Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

शिक्षासमुच्चय

Tác giả
शान्तिदेव
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

यथा + उक्तम् आर्य-सागरमति-सूत्रे । याभिर् अक्षर-निरुक्तिभिः सो * अन्-अभिलाप्यो धर्मः सूच्यते तासाम् अक्षर-निरुक्तीनां यदा धारणं देशना यावद् । अयम् उच्यते सd-dharma-parigrahअः । पुनर् अ-परं कुल-पुत्र ये ते धर्म-भाणका एषाम् एवं-रूपाणां सूत्र-अन्तानां देशयितारः प्रतिपत्ति-साराश् च तेषाम् अपि धर्म-भाणकानां यत् सेवनं भजनं पर्युपासनम् उत्थानम् उपस्थानं गौरवं चित्री-कारः शुश्रूषा आरक्षा परिग्रहश् चीवर-पिण्ड-पात्र-शयन-आसन-ग्लान-प्रत्यय-भैषज्य-परिष्कार-दानं साधु-कार-दानं स्वाम्य्--आरक्षा कुशल-पक्ष-रक्षा वर्ण-भाषणम् अ-वर्ण-प्रतिच्छादनता । अयम् अपि सd-dharma-parigrahअः । पेयालं ॥

पुनर् अ-परं कुल-पुत्र या अ-विवाद-परमता । अ-धर्मे धर्म-वादिनां च पुद्गलानां सह धर्मेण निग्रहः । अयम् अपि सd-dharma-parigrahअः । पुनर् अ-परं कुल-पुत्र + अ-प्रतिहत-सन्तानस्य सर्व-सत्व-प्रमोक्ष-बुद्धेर् निर्-आमिष-चित्तस्य परेभ्यो धर्म-दानम् अयम् अपि सd-dharma-parigrahअः । पुनर् अ-परं कुल-पुत्र यो धर्म-श्रवण-हेतुको वा धर्म-देशना-हेतुको वा + अन्तश एक-क्रम-व्यतिहारो * अन्तश एक-उच्छ्वास-प्रश्वासो वा । अयम् अपि सd-dharma-parigrahअः । पेयालं ॥

प्रह्रुतं वत + इदं कुल-पुत्र चित्तं विषयेषु । तस्य या निवारणा परिरक्षा एक-अग्री-भावो दमः शम उपशमो विनयो * अयम् उच्यते सd-dharma-parigrahअः । पेयालं ॥

पुनर् अ-परं कुल-पुत्र येन धर्मेण यो * अ-धर्मः प्रवर्तते तस्य धर्मस्य + अ-परिग्रहो * अन्-उपादानम् अयम् अपि सd-dharma-parigrahअ इत्य् आदि ॥

tatr dharma-bhāṇaka-sevā-ādinā kalyāṇa-mitra-an-utsarga uktaḥ | kalyāṇa-mitra-lakṣaṇaṃ ca | tad etena sad-dharma-parigraheṇa vinā | na rakṣā | na śuddhir na vṛddhis [doubtful] tataś ca so * api na bodhi-satva ity a-vaśya-kāryaḥ sad-dharma-parigrahaḥ ||

उक्तं हि श्री-माला-सिंह-नाद-सूत्रे । यान्य् अपि + इमानि भगवन् गङ्गा-नदी-वालिका-समानि बोध्i-satva-praणिधानानि तान्य् एकस्मिन् महा-प्रणिधाने उपनिक्षिप्तान्य् अन्तर्-गतान्य् अनुप्रतिष्ठानि यद् उत सd-dharma-parigrahए । एवं महा-विषयो भगवन् सd-dharma-parigrahअ इति ॥

पुनर् अत्र + एव + आह । स्याद् यथा + अपि नाम देवि महा-बलवतो * अपि पुरुषस्य + अल्पो * अपि मर्मणि प्रहारो । वेधनीयो भवति वाधा-करश् च । एवम् एव देवि मारस्य पापीयसः परीत्तो * अपि सd-dharma-parigrahओ वेधनीयो भवति शोक-आवहः परिदेव-करश् च भवति । न + अहं देवि अन्यम् एकम् अपि धर्मं कुशलं समनुपश्यामि मारस्य पापीयस एवं वेधनीयं शोक-आवहं परिदेव-करं च । यथा + अयम् अल्पो * अपि सd-dharma-parigrahअ इति ॥

पुनर् आह । स्याद् यथा + अपि नाम देवि सुमेरुः पर्वत-राजः सर्वान् कुल-पर्वतान् अभिभवन्न् अभिरोचते च समभिरोचते च + उच्चत्वेन विपुलत्वेन च । एवम् एव देवि महा-यानिकस्य काय-जीवित-निर्-अपेक्षस्य न च गृहीत-चित्तस्य सd-dharma-parigrahओ नव-यान-संप्रस्थितानाम् अपि काय-जीवित-स-अपेक्षाणां महा-यानिकानां सर्वान् कुशलान् धर्मान् अभिभवति + इत्य् आदि ॥

तथा + आर्य-सागरमति-सूत्रे * अप्य् आह । परिगृहीतो भवती जिनेभिर् देवेभि नागेभि च किन्नरेभिः । पुण्येन ज्ञानेन परिगृहीतः सd-dharma-dhआरित्व तथा-गतानाम् ॥

पेयालं ॥

स शून्य-क्षेत्रेषु न जातु जायते सर्वत्र जातौ च जिनं स पश्यति । दृष्ट्वा च तस्मिंल् लभते प्रसादं सd-dharma-dhआरित्व तथा-गतानाम् ॥

जाति-स्मरो भवति महा-आत्म-धर्मा प्रव्रज्य-लाभी भवते पुनः पुनः । परिशुद्ध-चारी प्रतिपत्ति-सारः सd-dharma-dhआरित्व तथा-गतानाम् ॥

पेयालं ॥

लाभी च भोती विदु-धारणीये न नश्यते कल्प-शतेभि यच्-छुभम् । प्रतिभानवन्तो भवते अ-सक्तः सd-dharma-dhआरित्व तथा-गतानां ॥

शक्रो * अथ ब्रह्मा तथ लोक-पाल्-ओ मनुष्य-राजा भुवि चक्र-वर्त्ती । सुखेन सौख्येन स बोधि बुध्यते सd-dharma-dhआरित्व तथा-गतानाम् ॥

द्वात्रिंश काये * अस्य भवन्ति लक्षणाः अ-निन्दित-अङ्गो भवते वि-चक्षणः । न तस्य तृप्तिं लभि प्रेक्षमाणाः सd-dharma-dhआरित्व तथा-गतानाम् ॥

न तस्य संमुह्यति बोधि चित्तं न च + उद्धुरः पारमिता चरीषु । अ-संगृहीतः कुशलः शतेभिः सd-dharma-dhआरित्व तथा-गतानाम् इति ॥

शील-पारमितायां सd-dharma-parigrahओ नाम द्वितीयः परिच्छेदः ॥

[iii. धर्मभाणकादिरक्षा]

धर्म-भाणक-आदि-रक्षा तृतीयः परिच्छेदः ॥

उक्तस् त्रयाणाम् अपि सामान्येन रक्षा-आद्य्-उपायः । रक्षा-आदयस् तु वाच्याः । तत्र + आत्म-भावे का रक्षा यद् अन्-अर्थ-विवर्जनं ॥

तत्र + इति सd-dharma-parigrahए वर्त्तमानस्य + आत्म-भाव-रक्षा चिन्त्यते यथा परान् न नाशयेत् । इदं च अन्-अर्थ-विवर्जनम् आर्य-गगन-गञ्ज-सूत्रे सd-dharma-dhआरण-उद्यतैर् बोधि-सत्वैर् भाषितं ॥

वयम् उत्सहामो भगवन् निर्वृते dvi-pada-uttame । सद्-धर्मं धारयिष्यामः त्यक्त्वा कायं स्व-जीवितम् ॥

लाभ-सत्-कारम् उत्सृष्ट्वा सर्वं च + उत्सृज्य संस्तवं । अन्-उत्सृष्ट्वा इमं धर्मं बुद्ध-ज्ञान-निदर्शकम् ॥

आक्रोश-परिभाषांश् च दुर्-उक्त-वचनानि च । क्षान्त्या तान् मर्षयिष्यामः सd-dharma-pratisaंग्रहात् ॥

उच्चग्घनां तर्जनां च अ-वर्णम् अ-यशांसि च । सर्वांस् तान् मर्षयिष्यामो धारयन्त इमं नयम् ॥ पे ॥

एवं-विधे महा-घोरे भिक्षु-राजान-क्षोभणे । विलोप-काले सत्वानां सद्-धर्मं धारयामहे ॥

गम्भीरा ये च सूत्र-अन्ता विमुक्त्i-phala-saंहिताः । प्रतीच्छका न भेस्यन्ति । चित्रा मृक्ष्यन्ति ते कथास् ॥ पे ॥

मैत्रीं तेषु करिष्यामो ये धर्मेष्व् अ-प्रतिष्ठिताः । कारुण्यं च करिष्यामो धारयन्त इमं नयम् ॥

दृष्ट्वा दुः-शील-सत्वांश् च इच्छा-लोभ-प्रतिष्ठितान् । अश्रु-पातं करिष्यामो गतिः कान्धस्य भाविता ॥

सहसा + एव च तं दृष्ट्वा सd-dharma-pratibआधकं । दूरतो मैत्रम् एष्यामो मा नो रुष्येत एव हि ॥

रक्षिष्यामो यथा-शक्त्या वाचा-कर्मसु संवृताः । सहसा + एनान् न वक्ष्यामः स्व-पापे * अस्मिन् प्रतिष्ठितान् ॥

दानैस् तथा + अपि सत्-कारैः परिपाच्य + इह तान् नरान् । पश्चा + एनांश् चोदयिष्यामो भूतम् आपाय-गो-चरान् ॥

गृहि-संभव-संत्यक्ताः प्रान्त-अरण्य-सु-गो-चराः । मृग-भूता भविष्यामो * अल्प-अर्था अल्प-कृत्यकाः ॥ पे ॥

दान्ताः शान्ताश् च मुक्ताश् च ग्रामे * अस्मिन्न् अवतीर्य च । देशयिष्यामहे धर्मं सत्वा ये धर्मत-अर्थिका ॥

सु-दूरम् अपि यास्यामो धर्म-कामान् निशम्य च । धर्म-आराम-रति-प्राप्ता अर्थं कर्त्ता + अस्म देहिनाम् ॥

संमुखं तत्र संदृश्य सत्वानां स्खलितं पृथु । आत्म-प्रेक्षा भविष्यामो धर्म-सौरत्य-संस्थिताः ॥

अ-सत्-कृताः सत्-कृता वा मेरु-कल्पाः प्रभूय च । अन्-उपलिप्ता लोकेन भेस्यामो लोक-नायकाः ॥

भिक्षूणां भिन्न-वृत्तानां परिवादं निशम्य च । कर्म-स्वका भविस्यामो मा + एषां कर्म विपच्यताम् ॥

बधकान् योजयिष्यन्ति धर्मेष्व् एषु हि वर्ततां । एते धर्मा न च + अस्माकं संविद्यन्ते कथञ्-चन ॥

अस्माकं श्रमणानां हि न च श्रामणका गुणाः । भूतां चोदन संश्रुत्य इदं सूत्रं प्रतिक्षिपन् ॥

संछिन्न-कर्ण-नासानाम् आदर्शा + एषां कुतः प्रियः । चोदनां भूततः श्रुत्वा सद्-धर्मं ते क्षिपन्ति तम् ॥

ये भिक्षवो भविष्यन्ति सd-dharma-pratigrआहकाः । चेष्टिष्यन्ते तथा तेषां कश्-चिद् धर्मम् इमं शृणोत् ॥

rājāno grāhayiṣyanti bhesyanti ca mahā-janaḥ | buddha-adhiṣṭhānataḥ satvā dharmaṃ śroṣyanti + imaṃ [doubtful] tadā ||

तस्मिन् काले वयं कष्टे त्यक्त्वा कायं स-जीवितं । सद्-धर्मं धारयिष्यामः सत्वानां हित-कारणाद् । इति ॥

आर्य-सd-dharma-puण्डरीके * अप्य् उक्तं ॥

आचार-गो-चर-रक्षी अ-संसृष्टः शुचिर् भवेत् । वर्जयेत् संस्तवं नित्यं राज-पुत्रेभि राजभिः ॥

ये च + अपि राज्ञां पुरुषाः कुर्यात् ते हि न संस्तवं । चण्डाल-मुष्टिकैः शौण्डैस् तीर्थिकैश् च + अपि सर्वशः ॥

adhimānīn na seveta [doubtful] vinayec ca + āgame sthitān | arhanta-saṃmatān bhikṣūn duḥ-śīlāṃś ca + eva varjayet ||

भिक्षुणीं वर्जयेन् नित्यं हास्य-संलाप-गो-चरां । उपासिकाश् च वर्जेया प्रकटम् अन्-अवस्थिताः ॥

स्त्री-पण्डकाश् च ये सत्वाः संस्तवं तैर् विवर्जयेत् । कुलेषु च + अपि वधुकाः कुमार्यश् च विवर्जयेत् ॥

na tāḥ saṃmodayej jātu kauśalyaṃ sādhu pṛcchitṛṃ [doubtful] | saṃstavaṃ ca vivarjeyā saukara-aurabhrikaiḥ saha ||

स्त्री-पोषकाश् च ये सत्वा वर्जयेत् तेहि संस्तवं । नटैर् झल्लक-मल्लेभिर् ये च + अन्ये तादृशा जनाः ॥

वार-मुख्यान् न सेवेत ये च + अन्ये भोग-वृत्तिनः । प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत् ॥

यदा च धर्मं देशेया मातृ-ग्रामस्य पण्डितो । न च + एकः प्रविशेत् तत्र न + अपि हास्य-स्थितो भवेद् इति ॥

अयं च + अ-परो * अन्-अर्थो भवेद् यद् इदं मार-कर्म + उक्तं प्रज्ञा-पारमितायां । मारः पापीयांस् तस्य बोधि-सत्वस्य + अ-चिरं यान-संप्रस्थितस्य + अन्तिके बलवत्तरम् उद्योगम् आपत्स्यते । अत्र + एव + आह । पुनर् अ-परम् आनन्द यस्मिन् समये बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां योगम् आपद्यते तस्मिन् समये माराः पापीयांसो बोधि-सत्वस्य विहेठनम् उपसंहरन्ति भयं संजनयन्ति । उल्का-पातान् दिशि दिग्-वहान् उत्सृजन्ति संदर्शयन्ति । अप्य् एव नाम + अयं बोधि-सत्वो महा-सत्वो * अवनीयेत वा रोम-हर्षो वा + अस्य भवेद् इति । येन + अस्य + एक-चित्त-उत्पादो * अपि क्षीयेत + अन्-उत्तरायाः सम्यक्-संबोधेर् इति । पुनर् अ-परम् अन्य-विज्ञान-संज्ञिनो लिखिष्यन्ति यावत् पर्यवाप्स्यन्ति । न वयम् अत्र + आस्वादं लभामहे इत्य् उत्थाय + आसनात् प्रक्रमिष्यन्ति । एवं विजृम्भमाणा उच्चग्घन्तो यावत् पर्यवाप्स्यन्ति + इति मार-कर्म । एवम् उत्पत्स्यन्ते जन-पद-ग्राम-आदि-वितर्काः । एवम् आचार्य-उपाध्याय-माता-पितृ-मित्र-अमात्य-ज्ञाति-सालोहित-मनसि-काराः । एवं चोर-मनसि-काराः । एवं चीवर-आdi-manasi-kआराः । पुनर् अ-परं धर्म-भाणकश् छन्दिको भविष्यति इमां गम्भीरां प्रज्ञा-पारमितां लेखयितुं यावद् वाचयितु.ं धर्म-श्रवणिकश् च किलासी भविष्यति । एवं विपर्ययात् । धर्म-भाणकश् च देश-अन्तरं गन्तु-कामो भविष्यति धार्म-श्रवणिकाश् च न + इति नेयं । एवं धर्म-भाणको महा-इच्छो भविष्यति धार्म-श्रवणिको * अल्प-इच्छ इति नेयं । संक्षेपाद् धर्म-भाणक-धार्म-श्रवणिकयोर् या का-चिद् विधुरता सर्वं तन् मार-कर्म + इत्य् उक्तं ॥

