Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
शिक्षासमुच्चय
- Tác giả
- शान्तिदेव
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तथा क्षितिगर्भ-सूत्रे * अप्य् आह । यः पुनर् भदन्त भगवन् क्षत्रिय-कल्याणो वा + अमात्य-कल्याणो वा भट्ट-कल्याणो वा श्रमण-कल्याणो वा ब्राह्मण-कल्याणो वा परं रक्षत्य् आत्मानं रक्षति पर-लोकं रक्षति । भगवच्-छासने पात्र-भूतम् अ-पात्र-भूतं वा यावन् मुण्डं काषाय-खण्ड-प्रावृतं परिरक्षति श्रोष्यति पूजयिष्यति श्रावक-कथां एवं प्रत्य्-एक-बुद्ध-कथां श्रोष्यति पूजयिष्यति । महा-यान-कथां च महा-यान-संप्रस्थितान् पुद्गलान् शीलवतो गुण-आढ्यान् युक्त-मुक्त-प्रतिभानान् तैः सार्द्धं रमति क्रीडति परिपृच्छति परिप्रश्नयति तेषां श्रोतव्यं कर्तव्यं मन्यते ॥ पे ॥
कियन्तं भगवन् पापं क्षपयिष्यति ॥
भगवान् आह ॥
तद् यथा + अपि नाम कुल-पुत्र कश्-चित् पुरुष उत्पद्यते । यः सर्वं जम्बू-द्वीपं सप्त-रत्न-परिपूर्णं कृत्वा तिष्ठतां बुद्धानां भगवतां दानं दद्यात् तथा + एव मध्य-अह्न-समये तथा + एव साय-अह्न-समये दानं दद्याद् अनेन पर्यायेण वर्ष-शत-सहस्रम् एवं-रूपं दानं दद्यात् । तत् किं मन्यसे कुल-पुत्र + अपि नु स पुरुषो बहु पुण्यं प्रसवेत् ॥
आह ॥
बहु भदन्त भगवन् स पुरुषः पुण्य-स्कन्धं प्रसवेद् अ-प्रमेयम् अ-संख्येयं । न तस्य पुण्य-स्कन्धस्य केन-चिच् * छक्यं प्रमाणम् उद्ग्रहीतुं अन्यत्र तथा-गतेन ॥
भगवान् आह ॥
यस् तु कुल-पुत्र क्षत्रिय-कल्याणो वा यावद् यथा पूर्व + उक्तं । पे । स बहुतरं पुण्यं प्रसवति । यावद् विपुलतरम् अ-प्रमाणतरम् अ-संख्येयतरं पुण्य-स्कन्धं प्रसवति । यो मम पश्चिमायां पञ्च-शत्यां वर्तमानायां सd-dharma-netrई रक्षति स रक्षत्य् आत्मानं । रक्षति परांश् च रक्षति पर-लोकं रक्षति मम शासनं श्रावकान् पात्र-भूतान् अ-पात्र-भूतान् वा यावन् मुण्डान् काषाय-वस्त्र-प्रावृतान् अपि रक्षति । न विहेठयति । यावत् स्वकं राष्ट्रं पर-राष्ट्रं च वर्धयति । अपायान् क्षपयति । सुर-आलयं च प्रापयति चिरं च + आयुः पालयति । स्व-क्लेशांश् च पर-क्लेशांश् च झाषयति । संबोधि-मार्गं षट्-पारमिताश् च + उपस्तम्भयति । सर्व-अपायाञ् जहाति । न चिरं संसारे संसरति । नित्यं कल्याण-मित्रैर् बुद्धैश् च भगवद्भिर् बोधि-सत्वैश् च महा-सत्वैश् च सार्द्धं समवधान-गतो भवति । सततं कल्याण-मित्र-अ-विरहितो न चिरेण यथा-अभिप्रायेषु बुद्ध-क्षेत्रेष्व् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंभोत्स्यते ॥
अथ तावद् एव सर्व-देव-इन्द्राः स-परिवारा । यावत् पिशाच-इन्द्राः स-परिवारा उत्थाय + आसनाद् येन भगवान् तेन + अञ्जलिं प्रणम्य + एवम् आहुः । ये ते भदन्त भगवन् एतर्ह्य् अन्-आगते * अध्वनि यावत् पश्चिमायां पञ्च-शत्यां क्षत्रिय-कल्याणा भवन्ति यावद् गह-पति-कल्याणाः । पे । एवं सd-dharma-rakषका एवं त्र्i-ratna-vaंश-ज्वालयितारः । पे । वयम् अपि सर्वे स-परिवारास् तं क्षत्रिय-कल्याणं यावद् गह-पति-कल्याणं दशभिर् आकारै रक्षिष्यामः परिपालयिष्यामो वर्धयिष्यामः ॥
कतमैर् दशभिः । आयुश् च + अस्य वर्धयिष्यामः आयुर्-अन्तरायं च धर्मेण निवारयिष्यामः । आरोग्यं च परिवारं च धन-स्कन्धं च उपभोग-परिभोगं च + ऐश्वर्यं च यशः कल्याण-मित्राणि प्रज्ञा-सम्पदं च वर्धापयिष्यामः । एभिर् दशभिर् इति विस्तरः ॥
एवम् अ-भूमि-प्रविष्टेष्व् एव + अयं विपाक-विस्तरो द्रष्टव्यः ॥
अवलोकना-सूत्रे * अपि । संबोधौ चित्तम् उत्पाद्य हित-अर्थं सर्व-प्राणिनां । यः स्तूपं लोक-नाथस्य करोति + इह प्रदक्षिणं ॥
इत्य् आद्य् अनुशंस-विस्तरम् उक्त्वा + आह । यस् त्व् एषां बुद्ध-पुत्राणां नरः कुर्वीत अ-प्रियं । देवान् मनुष्यान् वर्जित्वा नरकं तस्य गो-चरं ॥
इति विस्तरः पूर्व-वत् ॥
न च + अत्र विशेष-हेतुः कश्-चिद् उपदर्शयितुं शक्यतए इत्य् अलं विकल्पेन ॥
कर्म-आवरण-विशुद्धि-सूत्रे * अप्य् आवरण-शब्देन + अन्-अर्थ उक्तः । आवरणं मञ्जुश्रीर् उच्यते राग आवरणं द्वेष आवरणं मोह आवरणं दानम् आवरणं शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञा आवरणं । पे । तत् कस्य हेतोः बाल-पृथग्-जना मञ्जुश्रीर् दानं ददाना मत्सरिणाम् अन्तिके * अ-प्रसादं कुर्वन्ति । ते तेन + अ-प्रसादेन प्रतिघ-चित्तम् उत्पादयन्ति । प्रतिघ-खिल-दोषेण महा-नरकेषु + उपपद्यन्ते । शीलं रक्षन्तो दुः-शीलान् कुत्सयन्ति परिभाषन्ति । ते तेषाम् अ-वर्णं च भाषन्ति । ते तेषां दोषं श्रुत्वा बहु-जनस्य + अ-प्रसादं कुर्वन्ति । ते तेन + अ-प्रसादेन दुर्-गति-गामिनो भवन्ति । ते क्षान्तिं भावयन्तः क्षान्ति-मदेन + आत्मानम् उत्कर्षयन्ति प्रमाद्यन्ति । वयं क्षान्ति-वादिनः । इमे पुनर् अन्ये व्यापन्न-चित्ताः । तेषां क्षान्त्i-madana-mattआनां प्रमाद-मूलकानि दुःखान्य् उत्पद्यन्ते । ते वीर्यम् आरभमाणा आत्मानम् उत्कर्षयन्ति परान् पंसयन्ति । कुसीदा इमे भिक्षवो विहरन्त्य् अन्-अभियुक्ताः श्रद्धा-देयं परिभुञ्जानाः । न + एते * अर्हन्ति पानीय-स्थालकम् अपि । ते तेन वीर्य-आरम्भेण + आत्मानम् उत्कर्षयन्ति परं च पंसयन्ति । तान् अहं बालान् इति वदामि । ते ध्यानं समापद्यमानास् तत्र ध्यान-समापत्तौ स्पृहाम् उत्पादयन्ति । तेषाम् एवं भवति । वयं समाधि-विहारिण । इमे * अन्ये भिक्षवो विक्षिप्त-चित्ता विहरन्ति । कुतस् ते बुद्धा भविष्यन्ति + इति विस्तरः ॥
सर्व-धर्म-अ-प्रवृत्ति-निर्देशे * अप्य् आह । बोधि-सत्व आपत्त्या चोदयति । दूरी-भवति बोधिः । कर्म-आवरणं च परिगृह्णाति । ईर्यया चोदयति । दूरी-भवति बोधिः । ईर्या-पथेन चोदयति दूरी-भवति बोधिः । सचेद् बोधि-सत्वस्य + अन्तिके हीन-संज्ञाम् उत्पादयति आत्मनि च + उदार-संज्ञां क्षिणोत्य् आत्मानं कर्म-आवरणं च गृह्णाति । इह बोधि-सत्वेन बोधि-सत्वम् अववदता + अनुशासता वा शास्तृ-संज्ञाम् उपस्थाप्य + अववदितव्यो * अनुशासितव्यः । बोधि-सत्वेन बोधि-सत्वस्य + अन्तिके न परिभव-चित्तम् उत्पादयितव्यं । सचेद् अस्य + अ-परित्यक्ता बोधिः । न देव-पुत्र बोधि-सत्वः क्व-चिद् एव कुशल-मूलानि समुच्छिनत्ति । यथा + अ-द्वितीय-बोधि-सत्वम् आगम्य + इति । अन्-उत्पादित-बोधि-चित्ते * अपि तावद् बोधिर् भव्ये सत्वे * अवमन्यना प्रतिषिद्धा । किं पुनर् उदित-बोधि-चित्ते ॥
यथा + उक्तं शूरङ्गम-समाधि-सूत्रे । तत्र दृढमते कतमद् अन्-उत्पादित-बोध्i-citta-vyआकरणं ॥
इह दृढमते स पुद्गलः पाञ्चगतिके संसारे उपपन्नो भवति । यदि वा निरयेषु यदि वा तिर्यग्-योनौ यदि वा यम-लोके यदि वा देवेषु यदि वा मनुष्येषु । स च पुद्गलस् तीक्ष्ण-इन्द्रियो भवति । उदार-अधिमुक्तिकः । तम् एनं तथा-गतः प्रजानाति । अयं पुरुष-पुद्गलो यावद् इयद्भिः कल्प-कोटी-नियुत-शत-सहस्रैर् अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयिष्यति ॥ पे ॥
इयद्भिश् च अ-संख्येय-कल्प-शत-सहस्रैर् बोधिम् अभिसंभोत्स्यते ॥ पे ॥
इदं दृढमते उच्यते । बोधि-सत्वस्य + अन्-उत्पादित-बोध्i-citta-vyआकरणं । अथ खल्व् आयुष्मान् महा-काश्यपो भगवन्तम् एतद् अवोचत् । अद्य + अग्रेण + अस्माभिर् भगवन् सर्व-सत्वानाम् अन्तिके शास्तृ-संज्ञा + उत्पादयितव्या । तत् कस्य हेतोः । न ह्य् अस्माकम् एतज् ज्ञानं प्रवर्त्तते । कतमस्य बोधि-सत्वस्य बोधि-परिपाचकानि + इन्द्रियाणि संविद्यन्ते । कतमस्य न संविद्यन्ते । ततो वयं भगवन्न् अ-जानानास् तथा-रूपेषु हीन-संज्ञाम् उत्पादयेम । तेन वयं क्षण्येम ॥
भगवान् आह । साधु साधु काश्यप सु-भाषिता ते इयं वाक् । इदं च मया काश्यप + अर्थ-वशं सम्पश्यमानेन युष्माकम् एवं धर्मो देशितो । मा भिक्षवः पुद्गलेन पुद्गलं प्रविचेतव्यं । यच् * छीघ्रं क्षण्यति हि भिक्षवः पुद्गलः पुद्गलं प्रविचिन्वन् । अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः । एतेन काश्यप निर्देशेन बोधि-सत्वेन वा श्रावकेण वा सर्व-सत्वानाम् अन्तिके शास्तृ-संज्ञा + उत्पादयितव्या । मा + अत्र कश्-चिद् बोध्i-satva-yआनिकः पुद्गलो भवेत् तेन तत्र + आत्मा रक्षितव्य इति । यस्य तु नियतम् एव बोधि-प्राप्ति-चिह्नम् अस्ति तत्र सुतराम् अवमन्यना रक्षितव्या ॥
यथा + उक्तम् आर्य-सd-dharma-puण्डरीक-सूत्रे । इष्टा-मयान् मृत्तिक-संचितान् वा प्रीताश् च कुर्वन्ति जिनस्य स्तूपान् । उद्दिश्य वा पांशु-कर-आशयो * अपि अटवीषु दुर्-गेषु च कारयन्ति ॥
सिक्ता-मया वा पुन कूट कृत्वा ये के-चिद् उद्दिश्य जिनान स्तूपान् । कुमारकाः क्रीडिषु तत्र तत्र । ते सर्वि बोधाय अभूषि लाभिनः ॥
यावत् ॥
ये चित्र-भित्तीषु करोन्ति विग्रहं । परिपूर्ण-गात्रांश् * छत-पुण्य-लक्षणान् ॥
लिखेत् स्वयं च + अपि लिखापयेद् वा । ते सर्वि बोधाय अभूषि लाभिनः ॥
ये च + अपि के-चित् तर्हि शिक्षमाणाः । क्रीडा-रतिं च + अपि विनोदयन्तः ॥
नखेन काष्ठेन कृतासि विग्रहान् । भित्तीषु पुरुषा + अथ कुमारका वा ॥
सर्वे च ते बोधि अभूषि लाभिनः ॥ पे ॥
वादापिता झल्लरियो * अपि ये ही । जल-मण्डका वा + अप्य् अथ मण्डका वा । सु-गतानम् उद्दिश्यथ पूजना-अर्थं गीतं च गीतं मधुरं मनो-ज्ञं । सर्वे च ते बुद्ध अभूषि लोके ॥
कृत्वा च यां बहु-विध-धातु-पूजां । किम् अल्प-कम्पी सु-गतान धातुषु । एकं पि वादायिय वाद्य-भाण्डम् । पुष्पेण च + एकेन हि पूजयित्वा । अनुपूर्व द्रक्ष्यन्ति हि बुद्ध-कोट्यः । यैश् च + अञ्जलिस् तत्र कृता + अपि स्तूपे । परिपूर्ण एका-तल-शक्तिका वा । ओनामितं शीर्ष भवेन् मुहूर्त्तं । ओनामितं काय तथा + एक-वारं । नमो * अस्तु बुद्धाय कृत-एक-वारं । ये ही तदा धातु-धारेषु तेषु । विक्षिप्त-चित्तैर् अपि यथा + एक-वारं । ते सर्वि प्राप्ता इमम् अग्र-बोधिम् । सु-गतान तेषां तद तस्मि काले । परिनिर्वृतानाम् अथ तिष्ठतां वा । ये धर्म-नाम + अपि शृणूषु सत्वास् । ते सर्वि बोधाय अभूषि लाभिन । इति ॥
महा-करुणा-सूत्रे * अप्य् उक्तं ॥
