Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
शिक्षासमुच्चय (bản khác)
- Tác giả
- शान्तिदेव
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
उत्पलं वारिमध्ये वा सो ऽनुपूर्वेण वर्धतए ।इत्य् आदि ॥
इयं संक्षेपाद् आत्मभाववृद्धिः ॥
शून्यता करुणागर्भाद् दानाद् भोगस्य वर्धनं ॥
यथोक्तं वज्रच्छेदिकायां ।
यो बोधिसत्वो ऽप्रतिष्ठितो दानं ददाति ।
तस्य पुण्यस्कन्धस्य न सुकरं प्रमाणम् उद्ग्रहीतुम् इति ॥
महत्याम् अपि प्रज्ञापारमितायाम् उक्तं ।
पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेनाल्पम् अपि दानं ददता सर्वसत्वेषु सर्वाकारज्ञतायाम् उपायकौशल्यपरिणामनतायाम् अप्रमेयम् असंख्येयं कर्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम् ।
तथा सर्वसत्वानां मनोरथान् परिपूरयितुकामेन ।
यावज् जातरूपरजतोद्यानराज्यादिभिर् उपकरणैः प्रज्ञापारमितायां शिक्षितव्यम् इति ॥
[ bendall ed p276 ---> ]
विना च करुणया न बोधिसत्वानां किंचिच् चेष्टितम् इति वक्ष्यामः ।
इति संक्षेपाद् भोगवृद्धिः ॥
पुण्यवृद्धिः सर्ववृद्धीनां मूलम् इति तदर्थं परिकरबन्धोच्यते ॥
कृत्वादाव् एव यत्नेन व्यवसायाशायौ दृढौ ।
करुणां च पुरस्कृत्य यतेत शुभवृद्धये ॥
चित्तशुद्धिकालभावितानां व्यवसायादीनां प्रयोगारम्भे पुनर् आमुखीकरणेन दृढतापादनार्थः श्लोकः ।
कृत्वेत्य् आदिपूर्वकाइव ॥
आसन्नयुद्धकालानां अस्त्रकौशल्यादरवत् प्रयोगसमकालं दृढीकरिष्यामीति शैथिल्यनिवारणार्थम् आदिग्रहणम् ।
तत्र कथं व्यवसायं दृढीकरोति ॥
यथार्यसुधनार्यमैत्रेयम् उपसंप्रक्रान्तः सम्यक्चर्यानिःसमर्थः ।
पूर्वान्तकोटीगतकायप्रणामः कायसमन्वाहारेण कायबलं दृढीकुर्वाणः ।
पूर्वान्तकोटीगतकाय चित्तपरिशुद्धिनिष्कारणसांसारिकचित्तप्रचारसमन्वाहारेण चित्तमनसिकारं निगृह्णन् ।
पूर्वान्तकोट्य्-अस-
[ bendall ed p277 ---> ]
त्कर्मलौकिककार्यप्रयुक्तनिष्प्रयोजनपरिस्यन्दसमन्वाहारेण प्रत्युत्पन्नप्रयोजनमहासामर्थ्यं विचिन्तयन् ।
पूर्वान्ताभूतपरिकल्पसमुत्थितवितथसंकल्पसंदर्शित-
[ cambridge ms f120b ---> ]
मनसिकारसमन्वाहारेण सर्वबोधिसत्वचर्यासम्यक्संकल्पाभिसंस्कारबलं समुत्थापयन् ।
अतीतात्मभावार्थप्रयोगारम्भविषमतासमन्वाहारेण सर्वसत्वारम्भवैशेषिकतयाध्याशयबलं दृढीकुर्वाणः ।
अतीतकायसमुदाचारनिरास्वादतासमन्वाहारेण ।
सर्वबुद्धधर्मप्रतिलाभप्रयोगमहाश्वासप्रतिलाभेन्द्रियवेगान् विवर्धयमानो ऽतीताध्वविपर्यासप्रयुक्तमिथ्याशयप्रयोगसमन्वाह्-रेण ।
प्रत्युत्पन्नाध्वसम्यग्दर्शनाविपर्याससंप्रयुक्तेन बोधिसत्वप्रणिधानसमादानेन संततिं परिशोधयन् ।
पूर्वान्तगतायोगवीर्यारम्भकार्यापरिनिष्पन्नार्यसमादानसमन्वाहारेण [[दोउब्त्]] ।
प्रत्युत्पन्नबुद्धधर्मसमुदागमप्रत्युपस्थानेन महावीर्यारम्भविक्रमेण कायचित्तसंप्रग्रहं संजनयमानः ।
पूर्वान्तकोटीपञ्चगत्यपायनिक्षिप्तात्मपरनिरुपकरणाख्यनिरुपजीव्यसमुच्छ्रयपरिग्रहसमन्वाहारेण ।
सर्वबुद्धधर्मोत्थापकसर्वजगदुपजीव्यसर्वकल्याणमित्रारागणसमर्थ्यात्मभावपरिग्रहणतया विपुलप्रीतिप्रामोद्यवेगान् विवर्धयमानः प्रत्युत्पन्नजन्माभिनिर्वृत्तं जराव्याधिमरणशोकाकरभूतं संयोगवियोगनिधानभूतं समुच्छ्रयं ।
अपरान्तकल्पकोटीगतबोधिसत्वचर्याचरणप्रयुक्तस्य सत्वपरिपाचनबुद्धधर्मपरिग्रहप्रयुक्तस्य तथागतसंदर्शनसर्व-
[ bendall ed p278 ---> ]
बुद्धक्षेत्रानुचरणसर्वधर्मभाणकोपस्थानसर्वतथागतशासनसमन्वाहरणप्रयुक्तस्य सर्वधर्मपर्येष्टिसहायभूतस्य सर्वकल्याणमित्रदर्शनसर्वबुद्धधर्मसमुदानयनप्रयुक्तस्य बोधिसत्वप्रणिधिज्ञानशरीरस्य हेतुप्रत्ययभूतम् अवलोक्याचिन्त्यकुशलमूलेन्द्रियवेगान् विव
र्धयमानेति ।
आर्याक्षयमतिनिर्देशे महायानसूत्रे ऽप्य् उक्तं ।
एको बोधिसत्वो ऽद्वितीयो ऽसहायो ऽनुत्तरायां सम्यक्संबोधौ
[ cambridge ms f121a ---> ]
संनाहं संनह्यति ।
स वीर्यबलपरिगृहीतेनाध्याशयेनापरावकाशास्वयंकारी ।
स्वबलबलोद्गतः ।
साइवं दृढसंनाहः संनद्धो ।
यत् किञ्चित् सर्वसत्वानां परिप्रापयितव्यं भविष्यति तद् अहं परिप्रापयिष्यामि ।
यत् सर्वार्याः सर्वनवयानसंप्रस्थिता बोधिसत्वा न परिप्रापयिष्यन्ति तद् अहं परिप्रापयिष्यामि ।
न मम दानं सहायकं ।अहं पुनर् दानस्य सहायः ।
न मम शीलक्षान्तिवीर्यध्यानप्रज्ञाः सहायिकाः ।
अहं पुनः शीलक्षान्तिवीर्यध्यानप्रज्ञानां सहायो ।
नाहं पारमिताभिर् उपस्थातव्यो मया पुनः पारमितोपस्थातव्याः ।
एवं संग्रहवस्तुषु सर्वकुशलमूलेषु चलेयम् ।
यावद् एकाकिना मयाद्वितीयेनासहायेन वज्रमये महीमण्डले स्थितेन सबलं सवाहनं मारं धर्षयित्वाइकचित्तक्षणसमायुक्तया प्रज्ञयानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्येति ॥
आर्यवज्रध्वजसूत्रे ऽप्य् आह ।
तद् यथापि नाम सूर्यो देवपुत्रोदयमानो न तिष्ठति ।
जा-
[ bendall ed p279 ---> ]
त्यन्धदोषेण ।
न तिष्ठति गन्धर्वनगरदोषेण ।
न तिष्ठति चतुर्द्वीपलोकधातुभूमिरजोदोषेण ।
न तिष्ठति राह्वसुरेन्द्रदोषेण ।
न तिष्ठति धूममण्डलदोषेण ।
न तिष्ठति जम्बूद्वीपक्लेशदोषेण ।
न तिष्ठति नानाछायादोषेण ।
न तिष्ठति विषमपर्वतदोषेण ।
एवम् एव बोधिसत्वो महासत्वः स्मृतिसंप्रजन्यविपुलगम्भीरचेतादीनसत्वो गुणचर्याज्ञानचर्यावसानं यावन् न विवर्तते सत्वद्रौहिल्यदोषैः ।
न विप्रवसति कुशलमूलपरिणामैः ।
सत्वदृष्टिकालुष्यदोषैर् न विवर्तते ।
सत्वक्षोभचेतोभिर् न दूरीभवति ।
सत्वविनष्टसंतत्या बोधिसंनाहं न विष्कम्भयति ।
सर्वजगत्परित्राणप्रणिधानस्य सत्वकलिकलुषैर् न स्रंसनां करोति यावद् बालज- [ बेन्दल्ल् एद् प्280 ---> ]
नसमवधानेन ।
न निर्विद्यते परसत्वदोषैश् च ।
तत् कस्य हेतोः ।
अनावरण-
[ cambridge ms f121b ---> ]
मण्डलम् एतद् उदयति ।
यद् उत सर्वजगद्विशुद्धिविनयाय ।
पे ॥
यश् च तेषां सर्वसत्वानां दुष्खस्कन्धो विविधं चावरणीयं कर्म समुत्थितं येन ते आवरणीयेन कर्मणा बुद्धान् न पश्यन्ति ।
धर्मं न शृण्वन्ति ।
संघं न जानन्ति ।
तद् अहं तेषां त्रिविधम् आवरणीयं कर्मोपचितं दुष्खस्कन्धेन स्वकेन शरीरेणोपाददामि तासु तासु नरकोपपत्तिष्व् अपायभूमिषु संवासेषु च ।
ते च सर्वसत्वास् ततश् च्यवन्तां ।
अहं च दुष्खोपादानम् उपाददामि व्यवस्याम्य् उत्सहे ।
न निवर्ते न पलायामि नोत्त्रस्यामि न संत्रस्यामि न बिभेमि न प्रत्युदावर्ते न विषीदामि ।
तत् कस्य हेतोः ।
अवश्यं निर्वाहयितव्यो मया सर्वसत्वानां भारो ।
नाइष मम कामकारः ।
सर्वसत्वोत्तारणप्रणिधानं मम ।
मया सर्वसत्वाः परिमोचयितव्या ।
मया सर्वजगत् समुत्तारयितव्यं ।
जातिकान्ताराज् जराकान्ताराद् व्याधिकान्ताराच् च्युत्युपपतिकान्तारात् सर्वापत्तिकान्तारात् सर्वापायकान्तारात् सर्वसंसारकान्तारात् सर्वदृष्टिगहनकान्तारात् कुशलधर्मप्रणाशकान्ताराद् अज्ञानसमुत्थितकान्तारात् तद् एते मया सर्वसत्वाः सर्वकान्तारेभ्यः परिमोचयितव्याः ।
तृष्णाजालसक्ताविद्यानिवरणावृता भवतृष्णासंप्रयुक्ताः प्रणाशपर्यवसाना दुष्खपञ्जरप्रक्षिप्ताश् चारकसंनिश्रिता ।
अबुधाः प्रतिज्ञाविरुद्धाः संशयभूताः सदा विमतयो ऽक्षेमदर्शिनः ।
अनिःशरणकुशला भवार्णवे आवर्तमण्डलाइकचरणाः ।
पे ॥
सर्वसत्वानाम् अनुत्तरज्ञानराज्यप्रतिष्ठापनार्थम् अहं चरामि ।
नाहं केवलम् आत्मपरिमोचनाभियुक्तः ।
सर्वसत्वा ह्य् एते मया सर्वज्ञताचित्तप्लवेन संसारदुर्गाद् धर्तव्या ।
महाप्रपाताद् अभ्युत्क्षेप्तव्याः ।
सर्वोपद्रवेभ्यः परिमोचयितव्याः ।
संसारस्रोतसः प्रतारयितव्यात्मना मया सर्वसत्वदु-
[ cambridge ms f122a ---> ]
ष्खस्कन्धो ऽध्यवसितः ।
यावद् उत्सहे ऽहं सर्वापायेषु सर्वलोकधातुपर्यापन्नेषु सर्वदुष्खवासम् अनुभवितुम् ।
न च मया सर्वसत्वाः कुशल-
[ bendall ed p281 ---> ]
मूलैर् वञ्चितव्याः ।
व्यवस्याम्य् अहम् एकाइकस्मिन्न् अपाये ऽपरान्तकोटीगतान् कल्पान् संवसयितुं ।
यथा चाइकापाये तथा सर्वापायनिरवशेषसर्वलोकधातुपर्यापन्नेषु सर्वसत्वपरिमोचननिदानं ।तत् कस्य हेतोः ।
वरं खलु पुनर् अहम् एको दुष्खितः स्यां न चेमे सर्वसत्वाः अपायभूमिप्रपतिताः ।
मया तत्रात्मा बन्धको दातव्यः ।
सर्वजगच् च निःक्रेतव्यं नरकतिर्यग्योनियमलोककान्ताराद् अहं च सर्वसत्वानाम् अर्थाय सर्वदुष्खवेदनास्कन्धम् अनेन स्वकेन शरीरेणानुभवेयम् ।
सर्वसत्वनिदानम् अहं च सर्वसत्वानां प्रातिभाव्यम् उत्सहे सत्यवादी प्रत्ययितो ऽविसंवादकः ।
न च मया सर्वसत्वाः परित्यक्ताः ।
तत् कस्य हेतोः ।
सर्वसत्वारम्बणो मम सर्वज्ञताचित्तोत्पादोत्पन्नो यद् उत सर्वजगत्परिमोचनाय ।
न चाहं रतिकामतयानुत्तरायां सम्यक्संबोधौ संप्रस्थितो नापि पञ्चकामगुणरत्यनुभवनाय नापि कामविषयनिषेवणाय ।
न चाहम् अन्योन्यकामधातुपर्यापन्नरतिव्यूहसमुदानयनाय चरामि बोधिसत्वचर्यां ।
तत् कस्य हेतोः ।
अरतयो ह्य् एषा सर्वलोकरतयः ।मारविषयाइष यद् उत कामविषयनिषेवणं ।
दुर्बुद्धिसेवितो ह्य् एष मार्गः ।सर्वबुद्धिविवर्णितो ह्य् अयम् उपदेशः यद् उत कामनिषेवणं ।अतश् चाइष सर्वदुष्खस्कन्धस्योत्पादाइव निषेवणं अताइव च नरकतिर्यग्योनियमलोकानाम् उ-