आर्य-गगन-गञ्ज-सूत्रे * अप्य् उक्तं । इति हि यावद् अ-कुशल-धर्म-अनुवर्त्तनता । कुशल-धर्म-उत्सर्गश् च सर्वं तन् मार-कर्म + इति ॥

आर्य-सागरमति-सूत्रे * अप्य् आह । पुनर् अ-परं भगवन् बोधि-सत्व आरण्यको भवति प्रान्त-शय्या-आसन-अभिरतो * अल्प-इच्छुः संतुष्टः प्रविविक्तो * अ-संसृष्टो गृह-स्थ-प्रव्रजितैः । सो * अल्प-अर्थतया + अल्प-कृत्यतया च सुखं विहरति न च बाहश्रुत्य-पर्येष्टाव् अभियुक्तो भवति न सत्व-परिपाकाय न च धर्म-श्रवणे वा धर्म-सांकथ्ह्ये वा + अर्थ-विनिश्चय-कथायां वा वर्तमानायां संक्रमितव्यं मन्यते । न परिपृच्छन-जातीयो भवति । न किं-कुशल-अभियुक्तो भवति । तस्य + अरण्य-वासेन च + एक-आराम-रतितया च क्लेशा न समुदाचरन्ति । स पर्युत्थान-विष्कम्भण-मात्रेण तुष्टिं विन्दति । न च + अनुशय-समुद्याताय मार्गं भावयति । स तत्र न + आत्म-अर्थाय प्रतिपन्नो भवति न पर-अर्थाय । अयं भगवन् बोधि-सत्वस्य + अरण्य-वास-प्रतिसंयुक्तः सप्तमो मार-अङ्कुश इति ॥ पे ॥

पुनर् अ-परं भगवन् बोधि-सत्वः कल्याण-मित्र-प्रति-रूपकाणि पाप-मित्राणि सेवते भजते पर्युपास्ते । ये ह्य् एनं संग्रह-वस्तुभ्यो विच्छन्द्य पुण्य-संभारात् सd-dharma-parigrahआद् विच्छन्द्य प्रविवेके नियोजयन्ति । अल्प-अर्थाय + अल्प-कृत्यतायां नियोजयन्ति । श्रावक-प्रत्य्-एक-बुद्ध-प्रतिसंयुक्ताश् च + अस्मै कथा अभीक्ष्णं देशयन्ति ॥

यस्मिंश् च समये बोधि-सत्वो विवेक-वासेन महा-याने * अभ्युद्गच्छेत् तस्मिन् समये तं बोधि-सत्वं वैयावृत्य-पलिबोधे नियोजयन्ति वैयावृत्यं बोधि-सत्वेन + अ-वश्यं करणीयं ॥

यस्मिंश् च समये बोधि-सत्वो वैयावृत्ये संनियोजयितव्यस् तस्मिन् समये विवेके नियोजयन्ति । एवं च + एनं वदन्ति । आरब्ध-वीर्यस्य बोधि-सत्वस्य बोधिर् न कु-सीदस्य । सचेत् त्वम् अष्टाभिर् नवभिर् वा कल्पैर् अन्-उत्तरां सम्यक्-संबोधिं न + अभिसंभोत्स्यसे । न भूयः शक्यस्य् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुम् । तत्र भगवन् । बोधि-सत्वो * अत्य्-आरब्धेन वीर्येण स्थानं खलु पुनर् एतद् विद्यते यन् निर्वाण-फलं प्राप्नुयाद् । अयं भगवन् । बोधि-सत्वस्य कल्याण-मित्र-प्रति-रूपकेण दशमो मार-अङ्कुशः ॥

ये * अपि ततो * अन्ये बोध्i-satva-yआनीयाः पुद्गला मार-अङ्कुश-आविद्धाः प्रत्यवेतेषु धर्मेषु चरन्ति तैः सार्द्धं रतिं विन्दति । तथा हि तद्-अनुवर्त्तका भवन्ति स हीन-सेवी विशेषम् अन्-अधिगतो हीन-गतिं गच्छति यद् उत धन्व-गतिं जड-एड-मूक-गतिं यावद् एकादशो मार-अङ्कुश इति ॥

येन च + एवं संतत्य्-आरब्ध-वीर्यस्य निर्-वेदात् सर्वथा बोध्i-satva-bhआव एव भवत्य् अत एव रत्न-मेघे * अभिहितं । इह बोधि-सत्वः सर्व-ईर्या-पथेषु वीर्यम् आरभते । तथा च + आरभते यथा न काय-खेदं संजनयति । न चित्त-खेद्.अम् । इदम् उच्यते बोधि-सत्वस्य सांतत्य-वीर्यम् इति । कीदृशं तद् वीर्यं । येन खेदो भवति । यद् इदम् अल्प-बलस्य गुरु-कर्म-आरम्भो * अति-वेलायां वा + अ-परिपक्व-अधिमुक्तेर् वा दुष्कर-कर्म-आरम्भस् तद् यथा स्व-मांस-दान-आदिः । दत्तश् च + अनेन + आत्म-भावः । किन्त्व् अ-काल-परिभोगाद् वारयति । अन्यथा हि तेषाम् एव सत्वानां बोध्i-satva-khedena बोध्i-citta-vईज-नाशान् महतः फल-राशेर् नाशः स्यात् ॥

अतश् च गगन-गञ्ज-सूत्रे * अभिहितं । अ-काल-प्रतिकाङ्क्षणता मार-कर्म + इति । न + अप्य् अ-काल इत्य् आत्म-भाव-त्याग-चित्तम् एव न + उत्पाद्य + अभ्यास-अन्-आरम्भाद् * धि न कदा-चिद् दद्यात् । तस्माद् एवं स्मृतिम् उपास्थाप्य बोध्i-citta-paripआचन-विरोधिभ्यो मोहात् स्व-अर्थ-घातिभ्यः पिशित-अशनेभ्यः कर्म-कारिभ्यश् च + आत्म-भावो रक्षितव्यः ॥

भैषज्य-वृक्षस्य सु-दर्शनस्य मूल-आदि-भोग्यस्य यथा + एव वीजं । दत्त्वा + अपि संरक्ष्यम् अ-काल-भोगात् संबुद्ध-भैषज्य-तरोस् तथा + एव ॥

अयं समासतो मार-कर्म + अन्-अर्थः ॥

अस्य विसर्जनं रत्न-मेघ-सूत्रे कथितं । कथं च कुल-पुत्र + अत्र बोधि-सत्वो मार-कर्म-परिहार-उपाय-कुशलो भवति । इह बोधि-सत्वो * अ-कल्याण-मित्रं सर्वेण सर्वं परिवर्जयति । अ-प्रति-रूप-देश-वासं लोकायत-मन्त्र-सेवन-भावनां लाभ-सत्-कार-पूजा-उपस्थान-बहु-मानं सर्वेण सर्वं परिवर्जयति । ये च + अन्ये उपक्लेशा बोधि-पक्ष्य-मार्ग-अन्तरायिकास् तान् सर्वेण सर्वं परिवर्जयति । तेषां च प्रति-पक्षं भजते ॥

अत्र + एव च + अ-कल्याण-मित्र-लक्षणम् उक्तं । शील-विपन्न-पुद्गल-विवर्जनतया पाप-मित्र-परिवर्जना वेदितव्या । एवं दृष्टि-विपन्न-आचार-विपन्न-आजीव-विपन्न-पुद्गल-विवर्जनतया । सङ्गणिका-आराम-पुद्गल-विवर्जनतया । कुशीद-पुद्गल-विवर्जनतया । संसार-अभिरत-पुद्गल-विवर्जनतया । बोधि-पराङ्-मुख-पुद्गल-परिवर्जनतया । गृहि-संसर्ग-विवर्जनतया पाप-मित्र-परिवर्जना वेदितव्या । तेन च कुल-पुत्र + एतानि स्थानानि परिवर्जयता न तेषां पुद्गलानाम् अन्तिके दुष्ट-चित्तम् उत्पादयितव्यं न प्रतिघ-चित्तं न + अवमन्यना-चित्तम् उत्पादयितव्यम् । एवं च अनेन चित्तम् उपस्थापयितव्यम् । उक्तं हि भगवता धातुशः सत्वाः काम-आदि-धातुं आस्रवन्ति जायन्ते संस्यन्दन्ते संसर्गाच् च विनश्यन्ति । तस्माद् अहं संसर्गं वर्जयिष्यामि + इति ॥

बोध्i-citta-saंप्रमोषो * अप्य् अन्-अर्थः तस्य च हेतुर् उक्तो रत्न-कूटे । चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधि-सत्वस्य बोधि-चित्तं मुह्यति । कतमैश् चतुर्भिः । आचार्य-गुरु-दक्षिणीय-विसंवादनतया परेषाम् अ-कौकृत्ये कौकृत्य-उपसंहरणतया । महा-यान-संप्रस्थितानां च सत्वानाम् अ-वर्ण-अ-यशो * अ-कीर्त्य्-अ-लोक-निश्चारणतया माया-शाठ्येन च परम् उपचरति न + अध्याय-आशयेन + इति अस्य विवर्जनम् अत्र + उक्तं । चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधि-सत्वस्य सर्वासु जातिषु जात-मात्रस्य बोधि-चित्तम् आमुखी-भवति । न च + अन्तरा मुह्यति यावद् बोधि-मण्ड-निषदनात् । कतमैश् चतुर्भिः । यद् उत जीवित-हेतोर् अपि संप्रजानन् मृषा-वादं न प्रभाषते । अन्तशो हास्य-प्रेक्षिकया + अपि । अध्याशयेन च सर्व-सत्वानाम् अन्तिके तिष्ठत्य् अपगत-माया-शाठ्यतया सर्व-बोधि-सत्वेषु च शास्तृ-संज्ञाम् उत्पादयति । चतुर्-दिशं च तेषां वर्णं निश्चारयति । यांश् च सत्वान् परिपाचयति तान् सर्वान् अन्-उत्तरायां सम्यक्-संबोधौ समादापयति । प्रादेशिक-यान-अ-स्पृहणतया । एभिः काश्यप चतुर्भिर् इति ॥

सिंह-परिपृच्छायाम् अप्य् आह । न जातु धर्म-दानस्य अन्तरायं करोति यः । तेन + असौ लभते क्षिप्रं लोक-नाथेहि सङ्गमम् ॥

तथा जाति-स्मराद् धर्म-दानाज् जानीष्व + एवं कुमारक + इति ॥

तथा + अत्र + एव । बोधि-चित्तं न रिञ्चति तेन सर्वासु जातिषु । स्वप्न-अन्तरे * अपि तच्-चित्तं किं पुनर् यदि जाग्रतः ॥

आह । येषु विरति-स्थानेषु ग्रामेषु नगरेषु वा । समादाय + इति बोधाय तेन चित्तं न रिञ्चति ॥

आर्य-मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलं-कार-सूत्रे * अप्य् आह । चतुर्भिर् धर्मैः समन्वागतो बोधि-सत्वः प्रणिधानान् न चलति ॥ पे ॥

निहतमानश् च भवति + ईर्ष्य-मात्सर्य-परिवर्जकश् च भवति पर-संपदं च दृष्ट्वा आत्त-मना भवति + इति । इदम् एव पात्र-बोधि-चित्तस्य स्फुटतरम् अ-संप्रमोष-कारणं यत् तत्र + एव रत्न-कूटे * अभिहितम् । सर्व-ईर्या-पथेषु बोध्i-citta-parikarmअणतया । बोध्i-citta-pऊर्वङ्-गमतया च + इति ॥

तथा हि चन्द्र-प्रदीप-सूत्रे पाठः । आरोचयामि प्रतिवेदयामि वो यथा यथा बहुलु वितर्कयेन् नरः तथा तथा भवति तन्-निम्न-चित्तः तेही वितर्केहि तन्-निश्रितेहि + इति ॥

अवसादो * अप्य् अन्-अर्थ एतद्-वर्जनं च रत्न-मेघे दृष्टं । इह बोधि-सत्वो न + एवं चित्तम् उत्पादयति । दुष्-प्रापा बोधिर् मनुष्य-भूतेन सता । इदं च मे वीर्यं परीत्तं च कु-सीदो * अहं बोधिश् च + आदीप्त-शिरश्-चैल-उपमेन बहून् कल्पान् । बहूनि कल्प-शतानि बहूनि कल्प-सहस्राणि समुदानेतव्या । तन् न + अहम् उत्सहए ईदृशं भारम् उद्वोढुं ॥

किं तर्हि बोधि-सत्वेन + एवं चित्तम् उत्पादयितव्यं । ये * अपि ते * अभिसंबुद्धास् तथा-गता अर्हन्तः सम्यक्-संबुद्धा ये च + अभिसंबुद्ध्यन्ते ये वा + अभिसंभोत्स्यन्ते * अपि + ईदृशेन + एव नयेन ईदृश्या प्रतिपदा । ईदृशेन + एव वीर्येण + अभिसंउद्धा अभिसंबुध्यन्ते * अभिसंभोत्स्यन्ते च । यावन् न ते तथा-गत-भूता एव + अभिसंबुद्धाः । अहम् अपि तथा तथा घटिष्ये तथा तथा व्यायंस्ये सर्व-सत्व-साधारणेन वीर्येण सर्व-सत्व-आरम्बणेन वीर्येण यथा + अहम् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंभोत्स्यए इति ॥

पुनर् अ-परो * अन्-अर्थो रत्न-कूटे दृष्टः । अ-परिपाचितेषु सत्वेषु विश्वासो बोधि-सत्वस्य स्खलितं अ-भाजनी-भूतेषु सत्वेषु + उदार-बुद्ध-धर्म-संप्रकाशनात् बोधि-सत्वस्य स्खलितं ॥

उदार-अधिमुक्तिकेषु सत्वेषु हीन-यान-संप्रकाशनाद् बोधि-सत्वस्य स्खलितम् इति । सम्यक्-स्मृत्य्-उपस्थितेषु शीलवत्सु कल्याण-धर्मेषु प्रति-विमानना दुः-शील-पाप-धर्म-संग्रहा बोधि-सत्वस्य स्खलितम् इति ॥

अन्-अधिमुक्तिर् अप्य् अन्-अर्थः । यथा + उक्तं राष्ट्रपाल-सूत्रे । यस्य अधिमुक्ति न विद्यति बुद्ध-धर्म-गणे च न तस्य धिमुक्तिः । शिक्ष-व्रतेषु न तस्य धिमुक्तिः पापमतेस् तिर-पाय-मुखस्य ॥

स इतश् च्युतो मनु-जेषु कर्म-वशाद् अ-बुधो हि विमूढः । नरकेष्व् अथ तिर्य-गतीषु प्रेत-गतीषु च विन्दति दुष्खम् ॥

