Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
शिक्षासमुच्चय (bản khác)
- Tác giả
- शान्तिदेव
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स च नामरूपाङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरादिनिर्मितो न कालपरिणामितो न चाइककारणाधीनो नाप्य् अहेतुसमुत्पन्नः ।
अथ च मातापितृसंयोगाद् ऋतुसमवायाद् अन्येषां च प्रत्ययानां समवायाद् आस्वादानुप्रविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरबीजम् अभिनिर्वर्तयति ।
अस्वामिकेषु धर्मेष्व् अममेष्व् अपरिग्रहेष्व् अप्रत्यर्थिकेष्व् आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानाम् अवैकल्यात् ॥
तद् यथा पञ्चभिः कारणैश् चक्षुर्विज्ञानम् उत्पद्यते ।
कतमैः पञ्चभिः ॥
चक्षुश् च प्रतीत्य रूपं चालोकं चाकाशं तज्जं च मनसिकारं च प्रतीत्योत्पद्यते चक्षुर्विज्ञानं ॥
तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति ।
रूपम् आरम्बणकृत्यं करोति ।
आलोको ऽवभासकृत्यं करोति ।
आकाशम् अनावरणकृत्यं करोति ।
तज्जमनसिकारः समन्वाहारकृत्यं करोति ।
असत्स्व् एषु प्रत्ययेषु चक्षुर्विज्ञानं नोत्पद्यते ॥
यदा चक्षुर् आध्यात्मिकम् आयतनम् अविकलं भवति ।
एवं रूपालोकाकाशतज्जमनसिकाराश् चाविकला भवन्ति ।
ततः सर्वसमवायाच् चक्षुर्विज्ञानस्योत्पत्तिर् भवति ॥
तत्र चक्षुषो नाइवं भवति ।
अहं चक्षुर्विज्ञानस्याश्रयकृत्यं करोमीति ।
रूपस्यापि नाइवं भवति ।
अहं चक्षुर्विज्ञानस्यारम्बणकृत्यं करोमीति ।
आलोकस्यापि नाइवं भवति ।
अहम् अवभासकृत्यं करोमीति ।
आकाशस्यापि नाइवं भवति ।
अहं चक्षुर्विज्ञानस्यानावरणकृत्यं करोमीति ।
तज्जमनसिकारस्यापि नाइवं भवति ।
अहं चक्षुर्विज्ञानस्य समन्वाहारकृत्यं करोमीति ।
चक्षुर्विज्ञानस्यापि नाइवं भवति ।
अहम् एभिः प्रत्ययैर् जनितेति ।
अथ च पुनः सत्स्व् एषु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिर् भवति प्रादुर्भावः ।
एवं शेषाणाम् इन्द्रियाणां यथायोगं कर्तव्यं ॥
तत्र न कश्चिद् धर्मो ऽस्माल् लोकात् परं लोकं संक्रामति ।
अस्ति च कर्मफल-
[ bendall ed p226 ---> ]
प्रतिविज्ञप्तिः ।
हेतुप्रत्ययानाम् अवैकल्यात् ।
यथा-
[ cambridge ms f103a ---> ]
अग्निर् उपादानवैकल्यान् न ज्वलति ।
एवम् एव कर्मक्लेशजनितं विज्ञानबीजं तत्र तत्रोत्पत्त्यायतनप्रतिसन्धौ मातुः कुक्षौ नामरूपाङ्कुरम् अभिनिर्वर्तयति ।
अस्वामिकेषु धर्मेष्व् अममेष्व् अपरिग्रहेष्व् अप्रत्यर्थिकेष्व् आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानाम् अवैकल्यात् ॥
तन् नाध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर् द्रष्टव्यः ॥
कतमैः पञ्चभिः ।
न शाश्वततो नोच्छेदतो न संक्रान्तितः ।
परीत्तहेतुनो विपुलफलाभिनिर्वृत्तितस् तत्सदृशानुप्रबन्धतश् चेति ॥
कथं न शाश्वततः ।
यस्माद् अन्ये मारणान्तिकाः स्कन्धान्यए ऽउपपत्त्यंशिकाः ।
न तु यए एव मारणान्तिकाः स्कन्धास् तए एवाउपपत्त्यंशिकाः स्कन्धा ।
अपि तु मारणान्तिकाश् च स्कन्धा निरुध्यमानाउपपत्त्यंशिकाः स्कन्धाश् च प्रादुर्भवन्ति ।
अतो न शाश्वततः ॥
कथं नोच्छेदतः ।
न च निरुद्धेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति नाप्य् अनिरुद्धेषु ।
अपि तु मारणान्तिकाश् च स्कन्धा निरुध्यन्ते ऽउपपत्त्यंशिकाश् च प्रादुर्भवन्ति ।
तुलादण्डोन्नामावनामवत् ।
अतो नोच्छेदतः ॥
कथं न संत्रान्तितः ।
विसदृशात् सत्वनिकायाद् धि सभागाः स्कन्धा जात्यन्तरे ऽभिनिर्वर्तन्ते ।
अतो न संक्रान्तितः ॥
कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः परीत्तं कर्म
[ bendall ed p227 ---> ]
क्रियते ।
विपुलः फलविपाको ऽनुभूयते ।
अतः परीत्तहेतुतो विपुलफलाभिनिवृत्तिः ॥
कथं तत्सादृशानुप्रबन्धतः ।
यथा वेदनीयं कर्म क्रियते ।
तथा वेदनीयो विपाको ऽनुभूयते ।
अतस् तत्सदृशानुप्रबन्धतश् चेति ॥
यः कश्चिद् भदन्त शारिपुत्रेमं प्रतीत्यसमुत्पादं भगवता सम्यक्प्रणीतम् एवं यथाभूतं सम्यक्प्रज्ञया सततसमितम् अजीवं निर्जीवं यथावद् अविपरीतम् अजातम् अभूतम् अकृतम् असंस्कृतम् अप्रतिघम् अनावरणं शिवम् अभयम् अहार्यम् अव्ययम् अव्युपशमम् अस्वभावं पश्यति ।
असत्यतस् तुच्छत ऋक्ततो ऽसारतो ऽघतो ऽनित्यतो दुष्खतः शून्यतो ऽनात्मनश् च समनुपश्यति ।
स न पूर्वान्तं प्रतिसरति ।
किम् अहम् अभूवम् अतीते ऽध्वन्य् आहो स्विन् नाभूवम् अतीते ऽध्वनि ।
को न्व् अहम् अभूवम् अतीते ऽध्वनि ॥
अपरान्तं वा पुनर् न प्रतिसरति ।
किं नु भविष्याम्य् अनागते ऽध्वन्य् आहो स्विन् न भविष्याम्य् अनागते ऽध्वनि ।
को नु भविष्यामीति ।
प्रत्युत्पन्नं वा पुनर् न प्रतिसरति । किं स्विद् इदं कथं स्विद् इदं ।
के सन्तः के भविष्या-
[ cambridge ms f103b ---> ]
मेति ॥
आर्यदशभूमके ऽप्य् उक्तं ।
तत्राविद्यातृष्णोपादानं च क्लेशवर्त्मनो ऽव्यवच्छेदः ।
संस्कारा भवश् च कर्मवर्त्मनो ऽव्यवच्छेदः ।
परिशेषं दुष्खवर्त्मनो ऽव्यवच्छेदः ।
अपि तु खलु पुन-
[ bendall ed p228 ---> ]
र् यद् उच्यते ऽविद्याप्रत्ययाः संस्कारेति ।
एषा पूर्वान्तिक्य्- अपेक्षा ॥विज्ञानं यावद् वेदनेति ।
एषा प्रत्युत्पन्नापेक्षा ।
तृष्णा यावद् भवेति ।
एषापरान्तिक्य्- अपेक्षात*ऊर्द्ध्वम् अस्य् प्रवृत्तिर् इति ॥
पे ॥
तस्याइवं भवति ।
संयोगात् संस्कृतं प्रवर्तते ।
विसंयोगान् न प्रवर्तते ।
सामग्र्याः संस्कृतं प्रवर्तते ।
विसामग्र्या न प्रवर्तते ।
हन्त वयम् एवं बहुदोषदुष्टं संस्कृतं विदित्वास्य संयोगस्यास्याश् च सामग्र्या व्यवच्छेदं करिष्यामो ।
न चात्यन्तोपशमं सर्वसंस्काराणाम् अधिगमिष्यामः सत्वपरिपाचनतायै ।
इति ॥
इदं संक्षेपान् मोहशोधनं ॥
इति शिक्षासमुच्चये चित्तपरिकर्म परिच्छेदो द्वादशमः ॥
स्मृत्युपस्थानपरिच्छेदः त्रयोदशः ।
एवं कर्मण्यचित्तः स्मृत्युपस्थानान्य् अवतरेत् ॥
तत्राशुभप्रस्तावेन कायस्मृत्युपस्थानम् उक्तम् ॥
तद् एव च भेदलेशेन धर्मसंगीतिसूत्रे ऽभिहितं ।
पुनर् अपरं कुलपुत्र बोधिसत्वाइवं काये स्मृतिम् उपस्थापयति ।
अयं कायः पादपादाङ्गुलिजङ्घोरुत्रिकोदरनाभिपृष्ठवंशहृदयपार्श्वपार्श्वकाहस्तकलाचीबाह्वंशग्रीवाहनुललाटशिरःकपालमात्रसमूहः कर्मभवकारकोपचितो-
[ bendall ed p229 ---> ]
नानाक्लेशसंकल्पविकल्पशतसहस्राणाम् आवासभूतो ।
बहूनि चात्र द्रव्याणि समवहितानि ।
यद् उत ।
केशरोमनखदन्तास्थिचर्मपिशितवपास्नायुमेदोवशालसीकायकृन्मूत्रपुरीषामाशयरुधिरखेटपित्तपूयसिङ्घाणकमस्तकलुङ्गानि ।
एवम् बहुद्रव्यसमूहः ।
तत् को ऽत्र कायः ।
तस्य प्रत्यवेक्षमाणस्याइवं भवति ।
आकाशसमो ऽयं कायः ।
साकाशवत् काये स्मृतिम् उपस्थापयति ।
सर्वम् एतद् आकाशम् इति पश्यति ।
तस्य कायपरिज्ञानहेतोर् न भूयः क्वचित् स्मृतिः प्रसरति ।
न विसरति ।
न प्रतिसरतीति ॥
पुनर् उक्तं ।
अयं कायो न पूर्वान्ताद् आगतो ।
न परान्ते संक्रान्तो न पूर्वान्तापरान्तावस्थितो ऽन्यत्रासद्वि-
[ cambridge ms f104a ---> ]
पर्याससंभूतः कारकवेदकरहितो नाद्यन्तमध्ये प्रतिष्ठितमूलः ।
अस्वामिकः ।
अममः ।
अपरिग्रहः ।
आगन्तुकैर् व्यवहारैर् व्यवह्रियते कायेति देहेति भोगेति आश्रयेति शरीरम् इति कुणपेति आयतनम् इति ।
असारको ऽयं कायो मातापितृशोणितशुक्रसंभूतो ऽशुचिपूतिदुर्गन्धस्वभावो रागद्वेषमोहभयविषादतस्कराकुलो नित्यं शतनपतनभेदनविकिरणविध्वन्सनधर्मा ।
नानाव्याधिशतसहस्रनीतेति ॥
आर्यरत्नचूडे ऽप्य् आह ।
अनित्यो वतायं कायो ऽचिरस्थितिको मरणपर्यवसानेति ज्ञात्वा न कायहेतोर् विषमया जीवति ।
सारं चाइवादत्ते ।
स त्रीणि साराण्य् आदत्ते ।कतमानि
[ bendall ed p230 ---> ]
त्रीणि ।
कायसारं भोगसारं जीवितसारं च ।
सो ऽनित्यः कायेति सर्वसत्वानां दासत्वशिष्यत्वम् अभ्युपगम्य किङ्करणीयतायै उत्सुको भवति ।
अनित्यः कायेति सर्वकाय दोषवङ्कशाठ्यकुहनां न करोति ।
अनित्यः कायेति जीवितेनाश्वासप्राप्तो जीवितहेतोर् अपि पापं कर्म न करोति ।
अनित्यः कायेति भोगेषु तृष्णाध्यवसानं न करोति ।
सर्वस्वपरित्यागीव भवतीति ॥
पुनर् अपरं कुलपुत्र बोधिसत्वः काये कायानुदर्शनस्मृत्युपस्थानं भावयन् सर्वसत्वकायांस् तत्र स्वकायए उपनिबध्नाति ।
एवं चास्य भवति ।
सर्वसत्वकाया मया बुद्धकायप्रतिष्ठानप्रतिष्ठिताः कर्तव्याः ।
यथा च तथागतकाये नाश्रवस् तथा स्वकायधर्मतां प्रत्यवेक्षते ।
सो नाश्रवधर्मताकुशलः सर्वसत्वकायान् अपि तल्लक्षणान् एव प्रजानातीत्य् आदि ॥
वीरदत्तपरिपृच्छायाम् अप्य् उक्तम् ।
यद् उतायं कायो ऽनुपूर्वसमुदागतो ऽनुपूर्वविनाशो परमाणुसंचयः शुषिरोन्नामावनामौ नवव्रणमुखरोमकूपस्रावी वल्मीकवदासीविषनिवासः [[दोउब्त्]] ।
अजातशत्रुः ।
मर्कटवन् मित्रद्रोही ।
कुमित्रवद् विसंवादनात्मकः ।
फेनपिण्डवत् प्रकृतिदुर्बलः ।
उदकबुद्बुदवद् उत्पन्नभग्नविलीनः ।
मरीचिवद् विप्रलम्भात्मकः ।
कदलीवन् निभुज्यमानासारकः ।
मायावद् वञ्चनात्मकः ।
राजवद् आज्ञाबहुलः ।
शत्रुवद् अवतारप्रेक्षी ।
चोरवद् अविश्वसनीयः ।
वध्यघातकवद् अननुवीतः ।
अमित्रवद् अहिताइषी ।
वधकवत् प्रज्ञाजीवितान्त-
[ bendall ed p231 ---> ]
रायकरः ।