[ cambridge ms f122b ---> ]
त्पादः ।
कलहभण्डनविवादक्षोभाश् च सत्वानाम् अताइव प्रादुर्भवन्ति ।
एते च सत्वाः कामान् निषेवमाणाः बुद्धानां भगवतां सकाशाद् दूरीभवन्ति ।
स्वर्गोपपत्तेर् अप्य् एते कामान्तरायाय संवर्तन्ते ।
किं पुनर् अनुत्तरस्य ज्ञानराजस्य सर्वसत्वयोगक्षेमस्य ।
सो ऽहम् एवम् अप्रमाणदोषान् कामानां पश्यन् परीत्तान् आदीप्तांस् तस्माद् अहम् एतन् निदानम् अचरणतायां प्रतिपत्स्ये ॥
पे ॥तथा तथाइव मया कुशलमूलं परिणामयितव्यं यथा यथाइव सर्वसत्वात्यन्तसुखम् अवेदितसुखं यावत् सर्वज्ञतासुखं प्रतिलभेरन् ।
मया सारथिना मया परिणायकेन मयोल्काधारिणा मया क्षेमगतिदर्शकेन
[ bendall ed p282 ---> ]
मया क्षणगतिप्रतिलब्धेन मयोपायज्ञेन मयार्थविदुषा मया संसारसागरे सर्वज्ञज्ञानयानपात्रमहादेशस्थितेन मया परिणामनकुशलेन मया पारदर्शकेन ॥
पे ॥
न खलु पुनर् अस्मिंश् चातुर्महाद्वीपके लोकधातौ यावन्तः सत्वास् तावन्ताइव सूर्योदागच्छन्ति चातुर्द्वीपकलोकधात्ववभासनाय ।
अथ च पुनर् एकाइवाइषां सूर्योदागच्छति चतु-
[ cambridge ms f123a ---> ]
र्द्वीपावभासनाय ।
न च तेषां सत्वानां चतुर्द्वीपोपपन्नानां स्वकस्वकैः शरीरैर् अवभासः प्रादुर्भवति ।
येन ते दिवससंख्यां जानीयुः ।
स्वकार्यं वा परिप्रापयेयुः ।
सस्यानि वा परिपाचयेयुः ।
अहर् अहर् वोद्याननगरेषु रतिक्रीडापरिभोगम् अनुभवेयुः ।
दिशो वा पश्येयुः ।
गमनागमनं वा ग्रामनगरनिगमराष्ट्रराजधानीषु कुर्युः ।
व्यवहारकार्येषु प्रयुज्येरन् ।पे ।
अथ च पुनः सूर्यस्य देवपुत्रस्योदयताइकस्य सूर्यमण्डलस्याद्वितीयस्य चातुर्द्वीपके लोकधातौ सर्वसत्वानाम् अवभासः प्रादुर्भवति ।
एवम् एव बोधिसत्वस्य महासत्वस्य कुशलमूलान्य् उपार्पयमानस्य कुशलमूलं परिणामयमानस्याइवं चित्तम् उत्पद्यते ।
नाइतेषां सत्वानां तत् कुशलमूलं विद्यते येन ते आत्मानं परित्रायेरन् ।
कः पुनर् वादः परम् ।
अहं पुनः सर्वसत्वानां कृतशः कुशलमूलानि समुदानयामि कुशलमूलं परिणामयामि ।
यद् उत सर्वसत्वमोचनाय ।
सर्वसत्वानाम् अवभासनाय सर्वसत्वानां ज्ञापनाय सरव्सत्वानाम् अवतारणाय सर्वसत्वानां परिग्रहणाय सर्वसत्वानां परिनिष्पादनाय सर्वसत्वानां प्रसादनाय सर्वसत्वानां प्रह्लादनाय सर्वसत्वानां संशयच्छेदनायादित्यमण्डलकल्पैर् अस्माभिर् भवितव्यं ।
न परः प्रतिकाङ्क्षितव्यः ।
न परस्यावकाशम् उत्पाद्य सत्वेषु संनाहोत्स्रष्टव्यः ।
न च सर्वसत्वानाम् अन्तिकात् सर्वसत्वत्राणव्यवशायो-
[ bendall ed p283 ---> ]
निवर्तयितव्यः ।
न परिणामनायाः सर्वदुष्खहत्या विनिवर्तितव्यं ।
न परीत्तानि कुशलमूलानि परिग्रहीतव्यानि ।
न परीत्तया परिणामनया तुष्टिर् मन्तव्येत्य् आदि ॥
आर्याक्षयमतिसूत्रे ऽप्य् आह ।
स न कल्पगणनया बोधिं पर्येषते ।
इयतः कल्पान् संनत्स्यामि ।
इयतः कल्पान् संनत्स्यामीति ।
अपि तु खल्व् अचिन्त्यम् एव संनाहं संनह्यति ।
यावती पूर्वाकोटिः संसारस्य यद्य् एतावद् एकं रात्रिंदिवं भवेत् ।
एवंरूपै रात्रिंदिवैः पञ्चदशदैवसिकेन पक्षेण त्रिंशद्दैवसिकेन मासेन द्वादशमासिकेन संवत्सरेणानया वर्षगणनया यावद् वर्षशतसहस्रेणाइकं बोधिचित्तम् उत्पादयेयम् एकं च तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्येयं ।
अनेन प्रवेशेनानया गणनया गङ्गानदीवालुकासमैश् चित्तोत्पादैस् तथागतदर्शनैश् चाइकाइकस्य
[ cambridge ms f124a ---> ]
अपि सत्वस्य चित्तचरितं जानीयां ।
अनेनाइव प्रवेशेनानया गणनया सर्वसत्वानां तावद्भिश् चित्तोत्पादैस् तथागतदर्शनैः स्वचित्तचरितानि प्रजनीयाम् इत्य् अनवलीनः ।
संनाहो ऽयं बोधिसत्वस्याक्षयः संनाहः ।एवं दानादिषु बोधिपाक्षिकमहापुरुषलक्षणेषु च नयः ॥
आर्यरत्नमेघे ऽप्य् उक्तं ॥
न बोधिसत्वः सत्वखटुङ्कतां सत्वदुर्दान्ततां ज्ञात्वा ।
अलम् एभिः सत्वैर् एवं खटुङ्कैर् एवं दुर्दान्तैर् इति ।
ततो निदानं परिखिन्नः परापृष्ठीभूतः ।
परिशुद्धायां लोकधातौ प्रणिधानं करोति ।
यत्रेदृशानां सत्वानां नामापि न शृणुयात् ।
न च सत्वार्थवैमुख्यस्य बोधिसत्वपरिशुद्धायां लोकधाताव् उपपत्तिर् भवति ।
तत्र प्राज्ञो बोधिसत्वाइवं चि-
[ bendall ed p284 ---> ]
त्तम् उत्पादयति ।
तस्मात् सत्वधातोर् ये सत्वाः स्युः प्रत्यवरा धजडाइडमूकजातीयाः ।
अपरिनिर्वाणधर्मकाः कृत्स्ना सत्वधातौ न चिकित्सिताः सर्वबुद्धैः सर्वबोधिसत्वैश् च प्रत्याख्याताः ।
तेषां मदीये बुद्धक्षेत्रे संनिपातः स्यात् ।
तान् अहं सर्वान् बोधिमण्डे निषीद्यानुत्तरां सम्यक्संबोधिम् अभिसंबोधयेयं ॥
एवं हि बोधिसत्वस्य चिन्तय-
[ cambridge ms f124b ---> ]
तश् चित्तोत्पादे चित्तोत्पादे सर्वमारभवनानि प्रकम्पन्ते ।
सर्वबुद्धाश् चास्य वर्णवादिनो भवन्तीति ॥
एवं तावत् पुण्यवृद्धिकामेनाशयो दृढीकर्तव्यः ।
आशयदृढीकरणार्थम् अधुनोच्यते ।
किं पुनर् अनेन दृढीकृतेनेति ।
विमर्षनिरासाय धर्मसंगीतिसूत्रे गदितं ।आशये सम्यग् भगवन् बुद्धधर्माणां मूलं ।
यस्य पुनर् आशयो नास्ति सर्वे बुद्धधर्मास् तस्य दूरे ॥
आशयसंपन्नस्य पुनर् भगवन् यदि बुद्धा न भवन्ति गगनतलाद् धर्मशब्दो निश्चरति कुड्मवृक्षेभ्यश् च ।
आशयशुद्धस्य बोधिसत्वस्य स्वमनोजल्पाद् एव सर्वाववादानुशासन्यो निश्चरन्ति ।
तस्मात् तर्हि भगवन् बोधिसत्वेनाशयसंपन्नेन भवितव्यं ॥
तद् यथा भगवन् यस्य पादौ तस्य गमनं एवं भगवन् यस्याशयस् तस्य बुद्धधर्माः ।तद् यथा भगवन् यस्योत्तमाङ्गं तस्य जीवितं एवम् एव भगवन् यस्याशयस् तस्य बुद्धबोधिः ।
तद् यथा भगवन् यस्य जीवितं तस्य लाभः ।
एवम् एव भगवन् यस्याशयस् तस्य बुद्धत्वलाभः ।
तद् यथा भगवन् सतीत्वेनाग्निर् ज्वलति ।
असतीत्वेन न
[ bendall ed p285 ---> ]
ज्वलति ।
एवम् एव भगवन्न् आशये सति बोधिसत्वस्य सर्वबुद्धधर्मा ज्वलन्ति ।
असत्य् आशये न ज्व-
[ cambridge ms f125a ---> ]
लन्ति ।
तद् यथा भगवन् सत्स्व् अभ्रमेघेषु वर्षं वर्षत्य् असत्सु न वर्षति ।
एवम् एव भगवन्न् आशये सति बुद्धधर्माः प्रवर्तन्ते ।
तद् यथा भगवन् यस्य वृक्षस्य मूलं विपन्नं तस्य पुष्पफलानि न भूयः प्ररोहन्ति ।
एवम् एव भगवन् यस्याशयो विपन्नस् तस्य सर्वे कुशला धर्मा न भूयः संभवन्ति ।
तस्मात् तर्हि भगवन् बोधिसत्वेन बुद्धबोध्यर्थिकेन स्वाशयः सूद्गृहीतः स्वारक्षितः सुशोधितः स्वधिष्ठितः कर्तव्येति ॥
को ऽयम् आशयो नाम ।
आर्याक्षयमतिसूत्रे ऽभिहितः ।
स खलु पुनर् आशयो ऽकृत्रिमः अकृतकत्वात् ।
अकृतको निःसाध्यत्वात् ।
निःसाध्यः सुविदितत्वात् ।
सुविदितो निर्मायत्वात् ।
निर्मायः शुद्धत्वात् ।
शुद्धः ऋजुकत्वात् ।
ऋजुकः अकुटिलत्वात् ।
अकुटिलः स्पष्टत्वात् ।
स्पष्टो ऽविषमत्वात् ।
अविषमः सारत्वात् ।
सारो ऽभेद्यत्वात् ।
अभेद्यो दृढत्वात् ।
दृढो ऽचलितत्वात् ।
अचलितानिश्रितत्वाद् इत्य् आदि ।
अयम् एव चाधिकाधिकगुणाधिगमप्रवृत्तो ऽध्याशयेत्य् उच्यते ॥
यथात्राइवोक्तं ।
उत्तरणाध्याशयो विशेषगमनतयेत्य् आदि ॥
अपि चाध्याशयोच्यते ।
सौम्यता भूतेषु ।
मैत्रता सत्वेषु ।
हितचित्ततार्येषु ।
कारुण्यम् अनार्येषु ।
गौरवं गुरुषु ।
त्राणतात्राणेषु ।
शरणताशरणेषु ।
द्वीपताद्वीपेषु ।
परायणतापरायणेषु ।
सहायतासहायेषु ।
ऋजुता कुटिलेषु ।
स्पष्टता खटुङ्केषु ।
[ bendall ed p286 ---> ]
अशठता शठेषु ।
अमायागहनचरितेषु ।
कृतज्ञताकृतज्ञेषु ।
कृतवेदिता द्रोहिषु ।
उपकारितानुपकारिषु ।
सत्यताभूतगतेषु ।
निर्मानता श्रब्धेषु ।
अनिन्दिता सु अनिन्दना कृतेषु [[दोउब्त्]] ।
अनारोचनता परस्खलितेषु ।
आरक्षणता विप्रतिपन्नेषु ।
अदोषदर्शनता सर्वोपायकौशल्यचर्यासु ।
शुश्रूषणता सर्वदक्षिणीयेषु ।
प्रदक्षिणग्राहितानुशासनीष्व् इत्य् आदि ॥
तद् एवं व्यवसायाशयौ दृढीकृत्य कारुण्यं पुरस्कृत्य यते शुभवृद्धये ॥
यथोक्तम् आर्यधर्मसंगीतिसूत्रे ।
अथ खल्व् अवलोकितेश्वरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत् ।
न भगवन् बोधिसत्वेनातिबहुषु धर्मेषु शिक्षितव्यं ।
एको धर्मो भगवन् बोधिसत्वेन स्वाराधितः सुप्रतिविद्धः कर्तव्यः ।
तस्य सर्वबुद्धधर्माः करतलगता भवन्ति ।
कतमाइकधर्मो ।
यद् उत महाकरुणा ।
महाकरुणया भग-
[ cambridge ms f126a ---> ]
वन् बोधिसत्वानां सर्वबुद्धधर्माः करतलगता भवन्ति ।
तद् यथा भगवन् येन राज्ञश् चक्रवर्तिनश् चक्ररत्नं गच्छति ।
तेन सर्वो बलकायो गच्छति ।
एवम् एव भगवन् येन बोधिसत्वस्य महाकरुणा गच्छति ।
तेन सर्वे बुद्धधर्मा गच्छन्ति ।
तद् यथा भगवन्न् आदित्ये उदिते सत्वाः कर्मक्रियासु प्रचुरा भवन्ति ।
एवम् एव भगवन् महाकरुणा यत्रोदिता भवति तत्रान्यबोधिकरा धर्माः क्रियासु प्रचुरा भव-
[ bendall ed p287 ---> ]
न्ति ।
तद् यथा भगवन् सर्वेषाम् इन्द्रियाणां मनसाधिष्ठितानां स्वस्वविषये ग्रहणप्राचुर्यं भवति ।
एवम् एव भगवन् महाकरुणाधिष्ठितानाम् अन्येषां बोधिकराणां धर्माणां स्वस्मिन् स्वस्मिन् करणीये प्राचुर्यं भवति ।
तद् यथा भगवन् जीवितेन्द्रिये सत्य् अन्येषाम् इन्द्रियाणां प्रवृत्तिर् भवति ।
एवम् एव भगवन् महाकरुणायां सत्याम् अन्येषां बोधिकराणां धर्माणां प्रवृत्तिर् भवतीति ॥