तद् यथा वाडिशिकेन महत्य् उदक-सरसि मत्स्य-आकर्षण-अर्थं स-आमिषं वडिशं प्रक्षिप्तं भवेत् समनन्तर-प्रक्षिप्तं च मत्स्येन निगीर्णं भवेत् । किं च + अपि स मत्स्य उदक-सरसि भ्रमत्य् अथ च पुनर् वद्ध एव स वक्तव्यो दृढेन सूत्रेण स्थल-गत-दण्ड-सु-निबद्धेन । यत् स वाडिशिक आगत्य तेन सूत्र-लाघवेन जानाति । गृहीतो मत्स्य इति । तम् एनं सूत्राद् गृहीत्वा स्थल-गतं करोति यथा-काम-करणाय परिभोगाय । एवम् एव ये सत्वा बुद्धेषु भगवत्सु चित्तं प्रसाद्य कुशल-मूलम् अवरोपयन्ति । अन्तश एक-चित्त-प्रसादम् अपि । किं च + अपि ते सत्वा दुष्-कृतेन कर्म-आवरणेन + अ-क्षणेषु + उपपन्ना भवन्त्य् अथ च बुद्धा भगवन्तस् तान् सत्वान् बौद्धेन ज्ञानेन संग्रह-वस्तु-सूत्रेण गृहीत्वा संसार-उदक-सरस उद्धृत्य निर्वाण-स्थले स्थापयन्ति + इति ॥
तस्माद् एषु शास्तृ-संज्ञा कार्या । वन्दमानाश् च मनसा वन्दितव्याः । भवति हि नवको * अपि बोध्i-citta-balआद् वन्द्यो । यथा मेघेन द्रमिडेन महा-बोधि-सत्वेन + अपि सता नवक आर्य-सुधनः सर्व-शरीरेण प्रणिपत्य वन्दितः । नियत-अर्थं च + इदं । यथा + अध्याशय-संचोदन-आदिषु सर्व-बोध्i-satva-yआनिक-पुद्गल-नमस्-कारो * अनुज्ञातव्यः । सर्व-शब्देन + आत्मनो * अपि ग्रहणात् । कथम् एकत्र वन्द्य वन्दकत्वं न विरुध्यते । परस्-परं वन्द्यत्वेन + एव + आलम्बनात् । अत एव + अन्-आस्वादनाद् अ-पुण्य-भावः । किं च बुद्धानाम् अप्य् एवम् इष्यते । मा भूद् अन्-अवस्था । एकस्य च + अ-न्यूनता + इति ॥
आर्य-सर्व-धर्म-वैपुल्य-संग्रह-सूत्रे * अप्य् अन्-अर्थ उक्तः । सूक्ष्मं हि मञ्जुश्रीः सd-dharma-pratikषेप-कर्म-आवारणं । यो हि कश्-चिन् मञ्जुश्रीस् तथा-गत-भाषित-धर्मे कस्मिंश्-चिच् * छोभन-संज्ञां करोति । क्व-चिद् अ-शोभन-संज्ञां स सद्-धर्मं प्रतिक्षिपति । तेन सद्-धर्मं प्रतिक्षिपता तथा-गतो * अभ्याख्यातो भवति । धर्मः प्रतिक्षिप्तो भवति । संघो * अपवादितो भवति । य एवं वदति + इदं युक्तम् इदम् अ-युक्तम् इति स सद्-धर्मं प्रतिक्षिपति । न मया पृथक् कश्-चिद् धर्मः श्रावक-यान-संप्रयुक्तः प्रत्य्-एक-बुद्ध-यान-संप्रयुक्तो महा-यान-संप्रयुक्तो देशितः । तत् ते मोह-पुरुषा इमं मम धर्मं नाना-करिष्यन्ति । इदं श्रावकाणां देशितम् इदं प्रत्य्-एक-बुद्धानाम् इदं बोधि-सत्वानाम् इति । स नानात्व-संज्ञया सद्-धर्मं प्रतिक्षिपति । इयं बोधि-सत्वस्य शिक्षा । इयं बोधि-सत्वस्य + अ-शिक्षा + इति सद्-धर्मं प्रतिक्षिपति । धर्म-भाणकस्य + अस्ति प्रतिभानं न + अस्ति प्रतिभानम् इति सद्-धर्मं प्रतिक्षिपति । धर्मं धर्मतया कथयति सद्-धर्मं प्रतिक्षिपति । अपगते बुद्ध-उत्पादे न + अस्ति धारणी-प्रतिलम्भ इति धर्मं प्रतिक्षिपति । न + अस्ति धर्म-भाणकस्य धारणी-प्रतिलम्भ इति धर्मं प्रतिक्षिपति । धर्म-भाणकस्य चर्यां दूषयति धर्मं प्रतिक्षिपति । धर्म-भाणको न प्रतिपत्ति-संपन्न इति धर्मं प्रतिक्षिपति । प्रमादेन + एनं चोदयति सद्-धर्मं प्रतिक्षिपति । ईर्या-पथेन चोदयति सद्-धर्मं प्रतिक्षिपति । अक्षर-चर्यया शील-विपत्त्या चोदयति धर्मं प्रतिक्षिपति । प्रतिभानेन संपादयति + इति धर्मं प्रतिक्षिपति
। आलोको * अस्य धर्माणां न सु-विदित इति धर्मं प्रतिक्षिपति । मन्त्रेण मन्त्रम् अ-बुध्यमानः प्रतिवदति + इति धर्मं प्रतिक्षिपति । अक्षर-संज्ञ्या तथा-गत-शासनं न + अवगाहत इति धर्मं प्रतिक्षिपति । सूत्रेण सूत्रं विरोधयति + इति धर्मं प्रतिक्षिपति । गाथया गाथां विरोधयति + इति धर्मं प्रतिक्षिपति । अक्षर-संज्ञया कञ्-चिद् अधिमुक्तं करोति कञ्-चिन् न करोति + इति धर्मं प्रतिक्षिपति । धर्म-भणकस्य + अर्थान्य् अ-कथाम् अभिनामयति + इति धर्मं प्रतिक्षिपति । वि-चक्षुः कर्म + अस्य करोति धर्मं प्रतिक्षिपति । संलापयन् वदति + इति धर्मं प्रतिक्षिपति । इह + अस्य + अस्ति चर्या इह + अस्य न + अस्ति चर्या + इति धर्मं प्रतिक्षिपति । इदं सु-उक्तम् इदम् अ-सु-उक्तम् इति धर्मं प्रतिक्षिपति । अनेन न + अस्ति चर्या + इति धर्मं प्रतिक्षिपति । अनेन बुद्ध-वचन-समय उक्तो न + अनेन बुद्ध-वचन-समय उक्त इति धर्मं प्रतिक्षिपति इति हि मञ्जुश्रीर् यावत् किञ्-चिद् विलोपयति तावद् धर्मं प्रतिक्षिपति । धर्म-भाणकस्य + इदं रूपम् इति चिन्तयति वदति भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा । सर्वः स सद्-धर्मं प्रतिक्षिपति + इत्य् आदि ॥
अत्र + एव च + उक्तं । यस्य कस्य-चित् कुल-पुत्र तथा-गतस्य परिनिर्वृतस्य धर्मः प्रतिभाति यथा + अधिमुक्तानां सत्वानां देशयितुं । तस्यां च पर्षदि यद्य् एक-सत्वस्य + अपि एक-रोम-हर्षो भवेद् एक-अश्रु-पातो वा सर्वः स तथा-गत-अनुभावेन । तत्र मोह-पुरुषा अ-बोधि-सत्वा बोध्i-satva-pratijञा बोध्i-satva-dऊषका धर्म-स्तैन्य-कुहका एवं वक्ष्यन्ति धर्म-उपदेशकेभ्यः । किम् एते । न बुध्यन्तए इति ॥ पे ॥
ये बोधि-सत्वेष्व् अवमन्यनां कुर्वन्ति । न + अहं तेषां पर्यन्त-कृतं निरयं संवदामि । तत् कस्य हेतोः । यो बोधि-सत्वो धर्म-भाणकम् अपवादति बुद्धं स विगर्हति धर्मं स प्रतिक्षिपति संघं स जुगुप्सति । बुद्धे सो * अ-गौरवो यो धर्म-भाणके * अ-गौरवः । बुद्धं स न द्रष्टु-कामो यो धर्म-भाणकम् अ-द्रष्टु-कामः । बुद्धस्य सो * अ-वर्णं भाषते यो धर्म-भाणकस्य + अ-वर्णं भाषते । बुद्धस् तेन परित्यक्तो भवति यः प्रथम-चित्त-उत्पादिके * अपि बोधि-सत्वे प्रतिघ-चित्तं करोति + इति ॥ पे ॥
यो * अप्य् अयं मैत्रेय षट्-पारमिता-समुदागमो बोधि-सत्वानां संबोधाय तं ते मोह-पुरुषा एवं वक्ष्यन्ति । प्रज्ञा-पारमितायाम् एव बोधि-सत्वेन शिक्षितव्यं । किं शेषाभिः पारमिताभिः । ते * अन्यां पारमितां दूषयितव्यां मन्यन्ते । तत् किं मन्यसे * अजित दुष्-प्रज्ञः स काशि-राजा + अभूद् येन कपोत-अर्थं श्येनाय स्व-मांसानि दत्तानि । मैत्रेय आह । न + उ हि + इदं भगवन् । भगवान् आह । यानि मया मैत्रेय बोध्i-satva-caryआं चरता षट्-पारमिता-प्रतिसंयुक्तानि कुशल-मूलान्य् उपचितानि अपकृतं नु तैः कुशल-मूलैः ॥
मैत्रेय आह । न + उ हि + इदं भगवन् ॥
भगवान् आह । त्वं तावद् अजित षष्टिं कल्पान् दान-पारमितायां षष्टिं कल्पान् शील-पारमितायां षष्टिं कल्पान् क्षान्ति-पारमितायां षष्टिं कल्पान् वीर्य-पारमितायां षष्टिं कल्पान् ध्यान-पारमितायां षष्टिं कल्पान् प्रज्ञा-पारमितायां समुदागतः । तत् ते मोह-पुरुषा एवं वक्ष्यन्ति । एक-नयेन + एव बोधिर् यद् उत शून्यता-नयेन + इति । ते चर्यासु परिशुद्धा भविष्यन्ति + इत्य् आदि ॥
इति शिक्षा-समुच्चये चतुर्थः परिच्छेदः ॥
[v. अनर्थविवर्जन]
शील-पारमितायाम् अन्-अर्थ-वर्जनं पञ्चमः परिच्छेदः ॥
उक्तः संक्षेपतो * अन्-अर्थः । तस्य विवर्जनं यथा + अध्यशय-संचोदन-सूत्रे । एवं-विध-अन्-अर्थ-श्रवण-भय-भीरुकैः आdi-karmika-bodhi-satvaiः समादानानि यथा गृहीतानि तथा कार्यं । एवं हि तैर् उक्तं । एते वयं भगवन्न् अद्य + अग्रेण तथा-गतस्य पुरतः । एवं समादानं कुर्मः । सचेद् वयं भगवन्न् अद्य + अग्रेण बोध्i-satva-yआनिकं पुद्गलं गृहिणं वा प्रव्रजितं वा + आपत्त्या चोदयिष्यामो भूतेन वा + अ-भूतेन वा विसंवादितो * अस्माभिस् तथा-गतो * अर्हन् सम्यक्-संबुद्धो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण बोध्i-satva-yआनिकं पुद्गलम् अवमन्येम + अ-वर्णं च + अस्य भाषेम विसंवादितो * अस्माभिस् तथा-गतो भवेद् अर्हन् सम्यक्-संबुद्धः । सचेद् वयं भगवन्न् अद्य + अग्रेण बोध्i-satva-yआनिकं पुद्गलं गृहिणं वा प्रव्रजितं वा पञ्चभिः काम-गुणैः क्रीडन्तं परिचारयन्तं दष्ट्वा + अ-प्रसादं कुर्याम विलेखं वा चित्तस्य + उत्पादयेम + अ-गौरवं वा + उत्पादयेम न च तत्र शास्तृ-संज्ञाम् उत्पादयेम । विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण मित्र-कुल-भिक्षाद् अ-कुल-निदानं बोध्i-satva-yआनिकानां पुद्गलानां काय-पीडां चित्त-पीडां वा कुर्याम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण बोध्i-satva-yआनिकं पुद्गलं दृष्ट्वा एकेन + अप्य् अ-मनो-ज्ञ-वचनेन + आभाषेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण त्रिस्-कृत्वो रात्रेः त्रिस्-कृत्वो दिवस्य बोध्i-satva-yआनिकं पुद्गलं न नमस्येम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं
भगवन्न् अद्य + अग्रेण + अस्य व्रत-समादानस्य कृतशो राज्य-प्रतिलम्भं वा धन-प्रतिलम्भं वा काय-जीवितं वा न परित्यजेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण श्रावक-यानिकं वा प्रत्य्-एक-बुद्ध-यानिकं वा पुद्गलम् अवमन्येम । वयं विशिष्टतरा न + एते इति विसंवादितो * अस्माभिस् तथा-गतो भवेत् ।सचेद् वयं भगवन् नीच-चित्ताश् चण्डाल-सदृश-चित्ता न विहरेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण + आत्मानम् उत्कर्षयेम परं वा पंसयेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण व्यापाद-विग्रह-भयाद् योजनं वा योजन-शतं वा न पलायेम ईरिताः समाना विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण शीलवन्तम् आत्मानं प्रतिजानीम बहु-श्रुतं वा धुत-गुणिनं वा + अन्यतर-अन्यतरेण वा गुणेन + आत्मानम् उद्भावयेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण प्रतिच्छन्न-कल्याणा विवृत-पापा न विहरेम विसंवादितो * अस्माभिस् तथा-गतो भवेद् अर्हन् सम्यक्-संबुद्धः ॥ पे ॥
तत्र भगवान् मैत्रेयं बोधि-सत्वं महा-सत्वम् आमन्त्रयते स्म । कर्म-आवरणं मैत्रेय क्षपयितु-कामेन कुल-पुत्रेण वा कुल-दुहित्रा वा एवं समादानं कर्तव्यं यथा एभिः कुल-पुत्रैः कृतम् इति ॥
सर्व-धर्म-अ-प्रवृत्ति-निर्देशे * अप्य् आह ॥
तृष्-कृत्व रात्रिं दिवसं तथा + एव । स बोधि-सत्वान् प्रणमेत मूर्ध्ना । तेषां न किञ्-चित् स्खलितं गवेषेत् । चरेत चर्यां हि सदा यथा-इष्टम् ॥
पश्येद् यदा काम-गुणै रमन्तं । न तस्य किञ्-चित् स्खलितं गवेषेत् । गुणैर् अन्-अन्तां वर बोधि-चर्यां । एषो * अपि कालेन हितां स्पृशेत ॥
युक्त्या + अनुपूर्व्या क्रियया + अनुपूर्व्या । भवेज् जिनो न + एव हि एक-वाचा । बहु-कल्प-कोट्यो नियुतानि च + एष । सन्नाह-संप्रस्थितनान्य् अ-भावी ॥