शून्यग्रामवद् आत्मविरहितः ।
कुलालभाण्डवद् भेदनपर्यन्तः ।
मूतोडीवन् नानाशुचिपरिपूर्णः ।
मेदकस्थालीवद् अशुचिस्रावी ॥पे ॥
व्रणवद् घट्टनासहिष्णुः ।
शल्यवत् तुदनात्मकः ।
जीर्णगृहवत् प्रतिसंस्कारधार्यः ।
जीर्णयानपात्रवत् प्रतिसंस्कारवाह्यः ।
आमकुम्भवद् यत्नानुपाल्यः ॥
पे ॥
नदीतटवृक्षवच् चलाचलः ।
महानदीस्रोतोवन् मरणसमुद्रपर्यवसानः ।
आगन्तुकागारवत् सर्वदुष्खनिवासः ।
अनाथशालावद् अपरिगृहीतः ।
चारकपालवद् उत्कोचसाध्यः ॥
पे ॥
बालदारकवत् सततपरिपाल्यः ॥
पुनर् आह ।
एवंविधं कायम् अचौक्षराशिं ।
रूपाभिमानी बहु मन्यते यः ।
प्रज्ञायमानः स हि बालबुद्धिः विष्ठाघटं याति वहन् विचेताः ॥
पूयप्रकारं वहते ऽस्य नासा ।
वक्त्रं कुगन्धं वहते सदा च ।
चिक्कास् तथाक्ष्णोः क्रिमिवच् च जन्तोः ।
कस् तत्र रागो बहुमानता वा ॥अङ्गारम् आदाय यथा हि बालो ।
घृष्येद् अयं यास्यति शुक्लभावम् ।
याति क्षयं नाइव तु शुक्लभावं बालस्य बुद्धिर् वितथाभिमाना ॥
एवं हि यः चौक्षमतिर् मनुष्यः चौक्षं करिष्ये ऽहम् इदं शरीरम् ।
सूद्वर्तितं तीर्थशताभिषिक्तं याति क्षयं मृत्युवशाद् अचौक्षम् ॥
[ bendall ed p232 ---> ]
तथा प्रभङ्गुरः ।
प्रस्रवन् बोधिसत्वेन कायः प्रत्यवेक्षितव्यो नव व्रणमुखैर् यावत् ।
आवासो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः ।
अशीतिक्रिमिकुलसहस्राणाम् ॥
पे ॥
परभोजनो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः ।
वृकशृगालश्वपिशिताशिनां ।
यन्त्रोपमो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः ।
अस्थिस्नायुयन्त्रसंघातविनिबद्धः ।
अस्वाधीनो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः अन्नपानसंभूतेति विस्तरः ॥
तत्राइव ज्ञेयं ।
वेदना स्मृत्युपस्थानं तु यथा तावद् आर्यरत्नचूडसूत्रे ।
इह कुलपुत्र बोधिसत्वो वेदनासु वेदनानुपश्यनास्मृत्युपस्थानं भावयन् वेदितसुखाश्रितेषु सत्वेषु महाकरुणां प्रतिलभते ।
एवं च प्रतिसंशिक्षते ।
तत् सुखं यत्र वेदितं नास्ति स सर्वसत्ववेदितप्रहाणाय वेदनासु वेदनास्मृत्युपस्थानं भावयति ।
वेदितनिरोधाय च सत्वानां संनाहं संनह्यति ।
आत्मना च वेदि-
[ cambridge ms f105a ---> ]
तनिरोधं नार्पयति ।
स यां कांचिद् वेदनां वेदयते तां सर्वां महाकरुणापरिगृहीतां वेदयते ।
स यदा सुखां वेदनां वेदयते तदा रागचरितेषु सत्वेषु महाकरुणां प्रतिलभते आत्मनश् च रागानुशयं प्रतिजहाति ।
यदा दुष्खां वेदनां वेदयते तदा द्वेषचरितेषु सत्वेषु महाकरुणां प्रतिलभते आत्मनश् च दोषानुशयं प्रजहाति ।
यदादुष्खासुखां वेदनां मोहचरितेषु सत्येषु महाकरुणां प्रतिलभते ।
आत्मनश् च मोहानुशयं प्रजहाति ।
स सुखायां वेदनायां नानुनीयते ।
अनुनयसमुद्घातं चार्जयति ।
दुष्खायां वेदनायां न प्रतिहन्यते प्रति-
[ bendall ed p233 ---> ]
घसमुद्घातं चार्जयति ।
अदुष्खासुखायां वेदनायां नाविद्यागतो भवति ।
अविद्यासमुद्घातं चार्जयति ।
स यां काञ्चिद् वेदनां वेत्ति सर्वां ताम् अनित्यवेदितां वेत्ति ।
सर्वां तां दुष्खवेदितां वेत्ति ।
अनात्मवेदितां वेत्ति ।
स सुखायां वेदनायाम् अनित्यवेदितो भवति ।
दुष्खायां वेदनायां शल्यवेदितो भवति ।
अदुष्खासुखायां वेदनायां शान्तिवेदितो भवति ।
इति हि यत् सुखं तद् अनित्यं यद् दुष्खं सुखम् एव तत् ।
यद् अदुष्खासुखं तद् अनात्मकम् इत्य् आदि ॥
आर्याक्षयमतिसूत्रे ऽप्य् उक्तं ।
दुष्खया वेदनया स्पृष्टः सर्वपापाक्षणोपपन्नेषु सत्वेषु महाकरुणाम् उत्पादयति ॥
पे ॥अपि तु खलु पुनर् अभिनिवेशो वेदना परिग्रहो वेदनोपादानं वेदनोपलम्भो वेदना विपर्यासो वेदना विकल्पो वेदनेत्य् आदि ॥
धर्मसंगीतिसूत्रे ऽप्य् उक्तं ॥
वेदनानुभवः प्रोक्तः ।
केनासाव् अनुभूयते ।
वेदको वेदनाद् अन्यः पृथग्भूतो न विद्यते ॥
एवं स्मृतिर् उपस्थेया वेदनायां विचक्षणैः ।
यथा बोधिस् तथा ह्य् एषा शान्ता शुद्धा प्रभास्वरा ॥
एतत् समासतो वेदनास्मृत्युपस्थानम् ॥
चित्तस्मृत्युपस्थानं तु यथार्यरत्नकूटे ।
साइवं चित्तं परिगवेषते ।
कतरत् तु चित्तं ।
रज्यति वा दुष्यति वा मुह्यति वा ।
किम् अतीतम् अनागतं प्रत्युत्पन्नं वेति ।
तत्र यद् अतीतं-
[ bendall ed p234 ---> ]
तत् क्षीणं ।
यद् अनागतं तद् असंप्राप्तं ।
प्रत्युत्पन्नस्य स्थितिर् नास्ति ।
चित्तं हि काश्यप नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते ।
चित्तं हि काश्यपारूपम् अनिदर्शनम् अप्रतिघम् अविज्ञप्तिकम् अप्रतिष्ठम्
[ cambridge ms f105b ---> ]
अनिकेतं ।
चित्तं हि काश्यप सर्वबुद्धैर् न दृष्टं ।
न पश्यन्ति न द्रक्ष्यन्ति यत् सर्वबुद्धैर् न दृष्टं ।न पश्यन्ति न द्रक्ष्यन्ति ।
कीदृशस् तस्य प्रचारो द्रष्टव्यः ।
अन्यत्र वितथपतितया संज्ञया धर्माः प्रवर्तन्ते ।
चित्तं हि काश्यप मायासदृशम् अभूतपरिकल्पनया विविधाम् उपपत्तिं परिगृह्णाति ॥पे ॥
चित्तं हि काश्यप नदीस्रोतःसदृशम् अनवस्थितम् उत्पन्नभग्नविलीनं ।
चित्तं हि काश्यप दीपार्च्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते ।
चित्तं हि काश्यप विद्युत्सदृशं क्षणभङ्गानवस्थितम् ।
चित्तं हि काश्यपाकाशसदृशम् आगन्तुकैः क्लेशैर् उपक्लिश्यते ।
पे ॥चित्तं हि काश्यप पापमित्रसदृशं सर्वदुष्खसंजननतया ।
पे ।
चित्तं हि काश्यप मत्स्यबडिशसदृशं दुष्खे सुखसंज्ञया ।
तथा नीलमक्षिकासदृशम् अशुचौ शुचिसंज्ञया ।
चित्तं हि काश्यप प्रत्यर्थिकसदृशं विविधकारणाकरणतया ।
चित्तं हि ओजोहारयक्षसदृशं सदा विवरगवेषणतया ।
एवं चोरसदृशं सर्वकुशलमूलमुषणतया ।
चित्तं हि काश्यप रूपारामं पतङ्गनेत्रसदृशं ।
चित्तं हि काश्यप शब्दारामं संग्रामभेरीसदृशं ।
चित्तं हि काश्यप गन्धारामं वराहेवाशुचिमध्ये ।
चित्तं हि काश्यप रसारामं रथावशेषभोक्तृचेटीसदृशं ।
चित्तं हि काश्यप स्पर्शारामं मक्षिकेव तैलपात्रे ।
चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते ।
यन् न लभ्यते तन् नोपलभ्यते ।
यन् नोपलभ्यते तन् नाइवातीतं नानागतं न प्रत्युत्पन्नं ।
यन् नाइवातीतं नानागतं न प्रत्युत्पन्नं तत् त्र्यध्वसमतिक्रान्तं ।
यत् त्र्यध्वसमतिक्रान्तं तन् नेवास्ति न नास्तीत्य् आदि ॥
[ bendall ed p235 ---> ]
आर्यरत्नचूडसूत्रे ऽप्य् आह । स चित्तं परिगवेषमाणो नाध्यात्मं चित्तं समनुपश्यति ।
न बहिर्धा चित्तं समनुपश्यति ।न स्कन्धेषु चित्तं समनुपश्यति ।
न धातुषु चित्तं समनुपश्यति ।
नायतनेषु चित्तं समनुपश्यति ।
स चित्तम् असमनुपश्यंश् चित्तधारां पर्येषते ।
कुतः चित्तस्योत्पत्तिर् इति ।
तस्याइवं भवति आलम्बने सति चित्तम् उत्पद्यते ।
तत् किम् अन्यद् आलम्बनम् ।
अथ यद् एवालम्बनं तद् एव चित्तं ।
यदि तावद् अन्यद् आलम्बनम् अन्यच् चित्तं ।
तद् द्विचित्तता भविष्यति ।
अथ यद् एवालम्बनं तद् एव चित्तं ।
तत् कथं चित्तं चित्तं समनुपश्यति ।
न हि चित्तं चित्तं समनुपश्यति ।
तद् यथा न तयाइवासिधारया
[ cambridge ms f106a ---> ]
साइवासिधारा शक्यते छेत्तुम् ।
न तेनाइवाङ्गुल्य्-अग्रेण तद् एवाङ्गुल्य्-अग्रं स्प्रष्टुं शक्यते ।
नाइव चित्तेन तद् एव चित्तं शक्यते द्रष्टुम् ॥
पे ॥पुनर् अपरं कुलपुत्र यद् उपद्रुतप्रद्रुतानवस्थितप्रचारस्य वानरमारुतसदृशस्य ।
पे ।
दूरंगमचारिणो ऽशरीरस्य लघुपरिवर्तिनो विषयलोलस्य षडायतनगोचरस्यापरापरसंप्रयुक्तस्य चित्तस्यावस्थानाम् एकाग्रताशरणम् अविशरणं शमथाइकाग्रताविक्षेपेत्य् उच्यते चित्तस्य स्मृतिर् इति ॥
[ bendall ed p236 ---> ]
आर्याक्षयमतिसूत्रे ऽप्य् उक्तं ।विठपनायां मया योगः करणीयः ।
इयं च चित्तधर्मता न विहातव्या ।
तत्र कतमा चित्तधर्मता ।
कतमा विठपना ।
मायोपमं चित्तम् इयम् उच्यते चित्तधर्मता ।
यत् पुनः सर्वस्वं परित्यज्य सर्वबुद्धक्षेत्रपरिशुद्धये परिणामयतीतीयम् उच्यते विठपनेत्य् आदि ॥
धर्मस्मृत्युपस्थानं तु ॥यथा तावद् अत्राह ।
धर्मे धर्मानुदर्शी विहरन् बोधिसत्वो न कञ्चिद् धर्मं समनुपश्यति ।
यतो न बुद्धधर्मा यतो न बोधिः ।
यतो न मार्गो यतो न निःसरणं ।
स सर्वधर्मानिःसरणम् इति विदित्वानावरणं नाम महाकरुणासमाधिं समापद्यते ।
स सर्वधर्मेषु सर्वक्लेशेषु च कृत्रिमसंज्ञां प्रतिलभते ।
निःक्लेशाइते धर्मा ।
नाइते सक्लेशाः ।
तत् कस्य हेतोः ।
तथा ह्य् एते नीतार्थे समवसरन्ति ।
नास्ति क्लेशानां संचयो ।
न राशीभावः ।
न रागभावो न द्वेषभावो न मोहभाव ।
एषाम् एव क्लेशानाम् अवबोधाद् बोधिः ।
यत् स्वभावाश् च क्लेशास् तत् स्वभावा बोधिर् इत्य् एवं स्मृतिम् उपस्थापयतीति ॥आर्यरत्नचूडे ऽप्य् उक्तम् ।
इह कुलपुत्र बोधिसत्वस्य धर्मे धर्मानुपश्यना स्मृत्युपस्थानेन विहरताइवं भवति ।
धर्माइवोत्पद्यमानोत्पद्यन्ते ।
धर्माइव निरुध्य्माना निरुध्यन्ते ॥
न पुनर् अत्र कश्चिद् आत्मभावे सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा यो जायते वा जीर्यते वा च्यवते वोत्पद्यते वा ।
एषा धर्माणां धर्मता ।
यदि समुदानीयन्ते ।
समुदागच्छन्ति ।
अथ न समुदानीयन्ते न समुदागच्छन्ति ।
यादृशाः समुदानी-
[ bendall ed p237 ---> ]
यन्ते तादृशाः समुदागच्छन्ति कुशला वाकुशला वा
[ cambridge ms f106b ---> ]