आर्याक्षयमतिसूत्रे ऽप्य् आह ॥
तद् यथापि नाम भदन्त सारद्वतीपुत्र पुरुषस्य जीवितेन्द्रियस्याश्वासाः प्रश्वासाः पूर्वंगमाः ।
एवम् एव भदन्त सारद्वतीपुत्र बोधिसत्वस्य महायानसमुदागतस्य महाकरुणा पूर्वंगमाः ॥
पे ॥
स्याद् यथापि नाम श्रेष्ठि-
[ cambridge ms f126b ---> ]
नो वा गृहपतेर् वाइकपुत्रके गुणवति मज्जागतं प्रेम ।
एवम् एव महाकरुणाप्रतिलब्धस्य बोधिसत्वस्य सर्वसत्वेषु मज्जागतं प्रेमेति ॥
कथम् एषा भावयितव्या ।
स्वकम् अनेकविधं पूर्वानुभूतम् अनुभूयमानं वा दुष्खं भयं च स्वात्मन्य् अत्यन्तम् अनिष्टं भावयित्वा ।
प्रियादिषु मैत्री मैत्रीवता भावयितव्या प्रत्युत्पन्नदुष्खव्याधिषु महादुष्खसागरानवधिदीर्घसंसारव्यसनानुनीतेषु वा ॥
यथोक्तम् आर्यदशभूमकसूत्रे ।
तस्याइवं भवत्य् आश्चर्यं यावद् अज्ञानसंमूढा वतेमे बालपृथग्जनाः ।
येषाम् असंख्येयात्मभावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते च ।
एवं च क्षीयमाणा काये न निर्वेदम् उत्पादयन्ति ।
भूयस्या मात्रया दुष्खयन्त्रं विवर्धयन्ति ।
संसारश्रोतसश् च महाभयान् न
[ bendall ed p288 ---> ]
निवर्तन्ते ।
स्कन्धालयं च नोत्सृजन्ति ।
धातूरगेभ्यश् च न निर्विद्यन्ते ।
नन्दीरागान्धाश् च नावबुध्यन्ते ।
षडायतनशून्यग्रामं च न व्यवलोकयन्ति ।
अहंकारममकाराभिनिवेशानुशयं च न प्रजहन्ति ।
मानदृष्टिशल्यं च नोद्धरन्ति ।
रागद्वेषमोहजालं च न प्रशमयन्ति ।
अविद्यामोहान्धकारं च न विधमयन्ति ।
तृष्णार्ण-
[ cambridge ms f127a ---> ]
वं च नोच्छोषयन्ति ।
दशबलसार्थवाहं च न पर्येषन्ते ।
माराशयगहनानुगताश् च संसारसागरे विविधाकुशलवितर्कग्राहाकुले परिप्लवन्ते ।
अप्रतिशरणाः तथा संवेगम् आपद्यन्ते बहूनि दुष्खानि प्रत्यनुभवन्तः ।
यद् इदं जातिजराव्याधिमरणशोकपरिदेवदुष्खदौर्मनस्योपायासान् ।
हन्ताहम् एषां सत्वानां दुष्खार्तानाम् अनाथानाम् अत्राणानाम् अशरणानाम् अलयनानाम् आपरायणानाम् अन्धानाम् अविद्याण्डकोषपटलपर्यवनद्धानां तमोअभिभूतानाम् अर्थायाइको ऽद्वितीयो भूत्वा तथारूपपुण्यज्ञानसंभारोपचयं बिभर्मि ।
यथारूपेण पुण्यज्ञानसंभारोपचयेन संभृतेनेमे सर्वसत्वाभ्यन्तविशुद्धिम् अनुप्राप्नुयुर् इति ॥
तथात्राइवाह ।
संसाराटवीकान्तारमार्गप्रपन्ना वतेमे सत्वा निरयतिर्यग्योनियमलोकप्र-
[ bendall ed p289 ---> ]
पाताभिमुखाः कुदृष्टिविषमजालानुप्राप्ताः मोहगहनसंछन्ना मिथ्यामार्गवितथप्रयाता ।
अन्धीभूताः परिणायकविकलाः ॥
पे ॥
संसारश्रोतानुवाहिनः तृष्णानदीप्रपन्नाः ।
महावेगग्रस्ता ।
अवलोकनासमर्थाः [[दोउब्त्]] कामव्यापादविचिकित्साविहिंसावि-
[ cambridge ms f127b ---> ]
तर्कप्रपातानुचरिताः ।
स्वकायदृष्ट्युदकराक्षसगृहीताः ।
कामगहनावर्त्तानुप्रविष्टाः नन्दीरागमध्यसंसक्ताः ।
अस्मिमानस्थलोच्छन्नाः ।
अपरायणाः ।
आयतनग्रामानुच्छलिताः ।
कुशलसंभारकविरहिताः ।
ते ऽस्माभिर् महाकुशलमूलबलेनोद्धृत्य निरुपद्रवे ऽरजसि शिवसर्वज्ञतारत्नद्वीपे प्रतिष्ठापयितव्या ।
रुद्धा वतेमे सत्वा बहुदुष्खदौर्मनस्योपायासबहुलानुनयप्रतिघप्रियाप्रियविनिबन्धने सशोकपरिदेवानुचरिते तृष्णानिगडबन्धने मायाशाठ्याविद्यागहनसंछन्ने त्रैधातुकचारके ।
ते ऽस्माभिः सर्वत्रैधातुकविवेके ऽभयपुरे सर्वदुष्खोपशमे [[दोउब्त्]] अनावरणनिर्वाणे प्रतिष्ठापयितव्येत्य् आदि ॥एवम् एभिः परस्परदृढीकृत्यैर् व्यवसायाशयकारुण्यैः पुण्यवृद्धिम् आरभेत् ।
तत्र तावद् भद्राचार्याविधिः कार्या वन्दनादिः सदादरात् ॥
[ bendall ed p290 ---> ]
आर्योग्रदत्तपरिपृच्छायां हि त्रिरात्रे त्रिर् दिवसस्य च शुचेः शुचिवस्त्रप्रावृतस्य च त्रिस्कन्धकप्रवर्तनम् उक्तं ॥
तत्र त्रयः स्कन्धाः पापदेशनापुण्यानुमोदनाबुद्धाध्येषणा-
[ cambridge ms f128a ---> ]
ख्याः पुण्यराशित्वात् ।
तत्र वन्दना पापदेशनायाम् अन्तर्भवति ।
बुद्धान् नमस्कृत्योपालिपरिपृच्छायां देशनेति कृत्वा ।
याचनम् अध्येषणायां एकार्थत्वात् ।
पूजा तु विभवाभावाद् अनित्येति नोक्ता ।
मानसी वाचसी च सूत्रान्तरप्रसिद्धत्वान् नोक्ताः ।
त्रयाणां तु वचनात् प्राधान्यं गम्यते ।
तत्र वन्दना ।
सर्वबुद्धान् नमस्यामीति ॥
आर्याक्षयमतिसूत्रे त्व् आत्मपरपापदेशना पुण्यसंभारे पठ्यते ॥
गाथाचतुष्टयेन च यथागीतैश् च स्तोत्रैः ।
आर्यभद्रचर्यादिगाथाभिर् वा पूजना च ॥
आर्यरत्नमेघे यथोक्तं ।
इह बोधिसत्वो यानीमानि भवन्ति पुष्पजातानि वा फलजातानि वाममान्य् अपरिग्रहाणि ।
तानि त्रिष्कृत्वा रात्रौ त्रिष्कृत्वा दिवसे बुद्धबोधिसत्वेभ्यो निर्यातयति ॥
पे ॥
सयथीमे [[दोउब्त्]] धूपवृक्षा वा गन्धवृक्षा वा रत्नवृक्षा वा कल्पवृक्षा वाममापरिग्रहास् तान् अपि त्रिष्कृत्वा रात्रौ त्रिष्कृत्वा दिवसे बुद्धबोधिसत्वेभ्यो निर्यातयतीति ॥आर्यत्रिसमयराजे ऽपि स्थलजा रत्नपर्वताः ।
जलजा रत्नपर्वता स्थलजलजानि रत्नानि दशदिगवस्थितानि ।
अममान्य् अपरिग्रहाणि देयानीत्य् उक्तं ॥
अनया च दिशा सर्वभैषज्या-
[ bendall ed p291 ---> ]
नि सर्वरसायनानि सर्वसलिलानि अ-
[ cambridge ms f128b ---> ]
नवद्यानि अप्मण्डलानि ।
सर्वकाञ्चनमण्डलानि ।
विवृत्तेषु वा लोकधातुषु ये परमरसस्पर्शसंपन्ना भूपर्पटकाः ।
अमृतलता ।
अकृष्टोप्ता वा शालयः ।
सर्वोत्तरकुरुद्वीपेषु ।
परिशुद्धेषु च लोकधातुषु ये रमणीयतराः परिभोगाः ॥
यथा चार्यरत्नमेघे एवाह ।
स यानीमानि सूत्रान्तेषूदारोदाराणि तथागतपूजोपस्थानानि शृणोति ।
तान्य् आशयतस् तीव्रेणाध्याशयेन बुद्धबोधिसत्वेभ्यः परिणामयतीति ।
तथा ।
स विविधानि पूजोपस्थानानि अनुविचिन्तयतीति ॥
देशना पूर्वोक्तेव ।
आर्याक्षयमतिसूत्रे त्व् आत्मपरपापदेशना पुण्यसंभारे पठ्यते ।
अनुमोदना भद्रचर्यागाथया ।
चन्द्रप्रदीपानुमोदनापरिवर्तेन वा ।
अध्येषणा भद्रचर्ययाइव ।
परिणामना तु सकलसमाप्तार्यभद्रचर्ययाइव ।
वज्रध्वजपरिणामनां वा पश्येत् ॥अथवा दशभूमकोक्तानि महाप्रणिधानानि ।
यथाह ।
यद् उताशेषनिःशेषानवशेषसर्वबुद्धपूजोपस्थापनाय ।
सर्वाकारवरोपेतम् उदाराधिमुक्तिविशुद्धं धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्याबुद्धोत्पादसंख्याप्रतिप्रस्रब्धं ।
महापूजोपस्था-
[ bendall ed p292 ---> ]
नाय
[ cambridge ms f129a ---> ]
प्रथमं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्वतथागतभाषितधर्मनेत्रीसंधारणाय सर्वबुद्धबोधिसत्वपरिग्रहाय ।
सर्वसम्यक्संबुद्धशासनपरिरक्षणाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं ।
सर्वसंकल्पसंख्याबुद्धोत्पादसंख्याप्रतिप्रस्रब्धं ।
सद्धर्मपरिग्रहाय ।
द्वितीयं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्वबुद्धोत्पादनिरवशेषसर्वलोकधातुप्रसरेषु ।
तुषितभवनवासम् आदिं कृत्वा च्यवनाचङ्क्रमणगर्भस्थितिजन्मकुमारक्रीडान्तःपुरवासाभिनिष्क्रमणदुष्करचर्याबोधिमण्डोपसंक्रमणमारधर्षणाभिसंबोध्यध्येषणमहाधर्मचक्रप्रवर्तनमहापरिनिर्वाणोपसंक्रमणाय ।
पूजाधर्मसंग्रहप्रयोगपूर्वंगमं कृत्वा सर्वत्रैकालविवर्तनाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्याबुद्धोत्पादसंख्याप्रतिप्रस्रब्धं यावन् महापरिनिर्वाणोपसंक्रमणाय ।
तृतीयं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्वबोधिसत्वचर्याविपुलमहद्गताप्रमाणासंभिन्नसर्वपारमितासुसंग्रहीतः ।
सर्वभूमिपरिशोधनं साङ्गोपाङ्गनिर्हारं यावत् सल-
[ cambridge ms f129b ---> ]
क्षणविलक्षणसंवर्तविवर्तसर्वबोधि सत्वचर्याभूतयथावद् भूमिपथोपदेशपारमितापरिकर्माववादानुशासन्य्-अनुप्रदानोपस्त-
[ bendall ed p293 ---> ]
म्भचित्तोत्पादाभिनिर्हाराय ।
धर्मध-तुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्रब्धं चित्तोत्पादाभिनिर्हाराय ।
चतुर्थं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत निरवशेषसर्वसत्वधातुरूप्यरूपिसंज्ञासंज्ञि नाइव संज्ञि नासंज्ञ्य् अण्डजजरायुजसंस्वेदजाउपपादुकत्रैधातुकपर्यापन्नषड्गतिसमवसृतसर्वोपपत्तिपर्यापन्ननामरूपसंगृहीताशेषसर्वसत्वधातुपरिपाचनाय ।
सर्वबुद्धधर्मावतारणाय ।
सर्वगतिसंख्याव्यवच्छेदनाय ।
सर्वज्ञज्ञानप्रतिष्ठापनाय ।
धर्मधातु-
[ cambridge ms f130a ---> ]
विपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्यासत्वधातुसंख्याप्रतिप्रस्रब्धं ।सर्वसत्वधातुपरिपाचनाय ।
पञ्चमं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत निरवशेषसर्वलोकधातुविपुलसंक्षिप्तमहद्गताप्रमाणसूक्ष्माउदारिकव्यत्यस्तावमूर्द्धसमतलप्रवेशसमवसरणानुगतेन्द्रजालविभागदशदिगशेषवैमात्र्यप्रवेशविभागज्ञानानुगमप्रत्यक्षतायै ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्यालोकधातुसंख्याप्रतिप्रस्रब्धं लोकधातुवैमात्र्यावतारणाय ।
षष्ठं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्वक्षेत्राइकक्षेत्राइकक्षेत्र सर्वक्षेत्रैसमवशरणपरिशोधनं [[दोउब्त्]] ।
अप्रमाणबुद्धक्षेत्र प्रभाव्यूहालंकारप्रतिमण्डितं ।
सर्वक्लेशापनयनपरिशुद्धिपथोपेतं ।
अप्रमाणज्ञानाकारसत्वपरिपूर्णम् उदारबुद्धविषयसमवसरणं ।
यथाशयसर्वसत्वसंदर्शनसंतोषणाय ।
धर्मधातुवि-
