Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

शिक्षासमुच्चय (bản khác)

Tác giả
शान्तिदेव
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

आर्योपालिपरिपृच्छायाम् अप्य् उक्तं ।

इहोपाले महायानं संप्रस्थितो बोधिसत्वः सचेत् पूर्वाह्णकालसमये आपत्तिम् आपद्येत ।

मध्याह्नकालसमये सर्वज्ञताचित्तेनाविरहितो विहरेद् अपर्यन्ताइव बोधिसत्वस्य शीलस्कन्धः ।

सचेन् मध्याह्नकालसमये आपत्तिम् आपद्यते सायाह्नकालसमये सर्वज्ञताचित्तेनाविरहितो भवेद् अपर्यन्ताइव बोधिसत्वस्य शीलस्कन्धः ।

एवं यामे यामे विधिर् उक्तः ।

एवं ह्य् उपाले सपरिहारा शिक्षा महायानसंप्रस्थितानां बोधिसत्वानां ।

तत्र बोधिसत्वेन नातिकौकृत्यपर्युत्थानम् उत्पाद्यं नातिविप्रतिसारिणा भवितव्यं ।

सचेत् पुनः श्रावकयानीयः पुद्गलः पुनः पुनर् आपत्तिम् आपद्येत ।

नष्टः श्रावकस्य पुद्गलस्य

[ cambridge ms f85b ---> ]

शीलस्कन्धो वेदितव्यः ।

इति ॥

इति शिक्षासमुच्चये पापशोधनम् अष्टमः परिच्छेदः ॥

क्षान्तिपारमिता नवमः परिच्छेदः ॥

तद् एवम् अविरतप्रवृत्तां बहुसुखां दौःश्-ल्योत्पत्तिं रक्षन्न् एवं च कर्मावरणविबन्धम् अपनयन् क्लेशविशोधने प्रयतेत ॥

तत्रादौ तावत् क्षमेत ।

अक्षमस्य हि श्रुतादौ वीर्यं प्रतिहन्यते ऽखेदसहत्वात् ।

अश्रुतवांश् च न समाध्युपायं जानाति ।

नापि क्लेशशोधनोपायम् ।

तस्माद् अखिन्नः श्रुतम् एषेत ।

ज्ञानतो ऽपि संकीर्णचारिणः समाधानं दुष्करम् इति ।

संश्रयेत वनं ततः ।

तत्रापि विक्षेपप्रशमनानभियुक्तस्य चित्तं न समाधीयतए इति ।

समाधानाय युज्येत ।

समाहितस्य च न किञ्चित् फलम् अन्यत्र क्लेशशोधनाद् इति ।

भावयेद् अशुभादिकं ॥

इत्य् एतानि तावत् क्लेशशुद्धेर् उद्देशपदानि ॥

इदानीं निर्देशोच्यते ।

तत्र क्षान्तिस् त्रिविधा धर्मसंगीतिसूत्रे ऽभिहिता ।

दुष्खाधिवासनक्षान्तिः ।

धर्मनिध्यानक्षान्तिः ।

परापकारमर्षणक्षान्तिश् चेति ।

तत्र दुष्खाधिवासनक्षान्तिविपक्षो ऽनिष्टागमप्राप्तदुष्खभीरुता ।

इष्टविघातप्राप्तश् च सुखाभिष्वङ्गस् ताभ्यां दौर्मनस्यं ।

ततो द्वेषो लीनता च ॥

अताइवाह चन्द्रप्रदीपसूत्रे ।

सुखे ऽनभिष्वङ्गः ।

दुष्खे ऽवैमुख्यम् इति ॥

रत्नमेघसूत्रे ऽप्य् उक्तं ।

यए इमे आध्यात्मिकाः शोकपरिदेवदुष्ख दौर्मनस्योपायासास् तान् क्षमते ऽधिवासयतीति ॥

[ bendall ed p180 ---> ]

आर्योग्रदत्तपरिपृच्छायाम् अप्य् उक्तं ।

पुनर् अपरं गृहपते गृहिणा बोधिसत्वेनानुनयप्रतिघापगतेन भवितव्यम् अष्टलोकधर्माननुलिप्तेन ।

तेन भोगलाभेन वा भार्यापुत्रलाभेन वा धनधान्यवित्तलाभेन वा नोन्नमितव्यं न प्रहर्षितव्यं ।

सर्वविपत्तिषु चानेन नावनमितव्यं ।

न दुर्मनसा भवितव्यं एवं चानेन प्रत्यवेक्षितव्यं ।

मायाकृतं सर्वसंस्कृतं विठपनप्रत्युपस्थानलक्ष्-

[ cambridge ms f86a ---> ]

अणं ।

कर्मविपाकनिर्वृत्ता ह्य् एते ।

यद् इदं मातापितृपुत्रभार्यादासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहिता ।

नाइते मम स्वकाः ।

नाहम् एतेषाम् इति ॥

अपि च ।

यद्य् अस्त्य् एव प्रतीकारो दौर्मनस्येन तत्र किम् ।

प्रतीकारे ऽपि मुह्येत दुर्मनाः क्रोधमूर्च्छितः ॥

लीनत्वाद् वा हतोत्साहो गृह्यते परयापदा ।

तच्चिन्तया मुधा यान्ति ह्रस्वम् आयुर् मुहुर् मुहुः ॥

तेनाभ्यासात् त्यजेद् एतं निरर्थकम् अनर्थवत् ॥

कथं च दौर्मनस्यत्यागो ऽभ्यस्यते ।

लघुसुकुमारचित्तोत्सर्गात् ॥

यथोक्तम् उग्रदत्तपरिपृच्छायां ।

अपगततूलपिचूपमताचित्तस्येति ॥

आर्यगण्डव्यूहे ऽप्य् उक्तं ।

दुर्योधनं चित्तं ते दारिके उत्पादयितव्यं सर्वक्लेशनिर्घाताय ।

अपराजितचित्तं सर्वाभिनिवेशविनिर्भेदाय ।

अक्षोभ्यचित्तं विषमाशयत्वसागरावर्तप्रयातेष्व् इति ॥

न चाभ्यासस्य दुष्करं नाम किञ्चिद् अस्ति ।

तथा हि मूढतराणाम् अपि तावद् भारहारक-

[ bendall ed p181 ---> ]

कैवर्तकर्षकादीनां दुष्खाभ्यासात् क्षुद्रतरफले ऽपि वस्तुनि संरूढकिणाङ्कितं चित्तम् अवसादेन न परिभूयते ।

किं पुनः सर्वसंसारसुखसर्वबोधिसत्व सुखानुत्तरपदसमधिगमफले कर्मणि ।

तथा प्राकृतापि किञ्चिद् अपकारिष्व् आत्मदुष्कृतेनाइव हतेषु स्वयं मृत्युषु प्रहर्तुं गाढप्रहारवेदनापि संग्रामयन्त्य् एव ।

कि.ं पुनर् द्राघिष्ठकालापकारिषु दुष्खोपात्तकुशलधनलवस्तैन्येषु नरकेषु नावध्यघातकेषु भवचारकपालकेषु निःसरणद्वारदिग्नाशकेष्व् आनुकूल्ये ऽपि दृढतरवाधाकरेष्व् अनपकृतवैरिष्व् अनवधिकल्पाबद्धदृढवैरेषु क्लेशशत्रुषु प्रहर्तुम् उत्साहो दुष्खसहनं वा न भवेत् ।

विशेषतस् त्रिभुवनविजयया बद्धपरिकरस्य मारशवरप्रतिगृहीतजगद्बन्दिमोक्षाय संग्रामयतः ।

तत्रात्मदुष्खाभ्यासपूर्वकं कष्टं कष्टतराभ्यासः सिध्यति ।

यथा चाभ्यासवशात् सत्वानां दुष्खसुखस/म्ज्ञा ।

तथा सर्वदुष्खोत्पादेषु सुखसंज्ञा प्रत्युपस्थानाभ्यासात् सुखसंज्ञाइव प्रत्युपतिष्ठते ।

एतन् निष्यन्दफलं च सर्वधर्मसुखाक्रान्तं नाम समाधिं प्रतिल-

[ cambridge ms f86b ---> ]

भते ॥

उक्तं हि पितापुत्रसमागमे ।

अस्ति भगवन् सर्वधर्मसुखक्रान्तो नाम समाधिः ।

यस्य समाधेः प्रतिलम्भाद् बोधिसत्वः सर्वारम्बणवस्तुषु सुखाम् एव वेदनां वेदयते ।

नादुष्खासुखां ।

तस्य नैरयिकाम् अपि कारणां कार्यमाणस्य सुखसंज्ञाइव प्रत्युपस्थिता भवति ।

मानुषीम् अपि कारणां कार्यमाणस्य हस्तेष्व् अपि छिद्यमानेषु पादेष्व् अपि कर्णेष्व् अपि नासास्व् अपि सुखसंज्ञाइव प्रत्युपस्थिता भवति ।

वेत्रैर् अपि ताड्यमानस्यार्द्धवेत्रैर् अपि कशाभिर् अपि ताड्यमानस्य सुखसं-

[ bendall ed p182 ---> ]

ज्ञाइव प्रवर्तते बन्धनागारेष्व् अपि प्रक्स्.इप्तस्य ॥

पे ॥

तैलपाचिकं वा क्रियमाणस्य ।

इक्षुकुट्टितवद् वा कुट्ठ्यमानस्य ।

नडचिप्पितिकं वा चिप्यमानस्य तैलप्रद्योतिकं वादीप्यमानस्य सर्पिःप्रद्योतिकं वा दधिप्रद्योतिकं वादीप्यमानस्य सुखसंज्ञाइव प्रत्युपस्थिता भवति ।

उल्कामुखं वा ह्रियमाणस्य सिंहमुखं वा ह्रियमाणस्य शुष्कवर्त्तिकां वा वर्त्यमानस्य ॥

पे ॥

कार्षापणच्छेदिकं वा छिद्यमानस्य पिष्टपाचनिकं वा पाच्यमानस्य हस्तिभिर् वा मर्द्यमानस्य सुखसंज्ञाइव प्रवर्तते ।

अक्षिण्य्-उत्पाठ्यमाने जीवशूलिकम् अपि क्रियमाणस्य सर्वशो वाघातं निर्णीय शिरसि वा प्रपात्यमाने सुखसंज्ञाइव प्रवर्तते ।

न दुष्खसंज्ञा ।

नादुष्खासुखसंज्ञा ॥

तत् कस्य हेतोः ।

तथा हि बोधिसत्वस्य महासत्वस्य दीर्घरात्रं चर्यां चरताइतत् प्रणिधानम् अभूत् ।

ये मां भोजयेरन् ।

ते उपशमशमसुखस्य लाभिनो-

[ cambridge ms f87a ---> ]

भवेयुः ।

ये मां पालयेयुः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वे ते उपशमसुखस्य लाभिनो भवेयुः ।

ये ऽपि माम् आक्रोशेयुर् विस्पर्शेयुस् ताडयेयुः शस्त्रेणाछिन्द्युर् यावत् सर्वशो जीविताद् व्यपरोपयेयुः सर्वे ते संबोधिसुखस्य लाभिनो भवेयुः ।

अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येरन्न् इति ॥

साइभिर् मनस्कारैः समन्वागताइतेन कर्मणा ।

एभिः प्रणिधिभिः समन्वागतः सर्वसत्वानुगतां सुखसंज्ञाम् आसेवते निसेवते भावयति बहुलीकरोति ।

स तस्य कर्मणो विपाकेन सर्वधर्मसुखाक्रान्तं नाम समाधिं प्रतिलभते ।

यस्मिन् समये बोधिसत्वेन सर्वधर्मसुखाक्रान्तो नाम समाधिः प्रतिलब्धो भवति तस्मिन् समये ऽक्षोभ्यो भवत्य् असंहार्यः सर्वमारकर्मभिर् इति विस्तरः ॥

अयं हि प्रयोगः सर्वपरित्यागपूरणः ।

सर्वचर्यादुष्करचर्यासाधनः सर्वक्षान्तिदृढीकरणः सर्ववीर्यासंसादनः । सर्वध्यानप्रज्ञाङ्गसंभारः ।

तस्मान् नित्यमुदितः स्यात् ॥

[ bendall ed p183 ---> ]

यथाह चन्द्रप्रदीपसूत्रे ।

सगौरवः प्रीतमनाः सदा भवेत् ।

सौम्याय दृष्टीय सदा स्थितो भवेद् ।

इति ॥

उक्तं चाक्षयमतिसूत्रे ।

तत्र कतमा मुदिता ।

यावद् धर्मानुस्मरणात् प्रीतिः प्रसादः प्रामोद्यं चित्तस्यानवलीनतानवमृद्यतापरितर्षणा ।

सर्वकामरतीनाम् अपकर्षणा सर्वधर्मरतीनां प्रतिष्ठानं ।

चित्तस्य प्रामोद्यं कायस्याउद्बिल्यं बुद्धेः संप्रहर्षणं मनसोत्प्लवः ।

तथागतकायाभिनन्दनरतिर् लक्षणानुव्यञ्जनविभूषणपर्येष्टिकौशल्यं ।

कुशलधर्मश्रवणापरिखेदता ।

तत्वधर्मप्रतिशरणप्रतिपत्तिप्रीतिप्रसादप्रमोद्यं मुदितस्य धर्मोत्प्लवः ।

सततं सत्वेष्व् अप्रतिहतबुद्धिता ।

तीव्रच्छन्दता ।

बुद्धधर्मपर्येष्टिषु तस्य च धर्मच्छन्दस्यानुत्सृजनता ।

उदारेषु बुद्धधर्मेष्व् अधिमुक्तिः ।

विमुक्तिः प्रादेशिकयानापकृष्टचित्तोत्पादः ।

मात्सर्यासंकुचितश् चित्तोत्पादः ।

याचितस्य दातुकामता ।

ददतो दत्त्वा च त्रिमण्डलपरिशोधितं दानप्रामोद्यं ।

शीलवत्सु सदा प्रसादः ।

दुःशीलेष्व् अनुग्रहप्रीतिः ।

स्वशीलपरिशुद्ध्या सर्वदुर्गन्धम् अतिक्रमाश्वासनं ।

तथागतशीलपरिणामनता ।

दृढाभेद्यता ।

परदुरुक्तदुरागतेषु वचनपथेष्व् अप्रतिहतचित्तता ।

क्षान्तिसौरत्यं ।

निर्मानता ।

[ cambridge ms f87b ---> ]