अनिञ्ज्या वा ।
नास्ति धर्माणां समुदानेता ।
न चाहेतुकानां धर्माणां काचिद् उत्पत्तिर् इत्य् आदि ॥
तत्राइवाह ।
स कियद्गम्भीरान् अपि धर्मान् प्रत्यवेक्षमाणस् तां सर्वज्ञताबोधिचित्तानुस्मृतिं न विजहाति ॥आर्यललितविस्तरसूत्रे ऽप्य् उक्तम् ।
संस्कारानित्याध्रुवामकुम्भोपमभेदनात्मकाः ।
परकेलिकयाचितोपमाः पांशुनगरोपमता च कालिका ॥
संस्कार प्रलोप धर्मिमे वर्षकालि चलितं विलेपनं ।
नदिकूलेव सवालुकं प्रत्ययाधीन स्वभावदुर्बलाः ॥
[ bendall ed p237 ---> ]
संस्कार प्रदीपार्चिवत् क्षिप्रोत्पत्ति निरोधधर्मकाः ।
अनवस्थितमारुतोपमाः फेनपिण्डावद् असारदुर्बलाः ॥संस्कार निरीह शून्यकाः कदलीस्कन्धसमा निरीक्षतः ।
मायोपम चित्तमोहना बालोल्लापनरिक्तमुष्टिवत् ॥
हेतूभि च प्रत्ययेभि वा सर्व संस्कारगतं प्रवर्तते ।
अन्योन्यप्रतीत्यहेतुतः तद् इदं बालजनो न बुध्यते ॥
यथा मुञ्ज प्रतीत्य बल्बजं रज्जु व्यायामबलेन वर्तिता ।
घटियन्त्र सचक्र वर्तते तेष्व् एकाइकशु नास्ति वर्तना ॥
तथ सर्वभवाङ्गवर्तनी अन्योन्योपचयेन निःश्रिता ।
एकाइकशु तेषु वर्तनी पूर्वापरान्ततो नोपलभ्यते ॥बीजस्य सतो यथाङ्कुरो न च यो बीज स चाइवाङ्कुरो ।
न चान्य ततो न चाइव तत् ।
एवम् अनुच्छेदाशाश्वत धर्मता ॥
[ bendall ed p239 ---> ]
संस्काराविद्यप्रत्ययाः ते च संस्कार न सन्ति तत्वतः ।
संस्काराविद्य चाइव हि शून्याइते प्रकृती निरीहकाः ॥
मुद्रात् प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते ।
न च तत्र न चाइव सान्यतो एवं संस्कारनुच्छेदशाश्वताः ॥
चक्षुश् च प्रतीत्य रूपतः चक्षु विज्ञानम् इहोपजायते ।
न च चक्षुषि रूपनिश्रितं रूपसंक्रान्ति न चाइव चक्षुषि ॥
नैरात्म्यशुभाश् च धर्मिमे ते पुनर् आत्मेति शुभाश् च कल्पिताः ।
विपरीतम् असद्विकल्पितं चक्षुविज्ञान ततो उपजायते ॥
विज्ञान निरोधसंभवं विज्ञोत्पादव्ययं विपश्यति ।
अकहिञ्चि गतम् अनागतं शून्य मायोपम योगि पश्यति ॥
[ bendall ed p240 ---> ]
अरणिं यथ
[ cambridge ms f107a ---> ]
चोत्तरारणिं हस्तव्यायामत्रयेभि संगतिं ।
इति प्रत्ययतो ऽग्नि जायते जातु कृतुकार्यु लघू निरुध्यते ॥
अथ पण्डितु कश्चि मार्गते कुत यम् आगतु कुत्र याति वा ।
विदिशो दिशि सर्व मार्गतो न गतिर् नाप्य् अगतिश् च लभ्यते ॥
स्कन्धायतनानि धातवः तृष्णाविद्येति कर्मप्रत्ययाः ।
सामग्रि तु सत्वसूचना सा च परमार्थतु नोपलभ्यते ॥
कण्ठाउष्ठ प्रतीत्य तालुकं जिह्व परिवर्तिर् अवर्ति अक्षरा ।
न च कण्ठगता न तालुकैः अक्षराइकाइक तु नोपलभ्यते ॥
सामग्रिप्रतीत्यश् च सा वाचम् अनुबुधिवशेन निश्चरी ।
मनवाचादृश्यरूपिणी बाह्यतो ऽभ्यन्तरि नोपलभ्यते ॥
उत्पादव्ययं विपश्यतो वाचरुतघोषस्वरस्य पण्डिताः ।
क्षणिकां वशिकां तद् ईदृशीं सर्ववाचः प्रतिश्रुतकोपमाः ॥
[ bendall ed p241 ---> ]
यथ तन्त्रि प्रतीत्य दारु च हस्तव्यायामत्रयेभि संगतिम् ।
तुणवीणसुघोषकादिभिः शब्दो निश्चरते तदुद्भवः ॥
अथ पण्डितु कश्चि मार्गते कुतो ऽयम् आगतु कुत्र याति वा ।
विदिशो दिश सर्वमार्गतः शब्दम् अनागमनं न लभ्यते ॥
तथ हेतुभि प्रत्ययेभि च सर्वसंस्कारगतं प्रवर्तते ।
योगी पुन भूतदर्शनात् शून्य संस्कार निरीह पश्यति ॥
स्कन्धायतनानि धातवः शून्याध्यात्मिक शून्यबाह्यकाः ।
सत्वात्मविविक्तनालयाः धर्माकाशस्वभावलक्षणाः ॥
लोकनाथव्याकरणे ऽप्य् उक्तम् ॥
शून्यानामका धर्माः नाम किं परिपृच्छसि ।
शून्यता न क्वचिद् देवा न नागा नापि राक्षसाः ॥
मनुष्या वामनुष्या वा सर्वे तु एष विद्यते ।
नाम्ना हि नामता शून्या नाम्नि नाम न विद्यते ॥
अनामकाः सर्वे धर्माः नाम्ना तु परिदीपिताः ॥
यो हि स्वभावो नाम्नो वै न स दृष्टो न च श्रुतः ।
न चोत्पन्नो निरुद्धो वा कस्य नामेह पृच्छसि ॥
व्यवहारकृतं नाम प्रज्ञप्तिर् नामदर्शिता ।
रत्नचित्रो ह्य् अयं नाम्ना रत्नोत्तमपरेति ॥
इति शिक्षासमुच्चये स्मृत्युपस्थानपरिच्छेदस् त्रयोदशः ॥
आत्मभावपरिशुद्धिः परिच्छेदश् चतुर्दशः ॥
उक्तानि स्मृत्युपस्थानानि ।
एवं योग्यचित्तो दशसु दिक्षु शेष-
[ cambridge ms f107b ---> ]
स्य जगतो दुष्खसागरोद्धरणाभिसंबोध्युपायो व्योमपर्यन्तत्रैकाल्यसर्वधर्मवशवर्तित्वायाइव तु पुनः सर्वधर्मशून्यताम् अवतरेत् ।
एवं हि पुद्गलशून्यता सिद्धा भवति ।
ततश् च छिन्नमूलत्वात् क्लेशा न समुदाचरन्ति ॥
यथोक्तम् आर्यतथागतगुह्यसूत्रे ।
तद् यथापि नाम शान्तमते वृक्षस्य मूलछिन्नस्य सर्वशाखा*पत्रपलाशाः शुष्यन्ति ।
एवम् एव शान्तमते सत्कायदृष्ट्युपशमात् सर्वक्लेशोपशाम्यन्तीति ॥शून्यताभावनानुशंसास् त्व् अपर्यन्ताः ॥
यथा तावच् चन्द्रप्रदीपसूत्रे ।
सो ऽसौ शिक्ष न जातु त्रशती सुगतानां ।
सो ऽसौ शूरु न जातु इस्त्रिणां वशम् एती ।
[ bendall ed p243 ---> ]
सो ऽसौ सासनि प्रीति विन्दते सुगतानां ।
यो ऽसौ धर्मस्वभाव जानती सुप्रशान्तं ॥
सो ऽसौ नेह चिरेण भेष्यते द्विपदेन्द्रः ।
सो ऽसौ वैद्यभिषक् भेष्यते सुखदाता ।
सो ऽसऊद्धरि शल्य सर्वशो दुखितानां ।यो ऽसौ धर्मस्वभाव जानती सुप्रशान्तं ॥
सो ऽसौ क्षान्तिबलेनोद्गतो नरचन्द्रः ।
सो ऽसौ लोष्टकदण्ड ताडितो न च कुप्यी ।
सो ऽसौ छिद्यति अङ्गम् अङ्गशो न च क्षुभ्यो ।
यो ऽसौ धर्मस्वभाव जानती सुप्रशान्तं ॥
नासौ दुर्गतिषू पतिष्यती अनुव्यञ्जन ।
नित्यं लक्षणधारि भेष्यती अभिरूपः ।
पञ्च्यो तस्याभिज्ञ भावितेम नित्यं ।
पुरतः सो सुगतान स्थास्यती स च शूर ।
इत्य् आदि ॥
भगवत्याम् अप्य् उक्तं ।
पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेन बुद्धकायं निष्पादयि-
[ bendall ed p244 ---> ]
तुकामेन द्वात्रिंशन्महापुरुषलक्षणान्य् अशीतिं चानुव्यञ्जनानि प्रतिलब्धुकामेन सर्वत्र जातौ जातिस्मरतां बोधिचित्ताविप्रणाशतां बोधिसत्वचर्यासंप्रमोषतां प्रतिलब्धुकामेन सर्वपापमित्रपापसहायान् विवर्जयितुकामेन सर्वबुद्धबोधिसत्वकल्याणमित्राण्य् आरागयितुकामेन सर्वमारमारकायिकदेवतानिर्जेतुकामेन सर्वावरणी
यानि शोधयितुकामेन सर्वधर्मानावरणतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं ।
पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेन ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ते मे वर्णं भाषेर-
[ cambridge ms f108a ---> ]
न्न् इति प्रज्ञापारमितायां शिक्षितव्यं ।
पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेनाइकचित्तोत्पादेन पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् समतिक्रमितुकामेन ।
पे ।
एवं सर्वदिक्षु प्रज्ञापारमितायां शिक्षितव्यम् इत्य् आद्य् इति [[दोउब्त्]] विस्तरः ॥
तत्र यथा निरात्मानश् च सर्वधर्माः ।
कर्मफलसंबन्धाविरोधश् च निःस्वभावता च यथादृष्टसर्वधर्माविरोधश् च ।
तथा पितृपुत्रसमागमे दर्शितम् ।
षड्धातुर् अयं महाराज पुरुषः षट्स्पर्शायतनः ।
अष्टादशमनोपविचारः ।
षड्धातुर् अयं महाराज पुरुषेति ।
न खलु पुनर् एतद् युक्तं ।
किं वाइतद् प्रतीत्योक्तं षड् इमे महाराज धातवः ।
कतमे षट् ।
तद् यथा पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुश् च ।
इमे महाराज षड् धातवः ॥यावत् षड् इमानि महाराज स्पर्शायतनानि ।
कतमानि षट् ।
चक्षुः स्पर्शायतनं रूपाणां दर्शनाय ।
श्रोत्रं स्पर्शायतनं शब्दानां श्रवणाय ।
घ्राणं स्पर्शायतनं गन्धारामाघ्राणाय ।
जिह्वा स्पर्शायतनं रसानाम् आस्वादनाय ।
कायस्पर्शायतनं स्प्रष्टव्यानां स्पर्शनाय ।
मनःस्पर्शायतनं धर्माणां विज्ञानाय ।
इमानि च महाराज षट् स्पर्शायतनानि ॥
पे ॥अष्टादशेमे महाराज मनोपविचाराः ।
कतमे ऽष्टादश ।
इह पुरुषश् चक्षुषा रूपाणि दृष्ट्वा ।
सौमनस्यदौर्मनस्योपेक्षास्थानीयान्य् उपविचरति ।
एवं श्रोत्रादिषु वाच्यं ।
तेन प्रत्येकम् इन्द्रियषट्केन सौमनस्यादित्रयाणां-
[ bendall ed p245 ---> ]
भेदाद् अष्टादश मनोपविचारा भवन्ति ।
पे ।
कतमश् च महाराजाध्यात्मिकः पृथिवीधातुः ।
यत् किञ्चिद् अस्मिन् काये ऽध्यात्मं कक्खटत्वं खरगतम् उपात्तं ।
तत् पुनः कतमत् ।
तद् यथा ।
केशा रोमाणि नखा दन्तेत्य् आदि ।
अयम् उच्यते आध्यात्मिकः पृथिवीधातुः ॥
कतमश् च महाराज बाह्यः पृथिवीधातुः ।
यत् किञ्चिद् बाह्यं कक्खट्वं खरगतम् अनुपात्तम् अयम् उच्यते बाह्यः पृथिवीधातुः ।
तत्र महाराजाध्यात्मिकः पृथिवीधातुर् उत्पद्यमानो न कुतश्चिद् आगच्छति निरुध्यमानो*न क्वचित् संनिचयं गच्छति ।
भवति महाराज स समयो
[ cambridge ms f108b ---> ]
यत् स्त्री अध्यात्मम् अहं स्त्रीति कल्पयति ।
साध्यात्मम् अहं स्त्रीति कल्पयित्वा बहिर्धा पुरुषं पुरुषेति कल्पयति ।
सा बहिर्धा पुरुषं पुरुषेति कल्पयित्वा संरक्ता सती बहिर्धा पुरुषेण सार्धं संयोगम् आकाङ्क्षते ।
पुरुषो ऽध्यात्मं पुरुषो ऽस्मीति कल्पयतीति पूर्ववत् ।
तयोः संयोगाकाङ्क्षया संयोगो भवति ।
संयोगप्रत्ययात् कललं जायते ।
तत्र महाराज यश् च संकल्पो यश् च संकल्पयिता ।
उभयम् एतन् न संविद्यते ।
स्त्रियां स्त्री न संविद्यते ।
पुरुषे पुरुषो न संविद्यते ।
इति ह्य् असन्न् असद्भूतः संकल्पो जातः ।
सो ऽपि संकल्पास्वभावेन न संविद्यते ।
