Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
शिक्षासमुच्चय
- Tác giả
- शान्तिदेव
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
शान्तिदेव: शिक्षासमुच्चय
[i. दानपारमिता]
शिक्षा-समुच्चयः ।
दान-पारमिता नाम प्रथमः परिच्छेदः ॥
नमः सर्व-बुद्ध-बोधि-सत्वेभ्यः ॥
यस्य + अ-श्रवेण नरक-आदि महा-प्रपात-दाह-आदि-दुष्खम् अनुभूतम् अभूद् भवद्भिः । तीव्रं पुनः पुनर् अन्-अन्तम् अ-शान्त-चित्तैस् तच् * छ्रोतुम् आदरम् उदारतरं भजध्वम् ॥
श्रुत्वा ... पापं अन्-उद्धत-आत्मा पूर्व-अर्जितं च विपुलं क्षपयत्य् अ-शेषम् । अ-प्राप्त-पूर्वम् अपि सौख्यम् अवाप्नुवन्ति हानिं सुखाच् च न कदा-चिद् अपि प्रयान्ति ॥
सम्बोध्i-satva-sukham उत्तमम् अ-क्षय ... अप्य् अ-सम-संपदम् आप्नुवन्ति । तद् धर्म-रत्नम् अत्i-dur-labham अप्य् अ-लब्धं लब्ध-क्षणाः शृण्वत स-आदरम् उच्यमानम् ॥
आयान्तु च त्र्i-bhuvana-eka-hitasya वाक्यं श्रोतुं प्रसन्न-मनसः सुर-नाग-सत्वाः । गन्धर्व-यक्ष-गरुड-असुर-किन्नर-इन्द्राः प्रेत-आदयः श्रवण-जात-तृषः स-हर्षाः ॥
सु-गतान् स-सुतान् स-धर्म-कायान् प्रणिपत्य + आदरतो * अखिलांश् च वन्द्यान् । सु-गत-आत्म-ज-सम्वर-अवतारं कथयिष्यामि समुच्चित-अर्थ-वाक्यैः ॥
न च किञ्-चिद् अ-पूर्वम् अत्र वाच्यं न च संग्रन्थन-कौशलं मम + अस्ति । अत एव न मे पर-अर्थ-यत्नः स्व-मनो भावयितुं मम + इदम् इष्टम् ॥
मम तावद् अनेन याति वृद्धिं कुशलं भावयितुं प्रसाद-वेगः । यदि मत्-सम-धातुर् एव पश्येद् अ-परो * अप्य् एनम् अतो * अपि स-अर्थको * अयम् ॥
क्षण-सम्पद् इयं सु-दुर्-लभा प्रतिलब्धा पुरुष-अर्थ-साधनी । यदि न + अत्र विचिन्त्यते हितं पुनर् अप्य् एष समागमः कुतः ॥
यथा + उक्तम् आर्य-गण्ड-व्यूह-सूत्रे । आर्य-जय-उष्म-आयतन-विमोक्षे ॥
दुर्-लभा + अष्टा-क्षण-निर्वृत्तिर् दुर्-लभो मनुष्य-प्रतिलम्भो दुर्-लभा क्षण-संपत्-विशुद्धिर् दुर्-लभो बुद्ध-उत्पादो । दुर्-लभा + अ-विकल-इन्द्रियता । दुर्-लभो बुद्ध-धर्म-श्रवो । दुर्-लभं सत्-पुरुष-समवधानं । दुर्-लभानि भूत-कल्याण-मित्राणि । दुर्-लभो भूत-नय-अनुशासन्य् उपसंहारः । दुर्-लभं सम्यग्-जीवितं । दुर्-लभः सद्-धर्मे तद्-अनुकूलः प्रयत्नो मनुष्यलोकए इति ॥
तद् एवं-विधं समागमम् आसाद्य संवृत्i-parama-arthataः सु-विदित-संसार-दुष्खस्य + उपशमन-सुख-अभिलाषिणो बुद्ध-गोत्र-अनुभावात् तु यस्य महासत्वस्य + एवं प्रत्यवेक्षा + उत्पद्यते ॥
यदा मम परेषां च भयं दुष्खं च न प्रियं । तदा + आत्मनः को विशेषो यत् तं रक्षामि न + इतरम् । इति तेन + आत्मनः सत्व-धातोश् च ॥
दुष्ख-अन्तं कर्त्तु-कामेन सुख-अन्तं गन्तुम् इच्छता । श्रद्धा-मूलं दृढी-कृत्य बोधौ कार्या मतिर् दृढा ॥
उक्तं हि रत्न-उल्का-धारण्याम् ॥
श्रद्धयमानु जिनान् जिनधर्म्मान् श्रद्धयते चरि बुद्ध-सुतानाम् । बोधि अनुत्तर श्रद्धयमानो जायति चित्तं महा-पुरुषाणाम् ॥
श्रद्ध पुरो-गत-मातृ-जनेत्री पालिक-वर्द्धिक सर्व-गुणानाम् । कांक्ष-विनोदनि ओघ-प्रतारणि । श्रद्ध-निदर्शनि क्षेम-पुरस्य ॥
श्रद्ध अन्-आविल-चित्त-प्रसादो मान-विवर्जित-गौरव-मूला । श्रद्ध निधान-धनं चरण-अग्रं पाणि यथा शुभ-संग्रह-मूलम् ॥
श्रद्ध प्रमोद-करी परित्यागे । श्रद्ध प्रहर्ष-करी जिन-धर्म्मे । श्रद्ध विशेष-करी गुण-ज्ञाने । दैशिक प्रापणि बुद्ध-गती ये ॥
इन्द्रिय-तीक्ष्ण-प्रभास्वरतायै । श्रद्ध-बलं अ-विमर्दनतायै । निश्रय-क्लेश-अधर्षिकतायै । ऐषिका श्रद्ध स्वयं-भु-गुणानाम् ॥
श्रद्ध अ-सङ्गत-सङ्ग-सुखेषु अ-क्षण-वर्जित एक-क्षण-अग्रम् । श्रद्ध अतिक्रमु मार-पथस्य । दर्शिक उत्तम-मोक्ष-पथस्य ॥
वीजम् अ-पूतिकु हेतु-गुणानां । श्रद्ध विरोहणि बोधि-द्रुमस्य । वर्द्धनि ज्ञान-विशेष-सुखानां । श्रद्ध निदर्शिक सर्व-जिनानां ॥
ye sada śraddha sa-gaurava-buddhe | te tu na śīla na śikṣa tyajanti | ye tu na śīla na śikṣa tyajantī | te guṇavāṃ stutaye [doubtful] guṇavantaḥ ||
ye sada śraddha sa-gaurava-dharmme | te jina-dharmma a-tṛpta-śṛṇontī [doubtful] ||
ये जिन-धर्म्म् अ-तृप्त-शृणोन्ती । तेष्व् अधिमुक्ति अ-चिन्तिय-धर्म्मे ॥
ये सद श्रद्ध स-गौरव-संघे । ते अ-विवर्त्तिक संघ-प्रसन्नाः ॥
ये अ-विवर्त्तिक संघ-प्रसन्नास् ते अ-विवर्त्तिक श्रद्ध-बलातः । ये अ-विवर्त्तिक श्रद्ध-बलातो । इन्द्रिय-तीक्ष्ण-प्रभास्वर तेषाम् ॥
इन्द्रिय-तीक्ष्ण-प्रभास्वर येषाम् तेहि विवर्जित पापक-मित्राः । येहि विवर्जित पापक-मित्राः धार्म्मिक-मित्र-परिग्रह तेषाम् ॥
धार्मिक-मित्र-परिग्रह येषाम् । ते विपुलं कुशल + उपचिन्वन्ति । ये विपुलं कुशल + उपचिनोन्ती हेतु-बल-उपगताय महा-आत्मा ॥
हेतु-बल-उपगताय महा-आत्मा । तेष उदार-धिमुक्ति-विशेषाः । येष उदार-धिमुक्ति-विशेषास् ते सदा + अधिष्ठित सर्व-जिनेभिः ॥
ये सदा + अधिष्ठित सर्व-जिनेभिस् तेषु + उपपद्यति बोधयि चित्तम् । येषु + उपपद्यति बोधयि चित्तं ते अभियुक्त मह-र्षि-गुणेषु ॥
ये अभियुक्त मह-र्षि-गुणेषु जातय-बुद्ध-कुले अनुजाताः । जातय बुद्ध-कुले अनुजातास् ते समयोग अ-योग-विमुक्ताः ॥
ये समयोग अ-योग-विमुक्ताः । आशय तेष प्रसाद-विशुद्धः ॥
आशयु येष प्रसाद-विशुद्धः तेष अध्याशयु उत्तम-श्रेष्ठः । येष अध्याशयु उत्तम-श्रेष्ठस् ते सद पारमितासु चरन्ति ॥
ये सद पारमितासु चरन्ती ते प्रतिपन्न इहो मह-याने । ये प्रतिपन्न इहो मह-याने ते प्रतिपत्तितु पूजयि बुद्धान् ॥
ये प्रतिपत्तितु पूजयि बुद्धान् तेषु अनुस्मृति बुद्ध अ-भेद्या । येषु अनुस्मृति बुद्ध अ-भेद्या । ते सद पश्यिय चिन्तिय बुद्धान् ॥
ये सद पश्यिय चिन्तिय बुद्धान् । तेष न जातु न तिष्ठति बुद्धः ॥
येष न जातु न तिष्ठति बुद्धः तेष न जातु रहायति धर्म्मः । येष न जातु रहायति धर्मः ते सद धिष्ठित सर्व-जिनेभिर् । इत्य्-आदि-श्रद्धा-मूलो गुण-विस्तरो * अन्-अन्तस् तत्र + उक्तः । तत् परिसमाप्य संक्षेपतः पुनर् आह । दुर्-ल्लभ-सत्व-पृथग्-जन-काया । ये इमि श्रद्दधि ईदृशि धर्म्मान् । ये तु शुभ-उपचिताः कृत-पुण्यास् ते इमि श्रद्दधि हेतु-बलेन ॥
यो दश-क्षेत्र-रज-उपम-सत्वान् कल्पम् उपस्थिहि सर्व-सुखेन । न + उत तु तादृशु पुण्य-विशेषो यादृश श्रद्दधतो इमि धर्म्मान् ॥
इति । तथा + आर्य-दश-धर्म-सूत्रे * अपि देशितं ॥
श्रद्धा हि परमं यानं येन निर्यान्ति नायकाः । तस्माद् बुद्ध-अनुशारित्वं भजेत मतिमान् नरः ॥
अ-श्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहति । वीजानाम् अग्नि-दग्धानाम् अङ्कुरो हरितो यथा ॥
इति । अत एव + आर्य-ललित-विस्तर-सूत्रे प्रतिवेदितं । श्रद्धायाम् आनन्द योगः करणीय इदं तथा-गतो विज्ञपयति + इति ॥
तथा सिंह-परिपृच्छायां । श्रद्धया । क्षणम् अ-क्षणं वर्जयति इत्य् उक्तम् ॥
तद् एवं । श्रद्धा-मूलं दृढी-कृत्य बोधि-चित्तं दृढं कर्तव्यं सर्व-पुण्य-संग्रहत्वात् तद् यथा + आर्य-सिंह-परिपृच्छायां । सिंहेन राज-कुमारेण भगवान् पृष्तः ॥
संग्रहः सर्व-धर्माणां । कर्मणा केन जायते । प्रियश् च भोति सत्वानां यत्र यत्र + उपपद्यते ॥
भगवान् आह । सर्व-सत्व-प्रमोक्षाय चित्तं बोधाय नामयेत् । एष संग्रह धर्माणां भवते तेन च प्रियः ॥
इति । तथा + आर्य-गण्ड-व्यूह-सूत्रे * अपि वर्णितं । बोधि-चित्तं हि कुल-पुत्र वीज-भूतं सर्व-बुद्ध-धर्माणां । क्षेत्र-भूतं सर्व-जगc-chukla-dharma-virohaणतया । धरणि-भूतं सर्व-लोक-प्रतिशरणतया यावत् पितृ-भूतं सर्व-बोधि-सत्व-आरक्षणतया ॥
पेयालं ॥
वैश्रवण-भूतं सर्व-दारिद्र्य-संछेदनतया । चिन्ता-मणि-राज-भूतं सर्व-अर्थ-संसाधनतया । भद्र-घट-भूतं सर्व-अभिप्राय-परिपूरणतया । शक्ति-भूतं क्लेश-शत्रु-विजयाय । धर्म-भूतं योनिशो मनस्-कार-संछेदनतया । खड्ग-भूतं क्लेश-शिरः-प्रपातनतया । कुठार-भूतं दुष्ख-वृक्ष-संछेदनतया । प्रहरण-भूतं सर्व-उपद्रव-परित्राणतया । वडिस-भूतं संसार-जल-चर-अभ्युद्धरणतया । वात-मण्डली-भूतं सर्व-आवरण-निवरण-तृन-विकिरणतया । उद्दान-भूतं सर्व-बोध्i-satva-caryआ-प्रणिधान-संग्रहणतया । चैत्य-भूतं स-देव-मानुष-असुरस्य लोकस्य । इति हि कुल-पुत्र बोधि-चित्तम् एभिश् च + अन्यैश् च + अ-प्रमाणैर् गुण-विशेषैः समन्वागतम् इति ॥
कथं पुनर् ज्ञायते । पृथग्-जनस्य + अपि बोधि-चित्तम् उत्पद्यते । न वाङ्-मात्रम् एतद् इति । अन्-एक-सूत्र-अन्त-दर्शनात् ॥
यथा तावद् आर्य-विमलकीर्त्ति-निर्देशे निर्दिष्टं । सुमेरु-समां सत्-काय-दृष्टिम् उत्पाद्य बोधि-चित्तम् उत्पद्यते । ततश् च बुद्ध-धर्मा विरोहन्ति + इति ॥
रत्न-करण्ड-सूत्राच् च पृथग्-जनो * अपि बोधि-सत्व इति ज्ञायते ॥
यथा + उक्तं । तद् यथा + अपि नाम मञ्जुश्रीः अण्ड-कोष-प्रक्षिप्तो * अपि कलविङ्क-पोतो । अ-संभिन्न-अण्ड अ-निश्क्रान्तः कोषात् कलविङ्क-रुतम् एव मुञ्चति ॥
एवम् एव मञ्जुश्रीः अ-विद्या-अण्ड-कोष-प्रक्षिप्तो * अपि बोधि-सत्वो । अ-संभिन्न-आत्म-दृष्टिर् अ-निष्क्रान्तस् त्रैधातुकाद् बुद्ध-रुतम् एव मुञ्चति । यद् इदं शून्यता-निमित्त-अ-प्रणिहित-रुतम् एव ॥
सर्व-धर्म-प्रवृत्ति-निर्देशे * अपि कथितं । जयमतेश् च बोधि-सत्वस्य पृथिवी विदारम् अदात् । स काल-गतो महा-निरयं प्रापतद् इति । स हि शून्यतां न + अधिमुक्तवान् शून्यता-वादिनि च प्रतिघं कृतवान् ॥
नियत-अ-नियत-अवतार-मुद्रा-सूत्रे * अप्य् आख्यातं ॥