गुरुषु गौरवावनामश् चित्रीकारः ।

सदा स्मितमुखता भृकुटिविगतता ।

पूर्वाभिलापिताकुहनतानेष्यैषिकता शुद्धाशयता चित्ताकर्कशताकुटिलता ।

सर्वत्रानुशंसदर्शितात्मस्खलितप्रत्यवेक्षिता ।

आपत्तिष्व् अचोदनता संरञ्जनीयधर्मेष्व् अनुवर्तनता ।

शास्तृप्रेम बोधिसत्वेषु ।

आत्मप्रेम धर्मेषु ।

जीवितप्रेम तथाग-

[ bendall ed p184 ---> ]

तेषु ।

मातापितृप्रेम गुरुषु ।

पुत्रप्रेम सत्वेषु ।

बुद्धप्रेमाचार्योपाध्यायेषु ।

उत्तमाङ्गशिरःप्रेम प्रतिपत्तिषु ।

हस्तपादप्रेम पारमितासु ।

सर्वरत्नप्रेम धर्मभाणकेषु ।

सर्वरतिक्रीडाप्रेमानुशासनीषु ।

आरोग्यप्रेम संतुष्टौ ।

भैषज्यप्रेम धर्मपर्येष्टिषु ।

वैद्यप्रेम चोदकस्मारकेषु ।

इति हि या सर्वेन्द्रियेष्व् अनवलीनेन्द्रियतेयम् उच्यते मुदितेत्य् आदि ॥

अत्र च शिक्षितान् बोधिसत्वान् इदं वचनम् अलंकरोति यद् उक्तम् आर्यमहामेघे ।

निरयगतिचित्तनित्यसमाधानशीलाश् च निरयगतिप्रियाश् च निरयगतिपत्तनवणिजश् च भवन्ति ।

निरयलोलाश् च भवन्ति निरयलोभमत्सरिणश् च निरयाग्निचित्तप्रगुण्णाः भवन्तीति ॥

उक्ता दुष्खाधिवासना क्षान्तिः ॥

आर्यसागरमतिसूत्रे तु त्रिविधापि क्षान्तिर् उक्ता ।

इह सागरमते बोधिसत्वो महासत्वः सर्वज्ञताचित्तोत्पादरत्ने ।

अनार्यैर् दुःशीलैः सत्वैर् मारैर् मारकायिकाभिर् वा देवताभिर् माराधिष्ठितैर् वा मारदूतैर् वा विहेठ्यमानः समीर्यमाणः क्षोभ्यमानस् तर्ज्यमानस् ताड्यमानो न भिद्यते ततो । अध्याशयचित्तोत्पादो न भिद्यते सर्वसत्वप्रमोक्षमहाकरुणावीर्यारम्भात् ।

न भिद्यते त्रिरत्नवंशानुपच्छेदपराक्रमात् ।

न भिद्यते सर्वधर्मसमुदानयनकुशलप्रयोगात् ।

न भिद्यते लक्षणानुव्यञ्जनपरिनिष्पत्तिगतात् पुण्यसंभारोपचयात् ।

न भिद्यते बुद्धक्षेत्रपरिशुद्ध्यभिनिर्हाराहृताद् औत्सुक्यात् ।

न भिद्यते सर्वधर्मापरिग्रहाभियुक्तात् कायजीवितोत्सर्गात् ।

न भिद्यते सर्वसत्वपरिपाचनाभियुक्ताद् आत्मसौख्यानध्यवसानात् ।

साइवम् अध्याशयसंपन्नाइव समानः

[ bendall ed p185 ---> ]

सर्वसत्वानाम् अन्तिकाद् उच्चघनां सहते ।

उन्मननां कुत्सनां सहते

[ cambridge ms f88a ---> ]

सर्वसत्वानाम् आक्रोशपरिभाषां दुरुक्तदुरागतान् वचनपथान् सहते ।

सर्वसत्वपीडां सहते ।

सर्वसत्वभारांश् च सहते उत्तारयति वा न च खिद्यते ।

न च लीयते ।

न संलीयते ।

न विषीदति ।

बलम् उपदर्शयति ।

स्थाम संजनयति ।

वीर्यम् आरभते ।

पराक्रमं पराक्रमते ।

उत्साहं जनयति ।

उन्मूढचित्तं निगृह्णाति ।

साक्रुष्टो न प्रत्याक्रोशति ।

ताडितो न प्रतिताडयति ।

रोषितो न प्रतिरोषयति ।

क्रुद्धाय न प्रतिक्रुध्यति ।

एवं चित्तगणनासंनाहं संनह्यति । ...

[ bendall ed p186 ---> ]

सचेत् पुनर् एते सत्वा यावन्तो दशसु दिक्षु प्रभाव्यमानाः प्रभाव्यन्ते ते सर्वे ऽसिशक्तितोमरपालियोगेन मां पृष्ठतः पृष्ठतो ऽनुबध्नीयुः ।

यत्राइष पृथिवीप्रदेशे स्थितो वा निषण्णो वा चङ्क्रम्यमाणो वा शयानो वा बोधिचित्तम् उत्पादयिष्यति दानचित्तं वा यावत् प्रज्ञाचित्तं वा श्रुतकुशलमूलचित्तं वोत्पादयिष्यति तत्रास्य पृथिवीप्रदेशे शतधाबदरीपत्त्रप्रमाणं कायं छेत्स्यामो विकरिष्यामो विध्वंसयिष्यामस् ।

ते चेत् सर्वसत्वा माम् आक्रोशयेयुः परिभाषेरन् कुत्सयेयुः पंसयेयुर् असत्याभिर् वाग्भिः परुषाभिर् वाग्भिः समुच्चरेयुर् अधिष्ठितानर्थकर्माणः शतधाबदरीपत्त्रप्रमाणं मम कायं छिन्ध्युर् भिन्द्युर् विकरेयुर् विध्वंसयेयुः ।

एवं मया न कस्यचित् सत्वस्यान्तिके क्षोभचित्तम् उत्पादयितव्यं ।

तत् कस्य हेतोः ।

पूर्वा कोटिः संसारस्याप्रमाणीकृता यत्र मे ऽयम् आत्मभावो नरकगतस्यापि तिर्यग्योनिगतस्यापि यमलोकगतस्यापि मनुष्यगतस्यापि कामाहारपलिगुद्धस्य धर्मान् अश्रुतवतो विषमाजीवगोचरस्य निरर्थकजीविनः अङ्गप्रत्यङ्गस्य शतधा छिन्नो भिन्नो निकृत्तो विविधाभिश् च कारणाभिः कारितो न च मया ततो निदानम् आत्मार्थं कृतो न परार्थः ।

सचेत् पुनर् पुनर् ममाइते सर्वसत्वापरान्तकोटिं छिन्द्युर् भिन्द्युर् विकिरेयुर् विध्वंसयेयुस् तथापि मयापरित्यक्ताइव सर्वज्ञता ।

अपरित्यक्ताइव सर्वसत्वाः ।

अपरित्यक्तः कुशलो छर्मछन्दः ।

तत् कस्य हेतोः ।

सर्वा ह्य् एषा कायपीडा कायवि-

[ bendall ed p187 ---> ]

व-

[ cambridge ms f88b ---> ]

र्तना ।

नैरयिकस्य दुष्खस्य शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते ।

नरकावासम् अप्य् अहम् उत्सहे ।

न पुनर् मया बुद्धधर्माः परित्यक्तव्या न सर्वसत्वारम्बणा महाकरुणा ॥

पे ॥

यन् निदानं पुनर् व्यापादोत्पद्येत ।

तं वयं धर्मं प्रहास्यामः ।

कतमश् च स धर्मो ।

यद् उत कायप्रेम कायनिकेतः कायाध्यवसानं ।

उत्सृष्टश् च कायोत्सृष्टो व्यापादः ।

एवं धर्मगणनाविष्टः सागरमते बोधिसत्वः सर्वसत्वपीडां सहते ॥

पे ॥

यः कायस्योत्सर्गः कायपरित्यागः कायानवेक्षा ।

इयम् अस्य दानपारमिता ॥

यत् काये छिद्यमाने सर्वसत्वान् मैत्र्या स्फरति ।

वेदनाभिश् च न संह्रियते ।

इयम् अस्य शीलपारमिता ॥

यत् काये छिद्यमाने याइवास्य कायं छिन्दति तेषाम् एव प्रमोक्षार्थं क्षमते ।

न च चित्तेन क्षण्यते क्षान्तिबलं चोपदर्शयतीयम् अस्य क्षान्तिपारमिता ॥

येन वीर्येण तं सर्वज्ञताछन्दं नोत्सृजति चित्तबलाधीनं च प्रतिगृह्णाति ।

संसारम् एव चानुबध्नाति ।

कुशलमूलारम्भम् एव चारभते ।

इयम् अस्य वीर्यपारमिता ॥

यत् काये विकीर्यमाणे तत् सर्वज्ञताचित्तोत्पादरत्नं कर्तुं न संमुह्यति बोधिम् एवापेक्षते शान्तप्रशान्तम् एव प्रत्यवेक्षते ।

इयम् अस्य ध्यानपारमिता ॥

यत् काये छिद्यमाने कायस्य तृणकाष्ठकुड्यवत्प्रतिभासोपमतां प्रत्यवेक्षते मायाधर्मतां च कायस्यावतरति ।

भूतानित्यतां च भूतदुष्खतां च भूतानात्मतां च भूतशान्ततां च कायस्योपनिध्यायति ।

इयम् अस्य प्रज्ञापारमितेति विस्तरः ॥

पे ॥

पुनर् अपरम् अस्याइवं भवति ।

एष सत्वः कुसीदः शुक्लधर्मरहितः ।

स माम् आक्रोशयति परिभाषते ।

हन्त वयम् आरब्धवीर्या भविष्यामः ।

अतृप्ताः कुशलमूलपर्येषणाभियुक्ता ।

एषाइव तावन् मया सत्वः पूर्वतरं बोधिमण्डे निषादयितव्यः ।

पश्चान् मयानुत्तरा सम्यक्संबोधिर् अभिसं-

[ bendall ed p188 ---> ]

बोद्धव्येति ॥

पे ॥

ईदृशानाम् अस्माभिः सत्वानाम् अदान्तानाम् अगुप्तानाम् अनुपशान्तानाम् अर्थाय संन्ōüह्ōüः संनद्धव्य्ōüः ॥

पे ॥

हन्त वयं धर्मतां प्रतिसरिष्यामः ।

को ऽत्राक्रोशति वाक्रुश्यते वा ।

स परिगवे-

[ cambridge ms f89a ---> ]

षमाणो न तं धर्मम् उपलभते ।

याक्रोशति वाक्रुश्यते वा ।

सात्मपरानुपलब्धोपलम्भदृष्टिविगतः क्षमतए इति ॥

भगवत्याम् अप्य् उक्तं ।

एवं चित्तम् उत्पादयति ।

येन मया सर्वसत्वानां विवादोत्सारयितव्यः ।

सो ऽहं स्वयम् एव विवदामि ।

लाभा मे दुर्लब्धा यो ऽहं जल्पिते प्रतिजल्पामि ।

येन मया सर्वसत्वानां संक्रमभूतेन भवितव्यं सो ऽहं परस्य त्वम् इत्य् अपि वाचं भाषे ।

परुषं वा प्रतिवाचो ददामि ।

इदं मया नाइव वक्तव्यं जडसमेन ।

एडकमूकसमेन मया कलहविवादेषु भवितव्यं ।

परतो दुरुक्तान् दुरागतान् दुर्भाषितान् भाष्यमाणान् वचनपथान् शृण्वता चित्तं नाघातयितव्यं ।

परेषाम् अन्तिके न ममाइतत् साधु न प्रतिरूपं यो ऽहं परस्य दोषान्तरं संजनयेयम् ।

एतन् न मम प्रतिरूपं यद् अहं परेषां दोषान्तरम् अपि संश्रोतव्यं मन्ये ।

तत् कस्य हेतोः ।

न मयाशयो विकोपयितव्यो येन मया सर्वसत्वाः सर्वसुखोपधानेन सुखयितव्याः परिनिर्वापयितव्याश् चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तत्र नामाहं व्यापद्ये ।

न च मया परेषां स्वपराद्धानाम् अपि व्यापत्तव्यं ।

स नामाहं मोहं क्षोभं गच्छामि ।

इदं तु मया करणीयं ।

दृढपराक्रमतया पराक्रान्तव्यं ।

न मया जीवितान्तराये ऽपि क्रियमाणे क्षोभः करणीयः ।

न मया भृकुटी मुखे [[दोउब्त्]] उत्पादयितव्येति ॥

बोधिसत्वप्रातिमोक्षे ऽप्य् उक्तम् ।

ये क्रुद्धाः सत्वास् तान् आश्वासयति क्षमापयति ।

अनुलोमयति धर्मेण तोषयतीति ॥

इति शिक्षासमुच्चये क्षान्तिपारमिता परिच्छेदो नवमः ॥

वीर्यपारमिता दशमः परिच्छेदः ॥

एवं क्षान्तिप्रतिस्थितः श्रुते वीर्यम् आरभेत ।

अन्यथा श्रुतम् एवास्य विनाशाय संपद्यते ॥

यथोक्तं चन्द्रप्रदीपसूत्रे ।

कियद्बहू धर्मपर्यायुणेया [[दोउब्त्]] शीलं न रक्षेत श्रुते नमन्त ।

न बाहुश्रुत्येन स शक्यु त्रायितुं दुःशीलयेन व्रजमान दुर्गतिम् ॥

श्रुतानुशंसास् तु नारायणपरिपृच्छायाम् उक्ताः ।

तथा हि कुलपुत्राः श्रुतवतः प्रज्ञागमो भवति ।

प्रज्ञावतः क्लेशप्रशमो भवति ।

निःक्लेशस्य मारो ऽवतारं न लभते ॥

अत्र च महर्षेर् उ-

[ cambridge ms f89b ---> ]