अत्र + एव + आह । ये कुल-पुत्र + एवं-रूपेण कर्म-आवरणेन + अन्-अर्थिकाः । तैर् न द्वितीयस्य बोधि-सत्वस्य सर्व-चर्यासु विप्रतिपत्तव्यं । सर्वाः क्रियास् तस्य विमोक्तव्याः । एवं चित्तम् उत्पादयितव्यं । न + अहं पर-चित्तं जाने दुर्-विज्ञेया सत्व-चर्या । इदं च खलु कुल-पुत्र + अर्थ-वशं संपश्यंस् तथा-गत एवं धर्मं देशयति । न पुद्गलेन पुद्गलः प्रमातव्यः ॥
अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः ॥
यः कुल-पुत्र + आत्मानं रक्षितु-कामस् तेन न कस्य-चिच् चर्या विवेचयितव्या । न परेषां विकुट्टना कर्तव्या । अयम् ईदृशो * अयम् ईदृश इति । बुद्ध-धर्म-अभियुक्तेन भवितव्यं रात्रिं दिवं धर्म-पलिगुद्ध-मानसेन + इति ॥
तथा क्षितिगर्भ-सूत्रे * अपि कथितं । अथ तावद् एव बहूनि शत-सहस्राणि विद्वांसः सत्वा उत्थाय + आसनाद् येन भगवांस् तेन + अञ्जलिं प्रणम्य + एवम् आहुः । वयं भदन्त भगवतः पुरत एवं प्रणिधानं कुर्मः यावच् चिरं वयं भदन्त भगवन् संसारे संसरेम तावन् मात्र प्रतिलब्ध-क्षान्ति-कामा राज-स्थानं प्रतिलभेम । मा + अमात्य-स्थानं । मा नगर-ज्येष्ठ-स्थानं । मा ग्राम-ज्येष्ठ-स्थानं । मा निगम-ज्येष्ठ-स्थानं । मा पुरोहित-ज्येष्ठ-स्थानं मा भट्ट-ज्येष्ठ-स्थानं । यावन् मा स-अर्थ-वाह-ज्येष्ठ-स्थानं । मा + उपाध्याय-ज्येष्ठ-स्थानं । मा श्रमण-ज्येष्ठ-स्थानं । मा गृह-पति-ज्येष्ठ-स्थानं । मा कुटुम्बि-ज्येष्ठ-स्थानं यावत् सर्वशो वयं मा सत्वानाम् अधिपति-स्थानं प्रतिलभेम यावन् न क्षान्ति-प्रतिलब्धाः स्याम । यतो निदानं वयम् एवं-रूपम् अति-गाढं कर्म बुद्धानां शासनम् आक्षिपेम । इति विस्तरः ॥
चन्द्र-प्रदीप-सूत्रे * अप्य् अन्-अर्थ-विवर्जनम् उक्तम् । न + अस्ति पापम् अ-कर्तव्यं कुमारा तेषु भेष्यति । मा तेहि संस्तवं सार्द्धं कुर्याः त्वं कालि पश्चिमे ॥
आलपे संलपेय्यासि कुर्यासी तेष्व् अ-गौरवं । आनालीनः सत्-करेय्यास्य् अग्र-बोधयि कारणात् ॥
वर्ष-अग्रं परिपृच्छित्वा यस् ते वृद्धतरो भवेत् । कुर्यासि गौरवं तत्र शिरसा पाद-वन्दनैः ॥
न तेषां स्खलितं पश्येद् बोधि-मण्डं विपश्यतां । प्रतिघातं न जनयेत् मैत्र-चित्तः सदा भवेत् ॥
यद्य् एषां स्खलितं पश्येद् दोषांस् तेषां न कीर्तयेत् । यादृशं काहिति कर्म तादृशं लप्स्यते फलं ॥
स्मितेन मुख-चन्द्रेण वृद्धेषु नवकेषु च । पूर्व-आभाषी भवेन् नित्यं हत-मानश् च सर्वतः ॥
चीवरैः पिण्ड-पातैश् च कुर्यात् तेषाम् अनुग्रहं । एवं चित्तं प्रदध्यास् त्वं सर्वे भेष्यन्ति नायका । इति ॥
यस्य च बोध्i-citta-utpआदिके गौरवं प्रसादश् च न + उत्पद्येते । तेन स्व-दुर्-गति-प्रपात-भय-रक्षा-अर्थं दृष्ट-अ-दृष्ट-प्रामोद्य-अनुभवन-अर्थं स्व-चित्त-कलुष-प्रसादन-अर्थं चित्त-कल्यता-चित्त-कर्मण्यता-प्रतिलाभ-अर्थं च यथा + आर्य-गण्ड-व्यूहे बोध्i-citta-utpआदिक-गुणा भगवद्-आर्य-मैत्रेयेण + आचार्य-सुधनम् अधिकृत्य + उद्भावितास् तथा भावयितव्याः ॥
एष दृष्ट्व जर-व्याधि-पीडितान् प्राणिनो दुष्ख-शतैर् उपद्रुतान् । जन्म-मृत्यु-भय-शोक-तापितान् तेष अर्थि चरते क्र्पा-आशयः ॥
दुष्ख-यन्त्र-परिपीडितं जगत् दृष्ट्व पञ्च-गत्i-cakra-maण्डले । ज्ञान-वज्र-मयम् एष ते दृढं दुष्ख-यन्त्र-गत्i-cakra-bhedanaं ॥
राग-दोष-तृण-खाणु-कण्टकं दृष्टि-संग-बहु-कक्ष-संकुलम् । सत्व-क्षेत्र-परिशोधन-अर्थिकः प्रज्ञ-लाङ्गल-दृढं गवेषते ॥
मोह-विद्य-गहन-आशयं जगत् प्रज्ञ-चक्षु-हत-नष्ट-दैशिकं । तस्य क्षेम दिश-दैशिकः प्रभुः स-अर्थ-वाह जगतो भविष्यति ॥
क्षान्त्i-dharma-tri-vimokष-वाहनो ज्ञान-खड्ग-रिपु-क्लेश-धर्षकः । शूर-सूत अ-भयस्य दायको दैशको हि जगतो भविष्यति ॥
धर्म-नाव समुदानयत्य् अयं ज्ञान-सागर-पथे सु-शिक्षितः । शान्त्i-ratna-vara-dvईप-नायकः कर्ण-धार त्र्i-bhava-arणवे अयम् ॥
ज्ञान-रश्मि-प्रणिधान-मण्डलः सर्व-सत्व-भवन-अवभासकः । धर्म-धातु-गगने समुद्गतो बुद्ध-सूर्य समुदेश्यते अयम् ॥
मैत्र्i-candana-samआधि-शीतलः सर्व-सत्व-सम-चित्त-सु-प्रभः । शुक्ल-धर्म-परिपूर्ण-मण्डलो बुद्ध-चन्द्र समुदेश्यते अयम् ॥
आशये दृढ-तले प्रतिष्ठितो बोधि-चर्य अनुपूर्व उद्गतः । सर्व-धर्म-रतन-आकरो ह्य् अयं ज्ञान-सार-वरो भविष्यति ॥
बोध्i-citta-bhuja-ga-indra-saंभवो धर्म-धातु-गगने समुद्गतः । धर्म-मेघ-युगपत्-प्रवर्षणः सर्व-शुक्ल-फल-शस्य-वर्धनः ॥
शुद्धि वर्त्ति त्र्i-mala-ttamo * अप्य् अहं मैत्र्i-sneha-smऋति-भाजनं दृढम् । बोध्i-citta-vi-mala-agni-su-prabham धर्म-दीप समुज्ज्वालयिष्यति ॥
बोध्i-citta-kalalaः कृपा-अर्बुदो मैत्र-पेशिर् अ-चल-आशयो घनः । बोधि अङ्गम् अनुपूर्व-संभवो बुद्ध-गर्भ अयु संप्रवर्धते ॥
पुण्य-गर्भम् अभिवर्द्धयिष्यति प्रज्ञ-गर्भम् अभिशोधयिष्यति । ज्ञान-गर्भ समुदेश्यते अयं यादृशः प्रणिध्i-garbha-saंभवः ॥
ईदृशाः करुण-मैत्र-धर्मिताः सत्व-मोचन मती हित-आशयां । दुर्-लभा जगि स्-देव-मानुषे यादृशो * अयु विशुद्ध-मानसः ॥
ईदृश-आशय-सु-मूल-संस्थितो ईदृशो दृढ-प्रयोग-वर्द्धितः । ईदृशस् त्र्i-bhava-chआदन-प्रभो ज्ञान-वृक्ष-फल-दः सु-दुर्-लभः ॥
एष सर्व-गुण-संभव-अर्थिकः सर्व-धर्म-परिपृच्छन-अर्थिकः । सर्व-संशय-विदारण-अर्थिकः सर्व-मित्र भजते अ-तन्द्रितः ॥
एष मार-कलि-क्लेश-सूदनो एष दृष्ट्i-mala-kleश-शोधनः । एष सर्व-जग-मोक्षण-उद्यतो एष ते सद विशेष पण्डितः ॥
एष दुर्-गति विशोधयिष्यति स्वर्ग-मार्गम् उपदर्शयिष्यति । मोक्ष-मार्गम् उपनेष्यते जगद् यादृशे गुण-पथे प्रतिष्ठितः ॥
एष सर्वत-दुष्ख-मोचको । एष सर्व-गत्i-saukhya-dआयकः । एष सर्व-भय-पाश-छेदको । भेष्यते भगवती-निसूदन । इति ॥
एवम् अनया भावनया + अन्-अर्थ-विवर्जनं सु-करं भवति । तथा + अध्याशय-सञ्चोदन-सूत्रे * अप्य् अन्-अर्थ-विवर्जनम् उक्तं । चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोध्i-satva-yआनिकः पुद्गलः पश्चिमायां पञ्चशत्यां सd-dharma-vipralopए वर्तमाने * अ-क्षतो * अन्-उपहतः स्वस्तिना परिमोक्ष्यते ॥
कतमैश् चतुर्भिः । आत्म-स्खलित-प्रत्यवेक्षणतया । परेषां बोध्i-satva-yआनिकानां पुद्गलानाम् आपत्त्य-चोदनतया । मित्र-कुल-भिक्षाद् अ-कुल-अन्-अवलोकनतया । अ-मनस्क-वचन-प्रतिविरमणतया । एभिर् मैत्रेय चतुर्भिर् इति पूर्व-वत् ॥
अ-परैश् चतुर्भिः । कतमैः । अल्प-श्रुत-सत्व-परिवर्जनतया । पर्षd-an-upआदानतया । प्रान्त-शय्या-आसन-निषेवणतया च । आत्म-दम-शमथ-योगम् अनुयुक्ततया च । एभिश् चतुर्भिर् इति विस्तरः ॥
पुनर् अत्र + एव + आह । आदि-कर्मिकेण मैत्रेय बोधि-सत्वेन प्रज्ञा-बल-आधान-प्राप्तेन लाभ-सत्-कार-परिवर्जितेन लाभ-सत्-कार-दोष-दर्शिना भवितव्यं ॥ पे ॥
संगणिका-आराम-परिवर्जितेन संगणिका-आराम-दोष-दर्शिना भवितव्यं । भाष्य-आराम-परिवर्जितेन भाष्य-आराम-दोष-दर्शिना भवितव्यं । निद्रा-आराम-वर्जितेन निद्रा-आराम-दोष-दर्शिना भवितव्यं । कर्म-आराम-वर्जितेन कर्म-आराम-दोष-दर्शिना भवितव्यं । प्रपञ्च-आराम-वर्जितेन प्रपञ्च-आराम-दोष-दर्शिना भवितव्यं ॥ पे ॥
इह मैत्रेय बोधि-सत्वेन महा-सत्वेन राग-संजननो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । स्मृति-विध्वंसन-करो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । लाभ-अ-लाभतया उन्नाम-अवनाम-करो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । मोह-उत्पादनो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । कुल-मात्सर्य-अध्यवसानो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । आत्म-अर्थ-निष्पादनतया शाठ्य-उत्पादनो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । चतुर्-आर्य-वंश-परिवर्जनतया आह्रीक्य-अन्-अपत्राप्य-संजननो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । एवं सर्व-बुद्ध-अन्-अनुज्ञानो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । मान-मद-उत्पादनो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । गुरूणाम् अवमाननो लाभ-सत्-कारः । मार-पक्षो लाभ-सत्-कारः । एक-अन्त-प्रमाद-मूलः कुशल-मूल-अपहरणो लाभ-सत्-कारः । विद्युc-cakra-aशनि-सदृशो लाभ-सत्-कारः । बहु-पलिगोध-पलिगुद्धो मित्र-कुल-भिक्षाद् अ-कुल-अवलोकनो दौर्मनस्य-संजननः । बुद्धि-विभ्रामणो लाभ-सत्-कारः प्रिय-वस्तु-परिणामनतया शोक-भाजनो लाभ-सत्-कारः ।चतुः-स्मृत्य्-उपस्थान-संमोषणः शुक्ल-धर्म-दुर्-बली-करणः चतुः-सम्यक्-प्रहाण-परिहाण-करणो लाभ-सत्-कारः । ऋद्ध्य्-अभिज्ञा-परिहाण-करणः । पूर्वं सत्-कार-पश्चाद् अ-सत्-कार-करणः । अ-मित्र-सत्-करण-मित्र-प्रहाणो लाभ-सत्-कारः । पर-अभिसंधानतया गणिका-सदृशः । ध्यन-अ-प्रमाण-परिवर्जनः । नरक-तिर्यग्-योन्i-yama-loka-prapआतनो लाभ-सत्-कारः । देवदत्त-उद्रक-समाचारो लाभ-सत्-कारः प्रत्यवेक्षितव्यः ॥
ime evaṃ-rūpā maitreya lābha-sat-kāre ādīnavā ye bodhi-satvena pratyavekṣitavyāḥ | pratyavekṣya ca + alpa-icchatāyāṃ rantavyaṃ na paritaptavyaṃ | tat kasya hetoḥ | alpa-icchasya hi maitreya imae evaṃ-rūpā doṣā na bhavanti na ca + asya + antarāyā bhavanti buddha-dharmāṇāṃ | a-nirviṇṇaś ca bhavati gṛhi-pravrajitebhyaḥ | anurakṣaṇīyaś ca bhavati deva-manuṣyāṇāṃ pariśuddha-āśaya-sthitaḥ | a-saṃtrastaś ca bhavati sarva-dur-gati-nipātebhyaḥ | an-abhibhūtaś ca bhavati tarjanā-vigataḥ | a-saṃhāryaś ca bhavati māra-viṣaya-vimuktaḥ | a-dharṣaṇīyaś ca bhavati sarva-vyasanaiḥ | abhilaṣaṇīyaś ca bhavati deva-manuṣyāṇāṃ dhyāna-abhyāsa-avasthitaḥ [doubtful] | spaṣṭaś ca bhavati māyā-śāṭhya-prahīṇo * a-pramattaś ca bhavati pañca-kāma-guṇa-doṣa-darśī yathā-vādī tathā-kārī bhavaty ārya-vaṃśe sthitaḥ | abhilaṣitaś ca bhavati vidvadbhiḥ sa-brahma-cāribhiḥ | imāṃ maitreya evaṃ-rūpām anuśaṃsāṃ viditvā paṇḍitena bodhi-satvena + adhyāśayena + alpa-icchatāyāṃ rantavyaṃ | alpa-icchatā āsevitavyā sarva-lābha-sat-kara-prahāṇāya + iti ||