कतमः पशु-रथ-गतिको बोधि-सत्वः । तद् यथा । कश्-चित् पुरुषः पञ्च-बुद्ध-क्षेत्र-परम-अणु-रजः-समान् लोक-धातून् अभिक्रमितु-कामः स्यात् । स पशु-रथम् अभिरुह्य मार्गं प्रतिपद्यते स चिरेण दीर्घेण + अध्वना योजन-शतं गच्छेत् । स तत्र महत्या वात-मण्डल्या पश्चात् खलु पुनर् अशीतिं योजन-सहस्राणि प्रत्याकृष्य प्रत्युदावर्त्य + इति । तत् किं शक्नुयात् स पुरुषस् तान् लोक-धातून् पशु-रथेन + अतिक्रमितुम् । यावद् अन्-अभिलाप्य-अन्-अभिलाप्यैर् अपि कल्पैर् एकम् अपि लोक-धातुम् अतिक्रमितुम् । आह । न + उ हि + इदं भगवन् । भगवान् आह । एवम् एव मञ्जुश्रीः यः कश्-चिद् बोधि-चित्तम् उत्पाद्य महा-यानं । न धारयति । न पठति । श्रावक-यानीयान् सेवते । तैश् च सार्द्धं संस्तवं करोति । श्रावक-यानं च पठति स्व-अध्यायति मीमांसते परिबुध्यते * अर्थांश् च पाठयति यावद् बोधयति । स तेन धन्व-प्रज्ञो भवति सो * अन्-उत्तर-ज्ञान-मार्गात् प्रत्याकृष्यते प्रत्युदावर्त्त्यते । यद् अपि तस्य बोधि-सत्वस्य बोधि-भावना + अतः प्रज्ञा-इन्द्रियं प्रज्ञा-चक्षुः तद् अपि तस्य धन्वी-क्रियते प्रतिहन्यते । श्रयं पशु-रथ-गतिको बोधि-सत्व इति ॥
तद् एवम् एषा शून्यता-अन्-अधिमुक्तिर् महा-यान-अन्-अभिरतिश् च + अ-संपूर्ण-अधिमुक्त्i-citta-caryasya + अपि प्रायो न संदृश्यते । प्राग् एव + अधिमात्र-अधिमुक्ति-चर्यस्य बोधि-सत्वस्य । स हि रत्न-मेघे । सर्व-बाल-चरित-विपत्ति-समतिक्रान्तः पठ्यते अ-संख्येय-समाधि-धारणी-विमोक्ष-अभिज्ञा-विद्या-विक्रीदितो । अन्-अन्त-धर्म-आराम-रति-निर्-आमिष-अ-पर-अन्त-कल्प-कोट्य्-अन्-आभोग-निर्-विकल्प-प्रीति-वेग-आलोक-प्रतिलब्धश् च + अ-प्रमेय-कल्प-कोटी-नियुत-शत-सहस्र-परम-महा-यान-प्रस्थान-विचित्र-भावना-संपूर्ण पर-अर्थ-प्रतिपत्ति-निर्याण पुण्य-ज्ञान-संभार-अभिनिहार-अभिनिर्वृत्तिः पूर्व-योग-शत-सहस्र-समृद्धश् च पठ्यते । अथ + एतन् नेय-अर्थं । कस्माद् अन्ये बोध्i-citta-utpआदका अस्यां भूमौ न + इष्यन्ते । न च + अत्र + इच्छया किञ्-चिद् विशेष-चिह्नं नीत-अर्थं कर्त्तुं लभ्यते । अधिमात्र-अधिमुक्ति-चर्या + अ-धर्मता वचनाच् च गम्यते । यथा मध्य-मृदु-प्रकारा + अप्य् अधिमुक्ति-चर्या + अस्त्य् एव + इति ॥
अस्य पुनस् तथा-गत-गुह्य-सूत्रस्य को * अभिप्रायो । यद् उक्तं । कस्य भगवन् बोध्i-citta-utpआदः । आह । यस्य महा-राज + अध्याशयो * अ-विकोपितः । आह । कस्य भगवन्न् अध्याशयो * अ-विकोपितः । आह । यस्य महा-राज महा-करुणा-उत्पादः । आह । कस्य भगवन् महा-करुणा-उत्पादः । आह । यस्य महा-राज सर्व-सत्व-अ-परित्यागः । आह । कथं भगवन् सत्वा अ-परित्यक्ता भवन्ति । आह । यदा महा-राज + आत्म-सौख्यं परित्यक्तं भवति + इति । बोध्i-citta-mआत्र-अ-सन्तुष्टानां करुणा-अभिलाष-संजन-अर्थम् इदम् उक्तं । यथा न ते तथा-गत-शासने प्रव्रजिता येषां न + अस्ति त्याग इति । एवम् इह + अन्य-बोध्i-citta-nindआ द्रष्टव्या न तु बोधि-चित्तम् अन्यथा न + उत्पद्यतए एव ॥
यथा दश-धर्मक-सूत्रे देशितं । इह कुल-पुत्र बोधि-सत्वो गोत्र-स्थः सन्न् अन्-उत्पादित-बोधि-चित्तः तथा-गतेन वा तथा-गत-श्रावकेण वा संचोद्यमानः संवेद्यमानः समादाप्यमानो * अन्-उत्तरायां सम्यक्-सम्बोधौ बोधि-चित्तम् उत्पादयति + इदं प्रथमं कारणं बोध्i-citta-utpआदाय । संबोधेर् वा बोधि-चित्तस्य वा वर्णं भाष्यमाणं श्रुत्वा + अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयति + इदं द्वितीयं कारणं । स सत्वा ... न्-अ-शरणान् अ-द्वीपान् दृष्ट्वा कारुण्य-चित्तम् उपस्थाप्य यावद् अन्-उत्तरायां सम्यक्-सम्बोधौ चित्तम् उत्पादयति + इदं तृतीयं कारणं बोध्i-citta-utpआदाय । स तथा-गतस्य सर्व-आकार-परिपूर्णतां दृष्ट्वा प्रीतिम् उत्पाद्य अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयति + इदं चतुर्थं कारणम् इति । तच् च बोधि-चित्तं द्वि-विधं बोधि-प्रणिधि-चित्तं च बोधि-प्रस्थान चित्तं च । यथा + आर्य-गण्ड-व्यूह-सूत्रे भाषितं । दुर्-लभाः कुल-पुत्र ते सत्वाः सर्व-लोके ये * अन्-उत्तरस्यां सम्यक्-संबोधौ चित्तं प्रणिदधति । ततो * अपि दुर्-लभतमास् ते सत्वा ये * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंप्रस्थिता इति । तत्र बोधि-प्रणिधि-चित्तं । मया बुद्धेन भवितव्यम् इति चित्तं प्रणिधानाद् उत्पन्नं भवति । शूरङ्गम-सूत्रे * अपि । शाठ्य-उत्पादितस्य + अपि बोधि-चित्तस्य बुद्धत्व-हेतुत्व-अभिधानात् । कः पुनर् वादः किञ्-चिद् एव कुशलं कृत्वा । यथा + उक्तं भद्र-कल्पिक-सूत्रे । घोषदत्तो नाम तथा-गतो यत्र नक्षत्रराजेन तथा-गतेन प्रथमं बोधि-चित्तम् उत्पादितं ताम्बूल-पत्रं दत्त्वा गोपालक-भूतेन । एवं विद्युत्प्रदीपो नाम तथागतो यत्र यशसा तथागतेन प्रथमं बोधि-चित्तम् उत्पादितं दशिकां दत्त्वा तन्त्र-वाय-भूतेन । एवम् अनन्तप्रभो नाम तथा-गतो यत्र + अर्चिष्मता तथा-गतेन प्रथमं बोधि-चित्तम् उत्पादितं तृण-प्रदीपं दत्त्वा नगर-अवलम्बक-भूतेन । एवं दृढविक्रमो नाम तथा-गतो यत्र दुष्प्रधर्षेण तथा-गतेन प्रथमं बोधिचित्तम् उत्पादितं दत्त-काष्ठं दत्त्वा काष्ठ-हारक-भूतेन + इत्य् आदि ॥
चर्या-अ-विकले * अपि च बोधि-चित्ते न + अवमन्यता कर्त्तव्या । तस्य + अप्य् अन्-अन्त-संसार-सुख-प्रसवनत्वात् । यथा + आर्य-मैत्रेय-विमोक्षे वर्णितं । तद् यथा + अपि नाम कुल-पुत्र चित्तम् अपि वज्र-रत्नं सर्व-प्रतिविशिष्टं सुवर्ण-अलं-कारम् अभिभवति । वज्र-रत्न-नाम च न विजहाति । सर्व-दारिद्र्यं विनिवर्त्तयति । एवम् एव कुल-पुत्र + आशय-प्रतिपत्ति-भिन्नम् अपि सर्व-ज्ञता-चित्त-उत्पाद-वज्र-रत्नं सर्व-श्रावक-प्रत्य्-एक-बुद्ध-गुण-सुवर्ण-अलं-कारम् अभिभवति बोध्i-sattva-nआम च न विजहाति । सर्व-संसार-दारिद्र्यं विनिवर्त्तयति + इति । इतश् च विना + अपि चर्यया बोधि-चित्तम् उपकारकम् इति ज्ञातव्यं । येन + अ-पर-राज-अववादक-सूत्रे कथितं । यस्माच् च त्वं महा-राज बहु-कृत्यो बहु-करणीयः । अ-सहः सर्वेण सर्वः सर्वथा सर्वं सर्वदा दान-पारमितायां शिक्षितुं । एवं यावत् प्रज्ञा-पारमितायां शिक्षितुं । तस्मात् तर्हि त्वं महा-राज एवम् एव सम्यक्-सम्बोधि-छन्दं श्रद्धां त्र ... प्रणिधिं च गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो * अपि शयानो * अपि जाग्रद् अपि भुञ्जानो * अपि । पिवन्न् अपि । सतत-समितम् अनुस्मर । मनसि-कुरु भावय । सर्व-बुद्ध-बोध्i-satva-praty-eka-buddha-आर्य-श्रावक-पृथग्-ज् अनानाम् आत्मनश् च + अतीत-अन्-आगत-प्रत्युत्पन्नानि सर्व-कुशल-मूलान्य् अभिसंक्षिप्य तुलयित्वा पिण्डयित्वा + अनुमोदस्व + अग्रया अनुमोदनया यावद् आकाश-समतया निर्वाण-समतया + अनुमोदस्व + अनुमोद्य च सर्व-बुद्ध-बोध्i-satva-praty-eka-buddha-आर्य-श्रावकाणां पूजा-कर्मणे निर्यातय । निर्यात्य च सर्व-सत्व-साधारणानि कुरु । ततः सर्व-सत्वानां यावत् सर्व-ज्ञात-प्रतिलम्भाय सर्व-बुद्ध-धर्म-परिपूरणाय दिने दिने त्रैकाल्यम् अन्-उत्तरायां सम्यक्-संबोधौ परिणामय एवं खलु त्वं महा-राज प्रतिपन्नः सन् राज्यं कारयिष्यसि राज्य-कृत्यानि च न हाययिष्यसि बोधि-संभारांश् च परि-पूरयिष्यसि + इति ॥
अत्र + एव च + अस्य विपाक उक्तः । स खलु पुनस् त्वं महा-राज तस्य सम्यक्-संबोध्i-citta-kuशल-मूल-कर्मणो विपाकेन + अन्-एक-शत-कृत्वो देवेषु + उपपन्नो * अभूः । अन्-एक-शत-कृत्वो मनुष्येषु + उपपन्नो * अभूः । सर्वासु च देव-मनुष्य-उपपत्तिष्व् आधिपत्यम् एव कारयसि । न च तावत् तव महा-राज तस्य सम्यक्-संबोधि-चित्तस्य कुशल-कर्मण ऊनत्वं वा + अ-पूर्णत्वं वा प्रज्ञायते । अपि च महा-राज एकम् अपि सम्यक्-संबोधि-चित्तं सर्व-सत्त्व-उत्तारण-आरम्बणत्वात् सर्व-सत्व-आमोचन-आरम्बणत्वात् सर्व-सत्व-समाश्वासन-आरम्बणत्वात् सर्व-सत्व-परिनिर्वाण-आरम्बणत्वाद् अ-प्रमेय-अ-संख्येय-कुशल-उपचयम् । कः पुनर् वादो य एवं बहुली-करोति + इति ॥
एतच् च बोधि-चित्तं रूप-काय-दर्शन-उत्पन्नं । तत्र पूर्व-अवदाने पठ्यते । एवं तावत् प्रणिध्i-bodhi-cittaं वेदितव्यं । इदं तु वक्तव्यं किम् अ-भूमि-प्रविष्ठस्य + अपि बोध्i-satva-samvara-adhikआरो * अस्ति न वा + इति । अस्ति + इति वेदितव्यं आकाश-गर्भ-सूत्रे लाभ-सत्-कार-अर्थं मूल-आपत्ति-श्रवणात् । दश-भूमिक-सूत्रे तु प्रथमायां भूमौ दर्शितं । न च कञ्-चित् सत्-कारां कस्य-चित् सकाशात् प्रतिकांक्षत्य् अन्यत्र मया + एव + एषां सर्व-सत्वानां सर्व-उपकरण-बाहुल्यम् उपनामयितव्यम् इति । तथा च + आह । प्रमुदितायां बोध्i-satva-bhऊमौ सु-व्यवस्थितो भवत्य् अ-चलन-योगे ... ति । पुनश् च + उक्तं । तथा-गत-वंश-नियतो भवति संबोधि-परायण इति । आकाश-गर्भ-सूत्रे त्व् आह । श्रावक-यानम् एव + अस्य न भवति प्राग् एव महा-यानम् इति । तथा + आर्य-उग्र-परिपृच्छायां मात्सर्य-पर्यवनद्धस्य + अपि शिक्षा-पदानि प्रज्ञप्तानि । प्रमुदितायां तु पठ्यते । आत्म-संज्ञा-अपगमाच् च + अस्य + आत्म-स्नेहो न भवति । कुतः । पुनः सर्व-उपकरण-स्नेह इति । तथा मस्तक-आदि-दानम् अप्य् अत्र + अस्य + उक्तं ॥
एवम् आदि सूत्रेषु भूमि-प्रविष्टस्य + अपि शिक्षा-प्रज्ञप्तिर् दृश्यते । यत्र वा + अ-सामान्येन बोधि-सत्वम् अधिकृत्य + उपदेशस् तत्र + अभ्यास-योग्यतया प्रतिषेध-वाक्येन वा + आdi-karmika-bodhi-satvena न शिक्षितव्यं भवेद् एतत् । उभय-अ-संभवे तु सर्वत्र शिक्षितव्यं । तत्र + अप्य् एकस्यां शिक्षायां शिक्षणायाम् अ-शक्तस्य + इतर-शिक्षा-अन्-अभ्यासादन-आपत्तिः ॥
आर्य-अक्षयमति-सूत्रे * अप्य् एवम् अवोचत् । दान-काले शील-उपसंहारस्य + अपेक्षा + इति विस्तरः । न च + अत्र शिथिलेन भवितव्यं न च शेषासु न समुदागच्छति । यथा-बलं यथा-भजमानम् इति दश-भूमिक-सूत्रे वचनात् । अयं च संवरः स्त्रीणाम् अपि मृदु-क्लेशानां बोध्य्-अभिलाष-चित्तानां लभ्यते । उक्तं हि बोध्i-satva-prआतिमोक्षे । चतुर्भिः शारिपुत्र धर्मैः समन्वागताः बोधि-सत्वाः सत्य-वादिनो भवन्ति + इत्य् आरभ्य + आह । इह शारिपुत्र कुल-पुत्रो वा कुल-दुहिता वा + अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य + आरब्ध-वीर्यो विहरति कुशल-धर्म-पर्येषणाय + इत्य् आरभ्य सर्व उपदेशः ॥