त्तरस्य जातकं विस्तरेण कृत्वाह ।

धर्मकामानां हि ।

विमलतेजः ।

बोधिसत्वानां महासत्वानां सगौरवाणां सप्रतीशानां अन्यलोकधातुस्थितापि बुद्धा भगवन्तो मुखम् उपदर्शयन्ति धर्मं चानुश्रावयन्ति ।

धर्मकामानां ।

विमलतेजः ।

बोधिसत्वानां महासत्वानां पर्वतकन्दरवृक्षमध्येषु धर्मनिधानानि निक्षिप्तानि ।

धर्ममुखान्य् अनन्तानि पुस्तकगतानि करतलगतानि भवन्ति ।

धर्मकामानां विमलतेजः बोधिसत्वानां पूर्वबुद्धदर्शिन्यो देवता बुद्धप्रतिभानम् उपसंहरन्ति ॥

पे ॥

परिक्षीणायुष्काणां बुद्धा भगवन्तो देवताश् चायुर्बलं चोपसंहरन्ति ।

बुद्धाधिष्ठानेन देवताधिष्ठानेन च काङ्क्षामाणा वर्षसहस्रम् अवतिष्ठन्ते ॥

पे ॥

यावत् कल्पं वा कल्पावशेषं वा यावद् वाकाङ्क्षन्ति धर्मगौरवजातानां बोधिसत्वानां बुद्धा भगवन्तो जराम् अप्य् अपनयन्ति ।

व्याधीन् अपनयन्ति ।

स्मृतिम् उपसंहरति ।

गतिं म-

[ bendall ed p190 ---> ]

तिं प्रतिभानं चोपसंहरन्ति ॥

पे ॥

दृष्टिकृतानि विनोदयन्ति ।

सम्यग्दृष्टिं चोपसंहरन्ति ।

धर्मगौरवेण ।

विमलतेजः ।

बोधिसत्वानां महासत्वानां सर्वोपक्रमभयानि न भवन्ति ।

तस्मात् तर्हि विमलतेजः श्रुतसंभारकौशल्याभियुक्तेन बोधिसत्वेन भवितव्यम् इति ॥

किम् आकारं श्रुतं बोधिसत्वविनये प्रशस्तं ।

यथार्याक्षयमतिसूत्रे ऽभिहितं ।

अशीत्याकारप्रवेशं श्रुतं ।

तद् यथा ।

छन्दाकारम् आशयाकारम् अध्याशयाकारं प्रयोगाकारं निर्माणाकारम् अप्रमाणाकारं कल्याणमित्राकारं गौरवाकारं प्रदक्षिणाकारं सुवचनाकारं पर्युपासनाकारम् अवहितश्रोत्राकारं मनस्काराकारम् अविक्षेपाकारम् अवस्थानाकारं रत्नसंज्ञाकारं भैषज्यसंज्ञाकारं सर्वव्याधिशमनाकारं स्मृतिभजनाकारं गतिबोधनाकारं मतिरोचनाकारं बुद्धिप्रवेशाक्

आरम् अतृप्तबुद्धधर्मश्रवणाकारं त्यागवृंहणाकारं दान्ताजानेयाकारं बहुश्रुतसेवनाकारं सत्यकृत्यप्रीत्यनुभवनाकारं कायाउद्बिल्याकारं चित्तप्रह्लादनाकारम् अपरिखेदश्रवणाकारं धर्मश्रवणाकारं प्रतिपत्तिश्रवणाकारं परदेशनाश्रवणाकारं अश्रुतश्रवणाकारं अभिज्ञाश्रवणाकारम् अन्ययानास्पृहणाश्रवणाकारं प्रज्ञापारमिताश्रवणाकारं बोधिसत्वपिटकश्रवणाकारं संग्रहवस्तुश्रवणाकारम् उपायकौशल्यश्रवणाकारं ब्रह्मवि-

[ cambridge ms f90a ---> ]

हारश्रवणाकारं स्मृतिसंप्रजन्यश्रवणाकारं गौरवाकारं उत्पादकौशल्यश्रवणाकारम् अनुत्पादकौशल्यश्रवणाकारम् अशुभाकारं मैत्र्याः श्रवणाकारं प्रतीत्यसमुत्पादाकारं अनित्याकारं दुष्खाकारम् अनात्माकारं शान्ताकारं शून्यतानिमित्ताप्रणिहिताकारं अनभिसंस्

काराकारं कुशलाभिसंस्काराकारं सत्वाधिष्ठानाकारं अविप्रणाशाकारं स्वाधीनाकारं स्वचित्तारक्षणाकारं वीर्यस्याश्रंसनाकारं धर्मनिध्यप्त्याकारं क्लेशविपक्षाकारं स्वपक्षपरिकर्षणाकारं परपक्षक्लेशनिग्रहाकारं सप्तधनसमवशरणाकारं सर्वदारिद्र्योपछेदाकारं सर्वविद्वत्प्रशस्ताकारं पण्डिताभिनन्दनाकारं आर्यसंमताकारं अनार्यप्रसादनाकारं सत्यदर्शनाकारं स्कन्धदोषविवर्ज-

[ bendall ed p191 ---> ]

नाकारं संस्कृतदोषपरितुलनाकारम् अर्थप्रतिशरणाकारं धर्मप्रतिशरणाकारं सर्वपापाकरणाकारं आत्मपरहिताकारं सुकृतकर्माननुतप्यनाकारं विशेषगमनाकारं सर्वबुद्धधर्मप्रतिलाभाकारम् इति ॥

पुनर् अत्राइवाह ।

यश् च धर्मसंभारयोगः साइवास्य ज्ञानसंभारो भवति ।

तत्र कतमो धर्मसंभारयोगो येयम् अल्पार्थताल्पकृत्यताल्पभाषताल्पपरिष्कारता पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तस्य श्रुतार्थपरितुलनता ।

भूयो भूयः पर्येषणता ।

चित्तस्यानाविलता ।

नीवरणानां विष्कम्भनता ।

आपत्तिषु निःशरणज्ञानं ।

अकौकृत्यता ।

अपर्युत्थानता ।

प्रतिपत्तिसारता ।

धर्मनिम्नता धर्मप्रवणता धर्मप्राग्भारता ।

पराक्रमसंपन्नतादीप्तशिरश्चैलोपमता ज्ञानपर्येष्ट्या ।

तन्मयविहारिता ।

अशिथिलशीलतानिक्षिप्तधुरता विशेषगामिता संगणिकाविवर्जनम् एकारामतारण्याभिमुखमनस्कारतार्यवंशसन्तुष्टिः धुतगुणेष्व् अचलनता धर्मारामरतिरतता लौकिकमन्त्रास्मरणता लोकोत्तरधर्मपर्येष्टिता स्मृत्यप्रमोषता ।

अर्थगत्यनुग-

[ cambridge ms f90b ---> ]

मता ।

मत्या मार्गानुलोमता ।

धृत्या संवरप्रत्ययैर् ज्ञाना-

[ bendall ed p192 ---> ]

नुगमः ।

ह्रीरपत्राप्यालंकारता ।

ज्ञानानुगमनसारता ।

अज्ञानविधमनता ।

अविद्यामोहतमस्तिमिरपटलपर्यवनद्धस्य प्रज्ञाचक्षुर्विशुद्धिः ।

सुविशुद्धबुद्धिता ।

बुद्धिविस्तीर्णता ।

असंकुचितबुद्धिता प्रभिन्नबुद्धिता ।

प्रत्यक्षबुद्धिता ।

अपराधीनगुणता ।

स्वगुणैर् अमन्यनता ।

परगुणपरिकीर्तनता ।

सुकृतकर्मकारिता ।

कर्मविपाकानुद्धुरता ।

कर्मपरिशुद्धिज्ञानम् इति ॥

किं श्रोतव्यं ।

उक्तं भगवता ज्ञानवैपुल्यसूत्रे ।

सार्थकानि शास्त्राणि शिक्षितव्यानि ।

अपार्थकानि परिवर्जयितव्यानि ।

तद् यथा ।

लोकायतशास्त्राणि दण्डनीतिशास्त्राणि कार्खेदशास्त्राणि वादविद्याशास्त्राणि कुमारक्रीडाशास्त्राणि जम्भकविद्याशास्त्राणि ॥

पे ॥

यान्य् अपि तद् अन्यानि कानिचिन् मोक्षप्रतिकूलानि शास्त्राणि संमोहाय संवर्तन्ते तानि सर्वाणि बोधिसत्वयानसंप्रस्थितेन परिवर्जयितव्यानीति ॥

एवं श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयं ।

कथं पुनर् आशयसंपन्नस्याप्य् उग्रदत्तपरिपृच्छायां गृहम् अनुज्ञातं ।

यत्नवतो ऽप्य् असामर्थ्यात् ।

परदारादिष्व् अपि तर्हि नापत्तिः स्यात् ।

न तेषाम् असामर्थ्ये ऽपि प्रकृतिदुष्टत्वाद् गृहावासस्य च प्रज्ञप्तिसावद्यत्वाद् इति ॥

इति शिक्षासमुच्चये वीर्यपारमिता परिच्छेदो दशमः ॥

अरण्यसंवर्णनं नामाइकादशः परिच्छेदः ॥

तद् एवम् उग्रदत्तपरिपृच्छाविधिना गृहदोषान् भावयित्वा श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयम् इति स्थितं ॥

तथा चोक्तं चन्द्रप्रदीपसूत्रे ।

न जातु कामान् प्रतिषेवमाणः पुत्रेषु दारेषु जनित्व तृष्णां ।

गृहं च सेवित्व जुगुप्सनीयम् अनुत्तरां प्राप्स्यति सो ऽग्रबोधिम् ॥

ये काम वर्जेन्ति यथाग्निकर्षूं पुत्रेषु दारेषु जनित्व तृष्णां ।

उत्तस्त गेहाद् अभिनिष्क्रमन्ति न दुर्लभा तेष्व् इयम् अग्रबोधिः ॥

न कश्चि बुद्धः पुरिमेणासीद् अनागतो भेष्यति यो ऽवतिष्ठते ।

येहि स्थितैर् एवागारमध्ये प्राप्तेयं उत्तमाग्रबोधिः ॥

प्रहाय रा-

[ cambridge ms f91a ---> ]

ज्यं यथ खेटपिण्डं वसेद् अरण्येषु विवेककामः ।

क्लेशान् प्रहाय विनिहत्य मानं बुध्यन्ति बोधिं विरजाम् असंस्कृताम् ॥

पे ॥

अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि ।

नोपस्थिता भोन्ति नरोत्तमा जिना यथ प्रव्रजित्वा चरमाणधर्मान् ॥

यश् चाइव बोधिं प्रतिकाङ्क्षमाणः सत्वार्थ निर्विण्ण कुसंस्कृतातः ।

अरण्याभिमुख सप्त पदानि गच्छेद् अयं ततः पुण्यविशिष्ट भोति ॥

यदि पुनर् विसभागसत्वानुनयात् परिषत्कामतया वा लाभादिकामतया वा विवेकप्रवेशे विलम्बेत ।

तदर्थम् अत्राइवोक्तं ।

[ bendall ed p194 ---> ]

न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य बालान् परिवर्जयन्ति ।

ममान्तिके चेति प्रदुष्टचित्ता न बालधर्मेहि करोन्ति संस्तवम् ॥

न विज्ञ बालान करोति सेवनां विदित्व बालान स्वभावसंततिम् ।

कियच्चिरं बालसुसेविता पि पुनो ऽपि ते भोन्ति अमित्रसन्निभाः ॥

न विज्ञ बालेष्व् इह विश्वसन्ति विज्ञाय बालान स्वभावसंततिम् ।

स्वभावभिन्ना प्रकृतीय बालाः कुतो ऽस्ति मित्रं हि पृथग्जनानां ॥

सहधार्मिकेनो वचनेनोक्ताः क्रोधं च दोषं चाप्रत्ययं च ।

प्राविष्करोन्तीमि बालधर्मेमम् अर्थ विज्ञाय न विश्वसन्ति ॥

बाला हि बालेहि समं समेन्ति यथामेध्येनामेध्य सार्द्धम् ।

विज्ञः पुनर् विज्ञजनेन सार्द्धं समेन्ति सर्पिर् यथ सर्पिमण्डे ॥

तथा च पुनर् अत्राइवम् आह ।

सूसुखिताः सद ते नरलोके येषु प्रियाप्रिय नास्ति कहिंचित् ।

ये च न कन्दरके ऽभिरमन्ते श्रामणकं सुसुखं अनुभोन्ति ॥

येषु ममापि तु नास्ति कहिंचित् ।

येषु परिग्रहु सर्वशु नास्ति ।

खड्गसमा विचरन्ति मु लोकं गगने पवन यथेव व्रजन्ति ॥

[ bendall ed p195 ---> ]

स्युः सुखिता वत ते नरलोके येषु न सज्जति मानस लोके ।

वायुसमं सद तेष्व् इह चित्तं नो च प्रियाप्रिय विद्यति संगो ॥

अप्रिय ये दुखितेहि निवासो ये ऽपि प्रिया दुखितेहि वियोगो ।

अन्तोभे ऽपि तेहि जहित्वा ते सुखिता नरये रत धर्मे ॥

पुनर् अत्राइवोक्तम् ।

भवति सततम् अल्पकृत्ययोगी पृथु गुण दोषत सर्वि वर्जयित्वा ।

न विवदति

[ cambridge ms f91b ---> ]

कदाचि युक्तयोगीमि गुण तस्य भवन्त्य् अरण्यवासे ॥

सद भवति निविण्ण संस्कृते ऽसौ न भवति तस्य पृहा कहिंचि लोके ।

न च भवति विवृद्धिर् आस्रवाणां वनवसतो ऽस्य भवन्ति आनुशंसाः ॥

अधिकरण न तस्य जातु भोती सदोपशान्तरतो विवेकचारी ।

वचचि मनसि काय संवृतस्यो बहुगुण तस्य भवन्त्य् अरण्यवासे ॥

भवति अनुकूल तस्य मोक्षो लघु प्रतिविध्यति सो ऽधिमुक्ति शान्ताम् ।

वनिचरि धिमुक्ति सेवते ऽस्येमि गुण भोन्त्य् अरण्यवासि सर्वे ॥

पुनर् आह ।

वनषण्ड सेवथ विविक्त सदा विजहित्व ग्रामनगरेषु रतिम् ।

अद्वितीयखड्गसम भोथ सदा न चिरेण लप्स्यथ समाधिवरम् ।

इति ॥

आर्यराष्ट्रपालसूत्रे ऽप्य् आह ।

[ bendall ed p196 ---> ]

