Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 8/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

शिक्षासमुच्चय (bản khác)

Tác giả
शान्तिदेव
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

उत्तमाभरणा वरधीराः माल्यविभूषितगन्धनुलिप्ता ॥रूप विदर्शिय सत्व विनेन्ति दर्शन प्रीतिप्रहर्षरतानां ।

ते वररूपसुरूपसुमेधाः उत्तमरूप निदर्शयमानाः ॥रूपधिमुक्ति जगद् विनयन्ति ते मधुरैः कलविङ्करुतेभी ।

कोकिलहंसकुणालरवेण दुन्दुभिकिन्नरब्रह्मरुतेन देशयि सर्वधिमुक्तिषु धर्मम् ॥ ये चतुर् एवाशीति सहस्रा येभि जिना जगतो ऽर्थ करोन्ति ।

तेभित धर्मप्रभेदमुखेभिः सत्व विनेन्ति यथाशय लोके ॥ते सुखदुष्खसहाय करोन्ति अर्थानर्थसहायक भोन्ती ।

सर्वक्रियासु सहाय भवित्वा सत्व विनेन्ति सहायमुखेन ॥दुष्खोपद्रवसत्कृतदोषान् ते तु सहन्ति सहायनिदानास् ।

तेभि सहाय सहन्तिय पीडां सर्वजगस्य हिताय सुखाय ॥यत्र न निष्क्रमणं न च धर्मो ज्ञायति रण्यगतो न च मोक्षः ।

तत्र तु राज्यसमृद्धिसहाय निष्क्रमशान्तमनानिकेताः ॥

[ bendall ed p330 ---> ]

ते गृहबन्धनतृष्णनिकेतात् सर्वजगत्परिमोचनहेतोः ।

सर्वत कामरती अनिकेता निष्क्रममोक्स्.अ प्रभावयमानाः ॥ते दश चर्य प्रभावयमानाचरि धर्म महापुरुषाणां ।

सर्वम् अशेषत चर्य ऋषीणां भावयमान करोन्ति जगार्थं ॥यत्र् अमितायुष सत्व भवन्ती सौख्यसमर्पितमन्दकिलेशाः ।

तत्र जरार्दित व्याधिनपृष्टा दर्शयि मृत्युवशं अवशात्मा ॥रागप्रदीपितु दोषप्रदीप्तं मोहमहाग्निप्रदीपितु लोकम् ।

प्रज्वलितं जरव्याधितमृत्यु लोक निदर्शयि सत्व विनेन्ति ॥दशबलैश् चतुर्वैशारद्यैर् अष्टदशैर् अपि धर्मविशेषैः ।

बुद्धमहात्म तु सूचयमानाः बुद्धगुणेभि करोन्ति जगार्थम् ॥

ते चादेश ऋद्ध्यनुशास्ती रूपधिष्ठानबलेन समन्तात् ।

दर्शयमान तथागत ऋद्धी ऋद्धिविकुर्वित सत्व विनेन्ति ॥ते विविधेहि उपायनयेहि लोक-

[ cambridge ms f149a ---> ]

विचारि करोन्ति जगार्थं ।

लोकि अलिप्त जले यथ पद्मं प्रीतिप्रसादकरा विचरन्ति ॥

काव्यकराः कविराज भवन्ती ते नटनर्तक झल्लकमल्लाः ।

उत्कुटशोभिकहारकनृत्या मायकराः पृथु रूपनिदर्शी ॥

[ bendall ed p331 ---> ]

ग्रामिक नायक सारथि भोन्ती सार्थिक श्रेष्ठिक गृहपति भोन्ति ।

राजामात्य पुरोहितदूता वैद्यविशारदशास्त्रविधिज्ञाः ॥ ते ऽटवीषु महाद्रुम भोन्ती औषधाक्षयरत्ननिधानाः ।

चिन्तमणि द्रुम कामददाश् च देशिकोत्पथमार्गगतानां ॥अर्च्चिय सन्तु तु लोक विदित्वा कर्मविधीषु अजानक सत्वाः ।

ते कृषिकर्मप्रयोगवणिज्या शिल्पिविचित्र प्रभावयि लोके ॥ये ऽविहेठाहिंसप्रयोगः सर्वसुखावहविज्ञप्रशस्ताः ।

विद्यबलाउषधि शास्त्रविचित्राः सर्व प्रभावित तेभि ऋषीभिः ॥ये ऋषिणां चरणाः परमाग्रा यत्राधिमुक्त सदेवकु लोकः ।

ये व्रतदुष्कर ये तपश्रेष्ठाः सर्वि प्रभावित तेभि विदूभिः ॥ते चरकाः परिव्राजक तीर्थ्याः तापसगोतममोनचराणाम् ।

नग्नाचेलगुरुश्रमणानां तीर्थिकाचर्या हि भवन्ति ॥

[ bendall ed p332 ---> ]

ते तु अजीविक धर्मचराणां उत्तरिकाणानुत्तरिकाणां ।

दीर्घजटान कुमारव्रतानां तेष्व् अपि आचर्या हि भवन्ति ॥सूर्यनुवर्तकपञ्चतपानां कुक्कुरगोव्रतिका मृगचर्या ।

चारिक तीर्थ्य दश त्रितयानां तेष्व् अपि आचर्या हि भवन्ति ॥

देवतज्ञानप्रवेशरतानां तीर्थुपदर्शनदेशचराणां ।

[ cambridge ms f149a ---> ]

मूलफलाम्बुचरापि भूत्वा धर्माचिन्तिय ते परमाग्राः ॥उत्कुटस्थायिनाइकचराणां कण्टकभस्मतृणश्शयनानां ।

ये मुषलेशय [[दोउब्त्]] युक्तिविहारी तेष्व् अपि आचर्या हि भवन्ति ॥यावत बाहिरकाः पृथुतीर्थ्याशय तेष्व् अधिमुक्ति समीक्ष्य ।

तीक्ष्णदुरासदोग्रतपेभी तीर्थिक दुष्खप्रहाण विनेन्ति ॥

[ bendall ed p333 ---> ]

दृष्टिसमाकुल लोके विदित्वा सर्वकुदृष्टिसमाश्रित तीर्थ्याः ।

सूक्ष्मपदेभिर् उपायन येभी सत्यप्रकाशन तेषु करोन्ति ॥केषुचि द्रामिडमन्त्रपदेभी देशयि सत्य सुगुप्तपदेभिः ।

केषूज .. व्यक्तपदेभिः केषुचिद् एव रहस्यपदेभिः ॥केषुचि अक्षरभेदपदेभिः अर्थविनिश्चयवज्रपदेभिः ।

वादिप्रमर्दनज्ञानपदेभिः शास्त्राधर्मकमोक्षपदेभिः ॥केषुचि मानुषमन्त्रपदेभिः सर्वप्रवेशनिरुक्तिपदेषु ।

केषुचि देवनिरुक्तिपदेभिः नागनिरुक्तित यक्षपदेभिः ॥

राक्षसाथगन्धर्वपदेभिः भूतकुम्भाण्डमहोरगकेभिः ।

किंनराप्सरगरुडपदेभिः सत्यप्रकाशनमोक्षुपनेन्ति ॥ते यथसत्य निरुक्तिविधिज्ञाइवम् अशेषत ये जिनधर्मा ।

धर्मम् अचिन्तिय वाक्यपथज्ञा देश-

[ cambridge ms f150a ---> ]

यि एष समाधिविकुर्वा ॥ते जगसौख्यताग्रसमाधी सर्वजगे ऽभिनिर्हरमाना ।

रश्मिम् अचिन्तियम् उत्सृजमाना रश्मि प्रमुञ्चिय सत्व विनेन्ति ॥

रश्मि प्रमुञ्चिय दर्शयमाना यावत सत्व विजानित रश्मि ।

तेषु सुदर्शन भोति अमोघम् हेतु अनुत्तरि ज्ञानवरस्य ॥

दर्शयि बुद्ध विदर्शयि धर्मं संघ निदर्शयि मार्ग नराणाम् ।

दर्शयि चेतिक ते जिनबिम्बा तेन सुदर्शनरश्मि निवृत्ता ॥

[ bendall ed p334 ---> ]

रश्मि प्रमुञ्चि प्रभंकर नामा या प्रभ जिह्म करोति मरूणां ।

सर्वरजं च तमं च हनित्वा सो प्रभ भासति लोकहितानां ॥ताय प्रभासय चोदित सत्वास् ते जिनपूजप्रदीप धरेन्ती ।

ते जिनपूजप्रदीप धरित्वा लोकप्रदीपकरा जिन भोन्ति ॥

तैलप्रदीप घृतस्य प्रदीपा दारु तृणा नडवेणु प्रदीपान् ।

गन्धरसायनरत्नप्रदीपान् दत्व जिनेषु प्रभंकर लब्धाः ॥रश्मि प्रमुञ्चिय प्रतारणि नामा ताय प्रभासय चोदित सत्वाः ।

... नावप्रतारणिनद्यपथेषु ।

दूषित संस्कृत वर्णित शान्ती तेन प्रतारणि रश्मि निवृत्ता ॥

रश्मि पिपासविनोदनि नामा ताय प्रभासय चोदित सत्वाः ।

कामगुणेषु तृषां प्रजहित्वा धर्मविमुक्तिरसार्थिक भोन्ति ॥कामगुणेषु तृषां प्रजहित्वा धर्मविमुक्तिरसार्थिक भूत्वा ।

