धोवति ।
भगवान् उदकम् आसिञ्चति ॥
पे ॥
अथ खल्व् आयुष्मान् आनन्दस् तं ग्लानं भिक्षुं साधु च सुष्ठु चानुपरिगृह्य बहिर्धा हरित्वा स्नापयेत् ।
भगवान् उदकम् आसिञ्चतीति ।
आह च।
यान् आराध्य महत् त्वं विराध्य कष्टां विपत्तिम् आप्नोति ।
प्राणपरित्यागैर् अपि तेषां ननु तोषणं न्याय्यं ॥
एते ते वै सत्वाः प्रसाद्य यान् सिद्धम् आगता बहवः ।
सिद्धिक्षेत्रं नान्यत् सत्वेभ्यो विद्यते जगति ॥
एते चिन्तामणयो भद्रघटा धेनवश् च कामदुघाः ।
गुरुवच् च देवतेव च तस्माद् आराधनीयास् ते ॥
किं च निश्छद्मबन्धूनाम् अप्रमेयोपकारिणाम् ।
सत्वाराधनम् उत्सृज्य निष्कृतिः का परा भवेत् ॥
शिरसा धारयाम् आस पुरा नाथो यथेप्सितम् ।
जटास्वध्युषितान् सत्वान् भूत्वा यत्नेन निश्चलः ॥
भिन्दन्ति देहं प्रविशन्त्य् अवीचीम् येषां कृते तत्र कृते कृतं स्यात् ॥
महापकारिष्व् अपि तेन सर्वं कल्याणम् ए-
[ cambridge ms f77a ---> ]
वाचरणीयम् एषु ॥
स्वयं मम स्वामिनाइव तावद् यद् अर्थम् आत्मन्य् अपि निर्व्यपेक्षाः ।
अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् ॥
[ bendall ed p156 ---> ]
येषां सुखे यान्ति मुदं मुनीन्द्राः येषां व्यथायां प्रविशन्ति मन्युम् ।
तत्तोषणात् सर्वमुनीन्द्रतुष्टिस् तत्रापकारे ऽपकृतं मुनीनां ॥
आदीप्तकायस्य यथा समन्तान् ।
न सर्वकामैर् अपि सौमनस्यम् ।
सत्वव्यथायाम् अपि तद्वद् एव न प्रीत्युपायो ऽस्ति महाकृपाणाम् ॥
तस्मान् मया यज्जनदुष्खनेन ।
दुष्खं कृतं सर्वमहादयानां ।
तद् अद्य पापं प्रतिदेशयामि यत्खेदितास् ते मुनयः क्षमन्ताम् ॥
आराधनायाद्य तथागतानां सर्वात्मना दास्यम् उपैमि लोके ।
कुर्वन्तु मे मूर्ध्नि पदं जनाउघाः निघ्नन्तु वा तुष्यतु लोकनाथाः ॥
आत्मीकृतं सर्वम् इदं जगत् तैः कृपात्मभिर् नाइव हि संशयो ऽत्र ।
दृश्यन्तए एते ननु सत्वरूपास् ।
तए एव नाथाः किम् अनादरो ऽत्र ॥
तथागताराधनम् एतद् एव स्वार्थस्य संसाधनम् एतद् एव ।
लोकस्य दुष्खापहम् एतद् एव तस्मान् ममास्तु व्रतम् एतद् एव ॥
यथाइको राजपुरुषः प्रमथ्नाति महाजनं ।
विकरोति न शक्नोति दीर्घदर्शी महाजनः ॥
यस्मान् नाइव साइकाकी तस्य राजबलं बलं ।
तथा न दुर्बलं कंचिद् अपराद्धं विमानयेत् ॥
यस्मान् नरकपालाश् च कृपावन्तश् च तद्बलं ।
तस्माद् आराधयेत् सत्वान् भृत्यश् चण्डनृपं यथा ॥
कुपितः किं नृपः कुर्याद् येन स्यान् नरकव्यथा ।
यत्सत्वदौर्मनस्येन कृतेन ह्य् अनुभूयते ॥
[ bendall ed p157 ---> ]
तुष्टः किं नृपतिर् दद्याद् यद् बुद्धत्वसमं भवेत् ।
यत् सत्वसौमनस्येन कृतेन ह्य् अनुभूयते ॥
आस्तां भविष्यद्बुद्धत्वं सत्वाराधनसंभवं ।
इहाइव सौभाग्ययशः सौस्थित्यं किं न पश्यसि ॥
प्रासादिकत्वम् आरोग्यम् प्रामोद्यं चिरजीवितं ।
चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥
मैत्राशयश् च यत् पूज्यः सत्वमाहात्म्यम् एव तत् ।
बुद्धप्रसादाद् यत् पुण्यं बुद्धमाहात्म्यम् एव तत् ॥
अताइव हि चन्द्रप्रदीपसूत्रे मैत्रीभावफलम् उद्भावितम् ।
यावन्ति पूजां बहुविधाप्रमेयाः ।
क्षेत्रं शतेषु नियुत च बिम्बरेषू ।
तां पूज कृत्वातुलियनाय-
[ cambridge ms f77b ---> ]
कानां ।
संख्याकलापी [[दोउब्त्]] न भवति मैत्रचित्ते ॥
तस्माद् एवंविधेषु महादक्षिणीयेषून्नतिं वर्जयेत् सदा ।
एषा चोन्नतिर् अयोनिशोमनस्कारात् संभवतीति ॥तस्यानवतारे यत्नः कार्यः ।
यथोक्तं रत्नमेघे ।
कथं च कुलपुत्र बोधिसत्वो ऽयोनिशोमनस्कारापगतो भवति ।
इह बोधिसत्वाइकाकी रहोगतः प्रविवेकस्थितो नाइवं चित्तम् उत्पादयति ।
अहं असंकीर्णविहारी ।
अहं प्रविवेकस्थितः ।
अहं प्रतिपन्नस् ताथागते धर्मविनये ।
ये त्व् अन्ये श्रमणा वा ब्राह्मणा वा सर्वे ते संकीर्णविहारिणः ।
संसर्गबहुलोद्धुरास् ताथागताद् धर्मविनयात् ॥
[ bendall ed p158 ---> ]
एवं हि बोधिसत्वो ऽयोनिशोमनस्कारापगतो भवति ॥
पुनर् अत्राइवोक्तम् ।
इह बोधिसत्वो वीर्यम् आरभमाणो न तन् महद् वीर्यम् आस्वादयति ।
न च तेन वीर्येणात्मानम् उत्कर्षयति ।
न परान् पंसयति ।
तस्याइवं भवति ।
को हि नाम सप्रज्ञजातीयः स्वकर्माभियुक्तः परांश् चोदयेत् ॥
एवं हि बोधिसत्वो ऽनुन्नतवीर्यो भवति ॥
एष तु पुण्यरक्षायाः संक्षेपो यद् बोधिपरिणामना ॥
तथा ह्य् उक्तम् आर्याक्षयमतिसूत्रे ।
न हि बोधिपरिणामितस्य कुशलमूलस्यान्तरा कश्चित् परिक्षयो यावद् बोधिमण्डनिषदनात् ।
तद् यथापि नाम भदन्त शारद्वतीपुत्र महासमुद्रपतितस्योदकबिन्दोर् नान्तरास्ति क्षयो यावन् न कल्पपर्यवसान ।