संगणिकाम् अधिकृत्य + आह । विजह्य रागं विजह्य दोषं न तिष्ठते संगणिकासु योगी । भवत्य् असौ तत्-प्रवणस् तन्-निम्नः । एतेन दोषेण रतिं न कुर्यात् । औद्धत्य हास्यं च तथा वितर्का । भवन्त्य् अमी संगणिकासु सर्वे ॥
संकीर्ण-चारी हि भवत्य् अ-संवृतः । करोति यः संगणिकाम् अ-साराम् ॥
लोकस्य मन्त्रेषु रमन्ति बाला । हीयन्ति च + इह + अग्र-कथासु बालाः । प्रदोष वर्धेन्ति वितर्क उत्सदा । एतेन दोषेण न तत्र राजते ॥
न वर्धते च + अपि श्रुतेन भिक्षुः । अ-युक्त-मन्त्रेषु रतिं जनित्वा । तस्मात् परित्यज्य अ-युक्त-मन्त्रान् । धर्मे रतिं विन्दथ नित्य-कालम् ॥
सहस्रशो * अष्ठानि मया स्वकानि । त्यक्तानि बोधिं प्रतिकाङ्क्ष तर्हि । न च + अस्मि तृप्तः शृणुमान धर्मं । ते खेदम् एष्यन्ति शृणोन्त धर्मम् ॥
सर्वेण सर्वं परिवर्जनीया । अ-युक्त-मन्त्राश् च अ-शिष्ट-मन्त्राः । धर्मे वरे तत्र रतिं जनेथ । यो दुर्-लभः कल्प-शतैर् अन्-एकैः ॥
वने वसन्तेन गुण-अर्थिकेन । परस्य दोषा न हि वीक्षितव्याः । अहं विशिष्टो * अहम् एव श्रेष्ठो । न एव चित्तं समुपादनीयम् ॥
मदो * अयं सर्व-प्रमाद-मूलो । न हीन-भिक्षू अवमन्यितव्याः । अनुपूर्व एषो इह शासनस्य । न + एकेन जन्मेन लभते बोधिम् ॥
अत्र + इव भाष्य-आरामम् अधिकृत्य + आह । अ-गौरवो भोति श्रुतेन मत्तो । विवाद-मन्त्रेषु निविष्ट भोति । मुषित-श्रुतिश् च + अपि अ-संप्रजन्यो । भाष्ये रमन्तस्य इमे हि दोषाः ॥
adhyātma-cintā + atta [doubtful] su-dūra bhotī | cittaṃ na kāyaś ca prasanna bhoti | unnāma-nāmāni bahūni gacchatī | bhāṣye ramantasya ime hi doṣāḥ ||
सd-dharma-cittआत् तु प्रणष्टु बालाः । सु-कर्कशो भोति अ-स्निग्ध-चित्तः । विपश्यनायाः शमथाच् च दूरे । भाष्ये रमन्तस्य इमे हि दोषाः ॥
अ-गौरवो भोति सदा गुरूणां । पलिगोध-मन्त्रेषु रतिं जनित्वा । अ-सार-स्थायी परिहीण-प्रज्ञो । भाष्ये रमन्तस्य इमे हि दोषाः ॥
अ-मानितो देव-गुणैः स भोति । न + अप्य् अस्य तस्मिन् स्पृह संजनन्ति । प्रतिसंविदातो भवती विहीनो । भाष्ये रमन्तस्य इमे हि दोषाः ॥
paribhāṣyate ca + api sa paṇḍitebhiḥ | ye ka-cid astī pṛthakāya-sākṣī [doubtful] | nir-arthakaṃ jīvitu tasya bhotī | bhāṣye ramantasya ime hi doṣāḥ ||
स शोचते कालु करोतु बालः । प्रतिपत्ति हीनो * अस्मि किम् अद्य कुर्यां । सु-दुष्खितो भोति अ-लब्ध-गाधो । भाष्ये रमन्तस्य इमे हि दोषाः ॥
चल-अ-चलो भोति तृणं यथा + ईरितं । विचिकित्सते एवम् असौ न संशयः । न तस्य जातू दृढ बुद्धि भोती । भाष्ये रमन्तस्य इमे हि दोषाः ॥
नटा यथा तिष्ठति रङ्ग-मध्ये । अन्यान शूराण गुणान् प्रभाषते । स्वयं च भोती प्रतिपत्ति-हीनो । भाष्ये रमन्तस्य इमे हि दोषाः ॥
शठश् च सो भोति लघु-निर्-आशः । पुनः पुनश् च + आरभते विवादम् । सो दूरतो आर्य-धर्मस्य भोती । भाष्ये रमन्तस्य इमे हि दोषाः ॥
संहृष्यते सत्-क्र्ट अल्प-स्थामः । प्रकम्पते विप्रकृतो * अजानी । कपिर् यथा चञ्चल-चित्त भोती । भाष्ये रमन्तस्य इमे हि दोषाः ॥ पे ॥
रमित्व भाष्यस्मि चिरं पि कालं । न विन्दते प्रीतिम् इह + आत्म-सौख्यं । वरं हि एकस्य पदस्य चिन्तना । प्रीतिं पदे यत्र लभेद् अन्-अन्तम् ॥
न + इक्षु-त्वचे सारम् इह + अस्ति किञ्-चिन् । मध्ये * अस्ति तत्-सार सु-प्रेमणीयः । भुक्त्वा त्वचं न + इह पुनः सशक्यं । लब्धुं नरेण + इक्षु-रसं प्रधानम् ॥
yathā tvacaṃ tad-vad avaihi bhāṣyaṃ | yathā rasas tad-vad iha + artha-cintā [doubtful] | tasmād * dhi bhāṣye tu ratiṃ vihāya | cintetha arthaṃ sada a-pramattāḥ ||
निद्रा-आरामम् अधिकृत्य + आह । महच् च सो वर्धति मोह-जालं । विचिकित्सको भोति स दृष्टि-प्राप्तः ॥
दृष्टी-कृतान्य् अस्य बहूनि भोन्ती । यस्मान मिद्धे * अभिरतिं प्रयाति ॥
प्रज्ञा च तेषां भवती सु-दुर्-बला । परिहीयते बुद्धि न तस्य भोति । ज्ञानाच् च सो हीयति नित्य-कालं । यस्मान मिद्धे * अभिरतिं प्रयाति ॥
कुसीद अ-ज्ञो * अ-लसो * अ-प्रज्ञो * अ-मनुष्य अवतार लभेन्ति तस्य । विहेठयन्ते च वने वसन्तं यस्मान मिद्धे * अभिरतिं प्रयाति ॥
कुशलेन चित्तेन सदा अन्-अर्थिको । धर्मे च छन्दो न हि भोति तस्य । अ-धर्म-कायश् च स भोति भूयो यस्मान मिद्धे * अभिरतिं प्रयाति ॥
सd-dharma-chandena विहीन-मूढः परिहोयते सर्व-गुणेहि बालः । शुक्लं च घातेति तमो * अधिगच्छती । यस्मान मिद्धे * अभिरतिं प्रयाति ॥
अ-विशारदो भोति प्रलीन-चित्तः । प्रामोद्य तस्य + उ भवती न नित्यं । निद्रया + अपग्रस्तः शिथिल-अङ्ग भोती । यस्मान मिद्धे * अभिरतिं प्रयाति ॥
आत्मा तु ज्ञात्वा च कुसीद-प्राप्तः ईर्ष्यायते वीर्य-बलैर् उपेतान् । वीर्य-अन्वितानां च अ-वर्ण भाषते यस्मान मिद्धे * अभिरतिं प्रयाति ॥ पे ॥
यत् सर्व-दुष्खस्य तमस्य नाशनं । अपाय-परिवर्जनतया मूलं । सर्वेहि बुद्धैर् हि सदा प्रशस्तं । तं वीर्यम् आर्यं सततं भजस्व ॥
कर्म-आरामम् अधिकृत्य + आह ॥
सु-दुर्-वचो भोति गुरूभि चोदितः । प्रदक्षिणं गृह्णति न + अनुशासनं । विपन्न-शीलश् च स भोति क्षिप्रं । दोषा अमी कर्म-रते भवन्ति ॥
उत्कण्ठितो भोति स नित्य-कालं । गृह-स्थ-कर्माणि सदा विचिन्तयन् । ध्यान-प्रहाणैश् च न तस्य कृत्यं । दोषा अमी कर्म-रते भवति ॥
तीव्रश् च संजायति तस्य रागो । रस-अ-रसेषु ग्रसितः स मूर्च्छितः । न तुष्यते * असाव् इतर-इतरेण । दोषा अमी कर्म-रते भवन्ति ॥
महत्या च भोती परिषाय तुष्ठो । स दुष्खितो भोति तया विहीनः । संकीर्ण भोती सयथा + इह गर्दभो । दोषा अमी कर्म-रते भवन्ति ॥ पे ॥
दिवा च रात्रौ च अन्-अन्य-चित्तो । भक्ते च चोडे च भवत्य् अभीक्ष्णं । स्v-an-arthiko भोति गुणैः स सर्वदा । दोषा अमी कर्म-रते भवन्ति ॥
कृत्यान्य् असौ पृच्छति लौकिकानि । अ-युक्त-मन्त्रैश् च रतिं प्रयाति । युक्तैश् च मन्त्रैः स न विन्दते रतिं । दोषा अमी कर्म-रते भवन्ति ॥ पे ॥
अथ खलु मैत्रेयो बोधि-सत्वो महा-सत्वो भगवन्तम् एतद् अवोचत् । सु-परीत्त-प्रज्ञास् ते भगवन् बोधि-सत्वा भविष्यन्ति विहीन-प्रज्ञा ये * अग्र-धर्मान् वर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते ॥
एवम् उक्ते भगवान् मैत्रेयं बोधि-सत्वं महा-सत्वम् एतद् अवोचत् । एवम् एतन् मैत्रेय । एवम् एतद् यथा वदसि सु-परीत्त-प्रज्ञास् ते बोधि-सत्वा भविष्यन्ति ये * अग्र-धर्मान् परिवर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते । अपि त्व् आरोचयामि ते मैत्रेय प्रतिवेदयामि ते । न ते बोधि-सत्वास् तथागत-शासने प्रव्रजिता येषां न + अस्ति योगो न + अस्ति ध्यानं न + अस्ति प्रहाणं न + अस्त्य् अध्ययनं न + अस्ति बाहुश्रुत्य-पर्येष्टिः । अपि तु मैत्रेय ध्यान-प्रहाण-प्रभावितं तथा-गत-शासनं ज्ञान-संस्कृतं ज्ञान-समाहितं अभियोग-प्रभावितं । न गृह्i-karma-anta-vaiyआपृत्य-प्रभावितं । अ-युक्त-योगानाम् एतत् कर्म संसार-अभिरतानां यद् उत वैयापृत्यं लौकिक-कृत्य-पलिगोधः । न तत्र बोधि-सत्वेन स्पृहा + उत्पादयितव्या । सचेन् मैत्रेय वैयापृत्य-अभिरतो बोधि-सत्वः सप्त-रत्न-मयैः स्तूपैर् इमं त्रि-साहस्र-महा-साहस्रं लोक-धातुं पूरयेत् । न + अहं तेन + आराधितो भवेयं न मानितो न + अपि सत्-कृतः ॥
पे । तत्र जम्बू-द्वीपः पूरितः स्याद् वैयापृत्य-करैर् बोधि-सत्वैः । सर्वैस् तैर् एकस्य + उद्देश-स्व-अध्याय-अभियुक्तस्य बोधि-सत्वस्य + उपस्थान-परिचर्या करणीया । जम्बू-द्वीप-प्रमाणैश् च + उद्देश-स्व-अध्याय-अभियुक्तैर् बोधि-सत्वैर् एकस्य प्रतिसंलयन-अभियुक्तस्य बोधि-सत्वस्य + उपस्थान-परिचर्या कर्तव्या ॥ पे ॥
तत् कस्य हेतोः । दुष्-करम् एतत् कर्म यद् उत प्रज्ञा-कर्म । उत्तरं निर्-उत्तरं सर्व-त्रैलोक्य-प्रतिविशिष्टम् अभ्युद्गतं तस्मात् तर्हि मैत्रेय बोधि-सत्वेन योग-अर्थिकेन वीर्यम् आरब्धु-कामेन प्रज्ञायाम् अभियोक्तव्यम् इति ॥
प्रपञ्च-आरामम् अधिकृत्य + आह । अष्ट-अ-क्षणा तस्य न भोन्ति दूरे । क्षण-संपदा तस्य न भोति श्रेष्ठा । एते अन्-अर्था स्य भवन्ति नित्यं । दोषा अमी तस्य प्रपञ्च-चारिणः ॥ पे ॥
दोषान् इमान् सम्यग् अवेत्य पण्डितः सर्वान् प्रपञ्चान् परिवर्जीत । सु-लभा अन्-अर्था हि प्रपञ्च-चारिणः । तस्मात् प्रपञ्चेन न संवसेत ॥
यायाच् * छतं योजनकं परं वरं । यत्र प्रपञ्चो स्तिय विग्रहो वा । न तत्र वासं न निकेतु कुर्यान् मुहूर्त्त-मात्रं स्तिय यत्र क्लेशः ॥
न + अर्थ-अर्थिकाः प्रव्रजिता गुण-अर्थिका । मा विग्रह कुर्वथ दुस्त-चित्ताः । न वो * अस्ति क्षेत्रं न कृषिर् वणिज्या । स्युर् यस्य अर्थाय प्रपञ्च एते ॥
न पुत्र धीता न च वो * अस्ति भार्या । न च + अस्य मित्रं न च बन्धु-वर्गः । दास्यो न दासा न च ईश्वरत्वं । मा विग्रहं कुर्वथ प्रव्रजित्वा ॥
काषाय-वस्त्राणि गृहीत्व श्रद्धया । शान्त-प्रशान्तैर् हि निषेवितानि । शान्त-प्रशान्ता उपशान्त भोथ । प्रपञ्च वर्जित्व जनेथ क्षान्तिम् ॥
आशी-विषान् रक्षथ रौद्र-चित्तान् । नरकाश् च तिर्यग् विषयो यमस्य । प्रपञ्च-चारस्य न भोन्ति दूरे । तस्माद् * धि क्षान्तौ जनयेत वीर्यम् ॥ पे ॥
इमेन योगेन लभेत शुद्धिं । क्षपयित्व कर्म-आवरणं अ-शेषं । धर्षेति मारं स-चलं स-वाहनं यो धीरु तस्य + एव जनेति क्षान्तिम् । इति ॥
संक्षेपतस् तत्र + अन्-अर्थ-विवर्जनम् उक्तं । तस्मात् तर्हि मैत्रेय बोध्i-satva-yआनिकेन कुल-पुत्रेण वा कुल-दुहित्रा वा पश्चिमायां पञ्च-शत्यां सd-dharma-pralope वर्तमाने * अ-क्षतन-अन्-उपहतेन स्वस्तिना परिमोक्तु-कामेन सर्व-कर्म-आवरणानि क्षपयितु-कामेन + अ-संसर्ग-अभिरतेन भवितव्यम् अरण्य-वन-प्रान्त-वासिना + अन्-अभियुक्त-सत्व-परिवर्जितेन + आत्म-स्खलित-गवेषिणा पर-स्खलित-अ-गवेषिणा तुष्णी-भाव-अभिरतेन प्रज्ञा-पारमिता-विहार-अभिरतेन + इति ॥
आर्य-रत्न-मेघे * अप्य् अन्-अर्थ-वर्जनम् उक्तं । तावत् पिण्डाय चरति यावद् अस्य कार्यस्य प्राप्तिर् भवति । अन्यत्र येषु स्थानेषु चण्डा वा कुक्कुरास् तरुण-वत्सा वा गावः प्रकृति-दुः-शीला वा तिर्यग्-योनि-गता । विहेठन-अभिप्राया वा स्त्री-पुरुष-दारक-दारिका जुगुप्सितानि वा स्थानानि । तानि सर्वेण सर्वं वर्जयति + इति ॥