संवर-ग्रहणं च बोधि-सत्व-शिक्षा-पद-अभ्यास-परमस्य सांवरिकस्य + अन्तिकात् कर्तव्यं । एवं ह्य् अस्य शिक्षा-अतिक्रमे तीव्रम् अपत्राप्यं गुरु-विसंवादन-भयं च + उत्पद्यते । तत्र च + अन्-आभोगतः प्रेम-गौरव-सिद्धिर् इत्य् एष सामान्य-संवर-धर्मः । अत एव बोधि-सत्वाः तथा-गतानां पुरतः शिक्षाणाम् अन्यतम-शिक्षा-निष्पत्ति-कामाः समादानं कुर्वन्ति । तस्य च कल्याण-मित्रस्य + अ-भावे दश-दिग्-अवस्थित-बुद्ध-बोध्i-satva-abhimukhई-भाव-भावनया संवरो ग्राह्यः संवरम् आत्म-बलं च तुलयित्वा । अन्यथा तु सर्व-बुद्ध-बोधि-सत्वाः स-देवकश् च लोको विसंवादितः स्यात् । सd-dharma-smऋत्य्-उपस्थान-सूत्रे हि किञ्-चिन् मात्रं चिन्तयित्वा + अप्य् अ-ददतः प्रेत-गतिर् उक्ता प्रतिज्ञातं च + अ-ददतो नरक-गतिः । किं पुनर् अन्-उत्तरम् अर्थम् अ-खिलस्य जगतः प्रतिज्ञाय + अ-संपादयतः । अत एव + उक्तं धर्म-संगीति-सूत्रे । सत्य-गुरुकेण कुल-पुत्र बोधि-सत्वेन भवितव्यं । सत्य-संगीतिः कुल-पुत्र धर्म-संगीतिः । तत्र कुल-पुत्र कतमत् सत्यं यद् बोधि-सत्वो * अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य तच् चित्तं जीवित-हेतोर् अपि न परित्यजति न सत्वेषु विप्रतिपद्यते । इदं बोधि-सत्वस्य सत्यं ॥
यत् पुनर् बोधि-सत्वो * अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य पश्चात् तच् चित्तं परित्यजति सत्वेषु विप्रतिपद्यते * अयं बोधि-सत्वस्य प्रतिकृष्टो मृषा-वाद इति । आर्य-सागरमति-सूत्रे * अपि देशितं । स्याद् यथा + अपि नाम सागरमते राजा वा राज-मात्रो वा सर्वं नागरकं जनं श्वो भक्तेन + उपनिमन्त्र्य + उपेक्षको भवेन् न + अन्न-पानं समुदानयेत् सत्यं सर्व-जन-कायं विसंवादयेत् । तत्र ते * अन्न-पान-भोजनम् अ-लभमाना उच्चग्घन्तः प्रक्रामेयुः । एवम् एव सागरमते यो बोधि-सत्वः सर्व-सत्वान् आश्वास्य + अ-तीर्ण-तारणाय + अ-मुक्त-मोचनाय + अन्-आश्वस्त-आश्वासनाय यावन् न बाहुश्रुत्ये * अभियोगं करोति न + अपि ततो * अन्येषु बोधि-पक्ष्य-कुशल-मूलेषु धर्मेषु । अयं बोधि-सत्वो विसंवादयति स-देवकं लोकं । एवं च तं पूर्व-बुद्ध-दर्शिन्यो देवता उच्चग्घन्ति विवादयन्ति । दुर्-लभास् ते यज्ञ-स्वामिनो ये महा-यज्ञं प्रतिज्ञाय + उत्तारयन्ति । तस्मात् तर्हि सागरमते न सा बोधि-सत्वेन वाग् भाषितव्या यया स-देव-मानुष-असुरं लोकं विसंवादयेत् ॥
पुनर् अ-परं सागरमते बोधि-सत्वः केन-चिद् एव + अधीष्टो भवति धर्मेष्व् अर्थ-करणीयेषु । तत्र बोधि-सत्वेन वाग् भाषिता भवति यावद् आत्म-परित्यागो * अपि बोधि-सत्वेन कर्तव्यो भवेत् तत्र न पुनः स सत्वो विसंवादयितव्य इति । तस्मात् स्व-बल-अनुरूपेण + एकम् अपि कुशल-मूलं समादाय रक्षितव्यं । यथा + उक्तम् आर्य-क्षितिगर्भ-सूत्रे । एभिर् दशभिः कुशलैः कर्म-पथैर् बुद्धत्वं । न पुनर् यो * अन्तश एकम् अपि यावज्-जीवं कुशलं कर्म-पथं न रक्षति अथ च पुनर् एवं वदति । अहं महा-यानिको * अहं च + अन्-उत्तरां सम्यक्-संबोधिं पर्येषामि + इति । स पुद्गलः परम-कुहको महा-मृषा-वादिकः सर्वेषां बुद्धानां भगवतां पुरतो विसंवादको लोकस्य + उच्छेद-वादी स मूढः कालं कुरुते विनिपात-गामी भवति + इति । यावत् कालं च शक्नोति तावत् कालं कुशलं समादाय वर्तितव्यं ॥
एतच् च भैषज्य-गुरु-वैडूर्य-प्रभ-सूत्रे द्रष्टव्यं । यस् तु महा-सत्व एवं श्रुत्वा + अपि बोध्i-satva-caryआ-दुष्-करताम् अपि प्रज्ञया + अवगाह्य + उत्सहतए एव सकल-दुष्खित-जन-परित्राण-धुरम् अववोढुं तेन वन्दन-पूजन-पाप-देशन-पुण्य-अनुमोदन-बुद्ध-अध्येषण-याचन-बोधि-परिणामनं कृत्वा कल्याण-मित्रम् अभ्येत्य तd-ukta-anuvआदेन स्वयं वा वक्तव्यं । समन्वाहर + आचार्य + अहम् एवं नाम + इत्य् उक्त्वा । यथा + आर्य-मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलङ्-कार-सूत्रे भगवता मञ्जुश्रिया पूर्व-जन्म-अवदाने चर्या-उपेतं बोधि-चित्तम् उत्पादितं तथा + उत्पादयितव्यं । एवं हि तेन + उक्तं ॥
यावती प्रथमा कोटिः संसारस्य + अन्त-वर्जिता । तावत् सत्व-हित-अर्थाय चरिष्याम्य् अ-मितां चरिम् ॥
उत्पादयाम संबोधौ चित्तं नाथस्य संमुखम् । निमन्त्रये जगत् सर्वं दारिद्र्यान् मोचिता + अस्मि तत् ॥
व्यापाद-खिल-चित्तं वा ईर्ष्या-मात्सर्यम् एव वा । अद्य + अग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता । ब्रह्म-चर्यं चरिष्यामि कामांस् त्यक्ष्यामि पापकान् ॥
बुद्धानाम् अनुशिक्षिष्ये शील-संवर-संयमे । न + अहं त्वरित-रूपेण बोधिं प्राप्तुम् इह + उत्सहे ॥
पर-अन्त-कोटिं स्थास्यामि सत्वस्य + एकस्य कारणात् । क्षेत्रं विशोधयिष्यामि अ-प्रमेयम् अ-चिन्तियम् ॥
नाम-धेयं करिष्यामि दश दिक्षु च विश्रुतं । काय-वाक्-कर्मणी च + अहं शोधयिष्यामि सर्वशः ॥
शोधयिष्ये मनस्-कर्म कर्म कर्त्ता + अस्मि न + अ-शुभम् । इति ॥
न च + अत्र सार्वकालिकात् संवर-ग्रहणाज् जन्म-अन्तर-आपत्ति-शङ्का कर्तव्या + अत्र + एव सूत्रे * अ-क्षोभ्य-प्रणिधान-अनुज्ञानाद् एवं ह्य् उक्तं । यथा तेन + अ-क्षोभ्येण तथा-गतेन पूर्वं बोध्i-satva-bhऊतेन + एवं वाग् भाषिता । विसंवादिता मे बुद्धा भगवन्तो भवेयुर् यदि सर्वस्यां जातौ न प्रव्रजेयम् इति । एका जातिः प्रयत्नेन संशोध्या विबुध-आत्मना । अन्यास् तु जातीर् आ-बोधेः स + एव संशोधयिष्यति + इत्य् उक्तेः ॥
एवं शारिपुत्र बोधि-सत्वेन अ-क्षोभ्यस्य तथा-गतस्य अनुशिक्षितव्यं । एवं शिक्षमाणः शारिपुत्र बोधि-सत्वो महा-सत्वः सर्वस्यां जातौ प्रव्रजत्य् उत्पादाद् वा तथा-गतानाम् अन्-उत्पादाद् वा + अ-वश्यं गृह-आवासान् निष्क्रामति । तत् कस्य हेतोः । परमो ह्य् अयं शारिपुत्र लाभो यद् उत गृह-आवासान् निष्क्रमणम् इति । यावत् । भार्या-पुत्र-दुहितृ-तृष्णा च + अस्य न भवति + इति । यथा जन्म-अन्तरेष्व् अयं दोषो न भवति तथा + अत्र + एव वक्ष्यमाणम् इत्य् आस्तां तावद् एतत् ॥
तद् एवं समात्त-संवरस्य सामान्यम् आपत्ति-लक्षणम् उच्यते । येन + आपत्ति-लक्षणेन युक्तं वस्तु स्वयम् अप्य् उत्प्रेक्ष्य परिहरेन् न च + आपत्ति-प्रतिरूपकेष्व् अन्-आपत्ति-प्रतिरूपकेषु च संमुह्येत । बोधि-सत्वः सर्व-सत्वानां वर्त्तमान-अन्-आगत-सर्व-दुष्ख-दौर्मनस्य + उपशमाय वर्त्तमान-अन्-आगत-सुख-सौमनस्य + उत्पादाय च निः-शाठ्यतः काय-वाङ्-मनः-पराक्रमैः प्रयत्नं करोति । यदि तु तत्-प्रत्यय-सामग्रीं न + अन्वेषते तd-an-antarआय प्रतिकाराय न घटते अल्प-दुष्ख-दौर्मनस्यं बहु-दुष्ख-दौर्मनस्य-प्रतिकार-भूतं न + उत्पादयति । महा-अर्थ-सिद्ध्य्-अर्थं च + अल्प-अर्थ-हानिं न करोति क्षणम् अप्य् उपेक्षते । स-आपत्तिको भवति । संक्षेपतो * अन्-आपत्तिः स्व-शक्त्य्-अ-विशयेषु कार्येषु तत्र निष्-फलतया शिक्ष्या-प्रज्ञप्त्य्-अ-भावात् । प्रकृत्i-sa-avadyataया त्व् अन्यद् गृह्यतए एव । यत्र स्व-शक्त्य-गोचरे * अपि त्याग-सामर्थ्याद् आपत्तिः स्यात् तन् न चिन्त्यं । सामान्य-पाप-देशना न ... वात् तु ततो मुक्तिः ॥
एतत् समासतो बोधि-सत्व-शिक्षा-शरीरं । विस्तरतस् त्व् अ-प्रमाण-कल्प-अ-पर्यवसान-निर्देशं । अथ-वा संक्षेपतो द्वे बोधि-सत्वस्य + आपत्ती । यथा शक्त्i-yukta-a-yuktam अ-समीक्ष्य + आरभते । निवृत्तः समीक्षते स-आपत्तिको भवति । निरूप्य यथा-अर्हम् अतिक्रामत्य् अन्तशश् चण्डाल-दासेन + अपि चोदितः स-आपत्तिको भवति । कुतः ॥
एतद् अध्याशय-संचोदन-सूत्रे वचनात् । अपि तु मैत्रेय चतुर्भिः कारणैः प्रतिभानं सर्व-बुद्ध-भाषि ... भिः । इह मैत्रेय प्रतिभानं सत्य-उपसंहितं भवति । न + अ-सत्य-उपसंहितं धर्म-उपसंहितं भवति न अ-धर्म-उपसंहितं । क्लेश-हायकं भवति न क्लेश-विवर्द्धकं । निर्वाण-गुण-अनुशंस-सन्दर्शकं भवति न संसार-गुण-अनुशंस-सन्दर्शकं । एभिश् चतुर्भिः पेयालं । यस्य कस्य-चिन् मैत्रेय एभिश् चतुर्भिः कारणैः प्रतिभानं प्रतिभाति प्रतिभास्यति वा । तत्र श्राद्धैः कुल-पुत्रैः कुल-दुहितृभिर् वा बुद्ध-संज्ञा + उत्पादयितव्या शास्तृ-संज्ञां कृत्वा । स धर्मः श्रोतव्यः । तत् कस्य हेतोः । यत् किञ्-चिन् मैत्रेय सु-भाषितं सर्वं तद् बुद्ध-भाषितं । तत्र मैत्रेय य इमानि प्रतिभानानि प्रतिक्षिपेन् न + एतानि बुद्ध-भाषितानि + इति । तेषु च + अ-गौरवम् उत्पादयेत् पुद्गल-विद्वेषेण तेन सर्व-बुद्ध-भाषितं प्रतिभानं प्रतिक्षिप्तं भवति । धर्मं प्रतिक्षिप्य धर्म-व्यसन-संवर्तनीयेन कर्मणा + अपाय-गामी भवति ॥
यः पुनर् एतद् अभ्यास-अर्थं व्युत्पादितम् इच्छति । तेन + अत्र शिक्षा-समुच्चये तावच् चर्या-मुख-मात्र-शिक्षण-अर्थम् अभियोगः करणीयः शिक्षा-आरम्भस्य + एव महा-फलत्वात् । यथा + उक्तं प्रशान्त-विनिश्चय-प्रतिहार्य-सूत्रे । यश् च मञ्जुश्रीर् बोधि-सत्वो गङ्गा-नदी-वालिका-समेभ्यो बुद्धेभ्यः प्रत्य्-एकं सर्वेभ्यो गंगा-नदी-वालिका-समानि बुद्ध-क्षेत्राणि वशि-राज-महा-मण्i-ratna-pratipऊर्णानि कृत्वा दह्याद् एवं ददङ् गङ्गा-नदी-वालिका-समान् कल्पान् दानं दद्याद् । यो वा + अन्यो मञ्जुश्रीर् बोधिसत्व इमान् एवं-रूपान् धर्मान् श्रुत्वा एक-अन्तेन गत्वा चित्तेन + अभिनिरूपयेद् इमेष्व् एवं-रूपेषु धर्मेषु शिक्षिष्यामि + इति । सो * अ-शिक्षितो * अपि मञ्जुश्रीर् बोधिसत्वो * अस्यां शिक्ष्यायां छन्दिको वततरं पुण्यं प्रसवति । न त्व् एव तद् दानम् अयं पुण्य-क्रिया-वस्त्व् इति । तस्माद् एवम् अनुशंस-दर्शिना बोधि-सत्वेन न कथं-चिन् निवर्त्तितव्यं । यथा + अत्र + एव + आह । तत्र मञ्जुश्रीर् ये त्रि-साहस्र-महा-साहस्र-लोक-धातु-परम-अणु-रजः-समाः सत्व-स् तेषाम् एक-एकः सत्वो राजा भवेज् जम्बू-द्वीप-अधिपतिस् ते सर्वए एवं घोषयेयुः । यो महा-यानम् उद्ग्रहिष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्त्तयिष्यति तस्य नख-छेदेन मासं पञ्च-पलिकेन दिवसेन + अवतारयिष्यामः तं च + एतेन + अपक्रमेण जीविताद् व्यपरोपयिष्याम इति । सचेन् मञ्जुश्रीर् बोधि-सत्व एवम् उच्यमानो न + उ त्रस्यति न संत्रासम् आप्स्यते * अन्तश एक-चित्त-उत्पादेन + अपि न बिभेति न विषीदति न विचिकित्सते । उत्तरि च सd-dharmma-parigrahअ-अर्थम् अभियुज्यते पाठ-स्व-अध्याय-अभिमुक्तो विहरति । अयं मञ्जुश्रीर् बोधि-सत्वश् चित्त-शूरो दान-शूरः शील-शूरः क्षान्ति-शूरः वीर्य-शूरः ध्यान-शूरः प्रज्ञा-शूरः समाधि-शूरः इति वक्तव्यः ॥