इति अस्य विसर्जनं रत्न-कूटे * अभिहितं दृष्टं । येषु च + अस्य गम्भीरेषु बुद्धिना + अवगाहते । तत्र तथा-गत एव साक्षी + इति कृत्वा न प्रतिक्षिपति । तथा-गत एव जनीते । न + अहं जाने । अन्-अन्ता बुद्ध-बोधिर् नाना-अधिमुक्तिकतया तथा-गतानां सत्वेषु धर्म-देशना प्रवर्त्ततए इति ॥

वैयावृत्य-वर्तमानेन + अन्-अर्थ-विवर्जन-कुशलेन भवितव्यं । बोध्i-satva-prआतिमोक्षे हि सह-धार्मिके धर्म-श्रवणे । तथा-गत-पूजायां च वैयावृत्यम् उपदिष्टं तत्र या वृत्तिः सा रत्न-राशि-सूत्राद् आगता । तत्र वैयावृत्य-करेण भिक्षुणा सर्व-भिक्षु-संघस्य चित्तम् अभिराधयितव्यं । तत्र ये भिक्षव आरण्यकाः प्रान्त-शय्या-आसनिकास् तेषां । वैयावृत्य-करेण भिक्षुणा सर्वेण सर्वं न कर्म-समुत्थानं दातव्यं । यदि पुनर् आरण्यकस्य भिक्षोः संघ-पर्यापन्नं शैक्षकं कर्म प्राप्नुयात् । एतेन वैयावृत्य-करेण भिक्षुणा + आत्मना + एव तत् कर्तव्यं । अन्यतरो वा भिक्षुर् अध्येष्यो न पुनः स आरण्यको भिक्षुर् उत्पीडयितव्यस् तत्र यो भिक्षुः पिण्ड-चारिको भवति तस्य तेन वैयावृत्य-करेण भिक्षुणा प्रणीत-भोजनेषु संविभागः कर्तव्यः । तत्र काश्यप यो भिक्षुर् योग-आचारी भवति । तस्य तेन वैयावृत्य-करेण भिक्षुणा + अनुलोमिकान्य् उपकरणान्य् उपसंहर्तव्यानि ग्लान-प्रत्यय-भैषज्य-परिष्काराश् च । यस्मिंश् च प्रदेशे स योग-आचारी भिक्षुः प्रतिवसति तस्मिन् प्रदेशे न उच्च-शब्दः कर्तव्यः । रक्षितव्यो वैयावृत्य-करेण भिक्षुणा योग-आचारी भिक्षुः । शय्या-आसन-उपस्तम्भना + अस्य कर्तव्या । प्रणीतानि च संप्रियाणि योग-आचार-भूम्य्-अनुकूलानि खादनीय-भोजनीयान्य् उपनामयितव्यानि ॥ पे ॥

ये भिक्षवो बाहुश्रुत्ये * अभियुक्ता भवन्ति तेषाम् उत्साहो दातव्यः । यावत् ते * अपि परिरक्षितव्याः । ये धार्म-कथिका भिक्षवो भविष्यन्ति । तेषां प्रतीहार-धर्मता कर्तव्या । यावद् धार्म-श्रवणिकाश् च + उद्योजयितव्याः पर्षन्-मण्डलं परिसंस्थापयितव्यं । सांकथ्य-मण्डलं विशोधयितव्यं यावत् साधु-कार-बहुलेन च + अस्य भवितव्यं ॥ पे ॥

na kva-cid vastuni aiścarya-saṃjñā + utpādayitavyā | kiyat parīttam api kāryaṃ saṃgha-matena kartavyaṃ | na sva-matena yāvan na sāṃghikaś cāturdiśa-sāṃghikena saṃsṛṣṭaḥ kartavyaḥ | evaṃ viparyayād evaṃ staupikena saha + anyo-nya-saṃsarga-pratiṣedhaḥ | yadi cāturdiśe saṃghe vaikalyaṃ bhavet sāṃghikaś ca lābha utsado bhavet tena vaiyāvṛtya-kareṇa bhikṣuṇā bhikṣu-saṃgham eka-mānasaṃ kṛtvā | sāṃghika-lābhāc cāturdiśa-sāṃghika-kāryaṃ kartavyaṃ | evaṃ stūpe * api pralugne * ayam eva vidhir dāyakān dāna-patīn vā samādāpya pratisaṃskartavya ity ājñā | yadi punaḥ kāśyapa kiyad bahur api staupiko lābho bhavet | sa vaiyākṛtya-kareṇa na saṃghena cāturdiśa-saṃghe upanāmayitavyaḥ | tat kasmād * dhetoḥ | yā staupikā antaśa ekadaśā + api śrāddhaiḥ prasāda-bahulair niryātitā bhavati | sā sa-devakasya lokasya caityaṃ | kaḥ punar vādo ratnaṃ vā ratna-saṃmataṃ vā yac ca stūpe cīvaraṃ niryātitaṃ bhavati | tat tatra + eva tathā-gata-caitye vāta-ātapa-vṛṣṭibhiḥ parikṣayaṃ gacchatu | na punaḥ staupikaṃ cīvaraṃ hiraṇya-mūlyena parivartayitavyaṃ | na hi staupikasya kaś-cid argho na + api stūpasya kena-cid vaikalyaṃ yo hi kaś-cit kāśyapa vaiyāvṛtya-karo bhikṣū ruṣṭa-cittaḥ śīlavatāṃ dakṣiṇīyānām [doubtful] aiśvaryād ājñaptiṃ dadāti sa tena + a-kuśalena karmaṇā naraka-gāmī bhavati + iti | yadi manuṣya-lokam āgacchati dāso bhavati para-karma-karo lābhī ca bhavati khaṭa-capeṭa-pracaṇḍa-prahārāṇāṃ | pe | daṇḍa-karma-bhaya-tarjitaṃ bhikṣuṃ karoty a-kāla-preṣaṇam a-kāla-jñaptiṃ dadāti | sa tena + a-kuśalena

कर्मणा बहुशङ्कुर् नाम प्रत्य्-एक-नरकस् तत्र + अस्य + उपपत्तिर् भवति । यावत् सहस्र-विद्धः कायो भवति । आदीप्तः । प्रदीप्तः संप्रज्वलितः । पे । योजन-शत-विस्तार-प्रमाणा जिह्वा भवति । तस्य तत्र जिह्वा-इन्द्रिये बहूनि शङ्कु-शत-सहस्राणि आदीप्तानि अयस्-मयानि निखातानि भवन्ति । यो हि कश्-चित् काश्यप वैयवृत्य-करो भिक्षुर् आगत-आगतं सांघिकं लाभं सन्निधिं करोति न काल-अनुकालं ददाति । उद्वश्यापयितव्या विहेठयित्वा ददाति । केषाञ्-चिन् न ददाति । स तेन + अ-कुशल-मूलेन जङ्घा नाम गूथ-मृतिका-प्रेत-योनिस् तत्र + अस्य + उपपत्तिर् भवति । तत्र + अस्य + अन्ये प्रेता भोजनं गृहीत्वा + अपदर्शयन्ति । स उद्वश्यमानस् तद्-भोजनम् अ-निमिषाभ्यां नेत्राभ्यां पश्यमानः क्षुत्-पिपासा-परिगतो दुष्खां । वेदनां वेत्ति न च वर्ष-सहस्रेण + अपि तस्य भोजनस्य लाभी भवति । यद् अपि कदा-चित् कर्हि-चिद् भोजनं लब्धं भवति तद् उच्चारं भवति पूय-शोणितं वा + इति ॥

संघरक्षित-अवदाने * अप्य् अन्-अर्थ उक्तः । यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः कुड्य-आकारांस् ते भिक्षव आसन् । तैः सांघिकं कुड्यं श्लेष्मणा नाशितं । तस्य कर्मणो विपाकेन कुड्य-आकाराः संवृत्ताः । यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः स्तम्भ-आकारांस् ते भिक्षव आसन् । तैः सांघिक-स्तंभः सिंहाणकेन नाशितः । तेन स्तम्भ-आकाराः संवृत्ताः । यांस् त्वं सत्वान् अद्राक्षीर् वृक्ष-आकारान् पत्र-आकारान् फल-आकारान् ते * अपि भिक्षव आसन् । तैर् अपि सांघिकानि वृक्ष-पत्र-पुस्.प-फलानि पौद्गलिक-परिभोगेन परिभुक्तानि तेन ते वृक्ष-पत्र-पुष्प-फल-आकाराः संवृत्ताः । यांस् त्वं सत्वान् अद्राक्षी रज्ज्व्-आकारान् संमार्जन्य्--आकारांस् ते भिक्षव आसन् । तैः सांघिका रज्जु-सम्मार्जन्यः पौद्गलिक-परिभोगेन परिभुक्तास् तेन रज्ज्व्-आकाराः सम्मार्जन्य्--आकाराश् च संवृत्ताः । यं त्वं सत्वम् अद्राक्षीस् तट्ट-आकारं स श्रामणेरक आसीत् । स तट्टुकं निर्मादयति । आगन्तुकाश् च भिक्षवो * अभ्यागताः । तैर् असौ दृष्टश् च पृष्टश् च श्रामणेरक किम् अयं संघस्य पानकं भविष्यति । स मात्सर्य-उपहत-चित्तः कथयति । किं न पश्यथ तट्टुकं निर्मादितं पीतं पानकम् इति । ते वृत्ता वेला + इति नैराश्यम् आपन्ना हीन-दीन-वदनाः प्रक्रान्ताः । स तस्य कर्मणो विपाकेन तट्टुक-आकारः संवृत्ताः ॥

यं त्वम् सत्वम् अद्राक्षीर् उदूखल-आकारं सो * अपि भिक्षुर् आसीत् । तस्य पात्र-कर्म प्रत्युपस्थितं । तत्र च + एकः श्रामणेरको * अर्हन् मुद्रा-वारे नियुक्तः । स तेन + उक्तः श्रामणेरक ददस्व मे खलिस्ताकं कुट्टयित्वा + इति । स कथयति । स्थविर तिष्ठ तावन् मुहूर्तं व्यग्रो * अस्मि पश्चात् कुट्टयित्वा दास्यामि + इति । स संजात-आमर्षः कथयति । श्रामणेरक यदि मम कल्पते उदूखलं स्प्रष्टुं त्वाम् एव + अहम् उदूखले प्रक्षिप्य कुट्टयेयं । प्राग् एव खलिस्तोकम् इति । स श्रामणेरः संलक्षयति । तीव्र-पर्यवस्थान-पर्यवस्थितो * अयं । यद्य् अहम् अस्मै प्रतिवचनं दास्यामि भूयस्या मात्रया प्रकोपम् आपत्स्यति + इति तूष्णीम् अवस्थितः । यदा + अस्य पर्यवस्थानं विगतं तदा + उपसंक्रम्य कथयति । स्थविर जानीषे त्वं को * अहम् इति । स कथयति । जाने त्वां काश्यपस्य सम्यक्-संबुद्धस्य प्रव्रजितं श्रामणेरकं । अहम् अपि भिक्षुः स्थविरः । श्रामणेरकः कथयति । यद्य् अप्य् एवं तथा + अपि तु यन् मया प्रव्रजितेन करणीयं तत् कृतं । किं कृतं क्लेश-प्रहाणं छिन्न-सकल-बन्धनो * अहं सर्व-बन्धन-विनिर्मुक्तः । खरं ते वाक्-कर्म निश्चारितं । अत्ययम् अत्ययतो देशय । अप्य् एव नाम एतत् कर्म-परिक्षयं तनुत्वं पर्यादानं गच्छेद् इति । तेन + अत्ययम् अत्ययतो न देशितं तेन कर्मणा + उदूखल-आकारः संवृत्तः ॥

यांस् त्वं सत्वान् अद्राक्षीः स्थाल्य-आकारान् । ते कल्पि-कारका आसन् भिक्षूणाम् उपस्थायकाः । ते भैषज्यानि क्वाथयन्तो भिक्षुभिर् अ-प्रियम् उक्ताः तैश् चित्तं प्रदूष्य स्थाल्यो भिन्नाः तेन स्थाल्य-आकाराः संवृत्ताः । यं त्वं सत्वम् अद्राक्षीर् मध्ये छिन्नं तन्तुना धार्यमाणं सो * अपि भिक्षुर् आसील् लाभी ग्राहिकः तेन मात्सर्य-अभिभूतेन लाभः संपरिवर्तितः । यो वार्षिकः स हैमन्तिकः परिणामितः । यस् तु हैमन्तिकः स वार्षिकः परिणामितः । तस्य कर्मणो विपाकेन मध्ये छिन्नस् तन्तुना धार्यमाणो गच्छति ॥

शिक्षा-समुच्चये धर्म-भाणक-आदि-रक्षा-परिच्छेदस् तृतीयः ॥

[iv. (चतुर्थः परिच्छेदः)]

अ-परे * अपि महन्तो * अन्-अर्थाः सूत्र-अन्तेषु + उक्ताः । यथा तावद् आकाश-गर्भ-सूत्रे । पञ्च + इमाः कुल-पुत्र क्षत्रियस्य मूर्द्ध-अभिषिक्तस्य मूल-आपत्तयः । याभिर् मूल-आपत्तिभिः क्षत्रियो मूर्द्ध-अभिषिक्तः सर्वाणि पूर्व-अवरोपितानि कुशल-मूलानि झाषयति । वस्तु-पतितः पाराजिकः सर्व-देव-मनुष्य-मुखेभ्यो * अपाय-गामी भवति । कतमाः पञ्च । यः कुल-पुत्र मूर्द्ध-अभिषिक्तं स्तौपिकं वस्त्व् अपहरति सांघिकं वा चातुर्दिश-सांघिकं वा निर्यातितं वा । स्वयं वा + अपहरति हारयति वा । इयं प्रथमा मूल-आपत्तिः ॥

यः पुनर् धर्मं प्रतिक्षिपति श्रावक-निर्याण-भाषितं वा प्रत्य्-एक-बुद्ध-निर्याण-भाषितं वा महा-यान-निर्याण-भाषितं वा प्रतिक्षिपति प्रतिषेधयति + इयं द्वितीया मूल-आपत्तिः ॥

यः पुनर् माम् उद्दिश्य शिरस्-तुण्ड-मुण्ड-काषाय-वस्त्र-प्रावृतः शिक्षा-धारी वा शिक्षा-अ-धारी वा तस्य दुः-शीलस्य वा शीलवतो वा काषायाणि वस्त्राण्य् अपहरति अपहरायति । गृह-स्थं वा करोति काये दण्डैः प्रहरति चारके वा प्रक्षिपति जीवितेन वा वियोजयति + इयं तृतीया मूल-आपत्तिः ॥

यः पुनः क्षत्रियः संचिन्त्य मातरं जीविताद् व्यपरोपयति पितरम् अर्हन्तं भगवच्-छ्रावकं वा जीविताद् व्यपरोपयति समग्रं वा संघं भिनत्ति तथा-गतस्य + अर्हतः सम्यक्-संबुद्धस्य संचिन्त्य दुष्ट-चित्तो रुधिरम् उत्पादयति ॥

एभिः पञ्चभिर् आनन्तर्यैर् कर्मभिर् अन्यतर-अन्यतरं कर्म + उत्पादयति + इयं चतुर्थी मूल-आपत्तिः ॥