इति ॥
इति शिक्षासमुच्चये भोगपुण्यरक्षा सप्तमः परिच्छेदः ॥
पापशोधनं अष्टमः परिच्छेदः ।
उक्ता त्रयाणाम् अप्य् आत्मभावादीनां रक्षा ।
शुद्धिर् अधुना वक्तव्या ।
किम् अर्थम् ।
शोधितस्यात्मभावस्य भोगः पथ्यो भविष्यति ।
सम्यक्सिद्धस्य भक्तस्य निष्कणस्येव देहिनाम् ॥
यथोक्तम् आर्यतथागतगुह्यसूत्रे ।
यानि च तानि महानगरेषु महाश्मशानानि भवन्त्य् अनेकप्राणिशतसहस्राकीर्णानि ।
तत्रापि स बोधिसत्वो महासत्वो*महान्तम् आत्मभावं मृतं का-
[ bendall ed p159 ---> ]
लगतम् उपदर्शयति ।
तत्र ते तिर्यग्योनिगताः सत्वा यावद् अर्थं मांसं*परिभुज्यायुःपर्यन्ते मृताः कालगताः सुगतौ स्वर्गलोके देवेषूपपद्यन्ते ।
स चाइव तेषां हेतुर् भवति यावत् परि-
[ cambridge ms f78a ---> ]
निर्वाणाय ।
यद् इदं ।
तस्याइव बोधिसत्वस्य पूर्वप्रणिधानपरिशुद्ध्या ।
येन दीर्घरात्रम् एवं प्रणिधानं कृतं ।
ये मे मृतस्य कालगतस्य मांसं परिभुञ्जीरन् ।
साइव तेषां हेतुर् भवेत् स्वर्गोत्पत्तये यावत् परिनिर्वाणाय तस्य शीलवतः ।
ऋध्यति चेतना ।
ऋध्यति प्रार्थना ।
ऋध्यति प्रणिधानम् इति ॥
पुनर् अत्राइवोक्तं ।
स धर्मकायप्रभावितो दर्शनेनापि सत्वानाम् अर्थं करोति ।
श्रवणेनापि स्पर्शनेनापि सत्वानाम् अर्थं करोति ।
तद् यथापि नाम शान्तमते जीवकेन वैद्यराजेन सर्वभैषज्यानि समुदानीय भैषज्यतरुसंहातम् अयं दारिकारूपं कृतं प्रासादिकं दर्शनीयं सुकृतं सुनिष्ठितं सुपरिकर्मकृतं ।
सागच्छति गच्छति तिष्ठति निषीदति शय्यां च कल्पयति ।
तत्र ये आगच्छन्त्य् आतुरा महात्मानो राजानो वा राजमात्रा वा श्रेष्ठिगृहपत्यमात्यकोट्टराजानो वा ।
तान् स जीवको वैद्यराजस् तया भैषज्यदारिकया सार्द्धं संयोजयति ।
तेषां समनन्तरसंयोगम् आपन्नानां सर्वव्याधयः प्रस्रभ्यन्ते ऽरागाश् च भवन्ति सुखिनो निर्विकाराः ।
पश्य शान्तमते जीवकस्य वैद्यराजस्य लौकिकव्याधिचिकित्साज्ञानं यद्य् अन्येषां वैद्यानां संविद्यते ।
एवम् एव शान्तमते तस्य धर्मकायप्रभावितस्य बोधिसत्वस्य यावन्तः सत्वाः स्त्रीपुरुषदारकदारिका रागदोषमोहसंतप्ताः कायं स्पृशन्ति ।
तेषां संस्पृष्टमात्राणां सर्वक्लेशाः प्रस्रभ्यन्ते विगतसंतापं च कायं संजानन्ति ॥
यद् इदं तस्याइव बोधिसत्वस्य पूर्वप्रणिधानसुपरिशुद्धत्वात् ।
एतदर्थम् आत्मभावः शोध्यः ॥
किं चाशोधने दोषम् आह ।तृणछन्नं यथा शस्यं रोगैः सीदति नाइधते ।
बुद्धाङ्कुरस् तथा वृद्धिं क्लेशछन्नो न गच्छति ॥
[ bendall ed p160 ---> ]
प्रतिपक्षनिरासेन वृद्ध्यर्थं चेत्य् अभिप्रायः ॥
आत्मभावस्य का शुद्धिः ।
पापक्लेशविशोधनं ।
संबुद्धोक्त्यर्थसारेण ।
यत्नाभावे त्व् अपायगः ॥
तत्र पापशोधनं चतुर्धर्मकसूत्रे देशितं ।
चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधिसत्वो महासत्वः कृतोपचितं पापम् अभिभवति ।
कतमैश् चतुर्भिः ।
यद् उत ।
विदूषणासमुदाचारेण प्रतिपक्षसमुदाचारेण ।
प्रत्यापत्तिबलेन ।
आश्रयबलेन च ॥
तत्र वि-
[ cambridge ms f78b ---> ]
दूषणासमुदाचारो ऽकुशलं कर्माध्यचारति तत्र तत्राइव च विप्रतिसारबहुली भवति ॥
तत्र प्रतिपक्षसमुदाचारः कृत्वाप्य् अकुशलं कर्म कुशले कर्मण्य् अत्यर्थाभियोगं गतः ॥
प्रत्यापत्तिबलं संवरसमादानाद् अकरणसंवरलाभः ॥
तत्राश्रयबलं बुद्धधर्मसंघशरण गमनम् अनुत्सृष्टबोधिचित्तता च ।
सुबलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुं ।
एभिर् मैत्रेय चतुर्भिर् धर्मैः समन्वागतो बोधिसत्वो महासत्वः कृतोपचितं पापम् अभिभवतीति ॥
तत्र कथं विदूषणासमुदाचारो भावयितव्यः ।
यथा सुवर्णप्रभासोत्तमसूत्रे ऽभिहितं ॥
समन्वाहरन्तु मां बुद्धाः कृपाकारुण्यचेतसः ।
ये च दशदिशि लोके तिष्ठन्ति द्विपदोत्तमाः ॥
[ bendall ed p161 ---> ]
यच् च मे पापकं कर्म कृतं पूर्वं सुदारुणं ।
तत् सर्वं देशयिष्यामि स्थितो दशबलाग्रतः ॥
मातापित्-र्न् अजानता बुद्धानाम् अप्रजानता ।
कुशलं चाप्रजानता यत् तु पापं कृतं मया ॥
ऐश्वर्यमदमत्तेन कुलभोगमदेन च ।
तारुण्यमदमत्तेन यत् तु पापं कृतं मया ॥
दुश्चिन्तितं दुरुक्तं च दुष्कृतेनापि कर्मणा ।
अनादीनवदर्शिना यत् तु पापं कृतं मया ॥
बालबुद्धिप्रचारेणाज्ञानावृतचेतसा ।
पापमित्रवशाच् चाइव क्लेशव्याकुलचेतसा ॥
क्रीडारतिवशाच् चाइव शोकरोगवशेन वा ।
अतृप्तधनदोषेण यत् तु पापं कृतं मया ॥
अनार्यजनसंसर्गैर् ईर्ष्यामात्सर्यहेतुना ।
शाठ्यदारिद्र्यदोषेण यत् तु पापं कृतं मया ॥