[ bendall ed p294 ---> ]
पुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं ।सर्वकल्पसंख्याबुद्धक्षेत्रसंख्याप्रतिप्रस्रब्धं ।सर्वबुद्धक्षेत्रपरिशोधनाय ।सप्तमं महाप्रणिधानम् अभिनिर्हरति ॥यद् उत सर्वबोधिसत्वाइकाशयप्रयोगतायै ।
निःसपत्नकुशलमूलोपचयाय ।
एकारम्बणसर्वबोधिसत्वसमतायै । अविरहितसततसमितबुद्धबोधिसत्वसमवधानाय ।
यथेष्टबुद्धोत्पादसंदर्शनाय ।
स्वचित्तोत्पादतथागतप्रभावज्ञानानुगमाय ।
अच्युतानुगामिन्य्-अभिज्ञाप्रतिलम्भाय ।
सर्वलोकधात्वनुविचरणाय सर्वपर्षन्मण्डलप्रतिभासप्राप्तये ।
सर्वोपपत्तिस्वशरीरानुगमाय ।
अचिन्त्यमहायानोपेततायै ।
[ cambridge ms f130b ---> ]
बोधिसत्वचर्याचरणाव्यवच्छेदाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं ।
सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्रब्धं ।
महायानावतारणाय ।
अष्टमं महाप्रणिधानम् अभिनिर्हरति ॥यद् उताविवर्त्यचक्रसमारूढबोधिसत्वचर्याचरणाय ।
अमोघकायवाङ्मनस्करेण ।
सहदर्शननियतसर्वबुद्धधर्मप्रतिलम्भाय ।
सहघोषोदाहारज्ञाना-
[ bendall ed p295 ---> ]
नुगमाय ।
सहप्रसादक्लेशविवर्तनाय ।
महाभैषज्यराजोपमाश्रयप्रतिलम्भाय ।
चिन्तामणिवत् कायप्रतिलम्भाय ।
सर्वबोधिसत्वचर्याचरणाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं ।
सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्रब्धं ।अमोघघोषतायै ।
नवमं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्वलोकधातुष्व् अनुत्तरसम्यक्संबोध्यभिसंबोधनाय ।
एकवालपथाव्यतिवृत्तसर्वबालपृथग्जनजन्मोपपत्त्यभिनिष्क्रमणविकुर्वण बोधिमण्डधर्मचक्रप्रवर्तनमहापरिनिर्वाणोपदर्शनाय ।
महाबुद्धविषयप्रभावज्ञानानुगमाय ।
सर्वसत्वधातुयथाशयबुद्धोत्पादक्षणक्षणावबोधप्रशमप्रापणसंदर्शनाय ।
ए-
[ cambridge ms f131a ---> ]
काभिसंबोधिसर्वधर्मधातुनिर्माणस्फरणाय ।
एकघोषोदाहारसर्वसत्वचित्ताशयसंतोषणाय ।
महापरिनिर्वाणोपदर्शनचर्याबलाव्युपच्छेदाय ।
महाज्ञानभूमिसर्वधर्मव्युत्थापनसंदर्शनाय ।
धर्मज्ञानऋद्धिमायाभिज्ञासर्वलोकधातुस्फरणाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं ।
सर्वकल्पसंख्याभिसंबोधिसंख्याप्रतिप्रस्रब्धं ।
महायानाभिनिर्हाराय ।
दशमं महाप्रणिधानम् अभिनिर्हरतीति ॥
[ bendall ed p296 ---> ]
एतच् च भावयन् सर्वत्र परिणामयामीति योज्यं ॥
आर्यावलोकितेश्वरविमोक्षे च यद् उक्तं तद् अप्य् एवं योज्यं ।
एतत् कुशलमूलं सर्वसत्वप्रपातभयविगमाय परिणामयामि ।
सर्वसत्वान् सान्तानिकभयप्रशमनाय ।
सर्वसत्वसंमोहभयविनिवर्तनाय परिणामयामि ।
सर्वसत्वबन्धनभयसमुच्छेदाय ।
सर्वसत्वजीवितोपरोधोपक्रमभयव्यावर्तनाय ।
सर्वसत्वोपकरणवैकल्यभयापनयनाय ।
सर्वसत्वाजीविकाभयव्युपशमनाय ।
सर्वसत्वाश्लोकभयसमतिक्रमणाय परिणामयामि ।
सर्वसत्वसांसारिकभयोपशमनाय ।
सर्वसत्वपर्षच्छारद्यभयविगमाय ।
सर्वसत्वमरण-
[ cambridge ms f131b ---> ]
भयव्यतिक्रमाय ।
सर्वसत्वदुर्गतिभयविनिवर्तनाय ।
सर्वसत्वतमोअन्धकारविषमगत्यप्रत्युदावर्तनावभासकरणाय परिणामयामि ।
सर्वसत्वानां विसभागसमवधानभयाभ्यन्तविगमाय ।
सर्वसत्वप्रियविप्रयोगभयनिरोधाय ।
सर्वसत्वाप्रियसंवासभयापनयनाय ।
सर्वसत्वकायपरिपीडाभयविसंयोगाय ।
सर्वसत्वचित्तपरिपीडनभयनिर्मोक्षणाय ।
सर्वसत्वदुष्खदौर्मनस्योपायाससमतिक्रमणाय परिणामयामीति ॥
[ bendall ed p297 ---> ]
संक्षेपतः पुनर् इयम् अनुत्तरा परिणामना येयम् आर्यभद्रचर्यागाथायां ।
मञ्जुशिरी यथ जानति शूरः सो च समन्तत भद्र तथाइव ।
तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वं ॥
सर्वत्रियध्व गतेभि जिनेभिर् या परिणामन वर्णिताग्रा ।
तायाहं कुशलं इमु सर्वं नामयमी वरभद्रचरीये ।
इति ॥
इति शिक्षासमुच्चये भद्रचर्याविधिः षोडशमः परिच्छेदः समाप्तः ॥
वन्दनानुशंसाः सप्तदशः परिच्छेदः ॥
उक्तो वन्दनादिविधिः ।
तेन पुण्यवृद्धिर् भवतीति कुतो गम्यते ॥
आर्यावलोकनसूत्रात् ।
एवं हि तत्रोक्तं ।
[ bendall ed p298 ---> ]
वर्जयत्य् अक्षणान्य् अष्टौ यए इमे देशिता मया ।
क्षणं चारागयत्य् एकं बुद्धोत्पादं सुशोभनं ॥
[ cambridge ms f132a ---> ]
वर्णवान् रूपसंपन्नो लक्षणैः समलंकृतः
स्थाम्ना बलेन चोपेतो नासौ कौसीद्यम् ऋच्छति [[दोउब्त्]] ॥
आढ्यो महाधनश् चासौ अधृष्यः पुण्यवान् अपि ।
आराग्य लोकप्रद्योतं सत्करोति पुनः पुनः ॥
श्रेष्ठीकुलेषु स्फीतेषु साढ्येषूपपद्यते ।
भवेद् दानपतिः शूरो मुक्तत्यागो ह्य् अमत्सरी ॥
राजा भवेद् धार्मिको ऽसौ चतुर्द्वीपेश्वरः प्रभुः ।
प्रशासयेन् महीं कृत्स्नां समुद्रगिरिकुण्डलाम् ॥
महर्द्धिकश् चक्रवर्ती सप्तरत्नसमन्वितः ।
राज्ये प्रतिष्ठितो बुद्धान् सत्करोति पुनः पुनः ॥
श्च्युत/ चास्माद् गतः स्वर्गं प्रसन्नो जिनशासने ।
शक्रो भवति देवेन्द्रः ईश्वरो मरुमूर्द्धनि ॥
न शक्यं भाषता वर्णं क्षपयितुं कल्पकोटिभिः ।
य स्तूपं लोकनाथस्य नरः कुर्यात् प्रदक्षिणम् ॥
[ bendall ed p299 ---> ]
न जातु सो ऽन्धः खञ्जो वा कल्पानाम् अपि कोटिभिः ।
उत्पाद्य बोधिचित्तं यः शास्तु स्तूपं हि वन्दते ॥
दृढवीर्यो दृढस्थामो वीरश् च दृढविक्रमः ।
कौशल्यं गच्छति क्षिप्रं कृत्वा स्तूपप्रदक्षिणम् ॥
यो बुद्धकोटिनियुतशतसहस्रान् कल्पान् कोटी च तुलिय सत्करया ।
यश् चेह कल्पे चरमक घोरकाले वन्देय स्तूपं बहुतर तस्य पुण्यम् ॥
[ cambridge ms f132b ---> ]
अग्रो हि बुद्धो ऽतुलिय दक्षिणीयो ऽग्रां चरित्वा चरियविशेष प्राप्तः ।
तस्येह पूजां करिअ नररिषभस्य विपाक श्रेष्ठो भवति अतुल्यरूपः ॥
इतश् च्युत्वा मनुष्येभ्यस् त्रायस्त्रिंशेषु गच्छति ।
विमानं लभते तत्र विचित्रं रतनाम् अयम् ॥
कूटागारं स्वयं दत्वाप्सरोगणसेवितः ।
मालां स्तूपे संप्रदाय त्रायस्त्रिंशेषु जायते ॥
अष्टाङ्गजलसंपूर्णां सुवर्णसिकतास्त्रिताम् ।
वैडूर्यस्फटिकैश् चाइव दिव्यां पुष्करिणीं लभेत् ॥
भुक्त्वा च तां रतिं दिव्यां आयुः संपूर्य पण्डितः ।
च्युत्वा च देवलोकात् स मनुष्यो भवति भोगवान् ॥
[ bendall ed p300 ---> ]
जातिकोटिसहस्रणि शतानि नियुतानि च ।
सत्कृतः स्याच् च सर्वत्र चैत्ये मालां प्रदाय च ॥
चक्रवर्ती च राजासौ शक्रश् च भवतीश्वरः ।
ब्रह्मा च ब्रह्मलोकस्मिन् चैत्ये मालां प्रदाय च ॥
पट्टप्रदान दत्वा तु लोकनाथस्य तायिनः ।
सर्वे ऽस्यार्थाः समृध्यन्ति ये दिव्या ये च मानुषाः ॥
त्यजेद् धीनान् अकुशलान् न स तत्रोपपद्यते ।
मालाविहारं कृत्वा च लोकनाथस्य धातुषु ।
अभेद्यपरिवारेण राजा भूयान् महर्द्धिकः ॥
प्रियः सदयितश् चासौ सत्कृतश् च प्रशंसितः ।
दवानाम् अथ नागानां ये लोकेस्मिंश् च पण्डिताः ॥
यत्रासौ जायते वीरः पुण्यतेजःसुदीपितः ।
ते कुलाः सत्कृता भोन्ति राष्ट्राणि नगराणि च ॥
[ bendall ed p301 ---> ]
यः सर्षपात् सूक्ष्मतरं गृहीत्वा धूपेय धूपं भगवति चैत्यकेषु ।
तस्यानुशंसान् शृणुत प्रभाषतो मे प्रसन्नचित्ता जहिय खिलां मलांश् च ॥
स पुण्यवांश् चरति दिशः समन्ताद् आरोग्यप्राप्तो दृढमतिर् अप्रमत्तः ।
विनेति शोकं विचरति चारिकायां प्रियो मनापो भवति महाजनस्य ॥
राज्यं च लब्ध्वा जिन वरु सत्करोती महानुभावो विदु चक्रवर्ती ।
सुवर्णवर्णो विचित्रलक्षणैः स मनोज्ञगन्धान् लभि सर्वलोके ॥
जातमात्रो लभते श्रेष्ठवस्त्रान् दिव्यविशिष्टसुरुचिरकौशिकांश् च ।
भोती सुखसुकायः संवेष्ट्यस्तूपं नाथस्य चीवरैः ।
यश् चीवरेण चैत्येषु कुर्यात् पूजाम् अतुलां नायकानां ।
तस्येह भोती असदृशु आत्मभावो द्वात्रिंशतीभिः कवचित लक्षणेभिः ।
[ bendall ed p302 ---> ]
पाणीतलेषु सुरुचिरु मुक्तहाराः प्रादुर्भवन्ती विविधानन्तकल्पाः ।
सिंहलताः सुरुचिरवर्णसूत्रा वेठित्व स्तूपं भगवत चीवरेभिः ॥
दत्वा पताकां भगवत चेतिकेषू छन्दं जनित्वा तथ सिय बुद्धलोके ।
स पूजनीयो भवति महाजनस्य चरन्तु श्रेष्ठो जिनचारिकाये ॥सुवर्णवर्णो भवति सि आत्मभावो लाभी स भोती सुरुचिरचीवराणां ।
[ cambridge ms f133b ---> ]
कर्पासिकानां सुसहित कम्बलानां दुकूलकानां तथ वरकौशकानां ॥
ध्वजं ददित्वा हतरजि सत्वसारे धनं प्रभूतं प्रतिलभि न चिरेण ।
प्रभूतकोषो भवति अनन्तप्रज्ञो परिचारु तस्य भवत्य् अदीनचित्तः ।
न चित्तशूलं जनयति सो परस्य प्रसादचित्तः सदाप्रमत्तः ।
न तस्याग्निः क्रमति विषन्नशस्त्रं उद्वीक्षणीयो भवति महाजनस्य ॥
[ bendall ed p303 ---> ]
अधो उपादाय च विभवाग्रु यावत् जाम्बूनदं तेन भवति बुद्धक्षेत्रं ।
शक्यं क्षयेतुं आयुश्रियाइवरूपा न बुद्धस्तूपे धरयताइक दीपम् ॥
न तस्य कायो भवति अवर्णिताङ्गो दृढासु भोती परिघभुजो ऽछम्भी ।
आलोकप्राप्तो [[दोउब्त्]] विचरति सर्वलोके ददित्व दीपं भगवत चेतिकेषु ॥
यदि बुद्धक्षेत्रा नियुतशता सहस्रा भवेयु पूर्णा शिखगतसर्षपेभिः ।
शक्यं गणेतुं तुलयितु भाषितुं वा न तथागतेषू धरयितु एकदीपम् ॥अलङ्करित्वा सुरुचिरदर्शनीयं यो देति छत्रं भगवत चेतिकेषु ।
तस्येह भोत्य् असदृशात्मभावो द्वात्रिंशतीभिः कवचित लक्षणेभिः ॥
येभिर् जिनस्य प्रतपतात्मभावो रूपं विशिष्टं यथरिव [[दोउब्त्]] काञ्चनस्य ।
जाम्बूनदो वा सुरुचिरदर्श-