यथा संकल्पस् तथा संयोगो ऽपि कललम् अपि स्वभावेन न संविद्यते ।
यश् च स्वभावतो न संविद्यते तत् कथं कक्खटत्वं जनयिष्यति ।
इति हि महाराज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यं यथा कक्खटत्वम् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
निरुध्यमानं न क्वचित् संनिचयं गच्छतीति ।
भवति महा-
[ bendall ed p246 ---> ]
राज समयो यद् अयं कायः श्मशानपर्यवसानो भवति ।
तस्य तत् कक्खटत्वं संक्लिद्यमानं निरुध्यमानं न पूर्वां दिशं गच्छति ।
न दक्षिणां ।
न पश्चिमां ।
नोत्तरां ।
नोर्ध्वं ।
नाधो ।
न तु विदिशं गच्छति ।
एवं महाराजाध्यात्मिकः पृथिव्ōआ̃धातुर् द्रष्टव्यः ।
भवति महाराज स समयो*यदाकाशीभूते लोकसंनिवेशे ब्राह्मं विमानं संतिष्ठते महारत्नमयं ।
तन् महाराज कक्खटत्वम् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
चक्रवाडमहाचक्रवाडाः संतिष्ठन्ते दृढाः साराइकघना वज्रमयास् तेषाम् अपि कक्खटत्वम् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
सुमेरवः पर्वतराजानो युगंधरा निमिंधरेशाधरा यावत् कालपर्वताः संतिष्ठन्ते ।
सर्वश् च त्रिसाहस्रमहासाहस्रो लोकधातुः संतिष्ठते ।
चतुरशीतिर् योजनसहस्राण्य् उद्वेधेन ।
मध्ये चाष्टषष्टिं योजनशतसहस्रं महापृथिवी संतिष्ठते ।
तद् अपि महाराज कक्खटत्वं समुदागच्छत् कुतश्चिद् आगच्छति ।
भवति महाराज स समयो यदायं लोकः संवर्तते ।
तदेयं महापृथिवी
[ cambridge ms f109a ---> ] agninā vā dahyate 'dbhir vā klidyate vāyunā vā vikīryate |
तस्याग्निना दह्यमानाया मषिर् अपि न प्रजायते तद् यथापि नाम सर्पिषो वा तैलस्य वाग्निना दह्यमानस्य न मषिर् न छायिका प्रज्ञायते एवम् एवास्यास् त्रिसाहस्रमहासाहस्राया लोकधातोर् अग्निना दह्यमानाया नाइव मषिर् न छायिकावशिष्टा प्रज्ञायते ।
एवम् अद्भिर् लवणविलयवद् वायुना वैरम्भवाताभिहतशकुन्तवत् पृथिव्यां न किञ्चिद् अवशिष्टं प्रज्ञायतए इति पठ्यते ।
तत्र महाराज पृथिवीधातोर् उत्पादो ऽपि शून्यः व्ययो ऽपि शून्योत्पन्नो ऽपि पृथिवीधातुः स्वभावशून्य ।
इति हि महाराज पृथिवीधातुः पृथिवीधातुत्वेन नोपलभ्यते ऽन्यत्र व्यवहारात् ।
सो ऽपि व्यवहारो न स्त्री न पुरुषः ।
एवम् एवाइतन् महाराज यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ।
तत्र कतमो ऽब्धातुः ।
यद् इदम् अस्मिन् काये ऽध्यात्मं प्रत्यात्मम् आपः ।
अब्गतं ।
अप्त्वं स्नेहः ।
स्नेहगतं स्नेहत्वं द्रवत्वम् उपगतम् उपात्तं ॥
तत् पुनः कतमत् ।
तद् यथा ।
अश्रु स्वेदः खेटः सिङ्घाणकं-
[ bendall ed p247 ---> ]
वशा लसिका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं क्षीरं प्रस्रावेत्य् आदिर् अयम् उच्यन्ते आध्यात्मिको ऽब्धातुः ।
पे ॥भवति महाराज स समयो यत् प्रियं दृष्ट्वाश्रु प्रवर्तते ।
दुष्खेन चाभ्याहतस्य धर्मसंवेगेन वाश्रु प्रवर्तते ।
वातेन वाक्षि प्रस्यन्दते ।
यावत् स महाराजाब्धातुर् न कुतश्चिद् आगच्छति ।
भवति महाराज स समयो यदाध्यात्मिको ऽब्धातुः परिशुष्यति ।
स परिशुष्यन् निरुध्यमानो*न क्वचिद् गच्छति ।
पे ।
विवर्तमाने खलु पुनर् लोके समन्ताद् द्वात्रिंशत् पटलाभ्रघनाः संतिष्ठन्ते संस्थाय सर्वावन्तः ।
त्रिसाहस्रमहासाहस्रं लोकधातुं छादयन्ति ।
यतः पञ्चान्तरकल्पान् ईषाधारो देवो वर्षति ।
एवं पञ्च गजप्रमेहो देवो वर्षति ।
पञ्चाच्छिन्नधारः ।पञ्च स्थूलबिन्दुकः ।
ततेयं महापृथिवी यावद् ब्रह्मलोकाद् उदकेन स्फुटा भवति ।
स महाराज तावन् महान् अब्धातुर् उत्पद्यमानो न कुतश्चिद् आगच्छति ।
भवति महाराज स समयो यद् अयं लोकः संवर्तते ।
संवर्तमाने खलु पुनर् लोके द्वितीयस्य सूर्यस्य प्रादुर्भावो भवति ।
द्वितीयस्य सू-
[ cambridge ms f109b ---> ]
र्यस लोके प्रादुर्भावाद् उत्साः सरांसि कुनद्यश् च शुष्यन्ति ।
एवं तृतीयस्य महोत्सा महानद्यः ।
चतुर्थस्यानवतप्तं महासरः सर्वेण सर्वम् उच्छुष्यति ।
चतुर्थस्य सूर्यस्य प्रादुर्भावान् महासमुद्रस्य योजनिकम् अप्य् उदकं परिक्षयं पर्यादानं गच्छति ।
द्वियोजनिकम् अपि त्रिचतुःपञ्चदशविंशतित्रिंशच्चत्वारिंशत्पञ्चाशद्योजनिकम् अपि यावच् चत्वारिंशद्योजनसहस्रम् उदकम् अवशिष्टं भवति ।
यावद् द्वितालमात्रं ।यावत् कण्ठमात्रं ।
यावद् गोष्पदमात्रम् उदकम् अवशिष्टं भवति ।
भवति महाराज स समयो यन् महासमुद्रे पृथितपृथितान्य् अवशिष्टानि भवन्ति ।
पे ॥
भवति महाराज स समयो यन् महासमुद्रे ऽङ्गुलिस्नेहमात्रम् अप्य् उदकं नावशिष्टं भवति ।
स महाराज तावान् अब्धातुर् निरुध्यमानो न क्वचिद् गच्छति ।
पे ।
तस्य खलु पुनर् महाराजाब्धातोर् उत्पादो ऽपि शून्यः ।
व्ययो ऽपि शून्यः तिष्ठन्न् अपि सो ऽब्धातुः
[ bendall ed p248 ---> ]
स्वभावशून्येति हि महाराजाब्धातुर् अब्धातुत्वेनोपलभ्यते ऽन्यत्र व्यवहारमात्रात् ।
सो ऽपि व्यवहारो न स्त्री न पुरुषः पूर्ववत् ॥
आध्यात्मिकस् तेजोधातुः कतमः ॥
यत् किञ्चिद् अस्मिन् काये तेजस् तेजोगतम् ऊष्मगतम् उपगतम् उपात्तं ।
तत् पुनः कतमत् ।
येनायं कायातप्यते संतप्यते ।
येन वास्यासितपीतखादितानि सम्यक्सुखेन परिपाकं गच्छति ।
यस्य चोत्सदत्वाज् ज्वरितो ज्वरितेति संख्यां गच्छति ॥
पे ॥
बाह्यस् तेजोधातुः कतमः ।
यद् बाह्यं तेजस् तेजोगतम् ऊष्मगतम् उपगतम् उपात्तं ।
तत् पुनः कतमत् ।
यन् मनुष्यारणीसहगतेभ्यो गर्भलसहगतेभ्यो वा गोमयचूर्णेन वा कार्पासपिचुनावासम् अन्वेषन्ते यद् उत्पन्नं ग्रामम् अपि दहति ग्रामप्रदेशम् अपि दहति यावद् द्वीपं वा कक्षं तृणानां वा दावं वा काष्ठं वा यावद् दहन् परैतीत्य् आदि ।तत्र महाराजाध्यात्मिकस् तेजोधातुर् उत्पद्यते न कुतश्चिद् आगच्छति निरुध्यमानो न क्वचित् संनिचयं गच्छति ।
इति ह्य् अभूत्वा भवति भूत्वा च प्रतिविगच्छति स्वभावरहितत्वात् ॥
एवं यत् किञ्चिद् अस्मिन् काये वायुर् वायुगतं लघुत्वं समुदीरणत्वं ।
तत् पुनः कतमत् ।
तद् यथोर्ध्वगमा वायवो ऽधोगमाः पार्श्वाश्रयाः पृष्ठाश्रयाः कुक्षिगमाः शस्त्रकाः
[ cambridge ms f110a ---> ]
क्षुरकाः सूचकाः पिप्पलका वाताष्ठीला वातगुल्माश्वासप्रश्वासाङ्गानुसारिणो वायवेत्य् आदि ।
सन्ति बहिर्धा पूर्वे वायवो दक्षिणाः पश्चिमोत्तरा वायवः सरजसः अरजसः परीत्ता महद्गता वायवेति ।
भवति महाराज स समयो यन् महावायुस्कन्धः समुदागतः ।
[ bendall ed p249 ---> ]
वृक्षाग्रान् अपि पातयति ।
कुड्यान् अपि पर्वताग्रान् अपि पातयति ।
पातयित्वा निरुपादानो विगच्छति ।
यं सत्वाश् चीवरकर्णिकेन वा विधमनकेन वातानुवृत्तेन वा पर्येष्यन्ते ।
यावद् अयम् उच्यते बाह्यो वायुधातुः ।
तस्याप्य् उत्पत्तिः पूर्ववत् ॥आध्यात्मिकाकाशधातुः कतमः ।
यत् किञ्चिद् अस्मिन् काये ऽध्यात्मं प्रत्यात्मम् उपगतम् उपात्तम् आकाशगतम् इहाभ्यन्तरसंख्याभूतं ।
अस्फुटम् अस्फरणीयं त्वङ्मान्सशोणितेन ।
तत् पुनः कतमत् ।
यद् अस्मिन् काये चक्षुः सुषिरम् इति वा यावन् मुखं वा मुखद्वारं वा कण्ठं वा कण्ठनाड्या वा येन चाभ्यवहरति यत्र चावतिष्ठते ।
येन चास्याशितपीतखादितास्वादितम् अधस्तात् प्रघरति ।
अयम् उच्यतए आध्यात्मिकाकाशधातुः ।
एवं बाह्ये ऽपि यद् अस्फुटम् अस्फरणीयं रूपगतेनापलिगुद्धं सुषिरभावश् छिद्रं ।
अयम् उच्यते बाह्यः आकाशधातुः ॥
भवति महाराज स समयो यत् कर्मप्रत्ययाद् आयतनानि प्रादुर्भवन्ति तान्य् आकाशधातुं परिचारयन्ति ।
तत्र संख्या भवत्य् आध्यात्मिकाकाशधातुर् इति ।
स न कुतश्चिद् आगच्छति ।
भवति समयो यद् रूपं बिभर्ति सर्वम् आकाशीभवति ।
तत् कस्य हेतोः ।
अक्षयो ह्य् आकाशधातुः स्थिरो ऽचलः ।
तद् यथा महाराजासंस्कृतो निर्वाणधातुः ।
एवम् एवाकाशधातुः सर्वत्रानुगतो द्रष्टव्यः ।
तद् यथापि नाम महाराज पुरुषोत्थले देशे उदपानं वा कुटकं वा कूपं वा पुष्करिणीं वा खानयेत् ।
तत् किं मन्यसे महाराज यत् तत्राकाशः कुतस् तद् आगतम् इति ।
आह ।
न कुतश्चिद् भगवन् ।
भगवान् आह ।
तद् यथापि नाम महाराज स पुरुषः पुनर् एव तद् उदपानं वा यावत् पुष्करिणीं वा पूरयेत् ।
तत् किं मन्यसे महाराज यत् तद् आकाशं क्वचिद् गतम् इति ।
आह ।
न क्वचिद् गतं भगवन् ।
तत् कस्य हेतोः ।
न ह्य् आका
[ bendall ed p250 ---> ]
श-
[ cambridge ms f110b ---> ]
धातुर् गमने वागमने वा प्रत्युपस्थितः ।
न स्त्रीभावेन न पुरुषभावेन प्रत्युपस्थितः ।
भगवान् आह ।
इति हि महाराज बाह्याकाशधातुर् अचलः ।अविकारः ।तत् कस्य हेतोः ।
शून्यो ह्य् आकाशधातुर् आकाशधातुत्वेन ।
विरहिताकाशधातुर् आकाशधातुत्वेन ।
न पुरुषभावेन न स्त्रीभावेन प्रत्युपस्थितः ।
एवम् एव यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ॥
तत्र कतमो विज्ञानधातुर् या चक्षुरिन्द्रियाधिपतेया ।
रूपारम्बणप्रतिविज्ञप्तिः ।
यावद् इति हि महाराज या काचिद् वर्णसंस्थानप्रतिविज्ञप्तिर् अयम् उच्यते चक्षुर्विज्ञानधातुः ।
पे ।
इति हि या षडिन्द्रियाधिपतेया षड्विषयारम्बणा विषयविज्ञप्तिर् अयम् उच्यते विज्ञानधातुः ।
स खलु पुनर् अयं महाराज विज्ञानधातुर् नेन्द्रियनिश्रितो न विषयेभ्यागतो न मध्ये ऽन्तरस्थायी स नाध्यात्म बहिर्धा नोभयम् अन्तरेण ।