व्यसनागमकाले ऽस्मिन् कामानां भयहेतुना ।
अनैश्वर्यगतेनापि यत् तु पापं कृतं मया ॥
चलचित्तवशेनाइव कामक्रोधवशेन वा ।
क्षुत्पिपासार्दितेनापि यत् तु पापं कृतं मया ॥
[ bendall ed p162 ---> ]
पानार्थं भोजनार्थं च वस्त्रार्थं स्त्रीषु हेतुना ।
विचित्रैः क्लेशसंतापैर् यत् तु पापं कृतं मया ॥
कायवाङ्मनसां पापं त्रिधा दुश्चरितं चित्तं ।
यत् कृतम् ईदृशै रूपैस् तत् सर्वं देशयाम्य् अहम् ॥
यत् तु बुद्धेषु धर्मेषु श्रावकेषु तथाइव च ।
अगौरवं कृतं स्याद् धि तत् सर्वं देशयाम्य् अहम् ॥
यत् तु प्रत्येकबुद्धेषु बोधिसत्वेषु वा पुनः ।अगौरवं कृतं स्याद् धि तत् स्र्वं देशयाम्य् अहम् ॥
सद्धर्म-
[ cambridge ms f79a ---> ]
भाणकेष्व् एवान्येषु गुणवत्सु वा ।
अगौरवं कृतं स्याद् धि तत् सर्वं देशयाम्य् अहम् ॥
सद्धर्मः प्रतिक्षिप्तः स्याद् अज्ञानं तेन मे सदा ।
मातापितृष्व् अगौरवं तत् सर्वं देशयाम्य् अहम् ॥
मूर्खत्वेन बालत्वेन मानदर्पावृतेन च ।
रागद्वेषेण मोहेन तत् सर्वं देशयाम्य् अहम् ॥
व्यवलोकयन्तु मां बुद्धाः समन्वाहृतचेतसः ।
अत्ययं प्रतिगृह्णन्तु कारुण्यार्पितचेतसः ॥
[ bendall ed p163 ---> ]
यत् तु पापं कृतं पूर्वं मया कल्पशतेषु च ।
तस्यार्थं शोकचित्तो ऽहं क्र्पणीयो भयार्दितः ॥
भवामि पापकर्माणां सततं दीनमानसः ।
यत्र यत्र चरिष्यामि न चास्ति मे बलं क्वचित् ॥
सर्वे कारुणिका बुद्धाः सर्वे भयहरा जगे ।
अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् ॥
क्लेशकर्मफलं मह्यं प्रवाहयन्तु तथागताः ।
स्नापयन्तु च मां बुद्धाः कारुण्यसरितोदकैः ॥
सर्वं पापं देशयामि यत् तु पूर्वं कृतं मया ।
यच् चाइतर्हि मे पापं तत् सर्वं देशयाम्य् अहम् ॥
आयत्यां संवरम् आपद्ये सर्वदुष्कृतकर्मणाम् ।
न छादयामि तत् पापं यद् भवेन् मम दुष्कृतम् ॥
त्रिविधं कायिकं कर्म वचसा च चतुर्विधम् ।
मनसा त्रिप्रकारेण तत् सर्वं देशयाम्य् अहम् ॥
कायकृतं वाचकृतं मनसा च विचिन्तितं ।
कृतं दशविधं कर्म तत् सर्वं देशयाम्य् अहम् ॥
[ bendall ed p164 ---> ]
यच् च मे पापकं कर्मानिष्टफलदायकं ।
तत् सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः ॥
भवगतिसंकटे बालबुद्धिना पापं यन् मे कृतं सुदारुणम् ।
दशबलम् अग्रतः स्थितः तत् सर्वं पापं प्रतिदेशयामि ।
देशयामि च तत् पापं यन् मया संचितं जन्मसंकटे विविधैः कायप्रचारसंकटैर् भवसंकटलोकसंकटे चापलचलचित्तसंकटे मूर्खबालकृतक्लेशसंकटे ।
पापमित्रागमसंकटे च ।
भयसंकटरागसंकटे दोषमोहतमसंकटैर् अपि क्षणसंकटे कालसंकटे पुण्योपार्जनसंकटैर् अपि ।
जिनसंकटसंमुखस्थितः ।
तत् सर्वपापं प्रतिदेशयामि ॥
विशेषतस् तु बोधिसत्वापत्तीनां गुर्वीणां लघ्वीनां देशनार्योपालिपरिपृच्छायाम् उक्ता
[ cambridge ms f79b ---> ]
का पुनर् गुर्वी मूलापत्तिः ॥
सामान्यतस् तु तत्रोक्तं ।
सचेद् उपाले महायानसंप्रस्थितो बोधिसत्वो महासत्वो गङ्गानदीवालिकोपमा रागप्रतिसंयुक्तापत्तीर् आपद्येत ।
यां चाइकतो द्वेषसंप्रयुक्ताम् आपत्तिम् आपद्येत बोधिसत्वयानं प्रमाणीकृत्य ॥
पे ॥
इयं ताभ्यो गुरुतरापत्तिर् येयं द्वेषसंयुक्ता ।
तत् कस्य हेतोः ।
यो ऽयं द्वेषोपाले सत्वपरित्यागाय संवर्तते ।
रागः सत्वसंग्रहाय संवर्तते ।
तत्रोपाले यः क्लेशः सत्वसंग्रहाय संवर्तते ।
न तत्र बोधिसत्वस्य छलं न भयं ॥
पे ॥
तस्मात् तर्हि त्वाम् उपाले याः काश्चन रागप्रतिसंयुक्तापत्तयः सर्व-स् तानापत्तयेति वदामि ।
को ऽत्राभिप्रायः ।
सत्वसंग्रहस्याइव पूर्वम् एव विशेषितत्वाद् ।
अध्याशयकृपावतो ह्य् अयम् उपदेशः ॥
यस्माद् अनन्तरम् आह ।
तत्रोपाले ये ऽनुपायकुशला बोधिसत्वास् ते रागप्रतिसंयुक्ताभ्यापत्तिभ्यो बिभ्यति ।
ये पुनर् उपायकुशला-
[ bendall ed p165 ---> ]
बोधिसत्वास् ते द्वेषसंप्रयुक्ताभ्यापत्तिभ्यो बिभ्यति न रागप्रतिसंयुक्ताभ्येति ॥
के पुनर् उपायकुशलाः ।
ये प्रज्ञाकृपाभ्यां सत्वत्यागान् निवार्यन्ते ।
उभयथा हि सत्वत्यागो भवति ।
केवलप्रज्ञया दुष्खशून्यतावबोधात् ।
केवलया च कृपया क्लेशबलाद् अचिरेण कृपाहानिः ॥
यद् उक्तम् उपायकौशल्यसूत्रे ।
तद् यथा कुलपुत्र मंत्रविद्याधरः पुरुषो राज्ञा पञ्चपाशकेन बन्धनेन बद्धः स्यात् ।
स यदा काङ्क्षेत प्रक्रमणाय तदाइकमन्त्रविद्याबलेन सर्वबन्धनानि छित्त्वा प्रक्रमेत् ।
एवम् एव कुलपुत्रोपायकुशलो बोधिसत्वः पञ्चभिः कामगुणै रतिं विन्दति तैश् चाकीर्णो विहरति ।