[ cambridge ms f134a --->]
नीयाभिकीर्ण ... कुसुमित लक्षणेभिः ॥
अभिज्ञप्राप्तो भवति महायशाख्यः चरति श्रेष्ठावरचारिकायां ।
न भोगहानिर् भवति कदाचिद् अस्य देवान भोति गुरुकृत पूजितश् च ॥
[ bendall ed p304 ---> ]
न कामभोगौ रमति कदाचि धीरो विशुद्धशीलः सकुशलब्रह्मचर्यः ।समादयित्वा वनुपवने उषित्वाभियुक्तिध्यानो भवति विशेषप्राप्तः ॥
न ज्ञानहानिर् भवति कदाचिद् अस्य न बोधिचित्तं विजहति सो कथञ्चित् ।
मैत्रीविहारी भवति अदीनचित्तो दत्वेह छत्त्रं भगवतचेतिकेषु ॥
वाद्येन पूजां नरवृषभस्य कृत्वा न शोक शल्यवश जातु भोति ।
मनोज्ञघोषो भवति मनुष्यलोके स्वराङ्गु तस्याविकल विशुद्ध भोति ॥विशुद्धचक्षुर् भवति स संप्रजन्यो विशुद्धश्रोत्रो भवति उदग्रचित्तः ।
घ्रणेन्द्रियं परमोत्तप्त भोति वादित्व वाद्यं भगवत चेतिकेषु ॥जिह्वास्य भोति सुरुचिर दर्शनीया सुसूक्ष्म मृद्वी रुचिर मनोज्ञ घोषा ।
रक्ता प्रवाला यथरिव [[दोउब्त्]] देवतानां स्वराङ्ग कोटीवर सृजते ऽप्रमेयां ॥
न जातु भोती उरगु अजिह्वको वा न खञ्जकुब्जो नापि च नामिताङ्गः ।
विशिष्ट भोती सुरुचिरात्मभावो
[ cambridge ms f134b ---> ]
वादित्व वाद्यं भगवत चेतिकेषु ॥
न जातु कश्चिज् जनये प्रसादं देवो च नागो मनुज महोरगो वा ।
आश्वासप्राप्तो विचरति सर्वलोके वादित्व वाद्यं भगवत चेतिकेषु ॥
कल्पान कोटीनियुतशता सहस्रं विशिष्टकायो भवति अनिन्दिताङ्गः ।
प्रासादिको ऽसौ कवचित लक्षणेभिः संशोध्य स्तूपं भगवत निर्वृतस्य ॥
[ bendall ed p305 ---> ]
विमानश्रेष्ठं लभति मनोज्ञगन्धं दिव्यं विशिष्टं सुरुचिरचन्दनस्य ।
न जातु तृष्णां जनयति सो कदाचित् संशोध्य स्तूपं भगवत निर्वृतस्य ॥प्रलोपकाले जिनवरशासनस्मिन् न जातु भोती उपगत जम्बुद्वीपे ।
स्वर्गे स भोति प्रतिष्ठित तस्मि काले गन्धानुलेपं ददिय जिनस्य स्तूपे ॥दुर्गन्धिकामान् अशुचिजुगुप्सनीयान् वर्जेति नित्यं प्रतिष्ठित शीलस्कन्धे ।
चरी स नित्यम् इमु वर ब्रह्मचर्यं गन्धानुलेपं करिय जिनस्य स्तूपे ॥
इतश् च्युतो ऽसौ मरुपति स्वर्गलोके ऽर्थं सहस्रा तुलयति नो चिरेण ।
करोति चार्थं सुविपुलदेवतानां गन्धानुलेपं करिय जिनस्य स्तूपे ॥
विशिष्टवाक्यो भवति मनोज्ञघोषः प्रियो मनापो बहुजनसत्कृतश् च ।
[ cambridge ms f135a ---> ] sukhaṃ ca tasya bhavati sadā prasannaṃ gandhânulepaṃ kariya jinasya stūpe ||
अपायभूमिं ... विजहात्य् अशेषां आसन्नको भवति तथागतानां ।
प्रसादलब्धः सद सुखि प्रेमणीयो गन्धानुलेपं करिय जिनस्य स्तूपे ॥
[ bendall ed p306 ---> ]
सो ऽक्षणं वै विजहाति सर्वं अष्ट क्षणाश् चास्य विशिष्ट भोन्ति ।
बुद्धान पूजाम् अतुलिय सो करोति छोरित्व जालं भगवत चेतिकेषु ॥ शूरश् च भोति दृढमतिर् अप्रमत्तो न कामभोगे ऽभिरतिं जनेति ।
नैष्क्रम्यप्राप्तौ चादीनचित्तः छोरित्व जालं भगवत चेतिकेषु ॥
न बोधिचित्तं प्रमुष्यति तस्य जातु अखण्डशीलो ऽस्ति सुसंवृतश् च ।
धर्मं विरागं लभते विशुद्धं उपनीय जालं भगवत चेतिकेषु ॥
दुर्वाचतां विजहति सर्वकालं प्रज्ञाभावं च जहात्य् अशेषम् ।विशालप्रज्ञो विहरति चारिकायां उपनीय जालं भगवत चेतिकेषु ॥
लाभी च भोती शुचिभोजनानां वस्त्रान् विशिष्टान् लभते सुवर्णान् ।
स्पर्शाभ्युपेतान् रुचिदर्शनीयान् उपनीय जालं जिनचेतिकेभ्यः ॥
अभ्युत्क्षिपित्वा जिनचेतिकेभ्यः निर्माल्यशुष्कं प्रमुदितवेगजातः ।
व्रजेत कामान् दुःखदवैरघोरान् आरागयेद् दशबलसार्थवाहान् ॥
[ bendall ed p307 ---> ]
प्रासादिको भोति विशुद्धकायः उद्वीक्षणी-
[ cambridge ms f135b ---> ]
यो बहुजनपूजनीयः ।
न तस्य राजापि प्रदुष्टचित्तः यो जीर्णपुष्पान् अपनेय चैत्ये ॥कुमार्ग सर्वं पिथितापायभूमिः स शीलस्कन्धे स्थित बोधिसत्वः ।
अवतारयित्वा जिनचेतिकेभ्यः पुष्पं च प्राग् अन्यनरैः प्रदत्तं ॥शोकांश् च दोषान् विजहात्य् अमत्तो रोगान् अशेषान् विजहात्य् अनेकान् ।
आश्वासप्राप्तश् चानन्तकल्पान् यो जीर्णपुष्पान् अपनेति चैत्ये ॥
बुद्धश् च भोत्य् असदृशदक्षिणीयो ऽतुल्यप्राप्तो नरमरुपूजनीयः ।
अलंकृतो भवति विशुद्धकायः यो जीर्णपुष्पान् अपनेति चैत्ये ॥
दद्याच् च यः सुरुचिरदिव्य पुष्पं मान्दारवान् अप्य् अथ पाटलं वा ।
निर्माल्यकं यो ऽपनयेत चैत्ये विपाक श्रेष्ठो ऽस्य भवेद् अतुल्यः ॥यः प्राञ्जलिः प्रणमति नाथस्तूपं छन्दं जनित्वा च सबुद्धलोके ।
सो भोति लोके गुरुकृतु सत्कृतश् च प्रासादिको भवति सुदर्शनीयः ॥
तस्येह राज्यं निपतति सर्वलोको देवासुरा नागमनुष्यकाश् च ।
सर्वाः सहस्राः कुसुमित लोकधातुः प्रशास्ति राज्ञो वशेश्वरांश् च ॥
ये तस्य राज्ये स्थित भोन्ति सत्वाः स्थापेय सर्वान् अकलुषबुद्धज्ञाने ।
अपायभूम्यस् त्यक्ता भवन्ति करोति चाइषां परमसुश्रेष्ठम् अर्थम् ॥
[ bendall ed p308 ---> ]
परिचारो-
[ cambridge ms f136a ---> ]
अस्य भवति मनोज्ञघोषः पुण्यैर् उपेतः स्मृतिमतिपूजनीयः ।
आश्वासप्राप्तो विचरति जीवलोके सदाभिप्रायं जनयति श्रेष्ठप्रीतिं ॥
परिचार भोत्य् अस्य स्वराङ्ग शुद्धः ज्ञायेत सत्वैर् मधुरप्रशान्तवाक्यो ।
न तस्य कश्चिज् जनयति चेश्वरत्वं विलोकनीयो भवति महाजनस्य ।
दानप्रमोदं प्रियतार्थचर्यां समानार्थतां जनयति महाजनस्य ।
आक्रुष्टः सन् नाजनयेत रोषं यः प्राञ्जलिः प्रणमति बुद्धस्तूपं ॥देवेन्द्र भोत्य् उपगतस्वर्गलोके मनुष्यको भवति नरस्य राजा ।
न पारिहाणिर् भवति कदाचिद् अस्य यो ऽञ्जलीभिर् नमतीह स्तूपं ॥
नासाव् अपाये प्रपतेत जातु हीनांश् च वर्जेत स काम लोके ।
आढ्यो धनी भोति प्रभूतकोषो यो ऽञ्जलीभिर् नमति बुद्धस्तूपम् ॥
सूत्रान्तचर्या न कदाचिद् अस्य नास्थानकोपं कुरुते नृलोके ।
सत्वाश् च तृप्ता मुदितास्य भोन्ति यः संप्रमुञ्ची गुणवति एकवाचं ॥
[ bendall ed p309 ---> ]
यः पुष्पमुष्टिं गृहीत्वोदग्रचित्तः प्रसादतो ऽवकिरति लोकनाथे ।
स पुण्यवान् भवति मनुष्यलोके राक्षे च स्थित्वा जिन सत्करोति ॥
शोका न दोषाः खिलमल नास्य भोन्ति अतुल्यताप्तश् च सुसंस्थिताङ्गः ।
आलोकनीयश् च महाजनस्य व्रजेत कामान भयकरवैरघोरान् ।
इति ॥आर्यमहाकरुणापुण्डरीकसूत्रे ऽप्य् उक्तं ।तिष्ठतु तावद् आनन्द यो मां संमुखं सत्कुर्यात् ।
तिष्ठतु मे शरीरस्य पूजा सर्षपफलम-त्रेषु धातुषु ।
[ cambridge ms f136b ---> ]
तिष्ठतु माम् उद्दिश्य कृतेषु स्तूपेषु सत्कारः ।
ये केचिद् आनन्द बुद्धम् आलम्ब्यान्तशाइकपुष्पम् अप्य् आकाशे क्षेप्स्यन्ति ।
तस्य पुण्यस्कन्धस्य यो विपाकः सचेद् यावान् अनादिः संसारो यस्य पूर्वा कोटिर् न प्रज्ञायते ।
तावतः कल्पान् संसरतां तेषां शक्रत्वं ब्रह्मत्वं चक्रवर्तित्वं ।
न शक्यस् तत्पर्यन्तो ऽधिगन्तुम् ।
तिष्ठतु बुद्धालम्बतान्तश*आकाशे ऽप्य् एकपुष्पनिक्षेपः ।
सचेद् अन्तशः स्वप्नान्तरगतापि सत्वा बुद्धम् आलम्ब्याकाशे एकपुष्पम् अपि क्षेप्स्यन्ति तद् अप्य् अहं कुशलमूलं निर्वाणपर्यवसानं वदामीति ॥उक्तं चार्यबृहत्सागरनागराजपरिपृच्छायां ।
अष्टाभिर् भुजगाधिपते धर्मैः समन्वागता बोधिसत्वाः सततसमितं बुद्धसमवधानं प्रतिलभन्ते ।
कतमैर् अष्टाभिः ।
बुद्धबिम्बदर्शनसत्वसमादापनतया ।
तथागतस्योपस्थानकरणतया ।
तथागतस्याभीक्ष्णं वर्णभाषणतया ।
तथागतप्रतिमाकरणतया ।
तथागतदर्शनसर्वसत्वसमादापनतया ।
यत्र च बुद्धक्षेत्रे तथागतश्रवं शृण्वन्ति तत्र प्रणिधानम् उत्पादयन्ति ।
न चावलीनसंततयो भवन्ति ।
उदारसंततिकाश् च बुद्धज्ञानम् अभिलषन्तए इति ॥
[ cambridge ms f137a ---> ]
किं पुनः पुण्यवृद्ध्यर्थिनो बुद्धसमवधानेन प्रयोजनभूतं ।
यस्य गुणपर्यन्तम् असर्वज्ञो नाधिगच्छेत् ॥
[ bendall ed p310 ---> ]
यथार्यगण्डव्यूहे संवर्णितं ।
सुदुर्लभो बुद्धशब्दः कल्पकोटिशतैर् अपि ।
किं पुनर् दर्शनं सर्वकाङ्क्षाच्छेदनम् उत्तमम् ॥सुदृष्टो लोकप्रद्योतः सर्वधर्मगतिं गतः ।
पुण्यतीर्थं त्रैलोकस्य सर्वसत्वविशोधनम् ॥
महत् पुण्यम् अयं क्षेत्रं मुदितं ज्ञानमण्डलं ।
भासयत्य् अभितं लोकं पुण्यस्कन्धविवर्द्धनम् ॥
छेदनो दुष्खजालस्य ज्ञानस्कन्धविशोधनः ।
न दुर्गतिभयं तेषां यैर् इहारागितो जिनः ॥विपुलं जायते चित्तं पश्यतां द्विपदोत्तमं ।
प्रज्ञाबलम् असंख्येयं जायते च प्रभास्वरं ॥पुनर् अत्राइवाह ।
अर्थाय सर्वसत्वानाम् उत्पद्यन्ते तथागताः ।
महाकारुणिका वीरा धर्मचक्रप्रवर्तकाः ॥
प्रतिकर्तुं कथं शक्यं बुद्धानां सर्वेदेहिभिः ।
सत्वार्थेष्व् अभियुक्तानां कल्पकोटिशतैर् अपि ॥
कल्पकोटिं वरं पक्तुं त्र्यपाये भृशदारुणे ।
न त्व् एवादर्शनं शास्तुः सर्वसर्गनिवर्तिनः ॥
यावन्तः सर्वलोकस्मिन्न् अपायगतयः पृथक् ।
वरं तत्र चिरं वासो बुद्धानाम् अश्रुतिर् न च ॥किं कारणम् अपायेषु निवासश् चिरम् इष्यते ।
यत्कारणं जिनेन्द्रस्य दर्शनं ज्ञानवर्धनम् ॥
[ bendall ed p311 ---> ]
छिद्यन्ते सर्वदुष्खाणि दृष्ट्वा लोकेश्वरं जिनं ।
संभवत्य् अवतारश् च ज्ञाने संबुद्धगोचरे ॥क्षपयत्य् आवृतीः सर्वा दृष्ट्वा बुद्धं नरोत्तमम् ।
वर्धयत्य् अमितं पुण्यं येन बोधिर् अवाप्यतए ।
इति ॥
[ cambridge ms f137b ---> ]