त्यक्त्वा गेहम् अनन्तदोषगहनं चिन्तानपेक्षाः सदा ।

ते ऽरण्ये रतिम् आप्नुवन्ति गुणिनः शान्तेन्द्रियाः सूरताः ॥

न स्त्रीसंभव नाइव चापि पुरुषैस् तेषां क्वचिद् विद्यते ।

एकाकी विहरन्ति खड्गसदृशाः शुद्धाशया निर्मलाः ॥

लाभैर् नापि च तेषु हर्ष स्वमनो लीयन्त्य् अलाभैर् न च ।

अल्पेच्छेतरेतरैर् अभिरता मायाकुहावर्जिताः ।

ति ॥

उग्रदत्तपरिपृच्छायाम् अप्य् आह ।

सत्वसंसर्गो मे न कर्तव्यो न हि मयाइकसत्वस्य कुशलमूलानि संजनयितव्यानीत्य् आदि ॥

यदि पुनः श्रुतवान् इमां क्षणसंपदम् आसाद्य लाभादौ सक्तः चित्तं न शोधयेत् साइवाइकः ।

सदेवके लोके वञ्चितः स्याद् ॥

उक्तं ह्य् आर्यरत्नकूटे ।

तद् यथा काश्यप कश्चिद् एव पुरुषो महतोदकार्णवेनोह्यमानोदकतृष्णया कालं कुर्याद् ।

एवम् एव काश्यपेहाइके श्रमणब्राह्मणा बहून् धर्मान् उद्गृह्य पर्यवाप्य न रागतृष्णां विनोदयन्ति ।

न द्वेषतृष्णां ।

न मोहतृष्णां विनोदयन्ति ।

ते महता धर्मार्णवेनोह्यमानाः क्लेशतृष्णया कालगता ।

दुर्गतिविनिपातगामिनो भवन्तीति ॥

तस्माद् अवश्यम् अरण्यम् आश्रयेत् ॥

तादृशानि च स्थानानि आश्रयेत् ।

येषु च स्थानेषु नातिदूरे पिण्डपातगोचरो भवति न

[ bendall ed p197 ---> ]

अतिसंनिकृष्टे ।

येषु पानीयानि भवन्त्य् अच्छानि शुचीनि निर्मलान्य् अल्पायासानि मुखपरिभोगानि या-

[ cambridge ms f92a ---> ]

नि च स्थानानि वृक्षसंपन्नानि भवन्ति पुष्पसंपन्नानि फलसंपन्नानि पत्त्रसंपन्नान्य् अपगतदुष्टश्वापदानि गुहासंपन्नानि प्राग्भारसंपन्नानि सुखपरिसर्प्यकाणि शान्तान्य् अद्वितीयानि तादृशानि स्थानान्य् आश्रयेत् ।

स तेषु स्थानेष्व् आश्रितो यद् अनेन पूर्वपठितं भवति तत् त्रिभी रात्रैस् त्रिर्दिवसस्य स्वाध्यायति नात्युच्चेन स्वरेण नातिनीचेन नोद्धतैर् इन्द्रियैर् न बहिर्गतेन चित्तेन प्रसादम् उपजीवन् ग्रन्थम् उपधारयन् निमित्तान्य् उद्गृह्णन् मिद्धम् अपक्रामन् ।

सचेद् आरण्यकस्य भिक्षो राजा वोपसंक्रामति राजमात्रो वान्ये वा ब्राह्मणक्षत्रियनैगमजानपदाः ।

तेन तेषाम् आदरेण स्वागतक्रिया कर्तव्या ।

एवं चानेन वक्तव्यं ।

निषीद महाराज यथा प्रज्ञप्तए आसने ।

सचेद् उपविशति द्वाभ्याम् अप्य् उपवेष्टव्यं ।

सचेन् नोपविशति उभाभ्याम् अपि नोपवेष्टव्यं ।

सचेच् चञ्चलेन्द्रियो भवति उत्कर्षयितव्यं ।

तस्य ते महाराज लाभाः सुलब्धा यस्य ते भूप्रदेशे शीलवन्तो गुणवन्तो बहुश्रुताः श्रमणब्राह्मणाः प्रतिवसन्ति ।

अनुपद्रुताश् चौरभटादिभिः ॥

सचेत् स्थिरो भवति विनीतः प्रशान्तेन्द्रियः भव्यश् च भवति धर्मदेशनायाः ततो ऽस्य विचित्रा धर्मदेशनोपसंहर्तव्या ।

सचेद् विचित्रां न प्रियायते ।

संवेगानुकूला धर्मदेशनोपसंहर्तव्या ।

सचेत् संवेगानुकूलां न प्रियायते उदारोदाराणि तथागतमाहात्म्यानि उपदेष्टव्यानि ।

ब्राह्मणक्षत्रियनैगमजानपदानाम् अप्य् उपसंक्रामतां यथानुरूपाः क्रियोपसंहर्तव्या ।

साइवं बहुश्रुतः सन् प्रतिबलो भवति धार्मश्रवणिकानां चित्तम् आराधयितुं ।

ते च सत्वास् तस्यान्तिके प्रीतिं च प्रसादं च प्रामोद्यं च प्रतिलभन्तए इति ॥

[ bendall ed p198 ---> ]

उग्रदत्तपरिपृच्छायाम् अप्य् आह ।

पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेनारण्ये प्रतिवसताइवम् उपपरीक्षितव्यं ।

किम् अर्थम् अहम् अरण्ये प्रतिवसामि ।

न केवलम् अरण्यवासेन श्रमणो भवति ।

बहवो ऽप्य् अत्रादान्ताविनीतायुक्तानभियुक्ताः प्रतिवसन्ति ।

तद् यथा ।

मृग-

[ cambridge ms f92b ---> ]

वानरपक्षिसंघचौरचण्डालाः प्रतिवसन्ति ।

न च ते श्रमणगुणसमन्वागता भवन्ति ।

अपि तु खलु पुनर् अहं यस्यार्थायारण्ये प्रतिवसामि स मयार्थः परिपूरयितव्यो यद् उत श्रामण्यार्थः ॥

पे ॥

पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेनारण्ये विहरताइवम् उपपरीक्षितव्यं ।

किम् अर्थम् अहम् अरण्य्म् आगतः ।

तेनाइवं मीमांसयितव्यं ।

भयभीतो ऽस्म्य् अहम् अरण्यम् आगतः ।

कुतो भयभीतः ।

संगणिकाभयभीतः ।

संसर्गभयभीतो रागद्वेषमोहभयभीतो मानमदम्रक्षपरिदाहभयभीतो लोभेर्ष्यामात्सर्यभयभीतः रूपशब्दगन्धरसस्पर्ष्टव्यभयभीतः ।

सो ऽहं*कारममकारभयभीतः ।

औद्धत्यविचिकित्साभयभीतः ।

स्कन्धमारभयभीतः ।

क्लेशमारभयभीतो ।

मृत्युमारभयभीतो ।

देवपुत्रमारभयभीतः ।

अनित्ये नित्येति विपर्यासभयभीतो ऽनात्मन्य् आत्मेति विपर्यासभयभीतो ऽशुचौ शुचिर् इति विपर्यासभयभीतो ।

दुष्खे सुखम् इति विपर्यासभयभीतः ।

चित्तमनोविज्ञानभयभीतो ।

निवरणावरणपर्युत्थानभयभीतः ।

सत्कायदृष्टिभयभीतः पापमित्रभयभीतो ।

लाभसत्कारभयभीतो ऽकालमन्त्रभयभीतो ऽदृष्टे दृष्टम् इति भयभीतो ऽश्रुते श्रुतम् इति भयभीतो ऽमते मतम् इति भयभीतो ऽविज्ञाते विज्ञातम् इति भयभीतो ऽश्रमणे श्रमणमदभयभीतो ऽन्योन्यविद्वेषणभयभीतः कामधातुरूपधात्वरूप्यधातुभयभीतः सर्वभवगत्युपपत्तिभयभीतो निरयतिर्यग्योनिपितृविषयभयभीतः संक्षेपेण सर्वेभ्यो ऽकुशलेभ्यो मनसिकारेभ्यो भयभी

ताइभ्यो ह्य् अहम् एवंरूपेभ्यो भयभैरवेभ्यो भीतो ऽरण्यावासम् उपगतः ॥

पे ॥

पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेनारण्यवासस्थितेन भीतेन वा त्रस्तेन वाइवं शिक्षितव्यं ।

यानि कानिचिद् भयान्य् उत्पद्यन्ते सर्वाणि तान्य् आत्मग्राहतोत्पद्यन्ते ॥

पे ॥

सचेत् पुनर् अहम् अरण्ये प्रतिवसन् नात्मग्राहं परित्यजेयं नात्माभिनिवेशं नात्मपरिग्रहं नात्मनिदानं नात्मतृष्णां नात्मसंज्ञां नात्मवादोपादानं नात्मदृ-

[ bendall ed p199 ---> ]

ष्टिं नात्माधिष्ठानं नात्मपरिकल्पनां नात्मरक्षां परित्यजेयं ।

निरर्थको मे ऽरण्यवासः स्याद् ।

अपि तु खलु पुनर् गृहपते नास्त्य् आत्मसंज्ञिनो ऽरण्यवासो ।

नास्ति परसंज्ञिनः ॥

पे ॥

अरण्यवासो नाम गृहपते उच्यते सर्वधर्मेष्व् असंभववासः सर्वधर्मेष्व् असंगवासः ॥

पे ॥

तद् यथा गृहपते ऽरण्ये तृणगुल्माउषधिवनस्पतयः प्रतिवसन्तो न बिभ्यति नोत्त्रस्यन्ति न संत्रस्यन्ति न संत्रासम् आपद्यन्ते ।

एवम् एव गृहपते प्रव्रजितेन बोधिसत्वेनारण्ये विहरता तृणगुल्माउषधिवनस्पतिकाष्ठकुड्यवद् आत्मप्रतिभासवत् संज्ञा काये उत्पादयितव्या ।

मायासमता चित्तस्योत्पादयितव्या ।

को ऽत्र बिभेति ।

को ऽस्मिन्न् उत्त्रस्यति ।तेन भयभीतेन वा त्रस्तेन वाइवं योनिशः कायोपपरीक्षितव्यः ।

नास्त्य् अत्र काये आत्मा वा सत्वो वा जीवो वा पोषो वा पुद्गलो वा मनुजो वा मानवो वा ।

अभूतपरिकल्पाइष यद् उत भयं नाम ।

स मयाभूतपरिकल्पो न परिकल्पयितव्यः ।

तेन यथारण्ये तृणगुल्माउषधिवनस्पतयः प्रतिवसन्ति अममापरिग्रहाः ।

एवम् एवाममेनापरिग्रहेणारण्यम् एव सर्वधर्मेति ज्ञात्वोपसम्पद्य विहर्तव्यं ।

तत् कस्य हेतोः ।

रणछेदो ऽरण्यवासो ऽममो ऽपरिग्रहः ॥

पे ॥

पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेन बुद्धानुज्ञातो ऽरण्यवासेति ज्ञात्वारण्ये वस्तव्यं ।

अत्र हि शुक्लधर्मपरिपूरिर् भवति ।

उपस्तब्धकुशलमूलः पश्चाद्ग्रामनगरनिगमराष्ट्रराजधानीष्व् अवतीर्य धर्मं देशयिष्यामि ॥

पे ॥

सचेत् पुनर् गृहपते प्रव्रजितो बोधिसत्वोद्देशस्वाध्यायार्थं गणम् अवतरति ।

तेन तत्र सगौरवेण भवितव्यं सप्रतीसेनाचार्योपाध्यायेषु स्थविरमध्यनवकेषु भिक्षुषु प्रदक्षिणभवितव्यम् अनलसेन स्वयंकारिणापरोपतापिना न च तेनोपस्थानगुरुकेण भवितव्यं ।

एवं चानेनोपपरीक्षितव्यं ।

तथागतो ऽप्य् अर्हन् सम्यक्संबुद्धः सदेवस्य लोकस्य स-

[ bendall ed p200 ---> ]

मारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पूजितो दक्षिणीयः सर्वसत्वानां ।

सो ऽपि तावन् न कस्यचित् सकाशाद् उपस्थानं स्वीकरोति ।

किं-

[ cambridge ms f93b ---> ]

पुनर् अस्माभिर् अशिक्षितैः शिक्षितुकामैः ।

अपि तु वयम् एव सर्वसत्वानाम् उपस्थायका भविष्यामः ।

वयम् एव परेषाम् उपस्थानपरिचर्यां करिष्यामो न च पुनः कस्यचित् सकाशाद् उपस्थानपरिचर्यां स्वीकरिष्यामः ।

तत् कस्य हेतोः ।

उपस्थानगुरुकस्य हि गृहपते भिक्षोर् गुणधर्मानुग्रहो नश्यति ।

येषां च संग्रहं करोति तेषाम् एवं भवति ।

उपस्थानहेतोर् एषो ऽस्माकं संग्रहं करोति ॥

पुनर् अत्राइवाह ।

सचेत् पुनर् गृहपते आरण्यको बोधिसत्वो धर्मश्रवणार्थिकाचार्योपाध्यायदर्शनार्थिको वा ग्लानपरिपृच्छको वा ग्रामान्तिकं शयनासनम् आगच्छेत् तेन सायम् आगमनाय प्रक्रमणाय च चित्तम् उत्पादयितव्यं ।

सचेत् पुनर् अस्य परप्रतिबद्धोद्देशः स्वाध्यायो वा तेन विहारे प्रतिवसतारण्यप्रवणचित्तेन भवितव्यं ।