यदा च पुनर् आकाङ्क्षते तदा प्रज्ञाबलाधीनेनाइकेन च सर्वज्ञताचित्तेन सर्वकामगुणान् प्रभुज्य च्युतो ब्रह्मलोकए उपपद्यतए इति ॥द्वेषे ऽपि किं नाइवम् इष्यते ।
प्रकृतिमहासावद्यत्वात् ।
कृपावैकल्ये चोपायस्याइवासंभवात् ॥
परार्थसिद्धिं वा स्वार्थाद् गुरुतराम् अधिमुच्यमानः कोपपरवत्तयापि परम् अनुशास्यानुतापपूर्वकम् आयत्यां संवरम् उत्पद्यते ।
अहितनिवारके क्रोधे को दोषः ।
अवकाश-
[ cambridge ms f80a ---> ]
दानेन तद्वासनादोषात् कृपाहानिदोषः ।
तच्छेदेन मूलच्छेददोषेति पश्चाद् दर्शयिष्यामः ।
यद्य् अपि तस्य सत्वस्य तद्धितं तथापि बोधिसत्वकृपाहान्या महतः सत्वार्थानुबन्धस्य हानिः स्यात् ॥
आर्यसत्यके परिवर्त्ते ऽपि पुत्रदृष्टान्तः करुणाधिष्ठिताइव वेदितव्यः ।
यश् च तत्रापि कृपाप्रतिषेधः स लोकार्थपाण्डित्येन लोकावर्जनार्थं ।
निवार्यमाणश् च यदि हितकामे बो-
[ bendall ed p166 ---> ]
धिसत्वे प्रतिघं लभेत स बोधिसत्वः स्याद् उभयोर् अनर्थः ॥
रागे ऽपि तर्हि दोषः पठ्यते ।
कामानुषेवणि भोति अन्ध मनुजो ।
मातापितृघातयी ।
कामान् सेवतु शीलवन्तु वधयी ।
तस्माद् विवर्जेत् सदेति ॥
स्वसौख्यसंगेन च परदुष्खोपेक्षा दृष्टा ॥
सत्यं दृष्टा ।
येन परदुष्खं स्वदुष्खतया नाभ्यस्तं ।
येन त्व् अभ्यस्तं ।
तस्योभयदोषासंभवः ॥
यथोक्तं चन्द्रप्रदीपसूत्रे ।
तद् यथापि नामानन्द कश्चिद् एव पुरुषो ऽधस्तात् पादतलम् आदाय यावन् मुर्द्धन्य् आदीप्तो भवेत् ।
संप्रज्वलिताइकज्वलीभु-तस् तं क?स्चिद् एव पुरुषोपसंक्रम्याइवं वदेद् ।
एहि त्वां भोः पुरुष निर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडस्व रमस्व परिचारयस्वेति ।
तत् किं मन्यसे आनन्द ।
अपि तु स पुरुषो ऽनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः क्रीडेत रमेत् परिचरेत् ॥
आनन्दाह ॥
नो हीदं भगवन् ॥
भगवान् आह ।
क्रीडेतानन्द स पुरुषो रमेत् परिचरेत् परिकल्पम् उपादायापरिनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतो ।
न त्व् एवं तथागतस्य पूर्वं बोधिसत्वचर्यां चरमाणस्य सत्वान् त्रिभिर् अपायैर् दुष्खितान् दृष्ट्वा दरिद्रान् अभूत् सौमनस्यं वा चित्तप्रसादो वेति विस्तरः ॥
लोके ऽपि पुत्रे शूलम् आरोप्यमाणे ।
पश्यतोर् मातापित्रोर् न स्वसौख्यसंगो दृष्टः स्वानुरूपकृपावशात् ।
प्रच्छन्नस् तर्हि सस्वामिकासु निस्वामिकासु बाहुलधर्मध्वजरक्षितासु काममिथ्याचारो न स्यात् ।
सति सत्वार्थे सत्वानुपघाते चानुबन्धं निरूप्यादोषः
[ cambridge ms f80b ---> ]
॥
सम्यग्ब्रह्मचारिणीषु कृतार्थत्वाद् दूरात् परिहारः ।
पूज्या च मातृभगिन्य्-आदिवत् ।
एवं तर्हि भिक्षोर् अप्य् एवम् आपन्नं ।
न तस्यापरेण ब्रह्मचर्यप्रकारेण सत्वार्थसाधनात् ॥
[ bendall ed p167 ---> ]
तथा ह्य् उक्तम् आर्याक्षयमतिसूत्रे ।
कालाकाले पुनर् अनेनोपेक्षा करणीयेति ॥
अथ ततो ऽप्य् अधिकं सत्वार्थं पश्येत् ।
शिक्षां निक्षिपेत् ॥
उपायकौशल्यसूत्रे ज्योतिर्माणवकं द्वाचत्वारिंशद्वर्षसहस्रब्रह्मचारिणम् अधिकृत्य सप्तमे पदे स्थितस्य कारुण्यम् उत्पद्येत ।
किं चाप्य् अहम् इदं व्रतं खण्डयित्वा निरयपरायणः स्यां ।
तथाप्य् उत्सहे ऽहं नैरयिकं दुष्खं प्रतिवेदयितुम् अथ चेयं स्त्री सुखिता भवतु ।
मा कालं करोतु ।
इति हि कुलपुत्र ज्योतिर्माणवकः पश्चान्मुखो निवर्त्य तां स्त्रियं दक्षिणेन पाणिना गृहीत्वाइवम् आह ।
उत्तिष्ठ भगिनि यथाकामकरणीयस् ते भवामीति ॥
पे ॥
सो ऽहं कुलपुत्र महाकारुण्यचित्तोत्पादेनेत्वरेण कामोपसंहितेन दशकल्पसहस्राणि पश्चान्मुखम् अकार्षम् ।
पश्य कुलपुत्र यद् अन्येषां निरयसंवर्तनीयं कर्म ।
तद् उपायकुशलस्य बोधिसत्वस्य ब्रह्मलोकोपपत्तिसंवर्तनीयम् इति ॥
पुनर् अत्राइवाह ।
यदि बोधिसत्वाइकस्य सत्वस्य कुशलमूलं संजनयेत् तथारूपां चापत्तिम् आपद्येत यथारूपयापत्त्यापन्नया कल्पशतसहस्रं निरये पच्येत ।
उत्सोढव्यम् एव भगवन् बोधिसत्वेनापत्तिम् आपत्तुं तच् च नैरयिकं दुष्खं ।
न त्व् एव तस्याइकसय् सत्वस्य कुशलं परित्यक्तुम् इति ॥
पुनर् अत्राइवाह ।
इह कुलपुत्रोपायकुशलो बोधिसत्वो यदा कदाचित् कस्मिंश्चित् पापमित्रवशेनापत्तिम् आपद्येत ।
सेतः प्रतिसंशिक्षते ।
न मयाइभिः स्कन्धैः परिनिर्वापयितव्यं ।
मया पुनर् एवं संनाहः संनद्धव्यः ।
अपरान्तकोटिः संसरितव्या सत्वानां परिपाचनहेतोर् इति ।
न मया चित्तदाहः करणीयो ।
यथा यथा संसरिष्यामि तथा तथा सत्वान् परिपाचयिष्यामि ।