यः पुनः क्षत्रियो * अ-हेतु-वादी भवति पर-लोक-उपेक्षकः । दश + अ-कुशलान् कर्म-पथान् समादाय वर्तते * अन्यांश् च बहून् सत्वान् दशस्व् अ-कुशलेषु कर्म-पथेषु समादापयति विनयति निवेशयति प्रतिष्ठापयति + इयं पञ्चमी मूल-आपत्तिः ॥ पे ॥

यः पुनर् ग्राम-भेदं जन-पद-भेदं नगर-भेदं राष्ट्र-भेदं करोति + इयं मूल-आपत्तिः ॥ पे ॥

आदि-कर्मिणां महा-यान-संप्रस्थितानां कुल-पुत्राणां कुल-दुहितॄणां वा + अष्टौ मूल-आपत्तयो । याभिर् मूल-आपत्तिभिः स्खलिता आदि-कर्मिका महा-यान-संप्रस्थिताः सर्वाणि पूर्व-अवरोपितानि कुशल-मूलानि झाषयन्ति । वस्तु-पतिताः पराजिता देव-मनुष्य-महा-यान-मुखाद् अपाय-गामिनो भवन्ति चिरं च संसारे सीदन्ति कल्याण-मित्र-विरहिताः । कतमा अष्टौ । ये सत्वाः पूर्व-दुश्-चरित-हेतुना + अस्मिन् क्लिष्टे पञ्च-कषाये लोके उपपन्नास् तए इत्वर-कुशल-मूलाः कल्याण-मित्रं संनिःश्रित्य + इदं परमं गम्भीरं महा-यानं शृण्वन्ति । ते च परीत्त-बुद्धयो * अपि कुल-पुत्रा अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयन्ति । तेषां आदि-कर्मिका ये च बोधि-सत्वा इदं परम-गम्भीरं शून्यता-प्रतिसंयुक्तं सूत्र-अन्तं शृण्वन्ति उद्दिशन्ति पठन्ति । ते यथा-श्रुतं यथा-पर्यवाप्तं परेषां पूर्व-बुद्धि-सदृशानां स्व्-अर्थं सु-व्यञ्जनं विस्तरेण + अग्रतः स्मारयन्ति प्रकाशयन्ति । ते ह्य् अ-कृत-शमा बालाः पृथग्-जनाः शृण्वन्त उत्त्रस्यन्ति संत्रस्यन्ति संत्रासम् आपद्यन्ते । ते संत्रासेन विवर्त्तयन्त्य् अन्-उत्तरायाः सम्यक्-संबोधेश् चित्तं श्रावक-याने चित्तं प्रणिदधति । एषा आdi-karmika-bodhi-satvasya मूल-आपत्तिः प्रथमा ॥

यया मूल-आपत्त्या स कुल-पुत्रः सर्वं पूर्व-अवरोपितं कुशल-मूलं झाषयति । वस्तु-पतितः पराजितः स्वर्ग-अपवर्ग-सुखात् । विसंवादितं च + अस्य बोधि-चित्तम् अपाय-गामि भवति । तस्माद् बोधि-सत्वेन महा-सत्वेन पर-पुद्गलानाम् आशय-अनुशयं प्रथमं ज्ञात्वा यथा-आशयानां सत्वानाम् अनुपूर्वेण धर्म-देशना कर्तव्या । तद् यथा महा-समुद्रे * अनुपूर्वेण + अवतारयति ॥ पे ॥

पुनर् अ-परम् आदि-कर्मिको बोधि-सत्वः कस्य-चिद् एव वक्ष्यति ॥

न त्वं शक्यसि षट्-पारमितासु चर्यां चर्तुं । न त्वं शक्यस्य् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुं । शीघ्रं त्वं श्रावक-याने प्रत्य्-एक-बुद्ध-याने वा चित्तम् उत्पादय । तेन त्वं संसारान् निर्यास्यसि । यावद् यथा-पूर्व-उक्तम् इयम् आदि-कर्मिकस्य बोधि-सत्वस्य द्वित्-या मूल-आपत्तिः ॥

पुनर् अ-परम् आदि-कर्मिको बोधि-सत्वः कस्य-चिद् एवं वक्ष्यति । किं भोः प्रातिमोक्ष-विनयेन । शीलेन सु-रक्षितेन शीघ्रं त्वम् अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयस्व । महा-यानं पठ । यत् ते किञ्-चित् काय-वाङ्-मनोभिः क्लेश-प्रत्ययाद् अ-कुशलं कर्म समुदानीतं तेन पाठेन शुद्धिर् भवत्य् अ-विपाकं । यावद् यथा-पूर्व-उक्तम् अयम् आदि-कर्मिकस्य बोधि-सत्वस्य तृतीया मूल-आपत्तिः ॥

पुनर् अ-परं कुल-पुत्र केषाञ्-चिद् आदि-कर्मिको बोधि-सत्व एवं वक्ष्यति । वर्जयत यूयं कुल-पुत्राः श्रावक-यान-कथां । मा शृणुत मा पठत मा परेषाम् उपदिशत । गोपयत श्रावक-यान-कथां । न यूयं तस्मात् महत् फलं प्राप्स्यथ । न यूयं ततो निदानाच् * छक्ताः क्लेश-अन्तं कर्तुं । श्रद्दधत महा-यान-कथां । शृणुत महा-यानं पठत महा-यानं परेषां च + उपदिशत । ततो यूयं सर्व-दुर्-गत्य्-अपाय-पथान् शमयिष्यथ । क्षिप्रं च + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंभोत्स्यथ ॥

यदि ते तस्य वचन-कारिणो भवन्ति + ईदृशं दृष्टि-गतम् उपगृह्णीयुः । उभयोर् अपि मूल-आपतिर् भवति + इयम् आदि-कर्मिकस्य बोधि-सत्वस्य चतुर्थी मूल-आपत्तिः ॥

पुनर् अ-परम् आदि-कर्मिका बोधि-सत्वा द्वि-जिह्विका भवन्ति अन्यथा निदर्शयन्ति । इदं च महा-यानं कीर्ति-शब्द-श्लोक-अर्थं लाभ-सत्-कार-हेतोः पठन्ति स्व-अध्यायन्ति धारयन्ति वाचयन्ति देशयन्ति परेषां च श्रुत-मात्रम् उपदिशन्ति । एवं च वक्ष्यन्ति । वयं महा-यानिका न + अन्ये । ते परेषाम् ईर्ष्यायन्ति लाभ-सत्-कार-हेतोर् यतस् ते लभन्ते उपभोग-परिभोगान् परेभ्यस् तत्-प्रत्ययात् ते प्रकुप्यन्ति तेषां च + अ-वर्णं निश्चारयन्ति कुत्सन्ति पंसयन्ति विजुगुप्सन्ति । आत्मानं च + उत्कर्षयन्ति न तान् । अतस् ते ईर्ष्य-हेतुना च + उत्तरि-मनुष्य-धर्मैर् आत्मानं विज्ञपयन्ति । ततस् ते तेन वस्तुना पतिताः पराजिता महा-यान-सुखाद् एतां महा-गुरुकाम् आपत्तिम् आपद्यन्ते यया + अपाय-गामिनो भवन्ति । यथा कश्-चित् पुरुषो रत्न-द्वीपं गच्छेद् गन्तुं नावा समुद्रम् अवतरते स महा-समुद्रे स्वयम् एव तां नावं भिन्द्यात् तत्र + एव मरणं निगच्छेद् । एवम् एव ये आदि-कर्मिका बोधि-सत्वा महा-गुण-सागरम् अवतर्तु-कामा ईर्ष्या-हेतोस् तद् वदन्ति । तत्-प्रत्ययात् ते श्रद्धा-नावं भित्त्वा प्रज्ञा-जीवितेन वियोगं प्राप्नुवन्ति । एवं ते बाला आदि-कर्मिका बोधि-सत्वा ईर्ष्या-हेतोर् अन्-ऋत-प्रत्यया महा-गुरुकाम् आपत्तिम् आपद्यन्ते । इयं पञ्चमी मूल-आपत्तिर् आदि-कर्मिकस्य बोधि-सत्वस्य ॥

पुनर् अ-परं कुल-पुत्र भविष्यन्त्य् अन्-आगते * अध्वनि गृह-स्थ-प्रव्रजिता आदि-कर्मिका बोधि-सत्वा ये ते गम्भीराः शून्यता-प्रतिसंयुक्ताः सूत्र-अन्त-आधारणी-क्षान्ति-समाधि-भूmi-sv-alaं-कृत-महा-विद्वत्-पुरुषाणां कृत-श्रमाणां बोधि-सत्वानां गो-चरास् तान् महा-यान-सूत्र-अन्तान् धारयन्ति पठन्ति स्व-अध्यायन्ति परेषां च विस्तरेण वाचयित्वा प्रकाशयन्ति । अहं च + इमान् धर्मान् स्व-बुद्ध्या बुद्ध्वा + एवं च पुनर् अहं कारुण्य-हेतोस् तव + उपदिशामि । त्वया वा पुनस् तथा भावयितव्यं यथा त्वम् अत्र गम्भीरेषु धर्मेषु प्रत्यक्षो भविष्यसि । एवं ते ज्ञान-दर्शनं भविष्यति यथा मम । एतर्हि न पुनर् एव ददाति पठित-मात्रेण + अहम् इमान् एवं-रूपान् धर्मान् गम्भीर-गम्भीरान् उपदिशामि न साक्षात्-क्रियया ॥

ल-भ-सत्-कार-हेतोर् आत्मानं विक्रीणाति । तत्-प्रत्ययात् सर्व-त्र्य्-अध्व-गतानाम् अर्हतां सम्यक्-संबुद्धानां बोधि-सत्वानाम् आर्य-पुद्गलानां च पुरतः स-अपराधिको भवति । महा-गुरुकम् आपत्तिम् आपद्यते । विसंवादयति देव-मनुष्यान् महा-यानेन । श्रावक-यानम् एव + अस्य न भवति । प्राग् एव महा-यानस्य + अवतार-विशेष-अधिगमः । प्राग् एव + अन्-उत्तरा सम्यक्-संबोधिः ॥

तद् यथा कश्-चित् पुरुषो महा-अटवीं प्रस्थितः क्षुत्-तर्ष-प्रपीडितः स तत्र महा-फल-वृक्षे प्रतिष्ठितः । आहार-अर्थं स उदार-फल-वृक्षम् अपहाय गन्ध-संपन्नं रस-संपन्नम् अन्-आस्वाद्य विष-वृक्षम् अभिरुह्य विष-फलानि भुञ्जीत भुक्त्वा च कालं कुर्यात् । तद्-उपमांस् तान् पुद्गलान् वदामि । ये दुर्-लभं मनुष्य-लाभं लब्ध्वा कल्याण-मित्रं सन्निश्रित्य महा-यानम् अवतर्तु-कामा लाभ-सत्-कार-यशो-हेतोर् आत्मानम् उपदर्शयन्ति परान् पंसयन्ति एवं-रूपां महा-गुरुकाम् आपत्तिम् आपद्यन्ते यया गुरुकया + आपत्त्या सर्व-विज्ञानां परम-जुगुप्सिता भवन्ति । अपाय-गामिनस् तथा-रूपाश् च पुद्गला न सेवनीयाः सर्व-क्षत्रिय-ब्राह्मण-विट्-शूद्राणां । यश् च तान् सेवते स स-अतिसारो भवति सर्व-विज्ञानां । इयं कुल-पुत्र बोधि-सत्वस्य षष्ठी मूल-आपत्तिः ॥

पुनर् अ-परं कुल-पुत्र भविष्यन्त्य् अन्-आगते * अध्वनि क्षत्रियाणां पुरोहित-चण्डाला अमात्य-चण्डाला भट-चण्डाला मूर्खाः पण्डित-मानिनो महा-धना महा-भोगाः । बहु-विधेषु दान-मय-पुण्य-क्रिया-वस्तुषु संदृश्यन्ते ते त्याग-मद-मत्ता मान-मद-दर्पेण क्षत्रियं विभेदयन्ति । श्रमणान् क्षत्रियैः । ते क्षत्रियान् निश्रित्य श्रमणान् दण्डापयन्ति । अर्थं दण्डेन मुषन्ति । तेन + उपद्रवेण ते भिक्षवः पौद्गलिकं वा सांघिकं वा चातुर्दिश-सांघिकं वा स्तौपिकं वा श्रमणैर् अपहृत्य तेषां प्राहृतं प्रदाप्यन्ते । ते पुनश् चण्डालाः क्षत्रियस्य + उपनामयिष्यन्ति । ते उभयतो * अपि मूल-आपत्तिम् आपद्यन्ते । ये क्षत्रिय-चण्डालाः श्रमणैः सार्द्धं प्रदुष्यन्ति तथा-रूपं च ते धर्मं प्रज्ञपयिष्यन्ति । अ-धर्मं वा धर्मम् अपहाय । सूत्र-विनय-शिक्षा अन्-अपेक्ष्य काल-उपदेश-महा-प्रदेशान् अपहाय । महा-करुणा-नेत्री-प्रज्ञा-पारमित-शिक्षा-उपाय-कौशल्य-शिक्षाः याश् च + अ-परेषु सूत्रेषु शिक्षा उपदिष्टास् ता अपहाय । तथा-रूपां धर्म-युक्तिं भिक्षूणां विहेठन-अर्थ-पूर्वकं क्रिया-आकारं प्रज्ञपयन्ति । यैः क्रिया-आकारैर् भिक्षूणां विहेठना भवति । रञ्चति शमथ-विपश्यन-अनुयोग-मनस्-कारं । ते * अवध्यायन्तो व्यापाद-बहुला भवन्ति । तेन च हेतुना भिक्षूणाम् अप्य् उपशान्ताः क्लेशा न + उपशम्यन्ति न तनू-भवन्ति । तत्-काले पुनस् ते भिक्षव आशय-विपन्ना भवन्ति शील-विपन्नाश् च भवन्ति । आचार-विपन्ना भवन्ति दृष्टि-विपन्ना भवन्ति तद्-धेतोः शैथिलिका भवन्ति । बाहुलिका भवन्ति । अ-श्रमणाः श्रमण-प्रतिज्ञाः । अ-ब्रह्म-चारिणो ब्रह्म-चारि-प्रतिज्ञाः शङ्ख-स्वर-समाचाराः प्रष्टव्य-धर्म-देशकाः । ते भूयस्या मात्रया स-परिचारस्य क्षत्रियस्य सत्-कृता भवन्ति मानिताः पूजिता भवन्ति । ते च प्रहाण-अभियुक्तानां भिक्षूणां गृह-स्थेष्व् अ-वर्णं निश्चारयन्ति । स च क्षत्रियः स-परिवारः प्रहाण-अभियुक्तानां भिक्षूणाम् अन्तिके प्रदुष्यति अवध्यायति । यस् तत्र प्रहाणिकानां भिक्षूणाम् उपभोग-परिभोगस् तं स्व-अध्याय-अभिरतानां भिक्षूणां निर्यातयन्ति । ते उभयतो मूल-आपत्तिम् आपद्यन्ते । तत् कस्य हेतोः ॥

ध्यायी भिक्षुः सु-क्षेत्रं । न + अध्ययन-वैयावृत्य-आश्रिता न + अध्ययन-अभियुक्ताः ॥

सm-dhi-dhआरणी-क्षान्ति-भूमिषु भाजनी-भूता दक्षिणीयाः पात्र-भूताः । आलोक-कर-आलोकस्य मार्ग-उपदेशकाः । कर्म-क्षेत्र-क्लेश-क्षेत्रान् सत्वान् उत्तारयन्ति । निर्वाण-गमने च मार्गे प्रतिष्ठापयन्ति । इमाः कुल-पुत्र + अष्टौ मूल-आपत्तय इति ॥