अनेन + एतद् दर्शितं भवति यद् दृष्टे * अपि बाधा-कर एवं-विधे । तद् अ-वर्जयत आपत्तिर् भवति + इति ॥
अथ यद् एवम्-आद्य् अन्-अर्थ-वर्जनम् उक्तं केन + एतल् लभ्यते सर्व-निष्-फल-स्यन्द-वर्जनात् । फलम् अत्र पर-अर्थं । तद्-अर्थं यः स्यन्दो न संवर्तते । स निष्-फलत्वाद् वर्जयितव्यः ॥
यथा चन्द्र-प्रदीप-सूत्रे काय-संवर-मध्ये पठ्यते । न हस्त-लोलुपो भवति न पाद-लोलुपः हस्त-पाद-संयत इति ॥
तथा दश-धर्मक-सूत्रे * अपि देशितं हस्त-विक्षेपः पाद-विक्षेपो * अ-धावनं परिधावनं लङ्घनं प्लवनम् इदम् उच्यते काय-दौष्ठुल्यम् इति ॥
आर्य-धर्म-संगीति-सूत्रे तु यथा बोधि-सत्वानां पर-अर्थाद् अन्यत् कर्म न कल्पते । तथा स्पष्टम् एव परिदीपितं यत् किञ्-चिद् भगवन् बोधि-सत्वानां काय-कर्म यत् किञ्-चिद् वाक्-कर्म यत् किञ्-चिन् मनस्-कर्म तत् सर्वं सत्व-अवेक्षितं प्रवर्तते महा-करुणा-अधिपतेयं सत्व-हित-अधिष्ठान-निमित्तं सर्व-सत्व-हित-सुख-अध्याशय-प्रवृत्तं । स एवं हित-आशयः एवं संज्ञी-भवति । स मया प्रतिपत्तिः प्रतिपत्तव्यया सर्व-सत्वानां हित-आवहा सुख-आवहा च ॥ पे ॥
आयतनेषु शून्य-ग्राम-वत् प्रत्यवेक्षणा प्रतिपत्तिः । न च + आयतन-परित्यागं स्पृहयति + इति ॥
आर्य-गगन-गञ्ज-सूत्रे * अप्य् उक्तं । तद् यथा + अपि नाम छिद्रान् मारुतः प्रविशति । एवम् एव यतो यत एव चित्तस्य छिद्रं भवति ततस् तत एव मारो * अवतारं लभते । तस्मात् सदा + अ-छिद्र-चित्तेन बोधि-सत्वेन भवितव्यं ।तत्र + इयम् अ-छिद्र-चित्तता यद् इदं सर्व-आकार-ज्ञतायाः शून्यतायाः परिपूरिर् इति ॥
का पुनर् इयं सर्व-आकार-वर-उपेता शून्यता । या + इयं बोध्i-satva-caryआया अ-परित्यागेन + अभ्यस्यमाना । अभ्यस्ता वा । सर्व-भाव-शून्यता । एषा च रत्न-चूड-सूत्रे विस्तरेण + आख्याता ॥
तथा + अक्षयमति-सूत्रे * अपि दर्शितं । पापकानाम् अ-कुशलानां धर्माणां प्रहाणाय छन्दं जनयति + इत्य् अत्र प्रस्तावे यानि च + अन्यानि पुनः कानि-चिद् अन्यान्य् अपि चित्त-विक्षेप-कराणि यानि समाधि-स्कन्धस्य विपक्षाय संवर्तन्ते । अयम् उच्यते समाधि-विपक्षः । यावद् इमे उच्यन्ते पापका अ-कुशला धर्मा इति ॥
शिक्षा-समुच्चये शील-पारमितायाम् अन्-अर्थ-विवर्जनं पञ्चमः परिच्छेदः ॥
[vi. आत्मभावरक्षा]
आत्म-भाव-रक्षा षष्ठः परिच्छेदः । उक्तं निष्-फल-स्यन्द-वर्जनं । कथम् एतत् सिध्येद् इत्य् आह । एतत् सिध्येत् सदा स्मृत्या + इति ॥
द्वादश + इमाः स्मृतयो निष्-फल-स्यन्द-वर्जनया संवर्तन्ते । यद् उत । तथा-गत-आज्ञा-अन्-अतिक्रम-अनुपालन-विपाक-गौरव-स्मृतिः । सर्व-कायस्य निश्-चल-स्व-भावता-प्रतिष्ठितता-अनुस्मृतिः । सति सत्व-अर्थे यद् अङ्गम् अन्-उपयोगि तद् दृढतर-स्मृत्य्-अपेक्षा-निश्-चल-माध्य-छन्द-पर-आपत्ती-कृतं सर्व-धीर-चेष्टा-स्मृतिः । न च + अस्य भय-उत्सव-आदि-संबन्ध-संभ्रमे * अङ्ग-मुक्त-स्मृतिः । ईर्या-पथ-चतुष्क-आक्षेप-निरूपण-स्मृतिः । अन्तर-अन्तरा च + ईर्या-पथ-विकोप-आरक्षण-अर्थम् ईर्या-पथ-संपद्-अवलोकन-स्मृतिः । भाषण-काले च + अति-प्रसाद-औद्धत्य-संरम्भ-पक्ष-पात-आदि-वशाद् अति-मात्र-अ-प्रासादिक-हस्त-पाद-शिरो-मुख-विकार-नियमन-स्मृतिः । यः श्रोता वक्तव्यः स यावन्-मात्रेण ध्वनिना + अर्थं जानाति । तd-an-atirekeण स्वरेण भाषण-स्मृतिर् अन्यत्र पर-आशङ्का-दोष-संभवात् । अ-शिक्षित-जन-समागम-सङ्कटे स्व-चित्त-तc-citta-prasआदन-आदि-तात्पर्य-स्मृतिः । चित्त-मत्त-द्वि-पस्य शमथ-स्तम्भे नित्य-बद्ध-स्मृतिः । मुहुर् मुहुश् च चित्त-अवस्था-प्रत्यवेक्षणा-स्मृतिः । महा-जन-संपातं प्रायो * अन्य-कार्य-त्यागेन + अपि यथा-उक्त-स्मृति-रक्षा-तात्पर्य-स्मृतिर् इति ॥
एवम् एताभिः स्मृतिभिर् निष्-फल-स्यन्दन-वर्जनं सिध्यति । सा च स्मृतिस् तीव्र-आदराद् भवेत् । तत्र + आदरः कार्येषु सर्व-भावेन + अभिमुख्यम् । अवज्ञा-प्रति-पक्षः । अयं च + आदरः शमथ-माहात्म्यं ज्ञात्वा तात्पर्येण जायते । कस् तावद् अयं शमो नाम । य आर्य-अक्षयमति-सूत्रे शमथ उक्तः ॥
तत्र कतमा शमथ-अ-क्षयता । या चित्तस्य शान्तिर् उपशान्तिर् अ-विक्षेप-केन्द्रिय-संयमः । अन्-उद्धतता । अन्-उन्नहनता अ-चपलता अ-चञ्चलता सौम्यता गुप्तता कर्मण्यता आजानेयता एक-अग्रता एक-आरामता संगणिका-वर्जनता विवेक-रतिः काय-विवेकश् चित्त-अ-विभ्रमो * अरण्य-मुख-मनसि-कारता + अल्प-इच्छता । यावद् ईर्या-पथ-गुप्तिः काल-ज्ञता समय-ज्ञता मात्र-ज्ञता मुक्ति-ज्ञता । सु-भरता सु-पोषता + इत्य्-आदि ॥
किं पुनर् अस्य शमस्य माहात्म्यं यथा-भूत-ज्ञान-जनन-शक्तिः । यस्मात् समाहितो यथा-भूतं प्रजानाति + इत्य् अवदन् मुनिः ॥
यथा + उक्तं धर्म-संगीतौ । समाहित-मनसो यथा-भूत-दर्शनं भवति । यथा-भूत-दर्शिनो बोधि-सत्वस्य सत्वेषु महा-करुणा प्रवर्तते । एवं च + अस्य भवति । इदं मया समाधि-मुखं सर्व-धर्म-यथा-भूत-दर्शनं च सर्व-सत्वानां निष्पादयितव्यं । स तया महा-करुणया संचोद्यमानो * अधि-शीलम् अधि-चित्तम् अधि-प्रज्ञं च शिक्षां परिपूर्यां चतुरां सम्यक्-संबोधिम् अभिसंबुध्यते । तस्मान् मया शील-सु-स्थितन-अ-प्रकम्पेन + अ-शिथिलेन भवितव्यम् इति । इदं शमथ-माहात्म्यम् आत्मनः परेषां च + अन्-अन्त-अपाय-आदि-दुःख-समतिक्रम-अन्-अन्त-लौकिक-लोक-उत्तर-सुख-संपत्-प्रकर्ष-पार-प्राप्त्य्-आत्मकम् अवगम्य तद्-अभिलाषेण + आतापो भावयितव्यः । आदीप्त-गृह-अन्त-गतेन + इव शीतल-जल-अभिलाषिणा । तेन तीव्र आदरो भवति शिक्षासु । तेन + अपि स्मृतिर् उपतिष्ठति । उपस्थित-स्मृतिर् निष्-फलं वर्जयति । यश् च निष्-फलं वर्जयति तस्य + अन्-अर्था न संभवन्ति । तस्माद् आत्म-भावं रक्षितु-कामेन स्मृति-मूलम् अन्विष्य नित्यम् उपस्थित-स्मृतिना भवितव्यं ॥
अत एव + उग्र-परिपृच्छायां गृहिणं बोधि-सत्वम् अधिकृत्य + उक्तं । सुरा-मैरेय-मद्य-प्रमाद-स्थानात् प्रतिविरतेन भवितव्यम् अ-मत्तेन + अन्-उन्मत्तेन + अ-चपलेन + अ-चञ्चलेन + अ-संभ्रान्तेन + अ-मुखरेण + अन्-उन्नडेन + अन्-उद्धतेन + उपस्थिति-स्मृति-संप्रजन्येन + इति ॥
अत्र + एव च प्रव्रजित-बोधि-सत्वम् अधिकृत्य + उक्तं स्मृति-संप्रजन्यस्य + अ-विक्षेप इति ॥
तत्र स्मृतिः आर्य-रत्न-चूड-सूत्रे * अभिहिता । यया स्मृत्या सर्व-क्लेशानां प्रादुर्-भावो न भवति । यया स्मृत्या सर्व-मार-कर्मणाम् अवतारं न ददाति । यया स्मृत्या उत्पथे वा कु-मार्गे वा न पतति । यया स्मृत्या दौवारिक-भूतया सर्वेषाम् अ-कुशलानां चित्त-चैतसिकानां धर्माणाम् अवकाशं ददाति + इयम् उच्यते सम्यक्-स्मृतिर् इति ॥
saṃprajanyaṃ tu prajñā-pāramitāyām uktaṃ | caraṃś carāmi + iti prajān-ti | sthitaḥ sthito * asmi + iti prajānāti | śayanaḥ śayita iti prajānāti | niṣaṇṇo niṣaṇṇo * asmi + iti prajānāti | yathā yathā ca + asyaḥ [doubtful] kāyaḥ sthito bhavati tathā tathā + eva prajānāti ||
पे॥
सो * अतिक्रामन् वा प्रतिक्रामन् वा संप्रजानंश् चारी भवति । आलोकिते विलोकिते संमिञ्जिते प्रसारिते संघाटी-पट्ट-पात्र-चीवर-धारणे । अशिते पीते खादिते निद्रा-क्लम-प्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तुष्णी-भावे प्रतिसंलयने संप्रजानंश् चारी भवति + इति ॥
शीलं हि समाधि-संवर्तनीयं ॥
यथा + उक्तं चन्द्र-प्रदीप-सूत्रे । क्षिप्रं समाधिं लभते निर्-अङ्गणं । विशुद्ध-शीले * अस्मिन्न् आनुशंस इति ॥
अतो * अवगम्यते ये के-चित् समाधि-हेतवः प्रयोगास् ते शील-अन्तर्-गता इति । तस्मात् समाध्य्-अर्थिना स्मृति-संप्रजन्य-शीलेन भवितव्यं । तथा शील-अर्थिना + अपि समाधौ यत्नः कार्यः तत्र + एव सूत्रे वचनात् । ध्यान-अनुशंसेषु हि पठ्यते । न + असौ भोति अन्-आचारो आचारो सु-प्रतिष्ठितः । गो-चरे चरते योगी विवर्जेति अ-गोचरं ॥
निष्-परिदाह-विहारी गुप्त इन्द्रिय-संवृत । इति ॥
एताभ्यां च शील-समाधिभ्याम् अन्यो-न्य-संवर्धन-कराभ्यां चित्त-कर्म-परिनिष्पत्तिः एतावती च + इयं बोधि-सत्व-शिक्षा यद् उत चित्त-परिकर्म । एतन्-मूलत्वात् सर्व-सत्व-अर्थानां ॥
उक्तं ह्य् आर्य-रत्न-मेघे । चित्त-पूर्वङ्-गमाश् च सर्व-धर्माः । चित्ते परिज्ञाते सर्व-धर्माः परिज्ञाता भवन्ति । अपि तु चित्तेन नीयते लोकः चित्तं चित्तं न पश्यति । चित्तेन चीयते कर्म शुभं वा यदि वा + अ-शुभम् ॥
चित्तं भ्रमते * अलात-वत् । चित्तं भ्रमते तुरङ्-ग-वत् । चित्तं दहते देव-अग्नि-वत् । चित्तं हरते महा-अम्बु-वत् ॥
स एवं व्युपपरीक्षमाणश् चित्ते सु-उपस्थित-स्मृतिर् विहरति न चित्तस्य वशं गच्छति । अप् तु चित्तम् एव + अस्य वशं गच्छति । चित्तेन + अस्य वशी-भूतेन सर्व-धर्मा वशी-भवन्ति + इति ॥
तथा + आर्य-धर्म-सङ्गीति-सूत्रे * अप्य् उक्तं । मति-विक्रमो बोधि-सत्व आह । यो * अयं धर्मो धर्म इत्य् उच्यते न + अयं धर्मो देश-स्थो न प्रदेश-स्थो * अन्यत्र स्व-चित्त-अधीनो धर्मः तस्मान् मया स्व-चित्तं स्व्-आराधितं स्व्-अधिष्ठितं सु-समारब्धं सु-निगृहीतं कर्तव्यं । तत् कस्य हेतोः । यत्र चित्तं तत्र गुण-दोषाः । न + अस्ति निश्-चित्ततायां गुण-दोषः । तत्र बोधि-सत्वो दोषेभ्यश् चित्तं निवार्य गुणेषु प्रवर्तयति ॥
तद् उच्यते । चित्त-अधीनो धर्मो धर्म-अधीना बोधिर् इति ॥
अयं भगवन् धर्मं समादानः सुख-अभिसंबोधाय संवर्ततए इति ॥
आर्य-गण्ड-व्यूह-सूत्रे * अपि वर्णितं । स्व-चित्त-अधिष्ठानं सर्व-बोध्i-satva-caryआ स्व-चित्त-अधिष्ठानं सर्व-सत्व-परिपाक-विनयः ॥ पे ॥
तस्य मम कुल-पुत्र + एवं भवति । स्व-चित्तम् एव + उपस्तम्भयितव्यं सर्व-कुशल-मूलैः । स्व-चित्तम् एव + अभिष्यन्दयितव्यं धर्म-मेघैः । स्व-चित्तम् एव परिशोधयितव्यम् आवरणाय धर्मेभ्यः । स्व-चित्तम् एव दृढी-कर्तव्यं वीर्येण + इत्य् आदि ॥