अपि त्व् एतां चापत्तिं यथाधर्मं प्रतिकरिष्यामि ।
आयत्यां संवरम् आपत्स्ये ।
सचेत् कुलपुत्र प्रव्रजितो बोधिसत्वः परिकल्पम् आदा-
[ cambridge ms f81a ---> ]
य सर्वाश् चतस्रो मूलापत्तीर् अतिक्रमेद् अनेन चोपायकौशल्येन विनोदयेद् ।
अनापत्तिं बोधिसत्वस्य वदामीति ॥
[ bendall ed p168 ---> ]
स्फुटं चार्यरत्नमेघे आनन्तर्यचिकीर्षुपुरुषमारणानुज्ञानात् ॥
श्रावकविनये ऽपि मूलापत्तिस्थानए एव कारुण्यान् मृगादिमोक्षणे ऽनापत्तिर् उक्ताइव ॥
अयं च रागे गुणो यद् बोधिसत्वे रागम् उत्पाद्य सुगतिर् लभ्यते ।
न तु क्रोधेन ॥
यथोक्तम् उपायकौशल्यसूत्रे ।
प्रियंकरे बोधिसत्वे रक्ता ... धव्योत्तरां दारिकाम् अधिकृत्य ।
प्रियंकरस्य प्रणिधेः पुनः पुनर् येस्त्रि प्रेक्षेत सरागचित्ता ।
सेस्त्रिभावं परिवर्जयित्वा पुरुषो भवेत् यादृग् उदारसत्वः ॥
पश्यस्वानन्द गुणास्येदृशाः ।
येनान्यसत्वा निरयम् व्रजन्ति ।
तेनाइव शूरेषु जनित्व रागं गच्छन्ति स्वर्गं पुरुषत्वम् एव च ॥
पे ॥
भैषज्यराजेषु महायशेषु ।
को बोधिसत्वेषु जनयेत द्वेषम् ।
येसां किलेशो ऽपि सुखस्य दायकः ।
किं वा पुनर् यः तान् सत्करेया ।
इति ॥
एवम् अन्यस्मिन् सत्वार्थोपाये सति रागजापत्तिर् अनापत्तिर् उक्ता ॥
उपायकौशल्यसूत्रे च गणिकावत् कृतार्थो बोधिसत्वो निरपेक्षस् तं सत्वं त्यजतीति विस्तरेणोक्तम् ॥
अलब्धभूमेश् च षट्पारमितासु चरितवतेयं चिन्ता ।
नेतरस्येत्य् आस्तां प्रासङ्गिकम् ॥
तस्माद् द्वेषस्यावकाशो न देय ।
उक्तं ह्य् उपालिपरिपृच्छायां ।
बोधिसत्वानां शारिपुत्र द्वे महासावद्ये आपत्ती ।
कतमे द्वे ।
द्वेषसहगता मोहसहगता चेति ।
तत्र शारिपुत्र प्रथमा
[ bendall ed p169 ---> ]
आपत्तिर् दशवर्गे ऋजुकेन देशयितव्या ।
हस्तापत्तिः पञ्च वर्गे गुर्वी देशयितव्या ।
स्त्रिया हस्तग्रहणं चक्षुर्दर्शनं ।
दुष्टचित्तापत्तिर् एकपुद्गलस्य द्वयोर् वा शारिपुत्र तां गुर्वीं दशयेत् ।
पञ्चानन्तर्यसमन्वागतापत्तिर् बोधिसत्वेन स्त्र्य्-आपत्तिर् दारिकापत्तिर् हस्तापत्तिः स्तूपापत्तिः संघापत्तिस् तथान्याश् चापत्तयो बोधिसत्वेन न पञ्चत्रिंशतां बुद्धानां भगवताम् अन्तिके रात्रिंदिवं एकाकिना गुर्व्यो देशयितव्याः ॥
तत्रेयं देशना ।
अहम् एवंनामा बुद्धं शरणं गच्छामि ।
धर्मं शरणं गच्छामि ।
संघं शरणं गच्छामि ॥
नमः शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय ।
नमो वज्रप्रमर्दिने ।
नमो रत्नार्चिषे ।
नमो नागेश्वरराजाय ।
नमो वीरसेनाय ।
नमो वीरनन्दिने ।
नमो रत्नश्रिये ।
नमो रत्नचन्द्रप्रभाय ।
नमो ऽमोघदर्शिने ।
नमो रत्नचन्द्राय ।
नमो निर्मलाय ।
नमो विमलाय ।
नमः शूरदत्ताय ।
नमो ब्रह्मणे ।
नमो ब्रह्मदत्ताय ।
नमो वरुणाय ।
नमो वरुणदेवाय ।
नमो भद्रश्रिये ।
नमश् छन्दनश्रिये ।
नमो ऽनन्ताउजसे ।
नमः प्रभासश्रिये
[ cambridge ms f81b ---> ]
नमो ऽशोकश्रिये ।
नमो नारायणाय ।
नमः कुसुमश्रिये ।
नमो ब्रह्मज्योतिर्विक्रीडिताभिज्ञाय तथागताय ।
नमो धनश्रिये ।
नमः स्मृतिश्रिये ।
नमः सुपरिकीर्तितनामधेयश्रिये ।
नमेन्द्रकेतुध्वजराजाय ।
नमः सुविक्रान्तश्रिये ।
नमो विचित्रसंक्रमाय ।
नमो विक्रान्तगामिने ।
नमः समन्तावभासव्यूहश्रिये ।
नमो रत्नपद्मविक्रामिणे ।
नमो रत्नपद्मसुप्रतिष्ठितशैलेन्द्रराजाय तथागतायार्हते सम्यक्संबुद्धाय ॥
एवंप्रमुखा यावन्तः सर्वलोकधातुषु तथागतार्ह-
[ bendall ed p170 ---> ]
न्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति ।
ते मां समन्वाहरन्तु बुद्धा भगवन्तो यन् मयास्यां जातौ अन्यासु वा जातिष्व् अनवराग्रे जातिसंसारे संसरता [[दोउब्त्]] पापकं कर्म कृतं स्यात् कारितं वा क्रियमाणं वानुमोदितं भवेत् ।
स्तौपिकं वा साङ्घिकं वा द्रव्यम् अपहृतं स्यात् हारितं वा ह्रियमाणं वानुमोदितं भवेत् ।
पञ्चानन्तर्याणि कृतानि स्युः कारितानि वा क्रियमाणानि वानुमोदितानि भवेयुः ।
दशाकुशलान् कर्मपथान् समादाय वर्तितं स्यात् परे वा समादापिताः स्युर् वर्तमाना वानुमोदिता भवेयुर् येन कर्मावरणेनावृतो ऽहं निरयं वा गच्छेयं तिर्यग्योनिं वा यमविषयं वा गच्छेयं प्रत्यन्तजनपदेषु म्लेच्छेषु वा प्रत्याजायेयं दीर्घायुष्केषु देवेषूपपद्येयम् इन्द्रियविकलतां वाधिगच्छेयं मिथ्यादृष्टिं वोपगृह्णीयां बुद्धोत्पादं वा विरागयेयं ।
तत् सर्वं कर्मावरणं तेषां बुद्धानां भगवतां ज्ञानभूतानां चक्षुर्भूतानां साक्षिभूतानां प्रमाणभूतानां जानतां पश्यताम् अग्रतः प्रतिदेशयामि आविष्करोमि न प्रतिच्छादयाम्य् आयत्यां संवरम् आपद्ये ।