स खलु पुनर् अयं महाराज विज्ञानधातुर् वस्तु प्रतिविज्ञप्य निरुद्धः ।
सोत्पद्यमानो न कुतश्चिद् आगच्छति निरुध्यमानो न क्वचिद् गच्छति ।
तस्य खलु पुनर् विज्ञानधातोर् उत्पादो ऽपि शून्यः ।
व्ययो ऽपि शून्यः ।
उत्पन्नो ऽपि विज्ञानधातुः स्वभावशून्यः ।
इति महाराज विज्ञानधातुर् विज्ञानधातुत्वेन शून्यो नोपलभ्यते ऽन्यत्र व्यवहारात् ।
सो ऽपि व्यवहारो न स्त्री न पुरुषः ।
एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ॥
तत्र महाराज कतमच् चक्षुरायतनं ।
यच् चतुर्णां महाभूतानां प्रसादः ।
तद् यथा पृथिवीधातोर् अब्धातोस् तेजोधातोर् वायुधातोर् यावत् ।
तत्र पृथिवीधातुप्रसादश् चक्षुरायतनं नाब्धातुप्रसादो न तेजोधातुप्रसादो न वायुधातुप्रसादश् चक्षुरायतनं ।
तत् कस्य हेतोः ।
न हि पृथिवीधातुप्रसादः कस्यचिद् धर्मायतनं वायतनप्रतिलम्भेन वा प्रत्युपस्थितः ।
एवं यावन् न वायुधातुप्रसादः कस्यचिद् धर्मस्यायतनं वायतनप्रतिलम्भेन वा प्रत्युपस्थितः ।
तत् कस्य
[ bendall ed p251 ---> ]
हेतोः ।
निश्चेष्टा ह्य् एते धर्मा निष्ठापारा निर्वाणसमा ।
इति हि महाराजाइकाइकतो धर्मान् मृग्यमाणान् चक्षुरायतनं नोपलभते ऽन्यत्र व्यवहारात् ।
तत् कस्य हेतोः ।
शून्यो हि पृथिवीधातुप्रसादः पृथिवीधातुप्रसादेन ।
यावच् छून्यो वायुधातुप्रसादो वायुधातुप्रसादेन ।
ये च धर्माः स्वभावेन शून्याः
[ cambridge ms f111a ---> ]
कस् तेषां प्रसादो वा क्षोभो वा ।
येषां न प्रसादो न क्षोभोपलभ्यते ।
कथं ते रूपं द्रक्ष्यन्ति ।
इति ह्य् अत्यन्ततया चक्षुरायतनं शून्यं चक्षुरायतनस्वभावेन तत् पूर्वान्ततो नोपलभ्यते ॥
अपरान्ततो ऽपि नोपलभ्यते ।
अनागमनतां गमनतां चोपादाय स्थानम् अप्य् अस्य नोपलभ्यते स्वभावविरहितत्वात् ।
यच् च स्वभावेन न संविद्यते ।
न तत् स्त्री न पुरुषः ।
तेन का मन्यना ।
मन्यना च नाम महाराज मारगोचरः ।
अमन्यना बुद्धगोचरः ।
तत् कस्य हेतोः ।
मन्यनापगता हि सर्वधर्माः ।
पे ।
तत्र महाराज कतमच् छ्रोत्रायतनं ।
यच् चतुर्णां महाभूतानां प्रसादो ।
यावद् इति हि महाराज सर्वधर्मा विमोक्षाभिमुखा धर्मधातुनियताकाशधातुपर्यवसानाप्राप्तिका अव्यवहारानभिलाप्यानभिलपनीयाः ।
यत्र महाराजेन्द्रियाणि प्रतिहन्यन्ते ते विषयेत्य् उच्यन्ते ।
चक्षुर् हि रूपे प्रतिहन्यते तस्माद् रूपाणि चक्षुर्विषयेत्य् उच्यन्ते ।
एवं श्रोत्रं शब्देष्व् इत्य् आदि ।
तत्र चक्षू रूपे प्रतिहन्यतेति निपातः ।
प्रतिहन्यना तेषां निर्दिष्टा ।
तथा हि चक्षू रूपेषु त्रिविधं निपततीति ।
अनुकूलेषु शुभसंज्ञया ।
प्रतिकूलेषु प्रतिघसंज्ञया ।
नाइवानुकूलेषु न प्रतिकूलेषूपेक्षया ।
एवं मनो धर्मेष्व् इत्य् आदि ।
तए इमे विषया मनोगोचरेत्य् उच्यन्ते ।
अत्र हि मनश् चरति ।
उपविचरति ।
तस्मान् मनोगोचरेत्य् उच्यन्ते ।
यद् एतन् महाराज मनो ऽप्रतिकूलेषु रूपेष्व् अनुनीतं चरति ।
तेनास्य रागोत्पद्यते ।
प्रतिकूलेषु रूपेषु प्रतिहतं चरति तेनास्य
[ bendall ed p252 ---> ]
द्वेषोत्पद्यते ।
नाइवानुकूलेषु न प्रतिकूलेषु संमूढं चरति ।
तेनास्य मोहोत्पद्यते ।
एवं शब्दादिष्व् अपि त्रिविधम् आरम्बणम् अनुभवति पूर्ववत् ॥
तत्र महाराज मायोपमानीन्द्रियाणि ।
स्वप्नोपमा विषयाः ।
तद् यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे जनपदकल्या-
[ cambridge ms f111b ---> ]
ण्या स्त्रिया सार्धं परिचरेत् ।
स शयितविबुद्धो जनपदकल्याणीं स्त्रियम् अनुस्मरेत् ।
तत् किं मन्यसे महाराज संविद्यते स्वप्नान्तरे जनपदकल्याणी स्त्री ।
आह ।
नो हीदं भगवन् ।
भगवान् आह ।
तत् किं मन्यसे महाराजापि नु स पुरुषः पण्डितजातीयो भवेत् ।
यः स्वप्नान्तरे जनपदकल्याणीं स्त्रियम् अनुस्मरेत् ।
तया वा सार्धं क्रीडितम् अभिनिवेशेत् ।
आह ।
नो हीदं भगवन् ।
तत् कस्य हेतोः ।
अत्यन्ततया हि भगवन् स्वप्नान्तरे जनपदकल्याणी न संविद्यते नोपलभ्यते ।
कुतः पुनर् अनया सार्धं परिचरणा ।
अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य भागी स्यात् ।
यस् ताम् अभिनिविशेत् ॥
भगवान् आह ।
एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनश् चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्य् अभिनिविशेत् ।
सो ऽभिनिविष्टः सन्न् अनुनीयते ऽनुनीतः संरज्यते ।
संरक्तो रागजं कर्माभिसंस्करोति ।
त्रिविधं कायेन चतुर्विधं वाचा त्रिविधं मनसा ।
तच् च कर्माभिसंस्कृतम् आदिताइव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वां दिशं निश्रित्य तिष्ठति ।
न दक्षिणां न पश्चिमां नोत्तरां नोर्ध्वं नाधो नानुविदिशं ।
नेह न तिर्यक् ।
नोभयम् अन्तरा ।
तत् पुनः कालान्तरेण मरणकालसमये प्रत्युपस्थिते ।
जीवितेन्द्रियनिरोधे आयुषः परिक्षयात् तत्सभागस्य कर्मणः क्षीणत्वाच् चरम-
[ bendall ed p253 ---> ]
विज्ञानस्य निरुध्यमानस्य मनसारम्बणीभवति ।
तद् यथापि नाम शयितविबुद्धस्य जनपदकल्याणीति मनसारम्बणं भवति ।
इति हि महाराज चरमविज्ञानेनाधिपतिना तेन च कर्मणारम्बणेनाउपपत्त्यंशिकद्वयप्रत्ययं प्रथमविज्ञानम् उत्पद्यते ।
यदि वा नरकेषु यदि वा तिर्यग्योनौ यदि वा यमलोके यदि वासुरे काये यदि वा मनुष्येषु यदि वा देवेषु ।
तस्य च प्रथमविज्ञानस्याउपपत्त्यंशिकस्य समनन्तरनिरुद्धस्यानन्तरसभागा चित्तसंततिः प्रवर्तते ।
यत्र विपाकस्य प्रतिसंवेदना प्रज्ञायते ।
तत्र यश् चरमविज्ञानस्य निरोधस् तत्र च्युतिर् इति संख्यां गच्छति ।
यः
[ cambridge ms f112a ---> ]
प्रथमविज्ञानस्य प्रादुर्भावस् तत्रोपपत्तिः ।
इति हि महाराज न कश्चिद् धर्मो ऽस्माल् लोकात् परं लोकं गच्छति ।
च्युत्युपपत्ती च प्रजायेते ।
तत्र महाराज चरमविज्ञानम् उत्पद्यमानं न कुतश्चिद् आगच्छति ॥निरुध्यमानं न क्वचिद् गच्छति ।
कर्माप्य् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
निरुध्यमानं न क्वचिद् गच्छति ।
प्रथमविज्ञानम् अप्य् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
निरुध्यमानं च न क्वचिद् गच्छति ।
तत् कस्य हेतोः ।
स्वभावविरहितत्वात् ।
चरमविज्ञानं चरमविज्ञानेन शून्यं ।
कर्म कर्मणा शून्यं ।
प्रथमविज्ञानं प्रथमविज्ञानेन शून्यं ।
च्युतिश् च्युत्या शून्या ।
उपपत्तिर् उपपत्त्या शून्या ।
कर्मणां चाबन्ध्यता प्रजायते विपाकस्य च प्रतिसंवेदना न चात्र कश्चित् कर्ता न भोक्तान्यत्र नामसंकेतात् ।
[ bendall ed p254 ---> ]
तद् यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे शत्रुणा सार्धं संग्रामयेत् ।
स शयितविबुद्धः ।
तम् एवानुस्मरेत् ।
तत् किं मन्यसे महाराज संविद्यते स्वप्नान्तरे शत्रुः ।
शत्रुणा वा सार्धं संग्रामेति ।
आह ।
नो हीदं भगवन् ।
भगवान् आह ।
तत् किं मन्यसे महाराजापि नु स पुरुषः पण्डितजातीयो भवेत् ।
यो ऽसौ स्वप्नान्तरे शत्रुम् अभिनिविशेत् ।
शत्रुणा वा सार्धं संग्रामं ।
आह ।
नो हीदं भगवन् ।
तत् कस्य हेतोः ।
अत्यन्ततया हि भगवन् स्वप्ने शत्रुर् न संविद्यते कुतः पुनस् तेन सार्धं संग्रामः ।
अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् यस् तम् अभिनिविशेत् ।
भगवान् आह ।
एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनश् चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्यास्थानीयान्य् अभिनिविशते ऽभिनिविष्टः सन् प्रतिहन्यते ।
प्रतिहतः संतुष्यति ।
दुष्टो दोषजं कर्माभिसंस्करोतीति पूर्ववत् ।
तद् यथापि नाम महाराज पुरुषह्
[ cambridge ms f112b ---> ]
सुप्तः स्वप्नान्तरे पिशाचेन परिपात्यमानो भीतः संओहम् आपद्यते ।
स शयितविबुद्धस् तं पिशाचं तं च संमोहम् अनुस्मरेत् ।
तत् किं मन्यसे महाराज संविद्यन्ते स्वप्ने पिशाचः संमोहो वा ।
यावद् एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनश् चक्षुषा रूपाणि दृष्ट्वोपेक्षास्थानीयान्य् अभिनिविशते ऽभिनिविष्टः सन् मुह्यति मूढो मोहजं कर्माभिसंस्करोतीति पूर्ववत् ।
तद् यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे जनपदकल्याण्या गायन्त्या मधुरं गीतस्वरं मधुरं च तन्त्रीस्वरं च शृणुयात् ।
सा तेन गीतवादितेन परिचारयेत् ।
स शयितविबुद्धस् तद् एव गीतवादितम् अनुस्मरेत् ।
तत् किं मन्यसे महाराजापि नु स पुरुषः पण्डितजातीयः स्वप्नान्तरे जनपदकल्याण्या गीतवादितम् अभिनिविशेत् ।
आह ।
नो हीदं भगवन् ।
भगवान् आह ।
तत् कस्य हेतोः ।
अत्यन्ततया हि भगवन् स्वप्नान्तरे जनपदकल्याणी स्त्री न संविद्यते नोपलभ्यते ।
कुतः पुनर् अस्या गीतवादितं ।
अन्यत्र यावद् एव स पुरुषो
[ bendall ed p255 ---> ]
विघातस्य क्लमथस्य च भागी स्यात् ।
यस् तद् अभिनिविशेत् ।
भगवान् आह ।
एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनः श्रोत्रेण शब्दान् श्रुत्वा सौमनस्यस्थानीयान्य् अभिनिविशते ।
इति पूर्ववत् ।
एवं गन्धादिषु त्रिधा त्रिधा वेदितव्यम् ॥
पे ॥अत्र महाराज मानसं निवेशयितव्यं ।
किम् इत्य् अहं सदेवकस्य लोकस्य चक्षुर् भवेयं ।
उल्का प्रदीपालोकभूतः ।
कूलं नौस् तीर्थं ।
नायकः परिणायकः दैशिकः सार्थवाहः ।
पुरो जवेयं ।
मुक्तो मोचयेयम् आश्वस्ताश्वासयेयं परिनिर्वृत्तः परिनिर्वापयेयम् इति ।