तथा + अत्र + एव माया-देव्य्--अ-दर्शन-आकुली-भूते आर्य-सुधने रत्न-नेत्राया नगर-देवतायास् तद्-दर्शन-अर्थम् इयम् अनुशासनी । चित्त-नगर-परिपालन-कुशलेन ते कुल-पुत्र भवितव्यं सर्व-संसार-विषय-रत्य्-अ-संवसनतया । चित्त-नगर-अलं-कार-प्रयुक्तेन ते कुल-पुत्र भवितव्यं दश-तथा-गत-बल-अध्यालम्बनतया । चित्त-नगर-परिशोधन-प्रयुक्तेन ते कुल-पुत्र भवितव्यम् ईर्ष्या-मात्सर्य-शाठ्य-अपनयनतया । चित्त-नगर-विवर्धन-अभियुक्तेन ते कुल-पुत्र भवितव्यं सर्व-ज्ञता-संभार-महा-वीर्य-वेग-विवर्धनतया । चित्त-नगर-दुर्-योधन-दुर्-आसदता-अभिनिर्हार-प्रयुक्तेन ते कुल-पुत्र भवितव्यं सर्व-क्लेश-मार-कायिक-पाप-मित्र-मार-चक्र-अन्-अवमर्दनतया । चित्त-नगर-प्रविस्तरण-प्रयुक्तेन ते कुल-पुत्र भवितव्यं महा-मैत्री-सर्व-जगत्-स्फुरणतया । चित्त-नगर-प्रतिच्छादन-प्रयुक्तेन ते कुल-पुत्र भवितव्यं विपुल-धर्म-च्छत्र-सर्व-अ-कुशल-धर्म-प्रतिपक्ष-अभिनिर्हरणतया । चित्त-नगर-विवरण-प्रयुक्तेन ते कुल-पुत्र भवितव्यं आध्यात्मिक-बाह्य-वस्तु सर्व-जगत्-संप्रापणतया । चित्त-नगर-दृढ-स्थाम-अभिनिर्हर-प्रयुक्तेन ते कुल-पुत्र भवितव्यं सर्व-अ-कुशल-धर्म-स्व-सन्तत्य्-अ-वसनतया । यावद् एवं चित्त-नगर-विशुद्ध्य्-अभियुक्तेन कुल-पुत्र बोधि-सत्वेन शक्यं सर्व-कुशल-मूल-समार्जनम् अनुप्राप्तुं । तत् कस्य हेतोः । तथा हि तस्य बोधि-सत्वस्य + एवं चित्त-नगर-परिशुद्धय्स सर्व-आवरणानि पुरतो न संतिष्ठन्ते । बुद्ध-दर्शन-आवरणं वा धर्म-श्रवण-आवरणं वा + इत्य् आदि । तस्माद् व्यवस्थितम् एवं । चित्त-परिकर्म + एव बोधि-सत्व-शिक्षा + इति । तच् च + अ-चपल-चेतसः ॥
शमाच् च न चलेच् चित्तं बाह्य-चेष्टा-निवर्तनात् ॥
अ-संप्रजन्य-पर-तन्त्रस्य मुषित-स्मृतेश् च चित्तं चलति समीहिताद् आलम्बनाद् अन्यत्र नीयमानत्वात् । यदा तु स्मृति-संप्रजन्येन बाह्याश् चेष्टा निवर्तिता भवन्ति तदा तद्-वशत्वाद् एकस्मिन्न् आलम्बने निबद्धं यावद् इष्यते तावत् तिष्ठति । ततश् च पूर्व-वद् अनुशंस-विस्तरः । अद्यत्वे * अपि च सत्व-अर्थ-क्षमो भवत्य् एव प्रसाद-करत्वात् । कथं ॥
सर्वत्र + अ-चपल-मन्द-मित-स्निग्ध-अभिभाषणात् । आवर्जयेज् जनं भव्यम् आदेयश् च + अपि जायते ॥
एतद् एव च बोधि-सत्वस्य कृत्यम् यद् उत सत्व-अ-वर्जनं । यथा + आर्य-धर्म-संगीति-सूत्रे । आर्य-प्रियदर्शेन बोधि-सत्वेन परिदीपितं । तथा तथा भगवन् बोधि-सत्वेन प्रतिपत्तव्यं यत् सह-दर्शनेन + एव सत्वाः प्रसीदेयुः । तत् कस्माद् * धेतोः । न भगवन् बोधि-सत्वस्य + अन्यत् करणीयम् अस्त्य् अन्यत्र सत्व-अ-वर्जनात् । सत्व-परिपाक एव + इयं भगवन् बोधि-सत्वस्य धर्म-संगीतिर् इति ॥
एवं पुनर् अ-क्रियमाणे को दोष इत्य् आह । अन्-आदेयं तु तं लोकः परिभूय जिन-अङ्कुरं । भस्म-छन्नो यथा वह्निः पच्येत नरक-आदिषु ॥
यथा प्राग् उपदर्शितं ॥
येन च + अस्य परिभव एवम् अन्-अर्थो रत्न-मेघे जिनेन + उक्तस् तेन संक्षेप-संवरः ।येन + अ-प्रसादः सत्वानां तद् यत्नेन विवर्जयेद् इति ॥
यथा + आह । कतमे च ते बोध्i-satva-samudआचाराः । यावद् इह बोधि-सत्वो न + अ-स्थाने विहरति न + अ-काले । न + अ-काल-भाणी भवति न + अ-काल-ज्ञो भवति न + अ-देश-ज्ञो भवति । यतो निदानम् अस्य + अन्तिके सत्वा अ-प्रसादं प्रतिवेदयेयुः । स सर्व-सत्व-अनुरक्षया । आत्मनश् च बोधि-संभार-परिपूरण-अर्थं संपन्न-ईर्या-पथो भवति मृदु-भाणी मन्द-भाणी । अ-संसर्ग-बहुलः । प्रविवेक-अभिमुखः । सु-प्रसन्न-मुख इति ॥
अत एव धर्म-संगीति-सूत्रे देशितं । यः सत्वान् रक्षति स शीलं रक्षति + इति । अनया कनीयेन मातृ-ग्रामेण सह रहो-अवस्था-आदिषु लोक-रक्षा च कृता स्यात् । एवं भोग्येषु जल-स्थलेषु मूत्र-पुरीष-श्लेष्म-पूय-आदीनां कुत्सितानां रहस्य् अ-रहसि च + उत्सर्गं न कुर्याद् देव-मनुष्य-चित्त-रक्षा-अर्थं ॥
सd-dharma-smऋत्य्-उपस्थाने च रह उत्सिष्टं कृत्वा + अन्-उत्सिष्ट-आहारेष्व् अ-ददतः प्रेत-गतिः पठ्यते ॥
तथा बोध्i-satva-prआतिमोक्षे * अप्य् अ-प्रसाद-परिहार उक्तः । न पुरतो दन्त-काष्ठं खादितव्यं न पुरतः खेटे निक्षिप्तव्य इति । एष च गौरव-लज्जा-विधिः सर्व-द्रष्टव्यो न ब्रह्म-चारिष्व् एव । अत्र तु सूत्रे ब्रह्म-चार्य्--अधिकारः तेषु गुरुतर-आपत्त्i-bhaya-saंदर्शन-अर्थं ॥
यथा + अत्र + एव + आह । न + उच्चैर्-भाषिणा भवितव्यम् इति ॥
न च + अयं विधिः प्रादेशिकः । तथा ब्रह्म-परिपृच्छायाम् अप्य् उक्तं न च वध-सदृशेन बोधि-सत्वेन भवितव्यम् इति । तथा प्रातिमोक्षाद् अपि लोक-अ-प्रसाद-करम् अन्वेष्य वर्जनीयं । तन् न तावद् ॥
मुख-पूरं न भुञ्जीत स-शब्दं प्रसृत-आननः । प्रलम्ब-पादं न + आसीत न बाहुं मर्दयेत् समम् ॥
एवं स्वयम् अप्य् उत्प्रेक्ष्य दृष्ट्वा श्रुत्वा च लोक-अ-प्रसादं रक्षेत । अ-प्रसाद-कर-वचन-वर्जनं तु न सु-करम् इति स्मरण-बोधन-अर्थम् उपदर्श्यते । आर्य-सागरमति-सूत्रे देशितं । न + अवलीन-वचनो भवति । न व्यवकीर्ण-वचनः । न + अवस्यन्दन-वचनः । न + उज्ज्वालन-वचनः । न राग-अनुनीत-वचनः । न प्राकृत-वचनः । न + अ-संरक्षित-वचनः । न व्यापाद-संधुक्षण-वचनः । न चञ्चल-वचनः । न चपल-वचनः । न रट-रङ्ग-वचनः । न मुख-साक्ष्य्--अवरोपण-वचनो भवति + इति ॥
आर्य-तथा-गत-गुह्य-सूत्रे * अप्य् आह । न खलु पुनः कुल-पुत्र बोधि-सत्वस्य वाग् रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा । क्षुण्ण-व्याकरणा वा स्व-पक्ष-उत्कर्षण-वचना वा । पर-पक्ष-निग्रह-वचना वा । आत्म-वर्ण-अनुनय-वचना वा । पर-वर्ण-प्रतिघ-वचना वा । प्रतिज्ञा-उत्तारण-वचना वा । आभिमानिक-व्याकरण-वचना वा + इति ॥
ārya-daśa-bhūmaka-sūtre * apy uktaṃ | yā + iyaṃ vāga-mano-jñā sva-santāna-para-santāna-vināśanī tathā-rūpāṃ vācaṃ prahāya | yā + iyaṃ vāk snigdhā mṛdvī mano-jñā madhurā priya-karaṇī mana-apakaraṇī [doubtful] hita-karaṇī karṇa-sukhā hṛdayaṃ-gamā premaṇī varṇa-viṣpaṣṭā vijñeyā śravaṇīyā a-niśritā bahu-jana-kāntā bahu-jana-priyā bahu-jana-mana-āpā [doubtful] vijña-praśastā sarva-satva-hita-sukha-āvahā mana-utplāva-karī manaḥ-prahlādana-karī sva-para-santāna-pramodana-karī rāga-dveṣa-moha-sarva-kleśa-āpraśāmanī tathā-rūpāṃ vācaṃ niścārayati | yāvad itihāsa-pūrvakam api vacanaṃ parihārya pariharati + iti ||
आर्य-गगन-गञ्ज-सूत्रे तु + उक्तं । गुरु-वचन-अन्-अवमर्दनतया । पर-वचन-अन्-आच्छिन्दनतया च + आदेय-ग्राह्य-वचनो भवति + इति ॥
धर्म-संगीति-सूत्रे * अप्य् उक्तं । गगनगञ्जो बोधि-सत्व आह । न बोधि-सत्वेन + एषा वाग् भाषितव्या यया + अ-परो व्यापद्येत । न सा वाग् भाषितव्या यया + अ-परं तापयेत् । न बोधि-सत्वेन सा वाग् भाषितव्या यत् परो जानीयात् । न सा वाग् भाषितव्या यया + अर्था निर्-अर्था । न बोधि-सत्वेन सा वाग् भाषितव्या यया न विद्याम् उत्पादयेत् । न सा वाग् भाषितव्या या सत्वानां न हृदयं-गमा न पौरी न कर्ण-सुखा न सा वाग् भाषितव्या + इति ॥
संक्षेपतस् तु पर-अ-प्रसाद-रक्षा आर्य-सागरमति-सूत्रे देशिता । अ-पर एक धर्मो महा-यान-संग्रहाय संवर्तते स्व-स्खलित-प्रत्यवेक्षणतया सर्व-सत्व-अनुरक्षा + इति ॥
एषा रक्षा + आत्म-भावस्य । यथा + अ-परैर् न नाश्येत । यथा न परान् न नाशयेत् । अस्य तु ग्रन्थ-विस्तरस्य + अयं पिण्ड-अर्थो बोधि-सत्वेन मनसा नित्यं धारयितव्यः ॥
सु-निश्-चलं सु-प्रसन्नं धीरं स-आदर-गौरवं । स-लज्जं स-भयं शान्तं पर-आराधन-तत्-परम् ॥
आत्म-सत्व-वशं नित्यम् अन्-अवद्येषु वस्तुषु । निर्माणम् इव निर्-मानं धारयाम्य् एष मानसम् । इति ॥
किम् एतावती आत्म-भाव-रक्षा । न हि । किं तर्हि भैषज्य-वसन-आदिभिः सह । तत्र द्वि-विधं भैषज्यं । सतत-भैषज्यं ग्लान-प्रत्यय-भैषज्यं च । तत्र सतत-भैषज्यम् अधिकृत्य + आर्य-रत्न-मेघे * अभिहितं । तस्मात् पिण्ड-पात्राद् एकं प्रत्य्-अंशं स-ब्रह्म-चारिणां स्थापयति । द्वितीयं दुष्खितानां तृतीयं विनिपतितानां चतुर्थम् आत्मना परिभुङ्क्ते । परिभुञ्जानो न रक्तः परिभुङ्क्ते अ-सक्तो * अ-गृद्धो * अन्-अध्यवसितः । अन्यत्र यावद् एव कायस्य स्थितये । यापनायै । तथा परिभुङ्क्ते यथा न + अति-संलिखितो भवति । न + अत्i-guru-kआयः । तत् कस्य हेतोः । अति-संलिखितो हि कुशल-पक्ष-पराङ्-मुखो भवति । अत्i-guru-kआयो मिद्ध-अवष्टब्धो भवति । तेन तं पिण्ड-पातं परिभुज्य कुशल-पक्ष-अभिमुखेन भवितव्यम् इत्य् आदि ॥
ārya-ratna-rāśāv apy uktaṃ | tena grāmaṃ vā nagaraṃ vā nigamaṃ vā piṇḍāya caratā dharma-saṃnāhaṃ saṃnahya piṇḍāya cartavyaṃ | tatra katamo dharma-saṃnāhaḥ | a-mana-āpāni [doubtful] rūpāṇi dṛṣṭvā na pratihantavyaṃ | mana-āpāni [doubtful] dṛṣṭvā na + anunetavyaṃ | evaṃ mana-āpa-a-mana-āpeṣu [doubtful] śabda-gandha-rasa-spraṣṭavyeṣu vijñapteṣu na + anunetavyaṃ na pratihantavyaṃ | indriya-su-saṃvṛtena + an-utkṣipta-cakṣuṣā yuga-mātra-prekṣiṇā | dānta-ājāneya-cittena pūrva-dharma-manasi-kāram an-utsṛjatā na + āmiṣa-prakṣiptayā santatyā piṇḍāya cartavyaṃ sa-avadāna-cāriṇā ca bhavitavyaṃ | yataś ca piṇḍa-pāto labhyate tatra + anunayo na kartavyaḥ yataś ca na labhyate tatra pratighāto na + utpādayitavyaḥ | daśa-kula-praveśe na ca + ekādaśāt kulād bhikṣā na labhyate | tathā + api na paritaptavyaṃ evaṃ ca cittam utpādayitavyam | evaṃ bahu-kṛtyā hy ete śramaṇa-brāhmaṇa-gṛha-patayo na tair a-vaśyaṃ mama dātavyaṃ | idaṃ tāvad āścaryaṃ yan mām ete samanvāharanti | kaḥ punar vādo yad bhikṣāṃ dāsyanti | tena + evam a-paritapatā piṇḍāya cartavyaṃ ||