समन्वाहरन्तु मां ते बुद्धा भगवन्तो यन् मयास्यां जाताव् अन्यासु वा जातिष्व् अनवराग्रे वा जातिसंसारे संसरता दानं दत्तं भवेद् अन्तशस् तिर्यग्योनिगता-
[ cambridge ms f82a ---> ]
याप्य् आलोपः शीलं वा रक्षितं भवेद् यच् च मे ब्रह्मचर्यवासकुशलमूलं यच् च मे सत्वपरिपाककुशलमूलं यच् च मे बोधिचित्तकुशलमूलं यच् च मे ऽनुत्तरज्ञानकुशलमूलं तत् सर्वम् ऐकध्यं पिण्डयित्वा तुलयित्वाभिसंक्षिप्यानुत्त्
अरायां सम्यक्संबोधऊत्तरोत्तरया परिणामनया यथा परिणामितम् अतीतैर् बुद्धैर् भगवद्भिर् यथा परिणामयिष्यन्त्य् अनागता बुद्धा भगवन्तो यथा परिणमन्त्य् एतर्हि दशसु दिक्षु प्रत्युत्पन्ना बुद्धा भगवन्तः ।
तथाहम् अपि परिणामयामि ।
सर्वं पुण्यम् अनुमोदयामि ।
सर्वान् बुद्धान् अध्येषयामि ।
भवतु मे ज्ञानम् अनुत्तरम् ।
ये चाभ्यतीतास् तथापि च ये ऽनागता ये चापि तिष्ठन्ति नरोत्तमा जिनाः ।
अनन्तवर्णान् गुणसागरोपमान् उपैमि सर्वान् शरणं कृताञ्जलिः ।
ये बोधिसत्वाः करुणबलैर् उपेता विचरति लोके सत्वहिताय शूराः त्रायन्तु ते मां सदपापकारिणं [[दोउब्त्]] ।
शरणं यामि तान् बुद्धबोधिसत्वान् ॥
[ bendall ed p171 ---> ]
इति हि शारिपुत्र बोधिसत्वेनेमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्वतथागतानुगतैर् मनसिकारैः पापशुद्धिः कार्या ।
तस्याइवं सर्वपापविशुद्धस्य तत्र च बुद्धा भगवन्तो मुखान्य् उपदर्शयन्ति सत्वविमोक्षार्थम् एव ।
नानाव्यञ्जनाकारम् उपदर्शयन्ति विभ्रान्तबालपृथग्जनानां परिपाचनाहेतोः ॥
पे ॥
न शक्यं सर्वश्रावकप्रत्येकबुद्धनिकायैर् आपत्तिकौकृत्यस्थानं विशोधयितुं यद् बोधिसत्वस् तेषां बुद्धानां भगवतां नामधेयधारणपरिकीर्तनेन रात्रिंदिवं त्रिस्कन्धकधर्मपर्यायप्रवर्तनेनापत्तिकौकृत्यान् निःसरति समाधिं च प्रतिलभते ॥
उक्तो विदूषणासमुदाचारः ।
प्रतिपक्षसमुदाचारोच्यते ।
तत्र गम्भीरसूत्रान्तपरिचयात् पापक्षयो भवति ॥
यथा वज्रच्छेदिकायाम् उक्तं ।
ये ते सुभूते कुलपुत्रा वा कुलदुहितरो वा इमान् एवंरूपान् सूत्रान्तान् उद्ग्रहीष्यन्ति यावत् पर्यवाप्स्यन्ति ।
ते परिभूता भविष्यन्ति सुपरिभूताः ।
तत् कस्य हेतोः ।
यानि तेषां सत्वानां पौर्वजन्मिकानि कर्माणि कृतान्य् अपायसंवर्तनीयानि ।
तानि तया परिभूततया दृष्टए एव धर्मे क्षपयिष्यन्ति बुद्धबोधिं च प्राप्स्यन्तीति ॥
शून्यता-
[ cambridge ms f82b ---> ]
अधिमुक्त्यापि पापशुद्धिर् भवति तथागतकोषसूत्रे वचनात् ।
यः काश्यप पिता च स्यात् प्रत्येकबुद्धश् च तं जीविताद् व्यपरोपयेद् इदम् अग्रं प्राणातिपातानां ।
इदम् अग्रम् अदत्तादानानां यद् उत त्रिरत्नद्रव्यापहरणता ।
इदम् अग्रं काममिथ्याचाराणां यद् उत माता स्याद् अर्हन्ती च ।
इदम् अग्रं मृषावादानां यद् उत तथागतस्याभ्याख्यानं ।
इदम् अग्रं पैशुन्यानां यद् उतार्य-
[ bendall ed p172 ---> ]
संघस्यावर्णः ।
इदम् अग्रं पारुष्याणां यद् उतार्याणाम् अवस्फण्डनं ।
इदम् अग्रं संभिन्नप्रलापानां यद् उत धर्मकामानां विक्षेपः ।
इदम् अग्रं व्यापादानां यद् उतानन्तर्यपरिकर्षणम् ।
इदम् अग्रम् अभिध्यानां यद् उत सम्यग्गतानां लाभहरणचित्तता ।
इदम् अग्रं मिथ्यादृष्टीनां यद् उत गहनतादृष्टिः ।
इमे काश्यप दशाकुशलाः कर्मपथा महासावद्याः ।
सचेत् काश्यपाइकसत्वाइभिर् एवं महासावद्यैर् दशभिर् अकुशलैः कर्मपथैः समन्वागतो भवेत् ।
स च तथागतस्य हेतुप्रत्ययसंयुक्तां धर्मदेशनाम् अवतरेन् ।
नात्र कश्चिद् आत्मा वा सत्वो वा जीवो वा पुद्गलो वा यः करोति प्रतिसंवेदयते इति ह्य् अकृताम् अनभिसंस्कारां मायाधर्मताम् असंक्लेशधर्मतां प्रकृतिप्रभास्वरतां सर्वधर्माणाम् अवतरत्य् आदिशुद्धान् सर्वधर्मान् अभिश्रद्दधात्य् अधिमुच्यते ।
नाहं तस्य सत्वस्यापायगमनं वदामीति ॥
कर्मावरणविशुद्धिसूत्रे ऽप्य् उक्तं ।
पुनर् अपरं मञ्जुश्रीर् यो बोधिसत्वापत्तिम् अनापत्तिं पश्यति ।
अविनयं विनयं पश्यति ।
संक्लेशं व्यवदानं पश्यति ।
संसारधातुं निर्वाणधातुं पश्यति ।
स कर्मावरणविशुद्धिं प्रतिलभतए इति ॥
त्रिसमयराजे ऽपि पापप्रतिपक्षसमुदाचारोक्तः ॥
अक्षिणी निमील्य बुद्धबोधिसत्वा-
[ bendall ed p173 ---> ]
लम्बनचित्तः शताक्षरम् अष्टसहस्रं जपेत् ।
निमीलिताक्षाइव बुद्धबोधिसत्वान् पश्यति विगतपापो-
[ cambridge ms f83a ---> ]
भवति ।