आसां निःसरणम् इह + एव सूत्रे * अभिहितं । यदि ते बोधि-सत्वा आकाशगर्भस्य बोधि-सत्वस्य नाम श्रुत्वा दर्शनम् अस्य + आकाङ्क्षेरन् । अपाय-प्रपतन-भयात् मूल-आपत्तीर् दशयितु-कामा । यदि ते आकाशगर्भं बोधि-सत्वं नमस्-कुर्युः नाम च + अस्य परिकीर्त्तयेयुस् तेषां स कुल-पुत्रो यथा भाग्यतया स्व-रूपेण + अग्रतस् तिष्ठति ब्राह्मण-रूपेण यावद् दारिका-रूपेण पुरतः स्थास्यति । तस्य + आदि-कर्मिकस्य बोधि-सत्वस्य यथा समुत्थितास् ता आपत्तीः प्रतिदेशयति । गम्भीरं च + अस्य + उपाय-कौशल्यं महा-याने चर्याम् उपदर्शयति । यावद् अ-वैवर्त्तिक-भूमौ च प्रतिष्ठापयति ॥ पे ॥

यदि तेषां संमुखं दर्शनं न ददाति । यस् तम् अभियाचति । तेन + आदि-कर्मिकेण बोधि-सत्वेन स-अपराधेन पश्चिमे यामे उत्थाय + आसनात् प्राङ्-मुखेन स्थित्वा धूपं धूपयितव्यं । अरुणो देव-पुत्र आयाचितव्यः । एवं च वक्तव्यं । अरुण अरुण महा-कृप महा-भाग महा-उदितस् त्वं जम्बु-द्वीपे मां करुणया + आछादयस्व । शीघ्रम् आकाशगर्भं महा-कारुणिकं मम वचनेन बोधय । मम स्वप्न-अन्तरे तम् उपायम् उपदर्शय येन + अहम् उपायेन + आपत्तिं प्रतिदेशयामि । आर्ये महा-याने उपाय-प्रज्ञां प्रतिलप्स्यामि + इति ॥

तेन तत्-कालं शय्यायां निद्रापयितव्यं सह + उद्गते * अरुणे इह जम्बु-द्वीपे आकाशगर्भस्य बोधि-सत्वस्य + इह समागमो भवति स्व-रूपेण च । तस्य + आदि-कर्मिकस्य बोधि-सत्वस्य स्वप्न-अन्तरे पुरतः स्थित्वा तां मूल-आपत्तिं देशयति महा-यान-उपायेन । तथा-रूपं च तस्य + उपाय-ज्ञानं संदर्शयति । येन + उपाय-कौशल्येन स आदि-कर्मिको बोधि-सत्वस् तत्र + एव बोध्i-citta-a-saंप्रमोषं नाम समाधिं प्रतिलभते सु-दृढ-व्यवस्थितश् च भवति महा-यानए इत्य् आदि ॥

atha vā yo * atra sūtre * adhyeṣaṇa-mantraḥ pūrvam uktaḥ | tena + ayaṃ vidhiḥ kāryaḥ | evaṃ syāt | araṇye upavane * abhyavakāśe vāgaraṃ vā tagaraṃ vā kāla-anusāri vā dhūpayitavyaṃ | prāñjalinā ca bhūtvā samantato dig-vidikṣu ca pañca-maṇḍalakena vanditvā ime mantra-padāḥ pravartayitavyāḥ | tad yathā | su-mṛśa [doubtful] | kāruṇika | caratu [doubtful] | vicara | sañcara | kāruṇika | murara | murara vega-dhāri namucame bhujayata kāruṇika cintā-maṇi pūraya kāruṇika sarva-āśāṃ me sthāpaya | ājñā-dhārī sphugu | rati-viveka gu | dṛṣṭi-viveka gu | pūraya kāruṇika pūrayantu mama + āśāṃ | sarvathā ca + a-śoka-gati svāhā ||

विधिः पूर्व-वत् । सर्व-व्याधि-दुःख-सर्व-भय-सर्व-उपकरण-विघात-प्रतिघाते सर्व-अभीष्ट-सिद्धये च कार्यः ॥

यदि क्षत्रिय-आदयो * अपि बोधि-सत्वाः कथम् एषाम् आपत्ति-नियमो * अन्येषां च + आधिक्यं । अथ तेन साम्वरिकाः । कथम् एषाम् आपत्ति-व्यवस्था । कथं वा तद्-दोषात् साम्वरिका अपि गृह्यन्ते । न + एष दोषः । येषां यत्र बहुलं संभवः ते तत्र + आ-कोटिताः स्व-नाम-ग्रहण-दर्शनाद् भय-उत्पादन-अर्थं । परस्-परतस् तु सर्वैः सर्वा आपत्तयः परिहर्तव्याः ॥

येन वा प्रकृति-महा-स-आवद्यतया + अ-समादानो * अप्य् अ-भव्यो भवत्य् उच्छिन्न-कुशल-मूलश् च सुतरां तेन साम्वरिका इत्य् अलम् अनया चिन्तया ॥

उपाय-कौशल्य-सूत्रे * अपि मूल-आपत्तिर् उक्ता । किं वा + अपि कुल-पुत्र बोधि-सत्वः प्रातिमोक्ष-शिक्षायां शिक्षमाणाः कल्प-शत-सहस्रम् अपि मूल-फल-भक्षः स्यात् । सर्व-सत्वानां च सु-उक्त-दुर्-उक्तानि क्षमेत् । श्रावक-प्रत्य्-एक-बुद्ध-भूमि-प्रतिसंयुक्तैश् च मनसि-कारैर् विहरेद् इयं बोधि-सत्वस्य गुरुका मूल-आपत्तिः । तद् यथा कुल-पुत्र श्रावक-यानीयो मूल-आपत्तिम् आपन्नः सो * अ-भव्यस् तैर् एव स्कन्धैः परिनिर्वातुम् । एवम् एव कुल-पुत्रो * अ-प्रतिदेश्य + एताम् आपत्तिम् अ-निःसृज्य तान् श्रावक-प्रत्य्-एक-बुद्ध-मनसि-कारान् अ-भव्यो बुद्ध-भूमौ परिनिर्वातुम् इति ॥

आसां च मूल-आपत्तीनां सुख-ग्रहण-धारण-अर्थम् एकीय-मतानां च संग्रह-कारिका उच्यन्ते ॥

रत्न-त्रय-स्व-हरणाद् आपत्-पाराजिका मता । सद्-धर्मस्य प्रतिक्षेपाद् दूतीया मुनिना + उदिता ॥

दुः-शीलस्य + अपि वा भिक्षोः काषाय-स्तैन्य-ताडनात् । चारके वा विनिक्षेपाद् अपप्रव्राजनेन च ॥

पञ्च + आनन्तर्य-करणान् मिथ्या-दृष्टि-ग्रहेण वा । ग्राम-आदि-भेदनाद् वा + अपि मूल-आपत्तिर् जिन-उदिता ॥

शून्यतायाश् च कथनात् सत्वेषु कृत-बुद्धिषु । बुद्धत्व-प्रस्थितानां वा संबोधेर् विनिवर्त्तनात् ॥

प्रातिमोक्षं परित्याज्य महा-याने नियोजनात् । शिष्य-यानं न राग-आदि-प्रहाणाय + इति वा ग्रहात् ॥

परेषां ग्रहणाद् वा + अपि पुनः स्व-गुण-काशनात् । पर-पंसनतो लाभ-सत्-कार-श्लोक-हेतुना ॥

गम्भीर-क्षान्तिको * अस्मि + इति मिथ्या + एव कथनात् पुनः । दण्डापयेद् वा श्रमणान् दद्याद् वा शरण-त्रयात् ॥

गृह्णीयाद् दीयमानं वा शमथे त्याजनात् पुनः । प्रतिसंलीन-भोगं च स्व-अध्यायिषु निवेदनात् ॥

मूला आपत्तयो ह्य् एता महा-नरक-हेतवः । आर्यस्य + आकाशगर्भस्य स्वप्ने देश्याः पुरः-स्थितैः ॥

बोध्i-citta-parityआगाद् याचकाय + अ-प्रदानतः । तीव्र-मात्सर्य-लोभाभ्यां क्रोधाद् वा सत्व-ताडनात् ॥

प्रसाद्यमानो यत्नेन सत्वेषु न तितिक्षते । श्लोकात् पर-अनुवृत्त्या वा सद्-धर्म-आभास-वर्णनाद् । इति ॥

आर्य-क्षितिगर्भ-सूत्रे * अप्य् उक्तं । यो महा-ब्रह्मन् मम + उद्दिश्य प्रव्रजितो दुः-शील-पाप-समाचारो भिक्षुर् अनुभूतः कशम्बक-जातो * अ-श्रमणः श्रमण-प्रतिज्ञः अ-ब्रह्म-चारी ब्रह्म-चारि-प्रतिज्ञः । ध्वस्तः पतितः पराजितो विविधैः क्लेशैः । अथ च पुनः स दुः-शील-पाप-समाचारो भिक्षुर् अद्य + अपि सर्व-देवानां यावत् सर्व-मनुष्याणां यावत् पुण्य-निधीनां दर्शयिता भवति कल्याण-मित्रं । किं च + अपि स अ-पात्री-भूतः तेन च पुनः शिरस्-तुण्ड-मुण्डेन काषाय-वस्त्र-प्रावरण-ईर्या-पथेन दर्शन-हेतुना + अपि बहूनां सत्वानां विविध-कुशल-मूल-उपस्तम्भन-करः सु-गति-मार्ग-दर्शको भवति । तस्माद् यो मम + उद्दिश्य प्रव्रजितः शीलवान् दुः-शीलो वा तस्य न + अनुजानामि चक्र-वर्त्तिर् आज्ञाम् अपि यन् मम + उद्दिश्य प्रव्रजितस्य सह-धर्मेण + अपि काये दण्ड-प्रहारं वा दातुं चारके वा प्रक्षेप्तुं । अङ्गम् अङ्गं विकर्त्तनं वा कर्तुं जीविताद् वा व्यपरोपणं कर्तुं । किं पुनर् अ-धर्मेण ॥

किं च + अपि मृतः कथ्यते * अस्मिन् धर्म-विनये । अथ च पुनः स पुद्गलो गो-रोचन-कस्तूरिका-सदृश इति । अत्र + एव + आह । ये मम + उद्दिश्य प्रव्रजितान् यान-भूतान् पात्र-भूतान् वा विहेठयिष्यन्ति ते सर्वेषां त्र्य्-अध्व-गतानां बुद्धानाम् अतीव स-अपराधा भवन्ति । समुच्छिन्न-कुशल-मूला दग्ध-सन्ताना अवीचि-परायणा भवन्ति + इति । अत्र + एव + आह । सर्व-बुद्धैर् अधिष्ठितो * अयं मोक्ष-ध्वजो यद् उत रक्त-काषाय-वस्त्रम् इति । अस्मिन्न् एव च + उक्तं । तेन खलु पुनः समयेन बहूनि श्रावक-नियुत-शत-सहस्राणि बहूनि च बोध्i-satva-niyuta-शत-सहस्राणि भगवतो * अन्तिके एवं-रूपं पूर्व-कृतं कर्म-आवरणं प्रतिदेशयन्ति । वयम् अपि भदन्त भगवन् बहूनां पूर्वकाणां तथा-गतानां प्रवचने पात्र-भूतान् पात्र-भूतांश् च बुद्धानां भगवतां श्रावक-यानीयान् पुद्गलाञ् जुगुप्सितवन्तः पंसितवन्तो रोषितवन्तो * अ-वर्ण-अ-यशः-कथाश् च निश्चारितवन्तः । तेन वयं कर्म-आवरणेन त्रिष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुःखां वेदनां प्रत्यनुभूतवन्तः ॥

पेयालं ॥

वयं तत्-कर्म-आवरण-शेषम् एतर्हि भगवतो * अन्तिके प्रतिदेशयिष्यामः । के-चिद् वदन्ति । वयं भगवतः श्रावकान् वचनैस् तर्जितवन्तः परिभाषितवन्तः । के-चिद् वदन्ति । वयं भगवतः श्रावकान् अ-पात्र-भूतान् पत्र-अ-भूतांश् च प्रहरितवन्तः । के-चिद् वदन्ति । वयं चीवरान् हृतवन्तः । के-चिद् वदन्ति । वयं भगवतः श्रावकाणाम् उपभोग-परिभोगान् आच्छिन्नवन्तः । के-चिद् वदन्ति । वयं भगवन्तम् उद्दिश्य प्रव्रजितान् गृह-स्थान् कारितवन्तः तत अ-स्थानं सादिताः । के-चिद् वदन्ति । अस्माभिर् भगवन् बुद्धानां भगवतां श्रावका अ-पत्र-भूताः पात्र-भूताश् च स-अपराधिकाश् चारके प्रक्षिप्तास् तेन वयं कर्म-आवरणेन बहून् कल्पांस् तृष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुष्खां वेदनां प्रत्यनुभूतवन्तः ॥ पे ॥

तद् वयम् एतर्हि कर्म-आवरण-शेषां भगवतो * अन्तिके प्रतिदेशयामः । आयत्यां संवरम् आपद्येम । प्रतिगह्णातु भगवान् अस्माकम् अनुकम्पाम् उपादाय । उद्धरतु भगवान् अस्मान् अन्-अन्त-पापेभ्य इति विस्तरः ॥

प्रव्रज्या-अन्तराय-सूत्रे * अप्य् अन्-अर्थ उक्तः । चतुर्भिर् महानामन् धर्मैः समन्वागतो गृही अ-क्षण-प्राप्तो भवति । जात्य्-अन्धश् च जडश् च + अ-जिह्वकश् च चण्डालश् च जातु सुखितो भवत्य् अभ्याख्यान-बहुलश् च षण्डकश् च पण्डकश् च नित्य-दासश् च । स्त्री च भवति श्वा च शूकरश् च गर्दभश् च + उष्ट्रश् च आशीविषश् च भवति तत्र तत्र जातौ ॥

कतमैश् चतुर्भिः । इह महानामन् गृही पूर्व-जिन-क्र्ट-अधिकाराणां सत्वानां नैष्क्रम्य-चित्तस्य प्रव्रज्या-चित्तस्य + आर्य-मार्ग-चित्तस्य + अन्तरायं करोति । अनेन प्रथमेन ॥

पुनर् अ-परं गृही धन-लौल्येन पुत्र-लौल्येन कर्म-विपाकम् अ-श्रद्दधत् पुत्रस्य वा दुहितुर् वा भार्याया वा ज्ञाति-संघस्य + ऐश्वर्य-स्थाने वर्तमाने प्रव्रज्या-अन्तरायं करोति । अनेन द्वितीयेन + इति ॥