सचेन् मञ्जुश्रीर् बोधि-सत्वः तेषां वधक-पुरुषाणां न कुप्यति न रुष्यति न खिल दोष-चित्तम् उत्पादयति । स मञ्जुश्रीर् बोधि-सत्वो ब्रह्म-सम इन्द्र-समो * अ-कम्प्य इति ॥
इतश् च + अग्र्य-काले शिक्षा-आदरो महा-फल-विपाकः । तथा हि चन्द्र-प्रदीप-सूत्रे । बुद्धान कोटीन् अ-युतान् उपस्थिहे । दत्तेन पानेन प्रसन्न-चित्तः । छत्रैः पताकाभि च दीप-मालैः । कल्पान कोट्यो यथ गङ्ग-वालिकाः ॥
यश् च + एव सद्-धर्मे प्रलुज्यमाने । निरुध्यमाने सु-गतस्य शासने । रात्रिं दिवं एक चरेय शिक्षाम् । इदन् ततः पुण्य-विशिष्ट भोति ॥
तस्मात् कर्तव्यो * अत्र + आदरः ॥
उक्तानि च सूत्र-अन्तेषु बोधि-सत्व-शिक्षा-पदानि । यथा + उक्तम् आर्य-रत्न-मेघे । कथं च कुल-पुत्र बोधि-सत्वा बोधि-सत्व-शिक्षा-संवर-संवृता भवन्ति । इह बोधि-सत्वः एवं विचारयति । न प्रातिमोक्ष-संवर-मात्रकेण मया शक्यम् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुं । किं तर्हि यानि + इमानि तथा-गतेन तेषु तेषु सूत्र-अन्तेषु बोध्i-satva-samudआचारा । बोधि-सत्व-शिक्षा-पदानि प्रज्ञप्तानि तेषु तेषु मया शिक्षितव्यम् इति विस्तरः । तस्माद् अस्मद्-विधेन मन्द-बुद्धिना दुर्-विज्ञेयो विस्तर-उक्तत्वाद् बोधि-सत्वस्य संवरः । ततः किं युक्तं ॥
मर्म-स्थानान्य् अतो विद्याद् येन + अन्-आपत्तिको भवेत् ॥
कतमानि च तानि मर्म-स्थानानि यानि हि सूत्र-अन्तेषु महा-यान-अभिरतानाम् अर्थाय + उक्तानि । यद् उत । आत्म-भावस्य भोगानां त्र्य्-अध्व-वृत्तेः शुभस्य च । उत्सर्गः सर्व-सत्वेभ्यस् तद्-रक्षा शुद्धि-वर्धनम् ॥
एष बोध्i-satva-saंवर-संग्रहः । यत्र बोधि-सत्वानाम् अभ्यास-विश्रामे * अप्य् आपत्तयो व्यवस्थाप्यन्ते ॥
yathā + uktaṃ bodhi-satva-prātimokṣe | yo bodhi-satvena mārgaḥ parigṛhītaḥ sarva-satvānāṃ kṛtena duṣkham upagāmī | saced bodhi-satvasya taṃ mārgaṃ parigṛhya + avasthitasya + api kalpa-koṭer atyayena + ekaṃ sukha-cittam utpadyeta + antaśo niṣadya cittam api | tatra bodhi-satvena + evaṃ cittam utpādayitavyaṃ sarva-satvānām ātyayikaṃ parigṛhya + etad api me varjayan niṣīdāmi + iti | parigṛhyet tam [doubtful] | api mañjuśrīr āha ||
पञ्च + इमानि देव-पुत्र + आनन्तर्याणि यैर् आनन्तर्यैः समन्वागता बोधि-सत्वाः क्षिप्रम् अन्-उत्तरा-सम्यक्-संबोधिम् अभिसंबुध्यते । कतमानि पञ्च । यदा देव-पुत्र बोधि-सत्वो * अध्याशयत्य् अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य न + अन्तरा श्रवक-प्रत्य्-एक-बुद्ध-भूमौ चित्तम् उत्पादयति + इदं देव-पुत्र प्रथमम् आनन्तर्यं । सर्वस्व-परित्यागितायां चित्तम् उत्पाद्य न + अन्तरा मात्सर्य-चित्तेन सार्द्धं स न्यसति + इदं देव-पुत्र द्वितीयम् आनन्तर्यम् । सर्व-सत्वा मया त्रातव्या इत्य् एवं चित्तम् उत्पाद्य न + अन्तरा सीदति + इदं देव-पुत्र तृतीयम् आनन्तर्यम् । अन्-उत्पन्न-अ-निरुद्धान् सर्व-धर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य न + अन्तरा दृष्टि-गतेषु प्रपतति + इदं देव-पुत्र चतुर्थम् आनन्तर्यम् । एक-क्षण-समायुक्तया प्रज्ञया सर्व-धर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य न + अन्तरा तिष्ठति न विष्ठीवति अ-प्राप्तायां सर्व-ज्ञतायाम् इदं देव-पुत्र पञ्चमम् आनन्तर्यम् इति ॥
तस्माद् एवम् आत्म-भाव-भोग-पुण्यानाम् अ-विरतम् उत्सर्ग-रक्षा-शुद्धि-वृद्धयो यथा-योगं भावनीयाः ॥
तत्र तावद् उत्सर्ग-अर्थं परिग्रह-दोष-भावना-द्वारेण वैराग्यम् उत्पादयेत् त्याग-अनुशंसांश् च भावयेत् । यथा तावच् चन्द्र-प्रदीप-सूत्रे । अध्यवसिता ये बालाः काये * अस्मिन् पूतिके सम्यग् । जीविते चञ्चले * अ-वश्ये माया-स्वप्न-निभा-उपमे ॥
अति-रौद्राणि कर्माणि कृत्वा मोह-वश-अनुगाः । ते यान्ति नरकान् घोरान् मृत्यु-यान-गत-अ-बुधा । इति ॥
तथा + अन्-अन्त-मुख-निर्हार-धारण्याम् उक्तं ॥
ये के-चित् सत्वा न भवन्ति विग्रहाः परिग्रहस् तत्र निदान-मूलम् । तस्मात् त्यजेद् यत्र भवेत् तृष्णा । उत्सृष्ट-तृष्णस्य हि धारणी भवेत् ॥
बोध्i-satva-prआतिमोक्षे कथितं । पुनर् अ-परं शारिपुत्र बोधि-सत्वः सर्व-धर्मेषु परकीय-संज्ञाम् उत्पादयति । न कञ्-चिद् भावम् उपादत्ते । तत् कस्य हेतोः । उपादानं हि भयम् इति ॥
आर्य-उग्रदत्त-परिपृच्छायाम् अप्य् आह । यद् दत्तं तन् न भूयो रक्षितव्यं । यद् गृहे तद् रक्षितव्यं । यद् दत्तं तत् तृष्ना-क्षयाय । यद् गृहे तत् तृष्णा-वर्द्धनं । यद् दत्तं तद् अ-परिग्रहं यद् गृहे तत् स-परिग्रहं । यद् दत्तं तद् अ-भयं यद् गृहे तत् स-भयम् । यद् दत्तं तद् बोधि-मार्ग-उपस्तम्भाय । यद् गृहे तन् मार-उपस्तम्भाय । यद् दत्तं तद् अ-क्षयम् । यद् गृहे तत् क्षयि । यद् दत्तं ततः सुखम् यद् गृहे तद्-आरभ्य दुष्खं । यद् दत्तं तत् क्लेश-उत्सर्गाय । यद् गृहे तत् क्लेश-वर्द्धनम् । यद् दत्तं तन् महा-भोगतायै । यद् गृहे न तन् महा-भोगतायै । यद् दत्तं तत् सत्-पुरुष-कर्म । यद् गृहे तत् का-पुरुष-कर्म । यद् दत्तं तत् सत्-पुरुष-चित्त-ग्रहणाय । यद् गृहे तत् का-पुरुष-चित्त-ग्रहणाय । यद् दत्तं तत् सर्व-बुद्ध-प्रशस्तं । यद् गृहे तद् बाल-जन-प्रशस्तम् ॥
यावत् सचेत् पुनर् अस्य पुत्रे * अतिरिक्ततरं प्रेम + उत्पद्यते तथा + अन्येषु सत्वेषु तेन तिसृभिः परिभाषणाभिः स्व-चित्तं परिभाषितव्यं । कतमाभिस् तिसृभिः । सम्यक्-प्रयुक्तस्य सम-चित्तस्य बोधि-सत्वस्य बोधिर् न विषम-चित्तस्य बोधिर् न मिथ्या-प्रयुक्तस्य । अ-नानात्व-चारिणो बोधि-सत्वस्य बोधिर् न नानात्व-चारिणः । आभिस् तिसृभिः परिभाषणाभिः स्व-चित्तं परिभाष्य + अन्यत्रे * अ-मित्र-संज्ञा + उत्पादयितव्या + अ-मित्रं ह्य् एतन् मम । न मैत्रं । यो * अहम् अस्य + अर्थाय बुद्ध-प्रज्ञप्ता-शिक्षाया उद्धुरताद् गत्वा + अस्मिन् पुत्रे * अतिरिक्ततरं प्रेम + उत्पादयामि । न तथा + अन्येषु सत्वेषु । तेन तथा तथा चित्तम् उत्पादयितव्यं यथा यथा + अस्य सर्व-सत्वेषु पुत्र-प्रेम-अनुगता मैत्र्य् उत्पद्यते । आत्म-क्षेम-अनु ... मैत्र्य् उत्पद्यते । एवं च + अनेन योनिशः प्रत्यवेक्षितव्यं । अन्यत एष आगत । अन्यतो * अहं । सर्व-सत्वा अपि मम पुत्रा अभूवन् । अहं च सर्व-सत्वानां पुत्रो * अभूवम् । न + इह संविद्यते कश्-चित् कस्य-चित् ... परो वा । यावद् एवं हि गृह-पते । गृहिणा बोधि-सत्वेन न कस्मिंश्-चिद् वस्तुनि ममत्वं परिग्रहो वा कर्तव्यः । न + अध्यवसानं । न नियतिः न तृष्णा-अनुशयः कर्तव्यः । सचेत् पुनर् गृह-पते गृहिणं बोधि-सत्वं याचनक उपसंक्रम्य किञ्-चिद् एव वस्तु याचेत । सचेद् अस्य वस्त्व् अ-परित्यक्तं भवेत् । न + एवं चित्तं निध्यापयितव्यं । यद्य् अहम् एतद् वस्तु परित्यजेयं यदि वा न परित्यजेयम् अ-वश्यं मम + एतेन वस्तुना विना-भावो भविष्यति । अ-कामकेन मरणम् उपगन्तव्यं भविष्यति । एतच् च वस्तु मां त्यक्ष्यति अहं च +
एनं त्यक्ष्यामि । एतच् च वस्तु परित्यज्य + अहं आत्त-सारः कालं करिष्यामि एतच् च परित्यक्तं न मे मरण-काले चित्तं पर्यादाय स्थास्यति । एतच् च मे मरण-काले प्रीतिं प्रामोद्यम् अ-विप्रतिसारितां च जनयिष्यति । सचेत् पुनर् एवम् अपि समन्वाहरन् शक्नुयात् तद् वस्तु परित्यक्तुम् । तेन स याचनकश् चतसृभिः संज्ञप्तिभिः संज्ञपयितव्यः । कतमाभिश् चतसृभिः । दुर्-बलस् तावद् अस्म्य् अ-परिपक्व-कुशल-मूलः । आदि-कर्मिको महा-याने । न चित्तस्य वशी परित्यागाय । स-उपादान-दृष्टिको * अस्मि । अहं-कार-मम-कार-स्थितः । क्षमस्व सत्-पुरुष । मा परिताप्सीस् तथा + अहं करिष्यामि तथा प्रतिपत्स्ये । तथा वीर्यम् आरप्स्ये । यथा + एनं च तव + अभिप्रायं परिपूरयिष्यामि सर्व-सत्वानां च + इति । एवं खलु गृह-पते । तेन याचनकः संज्ञपयितव्यः । एतच् च संज्ञपनम् उपरि दोष-परिहाराय + उक्तं । मा भूद् बोधि-सत्वस्य तत्र अ-प्रसादो बोधि-सत्वे वा याचनकस्य + इति । न तु मात्सर्यम् एवं अन्-अवद्यं भवति कुत्सितं च + इदं भगवता बोधि-सत्वानां ॥
यथा + आह बोध्i-satva-prआतिमोक्षे । चत्वार इमे शारिपुत्र धर्मा बोधि-सत्वानां न संविद्यन्ते । कतमे चत्वारः । शाठ्यं बोधि-सत्वानां न संविद्यते । मात्सर्यं बोधि-सत्वानां न संविद्यते । ईर्ष्या-पैशुन्यं बोधि-सत्वानां न संविद्यते । न + अहं शक्तो * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुम् इति । लीनं चित्तं बोधि-सत्वानां न संविद्यते । यस्य + इमे शारिपुत्र चत्वारो धर्माः संविद्यन्ते स पण्डित.इर् ज्ञातव्यः । कुहको वत + अयं । लपको वत + अयं । नष्ट-धर्मो वत + अयं । संक्लेश-धर्मो वत + अयं लोक-आमिष-गुरुको वत + अयं भक्त-चोडक-परमो वत + अयम् इति । तथा चित्त-शूराः खलु पुनः शारिपुत्र बोधि-सत्वा भवन्ति । यावत् स्व-हस्त-परित्यागी भवति पाद-परित्यागी । नासा-परित्यागी । शीर्ष-परित्यागी । अङ्ग-प्रत्य्-अङ्ग-परित्यागी । पुत्र-परित्यागी । दुहितृ-परित्यागी । भार्या-परित्यागी । रति-परित्यागी । परिवार-परित्यागी । चित्त-परित्यागी । सुख-परित्यागी । गृह-परित्यागी । वस्तु-परित्यागी । देश-परित्यागी रत्न-परित्यागी । सर्वस्व-परित्यागी + इति ॥
एवं नारायण-परिपृच्छायाम् अप्य् उक्तं । न तद् वस्तु + उपादातव्यं यस्मिन् वस्तुनि न + अस्य त्याग-चित्तम् उत्पद्यते । न त्याग-बुद्धिः क्रमेत । न स परिग्रहः परिग्रहीतव्यो यस्मिन् परिग्रहे न + उत्सर्जन-चित्तम् उत्पादयेन् न स परिवार उपादातव्यो यस्मिन् याचनकैर् याच्यमानस्य परिग्रह-बुद्धिर् उत्पद्यते । न तद् राज्यम् उपादातव्यं न ते भोगा न तद् रत्नम् उपादातव्यं यावन् न तत् किञ्-चिद् वस्तु + उपादातव्यं । यस्मिन् वस्तुनि बोधि-सत्वस्य + अ-परित्याग-बुद्धिर् उत्पद्यते ॥