अथवा चैत्यं प्रदक्षिणीकुर्वन्न् अष्टसहस्रं जपेच् चैत्यप्रतिमायाः सद्धर्मपुस्तकानां चाइकतमं पुरस्कृत्यायम् एव विधिर् इति ॥
चुन्दाधारणीं वा तावज् जपेद् यावत् पापक्षयनिमित्तानि पश्यति स्वप्ने ।
तद् यथा क्रन्दनादिछर्दनदधिक्षीरादिभोजनात् तु विगतपापो भवति ।
वमनाद् वा चन्द्रसूर्यदर्शनाद् आकाशगमनाज् ज्वलितानलमहिषकृष्णपुरुषपराजयाद् भिक्षुभिक्षुणीसंघदर्शनात् क्षीरवृक्षगज वृषगिरिसिंहासनप्रासादनावरोहणाद् धर्मश्रवणाच् च पापक्षयः संलक्षयितव्यः ॥
तथागतबिम्बपरिवर्ते ऽपि प्रतिपक्षसमुदाचारोक्तः ।
तद् यथा पुरुषो मीढावलिप्तः सुधौतुस्नानं कृत्वा गन्धैर् विलिप्यते ।
तस्य तद् दौर्गन्ध्यं वान्तं विगतं स्याद् एवं पञ्चानन्तर्यकारिणस् तत् पापं विगच्छति ।
यो ऽपि दशाकुशलकर्मपथसमन्वागतस् तथागते श्रद्धां प्रतिलभ्य तथागतबिम्बं कारयेत् तस्यापि तत् पापं न प्रज्ञायते विशेषतो बोधिचित्तसमन्वागतस्य ।
विशेषतो ऽभिनिष्क्रान्तगृहावासस्य शीलवतेति ॥
पुष्पकूटधारण्याम् अप्य् उक्तं ।
यश् च खलु पुनः सिंहविक्रीडिततथागतं संमुखं वर्षं वा वर्षसहस्रं वा वर्षशतसहस्रं वा सर्वसुखोपधानैर् उपतिष्ठेद् ।
यश् च परिनिर्वृतस्य तथागतस्य चैत्ये बोधिचित्तसंगृहीताइकपुष्पम् आरोपयेत् तथागतपूजायै जनाञ्जलिं चोपनामयेज् जलेन वा सिञ्चयेद् इषिकापदं वा दद्यान् निर्माल्यं चापनयेद् उपलेपनप्रदानं वा पुष्पप्रदानं वा दीपप्रदानं वा कुर्याद् आत्तमनाः एकक्रमव्यतिहारं वातिक्रम्य वाचं भाषते ।
नमस् तस्मै बुद्धाय भगवतेतिमात्रे ऽत्र सिंहविक्रीडितकाङ्क्षा वा विमतिर् वा विचिकित्सा वा यद् असौ कल्पं वा कल्पशतं वा कल्पसहस्रं वा दुर्गतिविनिपातं गच्छेन् नेदं-
[ cambridge ms f83b ---> ]
स्थानं विद्यतए इति ॥
[ bendall ed p174 ---> ]
भैषज्यगुरुवैदूर्यप्रभराजसूत्रे ऽप्य् उक्तं ।
ये पञ्च शिक्षापदानि धारयन्ति ।
ये दश शिक्षापदानि धारयन्ति ।
ये च बोधिसत्वसंवरं चतुर्थं शतं शिक्षापदानां धारयन्ति ।
ये पुनर् अभिनिष्क्रान्तगृहावासा भिक्षवः पञ्चाशाधिके द्वे शिक्षापदशते धारयन्ति ।
याश् च भिक्षुण्यः पञ्चशिक्षापदशतानि धारयन्ति ।
ये च यथापरिगृहीताच् छिक्षासंवराद् अन्यतराच् छिक्षापदाद् भ्रष्टा भवन्ति ।
सचेत् ते दुर्गतिभयभीतास् तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभराजस्य तथागतस्य नामधेयं धारयेयुर् यथाविभवतश् च पूजां कुर्युः ।
न भूयस् तेषाम् अपायगतिः प्रतिकाङ्क्षितव्या ॥
अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म ।
श्रद्दधासि त्वम् आनन्द ।
पत्तीयसि ।
यद् अहं तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभराजस्य तथागतस्य गुणान् वर्णयामि ।
अथ ते काङ्क्षा वा विमतिर् वा विचिकित्सा वात्र गम्भीरे बुद्धगोचरे ॥
अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् ।
न मे भदन्त भगवन् काङ्क्षा वा विमतिर् वा विचिकित्सा वा तथागतभाषितेषु सूत्रान्तेषु ।
तत् कस्य हेतोः ।
नास्ति तथागतानाम् अपरिशुद्धकायवाङ्मनःसमुदाचारता ।
इमौ भगवन् चन्द्रसूर्याव् एवं महर्द्धिकाव् एवं महानुभावौ पृथिव्यां पतेतां ।
सुमेरुः पर्वतराजा स्थानाच् चलेत् ।
न तु बुद्धानां वचनम् अन्यथा भवेत् ॥
किंतु भदन्त भगवन् सन्ति सत्वाः श्रद्धेन्द्रियविकला ये बुद्धगोचरं श्रुत्वा न श्रद्दधति ।
तेषाम् एवं भवति ।
कथम् इदं नामधेयं स्मरणमात्रेण तस्य तथागतस्याइत्तका गुणानुशंसा भवति ।
ते न श्रद्दधति ।
न पत्तीयन्ति ।
प्रतिक्षिपन्ति ।
तेषां दीर्घरात्रम् अनर्थायाहितायासुखाय विनिपाताय भविष्यति ॥
भ-
[ cambridge ms f84a ---> ]
गवान् आह ।
अस्थानम् आनन्दानवकाशो येषां तस्य नामधेयं निपतेत् कर्णे तेषां दुर्गत्यपायगमनं भवेद् इति ।
दुःश्रद्धानीयश् चानन्द बुद्धानां बुद्धगोचरः ।यच् च त्वम् आनन्द श्रद्दधासि पत्तीयसि ।
[ bendall ed p175 ---> ]
तथागतस्याइषो ऽनुभावो द्रष्टव्यः ।
अभूमिश् चात्र श्रावकप्रत्येकबुद्धानां स्थापयित्वाइकजातिप्रतिबद्धान् बोधिसत्वान् महासत्वान् इति ॥
अत्राइव चोक्तं ।
ये चान्ये श्राद्धाः कुलपुत्रा वा कुलदुहितरो वाष्टाङ्गसमन्वागतम् उपवासम् उपवसन्ति ।
एकवार्षिकं वा त्रैवार्षिकं वा शिक्षापदं धारयन्ति ।
येषाम् एवम् अभिप्रायः एवं प्रणिधानं ।
अनेन वयं कुशलमूलेन पश्चिमायां दिशायां सुखावत्यां लोकधातऊपपद्येम यत्रामिताभस् तथागतः ।
यैः श्रुतं भविष्यति तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभवराजस्य तथागतस्य नामधेयं ।