अन्य-द्वयं । सd-dharma-pratikषेपः श्रमण-ब्राह्मणेषु च प्रतिघः ॥

दश च + अ-कुशलाः कर्म-पथाः अन्-अर्थाः । सd-dharma-smऋत्य्-उपस्थानाद् विपाक-कटुका द्रष्टव्याः । ततः किञ्-चिन्-मात्रं सूत्रं सूच्यते । प्राण-अतिपात-विपाक-लवस् तावद् । यथा + आह । तद् यथा + अग्नि-शिखा-चरा नाम पक्षिणो ये * अग्नि-शिक्षा-मध्य-गता न दह्यन्ते संहृष्टतराश् च नारकेयाणां कपालं भित्त्वा रुधिरं पिबन्ति । कपाल-अन्तर-चरा नाम पक्षिणो ये मस्तकं भित्त्वा ज्वलित-मस्तक-लुङ्गान् पिबन्ति । जिह्वा-आमिष-भुजो नाम पक्षिणो ये जिह्वां विदार्य + अभितो * अभितः प्रभक्षयन्ति । सा + अपि जिह्वा भुक्ता पुनर् अपि संजायते पद्म-दल-कोमलतरा । एवम् अर्थ-अनुरूप-संज्ञा दन्त-उत्पाटका नाम कण्ठ-नाड्य्-अपकर्षका नाम । क्लोम-काशिनः । आमाशय-अदाः । प्लीह-संवर्तका । अन्त्र-विवर-खादिनः । पृष्ठ-वंश-चरा नाम । मर्म-गुह्यका नाम पक्षिणो ये सर्वाणि मर्म-विवराणि भित्त्वा मर्माणि कृन्तयित्वा विवराणि प्रविश्य मज्जा-मण्डं पिबन्ति क्रन्दमानानां । सूची-छिद्रा नाम पक्षिणो ये सूची-सदृश-तुण्डा रक्तं पिबन्ति । एवम् अस्थ्i-vivara-aशिनः षट्-त्वग्-भक्षिणः । नख-निकृन्तका मेदो-दाः स्नायु-विशेषकाः । केश-उण्डुका नाम पक्षिणो ये केश-मूलान्य् उत्पाटयन्ति ॥

स एवम् अवीचि-प्रदेशस् त्रीणि योजन-शत-सहस्राणि पक्ष्i-bhairava-pakषो नाम । तत्र तैर् अन्यैर् नारकेयैः सह + अन्-एकानि वर्ष-शत-सहस्राणि भक्ष्यते संभवति च । स कथञ्-चिद् अपि तस्मान् मुक्तः सर्वस्माद् दुष्ख-जाल-परिवृतः । श्वभ्र-प्रपातो नाम द्वितीयः प्रदेशस् तत्र गच्छति । त्राण-अन्वेषी शरण-अन्वेषी परित्राण-अन्वेषी समन्तत एकादशभिर् अर्चि-स्कन्धैर् आवृतो निः-सहायः कर्म-पाश-बन्धन-बद्धः समन्ततः शत्रुभिर् आवृतः कान्तारम् अनुप्रपन्नः सर्वस्मान् नरक-पुञ्जाद् अधिकतरं व्यसनम् अभिप्रपन्नस् तं श्वभ्र-प्रपातं नाम प्रदेशम् अनुधावति । पतिते * अतीव पादः प्रविलीयते । उत्क्षिप्तः पुनर् अपि संभवति । सु-कुमारतरः श्लक्ष्णतरः खराभिस् तीव्राभिर् वेदनाभिर् अभिभूतः । तस्य + एवं भय-विक्लव-वदनस्य कर-चरण-सर्व-अङ्ग-प्रत्य्-अङ्ग-प्रविलीयमानस्य स प्रदेशः श्वभ्र-प्रपातो नाम प्रादुर्-भवति । स तस्मिन् देशे निपतति पतितः श्वभ्रे प्रपतति त्रीणि योजन-सहस्राणि । पुनर् अपि कर्म-कृतेन वायुना + उत्क्षिप्यते । स प्रपतमानः कंक-वायस-ग्र्ध्र-उलूकैर् भक्ष्यते । यावत् तस्य + एवम् उत्क्षिप्यमानस्य च प्रपततश् च + अन्-एकानि वर्ष-शत-सहस्राणि गच्छन्ति । कथञ्-चिद् अपि तस्मान् मुक्तः परिभ्रामितश् चक्र-अङ्कं विवरं नाम प्रदेशम् अनुधावति । तस्मिंश् च प्रदेशे सहस्र-अराणि चक्राणि प्रादुर्-भवन्ति वज्र-नाभीनि तीक्ष्ण-ज्वालानि शीघ्र-भ्रमाणि तस्य सह-गमनाद् एव तानि चक्राणि शरीरं प्राप्य भ्रमन्ति । पे ॥

प्रत्य्-एकं सर्व-अङ्गानि प्रमथ्नन्तो दहन्ति पाद-तले च + अस्य शङ्कुभिर् भिद्येते । एवं मक्कोटक-पर्वते । माक्कोटकैः प्राणि-जातिभिः स-अन्तर्-वहिः-परम-अणुशः प्रभक्ष्यते । भुक्तो भुक्तः पुनर् अपि संजायते सु-कुमारतरः । सु-कुमारतया भूयो * अप्य् आधिकतरां वेदनाम् अनुभवति । भुक्त-भुक्तस्य प्रभूततरम् एव + अस्य त्वङ्-मांसं प्रादुर्-भवति । तस्य प्राण-अतिपात-कृत-उपचितस्य तत्-फलं भवति ॥

अ-दत्त-आदान-विपाकम् आह । स एष दुष्कृत-कर्म-अन्त-चारी आलात-चक्र-निर्माण-गन्धर्व-नगर-मृग-तृष्णिका-सदृशं महद् अर्थ-जातं पश्यति रत्न-वस्त्र-धन-धान्य-निकर-भूतं । तस्य + एवं लोभ-अभिभूतस्य कर्मणा मोहितस्य + एवं भवति । मम + इदम् इति । स एवं मोहितः पाप-कारी प्रज्वलित-अङ्गार-कर्षूर् लङ्घयित्वा तद्-द्रविणम् अनुधावति । स कर्म-कृतैर् यम-पुरुषैर् गृह्यते शस्त्र-जाल-मध्य-गतः सर्व-अङ्ग-प्रत्य्-अङ्गशः पाट्यते विशस्यते दह्यते * अस्थ्य्-अवशेषः क्रियते । न च + अस्य + अन्-आदि-काल-प्रवृत्तः स लोभस् ताम् अप्य् अवस्थां गतस्य परिहीयतए इति ॥

काम-मिथ्या-आचारम् अधिकृत्य + आह । एष स पाप-कर्ता तस्माच् * छस्त्र-सङ्कटान् मुक्तः कथम्-अप्य् अङ्गार-कर्षूर् लङ्घयित्वा कर्मणा भ्रामितः प्रदेशम् अन्यं प्रपद्यते । वितथ-दर्शनं नाम तत्र कर्म-कृतां स्त्रियं पश्यति या तेन पूर्वं नष्ट-स्मृतिना दृष्टा । दृष्ट्वा च + अन्-आदि-काल-अभ्यस्तो राग-अग्निर् उत्पद्यते । स तेन धावति येन ता स्त्रियः । ताश् च + अयो-मय्यो नार्यः कर्म-कृताः । ताभिर् असौ गृह्यते । गृहीत्वा च + ओष्ठात् प्रभृति तथा भुज्यते यथा + अस्य सर्षप-फल-मात्र-प्रमाणम् अपि न + अवशिष्टं । तस्मिञ् शरीरे भवति । पुनर् अपि संभवति । पुनर् अपि भुज्यते । स कटुकां खरां वेदनाम् अनुभवंस् तस्माद् राग-अग्नेर् न निवर्तते । येन ता स्त्रियस् तेन भूयः सः संधावति । न च + अस्य तत्-पीडा तथा बाधते यथा राग-अग्निः । अथ ता स्त्रियो भूयो वज्र-मय-अयो-मय-प्रज्वलित-गात्रास् तं मनुष्यम् आदाय ज्वाला-माला-आकुल-सर्व-शरीरास् तं नारकेयं सिक्ता-मुष्टि-वद् भिन्दन्ति । पुनर् अपि संभवति + इति पूर्व-वत् ॥ पे ॥

स्त्रियो मूलम् अपायस्य धन-नाशस्य सर्वथा । स्त्री-विधेया नरा ये तु कुतस् तेषां भवेत् सुखम् ॥ पे ॥

यावत् । स्त्री विनाशो विनाशानाम् इह लोके परत्र च । तस्मात् स्त्रियो विवर्ज्याः स्युर् यदि + इच्छेत् सुखम् आत्मन इति ॥

मृषा-वादम् अधिकत्य + आह । स तैर् यम-पुरुषैर् गृह्यते गृहीत्वा च तन्-मुखं विदारयन्ति तस्माज् जिह्वाम् अपकर्षयन्ति । सा च जिह्वा कर्म-वशात् पञ्च-योजन-शत-प्रमाणा भवति । तस्य मृषा-वादस्य बलेन तस्याश् च सह-निर्गमन-काले ते यम-पुरुषा भूमाव् आनाहयन्ति प्रदीप्त-अयो-मय्यां । कर्म-कृतं च हल-सहस्रं प्रादुर्-भवति प्रदीप्त-अग्र-संयुक्तं बलवद्भिर् बलीवर्दैस् तद् अस्य + अन्तर्-गतं जिह्वायां वहति । तत्र पूय-रुधिर-कृमि-श्राविण्यो नद्यः प्रवहन्ति ॥ पे ॥

सा च जिह्वा तथा सु-कुमारा यथा देवानाम् अक्षि ॥

यावत् स वेदनातस् तनति क्रन्दति विक्रोशति न च + अस्य तद्-दुःखं कश्-चिद् अपनयति + इति विस्तरः । तस्य + एवं प्रचण्डाम् वेदनाम् अनुभवतो * अन्-एकानि वर्ष-शत-सहस्राणि सा च जिह्वा कृष्यते । सा कथञ्-चित् तस्य नारकस्य मुखे प्रविशति । स भय-विह्वल-वदनो येन वा तेन वा निःपलायते * अङ्गार-कर्षूषु दह्यमानो निमज्जन् । तस्य + एवं दुःख-आर्त्तस्य + अ-शरणस्य + अ-परायणस्य पुनर् अपि यम-पुरुषाः प्रादुर्-भवन्ति मुद्गर-असि-पाणयः । ते तं पुरुषं मस्तकात् प्रभृति यावत् पादौ चूर्णयन्ति + इत्य् आदि ॥

पैशुन्य-विपाकस् तु यथा + एव मृषा-वादस्य त्रीणि योजन-शतानि जिह्वा + इति विशेषस् तु । तां यम-पुरुषा निस्त्रिंशान् आदाय प्रदीप्त-धारान् जिह्वां निकृन्तन्ति । जम्बुकैश् च + अन्य्समिन् प्रदेशे भक्ष्यते । परम-कटुकां वेदनां प्रतिवेदयते स क्रन्दति विक्रोशत्य् अ-व्यक्त-अक्षरं जिह्वा-विरहित इत्य् आदि ॥

पारुष्य-विपाकम् आह । ते तां जिह्वाम् आस्यं विदार्य गृह्णन्ति । गृहीत्वा निशित-धारैः शस्त्रैश् छित्त्वा तस्य भूय एव खादनीय-अर्थेन मुखे प्रक्षिपन्ति । स च जिघन्सा-अर्दितः क्षुत्-क्षाम-वदनः स्व-रुधिर-लाला-परिस्रुतां ताम् एव स्व-जिह्वां भक्षयति । सा च जिह्वा छिन्ना पुनर् अपि संजायते कर्म-वशात् । अथ स भूमौ वेदना-आर्त्तः परिवर्तते विचेष्टते क्रन्दते । तस्य + एवं वेदना-आर्त्तस्य परिवृत्त-नयन-तारकस्य दुष्ख-आर्त्तस्य दीनस्य + अ-सहायस्य + एकाकिनः स्व-कृतम् उपभुञ्जानस्य यम-पुरुषा अनुशासनी-गाथां भाषन्ते ॥

जिह्वा-धनोर् विनिर्मुक्तस् तीक्ष्णो वाग् विशिखस् त्वया । पारुष्यम् इति यद् दृष्टं तस्य + एतत् फलम् आगतम् ॥

इति विस्तरः ॥

संभिन्न-प्रलाप-विपाकम् आह ॥

तस्य तत् प्रज्वलितं ताम्र-द्रव-लोहितं जिह्वां दहति । जिह्वां दग्ध्वा कण्ठं दहति । कण्ठं दग्ध्वा हृदयं दहति हृदयं दग्ध्वा + अन्त्राणि दहति । तान्य् अपि दग्ध्वा पक्व-आशयं दहति । पक्व-आशयम् अपि दग्ध्वा + अधो-भागेन निर्गच्छति ॥

यम-पुरुषा गाथाम् आहुः । पूर्व-उत्तर-अ-बद्ध-पदं निर्-अर्थकम् अ-संगतम् । अ-बद्धं यत् त्वया प्रोक्तं तस्य + एतत् फलम् आगतं ॥

yā na [doubtful] satyavatī nityaṃ na ca + adhyayana-tat-parā | na sā jihvā budhair dṛṣṭā kevalaṃ māṃsa-khaṇḍikā | iti vistaraḥ ||

अभिध्या-विपाकम् आह । अथ पश्यति रिक्तं तुच्छम् अ-सारकं कर्म-कृतं बहु-द्रविणं पर-परिगृहीतं तस्य कर्म-चोदित-व्यामोहितस्य + एवं भवति । मम + इदं स्याद् इति । ततः स नारकस् तेन + एव धावति येन तद् द्रव्यं । तस्य + अभिध्या-आख्य-मानसस्य + अ-कुशलस्य + आसेवित-भावित-बहुली-कृतस्य तत्-फलं यद् असौ नरके विपरीतं पश्यति । तस्य + एवं पश्यतो * अभिध्या-बहुलस्य हस्ते शस्त्रं प्रादुर्-भवति स तेन धावति । तेषाम् अप्य् अन्येषां नारकाणां हस्ते शस्त्राणि प्रादुर्-भवन्ति । स तैः सह शस्त्रेण युध्यते यावत् तथा कर्त्यते यथा सर्षप-फल-मात्रम् अपि न भवति मांसम् अस्य शरीरे तथा + अस्थि-कङ्काल-अवशेषः क्रियते ॥ पे ॥

परेषां सम्प ... मम स्याद् इति चिन्तितं । तस्य + अभिध्या-समुत्थस्य विषस्य फलम् आगतम् इति ॥

व्यापाद-फलम् आह । कर्म-मयाः सिंह-व्याघ्र-सर्पाः क्रोध-अभिभूताः पुरतस् तिष्ठन्ते । एतेभ्यो भय-भीतो येन वा तेन वा निःपलायते । स कथं शक्नोति पलायितुम् अ-शुभस्य कर्मणः । स तैर् गृह्यते । गृहीत्वा च पूर्वं तावन् मस्तकाद् भुज्यते यावत् पार्श्वतः सर्पैर् विष-दंष्ट्रैः संदश्य संदश्य भक्ष्यते । व्याघ्रैर् अपि पृष्ठतो भक्ष्यते । पादाव् अपि वह्निना दाह्येते स यम-पुरुषैर् दूराद् इषुभिर् विध्यतए इति विस्तरः ॥

मिथ्या-दृष्टि-फलं पुनर् अ-परिमितं । पाठस् तु संक्षिप्यते । शस्त्र-वर्ष-तोमर-वज्र-वर्ष-अशनि-पाषाण-वर्षे हन्यते । एकादशभिर् अर्च्चि-स्कन्धैः क्षुत्-पिपास-अग्निना च सुख-निर्गतेन निर्-अन्तरं दह्यतए इति ॥