अपि तु खलु पुनः कुल-पुत्र बोधि-सत्वेन महा-सत्वेन + एवं चित्तम् उत्पादयितव्यं । अयं मम + आत्म-भावः सर्व-सत्वेभ्यः परित्यक्तः उत्सृष्टः । प्राग् एव बाह्यानि वस्तूनि यस्य यस्य सत्वस्य येन येन यद् यत् कार्यं भविष्यति तस्मै तस्मै तद् दास्यामि सत्-संविद्यमानं हस्तं हस्त-अर्थिकेभ्यो दास्यामि पादं पाद-अर्थिकेभ्यो नेत्रं नेत्र-अर्थिकेभ्यो दास्यामि । मांसं मांस-अर्थिकेभ्यः शोणितं शोणित-अर्थिकेभ्यो मज्जानं मज्जा-अर्थिकेभ्यो * अङ्ग-प्रत्य्-अङ्गान्य् अङ्ग-प्रत्य्-अङ्ग-अर्थिकेभ्यः शिरः शिरो-र्थिकेभ्यः परित्यक्ष्यामि । कः पुनर् वादो बाह्येषु वस्तुषु यद् उत धन-धान्य-जात-रूप-रजत-रत्न-आभरण-हय-गज-रथ-वाहन-ग्राम-नगर-निगम-जन-पद-राष्ट्र-राज-धानी-पत्तन-दासी-दास-कर्म-कर-पौरुषेय-पुत्र-दुहितृ-परिवारेषु । अपि तु खलु पुनर् यस्य यस्य येन येन यद् यत् कार्यं भविष्यति तस्मै तस्मै सत्वाय तत् तद् देयं संविद्यमानं दास्यामि । अ-शोचन्न् अ-विप्रतिसारी अ-विपाक-प्रतिकाङ्क्षी परित्यक्ष्यामि । अन्-अपेक्षो दास्यामि सत्व-अनुग्रहाय सत्व-कारुण्येन सत्व-अनुकम्पया तेषाम् एव सत्वानां संग्रहाय । यथा मे * अमी सत्वाः संगृहीता बोधि-प्राप्तस्य धर्म-जानकाः स्युर् इति । पेयालं ॥
तद् यथा + अपि नाम कुल-पुत्र भैषज्य-वृक्षस्य मूलतो वा ह्रियमाणस्य गण्डतः शाखातः त्वक्तः पत्रतो वा ह्रियमाणस्य पुष्पतः फलतः सारतो वा ह्रियमाणस्य न + एवं भवति विकल्पो । मूलतो मे ह्रियते यावत् सारतो मे ह्रियतए इति ॥
अपि तु खलु पुनर् अ-विकल्प एव हीन-मध्य-उत्कृष्टानां सत्वानां व्याधीन् अपनयति । एवम् एव कुल-पुत्र बोधि-सत्वेन महा-सत्वेन + अस्मिंश् चातुर्महाभौतिके आत्म-भावे भैषज्य-संज्ञा + उत्पादयितव्या येषां येषां सत्वानां येन येन + अर्थः तत् तद् एव मे हरन्तु हस्तं हस्त-अर्थिनः पादं पाद-अर्थिन इति पूर्व-वत् ॥
आर्य-अक्षयमति-सूत्रे * अपि देशितं । अयम् एव मया कायः सर्व-सत्वानां किं-करणीयेषु क्षपयितव्यः । तद् यथा + अपि नाम + इमानि बाह्यानि चत्वारि महा-भूतानि पृथिवी-धातुर् अब्-धातुस् तेजो-धातुर् वायु-धातुश् च नाना-सुखैर् नाना-पर्यायैर् नाना-आरम्बणैर् नाना-उपकरणैर् नाना-परिभोगैः सत्वानां नाना-उपभोगं गच्छन्ति । एवम् एव + अहम् इमं कायं चतुर्-महा-भूत-समुच्छ्रयं नाना-सुखैर् नाना-पर्यायैर् नाना-आरम्बणैर् नाना-उपकरणैर् नाना-परिभोगैर् विस्तरेण सर्व-सत्वानाम् उपभोग्यं करिष्यामि + इति । स इमम् अर्थ-वशं संपश्यन् काय-दुष्खतां च प्रत्यवेक्षते काय-दुष्खतया च न परिखिद्यते सत्व-अवेक्षया + इति ॥
आर्य-वज्र-ध्वज-सूत्रे * अप्य् आह ॥
इति हि बोधि-सत्व आत्मानं सर्व-सत्वेषु निर्यातयन् सर्व-कुशल-मूल-उपकारित्वेन सर्व-सत्वानां कुशल-मूलैः समन्वाहरन् प्रदीप-समम् आत्मानं सर्व-सत्वेषु + उपनयन् सुख-समम् आत्मानं सर्व-सत्वेष्व् अधितिष्ठन् । धर्म-कुक्षि-समम् आत्मानं सर्व-जगति संधारयन् आलोक-समम् आत्मानं सर्व-सत्वेष्व् अनुगच्छन् जगत्-प्रतिष्ठापन-समम् आत्मानं संपश्यन् । कुशल-मूल-प्रत्यय-भूतम् आत्मानं सर्व-जगत्य् अनुगच्छन् । मित्र-समम् आत्मानं सर्व-सत्वेषु नियोजयमानो * अन्-उत्तर-सुख-मार्ग-समम् आत्मानं सर्व-सत्वेषु संदर्शयमानः अन्-उत्तर-सुख-उपधान-समम् आत्मानं सर्व-सत्वेषु परिशोधमानः सूर्य-समम् आत्मानं सर्व-जगति समी-कुर्वाणः । एवं-धर्म-उपेतम् आत्मानं सर्व-सत्वेषु प्रयच्छन् । यथा-काम-करणीय-वश्यम् आत्मानं सर्व-लोके संपश्यन्न् अग्र-चैत्या भविष्यामः ... सर्व-जगत्-स्थित्य्-आत्मानं संपश्यन् । सम-चित्ततां सर्व-जगति निष्पादयन् । सर्व-उपकरण-तीर्थम् आत्मानं संपश्यन् । सर्व-लोक-सुख-दातारम् आत्मानं प्रत्यवेक्षमाणः । सर्व-जगतो दान-पतिम् आत्मानम् अधिमुच्यमानः सर्व-लोक-ज्ञान-समम् आत्मानं कुर्वाणः बोध्i-satva-caryआ-प्रयुक्तम् आत्मानं संजनयमानः । यथा-वादि-तथा-कारित्वेन + आत्मानं नियोजयमानः । सर्व-ज्ञता-सन्नाह-सन्नधम् आत्मानं प्रत्यवेक्षमाणः । पूर्व-निमन्त्रितं चित्तम् अनुपालयमानः । प्रतिपत्तौ च + आत्मानं स्थापयमानो बोध्i-satva-tyआग-चित्ततां मनसि कुर्वाण उद्यान-भूतम् आत्मानं सर्व-सत्वेषु संपश्यन् । धर्म-रति-भूतम् आत्मानं सर्व-लोकेष्व् आदर्शयमानः सौमनस्य-दातारम् आत्मानं सर्व-सत्वानाम् अधितिष्ठन् । अन्-अन्त-प्रीति-संजननम् आत्मानं सर्व-जगतो निर्यातयमानः सर्व-शुक्ल-धर्माय द्वार-भूतम् आत्मानं सर्व-लोके संधारयमानः । बुद्ध-बोधि-दातारम् आत्मानं सर्व-सत्वानां प्रणिदधत् । पितृ-समम् आत्मानं सर्व-प्रजायां नियोजयमानः । सर्व-उपकरण-अ-वैकल्य-अधिकरणम् आत्मानं सर्व-सत्व-धातौ प्रतिष्ठापयमानः ॥
इति हि बोधि-सत्व आत्मानम् उपस्थायकत्वाय ददानः याचनकेषु नीच-मनसि-कार-चित्तो भूम्य-आस्तरण-अधिष्ठान-चेता धरण्i-sama-sarva-duष्ख-सहन-मनसि-कार-प्रवृत्तः सर्व-सत्व-उपस्थान-अ-क्लान्त-मानस-प्रयुक्तो बाल-जन-दुष्-कृत-स्थिरः स्थावर-अधिवासन-जात्यः अस्थितः कुशल-मूल-अभियुक्तः अ-प्रयुक्त-सर्व-लोक-धातु-उपस्थानः कर्णो नासा संपरित्यजन् याचनकेभ्य उपसंक्रान्तेभ्यो बोध्i-satva-caryआ-उपात्त-तथा-गत-कुल-कुलीन-संभूत-चित्तः सर्व-बोध्i-satva-anusmaraण-विहार-प्रसृतो * अ-सारात् सर्व-त्रैलोक्यात् स ... त्यवेक्षमाणः स्व-शरीर-अन्-अध्यवसित-सन्तानः अ-निकेत-सर्व-बुद्ध-धर्म-अनुस्मृति-विहार्य् अ-साराच् * छरीरात् सार-आदान-अभिप्राय इति हि बोधि-सत्वो जिह्वां याचितः समानो म ... वाता प्रेमणीयया मैत्र्या-उपचार-विततया भद्रे सिंह-आसने राज-अर्हे निषाद्य तं याचनकम् अभिभाषते दृष्टः । अ-रिष्ट-चित्तो भूत्वा + अ-क्षत-चित्तो * अन्-उपहत-चित्तो महा-आत्मन् सला ... चित्तो बुद्ध-वंश-संभूत-चित्तो * अ-लुलित-सन्तान-चित्तो महा-स्थाम-बल-आधानो * अन्-अध्यवसित-शरीर-चित्तो * अन्-अभिनिविष्ट-वचन-चित्तो जानु-मण्डल-प्रष्ठित-कायो भूत्वा स्वकान् मुखाज् जिह्वा ... याचनकस्य सर्व-शरीरम् अ-धीनं कृत्वा वाचं प्रमुञ्चन् स्निग्धां मृद्वीं प्रेमणीयां मैत्र्या-उपचारां । गृहाण त्वं मम जिह्वां यथा काम-करणीयां कुरु । तथा कुरु यथा त्वं प्रीतो भवसि प्रीत-मानस आत्मना प्रमुदितो हृष्टः प्रीति-सौमनस्य-जात इति स शिरः परित्यजन् सर्व-धर्म-अग्र-शिरः परम-ज्ञानम् अवतरन् सर्व-सत्व-परित्राण-शिरो-बोधि ... गच्छन्
सर्व-जगद्-अग्र्य-शिरः अन्-उपम-ज्ञानम् अभिलषन् सर्व-दिक्-छिरः प्राप्तुं ज्ञान-राजम् अधिमुच्यमानो * अन्-उत्तर-सर्व-धर्म-ऐश्वर्य-शीर्षतां परिपूरयितु-कामो * अन्-अन्त-याचनक-प्रीति-परिस्फुट-चेता । इति हि बोधि-सत्वो हस्त-पादान् परित्यजन् याचनकेभ्यः श्रद्धा-हस्त-प्रयुक्तेन + अनुग्रह-चारित्रेण बोध्i-satva-siंह-विक्रम-त्याग-प्रतत-पाणिना व्यवसर्ग-अभिरतेन हस्त-पाद-परित्यागेन महा-प्रतिष्ठान-क्रम-तल-व्यतिहारेण बोध्i-satva-caryआ-अध्यवसायेन वेदना-अन्-उपहततया दान-प्रसाद-शक्त्या vi-mala-citta-utpआद-संवरो निष्-पर्यवस्थान-ज्ञान-धर्म-शरीर-अ-छिन्न-अ-भिन्न-अ-लुप्त-काय-संज्ञः अ-नीच-चित्तः सर्व-मार-कर्म-अ-कल्याण-मित्र-उपस्तब्ध-वृंहित-चेताः सर्व-बोध्i-satva-saंवर्णित-एक-त्याग-निर्याण इति हि बोधि-सत्वः स्व-शरीरम् आक्षिप्य रुधिरम् अनुप्रयच्छन् याचनकेभ्यः प्रहर्षित-बोधि-चित्तो । बोध्i-satva-caryआ-अभिलषित-चित्तो * अ-पर्यात्त-वेदित-चित्तः सर्व-याचनक-अभिलषित-चित्तः सर्व-प्रतिग्राहक-अ-विद्विष्ट-चित्तः सर्व-बोध्i-satva-tyआग-प्रतिपत्-प्रतिपन्नो * अ-निवर्त्त्यया प्रीति-प्रस्रब्ध्या स्व-शरीर-अन्-अपेक्ष-चित्तः स्व-शरीराद् रुधिरम् अनुप्रयच्छन् ज्ञान-आयतन-महा-यान-प्रसृत-चेता महा-यान-अ-विनष्ट-मना इष्ट-मनास् तुष्ट-मनाः प्रीत-मनाः मुदित-मना मैत्र्य्--मनाः सुख-मनाः प्रसन्न-मनाः प्रमुदित-प्रीति-सौमनस्य-जातो मज्जा-मांसं स्व-शरीरात् परित्यजन् याचनकेभ्यः कल्याण-त्यागया । याचक-अभिलषितया वाचा तान् याचकान् अभिलपन् । गृह्णन्तु भवन्तो मम शरीरान् मज्जा-मांसं यथा काम-करुणाया
तुल्य-प्रीति-विवर्द्धनेन त्याग-चित्तेन । बोध्i-satva-vijञ-गण-निषेवितेन महा-कुशल-मूलेन लोक-मल-अपकर्षितेन प्रवरेण + अध्याशयेन । सर्व-बोध्i-satva-samatआ-उपात्तैर् महा-दान-आरम्भैर् मनसा + आकाङ्क्षितैः सर्व-याचकैर् अन्-अनुताप्य-चित्तैर् दान-वस्तुभिः अ-प्रत्यवेक्षितेन कर्म-विपाक-प्रत्ययेन सर्व-लोक-धात्v-a-vimukhayआ सर्व-बुद्ध-क्षेत्र-अलं-कार-व्यूह-पूजया सर्व-जगद्-अभिमुखया करुणा-परित्राणतया । सर्व-बुद्ध-बोध्य्-अभिमुखया । दश-बल ... चारणया + अतीत-अन्-आगत-प्रत्युत्पन्न-सर्व-बोध्i-satva-abhimukhअया एक-कुशल-मूल-परिचर्यया सर्व-वैशारद्य-अभिमुखेन + आर्षभ-सिंह-नाद-नदनेन त्र्य्-अध्व-अभिमुखेन । सर्व-अध्व-समता-ज्ञानेन ... लोक-अभिमुखेन + अ-पर-अन्त-कोटी-गत-कल्प-व्यवसायेन बोध्i-satva-praणिधानेन + अ-परित्रस्यन-अभिमुखेन + अ-खेद-चित्त-उत्पादेन बोधि-सत्वः स्व-हृदयं परित्यजन् याचनकेभ्यो दान-वश-शिक्षित-चित्तः पारमिता-निष्पादन-चित्तः सर्व-बोध्i-satva-dआन-अन्-उद्धत-सु-प्रतिष्ठित-चित्तः । अधिष्ठान-सर्व-याचनक-प्रतिमानन-चित्तः । अध्याशयं परिशोधयमानः । सर्व-जगत्-परिपाचन-निदानं महा-प्रणिधानं प्रतिपद्यमानो बोध्i-satva-caryआयां संवसमानः सर्व-ज्ञता-संभारं संभरमाणः प्रणिधिम् अ-रिञ्चन् सो * अत्र यकृत्-बुक्का-फुप्फुषं याचकेभ्यः परित्यजन् याचनक-अभिप्रसन्नया दृष्ट्या प्रसन्न-प्रीत्य्-आकारैर् नेत्रैर् बोध्i-satva-niryआतेन प्रेम्णा + अ-व्युत्थित-मनसि-कारेण त्यागेन + अ-सारात् कायात् सु-प्रत्यवेक्षितेन सार-आदान-चित्तेन श्मशान-पर्यन्तेन काय-अनुस्मृत्i-manasi-kआरेण