तद् एवम् अस्ति पुण्यवृद्धौ बुद्धसमवधानेन प्रयोजनं ।अपि च प्रतिमामात्रदर्शनम् अपि तावद् अपरिमितफलं तथागतानां ।
किं पुनः स्वरूपेण ॥ उक्तं ह्य् आर्यश्रद्धाबलाधानावतारमुद्रासूत्रे ।
यः कश्चिन् मञ्जुश्रीः कुलपुत्रः कुलदुहिता वा सर्वलोकधातुरजोपमानां प्रत्येकबुद्धानां दिने दिने शतरसम् आहारं दद्यात् दिव्यानि च वस्त्राणि ।
एवं ददद् गङ्गानदीवालुकोपमान् कल्पान् दद्यात् ।
यश् चान्यो मञ्जुश्रीः कुलपुत्रः कुलदुहिता वा चित्रकर्मलिखितं वा पुस्तककर्मकृतं वा बुद्धं पश्येद् ।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ।
कः पुनर् वादो यो ऽञ्जलिप्रग्रहं वा कुर्यात् पुष्पं वा दद्यात् धूपं वा गन्धं वा दीपं वा दद्याद् ।
अयम् एव ततो ऽसंख्येयतरं पुण्यं प्रसवतीति ॥आर्यबोधिसत्वपिटके ऽपि पुण्यवृद्ध्युपायोक्तः ।
यस् तथागतचैत्यं शोधयति स चतस्रो ऽग्राः प्रणिधानविशुद्धीर् अनुप्राप्नोति ।
कतमाश् चतस्रः ।
अग्रां रूपप्रणिधानविशुद्धिं ।
अग्रां दृढसमादानप्रणिधानविशुद्धिं ।
अग्रां तथागतदर्शनप्रणिधानविशुद्धिं ।अग्रां लक्षणसंपत्प्रणिधानविशुद्धिम् इति ॥पुनर् अत्राइवाख्यातं ।
तथागतचैत्येषु पुष्पावरोपणं गन्धानुलेपनं कृत्वाष्टाव् अविकलतानुप्राप्नोति ।
कतमाष्टौ ।
न रूपविकलो भवति ।
न भोगविकलः ।
न परिवा-
[ bendall ed p312 ---> ]
रविकलः ।
न शीलविकलः ।
न समाधिविकलः ।
न श्रुतविकलो न प्रज्ञाविकलो न प्रणिधानविकलेति ॥
उक्तं चार्यरत्नराशिसूत्रे ।
ये त्रिभवपर्यापन्नाः सत्वास् ते सर्वे प्रत्येकं तथागतस्तूपान् कारयेयुर् एवंरूपान् उच्चैस्त्वेन ।
तद् यथा सुमेरुः पर्वतराजः ।
तांश् च गङ्गानदीवालिकासमान् कल्पान् प्रत्येकं सर्वसत्कारैः सत्कुर्युः ।
यश् च बोधिसत्वो ऽविरहितसर्वज्ञताचित्तेनाइकपुष्पम् अप्य् आरोपयेत् ।
अयं तस्मात् पूर्वकात् पुण्यस्कन्धाद् बहुतरं पुण्यं प्रसवेत् ॥अत्राइवोक्तं ।
ये खलु पुनस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे महायानसंप्रस्थिता भवेयुः ।
सर्वे च चक्रवर्तिराज्यसमन्वागता भवेयुर् एकाइकश् च राजा चक्रवर्ती महासमुद्रप्रमाणदीपस्थालीं कृत्वा ।
सुमेरुमात्रां वर्तीम् आदीप्य प्रत्येकम् एवंरूपां दीपपूजां तथागतचैत्येषु प्रवर्तयेत् ।
यश् चाभिनिष्क्रान्तगृहावासो बोधिसत्वस् तैलप्रक्षिप्तां वर्तीं कृत्वादीप्य तथागतचैत्ये धारयेत् ।
अस्यास् तैलप्रक्षिप्ताया वर्तेर् एतत् पूर्वकं प्रदीपदानं शततमीम् अपि कलां नोपैति ।
यावद् उपनिषदम् अपि न क्षमतए इति ।
पेयालं ॥
ये च खलु पुनस् ते राजानश् चक्रवर्तिनो बुद्धप्रमुखं भिक्षुसं-
[ cambridge ms f138b ---> ]
घं सर्वसुखोपधानैः सत्कुर्युः यश् चाभिनिष्क्रान्तगृहावासो बोधिसत्वः पिण्डपात्रं चरित्वा पात्रपर्यापन्नं परेषां संविभज्य परिभुञ्जीत ।
इदं ततो बहुतरं च महार्घतरं च ।
यच् च ते राजानश् चक्रवर्तिनः सुमेरुमात्रं चीवरराशिं बुद्धप्रमुखाय भिक्षुसंघाय दद्युः ।
यच् चाभिनिष्क्रान्तगृहावासो बोधिसत्वस् त्रिचीवरं बहिर्धा महायानसंप्रस्थिताय बुद्धप्रमुखाय भिक्षुसंघाय वा तथागतचैत्ये वा दद्याद् ।
इदं भिक्षोश् चीवरदानम् एतत् पूर्वकचीवरराशिम् अभिभवति ।
यच् च ते राजानः प्रत्येकं सर्वं जम्बूद्वीपं पुष्पसंस्तृतं कृत्वा तथागतचैत्ये निर्यातयेत् ।
यच् चाभिनिष्क्रान्तगृहावासो बोधिसत्वः अन्तशाइकपुष्पम् अपि तथागतचैत्ये आरोपयेत् ।
अस्य दानस्याइतत् पूर्वकं दानं शततमीम् अपि कलां नोपैति ।
यावद् उपनिषदम् अपि नोपैतीति ॥
[ bendall ed p313 ---> ]
आर्यानुपूर्वसमुद्गतपरिवर्ते ऽपि देशितं ।
चतुरेमान् भद्रानुशंसान् पश्यन् बोधिसत्वस् तथागतपूजायाम् उत्सुको भवति ।
कतमांश् चतुरः ।
अग्रश् च मे दक्षिणीयः पूजितो भविष्यति
[ cambridge ms f139a ---> ]
मां च दृष्ट्वान्ये ऽपि तथा शिक्षिष्यन्ति ।
तथागतं च पूजयित्वा बोधिचित्तं दृढं भविष्यति ।
द्वात्रिंशतां च महापुरुषलक्षणानां संमुखदर्शनेन कुशलमूलम् उपचितं भविष्यति ।
इमाश् चत्वारः इति ॥इदं च निरुत्तरं तथागतपूजोपस्थानं ।यथोदाहृतम् आर्यसागरमतिपरिपृच्छासूत्रे ।
त्रीणीमानि सागरमते तथागतस्य निरुत्तराणि पूजोपस्थानानि ।
कतमानि त्रीणि ।
यच् च बोधिचित्तम् उत्पादयति ।
यच् च सद्धर्मं परिगृह्णाति ।
यच् च सत्वेषु महाकरुणाचित्तम् उत्पादयतीति ॥निर्दिष्टम् अप्य् आर्यरत्नमेघे ।
दशभिः कुलपुत्र धर्मैः समन्वागता बोधिसत्वाननुलिप्ता गर्भमलेन जायन्ते ।
कतमैर् दशभिः ।
यद् उत ।
तथागतप्रतिमाकरणतया ।
जीर्णचैत्यसंस्करणतया ।
तथागतचैत्येषु गन्धविलेपनानुप्रदानेन ।
तथागतप्रतिमासु गन्धोदकस्नानानुप्रदानेन ।
तथागतचैत्येषु संमार्जनोपलेपनानुप्रदानेन ।
मातापित्-र्णां कायपरिचर्याचरणेनाचार्योपाध्यायानां कायपरिचर्याचरणेन ।
सब्रह्मचारिणां कायपरिचर्याचरणेन ।
तच् च निरामिषेण चित्तेन न सामिषेण ।
तच् च कुशलम् एवं परिणामयन्ति ।
[ cambridge ms f139b ---> ]
अनेन कुशलमूलेन सर्वसत्वा निरुपलिप्ता गर्भमलेन जायन्ताम् इति ।
तच् च तीव्रेणाशयेन चिन्तयन्ति ।
एभिः कुलपुत्र दशभिर् धर्मैर् इति ॥अनुमोदनानुशंसास् त्व् आर्यप्रज्ञापारमितायाम् उक्ताः ।
यः प्रथमयानसंप्रस्थितानां बोधिसत्वानां महासत्वानां तांश् चित्तोत्पादान् अनुमोदते ।चरताम् अपि बोधिसत्वचर्यां तांश् चित्तोत्पादान् अनुमोदते ।
अविनिवर्तनीयाम् अपि अविनिवर्तनीयधर्मताम् अनुमोदते बोधिसत्वानां महासत्वानां ।
[ bendall ed p314 ---> ]
कियन्तं स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यस्कन्धं प्रसवति ॥
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत् ।
पे ।
स्यात् खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रस्य लोकधातोः पलाग्रेण तुल्यमानसस्य प्रमाणम् उद्ग्रहीतुं ।
न त्व् एव कौशिक बोधिसत्वस्य महासत्वस्य तेषाम् अनुमोदनासहगतानां चित्तोत्पादानां पुण्यप्रमाणं ग्रहीतुं ॥एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत् ।
माराधिष्ठितास् ते भगवन् सत्वा वेदितव्या ।
ये बोधिसत्वानां महासत्वानां प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्सं-
[ cambridge ms f140a ---> ]
बोधिम् अभिसंबुद्धानाम् एवम् अप्रमेयम् अनुमोदनासहगतं पुण्यम् इति न शृण्वन्ति न जानन्ति ।
ताम् अनुमोदनां न समन्वाहरन्ति ।
मारपक्षिकास् ते भगवन् सत्वा भविष्यन्ति ॥भगवान् आह ।
पे ।
यैः कौशिक कुलपुत्रैः कुलदुहितृभिश् चेमे चित्तोत्पादानुमोदिता बोधिसत्वयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा श्रावकयानिकैर् वा ।
ते क्षिप्रं तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यन्ति ॥ भगवान् आह ॥एवं तैर् अनुमोदनासहगतैश् चित्तोत्पादकुशलमूलैर् यत्र यत्रोपपत्स्यन्ते तत्र तत्र सत्कृताश् च भविष्यन्ति गुरुकृताश् च मानिताश् च पूजिताश् चार्चिताश् चापचायिताश् च भविष्यन्ति ।
न च ते ऽमनापानि रूपाणि द्रक्ष्यन्ति ।
न च ते ऽमनापान् शब्दान् श्रोष्यन्ति ।
एवं न गन्धान् न रसान् न स्प्रष्टव्यान् स्प्रक्ष्यन्ति न च तेषाम् अपायेषूपपत्तिः प्रतिकाङ्क्षितव्या स्वर्गोपपत्तिस् तेषां प्रतिकाङ्क्षितव्या ।
तत् कस्य हेतोः ।
तथा हि तैः सत्वैः सर्वसत्वसुखावहनानि असंख्येयानां सत्वानां कुशलमूलान्य् अनुमोदितानि यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्याप्रमेयासंख्येयान् सत्वान् परिनिर्वापयिष्यन्तीति ॥पुनर् अत्राइवाह ।
ये सुभूते गङ्गान-
[ cambridge ms f140b ---> ]
दीवालिकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्वास् ते सर्वे ऽनुत्तरां सम्यक्संबोधिं प्रतितिष्ठेयुर् अनुत्तरां सम्यक्संबोधिं प्रति-
[ bendall ed p315 ---> ]
ष्ठाय गङ्गानदीवालिकासमान् कल्पान् उपलम्भसंज्ञिनश् चत्वारि ध्यानानि समापद्येरन् ।
यश् च बोधिसत्वो महासत्वो ऽनया प्रज्ञापारमितयोपायकौशल्येन च परिगृहीतातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धं ।
श्रावकानां प्रत्येकबुद्धानाम् अपि शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धं सर्वम् एकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेषम् अनुमोदेताग्रयानुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणीतयोत्तरया निरुत्तरयोत्तरोत्तरयासमयासमसमयाप्रतिसमयानुमोदनयानुमोद्यानुमोदनासहगतं [[दोउब्त्]] पुण्यक्रियावस्त्व् अनुत्तरायै सम्यक्संबोधये परिणामयति ।
अस्य सुभूते ऽनुमोदनासहगतस्य पुण्यक्रियावस्तुनो ऽसौ पूर्वकाउपलम्भिकानां बोधिसत्वानां चतुर्ध्यानमयः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति यावद् उपनिषद-
म् अपि न क्षमतए इति ॥अयम् एव नयः परिणामनायाम् उक्तः ।
अथवाग्रपरिणामनया परिणामितत्वात् सर्वपुण्यानाम् अस्य बुद्धत्वाय सत्कृतप्रणिधिबुद्धत्वम् एव स्यात् ।
अतः का परा पुण्यवृद्धिः ।
तद् ध्य् अशेषसत्वमोक्षकृतपुण्यज्ञानोपेतं निर्विकल्पं च ॥
अध्येषणायास् त्व् अनुशंसार्योग्रपरिपृच्छायाम् उक्ता धर्मग्राह्यताम् उपादायाप्रमेयासंख्येयेषु बुद्धक्षेत्रेष्व् आयुः परिरक्षणायेति ॥
आर्यशिक्षासमुच्चये वन्दनाद्यनुशंसा सप्तदशपरिच्छेदः समाप्तः ॥