काम-मूलाश् च सर्व-अन्-अर्था इति तेभ्य एव + उद्वेजितव्यं । यथा + अत्र + एव + आह । अस्त्य् अग्नि-कुण्डो नाम नरकः । तत्र कतरेण कर्मणा सत्वा उपपद्यन्ते । येन अ-श्रमणेन श्रमण-प्रतिज्ञेन मातृ-ग्रामस्य नृत्त-गीतस्य + आभरणानां वा शब्दं श्रुत्वा + अ-योनिशेन मनस्-कारेण + आक्षिप्त-बुद्धिना तच् * छ्रुत्वा हसित-लडित-क्रीडितान्य् अ-शुचिम् उक्तं ॥ पे ॥

तत्र ते नारका अयो-वर्षेण सर्व-अङ्ग-प्रत्य्-अङ्गशश् चूर्ण्यन्ते * अङ्गार-वर्षेण च पच्यन्ते दह्यन्तए इत्य् आदि । एवं पौराण-काम-आस्वादन-स्मरणात् पदुमो नाम नरकः पठ्यते स्वप्न-अन्त-भूत-स्मरणाच् च । तत्र ते नारकाः कुम्भिषु पच्यन्ते । ते द्रोणिष्व् अयो-मयैर् मुषलैर् हन्यन्तए इति विस्तरः ॥

एवम् अप्सरसः प्रार्थनया ब्रह्म-चर्य-परिणामनान् महा-पदुमो नाम नरक उक्तः । तत्र क्षार-नदी-तरङ्गिनी नाम प्रवहति । तस्यां नद्यां यान्य् अस्थीनि ते पाषाणाः । यच् * छेवालं ते केशाः । यः पङ्कस् तन् मांसं । या आपः तत् कथितं ताम्रं । ये मत्स्यास् ते नारका इत्य् आदि ॥

एवं पुरुषस्य पुरुषेण सह मैथुन-विप्रतिपत्तेः अ-प्रमेया अ-कारणा विशेषाः पठ्यन्ते । एवं शिशुभिः सह विप्रतिपत्तेः क्षार-नद्याम् उह्यमानान् दारकान् पश्यति । ते तं विलपन्ति । स तां नदीम् अवगाहते । तेषु बालकेषु तीव्र-स्नेह-प्रतिबन्ध-शोक-दुष्ख-वेगात् । एवं गो-वडव-अज-एडक-आदिषु प्रकृति-स-आवद्यः काम-मिथ्या-आचारः खरतर-विपाकः पठ्यते । तासाम् एव गो-वडव-आदीनां तप्त-अयो-मयीनां अ-कुशल-निर्मितानां योनि-मार्गेण स तिर्यक्-काम-सेवी प्रविशति । स तासाम् उदरे प्रदीप्त-अङ्गार-निकर-परिपूर्णे स्विद्यते पच्यते बहूनि वर्ष-शत-सहस्राणि + इति विस्तरेण द्रष्टव्यं ॥

एवम् अन्य-नाशितास्व् अपि भिक्षुणीषु विप्रतिपन्नानां महा-नरक-पातनाः पठ्यन्ते । एवं स्व-स्त्रीष्व् अप्य् अ-योनि-मार्गेण गच्छतः । एवं प्रसह्य + आनीतास्व् अपि पर-स्त्रीषु लब्धासु च कन्यासु । एवम् उपवास-स्थासु एवं गुरूणां पत्नीषु ज्ञाति-शब्द-मानितासु च विप्रतिपत्तेः तीव्राश् च + अ-परिमाणाश् च महा-नरक-पातनाः पठ्यन्ते ॥

सप्त-मैथुन-संयुक्त-सूत्रे * अप्य् आह । इह ब्राह्मण एकत्यो ब्रह्म-चारिणम् आत्मानं प्रतिजाणीते । स न + इह + एव मातृ-ग्रामेण सार्द्धं द्वयं समापद्यते * अपि तु मातृ-ग्रामं चक्षुषा रूपं निध्यायन् पश्यति । स तदा स्वादयति अध्यवस्यति अध्यवसाय तिष्ठति । अयम् उच्यते ब्राह्मण ब्रह्म-चारी संयुक्तो मैथुनेन धर्मेण न विसंयुक्तः । अ-परिशुद्धं ब्रह्म-चर्यं चरति ॥

एवं मातृ-ग्रामेण सार्द्धं संक्रीडतः संकिलिकिलायमानस्य आस्वादयतः अ-परिशुद्धं ब्रह्म-चर्यम् उक्तं । एवं मातृ-ग्राम-अपस्थानम् आस्वादयतः । एवं तिरः-कुड्य-गतस्य तिरो-दुष्य-गतस्य वा मातृ-ग्रामस्य नृत्त-गीत-आदि-शब्दम् आस्वादयतो मैथुन-संयोगम् इत्य् उक्तम् । एवं पञ्च-काम-गुण-समर्पितं परम् अवलोक्य + आस्वादयतः ॥

एवं देव-आदि-स्थानेषु ब्रह्म-चर्य-परिणामनात् संयुक्तो मैथुनेन धर्मेण न विसंयुक्त इति ॥

यतश् च + एते कामा एवं स्मरण-प्रार्थना-विषयम् अपि गता एवम् अन्-अर्थ-करास् तेन + एव काम-अपवादक-सूत्रे * अभिहितम् । निवारय भिक्षो चित्तं कामेभ्यः । स-भयश् च + एष मार्गः स-प्रतिभयः स-कण्टकः स-गहनः उन्मार्गः कु-मार्गो वेदना-पथः । अ-सत्-पुरुष-संसेवितः । न + एष मार्गः सत्-पुरुष-संसेवितः । न त्वम् एवं चिन्तयसि । कस्मात् अल्प-आस्वादाः कामा उक्ता भगवता । बहु-दुष्ख-बहु-उपद्रवा बहु-उपायासा । आदीनवो * अत्र भूयान् । रोगो भिक्षवः कामा गण्डः शल्य-मद्य-मद्य-मूलम् आमिष-वडिसं मृत्युर् अ-नित्याः कामास् तुच्छाः मृषा-मोष-धर्मिणः स्वप्न-उपमाः कामाः । किम् अप्य् एते बाल-उल्लापनाः ॥ पे ॥

यथा मृगाणां बन्धनाय कूटं द्वि-जानां बन्धनाय जालं । मत्स्यानां बन्धनाय कुपिनं । मर्कटानां बन्धनाय लेपः पतङ्-गानां बन्धनाय + अग्नि-स्कन्धः । एवं कामाः ॥ पे ॥

काम-पर्येषणां चरतो दीर्घ-रात्रं सिंहानां मुखे परिवर्तितस्य + अन्तो न प्रज्ञायते । यावद् गो-घातकानां गव-आसनानां मुखे परिवर्तितस्य + अन्तो न प्रज्ञायते । यावन् मण्डूकानां सतां सर्पाणां मुखे परिवर्तितस्य + अन्तो न प्रज्ञायते । दीर्घ-रात्रं कामान् प्रतिसेवमानानां चोरा इति कृत्वा गृहीतानां शिरश्-छिन्नानाम् अन्तो न प्रज्ञायते । पारदारिकाः पारिपन्थिका ग्राम-घातका जन-पद-घातका यावद् ग्रन्थि-मोचका इति कृत्वा गृहीतानां शिरश्-छिन्नानाम् अन्तो न प्रज्ञायते । दुष्खं तीव्रं खरं कटुकम् अनुभूतं रुधिरं प्रस्यन्दितं प्रघरितं यच् चतुर्षु महा-समुद्रेषु + उदकात् प्रभूततरं ॥ पे ॥

कायो ह्य् अयं बह्व्-आदीनवः । अस्थि-संघातः स्नायु-संबद्धो मांसेन + अनुलिप्तः चर्मणा पर्यवनद्धः छव्या प्रतिच्छन्नः छिद्र-विच्छिद्रः कृमि-संघ-निषेवितः सत्वानाम् अन्-अर्थकः क्लेश-कर्मणां वस्तु ॥

अस्मिन् काये विविधा आबाधा उत्पद्यन्ते । तद् यथा चक्षू-रोगः श्रोत्र-रोगो यावद् अर्शांसि पिटको भगन्-दरः ॥ पे ॥

कायिकाः सन्तापाः कायिकं दुष्खं । कायस्य जीर्णता भग्नता कुब्जता । खालित्यं पालित्यं वलि-प्रचुरता । इन्द्रियाणां पारिपाकः परिभेदः संस्काराणां पुराणी-भावो जर्जरी-भावः । यावन् न + अर्हस्य् एवम् उद्घरन्तं प्रघरन्तं जुगुप्सनीयं कायं प्रतिषेवितुं ॥ पे ॥

का तव भिक्षो काम-अ-शान्तिः । कश् च त्वां प्रलोभयति । कथं च त्वं प्राहितो मूर्छितो * अध्यवसितो * अध्यवसानम् आपन्नः । यदा + अहं परिनिर्वृतो भवामि । सद्-धर्मश् च + अन्तर्-हितो भवति । त्वं च कामान् प्रतिसेव्य विनिपात-गतो भविष्यसि । कदा जरा-मरणाद् आत्मानं परिमोचयिष्यसि ॥

अलं भिक्षो निवारय चित्तं कामेभ्यः । अ-कालः काम-पर्येषणायाः । कालो * अयं धर्म-पर्येषणाया इति ॥

उग्रदत्त-परिपृच्छायाम् अप्य् आह । तेन काम-मिथ्या-आचारात् प्रतिविरतेन भवितव्यं स्व-दार-संतुष्टेन पर-दार-अन्-अभिलाषिणा + आरक्त-नेत्र-प्रेक्षिणा निर्विण्ण-मनसा । एक-अन्त-दुष्खाः कामा । इत्य् अभीक्ष्णं मनसि-कार-प्रयुक्तेन । यदा + अप्य् अस्य स्व-दारेषु काम-वितर्क उत्पद्येत । तदा + अपि तेन स्व-दारेष्व् अ-शुभ-अनुदर्शिना उत्त्रस्त-मनसा । क्लेश-वशतया कामाः प्रतिसेवितव्याः । न त्व् अध्यवसान-विनिबद्धेन नित्यम् अ-नित्य-अन्-आत्म-अ-शुचि-संज्ञिना । एवं च + अनेन स्मृतिर् उपस्थाप्या । तथा + अहं करिष्यामि यथा संकल्पैर् अपि कामान् न परिभोक्ष्ये । कः पुनर् वादो dvi-indriya-samआपत्त्या वा + अनङ्ग-विज्ञप्त्या वा + इति ॥

पुनर् अत्र + एव + आह । बोधि-सत्वेन स्व-भार्याया अन्तिके तिस्रः संज्ञा उत्पादयितव्याः । कतमास् तिस्रः । रति-क्रीडा-सहायिका + एषा न + एषा पर-लोक-सहायिका । अन्न-पान-सहायिका + एषा न + एषा कर्म-विपाक-अनुभवन-सहायिका । सुख-सहायिका + एषा न + एषा दुष्ख-सहायिका ॥

यावद् अ-परास् तिस्रः । शील-अन्तराय-संज्ञा ध्यान-अन्तराय-संज्ञा प्रज्ञा-अन्तराय-संज्ञा ॥

अ-परास् तिस्रः । चोर-संज्ञा बधक-संज्ञा नरक-पाल-संज्ञा इति ॥

चन्द्रोत्तरा-दारिका-परिपृच्छायाम् अप्य् उक्तं । अथ चन्द्रोत्तरा-दारिका समनन्तरं प्रधावन्तं तं महान्तं जन-कायं दृष्ट्वा तस्यां वेलायां विहायस-अन्तरीक्षे ताल-मात्रम् अभ्युद्गम्य स्थित्वा च तं महान्तं जन-कायं गाथाभिर् अध्यभाषत ॥

कायं मम + ईक्षध्वम् इमं मनो-ज्ञं सुवर्ण-वर्णं ज्वलन-प्रकाशम् । न रक्त-चित्तस्य हि मानुषस्य प्रज्ञायते शोभनकं शरीरम् ॥

ये एत्व् अग्नि-कर्षू-उपम-संप्रदीप्तान् त्यजन्ति कामान् विषयेष्व् अ-गृद्धाः । षड्-इन्द्रियैः संवर-संवृताश् च ये ब्रह्म-चर्यं च चरन्ति शुभम् ॥

दृष्ट्वा च दारान् हि परस्य ये वै कुर्वन्ति माता-भगिनी + इति संज्ञां । प्रासादिकास् ते हि सु-दर्शनीया भवन्ति नित्यं परमं मनो-ज्ञाः ॥

स्फुटाम् इमां वेत्थ पुरीं समन्ताद् यो रोम-कूपान् मम च + अति-गन्धः । न राग-चित्तेन मया + अर्जितो * अयम् फलं तु दानस्य दमस्य च + इदम् ॥

न मे समुत्पद्यति राग-चित्तं मा वीत-रागासु जनीष्व रागं । साक्षी मम + अयं पुरतो मुनि-इन्द्रः सत्यं यथा वेद्मि न जातु मिथ्या ॥

यूयं च पूर्वं पितरो मम + आस । अहं च युष्माकम् अभूज् जनित्री । भ्राता स्वसा च + अपि पिता बभूव को राग-चित्तं जनयेज् जनन्यां ॥

प्रघातिताः प्राक् च मम + अथ सर्वे । अहं विशस्ता च पुरा भवद्भिः । सर्वे अ-मित्रा वधकाः परस्य । कथं तु वा जायति राग-चित्तम् ॥

न रूपवन्तो हि भवन्ति रागात् । न रक्त-चित्ताः सु-गतिं व्रजन्ति । न निर्वृतिं यान्ति च रक्त-चित्ता रागो हि तस्मात् परिवर्जनीयः ॥

कामस्य हेतोर् निरयं पतन्ति । प्रेतास् तिरश्चो * अथ भवन्ति रागात् । कुम्भ-अण्ड-यक्षा असुराः पिशाचा भवन्ति ये राग-परीत्त-चित्ताः ॥

काणाश् च खञ्जाश् च वि-जिह्वकाश् च । वि-रूपकाश् च + एव भवन्ति रागात् । भवन्ति नाना-विध-दोष-भाजाश् चरन्ति ये काम-चरीं जघन्याम् ॥

yac cakra-vartitvam avāpnuvanti | bhavanti śakrās tri-daśa-īśvarāś ca | brahmāṇa īśā [doubtful] vaśa-varttinaś ca tad brahma-caryaṃ vipulaṃ caritvā ||

जात्य्-अन्ध-भावा वधिरा वि-संज्ञा । श्व-शूकर-उष्ट्राः खर-वानराश् च । हस्त्य्-अश्व-गो-व्याघ्र-पतङ्-ग-मक्षाः भवन्ति नित्यं खलु काम-लोलाः ॥

क्षिति-ईश्वराश् च + एव भवन्त्य् उदग्राः सु-श्रेष्ठिनो वै गृह-पत्य्-अमात्याः । सुख-सौमनस्येन च यान्ति वृद्धिं ये ब्रह्म-चर्यं विपुलं चरन्ति ॥

कभल्लि-तापान् अथ धूम-गारान् बन्धांस् तथा ताडन-तर्ज्जनांश् च । छेदं शिरः कर्ण-कर-अक्षि-नासाः । पादस्य च + अर्च्छन्ति हि काम-दासा । इति ॥

उदयन-वत्स-राज-परिपृच्छायां च विवर्णिताः कामाः ॥

दृष्ट्वा व्रणं धावति मक्षिका यथा । दृष्ट्वा + अ-शुचिं धावति गर्दभो यथा । श्वानश् च शूना इव मांस-कारणात् । तथा + एव धावन्त्य् अ-बुधाः स्त्रिये रताः ॥