एषाइव तस्यारण्यवासो यत् सर्ववस्तुष्व् अरण्यसंज्ञा धर्मपर्येष्ट्या चातृप्तेति ॥

आर्यरत्नराशिसूत्रे ऽप्य् उक्तं ।

यदि पुनर् अस्य तत्रारण्यायतने विहरतो ऽप्राप्तफलपृथग्जनस्य व्याडमृगागच्छेयुः ।

तेन तत्र न भयं न त्रासोत्पादयितव्यः ।

एवं च चित्तम् उत्पादयितव्यं ।

पूर्वम् एवाहम् उत्सृष्टकायजीवितो ऽरण्यवासम् उपगतो ।

न मयात्र भेतव्यं ।

नोत्त्रसितव्यं ।

अपि तु मैत्रीम् उत्पादयित्वा दोषं विवर्जयिष्यामि भयम् अपनयिष्यामि ।

यद्य् एवम् अपि कृत्वा ते व्याडमृगा मां जीविताद् व्यपरोप्य भुञ्जीरन् ।

तेन मयाइवं चित्तम् उत्पादयितव्यं ।

लाभा मे सुलब्धा यस्य मे ऽसारात् कायात् सारम् आदत्तं भविष्यति ।

न पुनर् इमे व्याडमृगाः शक्या मयामिषेण तोषयितुं मम मांसं भक्षयित्वा सुखस्पर्शं विहरिष्यन्ति ॥

पे ॥यदि पुनस् तत्रारण्यायतने विहरतो ऽमनुष्योपसंक्रमिष्यन्ति सुवर्णा वा दुर्वर्णा वा ।

तेन न तत्रानुनेतव्यं न प्रतिहन्तव्यं ।

यदि पूर्वबुद्धदर्शिन्यो देवतारण्यकं भिक्षुम् उपसंक्रम्य

[ bendall ed p201 ---> ]

प्रश्नं परिपृच्छेयुः ।

तत्र तेनारण्यकेन भिक्षुणा यथाशक्ति यथाबलं यथाधर्माधिगमाय तासां देवतानां-

[ cambridge ms f94a ---> ]

धर्मो देशयितव्यः ।

यदि पुनस् तावङ् गम्भीरान् प्रश्नान् परिपृच्छेयुर् यान् सारण्यको भिक्षुर् न शक्नुयाद् विसर्जयितुं ।

तेन निर्मानेन भूत्वा वाग् भाषितव्याशिक्षितो न परिभवितव्यः ।

युञ्जिष्यामि घटिष्ये बुद्धशासने ।

भविष्यति स कालः स समयो यदाधिगतान् धर्मान् श्रुत्वा सर्वकथां विसर्जयिष्यामि ।

अपि तु प्रतिभातु ते ।

वयं धार्मश्रवणिकेति ॥

पे ॥तेन तत्रारण्यायतने प्रतिवसता तृणगुल्माउषधिवनस्पतीनां निमित्तं ग्रहीतव्यं ।

कथम् एते भवन्ति ।

यथाइषां भावनाम् अस्वामिकानाम् अममानाम् अपरिग्रहाणाम् एवं निश्चेष्टानां निर्व्यापाराणां भवत्य् उत्पादो भङ्गश् च ।

न चाइषां कश्चिद् उत्पादयिता ।

न निरोधयिता ।

एवम् एवायं कायस् तृणकाष्ठकुड्यप्रतिभासोपमो ऽस्वामिको ऽममो ऽपरिग्रहो निश्चेष्टो निर्व्यापारो हेतुप्रत्यययुक्त्योत्पद्यते ।

हेतुप्रत्ययवैकल्यान् निरुध्यते ।

न पुनर् अत्र कश्चिद् धर्मः परमार्थत*उत्पद्यते वा निरुध्यते वेति ॥

पुनश् चोक्तं ।

तेन तत्रारण्यायतने विहरताइवं चित्तम् उत्पादयितव्यं ।

यद्य् अप्य् अहम् अरण्यम् आगताइको ऽद्वितीयो ।

न मे कश्चित् सहायो यो मां सुकृतं दुष्कृतं वा चोदयेत् ।

अपि तु खलु पुनः सन्तीमे देवनागयक्षा बुद्धाश् च भगवन्तो ये मम चित्ताशयं जानन्ति ।

ते मम साक्षिणः ।

सो ऽहम् इहारण्यायतने प्रतिवसन्न् अकुशलचित्तस्य वशं गच्छामि ।

यदि पुनर् अहम् इयद्दूरम् आगताइको ऽद्वितीयो ऽसंस्तब्धो ऽममो ऽपरिग्रहः कामवितर्कं वा वितर्कयेयं ।

व्यापआदं विहिन्सावितर्कं वा वितर्कयेयम् अन्यं वाकुशलवितर्कं वितर्कयेयं ।

निर्विशेषो भवेयं संसर्गसंगणिकाभिर् एतैः सत्वैः ।

ते च मे देवनागयक्षा विसंवादिताः बुद्धाश् च भगवन्तो ऽनभिराद्धा भविष्यन्तीति ॥

इति शिक्षासमुच्चये ऽरण्यसंवर्णनो नामाइकादशः परिच्छेदः ॥

चित्तपरिकर्म द्वादशः परिच्छेदः ॥

तद् एवम् अरण्ये वसन् समाधानाय युज्यते ॥

उक्तं हि भगवत्यां ।

स तेषाम् एव सत्वानाम् अर्थाय ध्यानपारमितायां चरन्न् अविक्षिप्तचित्तो भवति ।

तत् कस्य हेतोः ।

[ cambridge ms f94b ---> ]

तथा ह्य् अस्याइवं भवति ।

लौकिकी ध्यानोपपत्तिर् अपि तावद् विक्षिप्तचित्तस्य दुर्लभा ।

कः पुनर् वादो ऽनुत्तरा सम्यक्संबोधिः ।

तस्मान् मयाविक्षिप्तचित्तेन भवितव्यम् ।

यावन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेयम् इति ॥पुनर् अस्याम् उक्तं ।

पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रथमचित्तोत्पादम् उपादाय ध्यानपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानं समापद्यते ।

स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही ।

यतो ऽधिकरणम् अस्य चक्षुरिन्द्रियेणासंवरसंवृतस्य विहरतो ऽभिध्यादौर्मनस्ये ऽन्ये वा पापकाकुशला धर्माश् चित्तम् अनुप्राप्नुयुः ।

तेषां संवराय प्रतिपद्यते ।

रक्षति चक्षुरिन्द्रियम् ।

एवं श्रोत्रेण शब्दान् श्रुत्वा ।

घ्राणेन गन्धान् घ्रात्वा ।

जिह्वया रसान् आस्वाद्य ।

कायेन स्प्रष्टव्यानि स्पृष्ट्वा ।

मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति ।

नानुव्यञ्जनग्राही ।

यतो ऽधिकरणम् अस्य मनेन्द्रियेणासंवरसंवृतस्य पापकाश् चित्तम् अनुप्राप्नुयुः ।

तेषां संवराय प्रतिपद्यते ।

रक्षति मनेन्द्रियं ।

स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो ऽपि शयानो ऽपि भाषमाणो ऽपि समाहितावस्थाम् असमाहितावस्थां न विजहाति ।

स भवत्य् अहस्तलोलः ।

अपादलोलो ऽमुखलोलो ऽप्रकीर्णवाक् ।

अविक्षिप्तेन्द्रियो ऽनुद्धतो ऽनुन्नतो ऽचपलो ऽनलसो ऽसंभ्रान्तकायो ऽसंभ्रान्तचित्तः ।

शान्तकायः शान्तवाक् शान्तचित्तः ।

रहस्य् अरहसि वा कल्पितेर्यापथः संतुष्टः ॥

पे ॥

सुभरः सुपोषः ।

सूपास्यः कल्याणाचारगोचरः ।

संगणिकयापि विवेकगोचरः ।

लाभे ऽलाभे च समो निर्विकारः ।

[ bendall ed p203 ---> ]

अनुन्नतो ऽनवनतः ।

एवं सुखे दुष्खे ।

स्तुतौ निन्दायां ।

यशस्य् अयशसि ।

जीविते मरणे च समो निर्विकारो ऽनुन्नतो ऽनवनतः ।

एवं शत्रौ मित्रे च ।

मनापवर्तिनि ... ।

आर्येष्व् अनार्येषु ।

शब्देषु संकीर्णेष्व् असंकीर्णेषु ।

प्रियाप्रियेषु च रूपेषु समो निर्विकारः ।

अनुन्नतो ऽनवनतः ।

अनुरोधविरोधापगतः ।

तत् कस्य हेतोः ।

तथा

[ cambridge ms f95a ---> ]

हि स स्वलक्षणशून्यान् असंभूतान् अनिष्पन्नान् अनभिनिर्वृत्तान् सर्वधर्मान् पश्यतीति विस्तरः ॥

तत्र लीने मनसि मुदिता भावनयोत्तेजनं कुर्यात् ।

उद्धते त्व् अनित्यतामनसिकारैः प्रशमः ॥

उभयप्रतिपक्षार्थं चार्यराष्ट्रपालोक्तां गाथां स्मरेत् ।

बहु कल्पकोटीभि कदाचि बुद्धो उत्पद्यते लोकहितो महर्षि ।

लब्धो ऽधुना स प्रवरः क्षणो ऽद्य त्यजति प्रमादं यदि मोक्तुकाम ।

इति ॥

तथा ।

मयोपमं वितथम् एतत् स्वप्नोपमं च संस्कृतम् अवेक्ष्य न चिराद् भविष्यति वियोगः सर्वप्रियैः ।

न नित्यम् इह कश्चित् ।

उद्युज्य यथा घटत नित्यं पारमितासु भूमिषु बलेषु ।

मा जातु स्रंसय वीर्यं यावन् न बुध्यथा प्रवरबोधिम् ।

इति ॥

आर्यललितविस्तरे ऽप्य् उक्तं ।

ज्वलितं त्रिभुवं जरव्याधिदुखैर् मरणाग्निप्रदीप्तम् अनाथम् इदम् ।

भवनिःशरणे सद मूढ जगद् भ्रमति भ्रमरो यथा कुम्भगतः ॥

[ bendall ed p204 ---> ]

अध्रुवं त्रिभुवं शरदभ्रनिभं नटरङ्गसमा जगि जन्मच्युतिः ।

गिरिनद्यसमं लघुशीघ्रजवं व्रजतायु जगे यथ विद्यु नभे ॥ भुवि देवपुरे त्रिअपायपथे भवतृष्णाविद्यवशा जनता ।

परिवर्त्तिषु पञ्चगतिष्व् अबुधा यथ कुम्भकरस्य हि चक्र भ्रमी ॥

प्रियरूपवरैः सद स्निग्धरुतैः शुभगन्धरसैर् वरस्पर्शसुखैः ।

परिषिक्तम् इदं कलिपाश जगत् मृगलुब्धकपाशि यथाइव कपि ॥

सभयाः सरणाः सद वैरकराः बहुशोकोपद्रव कामगुणाः ।

असिधारसमा विषपत्त्रनिभाः जहितार्यजनैर् यथ मीढघटः ॥

स्मृतिमोषकरास् तमसीकरणा भयहेतुकरा दुखमूल सदा ।

भवतृष्णलताय विवृद्धिकराः सभयाः सरणा सद कामगुणाः ॥

यथाग्निखदाः ज्वलिताः सभयाः तथ कामेमे विदितार्यजनैः ।

महपङ्कसमाशिशूलसमा मधुदिग्धेव क्षुरधारसमा ॥

यथ सर्पशिरो यथ मीढघटः तथ कामेमे विदिता विदुषाम् ।

तथ शूलसामा द्विजपेशिसमा यथ श्वानकरं किशवैर तथोदकचन्द्रनिभेमि कामगुणाः प्रतिबिम्बेवा गिरिघोष यथा ।

प्रतिभाससमा नटरङ्गनिभा तथ स्वप्नसमा विदितार्यजनैः ॥

[ bendall ed p205 ---> ]

क्षणिकावसिकेमि कामगुणाः तथ मायमरीचिसमालिकोदकबुद्बुदफेनसमा वितथाः परिकल्पसमुत्थित बुद्ध बुधैः ॥

प्रथमे वयसे वररूपधरः प्रियेष्टमतो इय बालचारी ।

जरव्याधिदुखैर् हततेजवपुं विजहन्ति मृगेव शुष्कनदीम् ॥

धनधान्यवरो बहुद्रव्यबली प्रियेष्टमतो इय बालचारी ।

परिहीणधनं पुन कृच्छ्रगतं विजहन्ति नरेव शून्यटवीम् ॥

यथ पुष्पद्रुमो सफलो व द्रुमो नरुदानरतः तथ प्रीतिकरः ।

धनहीनु जरार्दितु याचनको भवते तदाप्रियगृध्रसमः ॥

प्रभुद्रव्यबली वररूपधरः प्रियसङ्गमनेन्द्रियप्रीतिकरः ।

जराव्याधिदुखार्दितु क्षीणधनो भवते तदाप्रियमृत्युसमः ॥जरया जरितः समतीतवयो द्रुम विद्युहतो व यथा भवति ।

जरजीर्णागार यथा सभयो जरनिःशरणं लघु ब्रूहि मुने ॥

जर शोषयते नरनारिगणं यथ मालुलता घन शालवनम् ।

जर वीर्यपराक्रमवेगहरी जर पङ्कनिमग्न यथा पुरुषो ॥

जर रूप सुरूपविरूपकरी जर तेजहरी बलस्थामहरी ।

सद सौख्यहरी परिभावकरी जर मृत्युकरी जराउजहरी ॥

बहुरोगशतैर् घनव्याधिदुखैः उपसृष्टु जगज् ज्वलनेव मृगाः ।

जर व्याधिगतं प्रसमीक्ष्य जगत् दुखनिःशरणं लघु देशय ही ॥

[ bendall ed p206 ---> ]