बुद्ध भवन्त्य् अमृतंजलवर्षी तृष्णपिपासविनोदन लोके ॥पुष्करिणी नदिकूपतडागोत्सय कारित बोधिनिदानाः ।

काम विवर्णित वर्णित-

[ cambridge ms f150b ---> ]

ध्याना तृष्णविनोदनि तेन निवृत्ता ॥

प्रीतिकरी यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः ।

प्रीतिफुटा वरबोधिनिदानं चिन्त जनेन्ति भविष्य स्वयंभू ॥लक्षणमण्डित पद्मनिषण्णा यत् कृतविग्रह कारुणिकानां ।

भाषित बुद्धगुणाः सद कालं प्रीतिकरी प्रभ तेन निवृत्ता ॥रश्मि प्रमुञ्चि रतिंकर नामा ताय प्रभासय बोधित सत्वा ।

बुद्धरतीरत धर्मरतीरत संघरतीरत ते सद भोन्ति ॥त्रितयरतीरत ते सद भूत्वा बुद्धसमागमधर्मगणार्ये ।

लब्धनुपत्तिकक्षान्ति लभन्ति चोदित स्मारित ये बहु सत्वा ॥

बुद्धानुस्मृतिधर्मगणार्ये बोधि य चित्तगुणान् विवरित्वा ।

तेन रतिंकर रश्मि निवृत्ता ॥पुण्यसमुच्चयरश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा ।

दानु ददन्ति विचित्रम् अनेकं प्रार्थयमानु अनुत्तरु बोधिं ॥आशय पूरितु याचनकानां यज्ञ निरर्गड तैर् यजमानैः ।

सर्वभिप्रायत दानु ददित्वा पुण्यसमुच्चय रश्मि निवृत्ता ॥ज्ञानवती यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः ।

एक तु धर्म मुखातु अनेका धर्ममुखान् अवबुद्धि क्षणेन ॥

[ bendall ed p336 ---> ]

धर्मप्रभेद ... ग्राहित सत्वान् अर्थविनिश्चय ज्ञान विभक्ती ।

[ cambridge ms f151a ---> ]

धर्मपदार्थविभाषण कृत्वा ज्ञानवती प्रभ तेन निवृत्ता ॥ प्रज्ञप्रदीपयाउसरि रश्मि ताय प्रभासय चोदित सत्वाः ।

शून्य निसत्वाजातविपन्नान् ओतरि धर्माभावस्वभावान् ।

मायमरीचिसमा दकचन्द्रस्वप्नसमान् प्रतिबिम्बसमान् वा ।

धर्मास्वामिक शून्य निरीहान् भाषति प्रज्ञप्रदीप निवृत्ता ॥धर्मविकुर्वणि रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा ।

धारणि अक्षयकोषु लभित्वा सर्वतथागतकोषु लभेन्ति ॥धर्मधराणु परिग्रहु कृत्वा धार्मिकरक्ष करित्व ऋषीणां ।

धर्मानुग्रह कृत्व जगस्य धर्मविकुर्वणि रश्मि निवृत्ता ॥

त्यागवती यद रश्मि विमुञ्ची ताय य मत्सर चोदित सत्वा ।

ज्ञात्वानित्याशाश्वतभोगान् त्यागरतीरत ते सद भोन्ति ॥

मत्सरदुर्दम सत्वादान्ता ज्ञात्व धनं सुपिनाभ्रस्वभावं ।

बृंहित त्याग प्रसन्नम् अनेन त्यागवतीप्रभ तेन निवृत्ता ॥निष्परिदाह याउसरि रश्मिः ताय दुःशीलय चोदित सत्वा ।

शीलविशुद्धि प्रतिष्ठित भूत्वा चिन्त जनेन्ति भवेय स्वयंभूः ॥

[ bendall ed p337 ---> ]

कर्मपथे कुशले परिशुद्धे शील समादयि यद् बहुसत्वान् ।

बोधयि चित्त समादयनेन रश्मि निवृत्त स निष्परिदाहः ॥

[ cambridge ms f151b ---> ]

क्षान्तिवियूह याउसरि रश्मि ताय याक्षम चोदित सत्वाः ।

क्रोधखिलं अधिमान जहित्वा क्षान्तिरतीरत ते सद भोन्ति ॥दुःकृत क्षान्ति अपायमतीनां चित्ताक्षोभित बोधिनिदानं ।

वर्णित क्षान्तिगुणाः सदकालं तेन निवृत्त स क्षान्तिवियूहा ॥रश्मि उत्तप्तवती यद मुञ्ची ताय कुशीदय चोदित सत्वाः ।

युक्त प्रयुक्त त्रिषू रतनेषु पूज करोन्ति अखिन्नप्रयोगाः ॥

युक्त प्रयुक्त त्रिषू रतनेषु पूज करित्वाखिन्नप्रयोगाः ।

ते चतु मारपथातिक्रान्ताः क्षिप्र स्पृशन्ति अनुत्तर बोधिं ॥

वीर्य समादयि यद् बहुसत्वान् पूज करित्व त्रिषू रतनेषु ।

धर्म धरित्व क्षयंगत काले तेनोतप्तवती प्रभ लब्धा ॥शान्तिकरी यद रश्मि प्रमुञ्ची ताय विभ्रान्तय चोदित सत्वाः ।

तेषु न रागु न द्वेष न मोहाः बोधित भोन्ति समाहित चित्ताः ॥पाप कुमित्र किलिष्ट चरीये संगणिकाविनिवर्तन कृत्वा ।वर्णित ध्यान प्रशान्तारण्ये शान्तिकरी प्रभ तेन निवृत्ता ॥प्रज्ञवियूह याउसरि रश्मी ताय दुःप्रज्ञ संचोदित सत्वाः ।

सत्यप्रतीत्य विमोक्षनये ऽस्मिन् निद्रिय ज्ञानगतिं गत भोन्ति ॥

[ bendall ed p338 ---> ]

इन्द्रियज्ञानगतिं गत भूत्वा ... ।

सूर्यप्रदीपसमाधि लभित्वा प्रज्ञप्रभास-

[ cambridge ms f152a ---> ]

करा जिन भोन्ति ॥राज्यधनात्मप्रियैः परित्यागैः धर्म य मार्गित बोधिनिदानं ।

तं च सत्कृत्य प्रकाशिय धर्मं रश्मि निवृत्त स प्रज्ञवियूहाः ॥बुद्धवती यद रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वाः ।

बुद्ध सहस्रानेकाचिन्त्यान् पश्यिषु पद्मवनेषु निषण्णान् ॥बुद्धमहात्मत बुद्धविमोक्षा भासित बुद्धविकुर्वानन्ता ।

बुद्धबलाविप्रभावन कृत्वा बुद्धवती प्रभ तेन निवृत्ता ॥ते ऽभयंदद रश्मि प्रमुञ्ची तायाभयार्दित सत्व सस्पृष्टाः ।

भूतग्रहावधताडनबन्धे मुच्यिषु सर्वुपसर्गभयेभ्यः ॥

ये ऽभयेन निमन्त्रित सत्वाः प्राणिबधात् तु निवारित भोन्ति ।

त्रायित यच्छरणागत भीतास् तेन भयंदद रश्मि निवृत्ता ॥सर्वसुखावहाउसरि रश्मी ताय गिलानयातुर स्पृष्टाः ।

सर्वत व्याधिदुखात् प्रतिमुक्ता ध्यानसमाधिसुखानि लभन्ति ॥रोगविनोदनि मूल फलोषध रत्न रसायन गन्धनुलेपान् ।

फाणित क्षीर मधू घृत तेलान् भोजन पान ददित्वय लब्धा ॥

[ bendall ed p339 ---> ]

बुद्धनिदर्शनि रश्मि प्रमुञ्ची ताय सचोदितायु क्षयान्ते ।

बुद्धानुस्मरि पश्यिषु बुद्धम् ते च्युत गच्छि सबुद्धक्क्षेत्रं ॥काल करोन्ति च स्मारित बुद्धा दर्शितप्रीतकरा

[ cambridge ms f152b ---> ]

जिनबिम्बान् ।

बुद्धगताः शरणं मरणान्ते भासिय बुद्धनिदर्शनि लब्धा ॥धर्मप्रभावनि रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वा ।

धर्म पठन्ति शृण्वन्ति लिखन्ती धर्मरती रत ते सद भोन्ति ॥।धर्मदुर्भिक्षय द्योतितु धर्मो धर्मगवेषिण पूरिताशा ।

छन्द जनित्व प्रयुज्यथ धर्मे भाषत धर्मप्रभावनि लब्धा ॥घोषवती यद रश्मि प्रमुञ्ची बुद्धसुता परिचोदनतायां ।

यातुक शब्दप्रचारु त्रिलोके सर्व तथागतघोष शृण्वन्ति ॥उच्च स्वरेण स्तवन्ति महर्षीन् तूर्यमहत्तरघण्टप्रदानैः ।

सर्वजगे जिनघोषरुतार्थं निश्चरि घोषवती प्रभलब्धा ॥ते ऽमृतंदद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः ।