पूर्वा हि कोटिर् महाराज न प्रज्ञायते ऽइश्वर्याधिपत्यानाम् अनुभूय मानानां ।
इति हि महाराज मायोपमानीन्द्रियाण्य् अ-
[ cambridge ms f113a ---> ]
तृप्तान्य् अतर्षणीयानि ।
स्वप्नोपमा विषयातर्षकातृप्तिकराः ॥अत्रानन्तयशश्चक्रवर्तिनः कथा स्वर्गाच् च पतिते तस्मिन् सराजकैः पौरैः परिवृताइवं पठ्यते ।
तद् यथापि नाम महाराज सर्पिर्मण्डो वा नवनीतमण्डो वा तप्तायां वालुकायाम् उपनिक्षिप्तो ऽवसीदति ।
न संतिष्ठते ।
एवम् एव महाराजानन्तयशावसीदति न संतिष्ठते ।
अथ राजा प्रियंकरो राजानम् अनन्तयशसं तथावसीदन्तं ।
उपसंक्रम्याइतद् अवोचत् ।
किं वयं महाराज लोकस्य व्याकुर्यामः ।
किं राज्ञो ऽनन्तयशसः सुभाषितम् इति ।
साह ।
वक्तव्यं ।
महाराजानन्तयशाश् चतुर्द्वीपेषु राज्याइश्वर्यं कारयित्वाबन्ध्यमनोरथताम् अनुभूय सर्वद्रुमाकालफलतां सर्वोपद्रवप्रस्रब्धिसर्वसत्वाबन्ध्यमनोरथतां गन्धोदकवर्षं हिरण्यवर्षं सुवर्णवर्षं सर्वोपकरणवर्षं चानुभूय चतुरो महाद्वीपान् अध्यावसित्वा शक्रस्यार्धासनम् आक्रम्यातीच्छया न मुक्तो ऽतृप्ताइव कामैः कालगतेति ।
एवं त्वं महाराज व्याकुर्येत्य् एवम् उक्त्वा च राजानन्तयशाः कालम् अकार्षीत् ।
पे ॥
त-
[ bendall ed p256 ---> ]
स्मात् तर्हि ते महाराज मरीचिकायाम् उदकस्वभावो नाभून् न भविष्यति न चाइतर्हि विद्यते ।
एवम् एव महाराज रूपवेदनासंज्ञा संस्कारविज्ञनां स्वभावो नाभून् न भविष्यति न चाइतर्हि विद्यतए इत्य् आदि ॥
पुनर् अप्य् उक्तं ।
एतावच् चाइतत् ज्ञेयम् ।
यद् उत संवृतिः परमार्थश् च ।
तच् च भगवता शून्यतः सुदृष्टं सुविदितं सुसाक्षात्कृतं ।
तेन स सर्वज्ञेत्य् उच्यते ।
तत्र संवृतिर् लोकप्रचारतस् तथागतेन दृष्टा ।
यः पुनः परमार्थः सो ऽनभिलाप्यः ।
[ cambridge ms f113b ---> ]
अनाज्ञेयो ऽविज्ञेयो ऽदेशितो ऽप्रकाशितो यावद् अक्रियो यावन् न लाभो नालाभो न सुखं न दुष्खं न यशो नायशः ।
न रूपं नारूपम् इत्य् आदि ॥
तत्र जिनेन जगस्य कृतेन
संवृति देशित लोकहिताय ।
येन जगत् सुगतस्य सकाशे
संजनयीह प्रसादसुखार्थे ॥
संवृति प्रज्ञमयी नरसिंहः
षड्गतयो भणि सत्वगणानां ।
नरकतिरश् च तथाइव च प्रेतान्
आसुरकाय नरांश् च मरूंश् च ॥
नीचकुलांस् तथोच्चकुलांश् च
आढ्यकुलांश् च दरिद्रकुलांश् चेत्य् आदि ॥
[ bendall ed p257 ---> ]
पुनश् चोक्तं ।
कतमाइष धर्मो यो भगवता व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ ।
किं रूपम् उत वेदनाहो श्वित् संज्ञोताहो संस्काराथ विज्ञानं भगवता व्याकृतम् अनुत्तरायां सम्यक्संबोधाव् इति ।
तेषाम् एतद् अभूत् ।
न रूपं यावन् न विज्ञानं भगवता व्याकृतम् अनुत्तरायां सम्यक्संबोधौ ।
तत् कस्य हेतोः ।
अनुत्पादो हि रूपम् अनुत्पादो बोधिः ।
तत् कथम् अनुत्पादो ऽनुत्पादम् अभिसंबुध्यते ।
एवं यावद् विज्ञानम् ॥
पे ॥
तद् एवम् अनुपलभ्यमानेषु सर्वधर्मेषु कतमो ऽत्र बुद्धः ।
कतमा बोधिः ।
कतमो बोधिसत्वः ।
कतमद् व्याकरणम् ।
शून्यं हि रूपं रूपेण यावद् विज्ञानं ॥
पे ॥यावद् एव व्यवहारमात्रम् एतत् ।
नामधेय्मात्रं संकेतमात्रं संवृतिमात्रं प्रज्ञप्तिमात्रं ।
नालम् अत्र पण्डितैर् अभिनिवेशोत्पादयितव्येति ॥
तथात्राइवाहुः ।
निर्माणरतयो देवा यथा वयं भगवन् ।
भगवतो भाषितस्यार्थम् आजानीमः ।
सर्वधर्मा भूतकोटिर् अनन्तकोटिर् अनावरणकोटिर् अप्रतिष्ठितकोटिर् इत्य् आदि ॥
सर्वधर्मा भगवन् बोधिः ।
स्वभावविरहिता बोद्धव्याः ।
अन्तशानन्तर्याण्य् अपि बोधिः ।
तत् कस्य हेतोः ।
अप्रकृतिका हि भगवन् बोधिर् अप्रकृतिकानि च पञ्चानन्तर्याणि ।
तेनोच्यते आनन्तर्याणि बोधिर् इति ।
तथा विहस्यन्ते भगवन् ये केचित् परिनिर्वातुकामाः ।
तत् कस्य हेतोः ।
यदि कश्चित् संसारप्रतिप-
[ cambridge ms f114a ---> ]
न्नो भवेत् ।
स निर्वाणं पर्येषतए इति ॥
पुनर् उक्तं ।
भूतकोटिर् इति भगवन् यद् उक्तं निर्माणरतिभिर् देवैस् तत्र वयं भूतम् अपि नोपलभामहे ।
किं पुनर् अस्य कोटिम् ।
तत् कस्य हेतोः ।
यो हि कश्चिद् भगवन् भूतम् उपलभते ।
कोटिम् अपि स तस्योपलभते द्वये चासौ चरतीति ॥
तथात्राइव सहांपतिब्रह्मणा शास्ता स्तुतः ॥
सुपिति यथ नरः क्षुधाभिभूतः शतरसभोजनभुञ्जिनो च तृप्तः ।
न पि च क्षुध न भोजनं न सत्वः सुपिन यथाइव निदृष्ट सर्वधर्माः ॥
[ bendall ed p258 ---> ]
भणि नरु पठने मनोज्ञवाचं प्रियु भवती न च संक्रमो ऽस्ति वाचं ।
न च वचन चास्य रक्त वाचाम् उपलभसे न च तत्र संशयो ऽस्ति ॥
श्रुणति यथ मनोज्ञ वीणशब्दं मधुर न चास्ति स्वभावतः स शब्दः ।
तथेमि विदु स्कन्ध प्रेक्षमाणो न लभति भावु स्वभावतः सुमेधाः ॥
पे ॥
यथ नरु इह शङ्खशब्द श्रुत्वा विमृशति विद्व कुतो य प्रादुभूतः ।
न च लभति स्वभाव शून्यभावं तथ त्व् अय दृष्ट नरेन्द्र सर्वधर्माः ॥यथ नरु इह भोजनं प्रणीतं विमृशति अङ्गशु सिद्धम् अस्वभावम् ।
यथ रसु तथ ते ऽङ्ग तत्स्वभावास् तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥
यथ नरु इहेन्द्रयष्टि दृष्ट्वा विमृशति अङ्गशु निःस्वभाव शून्यम् ।
विमृशतु यथ यष्टि ते ऽङ्ग शून्यास् तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥पुरवर यथाङ्गशो विभज्य नगरु स्वभावतु नामतो न लब्धम् ।
यथ नगर तथाङ्ग सर्वशून्यास् तथ त्व् अय दृष्ट नरेन्द्र सर्वधर्माः ॥
मुदित यथ नराग मुक्त भेरी हर्ष जनेति स्वभावशून्यशब्दा ।
स्वरु यथ तथ ते ऽङ्ग तत्स्वभावं तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥
[ bendall ed p259 ---> ]
...
...
हनतु यथ नरस्य तां हि भेरीं प्रतिघु न विद्यति नापि स्नेहधातुः ।
विमृशतु भेरीव ते ऽङ्ग तत्स्वभावास् तथ त्व् अय दृष्ट नरेन्द्र सर्वधर्माः ॥हनतु यथ नरस्य तां हि भेरीं स्वरु न स मन्यति रामयामि लोकम् ।
स्वरु यथ तथ ते ऽङ्ग तत्स्वभावाः
[ cambridge ms f114b ---> ]
तथ त्व् अय दृष्ट नरेन्द्र सर्वधर्माः ॥
हनतु यथ नरस्य तस्य भेर्यां न पि स्वरु अङ्गशु नापि स स्वतन्त्रः ।
स्वरु यथ तथ ते ऽङ्ग तत्स्वभावास् तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥
पुनश् चोक्तं ।
सत्वारम्बणनायकेन कथिता मैत्री शुभाभावना ।
सत्वश् चास्य विभावितः सुविदितं निःसत्व सर्वं जगत् ।
तत्राइवं द्विपदोत्तमो ऽकलुषो निःसंशया मानसः ।
तेन त्वा सुगतं विभावितमतिं पूजेम पूजारिहम् ॥
दुष्खं चा सुगता [[दोउब्त्]] दशद्दिशिगतं नाइवं परीदृश्यते ।
[ bendall ed p260 ---> ]
सत्वेषू करुणा च नाम भणिता देवातिदेव त्वया ।
एवं भो जिनपुङ्गवा जिनमतं अज्ञात यथावतः ।
तेन त्वां द्विपदोत्तमा नरवराः पूजेम पूजारिहम् ॥
सत्वानाइव न दुष्खं शाक्यमुनिना यस्यापनीतं दुखं ।
जातास् ते मुदिताश् च हृष्टमनसो ऽरतीश् च तैर् नोदिताः ॥
एवं बुद्धनयं अचिन्तियनयं याथावतो जानतो ।
तस्मात् पूजिय त्वां नराण प्रवरं प्रायेम प्राप्तं फलं ॥
कायः कायविवर्जितेन मुनिना नासादितो मार्गतां ।
नाइवं ते स्मृतिनायका न भणिता नाइव प्रमुष्टा स्मृतिः ॥
उक्तं चो सुगतेन भावपथिमाः कायं गता भावनाः ।
एवं बुद्धनयं विदित्व सुगता पूजा कृता तायिनः ॥
भावेथः शमथं विपश्यनम् अयं मार्गं दुखा शान्तये ।
[ bendall ed p261 ---> ]
शान्तास् ते भगवन् सवासनमला येही जगत् क्लिष्यते ॥
शमथश् चाथ विपश्यना न च मला सर्वे ऽति शून्या मुने ।
अस्मिन् देवगणा न काङ्क्ष क्वचना पूजेन्तु त्वां नायकं ।
इत्य् आदि ॥
पुनर् उक्तं ।
शून्यं हि चक्षुश् चक्षुःस्वभावेन ।
यस्य च धर्मस्य स्वभावो न विद्यते सो ऽवस्तुकः ।
यो ऽवस्तुकः सो ऽपरिनिष्पन्नः यो ऽपरिनिष्पन्नः स नोत्पद्यते न निरुध्यते ।
पे ॥
यत् त्रिष्व् अप्य् अध्वसु नोपलभ्यते न तच् चक्षुर् नेन्द्रियं कथं तस्य व्यवहारो ज्ञेयः ।
तद् यथापि नाम रिक्तमुष्टिर् अलीकः ।
यावद् एव नाममात्रं नो तु खलु परमा-
[ cambridge ms f115a ---> ]
र्थतो रिक्तम् उपलभ्यते न मुष्टिः ।
एवं चक्षुश् चेन्द्रियं च रिक्ते मुष्टिसदृशम् अलीकम् असद्भूतं तुच्छं मृषामोषधर्मे बालोपलापनं मूर्खसंमोहनम् यावद् एव नाममात्रम् ॥
पुनर् अत्राइवाह ।
स्वप्नान्तरे महावृष्टिर् आस्रवाणां प्रवर्तना ।
दर्शिता ते महावीरास्रवोत्पत्तिपण्डिताः ॥
स्वप्ने यथा शिरश्छेदो दृष्टस् ते आस्रवक्षयः ।
दर्शितः सर्वविज्ञानां सर्वदर्शिन् नमो ऽस्तु ते ॥
अत्राइव च द्रुमेण किन्नरराजेन भगवान् पृष्टः प्रत्याह ।
यद् वदसि शून्यतां च व्याकरणं ।
चाप्य् अहं न जानामि ।
स्याद् यदि किंचिद् अशून्यं न भवेज् जिनेनास्य व्याकरणम् ॥
किंकारणं ।
तथा हि ।
स्थितं भवेत् तत् स्वके भवे ।
कूटस्थनिर्विकारं ।
न तस्य वृद्धिर् न परिहाणिः ।
न क्रिया न च कारणं ।
यत् स्वभावशून्यम् आदर्शमण्डले सुपरिशुद्धे संदृश्यते प्रतिबि-
[ bendall ed p262 ---> ]
म्बम् ।
तथाइव द्रुम जानीहीमान् धर्मान् ।
अविकारं धर्मधातुम् इमां च पूजां द्रुमाङ्गशो विचारयसि ।
अङ्गशो निरीक्ष्य पूजां ।
कतमे ऽविकारिणो ऽङ्गाः ॥
यद् अपि च निरीहकत्वं क्रियां च न जानसे मया प्रोक्तं ।
शकटाङ्ग संनिपातं निरीक्ष्व शकटस्य चाइव क्रियां ॥
कर्म च मे आख्यातं कर्ता न विद्यते दशसु दिक्षु ।
वातेरिताद् इव तरोर् यथा हि निवर्तते वह्निः ॥