शिशिरेहि यथा हिमधातु महं तृणगुल्मवनाउषधि ओजहरो ।

तथाउजहरो ऽयु व्याधि जगे परिहीयतीन्द्रियरूपबलम् ॥

धनधान्यमहार्थक्षयान्तकरः परिभावकरः सद् व्याधि जगे ।

प्रतिघातकरः प्रियद्वेषकरः परिदाहकरो यथ सूर्यु नभे ॥

मरणं च्यवनं च्युति कालक्रिया प्रियद्रव्यजनेन वियोगु सदा ।

अपुनागमनं चासंगमनं द्रुमपत्त्रफला नदिश्रोतु यथा ॥

मरणं वशितान् अवशीकुरुते मरणं हरते नदि दारु यथा ।

असहायनरो व्रजते ऽद्वितीयः स्वककर्मफलानुगतो विवशः ॥

मरणं ग्रसते बहु प्राणिशतान् मकरो व जलाकरि भूतगणान् ।

गरुडो उरगं मृगराज गज ज्वलनो व तृणाउषधिभूतगणम् ।

इति ॥

राजाववादकसूत्रे ऽप्य् आह ।

तद् यथा महाराज चतसृभ्यो दिग्भ्यश् चत्वारः पर्वतागच्छेयुर् दृढाः ।

[ cambridge ms f96a ---> ]

सारवन्तो ऽखण्डाच्छिद्रासुषिराः सुसंवृताइकघना नभः स्पृशन्तः पृथिवीं चोल्लिखन्तः सर्वतृणकाष्ठशाखापर्णपलाशादि सर्वसत्वप्राणिभूतानि निर्मथ्नन्तस् तेभ्यो न सुकरं जवेन वा पलायितुं बलेन वा द्रव्यमन्त्राउषधिभिर् वा निवर्तयितुम् ।

एवम् एव महाराज चत्वारीमानि महाभयान्य् आगच्छन्ति येषां न सुकरं जवेन वा पलायितुं बलेन

[ bendall ed p207 ---> ]

द्रव्यमन्त्राउषधैर् वा निवर्तनं कर्तुम् ।

कतमानि चत्वारि ।

जरा व्याधिर् मरणं विपत्तिश् च ॥

जरा महाराजागच्छति यौवनं प्रमथमाना ।

व्याधिर् महाराजागच्छत्य् आरोग्यं प्रमथमानः ।

मरणम् आगच्छति जीवितं प्रमथमानं ।

विपत्तिर् महाराजागच्छति सर्वाः संपत्तीः प्रमथमाना ।

तत् कस्य हेतोः ।

तद् यथा महाराज सिंहो मृगराजो रूपसंपन्नो जवसंपन्नः सुजातनखदंष्ट्राकरालो मृगगणम् अनुप्रविश्य मृगं गृहीत्वा यथाकामकरणीयं करोति ।

स च मृगो ऽतिबलं व्याडमुखम् आसाद्य विवशो भवति ।

एवम् एव महाराज विद्धस्य मृत्युशल्येनापगतमदस्यापरायणस्य मर्मसु छिद्यमानेषु मुच्यमानेषु सन्धिषु मांसशोणिते परिशुष्यमाणे परितप्ततृषितविह्वलवदनस्य करचरणविक्षेपाभियुक्तस्याकर्मण्यस्यासमर्थस्य लालासिङ्घाणकपूयमूत्रपुरीषोपलिप्तस्य ईषज्जीवितावशेषस्य कर्मभवात् पुनर् भवम् आलम्बानस्य यमपुरुषभयभीतस्य कालरात्रिवशगतस्य चरमाश्वासप्रश्वासेषूपरुध्यमानेषु ए

काकिनो ऽद्वितीयस्यासहायस्येमं लोकं जहतः परलोकम् आक्रामतो महापथं व्रजतो महाकान्तारं प्रविशतो महागहनं समवगाहमानस्य महान्धकारं प्रतिपद्यमानस्य महार्णवेनोर्ज्यमानस्य कर्मवायुनाह्रियमाणस्यानिमित्तीकृतां दिशं गच्छतो नान्यत् त्राणं नान्यच् छरणं नान्यत् परायणम् ऋते धर्मात् ।

धर्मो हि महाराज तस्मिन् समये त्राणं लयनं शरणं परायणं भवति ।

तद् यथा शीतार्त्तस्याग्निप्रतापः ।

अग्निम् अपगतस्यानिर्वापणं ।

उष्णार्त्तस्य शैत्यं ।

अध्वानं प्रतिपन्नस्य शी-

[ cambridge ms f96b ---> ]

तलं छायोपवनं ।

पिपासितस्य शीतलजलं ।

बुभुक्षितस्य वा प्रणीतम् अन्नं ।

व्याधितस्य वैद्याउषधिपरिचारकाः ।

भयभीतस्य बलवन्तः सहायाः ।

साधवः प्रतिशरणा भवन्ति ।

एवम् एव महाराज विद्धस्य मृत्युशल्येनापगतमदस्यात्राणस्याशरणस्यापरायणस्य नान्यत् त्राणं नान्यत् परायणम् अन्यत्र धर्मात् ।

तस्मात् तर्हि ते महाराजानित्यतानुदर्शिना भवितव्यं क्षयव्ययानुदर्शिना भवितव्यं मरणभयभीतेन ।

धर्मेणाइव ते महाराज राज्यं कारयितव्यं नाधर्मेण ।

[ bendall ed p208 ---> ]

तत् कस्य हेतोः ।

अस्यापि ते महाराजात्मभावस्याइवं सुचिरम् अपि परिरक्षितस्य सुचिरम् अपि शुचिना प्रणीतेन खादनीयभोजनीयास्वादनीयेन संतर्पितस्य संप्रवारितस्य ।

क्षुतपिपासापरिगतस्य कालक्रिया भविष्यति ।

एवं काशिकौशेयदूकूलपत्त्रोर्णाक्षौमादिभिर् वस्त्रविशेषैर् आच्छादितस्य चरमशयनावस्थितस्य विविधस्वेदाम्बुक्लिन्नमलिनवसनावृतस्य कालक्रिया भविष्यति ।

एवम् अपि ते महाराज स्नानानुलेपनवासधूपपुष्पसुरभिगन्धस्यात्मभावस्य न चिरेण दुर्गन्धता भविष्यति ।

एवं स्त्र्य्-आगारमध्यगतस्यापि ते स्त्रीगणपरिवृतस्य नानावाद्यगीततूर्यनाद्यैर् उपगीयमानस्य सुमनसः क्रीडतो रममाणस्य परिचारयतो मरणभयभीतस्यातीव दुष्खदौर्मनस्याभ्यां कालक्रिया भविष्यति ।

एवम् अपि ते महाराज गृहेषूपलेपनोपलिप्तेषु सुस्थापितार्गलेषु सुपिहितवातायनेषु बहुगन्धधूपपुष्पतैलवर्तिप्रज्वालितेष्व् आसक्तपट्टदामकलापेषु मुक्तकुसुमावकीर्णेषु गन्धघटिकानिर्धूपितेषु अन्यस्तपादपीठपटिकास्तरणगोणिकास्तरणकाचलिन्दिकप्रावरणसान्तरोछदपटिकोभयकृतोपधानेषु पर्यङ्केषु शयित्वा ।

पुनश् च शृगालकाकगृध्रमृतकडेवरमांसास्थिकेशरुधिरवशाकुले परमबीभत्से श्मशाने गतचेष्टस्यात्मभावः पृथिव्याम् अवशः शेष्यते ।

एवम् अपि ते महाराज गजस्कन्धाश्वपृष्ठरथाभिरूढस्य शङ्खपटहेष्व् आहन्यमानेषु छत्रेण धार्यमाणेन बालव्यजनेन वीजय-

[ cambridge ms f97a ---> ]

मानस्यानेकहस्त्यश्वरथपदातिभिर् अनुयातस्याञ्जलिशतसहस्रैर् नमस्क्रियमाणस्य ।

निर्गमनम् अनुभूय न चिरान् निश्चेष्टस्य मृतशयनाभिरूढस्य चतुर्भिः पुरुषैर् उत्क्षिप्तस्य दक्षिणेन नगरद्वारेण निर्णीतस्य मातापितृभ्रातृभगिनीभार्यापुत्रदुहितृवयस्यदासीदासकर्मकरपौरुषेयैः शोकगतहृदयैर् विक्षिप्तकेशैर् उत्क्षिप्तभुजैः सोरस्ताडं परमकरुणं ।

हा पुत्र हा नाथ हा तात हा स्वामिन्न् इत्य् आक्रन्दमानैः पौरजानपदैः सपरिभावदृश्यमानस्य श्मशानं नीतस्य पुनः काकगृध्रश्वशृगालादिभिर् भक्षितस्य तान्य् अस्थीन्य् अग्निना वा दग्धानि पृथिव्यां वा निखा-

[ bendall ed p209 ---> ]

नितानि अद्भिर् वा क्लिन्नानि वातातापवर्षैर् वा चूर्णीकृतानि दिग्विदिक्षु प्रक्षिप्तानि तत्राइव पूतभवम् आयास्यन्ति ।

एवम् अनित्याः सर्वसंस्काराइवम् अध्रुवेति विस्तरः ॥

तत्र क्लेशाः प्राधान्येन रागद्वेषमोहा यस्याइषाम् एकतरस्य तावत् प्रतिपक्षम् आदौ भावयेत् तन्निदानं च वर्जयेत् ॥

तत्रार्यरत्नमेघे तावद् आह ।

स रागस्य प्रतिपक्षं भजते ।

रागोत्पत्तिप्रत्ययांश् च वर्जयति ।

कतमश् च स रागस्य प्रतिपक्षः ।

कतमे च ते रागोत्पत्तिप्रत्ययाः ।

अशुभाभावनारागस्य प्रतिपक्षः ।

जनपदकल्याणीरागोत्पत्तिप्रत्ययः ।

कतमा च साशुभाभावना ।

यद् उत सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वक् मांसास्थि स्नायुः शिरा वृक्का हृदयं प्लीहकः क्लोमकः ।

अन्त्राण्य् अन्त्रगुणामाशयः पक्वाशयः ।

औदर्यकं यकृत् पुरीषम् अश्रु स्वेदः खेटः सिङ्घाणकं वसा लसिका मज्जा मेदः पित्तं श्लेश्मा पूयं शोणितं मस्तकं मस्तकलुङ्गं*प्रस्रावः ।

एषु च वस्तुषु बोधिसत्वोपपरीक्षणजातीयो भवति ।

तस्याइवम् उपपरीक्षमाणस्याइवं भवति ।

यो ऽपि तावत् स्याद् बालो मूढः अभव्यो ऽकुशलः सो ऽपि तावद् एतानि वस्तूनि

[ bendall ed p210 ---> ]

ज्ञात्वा रागचित्तं नोत्पादयेत् ।

प्राग् एव सप्रज्ञजातीयः ।

एवं हि बोधिसत्वो ऽशुभाभावनाबहुलो भवतीति ॥

भगवत्याम् अप्य् उक्तं ।

पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापार-

[ cambridge ms f97b ---> ]

मितायां चरन्न् इमम् एवं कायं यथाभूतं प्रजानाति ।

तद् यथापि नाम सुभूते गोघातको वा गोघातकान्तेवासी वा गां हत्वा तीक्ष्णेन शस्त्रेण चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितो ऽथवा निषण्णः ।

एवम् एव सुभूते बोधिसत्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायं धातुशो यथाभूतं प्रजानाति ।

अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुर् अपि तेजोधातुर् अपि वायुधातुर् अपीति ।

पे ॥

पुनर् अप्य् आह ।

तद् यथापि सुभूते कर्षकस्य मूतोडी पूर्णा नानाधान्यानां शालीनां व्रीहीणां तिलानां तण्डुलानां मुद्रानां माषाणां यवानां गोधूमानां मशूराणां सर्षपाणां ।तान् एतान् चक्षुष्मान् पुरुषः प्रत्यवेक्षमाणः ।

एवंजातीयाद् अयं शालिर् अयं व्रीहिर् अमी तिलामी तण्डुलामी मुद्रामी माषा यवामी गोधूमामी मशूरामी सर्षपेति ॥

एवम् एव बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायम् ऊर्द्ध्वं पादतलाद् अधः केशमस्तकनखरोमत्वक् रोमपर्यन्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते ।

सन्त्य् अस्मिन् काये केशा रोमाणि नखा यावन् मस्तकं मस्तकलुङ्गम् अक्षिगूथं कर्णगूथम् इति ॥

पे ॥

पुनर् अपरं सुभूते बोधिसत्वः श्मशानगतः पश्यति नानारूपाणि मृतशरीराणि श्मशाने ऽपविद्धानि शवशयने उज्झितानि एकाहमृतानि वा द्व्यहमृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा प-

[ bendall ed p211 ---> ]

ञ्चाहमृतानि वा व्याध्मातकानि विनीलकानि विपूयकानि विपठ्यकानि ।

सेमम् एव कायं तत्रोपसंहरति ।

अयम् अपि कायाइवंधर्माइवंस्वभावः ।

एतां धर्मताम् अव्यतिवृत्तए इति ॥

एवं हि सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् बहिर्धा काये कायानुदर्शी विहरति ॥

पे ॥

पुनर् अपरं यदा मृतशरीराणि श्मशाने उत्सृष्टानि पश्यति ।

षड्रात्रमृतानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा श्वभिर् वा शृगालैर् वा ततो ऽन्यैर् वा नानाविधैः प्राणकजातैः खाद्यमानानि

[ cambridge ms f98a ---> ]

सेमम् एव कायं तत्रोपसंहरति ।

अयम् अपि कायाइवंधर्माइवंस्वभावः ।

एतां धर्मतां न व्यतिवृत्तए इति ॥

पुनर् अपरं यदा मृतशरीराणि पश्यति श्मशाने उत्सृष्टानि विखादितान्य् अशुचीनि दुर्गन्धानि ।

सेमम् एव कायं तत्रोपसंहरतीति पूर्ववत् ॥

पे ॥

पुनर् अपरं यदा पश्यति मृतशरीराणि शिवपथिकायाम् अस्थिसंकलिकां मांसशोणितम्रक्षितां स्नायुविनिबद्धां ।स तत्रेमम् एव कायम् इति पूर्ववत् ॥

पुनर् अपरं यदा मृतशरीराणि पश्यति शिवपथिकायाम् अस्थिसंकलीभूतानि अपगतमांसशोणितस्नायुबन्धनानि ।