सर्व प्रमाद चिरं प्रजहित्वा सर्वगुणैः प्रतिपद्यति योगं ॥दुष्खानेकोपद्रवपूर्णं भाषित संस्कृत नित्यम् अक्षेमं ।

शान्तिनिरोधसुखं सद क्षेमं भाषयतामृतंदद लब्धा ॥रश्मि विशेषवती यद मुञ्ची ताय प्रभासय चोदित सत्वाः ।

शीलविशेष समाधिविशेषं प्रज्ञविशेष शृणोन्ति जिनानां ॥

[ bendall ed p340 ---> ]

शीलताग्र समाधिताग्रो प्रज्ञताग्र महामुनिराजा ।

[ cambridge ms f153a ---> ]

य स्तुत वर्णित बोधिनिदानं तेन विशेषवती प्रभ लब्धा ॥रत्नवियूह याउसरि रश्मि ताय प्रभासय चोदित सत्वाः ।

अक्षर रत्ननिधान लभित्वा पूजयि रत्नवरेभि महर्षीन् ॥

रत्नविसर्ग जिने जिनस्तूपे संग्रहि कृत्स्नजनं रतनेभिः ।

रत्नप्रदान करित्व जिनानां रश्मि निवृत्त य रत्नवियूहाः ॥गन्धप्रभास याउसरि रश्मी ताय प्रभासय चोदित सत्वाः ।

घ्रात्वामानुष गन्ध मनोज्ञान् बुद्धगुणे नियुतानि भवन्ति ॥गन्धनुलेपनुमानुषदिव्यैर् [[दोउब्त्]] यत् कृत पूज नराधिपतीनां ।

गन्धमयान् जिनविग्रहस्तूपान् कृत्व निवृत्त सुगन्धप्रभासः ॥मुञ्चति रश्मि विचित्रवियूहान् इन्द्रपताकध्वजाग्र विचित्रान् ।

तूर्यनिनादितगन्धप्रधूपित शोभिसुरोत्तमपुष्पविकीर्णं ॥तूर्यप्रत्युद्गमि पूजजिनानां पुष्पविलेपनधूपनचूर्णैः ।

छत्त्रध्वजाग्रपताकवितानैस् तेन विचित्रवियूह निवृत्ताः ॥रश्मि प्रसादकरी यद मुञ्ची पाणितलोपम संस्थिहि भूमिः ।

शोधयतो ऋषि आश्रमस्तूपान् तेन प्रसादकरी प्रभ लब्धा ॥मुञ्चति मेघवती यद रश्मिं संस्थिहि गन्ध प्रवर्षति मेघं ।

स्तूप वराङ्गणगन्धजलेनासिञ्चिय

[ cambridge ms f153b ---> ]

मेघवती प्रभ लब्धा ॥

भूषणव्यूह प्रमुञ्चतु रश्मीन् नग्नाचेल सुभूषण भोन्ती ।

वस्त्रनिबन्धनहारविचित्रं दत्व विभूषण रश्मि निवृत्ता ॥

[ bendall ed p341 ---> ]

रश्मि रसाग्रवती यद मुञ्ची भुक्षित भोज्य रसाग्र लभन्ती ।

भोजन पान विचित्र रसाग्रान् दत्व रसाग्रवती प्रभ लब्धा ॥अर्थनिदर्शनि मुञ्चति रश्मीन् रत्ननिधान लभन्ति दरिद्राः ।

अक्षयरत्ननिधिं त्रिभि रत्नैर् दानतार्थनिदर्शनि लब्धा ॥चक्षुविशोधनि मुञ्चति रश्मीन् अन्ध तदा दृशि रूप विचित्रम् ।

दीपप्रदान जिने जिनस्तूपे चक्षुविशोधनि रश्मि निवृत्ता ॥श्रोत्रविशोधनि मुञ्चति रश्मीन् श्रोत्रविहीन श्रुणी पृथुशब्दान् ।

वाद्यप्रदानजिने जिनस्तूपे श्रोत्रविशोधनि रश्मि निवृत्ता ॥घ्राणविशोधनि मुञ्चति रश्मीन् घ्रायि अघ्रायितपूर्व सुगन्धान् ।

गन्धप्रदान जिने जिनस्तूपे घ्राणविशोधनि रश्मि निवृत्ता ॥जिह्वविशोधनि मुञ्चति रश्मीन् स्निग्धमनोज्ञरुतै स्तुति बुद्धान् ।

वाच दुरुक्त विवर्जित रुक्षा श्लक्ष्णोदीरित रश्मि निवृत्ता ॥कायविशोधनि मुञ्चति रश्मीन् इन्द्रियहीन सुइन्द्रिय भोन्ति ।

कायप्रणाम जिने जिनस्तूपे कुर्वत कायविशोधनि लब्ध्वा ॥चित्त-

[ cambridge ms f154a ---> ]

विशोधनि मुञ्चति रश्मीन् उन्मतु सर्व सचित भवन्ति ।

चित्त समाधिवशानुग कृत्वा चित्तविशोधनि रश्मि निवृत्ता ॥रूपविशोधनि मुञ्चति रश्मीन् पश्यिय चिन्तिय रूपनरेन्द्रान् ।

रूपकशोधनि चित्रसमन्तात् स्तूपालंकरता प्रतिलब्धा ॥

शब्दविशोधनि मुञ्चति रश्मीन् शब्दाशब्दत शून्य विजानी ।

प्रत्यय जात प्रतिश्रुततुल्यं शब्दप्रकाशन रश्मि निवृत्ता ॥गन्धविशोधनि मुञ्चति रश्मीन् सर्व दुगन्ध सुगन्ध भवन्ती ।

गन्धवराग्र जनैर् जिनस्तूपान् स्नापनबोधिद्रुम प्रभाइषा ॥

[ bendall ed p342 ---> ]

ते रसशोधनि मुञ्चति रश्मीन् सद्विष निर्विष भोन्ति रसाग्राः ।

बुद्ध सश्रावकमातृपित्-र्णां सर्वरसाग्रप्रदान प्रभाइषां ॥स्पर्शविशोधनि मुञ्चति रश्मीन् कक्खट स्पर्श मृदू सुख भोन्ती ।

शक्तित्रिशूलासि [[दोउब्त्]] तोमरवर्षा माल्य मृदू पदुमोत्पल भोन्ती ॥दुष्यानेक मृदू सुखस्पर्शा संस्तरि मार्गि व्रजन्ति जिनानां ।

[ cambridge ms f154b ---> ]

पुष्पविलेपनचीवरसूक्ष्मा माल्यवितान प्रदान प्रभेयम् ॥धर्मविशोधनि मुञ्चति रश्मीन् सर्वत रोमत चिन्तिय धर्मान् ।

निश्चरतः श्रुणि लोकहितानां तोषयि सर्वधिमुक्तिजिनानाम् ॥प्रत्यय जाताजात स्वभावा धर्मशरीराजातशरीराः ।

धर्मत नित्यस्थिता गगनस्था सूचत धर्मविशोधनि लब्धा ॥रश्मि सुखाप्रमुखेति कृत्वाइकतु रोममुखात् तु ऋषीणां ।

निश्चरि गङ्गरजोपम रश्मी सर्वपृथग्विधकर्मप्रयोगाः ॥ते यथाइकत रोममुखातो ओसरि गङ्गरजोपम रश्मी ।

एवम् अशेषत सर्वतु रोमा देश समाधिविकुर्व ऋषीणां ॥येन गुणेन य रश्मि निवृत्ता तस्मि गुणेषु सहायक पूर्वे ।

तेषु तम् एव प्रमुञ्चति रश्मिं ज्ञानविकुर्वणाइष ऋषीणां ॥तेष य पुण्य सहायक पूर्वे यैर् अनुमोदित याचित येभिः ।

येभि च दृष्ट शुभोपचितं वा ते इम रश्मि प्रजानति तेषां ॥ये च शुभोपचिताः कृतपुण्याः पूजित येभि पुनः पुनः बुद्धाः ।

अर्थिक छन्दिक बुद्धगुणेभिः चोदन तेष करोतिय रश्मिः ॥

[ bendall ed p343 ---> ]

सूर्य यथा जात्यन्ध न पश्यी नो च स नास्ति उदेति स लोके ।

चक्षुसमेतोदागमु ज्ञात्वा सर्व प्रयुज्य

[ cambridge ms f343 ---> ]

स्वक स्वक धर्मे ॥

एवत रश्मि महापुरुषाणां अस्ति च ते इतरे च न पश्यी ।

मिथ्यहताधिमुक्तिविहीनाः दुर्लभ ते चोदारमतीनां ॥आभरणानि निपान विमानाः रत्न रसायन गन्धनुलेपाः ।

ते पि तु अस्ति महात्मजनस्य ते च सुदुर्लभ कृच्छ्रगतानां ॥एवत रश्मि महापुरुषाणां अस्ति च ते इतरे च न पश्यी ।

मिथ्यहताधिमुक्तिविहीनाः दुर्लभ ते चोदारमतीनां ॥यस्य् इमु [[दोउब्त्]] रश्मिप्रभेद श्रुणित्वा भेष्यन्ति श्रद्दधिमुक्ति [[दोउब्त्]] प्रसादः ।