ये च + अस्य सत्वाश् चक्षुषु आभासम् आगच्छन्ति स्त्री-पुरुष-दारक-दारिकाः । अन्तशस् तिर्यग्-योनि-गतास् तत्र मैत्री-करुणा-चित्तम् उत्पादयितव्यं । तथा + अहं करिष्यामि यथा ये मे सत्वाश् चक्षुषा आभासम् आगच्छन्ति पिण्ड-पातं वा दास्यन्ति तान् सु-गति-गामिनः करिष्यामि । तादृशं योगम् आपत्स्ये । तेन लूहं वा प्रणीतं वा पिण्ड-पात संगृह्य समन्ताच् चतुर्-दिशं व्यवलोकयितव्यं । क इह ग्राम-नगर-निगमे दरिद्रः सत्वः । यस्य + अस्मात् पिण्ड-पातात् संविभागं करिष्यामि । यदि दरिद्रं सत्वं पश्यति तेन तत्-पिण्ड-पातात् संविभागः कर्तव्यः । अथ न कञ्-चित् सत्वं दरिद्रं पश्यति । तेन + एवं चित्तम् उत्पादयितव्यं । सन्त्य् अन्-आभास-गताः सत्वा ये मम चक्षुषु आभासं न + आगच्छन्ति । तेषाम् इतः पिण्ड-पाताद् अग्रं प्रत्य्-अंशं निर्यातयामि । दत्त-आदानाः परिभुञ्जतां । तेन तत् पिण्ड-पातं गृहीत्वा तद् अरण्य-आयतनम् अभिरुह्य धौत-पाणिना शोभन-समाचारेण श्रमण-चारित्र-कल्प-समत्व-आगतेन + अधिष्ठान-अधिष्ठितेन पर्यङ्कं बद्ध्वा स-पिण्ड-पातः परिभोक्तव्यः ॥ पे ॥
परिभुञ्जता च + एवं मनसि-कार उत्पादयितव्यः । सन्त्य् अस्मिन् काये * अशीतिः क्र्imi-kula-sahasrआणि । तान्य् अनेन + एव + ओजसा सुखं फासुं विहरन्तु । इदानीं च + एषाम् आमिषेण संग्रहं करिष्यामि । बोधि-प्राप्तश् च पुनर् धर्मेण संग्रहं करिष्यामि । यदि पुनर् अस्य लूहं पिण्ड-पातं भवति तेन + एवं चित्तम् उत्पादयितव्यं । लूह-आहारतया मे लघुः कायो भविष्यति प्रहाण-क्षम उच्चार-प्रस्राव-निष्यन्दनश् च मे परीत्तो भविष्यति । श्रद्धा-देयं च परीत्तं भविष्यति । काय-लघुता चित्त-लघुता च मे भविष्यति । अल्प-म्लान-मिद्धश् च मे भविष्यति । यदा पुनर् अस्य प्रभूतः पिण्ड-पातो भवति तत्र + अपि मात्र-आभोजिना भवितव्यं उत्सर्जन-धर्मिणा च । ततः पिण्ड-पाताद् अन्यतरायां शिलायाम् अवतीर्य + एवं चित्तम् उत्पादयितव्यं । ये के-चिन् मृग-पक्षि-संगा आमिष-भोजनेन + अर्थिकास् ते दत्त-आदानाः परिभुञ्जताम् इति ॥
पुनर् आह । तेन सर्वेण रस-संज्ञा न + उत्पादयितव्या ॥ पे ॥
चण्डाल-कुमार-सदृशेन मया भवितव्यं । चित्त-काय-चौक्षेण । न भोजन-चौक्षेण । तत् कस्माद् * धेतोः । कियत्-प्रणीतम् अपि भोजनं भुक्तं । सर्वं तत् पूति-निष्यन्द-पर्यवसानं दुर्-गन्ध-पर्यवसानं प्रतिकूल-पर्यवसानं । तस्मान् मया न प्रणीत-भोजन-आकाङ्क्षिणा भवितव्यं । तेन न + एवं चित्तम् उत्पादयितव्यं ।पुरुषो मे पिण्ड-पातं दद्-ति न स्त्रीः । स्त्री मे पिण्ड-पातं ददाति न पुरुषः । दारको मे पिण्ड-पातं ददाति न दारिका । दारिका मे पिण्ड-पातं ददाति न दारकः । प्रणीतं लभे * अहं न लूहं । सत्-कृत्य लभे * अहं न + अ-सत्-कृत्य । चपलं लभे * अहं न कृच्छ्रेण प्रविष्ट-मात्रं च मां समन्वाहरेयुः । न मे कश्-चिद् विक्षेपो भवेत् । सु-निहितांल् लभे * अहं प्रणीतान् नाना-रसांल् लभे * अहम् । न हीन-दरिद्र-भोजनं लभे * अहं प्रत्युद्गच्छेयुर् मां स्त्री-पुरुष-दारक-दारिकाः । इमे ते सर्वे * अ-कुशला मनसि-कारा न + उत्पादयितव्यः ॥ पे ॥
प्रायेण हि सत्वा रस-गृद्धा भोजन-हेतोः पापानि कर्माणि कृत्वा नरकेषु + उपपद्यन्ते । ये ये पुनः संतुष्टा अ-गृद्धा अ-लुलोपा रस-प्रतिप्रस्रब्धा जिह्व-इन्द्रिय-संतुष्टाः कियल्-लूहेन + अपि भोजनेन ज्ञापयन्ति । तेषां च्युतानां काल-गतानां स्वर्ग-उपपत्तिर् भवति । सु-गति-गमनं भवति देव-मनुष्येषु । ते देव-उपपन्नाः सुधां परिभुञ्जते । एवं काश्यप पिण्ड-चारिकेण भिक्षुणा रस-तृष्णां विनिवर्तयित्वा निध्यप्त-चित्तेन सु-परिपक्वान् कुल्माषान् परिभुञ्जता न परितप्तव्यम् । तत् कस्माद् * धेतोः । काय-संधारण-अर्थं मार्ग-संधारण-अर्थं मया भोजनं परिभोक्तव्यं ॥ पे ॥
यदि पुनः काश्यप पिण्ड-चारिको भिक्षुर् मेघ-आकुल-वृष्टि-काल-समये वर्तमाने न शक्नुयात् पिण्डाय + अवतर्तुं । तेन मैत्र्या + आहार-संनद्धेन धर्म-चिन्ता-मनसि-कार-प्रतिष्ठितेन द्वि-रात्रं त्रि-रात्रं वा भक्त-च्छद-च्छिन्नेन एवं संज्ञा + उत्पादयितव्या । सन्ति याम-लौकिकाः प्रेता दुष्-कर-कर्म-कारिणो ये वर्ष-शतेन खेट-पिण्डम् अप्य् आहारं न प्रतिलभन्ते । तन् मया धर्म-योनिशश् चिन्ता-प्रतिष्ठितेन काय-दौर्बल्यं वा चित्त-दौर्बल्यं वा न + उत्पादयितव्यं । अधिवासयिष्यामि क्षुत्-पिपासां । न पुनर् आर्य-मार्ग-भावनायां वीर्यं स्रंसयिष्यामि ॥ पे ॥
यत्र कुले पिण्ड-पातं शुचिं कारयेत् तत्र कुले आसने निषद्य धार्मी कथा कर्तव्या । यावन् न स पिण्ड-पातः शुची-क्र्टो भवेत् तेन पिण्ड-पातं गृहीत्वा उत्थाय + आसनात् प्रक्रमितव्यं । पिण्ड-चारिकेण काश्यप भिक्षुणा न + अवभास-करेण भवितव्यं न लपना न कुहना कर्तव्या ॥
तत्र कतमो * अवभासः । यत् परेषाम् एवं वाचं भाषते । लूहो मे पिण्ड-पातो रुक्षो मे पिण्ड-पात आसीन् न च मे यावद्-अर्थं भुक्तं । बहु-जन-साधारणश् च मे पिण्ड-पातः कृतः । अल्पं मे भुक्तं जिघत्सितो * अस्मि + इति । यत् किञ्-चिद् एवं-रूपम् अवभास-निमित्तं । इयम् उच्यते चित्त-कुहना । सर्वम् एतत् पिण्ड-चारिकेण भिक्षुणा न कर्तव्यं । उपेक्षक-भूतेन । यत् पात्रे पतितं लूहं वा प्रणीतं वा शुभं वा + अ-शुभं वा तत् परिभोक्तव्यम् अ-परितप्यमानेन + आशय-शुद्धेन धर्म-निध्यप्ति-बहुलेन । काय-जापन-अर्थम् आर्य-मार्गस्य + उपस्तम्भ-अर्थं स पिण्ड-पातः परिभोक्तव्य इति ॥
तथा + आर्य-उग्र-परिपृच्छायाम् अप्य् उक्तं । यस्याश् च + अन्तिके पिण्ड-पातं परिभुज्य न शक्नोत्य् आत्मनः परस्य च + अर्थं परिपूरयितुम् अनुजानाम्य् अहं तस्य पिण्ड-चारिकस्य बोधि-सत्वस्य निमन्त्रणम् इति ॥
एवं तावत् सतत-भैषज्येन + आत्म-भाव-रक्षा कार्या । तत्र + अपि न मत्स्य-मांसेन लङ्का-अवतार-सूत्रे प्रतिषिद्धत्वात् ॥
तथा ह्य् उक्तं । मांसं सर्वम् अ-भक्ष्यं कृप-आत्मानो बोधि-सत्वस्य + इति वदामि ॥ पे ॥
स्वाजन्याद् व्यभिचाराच् च शुक्र-शोणित-संभवात् । उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत् ॥
मांसानि च पलाण्डूंश् च मद्यानि विविधानि च । गृञ्जनं लशुनं च + एव योगी नित्यं विवर्जयेत् ॥
म्रक्षणं वर्जयेत् तैलं शल्य-विद्धेषु न स्वपेत् । छिद्र-अ-छिद्रेषु सत्वानां यच् च स्थानं महा-भयम् ॥ पे ॥
लाभ-अर्थं हन्यते प्राणी मांस-अर्थं दीयते धनं । उभौ तौ पाप-कर्माणौ पच्येते रौरव-आदिषु ॥
यावत् ॥
यो * अतिक्रम्य मुनेर् वाक्यं मांसं भक्षेत दुर्-मतिः । लोक-द्वय-विनाश-अर्थं दीक्षितः शाक्य-शासने ॥
ते यान्ति परमं घोरं नरकं पाप-कॠइणः । रौरव-आदिषु रौद्रेषु पच्यन्ते मांस-खादकाः ॥
त्रि-कोटि-क्षुद्धं मांसं वै अ-कल्पितम् अ-याचितं । अ-चोदितं च न + एव + अस्ति तस्मान् मांसं न भक्ष्ययेत् ॥
मांसं न भक्ष्ययेद् योगी मया बुद्धैश् च गर्हितं । अन्यो-न्य-भक्षणाः सत्वाः क्रव्य-अद-कुल-संभवाः ॥
यावत् ॥
दुर्-गन्धः कुत्सनीयश् च उत्मत्तश् च + अपि जायते । चण्डाल-पुक्कस-कुले डोम्बेषु च पुनः पुनः ॥
डाकिनी-जाति-योनौ च मांस-अदे जायते कुले । ऋक्ष-मार्जर-योनौ च जायते * असौ नर-अधमः ॥
हस्ति-कक्ष्ये महा-मेघे निर्वाण-अङ्गुलिमालिके । लङ्का-अवतार-सूत्रे च मया मांसं विगर्हितं ॥
बुद्धैश् च बोधि-सत्वैश् च श्रावकैश् च विगर्हितं । खादते यदि निर्-लज्ज उन्मत्तो जायते सदा ॥
ब्राह्मणेषु च जायन्ते अथ वा योगिनां कुले । प्रज्ञावान् धनवांश् च + एव मांस-अद्यानां विवर्जनात् ॥
दृष्ट-श्रुत-विशङ्काभिः सर्वं मांसं विवर्जयेत् । तार्किका न + अवबुध्यन्ते क्रव्य-अद-कुल-संभवाः ॥
यथा + एष रागो मोक्षस्य अन्तराय-करो भवेत् । तथा + एव मांस-मद्य-आदि अन्तराय-करं भवेत् ॥
वक्षन्त्य् अन्-आगते काले मांस-अदा मोह-वादिनः । कल्पिकं निर्-अवद्यं च मांसं बुद्ध-अनुवर्णितं ॥
भेषज्यम् इव आहारं पुत्र-मांस-उपमं पुनः । मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत् ॥
मैत्री-विहारिणा नित्यं सर्वथा गर्हितं मया । सिंह-व्याघ्र-मृग-आद्यैश् च सह एकत्र संभवेत् ॥
तस्मान् न भक्षयेन् मांसम् उद्वेज-जनकं नृणां । मोक्ष-धर्म-निरुद्धत्वाद् आर्याणाम् एष वै ध्वजः ॥
यत् तु ज्ञानवती-परिवर्ते मांस-भक्षणं पठ्यते तन् महा-अर्थ-साधकत्वान् निर्-दोषम् ॥
एवं हि तथा + उक्तं । एषो * अकरिष्यद् यदि भिक्षु कालं । समाधि-शब्दो * अपि हि जम्बु-द्वीपे । निरुद्धु सत्वान सदा + अभविष्यद् । चिकित्सिते अस्मि समाधि लब्धः ॥
न च महा-करुणा-अभियुक्तम् । तेन अस्मिन् न मैत्री शङ्का + अपि न + अस्ति + इत्य् अ-दोषः ॥
यद्य् अप्य् आर्य-रत्न-मेघे * अभिहितं । श्माशानिकेन निर्-आमिषेण भवितव्यम् इति ॥
तद् अन्यत्र + एवं जातीय-सत्व-अर्थ-संदर्शन-अर्थं । विनये * अपि यद् अनुज्ञातं तत् तु त्रि-कोटि-परिशुद्ध-भक्षणे न प्रहाण-अन्तराय इति । तत् परित्यागेन शुद्ध-दृष्टीनाम् अभिमान-निरास-अर्थं । तद् वृद्धतया च भव्यानां शासन-अन्-अवतार-परिहार-अर्थं ॥
तथा ह्य् उक्तं लङ्का-अवतार-सूत्रे । तत्र तत्र देशना पाठे शिक्षा-पदानाम् आनुपूर्वीं बन्धन् निश्रेणी-पद-विन्यास-योगेन । त्रि-कोटिं बद्ध्वा । तत्र उद्दिष्य क्र्टानि प्रतिषिद्धानि ततो * अन्तशः प्रकृति-मृतान्य् अपि प्रतिषिद्धानि + इति ॥
उक्तं सतत-भैषज्यं । ग्लान-प्रत्यय-भैषज्यं तत् सेव्यम् एव ॥
श्रावक-विनये * अपि तावद् आत्म-अर्थं ब्रह्म-चर्य-वास-अर्थं पात्र-चीवरम् अपि विक्रीय । काय-संधारणम् उक्तं । किं पुनर् अ-परिमित-जन-परित्राण-हेतोर् बोधि-सत्व-शरीरस्य दुर्-लभा च + ईदृशी क्षण-प्रतिलाभ-उत्सव-सम्पद् । इति तत्-प्रदर्शन-अर्थं च भगवता तत्र स्वयं भैषज्य-उपयोगः प्रदर्शितः ॥
उक्तं च + आर्य-रत्न-मेघ-सूत्रे । तैर् यदा प्रचारितं भवति तदा सत्यां वेलायाम् अ-सत्यां वा तेषाम् इमान्य् एवं-रूपाणि काय-उपस्तम्भनान्य् उपकरणानि न लभ्यन्ते * अभ्यवहर्तुं । यद् उत सर्पिर् वा तैलं वा मूल-रसो वा गण्ड-रसो वा फल-रसो वा । न च + अन्यान् अभ्यवहरतो दृष्ट्वा प्रतिघ-चित्तम् उत्पादयति । यदि पुनः खलु पश्चाद्-भक्तिको बोधि-सत्वो वा ग्लानो भवति । यथा-रूपेण + अस्य ग्लान्येन जीवित-अन्तरायो भवति कुशल-पक्ष-अन्तरायो वा तेन निष्-कौकृत्येन भूत्वा निर्-विचिकित्सकेन भैषज्य-चित्तम् उपस्थाप्य प्रतिनिसेव्यानि + इति ॥