न च मारुतो न च तरुश् चेतयति हुताशनं च यजने ।
न निवर्तते वह्निस् तथाइव कर्मस्य कर्तारः ॥
यद् अपि वदसे न च संचय पुण्यस्य हि विद्यते ।
सुचरितस्य समुदागमश् च ।
बोधिस् तस्यापि शृणु क्रमन्त त्वं ।
यथा भणसि मनुष्याणाम् आयुःपरिमाणं वर्षशतं जीविन् ।
न चास्ति वर्षपुञ्जी ।
अयम् अपि समुदागमस् तद्वद् इति ॥
भगवत्याम् अप्य् उक्तं ।
किं पुनर् आयुष्मन् सुभूते उत्पन्नो धर्मोत्पद्यते उतानुत्पन्नः ।
सुभूतिर् आह ।
नाहम् आयुष्मन् शारिपुत्रोत्पन्नस्य धर्मस्योत्पत्तिम् इच्छा-
[ cambridge ms f115b ---> ]
मि न चानुत्पन्नस्येति ॥
[ bendall ed p263 ---> ]
धर्मसंगीत्याम् अप्य् उक्तं ।
तथता तथतेति कुलपुत्र शून्यतायाइतद् अधिवचनं ।
सा च शून्यता नोत्पद्यते न निरुध्यते ।
आह ।
यद्य् एवं धर्माः शून्योक्ता भगवता तस्मात् सर्वधर्मा नोत्पत्स्यन्ते न निरोत्स्यन्ते ।
निरारम्भो बोधिसत्वः ।
आह ।
एवम् एव कुलपुत्र तथा यथाभिसंबुध्यसे सर्वधर्मा नोत्पद्यन्ते न निरुध्यन्ते ।
आह ।
यद् एतद् उक्तं भगवता ।
संस्कृता धर्मोत्पद्यन्ते निरुध्यन्ते चेत्य् अस्य तथागतभाषितस्य को ऽभिप्रायः ।
आह ।
उत्पादनिरोधाभिनिविष्टः कुलपुत्र लोकसंनिवेशः ।
तत्र तथागतो महाकारुणिको लोकस्योत्त्रासपदपरिहारार्थं व्यवहारवशाद् उक्तवान् उत्पद्यन्ते निरुध्यन्ते चेति ।
न चात्र कस्यचिद् धर्मस्योत्पादो न निरोधेति ॥
पुनर् अत्र एवोक्तं ।
तत्र भगवंश् चक्षूरूपेषु न रणति श्रोत्रं ।
शब्देषु ।
यावन् मनोधर्मेषु न रणति ।
स धर्मः ।
तत्र कथं चक्षूरूपेषु न रणति ।
संसर्गाभावात् ।
न हि चक्षूरूपेण संसृज्यते ।
यावन् न मनोधर्मेण संसृज्यते ।
यन् न संसृज्यते तन् न रणति ।
अद्वितीयस्य भगवन् धर्मस्य रणं नास्ति ।
अद्वितीयाश् च भगवन् सर्वधर्माः परस्परं न जानन्ति न विजानन्ति ।
न कल्पयन्ति न विकल्पयन्ति ।
न संभवन्ति न विसंभवन्ति ।
न हीयन्ते न वर्द्धन्ते ।
न रज्यन्ति ।
न विरज्यन्ति ।
न संसरन्ति न परिनिर्वान्ति नाइते कस्यचित् ।
नाइषां कश्चित् ।
नाइते भगवन् धर्मोद्विजन्ते न संक्लिश्यन्ते न व्यवदायन्ते ।
एवम् अहं भगवन् जानाम्य् एवम् अवबुध्ये ।
यद् अप्य् अहं ।
भगवन्न् एवं वदामि ।
एवम् अहं जानाम्य् एवम् अहं बुध्यामीति ।
आयतनानाम् एष विकारः ।
न च भगवन्न् आयतनानाम् एवं भवति ।
अस्माकम् एष विकारेति ।
यो ह्य् एवं जानाति स न केनचित् सार्द्धं विवदति ।
यन् न विवदति तच् छ्रमणधर्मम् अनुसरतीति ।
तथा धर्मदर्शनं-
[ cambridge ms f116a ---> ]
बुद्धदर्शनं सर्वसत्वदर्शनं सर्वसत्व-
[ bendall ed p264 ---> ]
हेतुप्रत्ययदर्शनं शून्यतादर्शनं शून्यतादर्शनम् अदर्शनं ।
अदर्शनं भगवन् सर्वधर्माणां दर्शनं सम्यग्दर्शनम् इति ॥
कथम् अनधिष्ठाना संवृतिर् युक्ता ।
कथं पुनर् अयुक्ता ।
यथासति स्थाणौ पुरुषभ्रान्तिः ।
कस्य पुनः शून्यतावादिनः परमार्थतः स्थाणुः सिद्धो यदाश्रयात् पुरुषभ्रान्तिः स्याद् ।
अमूलाइव च सर्वधर्मास् तत्वतो मूलानुपपत्तेः ॥
तथा चोक्तम् आर्यविमलकीर्तिनिर्देशे ।
अभूतपरिकल्पस्य किं मूलं ।
आह ।
विपर्यस्ता संज्ञा मूलं ।
आह ।
विपर्यस्तायाः संज्ञायाः किं मूलं ।
अप्रतिष्ठानं मूलं ।
आह ।
अप्रतिष्ठायाः किं मूलं ।
आह ।
यन् मञ्जुश्रीर् अप्रतिष्ठानं न तस्य किञ्चिन् मूलम् इति ह्य् अप्रतिष्ठानमूलप्रतिष्ठिताः सर्वधर्मेति ॥
इयं समासतः प्रज्ञापारमिता चित्तशुद्ध्यर्थिना भावयितव्या ।
भावयित्वा च क्लेशरिपुरणकुशलेन भवितव्यं ।
न स्वगृहशूरेण ॥
यथोक्तम् आर्यधर्मसंगीतिसूत्रे ।
न शून्यतावादी लोकधर्मैः संह्रियते ऽनिश्रितत्वात् ।
न स लाभेन संहृष्याति ।
अलाभेन न विमना भवति ।
यशसा न विस्मयते ऽयशसा न संकुचति ।
निन्दया नावलीयते ।
प्रशंसया नानुनीयते ।
सुखेन न रज्यते दुष्खेन न विरज्यते ।
यो ह्य् एवं लोकधर्मैर् न संह्रियते स शून्यतां जानीतए इति ॥
तथा शून्यतावादिनो न क्वचिद् अनुरागो न विरागः ।
यस्मिन् रज्येत तच् छून्यम् एव जानीते ।
शून्यम् एव पश्यति ।
नासौ शून्यतां जानीते यः क्वचिद् धर्मे रज्यते वा विरज्यते वा तथा नासौ शून्यतां जानीते यः केनचित् सार्द्धं विग्रहं विवादं वा कुर्याच् छून्यम् एव जानीते तच् छून्यम् एव पश्यतीत्य् आदि ॥
एतत् संक्षेपाच् चित्तशोधनम् ॥
[ bendall ed p265 ---> ]
अथाइवम् अपि परमविशुद्धिर् धर्मदर्शने सति ।
इह पञ्चकषायसंक्लिष्टस्य कल्याणमित्रावसादितस्य वा संक्षेपेण तावत् कुत्र
[ cambridge ms f116b ---> ]
यत्नं कृत्वा शीघ्रं चित्तशुद्धिर् भवति ।
आत्मबहुमानपरावज्ञात्यागे ऽनयोर् मूलम् आत्मसत्वदृष्टिः ।
सा चाइतदभ्यासात् सुकरं प्रहीयतए इति परगौरवम् आत्मावज्ञा चाइवं भावनीया ॥
यदि सत्वो यदि स्कन्धाः क्षमता सर्वथा स्थिता ।
एकस्य हि परात्मत्वं विरुद्धं संभवेत् कथं ॥
विनालम्बनम् अप्य् एतद् आचरन्त्य् एव देहिनः ।
अनादिकल्यानाभ्यासात् किम् अभ्यासस्य दुष्करम् ॥
एवम् अभ्यासवश्यत्वे तुल्ये कस्मात् सुखोदयम् ।
परगौरवम् उत्सृज्य स्वसुखायान् यद् इष्यते ॥
चिन्तामणिर् यथोक्ताश् च सन्ति गौरवहेतवः ।
न तु मे गौरवात् सौख्यम् इहापि जनदुर्भगात् ॥
तस्मात् सत्वान्तरे यद्वद् रूक्षमत्सरमानिनः ।
आत्मस्नेहवतो वृत्तिर् भावयेत् तद्विपर्ययम् ॥
आत्मनो बहुमानो ऽयं स्तुतिनिन्दादिसेकतः ।
वर्धते नारकवशात् सेकान् नरकवह्निवत् ॥
[ bendall ed p266 ---> ]
शब्दस् तावद् अचित्तत्वान् मां स्तौतीति न संभवः ।
परः किल मयि प्रीतेत्य् अयं मे मतिभ्रमः ॥
तत्तुष्ट्याइव मम प्रीतिः सामान्ये न सदा अस्तु सा ।
तत्सुखेन न चेत् कार्यं तेन तुष्टेन किं मम ॥
अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया ।
न मे परेण तुष्टेन काये सौख्यम् इहाण्व् अपि ॥
एवं ज्ञात्वा प्रहातव्या कल्पना निर्विबन्धना ।
अकीर्तिनिन्दा सत्काराइवं ज्ञेयाश् च निष्फलाः ॥
न धर्मो नायुर् आरोग्यं न बलं वन्दनादिभिः ।
यद्वद् उत्प्रास्यमानस्य विकारैर् अन्यकायिकैः ॥
हृष्टस्याथ विषण्णस्य लाभालाभौ समोदयौ ।
विवर्ज्य निष्फलं तस्माद् भवेयं शैलमानसः ॥
संस्तवत्यागाच् च शीघ्रं चित्तविशुद्धिर् भवति ।
इति ॥
तत्रापि चिन्त्यते ।
निमित्तोद्ग्रहसंभूता प्रत्यभिज्ञा पुनः पुनः ।
उत्पादयत्य् अनुनयं जायते प्रतिघो ऽप्य् अतः ॥
प्रतिघानुनयौ यस्य तस्य पापम् अवारितम् ।
अभ्याख्यानानि चित्राणि मात्सर्यं चेर्ष्यया सह ॥
[ bendall ed p267 ---> ]
लाभादिकामता नामेत्य् आद्य् आवर्तते बहु ।
तस्मात् सर्वप्रयत्नेन संस्तवं प्र-
[ cambridge ms f117a ---> ]
हरेन् मुनिः ॥ सादृश्याद् अन्यद् अप्य् एतद् वारिस्रोतोवद् ईक्ष्यते ।
तद् एवेदम् इति भ्रान्त्या तत्वे तिष्ठाम्य् अतो बलात् ॥
अवस्तु चाइतत् सादृश्यं दुष्खं च जनयिष्यति ।
अहं चाइतच् च सर्वं च न चिरान् न भविष्यति ।
इति ॥
आत्मभावपरिशुद्धिश् चतुर्दशः परिच्छेदः ॥
भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः ॥
शिक्षासमुच्चयस्यात्मशुद्ध्यनन्तरं भोगशुद्धिः संचयाभावात् ।
पृथग् इह लेखिता ।
भोगशुद्धिं च जानीयात् सम्यगाजीवशोधनात् ॥
यथोक्तम् आर्योग्रपरिपृच्छायाम् ।
इह गृहपते गृही बोधिसत्वो धर्मेण भोगान् पर्येषते नाधर्मेण ।
समेन न विषमेण ।
सम्यगाजीवो भवति न विषमाजीवेति ॥
आर्यरत्नमेघे ऽप्य् उक्तं ।
न बोधिसत्वो दायकं दानपतिं दृष्ट्वेर्यापथम् आरचयति ।
कथं नेर्यापथम् आरचयति ।
न शनैर् मन्दं मन्दं क्रमान् उत्क्षिपति न निक्षिपति युगमात्रप्रेक्षिकया सविश्व-
[ bendall ed p268 ---> ]
स्तप्रेक्षिकयानाभोगप्रेक्षिकया ।
एवं कायकुहनां न करोति ।
कथं वाक्कुहनां न करोति ।
न बोधिसत्वो लाभहेतोर् लाभनिदानं मन्दभाणी मृदुभाणी न प्रियभाणी भवति ।
नानुवर्तनवचनानि निश्चारयति ।
पे ॥कथं न चित्तकुहनां कुरोति ।
बोधिसत्वो दायकेन दानपतिना वा लाभेन प्रवार्यमाणो वा चाल्पेच्छतां दर्शयति ।
चित्ते न स्पृहाम् उत्पादयति ।
अन्तर्दाहाइष कुलपुत्र यद् वाचाल्पेच्छता चित्तेन लाभकामता ।
एवं हि कुलपुत्र बोधिसत्वः कुहनलपनलाभापगतो भवति ।
पे ।
न बोधिसत्वो दानपतिं वा दृष्ट्वा निमित्तं करोति ।
विघातो मे चीवरेण ।
विघातो मे पात्रेण ।
विघातो मे ग्लानभैषज्येन ।
न च तं दायकं दानपतिं वा किंचित् प्रार्थयते ।
न वाचं निश्चारयति ।
एवं हि बोधिसत्वो निमित्तलाभापगतो भवति ।
यावन् न बोधिसत्वो दायकं दानपतिं दृष्ट्वाइवं वाचं निश्चारयति ।
अमुकेनामु-
[ cambridge ms f117b ---> ]
केन वा मे दानपतिनामुकं वस्तु प्रतिपादितं तस्य च मयामुकोपकारः कृतः ।
तेन मे शीलवान् अयम् इति कृत्वेदं चेदं च दत्तं बहुश्रुतेति ।
अल्पेच्छेति कृत्वा ।
मया च तस्य कारुण्यचित्तम् उपस्थाप्य परिगृहीतं ।
पे ॥
तत्र कायक्षतिर् यद् उत लाभहेतोर् लाभनिदानम् आधावनपरिधावनं दौःशील्यसमुदाचरणं च ।
चित्तक्षतिर् यद् उत प्रार्थना ।
[ bendall ed p268 ---> ]
लाभिनां च ब्रह्मचारिणाम् अन्तिके व्यापादबहुलता ।
एवं हि बोधिसत्वो विषमपर्येष्टिलाभापगतो भवति ।
पे ॥
इह बोधिसत्वो न तुलाकूटेन न मानकूटेन न विस्रंभघातिकया न धूर्ततया लाभम् उपार्जयति ।
एवं हि बोधिसत्वो ऽधर्मलाभापगतो भवति ।
पे ।