तेषां मरणकालसमये ऽष्टौ बोधिसत्वा ऋद्ध्यागत्य मार्गम् उपदर्शयन्ति ।
ते तत्र नानारङ्गेषु पद्मेषूपपादुकाः प्रादुर्भवन्ति ।
केचित् पुनर् देवलोकए उपपद्यन्ते ।
तेषां तत्रोपपन्नानां तत् पूर्वकं कुशलमूलं न क्षीयते ।
दुर्गतिविनिपातभयं च न भविष्यति ।
ते ततश् च्युतेह मनुष्यलोके राजानो भवन्ति ।
चतुर्द्वीपेश्वराश् चक्रवर्तिनः ।
अनेकानि सत्वकोटीनियुतशतसहस्राणि दश कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति ।
अपरे पुनः क्षत्रियमहाशालकुलेषूपपद्यन्ते ।
ब्राह्मणमहाशालकुलेषूपपद्यन्ते ।
गृहपतिमहाशालकुलेषु प्रभूतधनधान्यकोषकोष्ठागारकुलेषूपपद्यन्ते ।
ते रूपसंपन्ना भवन्ति ।
परिवारसम्पन्ना भवन्ति ॥
तत्राइवोक्तं ।
येन च पुनर् मातृग्रामेण तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभराजस्य तथागतस्य नामधेयं श्रुतं भविष्यति ।
उद्गृहीतं वा ।
स तस्य पश्चिमो मातृग्रामभा-
[ cambridge ms f84b ---> ]
वः प्रतिकाङ्क्षितव्येति ॥
मञ्जुश्रीबुद्धक्षेत्रगुणव्यूहालंकारसूत्रे ऽप्य् उक्तं ।
ज्ञानोत्तरप्रभाकेतुं प्रणिधानमतिं तथा ।
शान्तेन्द्रियं मञ्जुघोषं भक्तितः प्रणमाम्य् अहम् ॥
[ bendall ed p176 ---> ]
याइषां बोधिसत्वानां नामधेयं तु धारयेत् ।
एतस्य मातृग्रामस्य स्त्रीभावो न भविष्यति ॥
उक्तः संक्षेपात् प्रतिपक्षसमुदाचारः ॥
प्रत्यापत्तिबलम् अधुनोच्यते ॥
यथोक्तम् आर्यक्षितिगर्भसूत्रे ।
प्राणातिपातात् प्रतिविरतो भवति बोधिसत्वो महासत्वः सर्वसत्वानाम् अभयंददः ।
अनुत्त्रासो ऽनुपायासो ऽलोमहर्षः स तेन कुशलमूलेन कर्मविपाकेन ।
यत् पूर्वान्तकोटिपञ्चगतिचक्रारुढेन संसारनद्य्-उद्यातेन प्राणातिपातहेतुना कायवाङ्मनसा कर्मावरणं क्लेशावरणं धर्मावरणं कृतं वा स्यात् कारितं वानुमोदितं स्यात् ।
तत् सर्वं तेन प्राणातिपातवैरमणचक्रेण सर्वानर्थं मर्दयति ।
यावद् अशेषम् अविपाकं कुरुते ।
सनिकायसभागे देवमनुष्याणां प्रियो भवति निरातङ्को दीर्घायुष्केति ॥
यावत् पुनर् अपरं कुलपुत्र यो बोधिसत्वो यावज्जीवम् अदत्तादानात् प्रतिविरतो भवति स सर्वसत्वानाम् अभयम् ददाति अन्यत्रासयत्नेनासंक्षोभेण स्वलाभेन संतुष्टो विहरति ।
अधा-
[ bendall ed p177 ---> ]
र्मिकभोगानभिलाषी स तेन कुशलमूलेन यावद् अदत्तादानहेतुकं कर्मावरणं मर्दयति प्रमर्दयति यावद् अशेषम् अविपाकं कुरुतए इति ॥
पे ॥एवं दशापि कुशलाः कर्मपथाः स्वविपक्षाकुशलघातकास् तत्र पठ्यन्ते ॥
तथा चन्द्रप्रदीपसूत्रे ऽपि व्यापादविरत्या सर्वपापक्षयः श्रूयते ।
यथाह ।
सहिष्याम्य् अत्र बालानाम् अभूतां परिभाषणां ।
आक्रोशनं तर्जनां चाधिवासिष्य नायकः ॥
क्षपयिष्ये पापकं कर्म यन् मया पुरिमे कृतम् ।
अन्येषु बोधिसत्वेषु व्यापादो जनितो मयेति ॥
उक्तं प्रत्यापत्तिबलम् ॥
आश्रयबलं तु वक्तव्यम् ॥
अत्र सूकरिकावदानम् उदाहार्यम् ।
ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिं ।
प्रहाय मानुषान् कायान् दिव्यान् कायांल् लभन्ति ते ॥
इत्य् एवं धर्मं संघं चाधिकृत्य पापक्षयः ॥
आर्यमैत्रेयविमोक्षे तु बोधिचित्तेन पापविशुद्धिर् उक्ता ।
कल्प-
[ cambridge ms f85a ---> ]
उद्दाहाग्निभूतं सर्वदुष्कृतनिर्दहनतया ।
पातालभूतं सर्वाकुशलधर्मपर्यादानकरणतया ॥
पे ॥
तद् यथा कुलपुत्र हाटकप्रभासं नाम रसजातं ।
तस्याइकं पलं लोहपलसहस्रं सुवर्णीकरोति ।
न च तत्र तत् पलं शक्यते तेन लोहपलसहस्रेण पर्यादातुं ।
न लोहीकर्तुं ।
एवम् एवाइकः सर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरणलोहानि प-
[ bendall ed p178 ---> ]
र्यादाय सर्वधर्मान् सर्वज्ञतावर्णान् करोति ।
न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यः सर्वकर्मक्लेशलोहैः संक्लेशयितुं पर्यादातुं वा ।
तद् यथा कुलपुत्राइकः प्रदीपो यादृशे गृहे वा लयने वा प्रवेश्यते स सह प्रवेशितो वर्षसहस्रसंचितम् अपि तमोन्धकारं विधमयति ।
अवभासं च करोति ।
एवम् एवाइकः सर्वज्ञताचित्तोत्पादप्रदीपो यादृशे सत्वाशये गहने ऽविद्यातमोन्धकारानुगते प्रवेश्यते स सह प्रवेशितो ऽनभिलाप्यकल्पशतसहस्रसंचितम् अपि कर्मक्लेशावरणतमोन्धकारं विधमति ।
ज्ञानालोकं च करोति ॥
तद् यथा कुलपुत्र चिन्तामणिराजमुकुटानां महानागराज्ञां नास्ति परोपक्रमभयं ।
एवम् एव बोधिचित्तमहाकरुणाचिन्तामणिराजमुकुटावबद्धानां बोधिसत्वानां नास्ति दुर्गत्यपायपरोपक्रमभयम् इति ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