वृक-शृगाल-श्व-भक्ष्यं शरीरं प्रत्यवेक्षमाणः पर-भक्त्i-manasi-kऋतया । शरीर-अ-नित्यतया + अपविद्ध-शरीरेण पर-भक्त-चेतनेन एवं धर्म-मनसि-कार-प्रयुक्तो बोधि-सत्वस् तान् याचनकान् अ-निमिषं प्रेक्षमाण एवं चित्तम् उत्पादयति । यदि च + अहम् एतद्-याचनकस्य एतच्-छरीराद् अन्त्रं यकृत्-बुक्का-फुष्फुषं दद्यां । यदि वा न दद्यां । आयुः-क्षय-पर्यन्ते न + एषो नित्यः श्मशान-पर्यवसान इति । स एवं मनसि-कार-संतोषितेन सन्तानेन + एवं धर्म-ज्ञानेन + आशयेन कल्याण-मित्र-संज्ञा-अधिष्ठितेन याचनक-दर्शनेन + अ-सारात् कायात् सारम् आदातु-कामो धर्म-कामतया स्व-मांसान् नखं परित्यजन्न् एव तत्-कुशल-मूलं परिणामयति + इत्य् आत्म-भाव-उत्सर्गं कृत्वा ॥
भोग-पुण्य-उत्सर्गो * अप्य् अत्र + एव + उक्तेः । इति हि बोधि-सत्वो नाना-दक्षिणीय-प्रतिग्राहकेष्व् अन्य-अन्य-पुद्गल-दिग्-आगतेष्व् अ-प्रमेय-कृपण-वनीपकेषु बोधि-सत्व-श्रव-आगतेषु बोधि-सत्व-शब्दं श्रुत्वा + आगतेषु बोध्i-satva-pratyaya-avakआश-गतेषु बोध्i-satva-dआन-पूर्वं प्रणिधान-श्रुतेषु । बोध्i-satva-praणिधान-चित्त-निमन्त्रितेषु । सर्व-त्याग-मनस-अभिलषितेषु तृप्त-याचनक-प्रतिमानना-चेतन आगत-याचनक-क्षमा-पण-चेतनो । मया + एव तत्र दिशं गत्वा यूयं प्रतिमानयितव्या अभविष्यत येन युष्माकम् आगमन-क्लमो न स्यात् । एवं समृद्ध-प्रणिपातेन क्षमयति सर्व-याचनकान् क्षमयित्वा स्नापयित्वा विश्रामित-शरीरान् कृत्वा तेभ्यो यद्-ऋच्छया + उपकरणं प्रतिपादयति । यद् इदं मणि-रथान् जम्बु-द्वीप-कल्याण-कन्या-रत्न-परिपूर्णान् यद् इदं सुवर्ण-रथान् जन-पद-विशुद्ध-कन्या-रत्न-परिपूर्णान् । यद् इदं वैडूर्य-रथान् वा + अनुकुल-गीत-वाद्य-संप्रवादित-परिपूर्णान् । एवं स्फटिक-रथान् सु-मुख-सु-वेश-धार्i-sv-alaं-कृत-रूपान् अ-प्रतिकूल-दर्शन-चतुर-कन्या-रत्न-परिपूर्णान् इति । तथा + अत्र + एव देशितं मणि-रथान् वा ददानः सर्व-रत्न-जाल-संछन्नान् आजानेय-हस्त्य्-उपेतान् । स-वाहनान् । चन्दन-रथान् ददानो रत्न-चक्र-रथ्य-प्रयुक्तान् रत्न-सिंह-आसन-प्रतिष्ठितान् यावन् नाना-रत्न-छत्र-संछन्न-व्यूहान् रत्न-वितान-वितत-संछन्नान् ध्वज-पताक-अलं-कृत-चतुर्-दिक्कान् नाना-गन्ध-विधूपित ... सार-गन्ध-अनुलेप-अनुलिप्तान् । सर्व-पुष्प-व्यूह-अवकीर्णान् कन्या-शत-सहस्र-रत्न-सूत्र-प्रकर्षितान् अ-भ्रान्त-गमनान् अभ्र-अन्त-सम-वाहन-प्रयुक्तान् । यावद् अ-प्रतिकूल-मनो-ज्ञ-प्रवात-गन्धान् सु-दुहितृ-पुत्र-वचन-उपचार-प्रयुक्तान् । विविध-गन्ध-चूर्ण-सम्भृत-कृत-उपचारान् इति ॥
पुनर् अत्र + एव + आह । आत्मानं च सर्व-सत्वानां निर्यातयन्न् उपस्थानं वा सर्व-बुद्धानाम् उपाददानो राज्यं वा परित्यजन् पट-भेदकं वा नगर-राज-धानीं सर्व-अलं-कार-भूषितां यथा-अर्हं वा याचनकेषु सर्व-परिवारं परित्यजन् पुत्र-दुहितृ-भार्यां वा ददानो याचनकेभ्यः सर्व-गृहं वा + अपसृजन् । यावत् सर्व-उपभोग-परिभोगान् वा ददानः । एवं पान-दानं रस-दानम् अपि बोधि-सत्वो ददानो विविधान् कल्याणान् उदारान् विशुद्धान् अ-विकलांस् तिक्तांल् लवणान् कटकान् कषायान् नाना-रस-अग्र-उपेतान् सु-स्निग्धान् विविध-रस-विधिना + उपेतान् धातु-क्षोभण-समता-स्थापनान् चित्त-शरीर-बल-उपस्तम्भनान् प्रीति-प्रसाद-प्रामोद्य-कल्पता-जननान् । यावत् सर्व-पर-उपक्रम-प्रतिषेधकान् सर्व-व्याधि-समन-आरोग्य-संजननान् । एवं वस्त्र-दानं पुष्प-दानं गन्ध-दानं विलेपन-दानं माल्य-दानं । शयन-दानम् आवास-दानम् अपाश्रय-दानं प्रदीप-दानं च । ग्लान-प्रत्यय-भैषज्य-परिष्कारान् बोधि-सत्वो * अनुप्रयच्छन् यावन् नाना-भाजनानि विविध-संभाराण्य् अन्-एक-कांस्य-पात्रीर् अ-प्रमेय-संभार-उपचिता हिरण्य-सुवर्ण-रूप्य-चूर्ण-परिपूर्णास् तानि बुद्धेभ्यो भगवद्भ्यो ददानो * अ-चिन्त्य-दक्षिणीय-अधिमुक्त-चेता बोध्i-satva-ratnebhyओ वा ददानः । कल्याण-मित्र-सु-दुर्-लभ-चित्त-उत्पादेन आर्य-संघाय वा ददानः । बुद्ध-शासन-उपस्तम्भाय पुद्गलाय वा ददानः । श्रावक-प्रत्य्-एक-बुद्धेभ्यो वा + आर्य-गुण-सु-प्रसन्न-चित्ततया माता-पितृभ्यां ददानो । गुरु-शुश्रूष-उपस्थान-चित्ततया आचार्य-गुरु-दक्षिणीयेभ्यो वा ददानस् तत्र तत्र गुरु-संभार-अववाद-शिक्षण-प्रयुक्तः । अशन-वसनं वा कृपण-वनीपक-याचनकेभ्यो ददानः । सर्व-सत्व-अ-प्रतिहत-चक्षुर् मैत्री-परिभावित-चित्ततया । पेयालं ॥
इति हि बोधि-सत्वो हस्त्य्-आजानेयान् ददानः सप्त-अङ्ग-सु-प्रतिष्ठितान् । षष्टि-हायनान् षड्-गन्त्र-उपेतान् पद्म-वर्णान् मुख-विशुद्धान् सुवर्ण-अलं-कारान् हेम-जाल-प्रतिच्छन्न-शरीरान् नाना-रत्न-विचित्र-अलं-कार-जाल-शुण्ड-प्रक्षिप्त-व्यूहान् सुवर्ण-कल्याणान् कल्याण-चारु-दर्शनान् । अ-क्लान्त-योजन-सहस्र-गमन-उपचारान् अश्व-आजानेयान् वा ददानः । सुख-वाहन-सुख-शरीर-उपेतान् अनुजव-संपन्नांश् चतुर्-दिग्-गमन-आहार-जव-उपेतान् आरोह-संपन्नान् दिव्य-कल्याण-चारु-सदृश-सर्व-विभूषण-उपेतान् । स तान् ददानः परित्यजन् गौरवेण गुरु-जनेभ्यः कल्याण-मित्र-माता-पितृभ्यः कृपण-वनीपक-याचनकेभ्यः सर्व-जगत्-प्रतिग्राहकभ्यो मुक्त-चित्तया ददानो । न + आगृहीत-चित्ततया + अवसृजन् महा-करुणा-परिस्फुटेन सन्तानेन महा-त्याग-परिमाण-बोध्i-satva-guneषु प्रतिपद्यमानो * अभिजात-बोध्i-satva-adhyआशयान् परिशोधयमानो यावद् इति हि बोधि-सत्व आसन-दानं ददानः परित्यजन् राज-भद्र-आसनानि वैडूर्य-पादकानि सिंह-प्रतिष्ठितानि सुवर्ण-सूत्र-रत्न-जाल-वितानान्य् अन्-एक-चीवर-स्पर्श-उपेत-प्रज्ञप्तानि सर्व-सार-गन्ध-वासित-उपचाराणि विचित्र-मणि-राज-समुच्छ्रित-ध्वजान्य् अन्-एक-रत्न-कोटी-नियुत-शत-सहस्र-अलं-कार-व्यूहानि हेम-जाल-वितान-विततानि सुवर्ण-किङ्किणी-जाल-संघटित-मनो-ज्ञ-नाद-निर्घोष-शब्दानि महान्त्य-आसनान्य् अभ्युद्गतो द्विद्ध-चक्षुर्-दशनान्य् एक-छत्र-महा-पृथिव्य्--अनुशासन-निषदन-अभिषिक्तानि । सर्व-राज्य-ऐश्वर्य-अधिपतेय-नियत-निषद्य-अ-प्रतिहत-चक्र-शासन-अनुशासन-सर्व-राज-अधिपतेये प्रवर्त्तते । एवं यावद् इति हि
बोधि-सत्वश् छत्राणि ददानः परित्यजन् महा-रत्न-व्यूह-प्रतिमण्डितानि रत्न-दण्डानि किङ्किणी-जाल-संछन्नानि । रत्न-सूत्र-कर्ण-कण्ठ-आवली-विनामित-वैडूर्य-मणि-हार-अभिप्रलम्बितानि नन्दी-घोष-मनो-ज्ञ-शब्द-उपचाराणि हेम-जाल-अभ्यन्तर-विशुद्ध-छदनानि रत्न-शलाक-अलं-कार-शत-सहस्र-विततानि रत्न-कोष-सन्धारितान्य् अ-गुरु-चन्दनान्य् एक-सार-वर-गन्ध-कोटी-नियुत-शत-सहस्र-विधूपित-वासित-उपचाराणि जाम्बु-नद-प्रभास्वर-शुद्धानि । तादृशानां छत्राणाम् अन्-एक-कोटी-नियुत-शत-सहस्र-अलं-काराणां तद्-अतिरिक्तानि च + अ-संख्येय-कोटी-नियुत-शत-सहस्र-अलं-काराण्य् अन्-अपेक्ष-चित्तो ददानः परित्यजन्न् अवसृजन्न् अनुप्रयच्छन् संमुखी-भूतेभ्यो वा सत्व-सारेभ्यो निर्वृतानां वा तथा-गतानां चैत्य-अलं-काराय । धर्म-पर्येष्टये बोध्i-satva-kalyआण-मित्रेभ्यो वा + अभिजात-बोध्i-satva-dharma-bhआणकेभ्यो वा माता-पितृभ्यां वा संघ-रत्ने वा सर्व-बुद्ध-शासने वा यावत् सर्व-प्रतिग्राहकेभ्यः स एवं तत्-कुशल-मूलं परिणामयति ॥
यथा तावत् प्रथमायाम् एव परिणामनायां सर्व-कुशल-मूल-प्रस्तावेषु + उपदिष्टं । एवं प्रणिधानम् उत्पादयति । कथम् एतानि कुशल-मूलानि सर्व-जगद्-उपजीव्यान्य् उपकारि-भूतानि भवेयुर् विशुद्ध-धर्म-पर्यवसानानि येन सर्व-सत्वानाम् एतैः कुशल-मूलैर् नरक-अपाय-प्रतिप्रस्रब्धिर् भवति । तैर्यग्योनिक-यामलौकिकाद् दुष्ख-स्कन्धान् निवर्त्तयेयुः । स तानि कुशल-मूलानि परिणामयन्न् एवं तत्-कुशल-मूलं परिणामयति । अनेन + अहं कुशल-मूलेन सर्व-सत्वानां नयनं भवेयं सर्व-दुष्ख-स्कन्ध-विनिवर्त्तनाय । सर्व-सत्वानां त्राणं भवेयं सर्व-क्लेश-परिमोचनतया । सर्व-सत्वानां शरणं भवेयं सर्व-भय-आरक्षणतया । सर्व-सत्वानां गतिर् भवेयं सर्व-भूम्य्-अनुगमनतया । सर्व-सत्वानां परायणं भवेयम् अत्यन्त-योग-क्षेम-प्रतिलम्भतया । सर्व-सत्वानां आलोको भवेयं वितिमिर-ज्ञान-संदर्शनतया । सर्व-सत्वानां उल्का भवेयम् अ-विद्या-तमो-अन्ध-कार-विनिवर्त्तनतया । सर्व-सत्वानां प्रद्योतो भवेयम् अत्यन्त-विशुद्धि-प्रतिष्ठापनतया । सर्व-सत्वानां नायको भवेयम् अ-चिन्त्य-धर्म-नय-अवतारणतया । सर्व-सत्वानां परिणायको भवेयम् अन्-आवरण-ज्ञान-स्कन्ध-उपनयनतया । पेयालं ॥
तच् च + अध्याशयतः परिणामयति न वचन-मात्रेण । तच् च + उदग्र-चित्तः परिणामयति । हृष्ट-चित्तः परिणामयति । प्रसन्न-चित्तः परिणामयति । प्रमुदित-चित्तः स्निग्ध-चित्तः परिणामयति । मैत्र-चित्तः प्रेम-चित्तः अनुग्रह-चित्तो हित-चित्तः सुख-चित्तः परिणामयति । तच् च + एवं परिणामयति । इदं मम कुशल-मूलं सर्व-सत्वानां गति-विशुद्धये संवर्तेत । उपपत्ति-विशुद्धये संवर्त्तेत । पुण्य-माहात्म्य-विशुद्धये संवर्त्तेत । अन्-अभिभूततायां संवर्त्तेत । अ-पर्यादानतायां संवर्त्तेत । दुर्-आसद-चित्ततायां संवर्त्तेत । स्मृत्य्-अ-प्रमोषतायां संवर्त्तेत । गत्i-mati-viniश्चयतायां संवर्त्तेत । बुद्ध्य्-अ-प्रमाणतायां संवर्त्तेत । काय-कर्म-मनस्-कर्म-सर्व-गुण-अलं-कार-परिपूर्यां संवर्त्तेत ॥
अनेन मे कुशल-मूलेन ते सर्व-सत्वाः सर्व-बुद्धान् आरागयेयुर् आरागयित्वा च मा विरागयेयुः । तेषु च बुद्धेषु भगवत्सु प्रसादम् अ-भेद्यं प्रतिलभेरन् । तेषां च तथा-गतानाम् अर्हतां सम्यक्-संबुद्धानाम् अन्तिके धर्म-देशनां शृणुयुः । श्रुत्वा च सर्वा वि-मतीर् विनिवर्त्तयेयुः । यथा-श्रुतं च संधारयेयुः । सन्धारयन्तश् च प्रतिपत्त्या संपादयेयुः । तांश् च तथागतान् आराधयेयुः । चित्त-कर्मण्यतां च प्रतिलभेरन् । अन्-अवद्यानि कर्माणि समुदानयेयुः । महत्सु च कुशल-मूलेष्व् आत्मानं प्रतिष्ठापयेयुर् अत्यन्तं च दारिद्र्यं विनिवर्त्तयेयुः सप्त धन-प्रतिलम्भांश् च परिपूरयेयुः सर्व-बुद्धानां च + अनुशिक्षयेयुः कल्याण-इन्द्रिय-प्रतिलम्भं च + अधिगच्छेयुः । उदार-अधिमुक्ति-समतां च परिनिष्पादयेयुः । सर्व-ज्ञ-ज्ञाने च + अवकाशं प्रतिलभेरन् । अ-प्रतिहत-चक्षुष्मत्तां च सर्व-जगत्य् उत्पादयेयुः । लक्षण-अलं-कृततां च काय-प्रतिपूरिं प्रतिलभेरन् । सर्व-गुण-अलङ्-कारं च वाक्य-विशुद्धिं परिगृह्णीयुः । संवृत-इन्द्रियतां दश-बल-प्रयुक्तां चित्त-कल्यतां समुदानयेयुः । अ-निश्चित-विहारतां च परिपूरयेयुः । येन च सुख-उपधानेन सर्व-बुद्धाः समन्वागतास् तत्-सुख-उपधान-प्रतिलब्धाः सर्व-सत्वा भवेयुर् इति ॥