तेन न काङ्क्ष न संशय कार्यो नाङ्ग न भेष्यि महागुणकेतुः ॥ते परिवारवियूहविकुर्वाग्रसमाध्यभिनिर्हरमाणाः ।

सर्वदशद्दिशि अप्रतिमानाः दर्शयि बुद्धसुताः परिवारं ॥ते त्रिसहस्रप्रमाणुविचित्रं पद्मम् अधिष्ठिहि रश्मिवियूहाः ।

कायपर्यङ्क परिस्फुटपद्मं दर्शयि एष समाधिविकुर्वा ॥ते दशक्षेत्ररजोपमान्ये पद्मम् अधिष्ठिहि संपरिवारं ।

सर्व परीवृत बुद्धसुतेभी ये च समाध्यसमाधिविहारी ॥ये परिपाचित तेन ऋषीणां सत्व निष्प-दित बुद्धगुणेषु ।

ते परिवारि अतं महपद्मं सर्वोदिक्षिषु प्राञ्जलिभूताः ॥

[ bendall ed p344 ---> ]

ते च समाहित बालशरीरे व्युत्थि-

[ cambridge ms f155b ---> ]

हि यौवनवेगस्थितेभ्यः ॥

यौवनवेगस्थितेषु समाहित व्युत्थिहि जीर्णक वृद्ध शरीराः ।

जीर्णकवृद्धशरीरि समाहित व्युत्थिहि श्रद्धोपासिककायात् ॥श्रद्धोपासिककायसमाहित व्युत्थिहि भिक्षुणिकायशरीरा ।

भिक्षुणिकाय शरीरि समाहित व्युत्थिहि भिक्षुबहुश्रुतकायाः ॥भिक्षुबहुश्रुतकाय समाहित व्युत्थिहि शैक्षाशैक्षशरीराः ।

शैक्षाशैक्षशरीरि समाहित व्युत्थिहि प्रत्ययबुद्धशरीरा ॥प्रत्यय बुद्ध शरीरि समाहित व्युत्थिहि बुद्धवराग्रशरीरा ।

बुद्धवराग्रशरीरि समाहित व्युत्थिहि देवतकाय शरीरा ॥देवतकायशरीरि समाहित व्युत्थिहि नागमहर्द्धिककायाः ।

नागमहर्द्धिककायसमाहित व्युत्थिहि यक्षमहर्द्धिककायाः ॥यक्षमहर्द्धिककायसमाहित व्युत्थिहि सर्वतभूतशरीराः ।

सर्वतभूतशरीरि समाहित व्युत्थिहि एकतुरोममुखातः ॥

एकतु रोममुखस्मि समाहित व्युत्थिहि सर्वत रोममुखेषु ।

सर्विषु रोममुखेषु समाहित व्युत्थिहि एकतु वालपथातः ॥एकतु वालपथस्मि समाहित व्युत्थिहि सर्वत वालपथेभ्यः ।

सर्विषु वालपथेषु समाहित व्युत्थिहि ते परमाणुरजातः ॥एकरजस्मि समाहित भूत्वा व्युत्थिहि सर्वरजेभ्याशेषम् ।

सर्वरजेषु समाहित भूत्वा व्युत्थिहि सागरवज्रतलातः ॥

[ bendall ed p345 ---> ]

सागरवज्रतलस्मि समाहित

[ cambridge ms f156a ---> ]

व्युत्थिहि ते मणिवृक्षफलेभ्यः ।

वृक्षफलेषु समाहित भूत्वा व्युत्थिहि रश्मिमुखेभि जिनानां ॥रश्मिमुखेषु जिनान समाहित व्युत्थिहि सागरतोयनदीभ्यः ।

सागरतोयनदीषु समाहित व्युत्थिहि तेजपथातु महात्मा ॥तेजपथस्मि समाहित भूत्वा व्युत्थिहि वायुपथानुस्मृतीमान् ।

वायुपथे तु समाहित भूत्वा व्युत्थिहि भूमितलानु महात्मा ॥

भूमितले तु समाहित भूत्वा व्युत्थिहि सर्वतु देवविमानात् ।

सर्वि तु देवबलान समाहित व्युत्थिहि ते गगनानुस्मृतीमान् ॥एति समाधि विमोक्षाचिन्त्यास् तेषाचिन्त्यगुणोपचितानां ।

कल्पाचिन्त्य प्रभाषियमाणाः सर्वजिनेभि न शक्य क्षयीतुम् ॥सर्वजिनेभि च भाषिताइते कर्मविपाकु जगस्याचिन्त्यो ।

नागविकुर्वित बुद्धविकुर्वा ध्यायिन ध्यानाचिन्त्य विकुर्वा ॥ते च वशे स्थिताष्ट विमोक्षाः श्रावकाइक भवीबहु भोन्ती ।

भूत्व बहुः पुनाइक भवित्वा ध्यायति प्रज्वलते गगनस्मिन् ॥ते हि महाकरुणाय विहीना बोधि अनर्थिकु लोकोपेक्षी ।

दर्शयि कायविकुर्वाचिन्त्या कस्य न दर्शयि लोक हिताइषी ॥चन्द्र स सूर्य नभे विचरन्तौ दर्शयि सर्वदिशि प्रतिभासं ।

उत्ससरोह्रदकूपतडा-

[ cambridge ms f156b ---> ]

गे भाजनरत्नसमुद्रनदीषु ॥

[ bendall ed p346 ---> ]

एवम् अचिन्तिय दर्शियि रूपं सर्वदशद्दिशि ते नरवीराः ।

सर्वसमाधिविमोक्षविधिज्ञा यत्र तथागत साक्षि स्वयंभूः ॥सागरदेव रुतावतिनामा यावत् सत्व समुद्र्य् उत्पन्ना ।

तेषु स्वराङ्गरुतेषु विधिज्ञा तोषयि सर्वरुतान् स्वरुतेन ॥सा हि सराग सदोष रुतावति सर्वरुते प्रतिघोष विधिज्ञा ।

धारणिधर्मबलं वशिप्राप्ता कः स न तोषि सदेवकलोकम् ॥मायकरो यथ विद्यविधिज्ञो दर्शयि रूप विचित्रानन्तान् ।

रात्रिदिवाइकमुहूर्तुकु मासान् वर्षशतं पुन स्फीतप्रदीप्तान् ॥मायकरो हि सरागु सदोषो तोषयि मायविकुर्वित लोकं ।

ध्यानाभिज्ञ विमोक्षसुशिक्षित कस्य न तोषयि चर्यविधिज्ञः ॥राहु यथेष य निर्मणि कायं कुर्वति वज्र पदे तलबन्धं ।

दर्शन सागरु नाभिप्रमाणं भोति सुमेरुतले सम शीर्षः ॥सो ऽपि सरागु सदोष समोहो राहु निदर्शयीदृश ऋद्धी ।

मारप्रमर्दन लोकप्रदीप कस्य न दर्शयि ऋद्धि अनन्ता ॥पश्याचिन्तिय शक्रविकुर्वा देवसुरेन्द्ररणस्मि प्रवृत्ते ।

यातुक बिम्बरनेकसुराणां तातुक निर्मणि शक्रु स्वकायान् ॥

[ bendall ed p347 ---> ]

सर्वसुरेन्द्रसुराश् च विजानी शक्रम ... पुरतो गत स्वायुम् ।एष गृह्येत वज्रधराणां संभ्रमु गच्छिसु सर्वसुरेन्द्राः ॥नेत्र सहस्र भयङ्कर दर्शी ज्वालप्रमुञ्चन वज्र गृहीतं ।

वर्मित काय दुरासद तेज शक्रम् उदीक्ष्य पलात्व् असुरेन्द्राः ॥ सो हितेत्वरपुण्यबलेना शक्र विकुर्वति देवजयार्थी ।

सर्वजगस्याशेषत त्राणां अक्षयपुण्य कुतो न विकुर्वी ॥ ...