सेमम् एव कायम् इति पूर्ववत् ॥

पुनर् अपरं यदा पश्यति शिवपथिकायाम् अस्थीनि दिग्विदिक्षु क्षिप्तानि ।

यद् उतान्येन पादास्थीनि ।

अन्येन जङ्घास्थीनि ।

अन्येन चोर्वस्थीनि ।

अन्येन श्रोणिकटाहकं ।

[ bendall ed p212 ---> ]

अन्येन पृष्ठवंशम् अन्येन पार्श्वकास्थीनि ।

अन्येन ग्रीवास्थीनि ।

अन्येन बाह्वस्थीनि ।

सेमम् एव कायम् उपसंहरतीति पूर्ववत् ॥

पे ॥

पुनर् अपरं यदा पश्यति शिवपथिकायाम् अस्थीन्य् अनेकवार्षिकाणि वातानुपरिशोषितानि शङ्खसन्निभानि ।

इमम् एव कायं तत्रोपसंहरतीति पूर्ववत् ।

अयम् अपि कायाइवंधर्माइवंस्वभावाइतां धर्मतां न व्यतिवृत्तए इति ॥

पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् अस्थीन्य् अनेकवार्षिकाणि तिरोभूतानि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांसुनासमसमीभूतानि सेमम् एव कायं तत्रोपसंहरति अयम् अपि कायाइवंधर्माइवंस्वभावः ।

एतां धर्मतां न व्यतिवृत्तए इति ॥

एष तावत् समासतो रागस्य समुदाचारप्रतिपक्षः ।

द्वेषस्य मैत्री प्रतिपक्षः ।

अप्रियसत्वादर्शनं च ।

तेन वा सह भोजनाद्येकार्थतयाप्रीत्युत्पादनं तत्र परसुखस्याशंसा प्रार्थना तृष्णाभिनन्दनं मैत्री ।

कामरागप्रत्युपकारहेतुभ्याम् अक्लिष्टः स्नेहेत्य् अर्थः ॥

सा त्रिविधार्याक्षयमतिसूत्रे ऽभिहिता ।

सत्वारम्बणा मै-

[ cambridge ms f98b ---> ]

त्री प्रथमचित्तोत्पादिकानां बोधिसत्वानां ।

धर्मारम्बणा चर्याप्रतिपन्नानां बोधिसत्वानां ।

अनारम्बणा मैत्री अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धानां बोधिसत्वानाम् इति ॥पुनर् बुद्धारम्बणा बोधिसत्वारम्बणा श्रावकप्रत्येकबुद्धारम्बणा सत्वारम्बणा च ।

तत्र सत्वारम्बणायाः पूर्वं प्रिये सत्वे हितसुखोपसंहारान् न ध्यानम् अभ्यस्य ।

तत्समे मैत्रीम् उपसंहरेत् ।

ततः परिचितेषु ।

ततोदासीनेषु ।

ततः समीपवासिषु ।

ततः स्वग्रामवासिषु ।

[ bendall ed p213 ---> ]

एवं परग्रामे च ।

एवं यावद् एकां दिशम् अधिमुच्य स्फरित्वोपसंपद्य विहरति ।

एवं दशसु दिक्षु ।

बुद्धाद्यारम्बणायास् त्व् अयं प्रयासो नास्ति ॥सा च वज्रध्वजपरिणामनायाम् उक्ता ।

स बोधिसत्वचर्यायां चरन् यावन्ति कानिचिद् दृश्यन्ते रूपाणि मनोज्ञानि वा प्रतिकूलानि वा ।

एवं शब्दा गन्धा रसा स्प्रष्टव्या धर्मा मनोज्ञा वा प्रतिकूला वा ।

अनवद्या विशुद्धाः कल्याणोदारप्रभास्वरा वा येन सौमनस्यं जायते ।

सुखम् अवक्रामति ।

प्रसादो जायते ।

प्रीतिः संभवति ।

प्रामोद्यं संतिष्ठते ।

हर्षः प्रादुर्भवति ।

दौर्मनस्यं निवर्तते ।

चित्तकल्यता प्रादुर्भवति ।

चित्तं कर्मण्यं भवति ।

आशयो मृदुभवति ।

इन्द्रियाणि प्रह्लादं गच्छन्ति ।

सततसुखं संवेदयमानाइवं परिणामयति ।

सर्वबुद्धानाम् एतया परिणामनया भूयस्या मात्रया ते बुद्धा भगवन्तो ऽचिन्त्येन बुद्धविहारसुखेन समन्वागता भवन्त्व् अतुल्येन बुद्धसमाधिसुखेन सुसंगृहीता भवन्त्व् अनन्तसुखेन भूयस्या मात्रयोपस्तब्धा भवन्तु ।

अप्रमाणेन बुद्धविमोक्षसुखेन समन्वागता भवन्तु ।

अप्रमेयेण बुद्धप्रातिहार्यसुखेन सुसंगृहीता भवन्तु ।

अचिन्त्येन बुद्धासंगविहारसुखेन सुपरिगृहीता भवन्तु ।

दुरासदेन बु-

[ bendall ed p214 ---> ]

द्धवृषभितसुखेनाभिछन्ना भवन्तु ।

अप्रमेयेण बुद्धबलसुखेनात्यन्तसुखिता भवन्तु ।

सर्ववेदितशान्तेनानुत्पत्तिसुखेनाधिकारसुखा भवन्तु ।

असंगविहारसततसमाहितेन तथागतसुखेनाद्वयसमुदा-

[ cambridge ms f99a ---> ]

चारेणाविकोपितसुखा भवन्तु ॥एवं बोधिसत्वस् तत्कुशलमूलं तथागतेषु परिणमय्य बोधिसत्वेषु परिणमयति ।

यद् इदम् अपरिपूर्णानाम् अभिप्रायाणां परिपूर्णाय परिणमयति ।

अपरिशुद्धानां सर्वज्ञताध्याशयानां परिशुद्धये ।

अपरिनिष्पन्नानां सर्वपारमितानां परिनिष्पत्तये ।

वज्रोपमस्य बोधिचित्तोत्पादस्याधिष्ठानाय ।

अनिवर्त्यस्य सर्वज्ञतासंनाहस्याप्रतिप्रस्रब्धये ।

बोधिसत्वानां कुशलमूलानां मार्गणतायै ।

सर्वजगत्समतास्थितस्य महाप्रणिधानस्य परिपूरये ।

सर्वबोधिसत्वविहाराणाम् अधिगमाय ।

सर्वबोधिसत्वेन्द्रियाणां तीक्ष्णाभिज्ञतायै ।

सर्वबोधिसत्वकुशलमूलानां सर्वज्ञतास्पर्शनतायै ॥

साइवं तत्कुशलमूलं बोधिसत्वानाम् अर्थाय परिणमय्य बुद्धशासनावचरेषु सर्वश्रावकप्रत्येकबुद्धेषु तत्कुशलमूलम् एवं परिणामयति ।

ते केचित् सत्वाइकाच्छटासंहातमात्रम् अपि बुद्धशब्दं सृण्वति ।

धर्मशब्दं वार्यसंघपर्युपासनं वा कुर्वन्ति तेषां तत्कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयति बुद्धानुस्मृतिपरिपूर्यै परिणामयति ।

धर्मानुस्मृतिप्रयोगतायै परिणामयति ।

आर्यसंघगौरवाय परिणामयति ।

अचिरहितबुद्धदर्शनतायै परिणामयति ।

चित्तपरिशुद्धये परिणामयति ।

बुद्धधर्मप्रतिवेधाय परिणामयति ।

अप्रमेयगुणप्रतिपत्तये परिणामयति ।

सर्वाभिज्ञाकुशलपरिशुद्धये परिणामयति ।

धर्मविमतिविनिवर्तनाय परिणामयति ।

यथा बुद्धशासनावचरेषु परिणामयति ।

श्रावकप्रत्येकबुद्धेषु च तथा बोधिसत्वः सर्वसत्वेषु तत्कुशल-

[ bendall ed p215 ---> ]

मूलं परिणामयति ॥

यद् इदं नैरयिकमार्गविनिवर्तनाय परिणामयति ।

तिर्यग्योनिव्यवच्छेदाय परिणामयति ।

यमलोकोपच्छेदसुखाय परिणामयति ।

निरवशेषसर्वापायगत्युपपत्तिव्यवच्छेदाय परिणामयति ॥

तेषां च सर्वसत्वानाम् अनुत्तरबोधिछन्दविवर्धनतायै परिणा-

[ cambridge ms f99b ---> ]

मयति ।

अध्याशयसर्वज्ञताचित्तलाभाय परिणामयति ।

सर्वबुद्धधर्माप्रतिक्षेपाय परिणामयति ।

अत्यन्तसुखसर्वज्ञताभूमिसंवर्तनाय परिणामयति ।

अत्यन्तसर्वसत्वविशुद्धये परिणामयति ।

सर्वसत्वानाम् अनन्तज्ञानाधिगमाय परिणामयति ।

पे ॥

तस्य यत् किञ्चिच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यगमनागमनशरीरोपस्थाननिषद्यादिनिषेवणायतनानां प्रवर्तनकर्मेर्यापथाधिष्ठानम् ईर्यापथस्याविकोपनं कायकर्म वाक्कर्म मनस्कर्म सचुरितं षण्णाम् इन्द्रियाणां संवरः स्वशरीराछादनमर्दनस्नानकर्म ।

अशितपीतखादितं संमिञ्जितप्रसारितावलोकितविलोकितसुप्तजागरितस्वशरीरगतोपस्थानं सर्वम् एतद् बोधिसत्वस्य सर्वज्ञतालम्बनप्रयुक्तस्य न किञ्चिद् अपरिणामितं सर्वज्ञतायां सर्वसत्वहितसुखचित्तस्य ॥

पे ॥सर्वजगत्परित्राणमनसो नित्योद्युक्तकुशलमूलस्य मदप्रमादव्यतिवृत्तस्य ॥

पे ॥सर्वक्लेशपराङ्मुखस्य सर्वबोधिसत्वानुशिक्षणचेतसः सर्वज्ञतामार्गाप्रतिहतस्य ज्ञानभूमिनिषेवणस्य पण्डितसंवासाभिरतस्य ।

पे ॥

मधुकरेव कुशलमूलसंभरणस्य सर्वजगदुच्चलितसन्तानस्यानभिनिविष्टसर्वसंस्कारस्य ।

पे ॥अन्तशः श्वस्व् अपि तद् अन्येष्व् अपि तिर्यग्योनिगतेष्व् एकाउदनोन्मिञ्जितम् एकालोपं वा परित्यजति ।

सुगताव् उपपत्तिषु तत् सर्वं तेषाम् एव हिताय तेषाम् एव परिमोचनाय परिणामयति ।

तस्यास् तिर्यग्योनेस् तस्माद् दुष्खार्णवात् तस्माद् दुष्खोपादानात् तस्माद् दुष्खस्कन्धात् तस्माद् दुष्खावेदनायाः ।

तस्माद् दुष्खोपचयात् तस्माद् दुष्खाभिसंस्का-

[ bendall ed p216 ---> ]

रात् तस्माद् दुष्खनिदानात् ततो दुष्खमूलात् तस्माद् दुष्खायतनात् तेषां सत्वानां विनिवर्तनाय परिणामयति तदारम्बणेन च सर्वसत्वारम्बणीकरोति मनसिकरोति ।

तत्र कुशलमूले पूर्वङ्गमीकरोति ।

यद् इदं सर्वज्ञतायां परिणामयति ।

[ cambridge ms f100a ---> ]

बोधिचित्तोत्पादेन प्रतिगृह्णाति ।

तत्र कुशलमूलम् उपनयति ।

संसारकान्ताराद् विनिवर्तयति ।

अनावरणेन बुद्धसुखेनाभिमुखीकरोति ।

संसारसागराद् उन्मज्जयति ।

बुद्धधर्मप्रयुक्ताय मैत्र्या स्फरतीत्य् आदि ॥

इमाश् च सुवर्णभासोक्ता मैत्रीकरुणागर्भा गाथाः सर्वादरतः समन्वाहृत्य भावयितव्यान्तशो वचसापि ॥

सुवर्णभासोत्तमदुन्दुभेन शाम्यन्तु दुष्खास् त्रिसहस्रलोके ।

अपायदुष्खा यमलोकदुष्खा दारिद्र्यदुष्खाश् चेह त्रिलोके ॥

अनेन चो दुन्दुभिघोषनादिना शाम्यन्तु सर्वव्यसनानि लोके ।

भवन्तु सत्वा ह्य् अभयाहता तथा यथाभयाः शान्तभयाः मुनीन्द्राः ॥

यथाइव सर्वार्यगुणोपपन्नाः संसारसर्वज्ञमहासमुद्राः ।

तथाइव भोन्तू गुणसागराः प्रजाः समाधिबोध्यङ्गगुणैर् उपेताः ॥

अनेन चो दुन्दुभिघोषनादिना भवन्तु ब्रह्मस्वर सर्वसत्वाः ।

स्पृशन्तु बुद्धत्ववराग्रबोधिं प्रवर्तयन्तू शुभधर्मचक्रम् ॥

[ bendall ed p217 ---> ]

तिष्ठन्तु कल्पानि अचिन्तियानि देशेन्तु धर्मं जगतो हिताय ।

हनन्तु क्लेशान् विधमन्तु दुष्खान् समेन्तु रागं तथ दोष मोहम् ॥

ये सत्व तिष्ठन्ति अपायभूमौ आदीप्तसंप्रज्वलितास्थिगात्राः ।

शृण्वन्तु ते दुन्दुभिसंप्रवादितं नमो ऽस्तु बुद्धाय भणन्तु वाचम् ॥

जातिस्मराः सत्वा भवन्तु सर्वे जातीशतं जातिसहस्रकोट्यः ।

अनुस्मरन्तू सततं मुनीन्द्रान् शृण्वन्तु तेषां वचनं ह्य् उदारं ॥

अनेन चो दुन्दुभिघोषनादिना लभन्तु बुद्धेहि समागमं सदा ।

विवर्जयन्तू खलु पापकर्म चरन्तु कुशलानि शुभक्रियाणि ॥सर्वत्र क्षेत्रेषु च सर्वप्राणिनां सर्वे च दुष्खाः प्रशमन्तु लोके ।