vasana-upabhoga-prayojanam ugra-paripṛcchā-sūtre * abhihitaṃ | hrīr-apatrāpya-kāpair niḥ-... [doubtful] pracchādana-arthaṃ tu śramaṇa-liṅga-saṃdarśana-artham imāni ca kāṣāyāṇi deva-mānuṣa-asurasya lokasya caityam iti | caitya-arthaṃ samyag-dhāritavyāni | nirvṛti-virāga-raktāni [doubtful] etāni | na rāga-raktāni | upaśama-anukūlāny etāni | na saṃkleśa-saṃdhukṣaṇa-anukūlāni | ebhiś ca kāṣāyair vivṛta-pāpā bhaviṣyāmaḥ | su-kṛta-karma-kāriṇo na cīvara-maṇḍana-anuyogam anuyuktāḥ | etāni ca kāṣāyāṇy ārya-mārga-saṃbhāra-anukūlāni + iti kṛtvā tathā kariṣyāmo yathā na + eka-kṣaṇam api sa-kaṣāyāḥ kāye kāṣāyāṇi dhārayiṣyāma iti ||
अत्र च कारणं रत्न-राशि-सूत्रे * अभिहितं । ये पुनस् ते काश्यप वैदर्या अ-संयता इतः श्रमण-गुण-धर्माद् उद्धुराः काये काषायाणि वस्त्राणि धारयन्ति । न च + एतेषु गौरवम् उत्पादयन्ति । तत्र काश्यप श्रमण-वर्ण-प्रति-रूपकं नाम प्रत्य्-एक-नरकं । तत्र काश्यप प्रत्य्-एक-नरके श्रमण-रूप-प्रति-रूपेण ताः कारणाः कार्यन्ते आदीप्त-चैला आदीप्त-शीर्षा आदीप्त-पात्रा आदीप्त-आसना आदीप्त-शयनाः । यः कश्-चित् तत्र तेषाम् उपभोग-परिभोगः स सर्व आदीप्तः संप्रज्वलित एक-ज्वाली-भूतः । तत्र तैः श्रमण-वर्ण-रूपेण दुष्खां वेदनाम् अनुभवन्ति + इति ॥
आर्य-रत्न-मेघे * अप्य् उक्तं । यदि भवेद् अभ्यवकाशिको बोधि-सत्वो ग्लान-कायो * अ-प्रत्i-bala-kआयस् तेन विहार-क्षितेन + एवं चित्तम् उत्पादयितव्यं । क्लेश-प्रति-पक्ष-अर्थं तथा-गतेन धुत-गुणाः प्रज्ञप्ताः । तथा + अहं करिष्यामि यथा विहारस्य एव क्लेशानां प्रहाणाय घटिष्यामि । तत्र च विहारे न गृद्धिम् उत्पादयामि न + अध्यवसानं । एवं च + अस्य भवति । कर्तव्यो दान-पतीनाम् अनुग्रहो न + अस्माभिर् आत्मम्भरिभिर् भवितव्यम् इति ॥
पुनर् अत्र + एव + आह । ते शय्यां कल्पयन्तो दक्षिणेन पार्श्वेन शय्यां कल्पयन्ति । पादस्य + उपरि पादम् आधाय चीवरैः अ-संवृत-कायाः स्मृताः । संप्रजानाना उत्थान-संज्ञिन आलोक-संज्ञिनः शय्यां कल्पयन्ति । न च निद्रा-सुखम् आस्वादयन्ति । न पार्श्व-सुखम् अन्य्त्र यावद् एव + एषां महा-भूतानां स्थितये जापनायै । इत्य् अनया दिशा सर्व-परिभोगाः सत्व-अर्थम् अधिष्ठातव्याः । आत्म-तृष्णा-उपभोगात् तु क्लिष्ट-आपत्तिः प्रजायते ॥
यथा + उक्तं चन्द्र-प्रदीप-सूत्रे । ते भोजनं स्वादु-रसं प्रणीतं । लब्ध्वा च भुञ्जन्ति अ-युक्त-योगाः । तेषां स आहारु बधाय भोती । यथ हस्ति-पोतान विषा अ-धौता ॥
इति ॥
आर्य-रत्न-राशि-सूत्रे * अपि भगवता श्रद्धा-देय-परिभोगे परिकीर्तिते । अथ तस्याम् एव पर्षदि योग-आचाराणां भिक्षूणां द्वे शते इमं धर्म-पर्यायं श्रुत्वा प्ररुदिते । एवं च वाचम् अभाषन्त । कालं वयं भगवन् करिष्यामो । न पुनर् अ-प्राप्त-फला एक-पिण्ड-पातम् अपि श्रद्धा-देयस्य परिभोक्ष्यामः ॥
भगवान् आह । साधु साधु कुल-पुत्रा एवं-रूपैर् लज्जाभिः कौकृत्य-संपन्नैः पर-लोक-अ-वद्य-भय-दर्शिभिर् इदं प्रवचनं शोभते ॥
अपि तु ॥
द्वयोर् अहं काश्यप श्रद्धा-देयम् अनुजानामि । कतमयोर् द्वयोः । युक्तस्य मुक्तस्य च । यदि भिक्षवो भिक्षुर् युक्तो योग-आचारो मम शिक्षायां प्रतिपन्नः सर्व-संस्कारेष्व् अ-नित्य-दर्शी । सर्व-संस्कार-दुःख-विदितः सर्व-धर्मेष्व् अन्-आत्म-अधिमुक्तिः शान्त-निर्वाण-अभिकाङ्क्षी सुमेरु-मात्रैर् आलोपैः श्रद्धा-देयं भुञ्जीत । अत्यन्त-परिशुद्धा + एव तस्य सा दक्षिणा भवति । येषां च दायकानां दान-पतीनां सकाशाच् * छ्रद्धा-देयं परिभुक्तं ततस् तेषां दायक-दान-पतीनां मह-र्द्धिकः पुण्य-विपाको भवति । महा-द्युतिकः । तत् कस्माद् * धेतोः । अग्रम् इदम् औपधिकानां पुण्य-क्रिया-वस्तूनां या + इयं मैत्र-चित्त-समापत्तिः । तत्र काश्यप यो भिक्षुर् दायकस्य दान-पतेर् अन्तिकाच् चीवर-पिण्ड-पातं परिभुज्य-अ-प्रमाणं चेतः-समाधिं समापद्यते * अ-प्रमाणस् तस्य दायकस्य दान-पतेः पुण्य-क्रिया-विपाकः प्रतिकाङ्क्षितव्यः । स्यात् काश्यप त्रि-साहस्र-महा-साहस्रायां लोक-धातौ महा-समुद्राणां क्षयो न त्व् एव तस्य पुण्य-निष्यन्दनस्य कश्-चित् क्षय इति ॥
तद् एवं पिण्ड-पात-गमनआरम्भे भोजन-आरम्भे वा त्रिषु स्थानेषु स्मृतिर् उपस्थाप्या दायक-अनुग्रहे । काय-क्रिमि-संग्रहे । सर्व-सत्व-अर्थ-साधके च सd-dharma-parigrahए ॥
तथा-गत-आज्ञा-संपादने तु सर्व-कार्येषु स्मृतिः कार्या । आदि-शब्दान् मन्त्रैर् अपि रक्षा कार्या ॥
तत्र + अपि तावद् इमां त्र्i-samaya-rआज-उक्तां विद्यां मण्डल-समय-अर्थम् उच्चारयेत् । नमः सर्व-बुद्ध-बोधि-सत्वानां ओं विरजि महा-चक्र-विरजि । सत सारत त्रपि विधमनि । सभजनि । संभजनि । तरमति । सिद्ध अग्रे त्वं स्वाहा ॥
अनेन सर्व-मण्डल-प्रविष्टो भवति ॥
अथ-वा तथा-गत-हृदयम् अष्ट-सहस्त्रं जपेत् स-लौकिक-लोक-उत्तर-मण्डल-प्रविष्टो भवति । कतमच् च तत् ॥
नमस् त्रैयब्धिकानां तथा-गतानां । सर्वत्र-अ-प्रतिहत-अवाप्ति-धर्मता-बलिनां । आं अ-सम-सम समन्ततो * अन्-अन्तन-अवाप्ति-शासनि । हर स्मर स्मरण विगत-राग-बुद्ध-धर्मते । सर सम-बला । हस । त्रय । गगन महा-अ-चल-रक्षण । ज्वल ज्वलन सागरे स्वाहा ॥
अयं सर्व-तथा-गतानाम् आत्म-भावः । अत्र + अन्-उत्तरं गौरवं भावयितव्यं । अनेन + आदि-कर्मिका अपि सत्वेष्व् अनन्तं बुद्ध-कृत्यं कुर्वन्ति । अयम् एव परमां रक्षां मार-आदिभ्यः सर्व-दुष्टेभ्यः करोति । हस्त-ताडेन भस्मना सर्षपैर् उदकेन दृष्ट्या मनसा वा सीमा-बन्धं करोति ॥
व्याधिषु भैषज्यम् उदकं च + अभिमन्त्र्य + उपयोज्यं ॥
वन-कुसुमानि वा चैत्ये प्रतिमायां सd-dharma-pustake वा समाहितो निवेदयेत् ॥
पक्ष-प्रयोगान् महा व्याधिभिर् अभिमुच्यते । बुद्ध-बोधि-सत्व-आलम्बनेन सर्व-सत्व-अर्थ-अभिलाषिणा च चित्तेन भद्र-चर्i-vidhi-pऊर्वकं च जप्तव्यः । अयं विधिर् अस्य कल्पस्य + अवसाने द्रष्टव्यः । त्र्i-samaya-jआपिनश् च + आम्नायतो न दोषः । उत्सिष्टस्य + अप्य् अ-शुचेर् न दोषः । मुद्रा-आकारा न भक्षणीया न लङ्घनीया । न मञ्च-आरोहः कर्तव्यः । न मद्यं पातव्यं । अधिमुक्ति-चर्या शिक्षा-पदेष्व् अ-चलस्य निर्-विचिकित्सस्य दुः-शील-पूर्वस्य + अपि सिध्यति । पण्डितस्य + अ-पण्डितस्य वा नियतं सिध्यति ॥
तथा च + अत्र + एव + उक्तं । बोधि-चित्तं दृढं यस्य निः-संगा च मतिर् भवेत् । विचिकित्सा न + एव कर्तव्या तस्य + इदं सिध्यति ध्रुवम् । इति ॥
बोध्i-citta-dऋढता च + अत्र पृथग्-जन-चल-चित्तताया नियम-अर्थम् उक्ता न तु भूमि-प्रविष्टम् अधिकृत्य ॥
यस्माद् अत्र + उक्तं । प्रत्युद्धारताम् अवभासतां च प्रतिलब्धु-कामेन ।महा-अन्ध-काराद् आलोकं प्रवेष्टु-कामेन । यद् भूयसा विनिपतितेन साध्यं । तथा कुतो मम + अल्प-पुण्यस्य सिद्धिर् इति नीच-चित्त-प्रतिषेधः । न च + अतिक्रान्त-दुर्-गतेर् उत्साह-ऊर्मि-बहुलस्य + उपचित-अ-प्रमेय-पुण्य-स्कन्धस्य भूमि-प्रविष्टस्य + अयं पूर्व-उक्तो दोषः संभवति । अत्र च मन्त्राणाम् अ-ज्ञानान् न + अधिक-अक्षर-पाठे दोषो * अस्ति । न + अपि न्यूनता-दोषः । न + अपि विधि-भ्रंस-दोषः । किं-तु श्रद्धा-वेगं बोध्i-citta-vegaं सर्व-उत्सर्ग-वेगं च प्रमाणी-कृत्य + अ-विचारतः प्रवर्तितव्यम् अ-वश्यं बुद्ध-बोधि-सत्वम् इह + एव यथा-इष्ट-सिद्धिश् च भवति ॥
अथ-वा + अनेन सर्व-वज्र-धर-मन्त्रेण रक्षां कुर्यात् । नमस् त्रैयब्धिकानां तथा-गतानां सर्व-वज्र-धराणां चण्डाल । चल । वज्र । शान्तन । फलन । चर । मारण । वज्र-डाल-फट । ललित-शिखर समन्त-वज्रिणि । ज्वल । नमो * अस्तु ते अग्र-उग्र-शासानानां रण हं फुल स्फाट वज्र-उत्तमे स्वाहा ॥
अनेन पठित-मात्रेण सर्व-विघ्न-विनायका न + उपसंक्रामन्ति । देव-नाग-आदयो न प्रसहन्ते । भोजन-पान-शयन-आसन-वसन-पूजा-उपकरणानि च + अभिमन्त्रितेन जलेन दृष्ट्या मनसा वा रक्षेत । अ-चल-हृदयेन वा सर्वम् एतत् कुर्यात् ॥
इदं च तत् ॥
नमः समन्त-वज्राणां त्राट । अ-मोघ चण्ड-महा-रोषण स्फाटय हूं । भ्रामय हूं । त्राट हूं । मां । ओं बलं ददे तेजो-मालिनि स्वाहा ॥
अनेन प्रथमं पिण्डम् अष्ट-अभिमन्त्रितं भुञ्जीत भैषज्य-राजतां बुद्ध-बोधि-सत्वानाम् अनुस्मृत्य ॥
विष-प्रतीकारस् तु ॥
तद् यथा । इलिमित्ते । तिलिमित्ते । इलितिलिमित्ते । दुम्बे । दुःसे । दुःसालीये । दुम्बालीये । तक्के । तर्क्करणे । मर्म्मे । मर्मरणे । कश्मीरे । कश्मीर-मुक्ते । अघने । अघनघने । इलिमिलीये । अखाप्ये । अपाप्ये श्वेते । श्वेत-तुण्डे । अनानुरक्षे स्वाहा ॥
य इमां विद्यां सकृच् * छृणोति स सप्त वर्षाण्य् अहिना न दश्यते । न च + अस्य काये विषं क्रामति । यश् च + एनं अहिर् दशति सप्तधा + अस्य स्फुटेन् मूर्द्धा अर्जकस्य + इव मञ्जरी ॥
य इमां विद्यां धारयति स यावज्-जीवम् अहिना न दश्यते । न च + अस्य काये विषं क्रामति । इमानि च मन्त्र-पदानि सर्पस्य पुरतो न वक्तव्यानि यत्-कारणं सर्पो म्रियते ॥
तद् यथा । इल्ला । चिल्ला । चक्को । बक्को । कोडा कोडेति । निकुरुडा निकुरुडेति । पोडा पोडेति । मोडा । मोडेति । पुरुडा पुरुडेति । फट रहे । फुट्टण्ड रहे । नाग रहे । नागट्टण्डरहे । सर्प रहे । सर्पट्टण्डरहे । अच्छे । छल विषशाते । शीतवत्ताले । हलले । हलले । तण्डि । तड । ताडि । मल । स्फुट । फुटु । स्वाहा ॥
इति हि भिक्षवो जाङ्गुल्यां विद्यायां उदाहृतायां सर्व-भूत-समागते सर्वं तथा-अ-वितथा-अन्-अन्यथा-भूतं सत्यम् अ-विपरीतम् अ-विपर्यस्तं । इदं विषम् अ-विषं भवतु । दातारं गच्छतु । दंष्ट्रारं गच्छतु । अग्निं गच्छतु । जलं गच्छतु । स्थलं गच्छतु । स्तम्भं गच्छतु । कुड्यं गच्छतु । भूमिं संक्रामतु । शान्तिं गच्छतु स्वाहा ॥
चोर-आदि-प्रतीकारे मारीचीं जपेत् ॥
तद् यथा । पराक्रमसि । उदयम् असि । वैरम् असि अर्कम् असि । मर्कम् असि । वनम् असि । अन्तर्-द्धानम् असि । पथे मे रक्ष । उत्पथे मे रक्ष । जनतो मे रक्ष । चौरतो मे रक्ष । राजतो मे रक्ष । सिंहतो मे रक्ष । व्याघ्रतो मे रक्ष । नागतो मे रक्ष । सर्पतो मे रक्ष । सर्वतो मे रक्ष । रक्ष मां सर्व-सत्वांश् च सर्व-भयेभ्यः सर्व-उपाये स-उपसर्गेभ्यः स्वाहा ॥
उंवडिलि सर्व-दुष्टानां ग्रन्थिं वन्दामि स्वाहा ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