वायुत संभुत मेघप्रवर्षी वायुत मेघ पुनः प्रसमेन्ती ।

वायुत सस्य विरोहति लोके वायु सुखावह सर्वजगस्य ॥

सो हि अशिक्षित पारमितासु बुद्धगुणेषु अशिक्षित वायुः ।

दर्शयि लोकविपाकाचिन्त्या कस्य न दर्शयि ते वरलब्धा ॥

इति शिक्षासमुच्चये रत्नत्रयानुस्मृतिनामाष्टादशः परिच्छेदः समाप्तः ॥

नवदशः परिच्छेदः ॥

अन्यो ऽपि पुण्यवृद्धये हेतुः कार्यः ।

यो ऽयं सर्वावस्थासु सत्वार्थः ॥यथा कथितं चार्यरत्नमेघे ।

स तथागतचैत्ये वा तथागतविग्रहे वा पुष्पं वा धूपं वा गन्धं वा ददत् सर्वसत्वानां दौःशील्यदौर्गन्ध्यमलापनयनाय तथागतशीलप्रतिलम्भाय च परिणामयति ।

स सन्मार्जनोपलेपनं कुर्वन् सर्वसत्वानाम् अप्रासादिकेर्यापथविगमाय ।

प्रासादिकेर्यापथसंपदे च परिणामयति ।

स पुष्पच्छत्रम् आरोपयन् सर्वसत्वानां सर्वक्लेशपरिदाहविगमाय परिणामयति ।

स विहारं प्रविशन्न् एवं चित्तम् उत्पादयति ।

[ cambridge ms f158a ---> ]

सर्वसत्वान् निर्वाणपुरं प्रवेशयेयं ।

स निष्क्रमन्न् एवं चित्तम् उत्पादयति ।

सर्वसत्वान् संसारचारकान् निष्क्रामयेयं ।

स लभनद्वारम् उद्घाटयन्न् एवं चित्तम् उत्पादयति ।

सर्वसत्वानां लोकोत्तरेण ज्ञानेन निर्वाणसुगतिद्वारम् उद्घाटयेयं ।

स पिथद् एवं चित्तम् उत्पादयति ।

सर्वसत्वानां सर्वापायद्वाराणि पिदध्यां ।

स निषीदन्न् एवं*चित्तम् उत्पादयति ।

सर्वसत्वान् बोधिमण्डे निषादयेयं ।

स दक्षिणेन पार्श्वेन शय्यां कल्पयन्न् एवं चित्तम् उत्पादयति ।

सर्वसत्वान् एव परिनिर्वापयेयं ।

स ततो व्युत्तिष्ठन्न् एवं चित्तम् उत्पादयति ।

सर्वसत्वान् व्युत्थापयेयं सर्वक्लेशपर्युत्थानेभ्यः ।

स शरीरगत्या गच्छन्न् एवं चित्तम् उत्पादयति ।

सर्वसत्वा महापुरुषगत्या गच्छन्तु ।

स तत्रोपविष्टए एवं चित्तम् उत्पादयति ।

सर्वसत्वा निःशल्यक्रिया यद् उत रागद्वेषमोहेभ्यः ।

स शौचं कुर्वन्न् एवं चित्तम् उत्पादयति ।

सर्वसत्वानां क्लेशमलात् प्रक्षालयेयं ।स हस्तौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति ।

सर्वसत्वानां सर्वक्लेश-

[ bendall ed p349 ---> ]

वासनाम् अपनयेयं ।स पादौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति सर्वसत्वानाम् अनेकप्रकाराणि क्लेशरजांस्य् अपनयेयं ।मुखं प्रक्षालयन्न् एवं चित्तम् उत्पादयति ।

सर्वसत्वानां सर्वधर्ममुखानि परिशोधयेयं ।

स दन्तकाष्ठं भक्षयन्न् एवं चित्तम् उत्पादयति ।

सर्वसत्वानां नानाविधान् क्लेशमलान् अपनयेयं ।

सर्वां कायावस्थां सर्वसत्वहितसुखाय परिणामयति ।

तथागतचैत्यं वन्दमानाइवं चित्तम् उत्पादयति ।

सर्वसत्वा वन्दनीया भवन्तु सदेवकस्य लोकस्येति ॥अथवा यथार्यप्रज्ञापारमितायां ।

पुनर् अपरं शारिपुत्र व्याडकान्तारमध्यगतेन बोधिसत्वेन महासत्वेन नोत्त्रसितव्यं न संत्रसितव्यम् न संत्रासम् आपत्तव्यम् ।

तत् कस्माद् धेतोः ।

तथा हि तेन सर्वं परित्यक्तं सर्वसत्वानाम् अर्थाय ।

तेनाइवं चित्तम् उत्पादयितव्यम् ।सचेन् मां व्याडा भक्षयेयुस् तेभ्याइव तद् दानं दत्तं भवतु ।

मम च दानपारमितापरिपूरिर् भविष्यति ।

अभ्यासन्ना च भविष्यति ।

तथा च करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबो-

[ cambridge ms f158b ---> ]

धिम् अभिसम्बुद्धस्य सतस् तत्र बुद्धक्षेत्रे तिर्यग्योनिगताः सत्वाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥चोरकान्तारमध्यगतेन शारिपुत्र बोधिसत्वेन महासत्वेन नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।तत् कस्माद् धेतोः ।

सर्वस्वपरित्यागकुशला हि ते बोधिसत्वा महासत्वोत्सृष्टकायेनापि च बोधिसत्वेन भवितव्यं परित्यक्तपरिष्कारोपकरणेन च ।

तेनाइवं चित्तम् उत्पादयितव्यं ।ते चेन् मे सत्वाः परिष्कारोपकरणानि हरन्ति तेभ्याइवाइतद् दानं दत्तं भवतु ।

सचेन् मां केचिज् जीविताद् व्यपरोपयेयुः तत्र मया न द्वेषो न क्रोधोत्पादयितव्यः ।

तेषाम् अपि मया न कायेन न वचसा न मनसापराद्धव्यं ।

एवं च मे तस्मिन् समये दानपारमिता च शीलपारमिता च क्षान्तिपारमिता च परिपूरिं गमिष्यति ।

अनुत्तरा च मे सम्यक्संबोधिर् अभ्यासन्ना भविष्यति ।

तथा च करिष्यामि तथा प्रतिपत्स्ये यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्धक्षेत्रे ।

एते चान्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥पानीयकान्तारमध्यगतेन शारिपुत्र बोधिसत्वे-

[ cambridge ms f159a ---> ]

न महास-

[ bendall ed p350 ---> ]

त्वेन नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।तत् कस्माद् धेतोः ।

असंत्रस्तधर्माणो हि बोधिसत्वा महासत्वा भवन्ति ।

एवं चानेन चित्तम् उत्पादयितव्यं ।

सर्वसत्वानां मया सर्वतृष्णच्छेदाय शिक्षितव्यं ।

न बोधिसत्वेन महासत्वेन संत्रासम् आपत्तव्यं ।सचेद् अहं तृष्णया कालं करिष्यामि ।

अपि तु खलु पुनः सत्वानाम् अन्तिके महाकरुणाचित्तम् उत्पादयिष्यामि ।

अहो वताल्पपुण्यामी सत्वा यद् एतेषां लोके एवंरूपाणि पानीयकान्ताराणि प्रज्ञायन्ते ।

तथा पुनर् अहं करिष्यामि तथा प्रतिपत्स्ये यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीयकान्ताराणि न प्रज्ञास्यन्ते ।

तथा च सर्वसत्वान् पुण्यैः संयोजयिष्यामि यथाष्टाङ्गोपेतपानीयलाभिनो भविष्यन्ति ।

तथा दृढं वीर्यम् आरप्स्ये सर्वसत्वानां कृतशो यथा वीर्यपारमिता तस्मिन् समये परिपूरिं गमिष्यन्ति ॥पुनर् अपरं शारिपुत्र बुभुक्षाकान्तारमध्यगतेन बोधिसत्वेन महासत्वेन नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।

एवं चानेन संनाहः संनद्धव्यः ।

तथा दृढं वीर्यम् आरप्स्ये तथा च स्वं बु-

[ cambridge ms f159b ---> ]

द्धक्षेत्रं परिशोधयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं एवंरूपाणि बुभुक्षाकान्ताराणि न भविष्यन्ति न प्रज्ञास्यन्ते ।

सुखिताइव ते सत्वा भविष्यन्ति सुखसमङ्गिनः ।

सर्वसुखसमर्पितास् तथा च करिष्यामि यथा तेषां सत्वानां यो याइवाभिप्रायो भविष्यति यद् यद् एवाकाङ्क्षिष्यन्ति मनसा तत् तद् एव प्रादुर्भविष्यति ।

तद् यथापि नाम देवानां त्रायस्त्रिंशानां मनसा सर्वं प्रादुर्भवति मनसा सर्वम् उत्पद्यते ।

तथा दृढं वीर्यम् आरप्स्ये यथा तेषां सत्वानां धार्मिकाभिप्रायाः परिपूरिं गमिष्यन्ति ।

अवैकल्यं च जीवितपरिष्कारैः सर्वसत्वानां भविष्यति सर्वेषां सर्वतः सर्वदेति ॥एवम् अयं ... सर्वावस्थासु सत्वार्थः ... पुण्यवृर्धिहेतुः ।

विस्तरतस् त्व् आर्यगोचरपरिशुद्धिसूत्रे द्रष्टव्यः ॥

किं च ।

... धर्मदानं निरामिषं ।

पुण्यवृद्धिनिमित्तं भवति ॥

[ bendall ed p351 ---> ]

यथोक्तम् आर्याध्याशयसंचोदनसूत्रे ।

विंशतिर् इमे मैत्रेयानुशंसा निरामिषदाने ।

यो लाभसत्कारम् अप्रतिकाङ्क्षन् धर्मदानं ददामि ।

कतमे विंशतिः ।

यद् उत ।

स्मृतिमांश् च भवति मतिमांश् च भवति बुद्धिमांश् च भवति गतिमांश् च भवति धृतिमांश् च भवति प्रज्ञावांश् च भवति ।

[ cambridge ms f160a ---> ]