ये ते लाभा स्तौपिकसंसृष्टा वा धार्मिकसंसृष्टा वा सांघिकसंसृष्टा वादत्ता वाननुज्ञाता वा ।
तान् न प्रतीच्छति न स्वीकरोति ।
एवं हि बोधिसत्वो ऽपरिशुद्धलाभापगतो भवति ।
यावल् लब्धा लाभं न ममायते ।
न धनायते ।
न संनिधिं करोति ।
कालानुकालं च श्रमणब्राह्मणेभ्यो ददाति ।
मातापितृमित्रामात्यज्ञातिसालोहितेभ्यः कालानुकालम् आत्मना परिभुङ्क्ते परिभुञ्जानश् चारक्तः परिभुङ्क्ते ।
स्वनध्यवसितो न चालभ्यमाने लाभे खेदचित्तम् उत्पादयति ।
न परितप्यति न च दायकदानपतीनाम् अन्तिके ऽप्रसादचित्तम् उत्पादयतीत्य् आदि ॥
तत्राइषाप्य् अस्य बोधिसत्वस्य भोगशुद्धिर् आत्मभावशुद्धिवत् परहिताय भवेत् ॥
यथोक्तम् आर्यविमलकीर्तिनिर्देशे ।
पुनर् अपरं भदन्त शारिपुत्र ये प्रविशन्तीदं गृहं तेषां समनन्तरप्रविष्टानां सर्वक्लेशा न बाधन्ते ऽयं द्वितीयाश्चर्याद्भुतो धर्मः ॥
पुनर् अत्राइवोक्तं ।
अथ ततो भोजनात् सर्वावती सा पर्षत् तृप्ता भूता ।
न च तत् भोजनं क्षीयते ।
यैश् च बोधिसत्वैः श्रावकैश् च शक्रब्रह्मलोकपालैस् तद् अन्यैश् च सत्वैस् तद् भोजनं भुक्तं तेषां ता-
[ bendall ed p270 ---> ]
दृशं सुखं काये ऽवक्रान्तं यादृशं सर्व-
[ cambridge ms f118a ---> ]
सुखमण्डितायां लोकधातौ बोधिसत्वानां सुखं ।
सर्वरोमकूपेभ्यश् च तेषां तादृशो गन्धः प्रवाति ।
तद् यथापि नाम तस्याम् एव सर्वगन्धसुगन्धायां लोकधातौ वृक्षाणां गन्धः ॥
पुनश् चोक्तं ।
यैश् च भदन्तानन्द भिक्षुभिर् अनवक्रान्तनियामैर् एतद् भोजनं भुक्तं तेषाम् एवावक्रान्तनियमानां परिणंस्यति ।
पे ।
यैर् अनुत्पादितबोधिचित्तैः सत्वैः परिभुक्तं तेषाम् उत्पादितबोधिचित्तानां परिणंस्यति ।
यैर् उत्पादितबोधिचित्तैर् भुक्तं तेषां नाप्रतिलब्धक्षान्तिकानां परिणंस्यतीति विस्तरः ॥
शून्यताकरुणा गर्भचेष्टितात् पुण्यशोधनम् ॥
उक्तं ह्य् आर्यगगनगञ्जसूत्रे ।
यद् उताहंकारविशुद्धं तद् दानं ददाति ।
ममकारविशुद्धं तद् दानं ददाति ।
हेतुविशुद्धं तद् दानं ददाति ।
दृष्टिविशुद्धं तद् दानं ददाति ।
निमित्तविशुद्धं तद् दानं ददाति ।
नानात्वविशुद्धं तद् दानं ददाति ।
विपाकप्रतिकाङ्क्षणाविशुद्धं तद् दानं ददाति ।
यथा गगनं समविशुद्धं तद् दानं ददाति ॥
पे ।
यथा गगनम् अपर्यन्तम् एवम् अपर्यन्तीकृतेन चित्तेन तद् दानं ददाति ।
यथा गगनं विस्तीर्णम् अनावरणम् एवं बोधिपरिणामितं तद् दानं ददाति ।
यथा गगनम् अरूपि एवं सर्वरूपानिश्रितं तद् दानं ददाति ।
यथा गगनम् अवेदयितृ ।
एवं सर्ववेदितप्रतिप्रस्रब्धं दानं ददाति ।
एवम् असंज्ञि असंस्कृतम् अविज्ञप्तिलक्षणम् एवम् अप्रतिज्ञानं तद् दानं ददाति ।
यथा गगनं सर्वबुद्धक्षेत्रस्फरणम् एवं सर्वसत्वमैत्रीस्फरणं तद् दानं ददाति ।
पे ।
यथा गगनं सदाप्रकाशम् एवं चित्तप्रकृतिविशुद्धं तद् दानं दद-ति ।
यथा गगनं सर्वसत्वावकाशं एवं सर्वसत्वोपजीव्यं तद् दानं ददाति ।
यावद् यथा निर्मितो निर्मिताय ददाति निर्विकल्पो ऽनाभोगः ।
चित्तमनोविज्ञानविगतः सर्वधर्मनिःप्रतिकाङ्क्षी ।
एवं द्वयविगमतया मायालक्ष-
[ bendall ed p271 ---> ]
णस्वभावविशुद्धं बोधिसत्वस् तद् दानं ददाति ।
यस्येदृशो दानपरित्यागः प्रज्ञाज्ञानेन च सर्वसत्व-
[ cambridge ms f118b ---> ]
क्लेशपरित्यागः ।
उपायज्ञानेन च सत्वापरित्यागः ।
एवं त्यागचित्तः कुलपुत्र बोधिसत्वो गगनसमदानो भवति ॥
आर्याक्षयमतिसूत्रे ऽप्य् उक्तं ।
नास्ति सत्वोत्पीडनादानम् ।
यावन् नास्ति यथोक्ते ऊनदानं ।
यावन् नास्ति सर्वसत्वेषु दक्षिणीयावमन्यनादानं ।
पे ।
नास्ति निक्रन्ददानं यावन् नास्ति याचनकेषूपतप्तदानं नास्त्य् उच्चग्घन*उल्लापनदानं नास्ति पराङ्मुखदानं नास्त्य् अपविद्धदानं नास्त्य् अस्वहस्तदानं ।
पे ।
नास्त्य् अकल्पिकदानं ।
नास्त्य् अकालदानं नास्ति विषशस्त्रदानं नास्ति सत्वविहेठनादानम् इति ॥
यत् तर्ह्य् उग्रपरिपृच्छायाम् उक्तं ।
दानपारमिताकालो ऽयं यस्य येनार्थस् तस्य तत्प्रदानकालः ।
अपि तु तथाहं करिष्यामि ।
मद्यपेभ्याइव मद्यपानं दास्यामि ।
तांस् तान् स्मृतिसंप्रजन्ये समादापयिष्यामीति ॥
मद्यपानाद् अपि नैराश्यकृते बोधिसत्वे प्रतिघो गरीयान् ।
सत्वसंग्रहहानिश् चातो ऽन्यप्रसादनोपायासंभवे मद्यं देयम् इत्य् अभिप्रायः ।
शस्त्रादिष्व् अपि यद्य् अनुबधगुरुलाद्यवविचाराद् दानम् आपद्येत ।
नाइवापत्तिर् इत्य् अताइव गम्यते ।
सूत्रेषु तु सामान्येन प्रतिषेध ।
इत्य् उक्ता दानविशुद्धिदिक् ॥
शीलविशुद्धिर् आर्यगगनगञ्जसूत्रे एवाभिहिता ।
अविरहितबोधिचित्तता चित्तविशुद्ध्यै अपगतश्रावकप्रत्येकबुद्धचित्तता प्रामाणिकविशुद्ध्यईत्य् आदि ॥
[ bendall ed p272 ---> ]
पुनर् अपरा शीलविशुद्धिः ।
शुद्धं गगनं शुद्धं तच्छीलं ।विमलं गगनं विमलं तच्छीलं ।
शान्तं गगनं शान्तं तच्छीलं ।
अनुन्नतं गगनम् अनुन्नतं तच्छीलं ।
अनुनीतं गगनम् अनुनीतं तच्छीलम् ।
यावद् अछेद्याभेद्यं गगनम् अछेद्याभेद्यं तच्छीलम् इत्य् आदि ॥
अप्रतिहतं गगनं सर्वसत्वाप्रतिघचित्तस्य क्षान्तिपरिशुद्धिः ।
समप्रयोगं गगनं सर्वसत्वसमचित्तस्य क्षान्तिपरिशुद्धिर् इत्य् आदि ॥
तद् यथापि स्यान् महाशालवनं ।
तस्मि-
[ cambridge ms f119a ---> ]
न् कश्चिद् एवागत्य शालं छिन्द्यात् ।
तत्र तेषाम् अवशिष्टानां नाइवं भवति ।
एष छिन्नो वयम् अच्छिन्नेति ।
न तेषाम् अनुनयो न प्रतिघः ।
न कल्पो न विकल्पो न परिकल्पः ॥
याइवं क्षान्तिर् इयं बोधिसत्वस्य परमा गगनसमा क्षान्तिर् ।
इति ॥
आर्यरत्नचूडसूत्रे विस्तरम् उक्त्वाह ।
इदम् उच्यते वीर्यं ।
तस्य कायपरिशुद्धिः ।
यत् कायस्य प्रतिभासप्रतिबिम्बज्ञानं वाचो ऽनभिलाप्यज्ञानं ।
चित्तस्यात्यन्तोपशमज्ञानं ।
तथा मैत्रीसंनाहसंनद्धो महाकरुणाधिष्ठानप्रतिष्ठितः ।
सर्वाकारवरोपेतं शून्यताकाराभिनिर्हृतं ध्यानं ध्यायति ।
तत्र कतमा सर्वाकारवरोपेता शून्यता ।
या न दानविकला ।
यावन् नोपायविकला ।
न महामैत्रीमुदितोपेक्षाविकला ।
न सत्यज्ञानावतारविकला ।
न बोधिचित्तसत्वापेक्षाविकला ।
नाशयाध्याशयप्रयोगविकला ।
न दानप्रियवद्यतार्थक्रिया समानार्थताविकला ।
न स्मृतिसंप्रजन्यविकला ।
न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गाष्टाङ्गमार्गविकला न शमथविपश्यनाविकला ।
पे ।
उपशान्ता च स्वभावेन ।
[ bendall ed p273 ---> ]
अनुपशान्ता च कर्मक्लेशेषु ।
उपेक्षिका च सर्वधर्माणां ।
अवेक्षिका च बुद्धधर्माणां ।
जहा च स्वलक्षणेन ।
विक्रान्ता चाधिष्ठानकार्यतया ।
अव्यापृता च स्वरसेन ।
सदा व्यापृता च बुद्धकार्येषु ।
शीतीभूता चोपशमेन ।
सदोज्ज्वलिता च सत्वपरिपाके ।
इयम् उच्यते सर्वाकारवरोपेता शून्यता ॥
यावद् इयं कुलपुत्र ध्यानपारमिता चर्यापरिशुद्धिर् इति ॥
एतेन प्रज्ञापरिशुद्धिर् वेदितव्या ।
एवं सर्वपुण्येष्व् इति ॥
तथार्यविमलकीर्तिनिर्देशे ऽप्य् उक्तं ।सद्धर्मचक्रप्रवर्तनमहापरिनिर्वाणसंदर्शनगोचरश् च बोधिसत्वचर्यात्यजनगोचरश् चायम् अपि बोधिसत्वस्य गोचर ।
इति ॥भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः ॥
भद्रचर्याविधिः षोडशः परिच्छेदः ॥
इदानीं त्रयाणाम् अपि वृद्धिर् वा-
[ cambridge ms f119a ---> ]
च्या ॥
किम् अर्थं ।
ग्रहीतारः सुबहवः स्वल्पं चेदम् अनेन किं ।
न चातितृप्तिजनकं वर्धनीयम् इदं ततः ॥अतितृप्ति बुद्धत्वं ।
तन् न श्रावकसाधारणेन शुद्धिमात्रेण सत्वानां जन्यतए इत्य् अर्थः ।
आत्मभावस्य का वृद्धिर् बलानालस्य वर्धनं ॥
[ bendall ed p274 ---> ]
तत्रार्यरत्नमेघे बलम् उक्तं ।न स सत्वः सत्वनिकाये संविद्यते यो बोधिसत्वस्य बलेन बलं मर्दयेद् इत्य् आदि ॥
तस्य कथं वर्धनम् ।
यद् उक्तम् आर्यतथागतगुह्यसूत्रे आर्यवज्रपाणेर् बलदर्शनविस्मिताजातशत्रुपृष्टेन भगवता ।
दशभिर् महाराज धर्मैः समन्वागतो बोधिसत्वाइवंरूपां बलवत्तां प्रतिलभते ।कतमैर् दशभिः ।
इह महाराज बोधिसत्वः कायं जीवितं च परित्यजति ।
न च पुनः सद्धर्मं परित्यजति ।
सर्वसत्वानां चावनमति न च पुनर् मानं बृंहयति ।
दुर्बलानां च सत्वानां क्षमते ।
न प्रतिघं करोति ।
जिघत्सितानां च सत्वानाम् अग्रं वरभोजनं ददाति ।
भीतानां च सत्वानाम् अभयं ददाति ।
ग्लानानां च सत्वानां भूतचिकित्सायै उत्सुको भवति ।
दरिद्रांश् च सत्वान् भोगैः संतर्पयति ।
तथागतचैत्ये च सुधापिण्डलेपनं करोति ।
आनन्दवचनं सत्वानां श्रावयति ।
दरिद्रदुष्खितानां च सत्वानां भोगसंविभागं करोति ।
श्रान्तक्लान्तानां च सत्वानां भारं वहति ।
एभिर् महाराज दशभिर् इति ॥
[ bendall ed p275 ---> ]
अनालस्यवर्धनं कतमत् ।
यद् वीर्यवर्धनं ।
यथोक्तं सागरमतिसूत्रे ।
आरब्धवीर्येण सागरमते बोधिसत्वेन भवितव्यं सदा दृढपराक्रमेण ।
तीव्रच्छन्देन बोधिसत्वेन भवितव्यम् अनिक्षिप्तधुरेण ।
आरब्धवीर्याणां हि सागरमते बोधिसत्वानां न दुर्लभा भवत्य् अनुत्तरा सम्यक्संबोधिः ।
तत् कस्य हेतोः ।
यत्र सागरमते वीर्यं तत्र बोधिः ।
कुसीदानां पुनः सुदूरविदूरे बोधिः ।
नास्ति कुसीदस्य दानं यावन् नास्ति प्रज्ञा
[ cambridge ms f120a ---> ]
नास्ति कुसीदस्य परार्थेति ॥
चन्द्रप्रदीपसूत्रे ऽप्य् आह ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