रत्नत्रयानुस्मृतिर् नामाष्टादशः परिच्छेदः ॥
उक्ता भद्रचर्याविधिना पुण्यवृद्धिः ।
अस्याश् चायम् अपरो हेतुः ।
यो ऽयं श्रद्धादीनां सदाभ्यासः ॥यथोक्तम् आर्यतथागतगुह्यसूत्रे ।
चत्वारेमे महाराज धर्मा महायानसंप्रस्थितानां विशेषगामितायै संवर्तन्ते ऽपरिहाणाय च ।
कतमे चत्वारः ।
श्रद्धा महाराज विशेषगामितायै संवर्तते ऽपरिहाणाय ।
तत्र कतमा श्रद्धा ।
यया श्रद्धयार्यान् उपसंक्रामति ।
अकरणीयं च न करोति ॥गौरवं महाराज विशेषगामितायै संवर्तते ।
येन गौरवेण सुभाषितं शृणोति शुश्रूषते ऽविरहितश्रोत्रश् च धर्मं शृणोति ॥निर्मानता महाराज विशेषगामितायै संवर्तते ।
यया निर्मानतयार्याणाम् अभिनमति प्रणमति नमस्यति ॥वीर्यं महाराज विशेषगामितायै संवर्तते ऽपरिहाणाय ।
येन वीर्येण कायलघुतां चित्तलघुतां-
[ cambridge ms f141b ---> ]
च प्रतिलभते सर्वकार्याणि चोत्तारयति ॥इमे महाराज चत्वारेति ॥एषां श्रद्धादीनां सदाभ्यासः कार्यः ।
अथवान्येषां श्रद्धादीनां ॥
यथाहार्याक्षयमतिसूत्रे पञ्चेमानीन्द्रियाणि ।
कतमानि पञ्च ।
श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इति ॥तत्र कतमा श्रद्धा ।
यथा श्रद्धायाश् चतुरो धर्मान् अभिश्रद्दधाति ।
कतमांश् चतुरः ।
संसारावचरीं लौकिकीं सम्यग्दृष्टिं श्रद्दधाति ।
स कर्मविपाकप्रतिशरणो भवति ।
यद् यत् कर्म करिष्यामि तस्य तस्य कर्मणः फलविपाकं प्रत्यनुभविष्यामीति ।
स जीवितहेतोर् अपि पापं कर्म न करोति ।
बोधिसत्वचारिकाम् अभिश्रद्दधाति ।
तच्चर्याप्रतिपन्नश् चान्यत्र
[ bendall ed p317 ---> ]
याने स्पृहां नोत्पादयति ।
परमार्थनीतार्थं गम्भीरप्रतीत्यसमुत्पादनैरात्म्यनिःसत्वनिर्जीवनिःपुद्गलव्यवहारशून्यतानिमित्ताप्रणिहितलक्षणान् सर्वधर्मान् श्रुत्वा श्रद्दधाति ।
सर्वदृष्टिकृतानि च नानुशेते सर्वबुद्धधर्मान् बलवैशारद्यप्रभृतींश् च श्रद्दधाति ।
श्रद्धाय च विगतकथंकथस् तान् बुद्धधर्मान् समुदानयति ।
इदम् उच्यते श्रद्धेन्द्रियम् ॥तत्र कतमद् वीर्येन्द्रियं ।
यान् धर्मान् श्रद्धेन्द्रियेण श्रद्दधाति तान् धर्मान् वीर्येन्द्रियेण समुदानयतीदम् उच्यते वीर्येन्द्रियं ॥
तत्र कतमत् स्मृतीन्द्रियं ।
यान् धर्मान् वीर्येन्द्रियेण समुदानयति तान् धर्मान्
[ cambridge ms f142a ---> ]
स्मृतीन्द्रियेण न विप्रणाशयति ।
इदम् उच्यते स्मृतीन्द्रियम् ॥तत्र कतमत् समाधीन्द्रियं ।
यान् धर्मान् स्मृतीन्द्रियेण न विप्रणाशयति तान् समाधीन्द्रियेणाइकाग्रीकरोतीदम् उच्यते समाधीन्द्रियं ॥तत्र कतमत् प्रज्ञेन्द्रियम् ।यान् धर्मान् समाधीन्द्रियेणाइकाग्रीकरोति तान् प्रज्ञेन्द्रियेण प्रत्यवेक्षते प्रतिविध्यति ।
यद् एतेषु धर्मेषु प्रत्यात्मज्ञानम् अपरप्रत्ययज्ञानम् इदम् उच्यते प्रज्ञेन्द्रियं ॥एवम् इमानि पञ्चेन्द्रियाणि सहितान्य् अनुप्रबद्धानि सर्वबुद्धधर्मान् परिपूरयन्ति ।
व्याकरणभूमिं चाप्ययन्तीति ॥श्रद्धादीनां बलानां सदाभ्यासः कार्यः ।
यथोक्तम् आर्यरत्नचूडसूत्रे ।
तत्र कतमत् कुलपुत्र बोधिसत्वस्य बलचर्यापरिशुद्धिः ।
यद् एभिर् एवेन्द्रियैर् उपस्तब्धो ऽनवमर्द्यो भवति सर्वमारैः ।
असंहार्यो भवति श्रावकप्रत्येकबुद्धयानाभ्यां ।
अविनिवर्त्यो भवति महायानात् ।
दुर्धर्षो भवति सर्वक्लेशैः ।
दृढो भवति पूर्वप्रतिज्ञासु ।
तृप्तो भवति चित्तेन ।
बलवान् भवति कायेन ।
गुप्तो भवतीन्द्रियैः ।
दुःपराजयो भवति तीर्थिकरैः ।
इत्य् आदि ॥
एवं तावच् छ्रद्धादीनां सदाभ्यासः पुण्यवृद्धये ॥
का मैत्री ॥
यथाह चन्द्रप्रदीपसूत्रे ।
[ bendall ed p318 ---> ]
यावन्ति पूजा बहुविधाप्रमेया या क्षेत्रकोटी-
[ cambridge ms f142b ---> ]
न् अयुतबिम्बरेषु ।
तां पूजकृत्वा पुरुषवरेषु नित्यं संख्याकलापो न भवति मैत्रचित्त ।
इति ॥का बुद्धाद्यनुस्मृतिः ॥
तत्र राष्ट्रपालसूत्रे संवर्णिता ।
वन्दामि ते कनकवर्णनिभा वरलक्षणा विमलचन्द्रमुखा ।
वन्दामि ते ऽसमज्ञानपरा सदृशो न ते ऽस्ति त्रिभवे विरजा ॥
मृदु चारु स्निग्ध शुभ केश नखा गिरिराजतुल्य तव चोष्णिर् इह ।
नोष्नीषम् ईक्षितु तवास्ति समो विभ्राजते भ्रुवि तवोर्ण मुने ॥कुन्देन्दुशङ्खहिमशुभ्रनिभा नीलोत्पलाभशुभनेत्रवरा ।
कृपयेक्षसे जगद् इदं हि यया वन्दामि ते विमलनेत्र जिन ॥जिह्वा प्रभूत तनु ताम्रनिभा वदनं च छादयसि येन स्वकं ।
धर्मं वदन् विनयसे च जगत् वन्दामि ते मधुरस्निग्धगिरा ॥
दशनाः शुभाः सुदृढ वज्रनिभाः त्रिंशद्दश अप्य् अविरलाः सहिताः ।
कुर्वन् स्मितं विनयसे च जगत् वन्दामि ते मधुरसत्यकथा ॥
रूपेण चाप्रतिसमो ऽसि जिनः प्रभया च भासयसि क्षेत्रशतान् ।
ब्रह्मेन्द्रपालजगतो भगवन् जिह्मीभवन्ति तव ते प्रभया ॥
[ bendall ed p319 ---> ]
एणेय जङ्घ भगवन्न् असमा गजराजबर्हिमृगराजगतो ।
ईक्षन् व्रजस्य् अपि युगं भगवन् संकम्पयन् धरणिशैलतटान् ॥
[ cambridge ms f143a ---> ]
कायश् च लक्षणचितो भगवन् सूक्ष्म छवी कनकवर्णनिभा ।
नेक्षञ् जगद् व्रजति तृप्तिम् इदं रूपं तवाप्रतिमरूपधर ॥
त्वं पूर्वकल्पशतचीर्णतपाः त्वं सर्वत्यागदमदानरतः ।
त्वं सर्वसत्वकृपमैत्रमनाः वन्दामि ते परमकारुणिकम् ॥त्वं दानशीलनिरतः सततं त्वं क्षान्तिवीर्यनिरतः सुदृढः ।
त्वं ध्यानप्रज्ञप्रभतेजधरो वन्दामि ते ऽसमज्ञानधर ॥
त्वं वादिसूर कुगणप्रमथी त्वं सिंहवन् नदसि पर्षदि च ।
त्वं वैद्यराज त्रिमलान्तकरो वन्दामि ते परमप्रीतिकर ॥वाक्कायमानसविशुद्ध मुने त्रिभवेष्व् अलिप्तजलपद्मम् इव ।
त्वं ब्रह्मघोषकलविङ्करुतो वन्दामि ते त्रैभवपारगतम् ॥मायोपमं जगद् इमं भवता नटरङ्गस्वप्नसदृशं विदितं ।
नात्मा न सत्व न च जीवगती धर्मा मरीचिदकचन्द्रसमाः ॥शून्याश् च शान्तानुत्पादनयं अविजानद् एव जगद् उद्भ्रमति ।
तेषाम् उपायनययुक्तिशतैः अवतारयस्य् अतिकृपालुतया ॥
[ bendall ed p320 ---> ]
रागादिभिश् च बहुरागशतैः संभ्रामितं सतत वीक्ष्य जगत् ।
वैद्योपमो विचरसे ऽप्रतिमो परिमोचयन् सुगत सत्वशतान् ॥
जातीजरामरणशोक-
[ cambridge ms f143b ---> ]
हतं प्रियविप्रयोगपरिदेवशतैः ।
सततातुरं जगद् अवेक्ष्य मुने परिमोचयन् विचरसे कृपया ॥
रथचक्रवद् भ्रमति सर्वजगत् तिर्यक्षु प्रेतनिरये सुगतौ ।
मूढादेशिकानाथगताः तस्य प्रदर्शयसि मार्गवरं ॥
ये ते बभूवु पुरिमाश् च जिनाः धर्मेश्वरा जगति चार्थकराः ।
अयम् एव तैः प्रकथितार्यपथो यद् देशयस्य् अपि विभो ऽप्रतिमः ॥
स्निग्धं ह्य् अकर्कश मनोज्ञ वरं ब्रह्माधिकं परमप्रीतिकरं ।
गन्धर्वकिन्नरवराप्सरसाम् अभिभूय तां गिरम् उदाहरसे ॥सत्यार्जवाक्षयम् उपायनयैः परिशोधितां गिरम् अनन्तगुणां ।
श्रुत्वा हि यां नियुतसत्वशताः यानत्रयेण जनयन्ति शमम् ॥तव पूजया सुखम् अनेकविधम् दिव्यं लभन्ति मनुजेषु तथा ।
आढ्यो महाधन महाविभवो भवते जगद्धितकरो नृपतिः ॥बलचक्रवर्त्य्- अपि च द्वीपपतिः जगद् आवृणोति दशभिः कुशलैः ।
रत्नानि सप्त लभते सुशुभा त्वयि संप्रसादजनको ऽप्रतिमः ॥
[ bendall ed p321 ---> ]
ब्रह्मापि शक्रापि लोकपतिः भवते च संतुषिट देवपतिः ।
परनिर्मितो ऽपि च स यामपतिः त्वत्पूजया भवति चापि जिनः ॥एवं ह्य् अमोघ तव पूजा कृता संदर्शनं-
[ cambridge ms f144a ---> ]
श्रवणम् अप्य् असमं ।
भवते जगद् विविधदुःखहरं स्पृशते पदं च परमं विरजं ॥मार्गज्ञ मार्गकुशला भगवन् कुपथान् निवारयसि लोकम् इमं ।
क्षेमे शिवे विरजि आर्यपथे प्रतिष्ठापयसि जगद् भगवन् ॥पुण्यार्थिकस्य तव पुण्यनिधे सतताक्षया भवति पुण्यक्रिया ।
बहुकल्पकोटिषु न याति क्षयं यावद् धि न स्पृशति बोधि वरां ॥
परिशुद्धक्षेत्र लभते रुचिरं परिनिर्मिताभ सद प्रीतिकरं ।
शुद्धाश् च कायवचसा मनसा सत्वा भवन्त्य् अपि च क्षेत्रवरे ॥इत्य् एवम् आदिगुण नाइकविधान् लभते जिनार्चनकृतान् मनुजः ।
स्वर्गापवर्ग मनुजेषु सुखं लभते च पुण्यनिधि सर्वजगे ॥
कीर्तियशश् च प्रसृतं विपुलं तव सर्वदिक्षु बहुक्षेत्रशतान् । संकीर्तयन्ति सुगताः सततं तव वर्णमाल परिषत्सु जिनाः ॥विगतज्वरा जगति मोक्षकराः प्रियदर्शनासमकारुणिकाः ।
शान्तेन्द्रिया शमरता भगवन् वन्दामि ते नरवरप्रवर ॥
[ bendall ed p322 ---> ]
लब्धाभिज्ञ जिन पञ्च मया गगने स्थितेन ते निशम्य गिरम् ।
भवितास्मि वीर सुगतप्रतिमो विभजिष्य धर्मम् अमलं जगतः ॥स्तुत्वाद्य सर्वगुणपारगतं नरदेवनागमहितं सुगतं ।
पुण्यं यद् अर्जितम् इदं-
[ cambridge ms f144b ---> ]
विपुलं जगद् आप्नुयाद् अपि च बुद्धपदम् ।इति ॥
अथवा यथार्यधर्मसंगीतिसूत्रे कथितं ।
पुनर् अपरं बुद्धा भगवन्तो महापुण्यज्ञानसंभारा महामैत्रीमहाकरुणागोचरा महासत्वराशेः त्राणभूता महाभैषज्यशल्यहर्तारः सर्वसत्वसमचित्तानित्यसमाधिगोचराः संसारनिर्वाणविमुक्ता यावत् सत्वानां मातापितृकल्पाः समानमैत्रचित्ताः ।
पे ॥
सर्वलोकानभिभूताः सर्वलोकस्यालोकभूता महायोगयोगिनो महात्मानो महाजनपरिवारा विशिष्टजनपरिवारानिवारितदर्शनश्रवणपर्युपासनाः स्वसुखनिरपेक्षाः परदुष्खप्रशमनप्रिया धर्मप्रिया धर्मधरा धर्माहारा धर्मभिषजो धर्मेश्वरा धर्मस्वामिनो धर्मदानपतयो नित्यत्यागाभिरता नित्याप्रमत्ता नित्यविवेकाभिरताः सर्वत्र तीर्थसेतुभूता महाराजमार्गप्रख्या यावद् असेचनकदर्शना बुद्धा भगवन्त ।