लोकोत्तरां च प्रज्ञाम् अनुविध्यति ।

अल्परागो भवति ।

अल्पद्वेषो ऽल्पमोहः ।

मारश् चास्यावतारं न लभते ।

बुद्धैर् भगवद्भिः समन्वाह्रियते ।

अमनुष्याश् चाइनं रक्षन्ति ।

देवाश् चास्याउजः काये प्रक्स्.इपन्ति ।

अमित्राश् चास्यावतारं न लभन्ते ।

मित्राणि चास्याभेद्यानि भवन्ति ।

आदेयवचनश् च भवति ।

वैशारद्यांश् च प्रतिलभते ।

सौमनस्यबहुलश् च भवति विद्वत्प्रशस्तश् च ।

अनुस्मरणीयं चास्य तद् धर्मदानं भवति ।

इमे मैत्रेय विंशतिर् अनुशंसेति ॥आर्यप्रज्ञापारमितायां त्व् आह ।

सचेत् त्वम् आनन्द श्रावकयानिकानां पुद्गलानां श्रावकभूमौ धर्मं देशेयः ।

तस्यां च धर्मदेशनायां ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे ऽर्हत्वं साक्षात् कुर्युस् तद् अद्यापि त्वया मे श्रावकेण श्रावककृत्यं न कृतं स्यात् ।

सचेत् पुनः त्वम् आनन्द बोधिसत्वस्य महासत्वस्याइकम् अपि प्रज्ञापारमिताप्रतिसंयुक्तं पदं देशयेः प्रकाशयेर् एवम् अहं त्वया श्रावकेणाराधितः स्यां ।

तया च पूर्विकया धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे ऽर्हत्वं प्राप्नुयुस् तेषां चार्हतां यद् दानमयं पुण्यक्रियावस्तु शीलम-

[ cambridge ms f160b ---> ]

यं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु ।

तत् किं मन्यसे आनन्दापि तु स बहु पुण्यस्कन्धः ।

आह ।

बहु भगवन् बहु सुगत ।

भगवान् आह ।

अतः सानन्द श्रावकयानिकपुद्गलो बहुतरं पुण्यस्कन्धं प्रसवति यो बोधिसत्वानां महासत्वानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति ।

अतो ऽप्य् आनन्द बहुतरं पुण्यस्कन्धं प्रसवति यो बोधिसत्वो महासत्वो ऽपरस्य बोधिसत्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति ।

अन्तशाइक-

[ bendall ed p352 ---> ] divasam api |

तिष्ठत्व् आनन्दाइकदिवसः ।

अन्तशः प्राग्भक्तम् अपि ।

तिष्ठत्व् आनन्द प्राग्भक्तं ।

अन्तशाइकनालिकाम् अपि ।

यावद् अन्तशाइकक्षणसंनिपातम् अपि ।

पेयालं ॥

इदम् आनन्द तस्य बोधिसत्वस्य महासत्वस्य धर्मदानं सर्वश्रावकयानिकानाम् अपि सर्वप्रत्येकबुद्धयानिकानां च पुद्गलानां कुशलमूलम् अभिभवति ।

एवं कुशलमूलसमन्वागतो बोधिसत्वो महासत्वः ।

एवं कुशलमूलं समन्वाहरन्न् अस्थानम् आनन्दानवकाशो यत् स बोधिसत्वो महासत्वो विवर्तेतानुत्तरायाः सम्यक्संबोधेः ।

नाइतत् स्थानं विद्यतए इति ॥कथं धर्मदानं दातव्यं ।

यथार्यसद्धर्मपुण्डरीके ऽभिहितं । कालेन चो चिन्तयमा-

[ cambridge ms f161a ---> ]

नु पण्डितः प्रविश्य लयनं तथ घट्टयित्वा ।

विपश्य धर्मं इमि सर्व योनिशो उत्थाय देशेतालीनचित्तः ॥सुखस्थितो भोति सदा विचक्षणो सुखं निषण्णस् तथ धर्म भासते ।

उदारप्रज्ञप्त करित्वासनं चौक्षे मनोज्ञे पृथिवीप्रदेशे ॥चौक्षं च सो चीवर प्रावरित्वा सुरक्तरङ्गं च प्रसन्नरङ्गैः ।

आसेवकं कृष्ण तथा ददित्वा महाप्रमाणं च निवासयित्वा ॥

[ bendall ed p353 ---> ]

सपादपीठस्मि निषद्यासने विचित्रदुष्येहि सुसंस्तृतस्मिन् ।

सुधौतपादश् चोपारुहित्वा स्निग्धेन शीर्षेण मुखेन चापि ॥धर्मासने तत्र निषीदियानः एकाग्र सत्वेषु समं विपश्यन् ।

उपसंहरेच् चित्रकथा बहूश् च भिक्षूनश् चो भिक्षुनिकास् तथाइव ॥किलासिताश् चापि विवर्जयीत न चापि उत्पादयि खेदसंज्ञां ।

अरतिं च सर्वां विजहीत पण्डितः मैत्रीबलं पर्षदि भावयेच् च ॥भाषेच् च रात्रिंदिवम् अग्रधर्मान् दृष्टान्तकोटीनियुतैः स पण्डितः ।

संहर्षयेत् तां च तथाइव तोषयेत् न चापि किञ्चित् तत्र जातु प्रार्थयेत् ॥ख्ōüद्यं च भोज्यं च तथान्नप्ōüनं वस्त्र्ōüणि शय्यासनचीवर्ōüणि ।

गिलानभैषज्य न चिन्तयेत् सः न विज्ञपे-

[ cambridge ms f161b ---> ]

त् पर्षदि किञ्चिद् अन्यत् ॥

[ bendall ed p354 ---> ]

अन्यत्र चिन्तेय सदा विचक्षणः भवेय बुद्धो ऽहम् इमे च सत्वा ।

एतच् च मे सर्वसुखोपधानं यं धर्म श्रावेमि हिताय लोके ॥अत्राइवाह ॥

न कस्यचिद् अन्तशो धर्मप्रेम्णाप्य् अधिकतरम् अनुग्रहं करोति ॥

आर्यचन्द्रप्रदीपसूत्रे ऽप्य् आह ।

अध्येषयेयुर् यदि त्वां ते धर्मदानस्य कारणात् ।

प्रथमं वाच भाषेया नाहं वैतुल्यशिक्षितः ॥

एवं त्वं*वाच भाषेया युष्मे वा विज्ञपण्डिताः ।

कथं महात्मनां शक्यं पुरतो भाषितुं मया ॥

सहसाइषां न जल्पेत तुलयित्वा तु भाजनं ।

यदि भाजनं विजानीयाः अनधीष्टो ऽपि देशयेः ॥

यदि दुःशीलान् पश्येसि परिषायां बहून् स्थितान् ।

संलेखं मा प्रभाषे त्वं वर्णं दानस्य कीर्तयेः ॥

भवेयुर् यदि चाल्पेच्छाः शुद्धाः शीले प्रतिष्ठिताः ।

मैत्रं चित्तं जनित्वा त्वं कुर्याः संलेखिकीं कथाम् ॥

[ bendall ed p355 ---> ]

परीत्ता यदि पापेच्छाः शीलवन्तो ऽत्र विस्तराः ।

लब्धपक्षस् तदा भूत्वा वर्णं शीलस्य कीर्तयेः ।

इति ॥उक्तं चार्यसागरमतिसूत्रे ।

तद् यथा ।

समे ।

समवति ।

शमितशत्रु ।

अङ्कुरे ।

मङ्कुरे ।

मारजिते ।

कराडे ।

केयूरे ।

ओघवति ।

ओहोकयति ।

विशठनिर्मले ।

मलापनये ।

ओखरे ।

खरोग्रसे ।

[ cambridge ms f162a ---> ]

ग्रसने ।

हेमुखी ।

पराङ्मुखी ।

आमुखी ।

शमितानि सर्वग्रहबन्धनानि ।

निगृहीताः सर्वपरप्रवादिनः ।

विमुक्ता मारपाशाः ।

स्थापिता बुद्धमुद्राः समुद्घातिताः सर्वमाराः ।

अचलितपदपरिशुद्ध्या विगच्छन्ति सर्वमारकर्माणि ॥

इमानि सागरमते मन्त्रपदानि धर्मभाणकेन सुप्रवृत्तानि कृत्वा धर्मासनकेन सुप्रवृत्तानि कृत्वा धर्मासननिषण्णेन सर्वां पर्षदं बोध्याकाराभिनिर्हृतया मैत्र्या स्फरित्वा ।

आत्मनि वैद्यसंज्ञाम् उत्पाद्य धर्मे भैषज्यसंज्ञां धर्मश्रवणिकेष्व् आतुरसंज्ञां तथागते सत्पुरुषसंज्ञां धर्मनेत्र्यां चिरस्थितिकसंज्ञाम् उत्पाद्येमानि मन्त्रपदान्य् आमुखीकृत्य धर्मसंकथा करणीया ।

तस्य समन्ताद् यो जनशते न मारो न मारकायिका वा देवतोपसंक्रमयिष्यन्ति विचक्षुःकरणे ।

ये ऽप्य् एनम् उपसंक्रमिष्यन्ति ते ऽप्य् अस्य न शक्ष्यन्त्य् अन्तरायं कर्तुम् इति ॥अत्राइवाह ।

धर्मभाणकेन चौक्षेण शुचिसमुदाचारेण सुस्नातेन शुचिनिवासितेन भवितव्यम् इति ॥एवं धर्मदानं ॥

[ bendall ed p356 ---> ]