यथा षष्ठी परिणामना + उक्तेन विधिना परिणामयति । सर्व-सत्वा । ज्ञान-आहाराद् भवन्तु अ-सङ्ग-प्रयुक्त-चेतसः । आहार-प्रज्ञा-आतापिनो * अन्-अध्यवसित-आहाराः प्रीति-भक्षा-निर्-आमिष-आहारा यावत् काम-तृष्णा-विनिवर्त्तकाः । सर्व-सत्वाः धर्म-रस-मेघ-प्रवर्षका भवन्तु । अन्-उत्तर-धर्म-रति-प्रीणित-सन्तानाः । सर्व-सत्वाः सर्व-रस-अग्र-जिह्वा भवन्तु रस-निमित्ता ग्रहीतारः सर्व-बुद्ध-धर्म-चित्तन-प्रयुक्ताः अ-विपन्न-याना अग्र-याना उत्तम-यानाः शीघ्र-याना महा-यानाः । सर्व-सत्वा अ-तृप्त-दर्शना भवन्तु बुद्ध-प्रीति-प्रतिलब्धाः । सर्व-सत्वाः सर्व-कल्याण-मित्र-दर्शन-अन्-उपहत-सन्ताना भवन्तु । सर्व-सत्वा अगद-भैषज्य-राज-उपदर्शना भवन्तु । सर्व-सत्वाः क्लेश-विष-विनिवर्त्तकाः । सर्व-सत्वा आदित्य-मण्डल-उद्गत-दर्शना भवन्तु सर्व-सत्व-तमस्-तिमिर-पटल-विधमनत्वात् ॥
एवम् आत्मानम् उपनिधाय स्व-भावन-अनुकूल्येन पठितव्यं । सर्व-सत्वानाम् अभिरुचिर-दर्शनतायां परिणामयामि । सौमनस्य-दर्शनतायां कल्याण-दर्शनतायां परिणामयामि । अभिलषित-दर्शनतायां प्रहर्षित-दर्शनतायां दौर्मनस्य-अ-दर्शनतायां बुद्ध-दर्शन-उपेतायां परिणामयामि ॥
सर्व-सत्वाः शील-गन्ध-उपेता भवन्त्व् अन्-आच्छेद्य-शीला बोध्i-satva-pआरमिता-शीलाः ॥
सर्व-सत्वा दान-वासिता भवन्तु सर्व-त्याग-परित्यागिनः । सर्व-सत्वाः क्शान्ति-वासिता भवन्तु अ-क्षोभ्य-चेतना-प्रतिलब्धाः । सर्व-सत्वा वीर्य-वासिता भवन्तु महा-वीर्य-यान-सन्नद्धाः । सर्व-सत्वा ध्यान-वासिता भवन्तु प्रत्युत्पन्न-बुद्ध-संमुखी-भाव-स्थिताः समाधि-प्रतिलब्धाः । सर्व-सत्वा बोध्i-satva-pariणामना-वासिता भवन्तु सर्व-सत्वाः सर्व-शुक्ल-धर्म-वासिता भवन्तु सर्व-अ-कुशल-धर्म-प्रहीणाः । सर्व-सत्वा दिव्य-शयन-प्रतिलब्धा भवन्तु महा-ज्ञान-अधिगमाय । सर्व-सत्वा आर्य-शयन-प्रतिलब्धा भवन्तु । निः-पृथग्-जन-बोधि-चित्त-आवासनत्वात् सर्व-सत्वाः सुख-शयन-प्रतिलब्धा भवन्तु । सर्व-संसार-अवचर-दुःख-परिवर्जनत्वात् सर्व-सत्वाः क्षेम-शयन-प्रतिलब्धा भवन्तु धर्म-काम-स्पर्श-उपेताः । सर्व-सत्वाः परिशुद्ध-बुद्ध-क्षेत्र-अवभासा भवन्तु गुण-वास-सु-प्रयुक्ता आर्य-आवास-निकेत-उच्चलिताः । अन्-उत्तर-सर्व-बुद्ध-आवास-अ-विरहिताः । सर्व-सत्वा बुद्ध-उपनिश्चय-विहारिणो भवन्तु । सर्व-सत्वा अन्-अन्त-आलोका भवन्तु सर्व-बुद्ध-धर्मेषु सर्व-सत्वा अ-प्रतिहत-अवभासा भवन्तु सर्व-धर्म-धात्v-eka-spharaणाः । सर्व-सत्वा आरोग्य-शरीरा भवन्तु तथा-गत-काय-प्रतिलब्धाः । सर्व-सत्वा भैषज्य-राज-उपमा भवन्तु अत्यन्त-आकल्पन-धर्माणः । सर्व-सत्वा अ-प्रतिहत-भैषज्य-स्तम्भ-उपमा भवन्तु जगच्-चिकित्सा-प्रतिपन्नाः । सर्व-सत्वा रोग-शल्य-निरुद्धा भवन्तु सर्व-ज्ञ-आरोग्य-प्रतिलब्धाः । सर्व-सत्वाः सरv-jagad-bhaiषज्य-कुशला भवन्तु यथा-आशय-भैषज्य-प्रयोग-संप्रयोक्तारः ॥
सर्व-सत्त्वेषु सर्व-रोग-विनिवर्त्तनाय परिणामयामि । सर्व-सत्त्वेष्व् अ-पर्यन्त-स्थाम-बल-शरीरतायां परिणामयामि । सर्व-सत्वानां चक्र-वाड-पर्वत-अन्-अवमर्द्य-काय-बल-उपपत्तये परिणामयामि । सर्व-सत्वानां सर्व-बल-उपस्तम्भन-अ-तृप्तायां परिणामयामि ॥
सर्व-सत्वा अ-प्रमाण-भाजना भवन्त्व् आकाश-धातु-विपुलाः स्मृत्i-indriya-upetआः सर्व-लौकिक-लोक-उत्तर-भाष-संग्रहणाद् ग्रहण-स्मृत्य्-अ-संप्रमूढाः । सर्व-सत्वाः कल्याण-विशुद्धि-भावना भवन्तु । अतीत-अन्-आगत-प्रत्युत्पन्न-सर्व-बुद्ध-बोध्य्-अ-भेद-प्रसाद-ग्राहिणः । सर्व-सत्वा कामङ्-गमा भवन्तु सर्वत्र-गामिनी-बुद्ध-भूमि-प्रतिलब्धाः । सर्व-सत्वाः सर्व-सत्त्वेष्व् अ-प्रतिहत-चित्ता भवन्तु । सर्व-सत्वा अन्-आभोग-सर्व-बुद्ध-क्षेत्र-परिस्फुट-गमना भवन्तु । एक-चित्त-क्षण-सर्व-धर्म-विक्रमाः । सर्व-सत्वाः श्रान्त-आक्लान्त-सर्व-लोक-धातु-गमना भवन्तु । अ-विश्राम्यमान-मनो-मय-काय-प्रतिलब्धाः । सर्व-सत्वाः सुख-गमन-मुक्ता भवन्तु सर्व-बोध्i-satva-caryआ-अनुप्रवेशिनः । अनेन कुशल-मूलेन सर्व-सत्वाः कल्याण-मित्र-अ-त्याग-चित्त-अन्-उत्सृष्टा भवन्तु कृत-ज्ञाः कृत-अनुपालनतया । सर्व-सत्वाः कल्याण-मित्रैः सह-एक-अर्था भवन्तु स-भाग-कुशल-मूल-संग्रहणतया । सर्व-सत्वाः कल्याण-आशया भवन्तु कल्याण-मित्र-संवसन-संपद-विहार-अनुधन्वनतया । सर्व-सत्वाः कल्याण-मित्र-कुशल-मूल-कर्म-विपाक-विशुद्धा भवन्त्व् एक-प्रणिधानाः । सर्व-सत्वा महा-यान-अभिरक्ताः संप्रस्थिता भवन्त्व् अ-विष्कम्भित-यान-सर्व-ज्ञता-पर्यवसानाः । सर्व-सत्वाः प्रच्छादित-कुशल-मूला भवन्तु सर्व-बुद्ध-अवस्था-गोपन-प्रतिलब्धाः । सर्व-सत्वा गुण-ज्ञान-अभिच्छादिता भवन्तु सर्व-लोक-उपक्लेश-व्यपवृत्ताः । सर्व-सत्वा अ-च्छिन्न-अ-विक्षिप्त-शुक्ल-धर्माणो भवन्त्व् अ-विपन्न-बुद्ध-धर्म-प्रवाहाः । सर्व-सत्वाश् छत्र-भूता भवन्तु दश-बल-वितान-अन्विताः । सर्व-सत्वा अत्यन्त-बोध्य्-आसन-प्रतिलब्धा भवन्तु । सर्व-सत्वा बुद्ध-विक्रान्ति-सिंह-आसन-प्रतिलब्धा भवन्तु सर्व-जगद्-अवलोकनीया इति ॥
आर्य-गगन-गञ्ज-सूत्रे * अप्य् आह । मा भूत् तन् मम कुशल-मूलं धर्म-ज्ञान-कौशल्यं वा यन् न सर्व-सत्त्व-उपजीव्यं स्याद् इति ॥
अतीत-अन्-आगत-शुभ-उत्सर्गस् त्व् आर्य-अक्षयमति-सूत्रे * अभिहितः । कुशलानां च चित्त-चैतसिकानानाम् अनुस्मृतिर् अनुस्मृत्य च बोधि-परिणामना । इदम् अतीत-कौशल्यं । यो * अन्-आगतानां कुशल-मूलानां निध्यप्ति-बोधेर् आमुखी-कर्म-समन्वाहारः । ये मे उत्पत्स्यन्ते कुशलाश् चित्त-उत्पादास् तान् अन्-उत्तरायां सम्यक्-संबोधौ परिणामिष्यामि + इति इदम् अन्-आगत-कौशल्यं ॥
tad evaṃ caitasikena + ābhyāsena sarva-tyāga-adhimuktiṃ paripūrye tyāga-citta-vega-āpannena kāya-prayogeṇa + utsṛṣṭa-sarva-parigrahaḥ | sarva-parigraha-mūlād bhava-duṣkhād vimukto mukta ity ucyate | an-uttarāṃś ca + a-prameya-a-saṃkhyeyān kalpān nānā-ākāra-an-antān laukika-loka-uttarān sukha-saṃpat-pravarṣān anubhavati | tena ca + ātma-bhāva-ādinā [doubtful] vaḍiṣa-āmiṣena + iva svayam an-abhigata-upabhogena + apy ākṛṣya parān api tārayati ||
अत एव + उक्तं रत्न-मेघे । दानं हि बोधि-सत्वस्य बोधिर् इति ॥
शिक्षा-समुच्चये दान-पारमिता प्रथमः परिच्छेदः ॥
[ii. सद्धर्मपरिग्रहः]
शील-पारमितायां सd-dharma-parigrahओ नाम द्वितीयः परिच्छेदः ॥
एवम् एषाम् आत्म-भाव-आदीनाम् उत्सृष्टानाम् अपि रक्षा कार्या । कुतो । यस्मात् ॥
परिभोगाय सत्वा नाम + आत्म-भाव-आदि दीयते । अ-रक्षिते कुतो भोगः । किं दत्तं यन् न भुज्यते ॥
तस्मात् सत्व-उपभोग-अर्थम् आत्म-भाव-आदि पालयेत् ॥
उक्तं हि बोध्i-satva-prआतिमोक्षे । परं शारिपुत्र रक्षिष्यामि + इत्य् आत्मा रक्षितव्यः । एवं-रूपया शारिपुत्र हित-ऐषिकतया समन्वागतो बोधि-सत्वो जीवित-हेतोर् अपि पापं कर्म न करोति + इति ॥
वीरदत्त-परिपृच्छायाम् अप्य् आह । शकटम् इव भार-उद्वहन-अर्थं केवलं धर्म-बुद्धिना वाढव्यम् इति । तथा + अक्षयमति-सूत्रे * अपि । काय-दुष्खतया च न परिखिद्यते सत्व-अवेक्षतया + इति ॥
तच् च + आत्म-भाव-आदिकं कथं पालयेत् । कल्याण-मित्र-अन्-उत्सर्जनात् । यथा + उक्तम् आर्य-गण्ड-व्यूहे आर्य-श्री-संभवेन ॥
kalyāṇa-mitra-sandhāritāḥ kula-putra bodhi-satvā na patanti dur-gatiṣu | kalyāṇa-mitra-samanvāhṛtā [doubtful] na + atikrāmanti bodhi-satva-śikṣāṃ | kalyāṇa-mitra-praticchannā abhyudgatā bhavanti lokāt kalyāṇa-mitra-paryupāsitā bodhi-satvā a-saṃpramoṣa-cāriṇo bhavanti sarva-bodhi-satva-caryāsu | kalyāṇa-mitra-parigṛhītāḥ bodhi-satvā dur-ddharṣā bhavanti karma-kleśaiḥ | sambodhakāḥ kalyāṇa-mitrā a-karaṇīyānāṃ sannivārakāḥ pramāda-sthānāt | niṣ-kāsayitāraḥ saṃsāra-purāt | tasmāt tarhi kula-putra evaṃ manasi-kārāt pratipraśrabdhena kalyāṇa-mitrāṇy upasaṃkramitavyāni | pṛthivī-sama-cittena sarva-bhāra-vahana-a-pariṇamanatayā vajra-sama-cittena a-bhedya-āśayatayā | cakra-vāḍa-sama-cittena sarva-duṣkha-a-saṃpravedhanatayā | loka-dāsa-sama-cittena sarva-karma-samādāna-a-jugupsanatayā | rajo-haraṇa-sama-cittena māna-atimāna-vivarjanatayā | yāna-sama-cittena guru-bhāra-nirvahanatayā | śva-sama-cittena + a-krudhyanatayā | nau-sama-cittena gamana-āgamana-a-paritrasyanatayā | su-putra-sadṛśena kalyāṇa-mitra-mukha-vīkṣaṇatayā | ātmani ca te kula-putra + ātura-saṃjñā + utpādayitavyā | kalyāṇa-mitreṣu ca vaidya-saṃjñā | anuśāsanīṣu bhaiṣajya-saṃjñā | pratipattiṣu vyādhi-nirghātana-saṃjñā | ātmani ca te kula-putra bhīru-saṃjñā + utpādayitavyā | kalyāṇa-mitreṣu śūra-saṃjñā | anuśāsanīṣu praharaṇa-samjñā | pratipattiṣu śatru-nirghātana-saṃjñā ||