एवं तान् अनुस्मरति ।
एवं च तान् अनुस्मृत्य तद्गुणपरिनिष्पत्त्यर्थं स्मृतिम् उपस्थापयतीति ॥
तद् उच्यते बुद्धानुस्मृतिर् इति ॥
अत्राइव धर्मानुस्मृतिम् आह ।
इह बोधिसत्वस्याइवं भवति ।
यए एते बुद्धा भगवन्तो ऽनन्तापर्यन्तगुणाइते धर्मजा धर्मपदा धर्मनिर्मिता धर्माधिपतेया धर्मप्रभा धर्मगोचरा धर्मप्रतिशरणा धर्मनिष्पन्नाः ।
पेयालं ॥
यान्य् अपि लौकिकानि लोकोत्तराणि च सुखानि सन्ति ।
[ bendall ed p323 ---> ]
तान्य् अपि धर्म-
[ cambridge ms f145a ---> ]
जानि धर्मनिष्पन्नानि ।
तस्मान् मया बोध्यर्थिकेन धर्मगुरुकेण भवितव्यं ।
धर्मगौरवेण धर्मप्रतिशरणेन धर्मपरायणेन धर्मसारेण धर्मान्व ... धर्मप्रतिपन्नेन ।
इतीयम् उच्यते बोधिसत्वस्य धर्मानुस्मृतिः ॥
पुनर् अपरं बोधिसत्वस्याइवं भवति ।
समो हि धर्मः समः सत्वेषु प्रवर्तते ।
धर्मो हीनमध्यविशिष्टानपेक्ष्यः प्रवर्तते ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।
न धर्मो सुखप्रेक्षिकया प्रवर्तते ।
अपक्षपतितो हि धर्मः ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मः कालम् अपेक्ष्य प्रवर्तते ।आकालिको हि धर्मः ।
ऐहिपश्यिकः ।
प्रत्यात्मवेदनीयः ।तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मोदारे प्रवर्तते हीनेषु न प्रवर्तते ।
अनुन्नामावनामो हि धर्मः ।तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मः शुद्धेषु प्रवर्तते क्षतेषु न प्रवर्तते ।
उत्कर्षापकर्षापगतो हि धर्मस् तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मार्येषु प्रवर्तते पृथग्जनेषु न प्रवर्तते ।
क्षेत्रदृष्टिविगतो हि धर्मः ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।
न धर्मो दिवा प्रवर्तते रात्रौ न प्रवर्तते ।
रात्र्यां वा प्रवर्तते दिवा न प्रवर्तते ।
सदाधिष्ठितो हि धर्मः ।
तथा मया धर्मसदृशचित्तेन भवितव्यम् ।
न धर्मो विनयवेलाम् अतिक्रामति ।
न धर्मस्य क्वचिद् विलम्बः ।
तथा मया धर्मसदृशचित्तेन भवितव्यम् ।
न धर्मस्योनत्वं न पूर्णत्वम् अप्रमेयासंख्येयो हि धर्माकाशवन् न क्षीयते न वर्धते ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।
न धर्मः सत्वै रक्ष्यते ।
धर्मः सत्वान् रक्षति ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मः शरणं पर्येषते ।धर्मः सर्वलोकस्य शरणं ।तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मस्य क्वचित् प्रतिघातो* ।अप्रतिहतलक्षणो हि धर्मः ।
[ bendall ed p324 ---> ]
तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मो ऽनुशयं वहति ।
निरनुशयो हि धर्मः ।तथा मया धर्मसदृशचित्तेन भवितव्यम् ।
न धर्मः संसारभयभीतो न निर्वाणानुनीतः ।
सदा निर्विकल्पो हि धर्मः ।तथा मया धर्मसदृशचित्तेन भवितव्यम् ।एवं बोधिसत्वो धर्मवद् धर्मे स्मृतिम् उपस्थापयति ।
तद् उच्यते धर्मानुस्मृतिर् इति ॥अत्राइवाह ।
संघो हि धर्मवादी धर्मचरणो धर्मचिन्तको धर्मक्षेत्रं धर्मधरो धर्मप्रतिशरणो धर्मपूजको धर्मकृत्यकारी धर्मगोचरो धर्मचारित्रसंपन्नः ।
स्वभावऋजुकः स्वभावशु-
[ cambridge ms f146a ---> ]
द्धः सानुक्रोशो धर्मानुकारुणिकः सदा विवेकगोचरः ।
सदा धर्मपरायणः सदा शुक्लकारीत्य् आदि ॥
तत्र बोधिसत्वस्य संघम् अनुस्मरतः एवं भवति ।
यए एते संघस्य भूता गुणाइते मयात्मनः सर्वसत्वानां च निष्पादयितव्येति ॥यथार्यविमलकीर्तिनिर्देशे बोधिसत्वगुणोक्तास् तथा संघानुस्मृतिर् भाव्या ।
सर्वसत्वान ये रूपा रुतघोषाश् चेरिताः ।
एकक्षणेन दर्शेन्ति बोधिसत्वा विशारदाः ॥
ते जीर्णव्याधिता भोन्ति बोधिसत्वा मृतम् आत्मान दर्शयी ।सत्वानां परिपाकाय मायाधर्म विक्रीडिताः ॥कल्पोद्दाहं च दर्शेन्ति उद्दहित्वा वसुंधराम् ।
नित्यसंज्ञिन सत्वानाम् अनित्यम् इति दर्शयी ॥सत्वैः शतसहस्रेभिर् एकराष्ट्रे निमन्त्रिताः ।
सर्वेषां गृह भुञ्जन्ति सर्वान् नामन्ति बोधये ॥
ये केचिन् मन्त्रविद्या वा शिल्पस्थाना बहुविधाः ।
सर्वत्र पारमिप्राप्ताः सर्वसत्वसुखावहाः ॥
[ bendall ed p325 ---> ]
यावन्तो लोक पाषण्डाः सर्वत्र प्रव्रजन्ति ते ।
नानादृष्टिगतं प्राप्तांस् ते सत्वान् परिपाचति ॥ चन्द्रा वा भोन्ति सूर्या वा शक्रब्रह्मप्रजेश्वराः ।
भवन्ति आपस् तेजश् च पृथिवी मारुतस् तथा ॥
रोगान्तरकल्पेषु भैषज्यं भोन्ति उत्तमाः ।
येन ते सत्व मुच्यन्ते सुखी भोन्ति अ-
[ cambridge ms f146b ---> ]
नामयाः ॥दुर्भिक्षान्तरकल्पेषु भवन्ती पानभोजनम् ।क्षुधापिपासाम् अपनीय धर्मं देशेन्ति प्राणिनाम् ॥
शस्त्रान्तरकल्पेषु मैत्रीध्यायी भवन्ति ते ।
अव्यापादे नियोजेन्ति सत्वकोटिशतान् बहून् ॥महासंग्राममध्ये च समपक्षा भवन्ति ते ।
सन्धिसामग्रि रोचेन्ति बोधिसत्वा महाबलाः ॥
ये चापि निरयाः केचिद् बुद्धक्षेत्रेष्व् अचिन्तिषु ।
संचिन्त्य तत्र गच्छन्ति सत्वानां हितकारणात् ॥यावन्त्या गतयः काश्चित् तिर्यग्योनौ प्रकाशिताः ।
सर्वत्र धर्मं देशेन्ति तेनोच्यन्ति नायकाः ॥कामभोगांश् च दर्शेन्ति ध्यानं च ध्यायिनां तथा ।
विध्वस्त मारं कुर्वन्ति अवतारं न देन्ति ते ॥
अग्निमध्ये यथा पद्मम् अभूतं तं विनिर्दिशेत् ।
एवं कामांश् च ध्यानं चाभूतं ते विदर्शयी ॥
[ bendall ed p326 ---> ]
संचिन्त्य गणिकां भोन्ति पुंसाम् आकर्षणाय ते ।
रागाङ्कु संलोभ्य बुद्धज्ञाने स्थापयन्ति ते ॥ग्रामिकाश् च सदा भोन्ति सार्थवाहाः पुरोहिताः ।
अग्रामात्याथ चामात्यः [[दोउब्त्]] सत्वानां हितकारणात् ॥
दरिद्राणां च सत्वानां निधाना भोन्ति अक्षयाः ।
तेषां दानानि दत्वा च बोधिचित्तं जनेन्ति ते ॥
मानस्तब्धेषु सत्वेषु महानग्ना भवन्ति ते ।
सर्वमानसम् उद्घातं बोधिं प्रार्थेन्ति उत्तमाम् ॥भयार्दितानां सत्वानां संतिष्ठन्ते ऽग्रतः सदा ।
अभयं तेषु दत्वा च परिपाचेन्ति बोधये ॥पञ्चाभिज्ञाश् च ते भूत्वा ऋषयो ब्रह्मचारिणः ।
शीले सत्वान् नियोजेन्ति क्षान्तिसौरत्यसंयमे ॥उपस्थानगुरून् सत्वान् पश्यन्तीह विशारदाः ।
चेटा भवन्ति दासा वा शिष्यत्वम् उपयान्ति च ॥येन येनाइव चाङ्गेन सत्वो धर्मरतो भवेत् ।
दर्शेन्ति हि क्रियाः सर्वा महोपायसुशिक्षिताः ॥
[ bendall ed p327 ---> ]
येषाम् अनन्ता शिक्षा हि अनन्तश् चापि गोचरः ।
अनन्तज्ञानसंपन्नानन्तप्राणिमोचकाः ॥
न तेषां कल्पकोटीभिः कल्पकोटिशतैर् अपि ।
बुद्धैर् अपि वदद्भिस् तु गुणान्तः सुवचो भवेद् ।
इति ॥यथार्यरत्नोल्काधारण्यां बोधिसत्वगुणोक्तास् तथा भावयितव्याः ।
रश्मि प्रमुञ्चिय माल्यवियूहा माल्यवतंसक माल्य वितानाः ।
माल्यविचिन्नविकीर्णसमन्ताः ते जिनपूज करोन्ति महात्मा ॥रश्मि प्रमुञ्चिय चूर्णवियूहा चूर्णवतंसक चूर्णवितानाः ।
चूर्णविचित्रविकीर्ण समन्तान् ते जिनपूज करोन्ति मह-आत्मा ॥रश्मि प्रमुञ्चिय पद्मवियूहा पद्मवतंसक पद्मविताना ।
पद्मविचित्रविकीर्णसमन्तान् ते जिनपूज करोन्ति महात्मा ॥रश्मि प्रमुञ्चिय हारवियूहा हारवतंसक हारविताना ।
[ cambridge ms f147b ---> ]
हारविचित्रविकीर्णसमन्तान् ते जिनपूज करोन्ति महात्मा ॥रश्मि प्रमुञ्चिय ध्वजाग्रवियूहा ते ध्वज पाण्डुरलोहितपीताः ।
नीलम् अनेक पताक विचित्रा ॥ध्वज समलंकरिते जिनक्षेत्राः ते मणिजालविचित्रवियूहा ।
पट्ट पताक प्रलम्बित दामा किङ्किणिजाल जिनस्वरघोषान् ॥छत्र धरेन्ति तथागतमूर्ध्ने ते यथाइकजिनस्य करोन्ति ।
पाणितलात् तु अचिन्तियपूजां एवम् अशेषतसर्वजिनानां ॥
एष समाधि विकुर्व ऋषीणां ते जगसंग्रहज्ञानविकुर्वा ।
अग्रसमाध्यभिनिर्हरमाणाः सर्वक्रियोपचार सुखेभिः ॥
[ bendall ed p328 ---> ]
सत्व विनेन्ति उपायसहस्रैः केचि तथागतपूजमुखेन ।
दानाचिन्ति अत्यागमुखेन सर्वधुतंगुणशीलमुखेन ॥अक्षयक्षान्ति अक्षोभ्यमुखेन केचि व्रतं तपवीर्यमुखेन ।
ध्यान प्रशान्ति विहारमुखेन स्वर्थविनिश्चयप्रज्ञमुखेन ॥सर्वोपाय सहस्रमुखेन ब्रह्मविहाराभिज्ञमुखेन ।
संग्रहवस्तु हिताइषिमुखेन पुण्यसमुच्चय ज्ञानमुखेन ॥सत्यप्रतीत्य विमोक्षमुखेन केचि बलेन्द्रियमार्गमुखेन ।
श्रावकयानविमुक्तिमुखेन प्रत्यययानविशुद्धिमुखेन ॥उत्तमयानविकुर्वमु-
[ cambridge ms f148a ---> ]
खेन केचिद् अनित्यतदुष्खमुखेन ।
केचि निरात्मनिजीवमुखेनाशुभत संज्ञिविरागमुखेन ॥शान्तनिरोधसमाधिमुखेन यातुक चर्यमुखा जगती ये ।यातुक धर्ममुखाः प्रतियन्तः ते तु समन्तविमोक्षमुखेन ॥सत्व विनेन्ति यथाशय लोके ये तु समन्तविमोक्षमुखेन ।
सत्व विनेन्ति यथाशय लोके तेष निमित्त न शक्य ग्रहीतुं ॥केनचिद् एष समाधिविकुर्वाः तेन तिव्यूहत [[दोउब्त्]] अग्रसमाधिः ।
सर्वजगत्परिपाचनुलोमा सर्वरती मुखप्रीतिप्रहर्षाः ॥चिन्तिय दर्शयि सर्व विनेन्ति यत्र दुर्भिक्ष सुदुर्लभ सर्वं ।
ये परिष्कार सुखावह लोके तत्र च सर्वभिप्रायक्रियाभिः ॥दातु ददन्ति करोन्ति जगार्थं ते वरभोजनपानरसाग्रैः ।वस्त्रनिबन्धनरत्नविचित्रैः राज्यधनात्मप्रियैः परित्यागैः ॥
[ bendall ed p329 ---> ]
दानधिमुक्ति जगद् विनयन्ति ते वरलक्षणचित्रितगात्रा ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