बोधिचित्तं च पुण्यस्य वृद्धिहेतुः समासतः ॥यथोक्तम् आर्यरत्नकरण्डकसूत्रे ।

तद् यथापि नाम मञ्जुश्रीर् नानागन्धवृक्षाश् च चतुर्धातुसंगृहीता विवर्धन्ते ।

एवम् एव मञ्जुश्रीर् नानासंभारोपचितं बोधिसत्वस्य कुशलमूलं ।

बोधिचित्तसंगृहीतं सर्वज्ञतापरिणामितं विवर्धतए ।

इति ॥एषादिकादिक-

[ cambridge ms f162b ---> ]

र्मिकाणां सहसा बोधिसत्वशिक्षा स्मरणार्थम् उपदर्शिता ।

विस्तरतस् तु बुद्धविषयाइव ॥अत्र चास्या यथोक्तायाः शिक्षायाः ।

सिद्धिः सम्यक्प्रहाणानाम् अप्रमादावियोजनात् ।

स्मृत्याथ संप्रजन्येन योनिशश् चिन्तनेन च ॥तत्रानुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादायाइव छन्दं जनयति व्यायच्छति वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक्प्रणिदधातीत्य् अनेन रक्षा ॥उत्पन्नानां च प्रहाणाय छन्दं जनयतीत्य् अनेन शुद्धिः ।

अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयति ।

यावद् उत्पन्नानां च स्थितये भूयोभावाय छन्दं जनयतीत्य् आदि ।

अनेन वृद्धिः ।

एतानि च नित्यम् अप्रमादाधिष्ठितानि कार्याणि सर्वकुशलमूलानां तन्मूलत्वात् ॥यथोक्तम् आर्यचन्द्रप्रदीपसूत्रे ।

यावन्त धर्माः कुशलाः प्रकीर्तिताः शीलश्रुतं त्यागु तथाइव क्षान्तिः ।

सर्वेषु मूलं ह्य् अयम् अप्रमादो निधानलम्भः सुगतेन देशित ।

इति ॥

को ऽयम् अप्रमादो नाम ।

इष्टविघातानिष्टागमशङ्कापूर्वकं प्रतिकारतात्पर्यं ।

तद् यथा तीव्रकोपप्रसादस्य राज्ञो भैषज्यतैलपरिपूर्णभाजनं गृहीत्वा पिच्छिल-

[ cambridge ms f163a ---> ]

संक्रमेण भृत्यस्य

[ bendall ed p357 ---> ]

गच्छतः ॥उक्तं ह्य् आर्यतथागतगुह्यसूत्रे ।तत्र कतमो ऽप्रमादो ।यद् इन्द्रियसंवरः ।

स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति ।

नानुव्यञ्जनग्राही ।

एवं यावन् मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति ।

नानुव्यञ्जनग्राही ।

सर्वधर्मेष्व् आस्वादं चादीनवं च निःशरणं च यथाभूतं प्रजानाति ।

अयम् उच्यते ऽप्रमादः ॥पुनर् अपरम् अप्रमादो यत् स्वचित्तस्य दमनं परचित्तस्यारक्षा क्लेशरतेर् अपरिकर्मणा धर्मरतेर् अनुवर्तनं यावद् अयम् उच्यते ऽप्रमादः ।

यस्य गुह्यकाधिपते श्रद्धा चाप्रमादश् च तस्यानुलोमिकेन वीर्येण कार्यं ।

येन तान् अप्रमादकारणान् श्रद्धाकारणांश् च धर्मान् समुदानयति ।

यस्य गुह्यकाधिपते श्रद्धा चाप्रमादश् च वीर्यं च तेन स्मृतिसंप्रजन्ये योगः करणीयः ।

येन स्मृतिसंप्रजन्येन सर्वान् बोधिपक्षान् धर्मान् न विप्रणाशयति ।

यस्य गुह्यकाधिपते श्रद्धा चाप्रमादश् च वीर्यं च स्मृतिसंप्रजन्यं च तेन योनिशः प्रयोगे योगः करणीयः ।

योनिशः प्रयुक्तो हि गुह्यकाधिपते बोधिसत्वो यद् अस्ति तद् अस्तीति प्रजानाति ।

यन् नास्ति तन् नास्तीति प्रजानाति ।

यावद् अस्ति संवृत्या चक्षुर् इत्य् आदि ॥तथा अत्राइवाह ।

सदाप्रमादो ह्य् अमृतस्य मूलं सत्वार्थयु-

[ cambridge ms f163b ---> ]

क्तस्य च बोधिचित्तं ।

यद् योनिशश् चाइव विवेकचित्तम् अपरिग्रहः सर्वसुखस्य मूलम् इति ॥आह च ।

परात्मसमताभ्यासाद् बोधिचित्तं दृढीभवेत् ।

आपेक्षिकं परात्मत्वं पारावारं यथामृषा ॥

[ bendall ed p358 ---> ]

तत्कूलं न स्वतः पारं किम् अपेक्ष्यास्त्व् अपारता ।

आत्मत्वं न स्वतः सिद्धं किम् अपेक्ष्य परो भवेत् ॥तद्दुष्खेन न मे बाधेत्य् अतो यदि न रक्षसि ।

नागामिकायदुष्खात् ते बाधा तत् केन रक्षसि ॥अहम् एव तदापीति मिथ्येयं परिकल्पना ।

अन्याइव मृतो यस्माद् अन्यस् तत्र प्रजायते ॥अन्यश् चेज् जायते तत्र किं पुण्येन प्रयोजनं ।

यूनः किं वृद्धकायस्य सुखाय धनसंचयैः ॥मृते गर्भगते तावद् अन्यो बालः प्रजायते ।

मृते बाल्ये कुमारत्वं तन्नाशायागतो युवा ॥

तन्नाशाच् चागतो वृद्धः ।

एकः कायः कथं मतः ।

एवं प्रतिक्षणं चान्यः कायः केशनखादिवत् ॥

अथ बाल्यापरित्यागाद् बालो याति कुमारतां ।

कायस्वभावो वक्तव्यो यो ऽवस्थारहितः स्थितः ।

कायश् चेत् प्रतिमाकारः पेसीभस्मसु नास्ति सः ॥सूक्ष्मभावेन चेत् तत्र स्थौल्यं त्यक्त्वा व्यवस्थितः ।

अनिर्देश्यः स्वतः प्राप्तः ।

कायेत्य् उच्यते न सः ॥तत्र चिन्ताइव मे नास्ति दृश्यकायस् तु नाशवान् ।

अवस्थाभिश् च संबन्धः संवृत्या चाइव दृश्यते ॥

[ bendall ed p359 ---> ]

आग-

[ cambridge ms f164a ---> ]

माच् च तद् अस्तित्वं युक्त्यागमनिवारितम् ।

न गुणव्यतिरेकेण प्रधानं विद्यते यतः ॥न च त्रीणि प्रधानानि तथा सत्ता गुणापि ।

प्रत्येकं त्र्यात्मकास् ते ऽपि शेषं नाइकविधं जगत् ॥अचेतनं च वस्त्रादि तत्सुखाद्यात्मकं कथम् ।

सुखादेर् न पट्टोत्पत्तिः पट्टादेस् तु सुखादयः ।

पट्टादीनाम् अहेतुत्वाद् अभावस् तत्सुखं कुतः ॥तस्माद् आगमयुक्तिभ्यां अनित्यं सर्वसंस्कृतं ।तद् धेतुफलसंबन्धः प्रत्यक्षत्वान् न साध्यते ॥स्वसंताने च दृष्टो ऽसौ नित्येषु च कथं यथा ।

परम् अणुस् [[दोउब्त्]] तु नाइको ऽस्ति दिग्भेदानुपपत्तितः ॥दीपतैलं क्षयं याति क्षीयमानं न लक्ष्यते ।

एवं भावा न लक्ष्यन्ते क्षीयमानाः प्रतिक्षणं ॥संतानः समुद्ōüयश् च पङ्क्तिसेनादिवन् मृष्ōü ।

तत्राभ्यासाद् अहंकारः परस्मिन् किं न जायते ॥

[ bendall ed p360 ---> ]

तस्माद् एवं जगत् ज्ञेयं यथायतनसंचयः ।

अप्राप्तम् एव तद् दुष्खं प्रतिकार्यं परात्मनोः ॥अयुक्तम् अपि चेद् एतत् स्वात्मन्य् अस्तीतरत्र न ।

यद् अयुक्तं निवर्त्यं तत् स्वम् अन्यद् वा यथाबलं ॥कृपया बहु दुष्खं चेत् कस्माद् उत्पाद्यते बलात् ।

जगद्दुष्खं निरूप्येदं कृपादुष्खं कथं बहु ॥एवं भावितसंतानाः परदुष्खसमप्रियाः ।

अवीचीम् अवगाहन्ते हंसाः पद्मवनं यथा ॥सत्वेषु मुच्यमानेषु ये ते प्रामोद्यसागराः ।

तैर् एव ननु पर्याप्तं मोक्षेणाप्य् अरसेन किम् ॥

एवं परार्थं कृत्वापि न मदो न च विस्मयः ।

न विपाकफलाकाङ्क्षा परार्थाइकान्ततृष्णया [[दोउब्त्]] ॥दशदिक्सत्वसंपत्तिर् आत्मी-

[ cambridge ms f164b ---> ]