अ-विद्या-पिधिता बालास् तमः-स्कन्धने आवृताः । स्त्रीषु सक्तास् तथा मूढा अ-मेध्य इव वायसाः ॥

मारस्य गो-चरो ह्य् एष प्रस्थिता येन दुर्-गतिः । आस्वाद-संज्ञिनो गृद्धा मीट-स्थाने यथा क्रिमिः ॥

कीट-कुम्भो यथा चित्रो यत्र यत्र + एव दृश्यते । पूर्णो मूत्र-पुरीषेण दृतिर् वा वात-पूरिता ॥

siṅghāṇaka-kapha-alālāḥ [doubtful] śleṣmaṇi klinna-mastakāḥ | daurgandhyaṃ sravate kāyād bālānāṃ tad yathā madhu ||

अस्थि-पूर्णं मुख-द्वारं मांस-चर्म-आदिभिश् चितं । गण्ड-भूतो ह्य् अयं कायः कुत्सितो ह्य् आम-गन्धिकः ॥

नाना-प्राणिभिः संपूर्णो मुख-गण्डो यथा भवेत् । एवम् एव ह्य् अयं कायो विष्ठा-आद्य्-अ-शुचि-भाजनम् ॥

अन्त्य-अन्त्र-आकुलं ह्य् उदरं स-यकृत्-फुप्फुष-आकुलम् । वृक्कौ विलोहितं पित्तं मस्त-लुङ्ग-अस्थि-मज्जकम् ॥

अशीतिं क्र्imi-kula-sahasrआणि यानि तिष्ठन्ति अन्तरे । अह बाला न पश्यन्ति मोह-जालेन आवृताः ॥

नव-व्रण-मुखैः प्रस्रवन्त्य् अ-शुचिं पूति-गन्धिकम् । बाला निमित्तं गृह्णन्ति वचने दर्शने * अपि च ॥

उक्ताः पश्चान् न जानन्ति यो देशः सर्व-कुत्सितः । उच्चार-गो-चरा बालाः खेट-सिङ्घाण-भोजिनः ॥

जुगुप्सनीये रज्यन्ते व्रणं दृष्ट्वा + इव मक्षिकाः । कक्षास्व् आघरते स्वेदो गन्धो वायति कुत्सितः ॥

कुर्वन्ति दुष्-कृतं कर्म येन गच्छन्ति दुर्-गतिम् । हीनान् कामान् निषेवन्तो हीनान् धर्मान् निषेव्य च ॥

गत्वा अवीचिं दुष्-प्रज्ञाः दुष्खां विन्दन्ति वेदनां । उच्चार इव दुर्-गन्धाः स्त्रियो बुद्धैः प्रकीर्तिताः ॥

तस्माद् * धीनस्य हीनाभिः स्त्रीभिर् भवति सङ्गतिः । उच्चार-भस्त्रां यो गृह्य-बाल-आवासं निगच्छति ॥

यादृशं कुरुते कर्म तादृशं लभते फलम् ॥

तथा + अत्र + एव + आह । तद् एवं-रूपैर् दुष्ख-पर्येषितैर् भोगैः स्व-जीविक-अर्थम् उपसंहृतैर् न प्रभवन्ति श्रमण-ब्राह्मणेभ्यो दानं दातुं कृपण-वनीपक-याचकेभ्यो * अ-वशी-कृताः स्त्रीभिः स्त्री-निर्जिताः स्त्री-निगृहीताः स्त्री-दासाः । तेन + एव स्त्री-प्रेम्णा तस्या एव पोषणाय न शक्नुवन्ति दानं दातुं शीलं च समादातुं । स तत्र रक्तः समानः स्त्री-परिभाषितानि सहते तर्जन-अवलोकन-निर्भर्त्सनाम् अपि सहते । स मातृ-ग्रामेण तर्जितः पुरुषः संसीदति विषीदति सुखं च + अस्या अवलोकयति । काम-हेतोः काम-निदानं च वश-गता भवति । अयं महा-राज काम-लोलुपस्य पुरुषस्य + उच्चार-सुख-परमस्य + अ-शुचौ रतस्य + अ-संप्रजन्य-आचारिणो दोषः ॥ पे ॥

श्रुत्वा + ईदृशं तु संवेगं न तेषां भवति निर्वृतिः । भूयः कुर्वन्ति संसर्गं स्त्रीभिः सार्द्धं प्रमोदिताः ॥

दुष्ख-कामान् निषेवन्ते भाषन्ते च जुगुप्सिताः ॥

धर्मं श्रुत्वा + अर्थ-संमूढाः भाषन्ते च सु-भाषितं । स्त्री-गतं च + अस्य तच् चित्तं विडालस्य + इव मूषिके ॥

मुहूर्तं भवति संवेगः श्रुत्वा + अथ जिन-भाषितं । पुनः कुप्यति रागो * अस्य विष-हालाहलं यथा ॥

सूकरस्य + इव उत्त्रासो मुहूर्तम् अनुवर्त्तते । दृष्ट्वा वै अथ उच्चारं गृद्धतां जनयत्य् असौ ॥

एवं सुख-अर्थिनो बालाः प्रहाय जिन-शासनं । हीनान् कामान् निषेवन्ते येन गच्छन्ति दुर्-गतिं ॥

रक्ताः प्रमत्ताः कामेषु कृत्वा कर्म सु-पापकम् । शीलवत्तां विसंवाद्य पश्चाद् गच्छन्ति दुर्-गतिम् ॥

यस्य + ईदृशं धर्म-नयं विदित्वा । स्त्रीषु प्रसादः पुरुषस्य न + उ भवेत् । विशोधितः स्वर्ग-पथो * अस्य नित्यम् । न दुर्-लभा तस्य वर-अग्र-बोधिः ॥

लब्ध्वा क्षणं हि स प्रज्ञो धर्मं श्रुत्वा च ईदृशम् । सर्वान् कामान् विवर्ज्य + इह प्रव्रज्यां निष्क्रमेद् बुध । इति ॥

प्रशान्त-विनिश्चय-प्रातिहार्य-सूत्रे * अप्य् अ-परो * अन्-अर्थ उक्तः ॥

yaḥ kaś-cin mañjuśrīḥ kula-putro vā kula-duhitā vā jāmbū-dvīpakān sarva-satvāñ jīvitād vyaparopya sarvasvaṃ haret | yo vā + anyo mañjuśrīḥ kula-putro vā kula-duhitā bodhi-satvasya + eka-kuśala-cittasya + antarāyaṃ kuryād antaśas tiryag-yoni-gatasya + apy eka-ālopa-dāna-saha-gatasya kuśala-mūlasya + antarāyaṃ kuryād ayaṃ tato * a-saṃkhyeyataraṃ pāpaṃ prasavati | tat kasya hetoḥ | buddha-utpāda-saṃjanakānāṃ sa-kuśala-mūlānām antarāyaḥ sthito bhavati | yaḥ kaś-cin mañjuśrīḥ para-kuleṣu bodhi-satvasya + īrṣyā-mātsaryaṃ kuryāt tasya tasmin samaye tato nidānaṃ [doubtful] trīṇi bhayāni pratikāṅkṣitavyāni | katamāni trīṇi | naraka-upapatti-bhayaṃ jāty-andha-bhayaṃ pratyanta-janma-upapatti-bhayaṃ ca + iti ||

पुनर् आह ॥

यस् तस्य कुर्यात् पुरुषो * अ-प्रियं वा भूतं ह्य् अ-भूतं च वदेद् अ-वर्णं । परुषं वदेत् क्रुद्ध-मना + अपि यस् तं क्षोभं च कुर्यात् पुनर् अस्य यो * अपि ॥

आत्म-भावेन महता नरकेषु स दुर्-मतिः । उत्पद्यते विपन्न-आत्मा दुष्खां स वेत्ति वेदनां ॥

योजनानां शतं पञ्च जायते * अस्य समुच्छ्रयः । कोटी-परिवृतः शश्वद् भक्ष्यते च शुना भृशम् ॥

पञ्च-मूर्द्ध-सहस्राणि भवन्त्य् अस्य + अपवादिनः । जिह्वानां च शताः पञ्च भवन्त्य् एक-एक-मूर्द्धनि ॥

एक-एकस्यां च जिह्वायां शताः पञ्च ज्वलन्-मुखाः । लाङ्गलानां च वहन्त्य् अस्य वाचं भाषित्व पापिकाम् ॥

प्रतापने च पच्यन्ते तीव्र-दुष्ख-अनल-आकुले । उत्पीडां बोधि-सत्वानां ये कुर्वन्ति अ-सङ्गताः ॥

तिर्यग्-योनिः स-नरका न तेषां भोति दुर्-लभा । कल्प-कोटि-सहस्राणि शतानि नियुतानि च ॥

ततः च्युता घोर-विषा भोन्ति सर्पाः सु-दारुणाः । क्षुत्-पिपास-अभिभूताश् च कुर्वते कर्म दारुणम् ॥

लब्ध्वा + अपि भोजन-पानं तृप्तिं न + एव + अधिगच्छति । ततश् च्युतो मनुष्येषु स ... यद्य् उपपद्यते ॥

jāty-andho bhoti dur-medhā duṣṭa-cetā a-saṃvṛtaḥ | āryānāra-adhikāṃ [doubtful] vācam uktvā dur-bhāṣitaṃ naraḥ ||

मनुष्येभ्यश् च्युतश् च + अपि पुनर् गच्छति दुर्-गतिम् । कल्प-कोटि-सहस्रेषु जात-बुद्धं न पश्यति ॥

पुनर् अत्र + एव + आह । यावन्ति मञ्जुश्रीर् बोधि-सत्वो बोधि-सत्वस्य + अन्तिके प्रतिघ-चित्तान्य् उत्पादयत्य् अवमन्यना-चित्तानि वा । तावतः कल्पान् सन्नाहः सन्नद्धव्यो वस्तव्यं मया महा-नरकेष्व् इति । न मञ्जुश्रीर् बोधि-सत्वो * अन्येन कर्मणा शक्यो विनिपातयितुम् अन्यत्र बोध्i-satva-apavआदाद् एव । तद् यथा मञ्जुश्रीर् वज्र-मणि-रत्नं न + अन्येन काष्ठेन लोष्ठेन वा शक्यं भेत्तुम् अन्यत्र वज्राद् । एवम् एव मञ्जुश्रीर् बोधि-सत्वो * अन्येन कर्मणा न शक्यो विनिपातयितुम् अन्यत्र बोध्i-satva-apavआदाद् एव + इति ॥

॥

आर्य-श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे * अप्य् आह ॥

यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा दशसु दिक्षु सर्व-लोक-धातुषु सर्व-सत्व-अन्ध-कारेषु बन्धने क्रुद्धः प्रवेशयेत् । यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा बोधि-सत्वे क्रुद्धः पराङ्-मुखं तिष्ठेत् । न + एनं दुर्-आत्मानं पश्यामि + इत्य् अयं ततो * अ-संख्येयतरं पापं प्रवसति ॥

अत्र + एव + उक्तं । यः कश्-चिन् मञ्जुश्रीः सर्व-जाम्बू-द्वीपकानां सत्वानां सर्वस्वं हरेद् यश् च + अन्यो यादृशं तादृशं बोधि-सत्वं गर्हेद् ततो * अ-संख्येयतरं पापं प्रसवति ॥

अत्र + एव + उक्तं । यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा गङ्गा-नदी-वालिका-समान् स्तूपान् विनिपातयेद् दहेत वा । यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा महा-यान-अधिमुक्तस्य बोधि-सत्वस्य व्यापाद-खिल-क्रोध-चित्तम् उत्पाद्य क्रोशयेत् परिभाषयेद् अयं ततो * अ-संख्येयतरं पापं प्रसवति । तत् कस्माद् * धेतोः । बोध्i-satva-niryआता हि बुद्धा भगवन्तो बुद्ध-निर्याताश् च स्तूपाः सर्व-सुख-उपधानानि च सर्व-देव-निकायाश् च । बोधि-सत्वम् अ-सत्-कृत्य सर्व-बुद्धा अ-सत्-कृता भवन्ति । बोधि-सत्वं सत्-कृत्य सर्व-बुद्धाः सत्-कृता भवन्ति । सर्व-बुद्धान् अन्-उत्तरया पूजया पूजयितु-कामेन बोधि-सत्वाः पूजयितव्याः ॥

एतत् पूजा-विपाकश् च प्रशान्त-विनिश्चय-प्रातिहार्य-सूत्रे * अभिहितः ॥

यस् त्व् एषां कुरुते रक्षां धार्मिकीं धर्म-वादिनां । हित्वा सु-दुर्-गतीः सर्वाः शक्रो भवति देव-राट् ॥

ब्रह्मा + अपि यामस् तुषितो वश-वर्त्ती पुनः पुनः । मनुष्येषु + उपपन्नश् च चक्र-वर्त्ती स जायते ॥

श्रेष्ठी गृह-पतिश् च + अपि भवत्य् आढ्यो महा-धनः । प्रज्ञा-स्मृतिभ्यां संयुक्तः सुखितो निर्-उपद्रव । इति ॥

अथ कतमं बोधि-सत्वम् अधिकृत्य + इयं कार-अपकार-चिन्ता । पृथग्-जनम् एव ॥

यथा + उक्तं श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे । यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा सर्व-लोक-धातु-रजो-उपमानां सत्वानां दिवसे दिवसे दिव्यं शत-रसम् आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गा-नदी-वालिका-समान् कल्प-समुद्रान् दानं दद्यात् । यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा एकस्य + उपासकस्य + अन्-अन्य-शास्तुर् दश-कुशल-कर्म-पथ-समन्वागतस्य + एक-दिवसम् एकम् आहारं दद्याद् बुद्धस्य + अयं भगवतः शिक्षायां शिक्षित इति समारोपं कृत्वा । अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति ॥

यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा सर्व-लोक-धातु-रजो-उपमानां दश-कुशल-कर्म-पथ-समन्वागतानां उपासकानां दिवसे दिवसे दिव्यं शत-रसम् आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गा-नदी-वालिका-समान् कल्पान् दद्यात् । यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा एकस्य भिक्षोर् एक-दिवसम् आहारं दद्याद् । अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति + इति ॥

नियत-अ-नियत-अवतार-मुद्रा-सूत्रे * अप्य् आह । सचेन् मञ्जुश्रीर् दशसु दिक्षु सर्व-लोक-धातुषु सर्व-सत्वा उत्पाटित-अक्षा भवेयुः परिकल्पम् उपादाय । अथ कश्-चिद् एव कुल-पुत्रो वा कुल-दुहिता वा तेषां सर्व-सत्वानां मैत्र-चित्तस् तान्य् अक्षीणि जनयेत् परिकल्पम् उपादाय । यो वा + अन्यो मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा महा-यान-अधिमुक्तं बोधि-सत्वं प्रसन्न-चित्तः पश्येद् । अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति ॥

यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा दशसु दिक्षु सर्व-सत्वान् बन्धन-आगार-प्रविविष्टान् बन्धन-आगारान् मोचयित्वा चक्र-वर्ति-सुखे स्थापयेद् ब्रह्मत्व-सुखे वा । यो वा + अन्यो मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा महा-यान-अधिमुक्तस्य प्रसन्न-चित्तो दर्शन-अभिलाषी भवेद् वर्णं च + अस्य + उदाहरेद् । अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति + इति ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.