अत्र + एव वाचना-उपासिका-विमोक्षे वर्णितं । कल्याण-मित्र-अनुशासनी-प्रतिपन्नस्य कुल-पुत्र बोधि-सत्वस्य बुद्धा भगवन्तो * अभिराद्ध-चित्ता भवन्ति । कल्याण-मित्र-वचन-अ-विलोम-स्थायिनो बोधि-सत्वस्य सर्व-ज्ञता + असन्नी-भवति । कल्याण-मित्र-वचन-अ-विचिकित्सकस्य + असन्नी-भवन्ति कल्याण-मित्राणि । कल्याण-मित्र-मनसि-कार-अ-विरहितस्य सर्व-अर्था अभिमुखा भवन्ति + इति । अत एव + आर्य-सुधनः सारध्वजस्य भिक्षोः पादौ शिरसा + अभिवन्द्य + अन्-एक-शत-सहस्र-कृत्वः प्रदक्षिणी-क्र्ट्य सारध्वजं भिक्षुम् अवलोक्य प्रणिपत्य पुनः पुनर् अवलोकयन् नियतं प्रणिपतन् नमस्यन्न् अवनमन् मनसि कुर्वन् चिन्तयन् भावयन् परिभावयन्न् उदानम् उदानयन् हाक्-कारं कुर्वन् । गुणान् अभिमुखी-कुर्वन् निगमयन्न् अत्र सन्न् अनुस्मरन् दृढी-कुर्वन्न् अ-विजहन् मनसा + आगमयन्न् उपनिबध्नन् प्रणिधिं समवसरन् दर्शनम् अभिलषन् स्वर-निमित्तम् उद्गृह्णन् यावत् तस्य + अन्तिकात् प्रक्रान्तः । तथा कल्याण-मित्र-आगतं सर्व-ज्ञतां संपश्यन्न् अश्रु-मुखो रुदन् यावन् मेघस्य द्रमितस्य + अन्तिकात् प्रक्रान्तः ॥
बोध्i-satva-pratimokषे * अप्य् उक्तं । इह शारिपुत्र बोधि-सत्वो धर्म-कामतया न + अस्ति तल् लोके रत्नं यन् न परित्यजति । न + अस्ति तत् काय-उपस्थानं यन् न करोति । न + अस्ति तज् जङ्घा-प्रेषणं यन् न + उत्सहते । न + अस्ति तद् वाक्-कर्म यन् न + उत्सहते आचार्य-उपाध्याय-गौरवतया ॥
पेयालं ॥
तत् कस्य हेतोः । बन्ध-च्छेदाय + एष धर्मः संवर्तते । जाति-जरा-व्याधि-मरण-शोक-परिदेव-दुष्ख-दौर्मनस्य-च्छेदाय + एष धर्मः संवर्ततए इति रत्न-चित्तम् उत्पाद्य भैषज्य-चित्तम् उत्पाद्य । सर्व-सत्वानां ग्लान्य-व्युपशमाय + एष धर्मः संवर्ततए इति । एष्टव्यश् च + अस्माभिः सर्व-सत्वानां ग्लान्य-व्युपशमाय + एवं-रूपो धर्म इति ॥
उग्रदत्त-परिपृच्छायाम् अप्य् उक्तं । सचेत् पुनर् गृह-पते पाठ-स्व-अध्याय-अर्थिको बोधि-सत्वः कस्य-चिद् अन्तिकाच् चतुष्-पादिकां गाथां शृणुयाद् उद्दिशेद् वा उद्गृह्णीयाद् दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञा-संप्रयुक्तां बोध्i-satva-saंभार-उपचयं वा तेन तस्मिन्न् आचार्ये धर्म-गौरवं करणीयं यावद्भिर् नाम-पद-व्यञ्जन ... गाथा + उद्दिष्टा । यदि तावत एवं कल्पांस् तस्य + आचार्यस्य + उपस्थान-परिचर्यां कुर्याद् अ-शठतया सर्व-लाभ-सत्-कार-पूजया । अद्य + अपि गृह-पते न प्रतिपूरितम् आचार्यस्य + आचार्य-गौरवं भवति । कः पुनर् वादो धर्म-गौरवं ॥
प्रज्ञा-पारमितायाम् अष्ट-सहस्रिकायाम् अप्य् उक्तं । कल्याण-मित्रेषु च त्वया कुल-पुत्र तीव्रं गौरवम् उत्पादयितव्यं । प्रेम च करणीयं । अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्व एवं-रूपैर् गुणैर् गौरव-मनसि-कारैर् गच्छन्न् अनुपूर्वेण + अन्यतम-नगरम् अनुप्राप्तस् । तत्र तस्य + अन्तरायण-मध्य-गतस्य + एतद् अभूत् । यन् न्व् अहम् इमम् आत्म-भावं विक्रीय + अनेन मूल्येन धर्मोद्गतस्य बोधि-सत्वस्य महा-सत्वस्य सत्-कारं कुर्यां । दीर्घ-रात्रं हि मम + आत्म-भाव-सहस्राणि भग्नानि क्षीणानि विक्रीतानि पुनर् अ-परिमाणे संसारे * अ-परिमाणानि यानि मया काम-हेतोः काम-निदानम् अनुभूतानि न पुनर् एवं-रूपाणां धर्माणां कृतश एवं-रूपाणां वा सत्वानां सत्-काराय ॥
अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वो * अन्तरायण-मध्य-गतः शब्दम् उदीरयाम् आस घोषम् अनुश्रावयाम् आस । कः पुरुषेण + अर्थिकः कः पुरुषेण + अर्थिक इति पेयालं । अथ खलु मारः पापीयान् ब्राह्मण-गृह-पतिकांस् तथा समुपस्थापयाम् आस यथा तं घोषं न + अश्रौषुः । यदा + आत्मनः क्रायकं न लभते तदा + एक-अन्तं गत्वा प्रारोदीद् अश्रूणि च प्रावर्त्तयद् एवं च + अवदद् । अहो वत + अस्माकं दुर्-लभा लाभा ये वयम् आत्म-भावस्य + अपि क्रेतारं न लभामहे । अथ खलु शक्रो देवानाम् इन्द्रो माणवक-रूपेण यावत् सदाप्ररुदितं बोधि-सत्वं महा-सत्वम् एतद् अवोचत् । किं त्वं कुल-पुत्र दीन-मना उत्कण्ठित-मानसो * अश्रूणि प्रवर्त्तयमानः स्थितः ॥
सदाप्ररुदित एवम् आह । अहं माणवक धर्म-कामतया इमम् आत्म-भावं विक्रीय धर्म-पूजां कर्त्तु-कामः सो * अहम् अस्य क्रायकं न लभे । पेयालं ॥
अथ खलु स माणवकः सदाप्ररुदितं बोधि-सत्वं महा-सत्वम् एतद् अवोचत् । न मम कुल-पुत्र पुरुषेण कृत्यम् अपि तु खलु पुनः पितुर् मे यज्ञो यष्टव्यः । तत्र मे पुरुषस्य हृदयेन कृत्यं लोहितेन च अस्थि-मज्जया च । तद् दास्यसि त्वं क्रयेण ॥
अथ खलु सदाप्ररुदितस्य + एतद् अभूत् । लाभा मे सु-लब्धाः परिनिष्पन्नं च + आत्मानं जाने प्रज्ञा-पारमिता + उपाय-कौशल्येषु । यन् मया + आत्मनः क्रायको लब्धो हृदय्स्य रुधिरस्य च + अस्थि-मज्जायाश् च ॥
स हृष्ट-चित्तः कल्य-चित्तः प्रमुदित-चित्तस् तं माणवकम् एतद् अवोचत् । दास्यामि माणवक येन ते इत आत्म-भावाद् अर्थः । यावत् सदाप्ररुदितो बोधि-सत्वो महा-सत्वस् तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विद्ध्वा लोहितं निस्रावयति स्म दक्षिणं च + ऊरुं विद्ध्वा निर्-मांसं च कृत्वा + अस्थि भेत्तुं कुड्य-मूलम् उपसंक्रामति ॥
अथ खल्व् अन्यतरा श्रेष्ठि-दारिका + उपरि-प्रासाद-तल-गता + अद्राक्षीत् सदाप्ररुदितं बोधि-सत्वं यावत् सा श्रेष्ठि-दारिका येन सदाप्ररुदितो बोधि-सत्वस् तेन + उपसंक्रम्य + एतद् अवोचत् । किं नु खलु त्वं कुल-पुत्र + एवं-रूपाम् आत्मनः कारणां कारयासि + इति । यावत् सा दारिका पूजा-प्रयोजनं श्रुत्वा पुनर् आह । का पुनस् ते कुल-पुत्र ततो गुण-जातिर् निष्पत्स्यते । स ताम् एतद् अवोचत् । स दारिके कुल-पुत्रो मम प्रज्ञा-पारमिताम् उपाय-कौशल्यं च + उपदेक्षय्ति । तत्र वयं शिक्षिष्यामस् तत्र वयं शिक्षमाणाः सर्व-सत्वानां प्रतिशरणं भविष्यामः । पेयालं ॥
अथ खलु सा श्रेष्ठि-दारिका सदाप्ररुदितं बोधि-सत्वम् एतद् अवोचत् । आश्चर्यं कुल-पुत्र । यावद् उदाराः प्रणीताश् च + अमी त्वया धर्माः परिकीर्त्तिताः । एक-एकस्य + अपि कुल-पुत्र + एवं-रूपस्य धर्मस्य + अर्थाय गङ्गा-नदी-वालिका-उपमान् अपि कल्पान् एवम् आत्म-भावाः परित्यक्तव्या भवेयुः । तथा + उदाराः प्रणीताश् च + अमी त्वया धर्माः परिकीर्त्तिताः । अपि तु खलु कुल-पुत्र येन येन कृत्यं तत् ते दास्यामि सुवर्णं वा मणिं वा मुक्तां वा वैडूर्यं वा यावद् येन त्वं तं धर्मोद्गतं बोधि-सत्वं सत्-करिष्यसि । यावद् विस्तरेण तया दारिकया पञ्च-शत-परिवारया सार्द्धं तस्य धर्मोद्गतस्य संक्रमणं कर्तव्यं ॥
अथ खलु धर्मोद्गतो बोधि-सत्वो महा-सत्वः उत्थाय + आसनात् स्वकं गृहं प्राविक्षत् । यावत् सप्त वर्षाण्य् एक-समाधि-समापन्न एव + अभूत् । सदाप्ररुदितो बोधि-सत्वो महा-सत्वः सप्त वर्षाणि न काम-वितर्कम् उत्पादयाम् आस । न व्यापाद-वितर्कं न विहिंसा-वितर्कम् उत्पादयाम् आस । न रस-गृद्धिम् उत्पादयाम् आस + अन्यत्र । कदा नाम धर्मोद्गतो बोधि-सत्वो महा-सत्वो व्युत्थास्यति । यद् वयं धर्मोद्गतस्य बोधि-सत्वस्य महा-सत्वस्य धर्म-आसनं प्रज्ञापयिष्यामो यत्र + असौ कुल-पुत्रो निषद्य धर्मं देशयिष्यति तं च पृथिवी-प्रदेशं सिक्तं संमृष्टं च करिष्यामो नाना-पुष्प-अभिकीर्णं इति चिन्तयाम् आस ॥
तान्य् अपि श्रेष्ठि-दारिका प्रमुखाणि पञ्च-दारिका-शतानि सदाप्ररुदितस्य बोधि-सत्वस्य + अनुशिक्षमाणानि द्वाभ्याम् एव + ईर्या-पथाभ्यां कालम् अतिनामयाम् आसुः ॥
अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वो दिव्यं निर्घोषम् अश्रौषीद् इतः सप्तमे दिवसे धर्मोद्गतो बोधि-सत्वो महा-सत्वो * अस्मात् समाधेर् व्युत्थाय मध्ये नगरस्य निषद्य धर्मं देशयिष्यति + इति । अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वस् तं निर्घोषं श्रुत्वा आत्त-मनाः प्रमुदितः प्रीति-सौमनस्य-जातस् तं पृथिवी-प्रदेशं शोधयाम् आस सार्द्धं श्रेष्ठि-दारिका-प्रमुखैः पञ्चभिर् दारिका-शतैर् धर्म-आसनं प्रज्ञपयाम् आस सप्त-रत्न-मयं । अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वस् तं पृथिवी-प्रदेशं सेक्तु-कामश् च । न च + उदकं समन्तात् पर्येषमाणो * अपि लभते येन तं पृथिवी-प्रदेशं सिञ्चेद् । यथा + अपि नाम मारेण पापीयसा तत् सर्वम् उदकम् अन्तर्-धापितं अप्य् एव नाम + अस्य + उदकम् अ-लभमानस्य चित्तं दुष्खितं स्याद् दौर्मनस्यं च भवेच् चित्तस्य वा + अन्यथात्वं भवेद् येन + अस्य कुशल-मूल-अन्तर्-धानं भवेन् न वा भ्राजेरन् कुशल-मूलानि । अथ खलु सदाप्ररुदितस्य बोधि-सत्वस्य महा-सत्वस्य + एतद् अभूत् । यन् न्व् अहम् आत्मनः कायं विद्ध्वा इमं प्रदेशं रुधिरेण सिञ्चेयं । तत् कस्य हेतोः । अयं हि पृथिवी-प्रदेशए उद्धत-रजस्को । मा रजो-धातुर् इतो धर्मोद्गतस्य बोधि-सत्वस्य महा-सत्वस्य काये निपततु । किम् अहम् अनेन + आत्म-भावेन + अ-वश्यं-भेदन-धर्मिणा कुर्यां । वरं खलु पुनर् मम + अयं काय एवं-रूपया क्रियया विनश्यतु न च निः-सामर्थ्य-क्रियया । काम-हेतोः काम-निदानं बहूनि मे आत्म-भाव-सहस्राणि पुनः पुनर् अ-परिमाणे संसारे संसरतो भिन्नानि । यदि पुनर् भिद्यन्ते कामम् एवं-रूपेष्व् इव धर्म-स्थानेषु भिद्यन्तां ॥
अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्व इति प्रतिसंख्याय तीक्ष्णं शस्त्रं गृहीत्वा स्व-कायं समन्ततो विद्ध्वा तं पृथिवी-प्रदेशं स्व-रुधिरेण सर्वम् असिञ्चत् । एवं ताभिर् अपि दारिकाभिः कृतं । न च सदाप्ररुदितो बोधि-सत्वस्य महा-सत्वस्य तासां वा सर्वासां दारिकाणां चित्तस्य + अन्यथात्वम् अभूत् । यत्र मारः पापीयान् अवतारं लभेत + इति ॥
अत एवं चतुर्-धर्मक-सूत्रे * अप्य् उक्तं । कल्याण-मित्रं भिक्षवो बोधि-सत्वेन महा-सत्वेन यावज्-जीवं न परित्यक्तव्यम् अपि जीवित-हेतोर् इति ॥
तद् एवं कल्याण-मित्र-अन्-उत्सर्गाद् आत्म-भाव-आदीनां रक्षा-आदिकं कार्यं ॥
सूत्राणां च सदा + ईक्षणाद् बोधि-सत्व-शिक्षा-पदानि हि प्रायः सूत्रेष्व् एव दृश्यन्ते । तेषु तेषु सूत्र-अन्तेषु बोध्i-satva-samudआचारा बोधि-सत्व-शिक्षा-पदानि प्रज्ञप्तानि + इति वचनात् । तस्मात् तद्-अन्-ईक्षणे मा भूद् आपत्तिम् आपन्नस्य + अप्य् अ-ज्ञानाद् अ-विरतिर् इति सदा सूत्र-दर्शनाय + आदरः कार्यः । तद् अनेन कल्याण-मित्र-अन्-उत्सर्गेण सूत्र-अन्त-दर्शनेन च सर्वः सd-dharma-parigrahअ उक्तो भवति ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