यास्य न संशयः ।

नास्त्य् एर्ष्यावकाशो ऽपि परसौख्ये स्वसंज्ञया ॥

[ bendall ed p361 ---> ]

परेषाम् आत्मनो वापि सामान्या पापदेशना ।

पुण्यानुमोदना चाइवं बुद्धाध्येषणयाचनं ॥

परिणामनम् अप्य् एवं निर्विशेषं प्रवर्तते ।

पुण्यं प्रवर्तते तस्माद् अनन्तं सत्वधातुवत् ॥अयं स मार्गप्रवरः क्षेमानन्तसुखोत्सवः ।

बोधिसत्वमहासार्थ कलिलप्रीतिवर्धनः ॥

पाल्यमानश् च सततं वज्रपाण्यातियान्त्रिकैः ।

मारगुल्मिकसंत्रासजननैर् बुद्धकिंकरैः ॥संबुद्धराजतनया बोधिचित्तरथस्थिताः ।

वहन्ते तेन मार्गेण स्तूयमानाः सुरादिभिः ॥

तस्माद् आत्मत्वम् आरोप्य सत्वेष्व् अभ्यासयोगतः ।

परात्मदुष्खशान्त्यर्थम् आत्मादीन् सर्वथोत्सृजेत् ॥तृष्णा परिग्रहो यस्य तस्य दुष्खं न शाम्यति ।

परिणामविनाशित्वात् स दुष्खजनको यतः ॥लोके दुष्खाग्नितप्ते च का रतिः सुसुखे भवेत् ।

समन्ताद् दह्यमानस्य नखादाहे ऽपि किं सुखम् ॥आत्मतृष्णा च सर्वेषां दुष्खाणां मूलम् उत्तमं ।

तस्मान् निहन्मि ताम् एव सत्वेभ्यः स्वार्थम् उत्सृजन् ॥

[ bendall ed p362 ---> ]

तद् अग्रदूती ज्ञातेच्छा जेतव्या सर्वयत्नतः ।

आत्मतत्वस्मृतिं कृत्वा प्रतीत्योत्पादचिन्तया ॥यद् भयान् नोत्सृजाम्य् एतत् तद् एवाददतो भयं ।

प्रतिक्षणं हि यात्य् एव कायश् चित्तं च मे यतः ॥यदि नि-

[ cambridge ms f165a ---> ]

त्याप्य् अनित्येन निर्मला मलवाहिना ।

बोधिः कायेन लभ्येत ननु लब्धा मयाइव सा ॥एवम् आत्मानम् उत्सृज्य सर्वसत्वार्थम् आचरेत् ।

भैषज्यप्रतिमाकल्पो लोकधर्मेष्व् अचिन्तकः ॥सर्वसत्वार्थमन्त्रित्वे स्वप्रज्ञां विनियोजयेत् ।

युक्त्या संरक्ष्य तु द्रव्यं सत्वेषु वोपयोजयेत् ॥स्वकाये परकाये वा यद् दुष्खं नेह दुष्खकृत् ।

सत्वानां भोगविघ्नत्वात् क्लेशाः शोध्याः प्रयत्नतः ।

लोकोपजीव्यात् सत्तीर्थाद् [[दोउब्त्]] भुजङ्गकुणपेव ॥पुण्यक्षेत्रम् इदं शुद्धं संपत्सस्यमहाफलं ।

सुखदुर्भिक्षसंतप्तं जगत् संतर्पयिष्यति ॥लाभसत्कारकायादि त्यक्तं ननुजने [[दोउब्त्]] मया ।

कोपः कस्यार्थम् अद्यापि मृषा वा तन् मयोदितम् ॥स्वार्थघ्नेषु यदि द्वेषः कृपा कुत्र भविष्यति ।

निर्दयस्यापि कः कोपः परार्थो यदि नश्यति ॥

[ bendall ed p363 ---> ]

आक्रोशादिक्षमाः सत्यम् इक्षुकस् तूरिकादयः ।

स्वाम्य्-असनेन दुर्न्यस्ता नोपभोग्या भवन्ति ते ॥चिन्तयति प्रतीकारं न च स्वामिहितेच्छया ।

नापि संचोदयत्य् एनं भोगार्थं नोपयाति च ॥अनुस्मृत्योपस्मृत्याइतान् अकृष्टोप्ता जिनात्मजाः ।

नानाविषयधातूनां सार्वेन्द्रियमहागदान् ॥विज्ञप्य स्मारयित्वाइतान् क्रुद्धान् अप्य् उपकारिणः

[ cambridge ms f165b ---> ]

स्वभावात्यक्तमाधुर्याः सुखयन्त्य् एव दुष्खितान् ॥

धातवः पञ्च भूवारितेजो ऽनिलखसंज्ञिताः ।

यावत् सत्वाः स्थितास् तावत् सर्वेषाम् अर्थकारिणः ॥सर्वदुश्चरितेनाइषां सत्वार्थाद् विनिवर्तनं ।

एवम् एतान् करोम्य् एष धातून् षड् अपि निर्व्यथान् ॥यावद् आकाशनिष्टस्य निष्ठा लोकस्य संभवेत् ।

तावत् स्थास्यामि लोकार्थं कुर्वन् ज्ञानपुरःसरः ॥आत्माचार्यो ऽनुशियष्याद् धि सदात्मानं सुशिष्यवत् ।

अपृष्ट्वा चात्मनात्मानं बलेनारक्षितक्रियः ॥

[ bendall ed p364 ---> ]

काइव मम दुष्खेन दुष्खी स्यान् मे भयाद् भयी ।

तद्दोषानुशयज्ञो वा यथात्मगुरुर् आत्मनः ॥अविराग्य्- अपलायी च करुणाविषयो ऽपि वा ।

नित्यसंनिहितश् चापि शिष्यात्मसमः कुतः ॥क्लेशोन्मत्तो ऽथ मोहान्धः प्रपातबहुले पथि ।

स्खलन् पदे पदे शोच्यः परात्मा च सर्वदा ॥स्खलितान्वेषणं तस्मात् समानव्यसनाज् जनात् ।

न युक्तं युज्यते त्व् अत्र गुणान् दृष्ट्वाद्भुतं महत् ॥नाइकेन शक्यम् आदातुं मया दोषमहोदधिः ।

कृत्यम् अन्यैर् ममाइवात्र को ऽन्यदोषेषु मेक्षणः ॥परचोदनदक्षाणाम् अनधीष्टोपकारिणां ।

वाक्यं मूर्ध्ना प्रतीच्छामि सर्वशिष्यो भवाम्य् अहं ॥संग्रामो हि ममाइकस्य बहुभिः क्लेशशत्रुभिः ।

तत्राइकेन रणासक्तम् अन्ये निघ्न-

[ cambridge ms f166a ---> ]

न्ति मां सुखम् ॥

तत्र यः पृष्ठतो भीतिं श्रावयेद् अन्यतो ऽपि वा ।

प्रद्विष्टो वा प्रसन्नो वा समे प्राणप्रदः सुहृत् ॥

[ bendall ed p365 ---> ]

अलिसंहातनीलेन चीरभारणभारिणा ।

विचित्रसुरभिस्फीतपुष्पशेखरहारिणा ॥युगपत् सर्वदिग्बुद्धक्षेत्रसागरचारिणा ।

बलिना प्रतिकार्येण सर्वमारापहारिणा ॥नरकप्रेतसंतापप्रशमोन्मुक्तवारिणा ।

संसारगहनान्तस्थभव्यसत्वार्थसारिणा ॥जगन्नेत्रोच्छवोत्पादिबलालङ्कारधारिणा ।

विदुषा बालवपुषा लोकविस्मयकारिणा ॥मञ्जुश्री संज्ञकं यत् तत् पिण्डीभूतं जगद्धितं ।

सर्वेणाइवात्मभावेन नमस् तस्मै पुनः पुनः ॥

अनेकदुष्खसंतप्तप्रह्लादनमहाह्रदं ।

त्रैलोक्यतृष्णापातालप्रपूरणमहाम्बुदम् ॥जगदिष्टफलस्फीतदशदिक्कल्पपादपं ।प्रार्थितप्राप्तिसंहृष्टजगन्नेत्रोत्पलार्चितं ॥विस्मयोद्गतरोमाञ्चैर् बोधिसत्वशतैः स्तुतम् ।

मञ्जुश्रियं नमस्यामि प्रणामैर् उत्तरोत्तरैः ॥निःशेषदुष्खवैद्याय सुखसत्त्रप्रदायिने ।

सर्वाकारोपजीव्याय मञ्जुघोषाय ते नमः ॥

[ bendall ed p366 ---> ]

इति जिनतनयानां सर्वथात्यद्भुतानां चरितम् उपनिब्ध्योपार्जितं यच् छुभं मे ।

भवतु सुखम् अनन्तं देहिनां तेन यावत् सुगतपदम् अन-

[ cambridge ms f166a ---> ]

न्तव्योमसीमाधिपत्यं ॥पुण्यवृद्धिः समाप्ता ॥

समाप्तश् चायं बोधिसत्वविनयो ऽनेकसूत्रान्तोद्धृतः शिक्षासमुच्चयेति ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.