ये सत्व विकलेन्द्रियाङ्गहीनाः ते सर्वि सकलेन्द्रिय भोन्तु सांप्रतम् ॥

ये व्याधिता दुर्बलक्षीणगात्रा निस्त्राणभूताः शयिता दिशासु ।

ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु चारोग्य बलेन्द्रियाणि ॥

ये राजचौरभट तर्जित वध्यप्राप्ता नानाविधैर् भयशतैर् व्यसनोपपन्नाः ।

ते स-

[ cambridge ms f100b ---> ]

र्वि सत्व व्यसनागतदुष्खिता हि मुच्यन्तु तैर् भयशतैः परमैः सुघोरैः ॥

[ bendall ed p218 ---> ]

ये ताडिता बन्धनबद्धपीडिता विविधेषु व्यसनेषु च संस्थिताहि ।

अनेकायाससहस्राकुला विचित्रभयदारुणशोकप्राप्ताः ॥ ते सर्वि मुच्यन्त्व् इह बन्धनेभ्यः संताडिता मुच्यिषु ताडनेभ्यः ।

वध्याश् च संयुज्यिषु जीवितेन व्यसनागता निर्भय भोन्तु सर्वे ॥ये सत्व क्षुत्तर्षपिपासपीडिता लभन्तु ते भोजनपानचित्रम् ।

अन्धाश् च पश्यन्तु विचित्ररूपां बधिराश् च शृण्वन्तु मनोज्ञघोषान् ॥नग्नाश् च वस्त्राणि लभन्तु चित्रां दरिद्रसत्वाश् च निधिं लभन्तु ।

प्रभूतधनधान्यविचित्ररत्नैः सर्वे च सत्वाः सुखिनो भवन्तु ॥मा कस्यचिद् भावतु दुष्खवेदनाः सौख्यान्विताः सत्व भवन्तु सर्वे ।

अभिरूपप्रासादिकसौम्यरूपानेक सुख संचित नित्य भोन्तु ॥मनसान्नपानाः सुसमृद्धपुण्याः सह चित्तमात्रेण भवन्तु तेषां ।

वीणा मृदङ्गाः पणवाः सुघोषकाः उत्सा सराः पुष्करिणी तडागाः ॥

सुवर्णपद्मोत्पलपद्मिनीश् च सह चित्तमात्रेण भवन्तु तेषाम् ।

गन्धं च माल्यं च विलेपनं च वासश् च चूर्णं कुसुमं विचित्रम् ॥त्रिष्कालवृक्षेभि प्रवर्षयन्तु गृह्णन्तु ते सत्व भवन्तु हृष्टाः ।

कुर्वन्तु पूजां दशसू दिशासु अचिन्तियां सर्वतथागतानाम् ॥

[ bendall ed p219 ---> ]

स बोधिसत्वान् अथ श्रावकाणां धर्मस्य बोधि प्रतिसृष्टि तस्य ।

नीचां गतिं सत्व विवर्जयन्तु भवन्तु अष्टाक्षणवीतिवृत्ताः ॥

आसादयन्तू जिनराजम् उत्तमं लभन्तु बुद्धेहि समागमं सदा ।

सर्वा स्त्रियो नित्य नरा भवन्तु शूराश् च वीरा विदुपण्डिताश् च ॥ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु ।

पश्यन्तु बुद्धान् दशसू दिशासु रत्नद्रुमेन्द्रेषु सुखोपविष्टान् ।

वैडूर्यरत्नासनसंनिषण्णान् धर्मांश् च शृण्वन्तु प्रकाश्यमानान् ।

इति ॥

एषा संक्षेपतो मैत्री ॥

द्वेषसमुदाचारप्रतिपक्षः ॥

मोहानुशयस्य प्रतीत्यसमुत्पाददर्शनं प्रतिपक्षः ॥

तत्र प्रतीत्यसमुत्पादः शालिस्तम्बसूत्रे ऽभिहितः ।

तत्राध्यात्मिकस्य प्रतीत्यसमु-

[ bendall ed p220 ---> ]

त्पादस्य

[ cambridge ms f101a ---> ]

हेतूपनिबन्धः कतमः ।

यद् इदम् अविद्याप्रत्ययाः संस्कारा यावज् जातिप्रत्ययं जरामरणम् इति ।

अविद्या चेन् नाभविष्यन् नाइव संस्काराः प्राज्ञास्यन्त ।

एवं यावद् यदि जातिर् नाभविष्यन् न जरामरणं प्राज्ञास्यत ।

अथ सत्याम् अविद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति ।

एवं यावज् जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर् भवति ।

तत्राविद्याया नाइवं भवति ।

अहं संस्कारान् अभिनिर्वर्तयामीति ।

संस्काराणाम् अप्य् एवं न भवति ।

वयम् अविद्ययाभिनिर्वृत्तेति ।

एवं यावज् जात्या नाइवं भवति ।

अहं जरामरणम् अभिनिर्वर्तयामीति ।

जरामरणस्यापि नाइवं भवति ।

अहं जात्या निर्वृत्तेति ।अथ च सत्याम् अविद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः ।

एवं यावज् जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः ॥

एवम् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः ॥कथम् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्येति ।

षण्णां धातूनां समवायात् ।

कतम् एषां षण्णां धातूनां समवायात् ।

यद् इदं पृथिव्य्-अप्तेजोवाय्वाकाशविज्ञानधातूनां समवायाद् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः ॥तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतमेति ।

यो ऽयं कायस्य संश्लेषतः कठिनभावम् अभिनिर्वर्तयत्य् अयम् उच्यते पृथिवीधातुः ।

यः कायस्यानुपरिग्रहं कृत्यं करोति अयम् उच्यते ऽब्धातुः ।

यः कायस्याशितपीतभक्षितं परिपाचयति अयम् उच्यते तेजोधातुः ।

यः कायस्याश्वासप्रश्वास-

[ bendall ed p221 ---> ]

कृत्यं करोत्य् अयम् उच्यते वायुधातुः ।

यः कायस्यान्तःसौषिर्यभावम् अभिनिर्वर्तयत्य् अयम् उच्यते आकाशधातुः ।

यो नामरूपम् अभिनिर्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंप्रयुक्तं सास्रवं च मनोविज्ञानम् अयम् उच्यते विज्ञानधातुः ॥

असत्सु प्रत्ययेषु कायस्योत्पत्तिर् न भवति ।

यदाध्यात्मिकः पृथिवीधातुर् अविकलो भवत्य् एवम् अप्तेजोवाय्वाकाशविज्ञानधातवश् चाविकला भवन्ति ।

ततः सर्वेषां समवायात् कायस्योत्पत्तिर् भवति ॥

तत्र पृथिवीधातोर् नाइवं भवति ।

अहं कायस्य कठिनभावम् अभिनिर्वर्तयामीति ।

अब्धातोर् नाइवं भवति ।

अहं कायस्यानुपरिग्रहकृत्यं करोमीति ।

तेजोधातो-

[ cambridge ms f101b ---> ]

र् नाइवं भवति ।

अहं कायस्याशितपीतखादितं परिपाचयामीति ।

वायुधातोर् नाइवं भवति ।

अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति ।

आकाशधातोर् नाइवं भवति ।

अहं कायस्यान्तः सौर्षिर्यं करोमीति ।

विज्ञानधातोर् नाइवं भवति ।

अहम् एभिः प्रत्ययैर् जनितेति ।

अथ च सत्स्व् एषु प्रत्ययेषु कायस्योत्पत्तिर् भवति ।

तत्र पृथिवीधातुर् नात्मा न सत्वो न जीवो न जन्तुर् न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं ।

न चाहं ।

न मम ।

न चाप्य् अन्यस्य कस्यचित् ।

एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् न सत्वो न जीवो न जन्तुर् न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चाप्य् अन्यस्य कस्यचित् ॥तत्राविद्या कतमा ।

याइष्व् एव षट्सु धातुष्व् एकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञात्मसंज्ञा सत्वजीवमनुजमानवसंज्ञा ।

अहंकारममकार-

[ bendall ed p222 ---> ]

संज्ञा ।

एवमादि विविधम् अज्ञानम् इयम् उच्यते ऽविद्येति ।

एवम् अविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते ।

तत्र ये रागद्वेषमोहा विषयेष्व् अमी उच्यन्ते संस्कारेति ।

वस्तुप्रतिविज्ञप्तिर् विज्ञानं ।

विज्ञानसहजाश् चत्वारो ऽरूपिणोपादानस्कन्धास् तन् नामरूपं ।

चत्वारि च महाभूतानि चोपादायोपादाय र् ऊपम् ऐकध्यम् अभिसंक्षिप्य तन् नामरूपं ।

नामरूपसंनिश्रितानीन्द्रियाणि षडायतनं ।

त्रयाणां धर्माणां संनिपातः स्पर्शः ।

स्पर्शानुभवना वेदना ।

वेदनाध्यवसानं तृष्णा ।

तृष्णा वैपुल्यम् उपादानं ।

उपादाननिर्जातं पुनर्भवजनकं कर्म ।

भवः ।

तद्धेतुकस्कन्धप्रादुर्भावो जातिः ।

स्कन्धपरिपाको जरा विनाशो मरणं ।

म्रियमाणस्य मूढस्य स्वाभिष्वङ्गस्यान्तर्दाहः शोकः ।

लालप्यनं परिदेवः ।

पञ्चविज्ञानकायसंप्रयुक्तम् अशातानुभवनं दुष्खं ।

मनसिकारसंप्रयुक्तं मानसं दुष्खं दौर्मनस्यम् ।

ये चान्यए एवमादयोपक्लेशास् तए उपायासाः ॥

पे ॥

पुनर् अपरं तत्वे ऽप्रतिपत्तिः मिथ्या प्रतिपत्तिः अज्ञानम् अविद्या ।

एवम् अविद्यायां सत्यां-

[ bendall ed p223 ---> ]

त्रिविधाः संस्काराः अभिनिर्वर्तन्ते ।

पुण्योपगापुण्योपगानिञ्ज्य-

[ cambridge ms f102a ---> ]

उपगाश् चेमए उच्यन्ते ऽविद्याप्रत्ययाः संस्कारेति ।

पुण्योपगानां संस्काराणां पुण्योपगम् एव विज्ञानं भवति ।

अपुण्योपगानां संस्काराणाम् अपुण्योपगम् एव विज्ञानं भवति ।

आनिञ्ज्योपगानां संस्काराणाम् आनिञ्ज्योपगम् एव विज्ञानं भवति ।

इदम् उच्यते संस्कारप्रत्ययं विज्ञानम् इति ।

एवं नामरूपं ।

नामरूपविवृद्ध्या षड्भिर् आयतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते ।

तन् नामरूपप्रत्ययं षडायतनम् इत्य् उच्यते ।

षड्भ्यायतनेभ्यः षट् स्पर्शकायाः प्रवर्तन्ते ऽयं षडायतनप्रत्ययः स्पर्शेत्य् उच्यते ।

यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तते ।

इयं स्पर्शप्रत्यया वेदनेत्य् उच्यते ।

यस् तां वेदयति विशेषेणास्वादयति ।

अभिनन्दत्य्*अध्यवस्यत्य् अत्यधितिष्ठति ।

सा वेदनाप्रत्यया तृष्णेत्य् उच्यते ।

आस्वादनाभिनन्दनाध्यवसानं ।

मा मे प्रियरूपशातरूपैर् वियोगो भवत्व् इति ।

अपरित्यागो भूयो भूयश् च प्रार्थना ।

इदं तृष्णाप्रत्ययम् उपादानम् इत्य् उच्यते ।

एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा ।

अयम् उपादानप्रत्ययो भवेत्य् उच्यते ।

या कर्मनिर्जातानां स्कन्धानाम् अभिनिर्वृत्तिः सा भवप्रत्यया जातिर् इत्य् उच्यते ।

यो जात्यभिनिर्वृत्तानां स्कन्धानाम् उपचयपरिपाकाद् विनाशो भवति ।

तद् इदं-

[ bendall ed p224 ---> ]

जातिप्रत्ययं जरामरणम् उच्यते ॥

पे ॥

एवम् अयं द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽन्योन्यहेतुको ऽन्योन्यप्रत्ययतो ।

नाइवानित्यो न नित्यो ।

न संस्कृतो नासंस्कृतो ।

न वेदयिता ।

न क्षयधर्मो न निरोधधर्मो ।

न विरागधर्मो ।

अनादिकारप्रवृत्तो ऽनुद्भिन्नो ऽनुप्रवर्तते नदीस्रोतवत् ॥

अथ चेमान्य् अस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वारि अङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते ।

कतमानि चत्वारि ।

यद् उत ।

अविद्या तृष्णा कर्म विज्ञानं च ।

तत्र विज्ञानं बीजस्वभावत्वेन हेतुः ।

कर्म क्षेत्रस्वभावत्वेन हेतुः ।

अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः ।

कर्मक्लेशा विज्ञानबीजं संजनयन्ति ।

तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति ।

तृष्णा विज्ञानबीजं स्नेहयति ।

अविद्या विज्ञानबीजम् अवकिरति ।

असतां येषां प्रत्ययानां बीजस्याभिनिर्वृत्तिर् न भवति ॥तत्र कर्मणो नाइवं भवति ।

अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमीति ।

तृष्णायापि नाइवं भवति ।अहं विज्ञानबीजं स्नेहयामीति ।

अविद्यायापि नाइवं भवति ।

अहं विज्ञानबीजम् अवकिरामीति ।

विज्ञानबीजस्यापि नाइवं भवत्य् अहम् एभिः प्रत्ययैर् जनितेति ।

अपि तु विज्ञानबीजे कर्मक्षेत्रप्रतिष्ठिते तृष्णास्नेहाभिष्यन्दिते ऽविद्यावकीर्णे

[ cambridge ms f102b ---> ]

तत्र तत्रोत्पत्त्यायतनसन्धौ मातुः कुक्षौ विरोहति ।

नाम-

[ bendall ed p225 ---> ]

रूपाङ्कुरस्याभिनिर्वृत्तिर् भवति ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.