Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
विमलकीर्तिनिर्देश
- Thông tin
- GRETIL — the Study Group on Buddhist Sanskrit Literature: Vimalakīrtinirdeśa, A Sanskrit Edition Based upon the Manuscript Newly Found at the Potala Palace, Tokyo 2006 (The Institute for Comprehensive Studies of Buddhism, Taisho University).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
व्क्न् 4.13 अविदिता च सा वेदना वेदितव्या / न चानेन वेदनानिरोधः साक्षात्कर्तव्यः / अपरिपूर्णेषु बुद्धधर्मेषूभे वेदने नोत्स्रष्टव्ये / न च दुर्गत्युपपन्नानां सत्वानाम् अन्तिके महाकरुणा नोत्पादयितव्या / तथा करिष्यामो यथैषां सत्वानाम् एवम् अयोनिशोनिध्यप्त्या व्याधिम् अपनेष्यामः /
व्क्न् 4.14 न चैषां कंचिद् धर्मम् उपनेष्यामो नापनेष्यामः / यतो निदानाच् च पुनर् व्याधिर् उत्पद्यते तस्य परिज्ञायै तेभ्यो धर्मं देशयिष्यामः / कतमच् च पुनर् निदानम्, यद् इदम् अध्यालम्बननिदानम् / यावताध्यालम्बननिदानम् अध्यालम्बते, तावद् व्याधिनिदानम् / किं चाध्यालम्बते, त्रैधातुकम् अध्यालम्बते / तस्याध्यालम्बनतया का परिज्ञा, यद् इदम् आलम्बनानुपलम्भः / यं हि नोपलभ्यते तं नालम्बते / किं च नोपलभते, उभे दृष्टी नोपलभते, यद् इदम् आत्मदृष्टिं परदृष्टिं च / तद् उच्यते ऽनुपलम्भ इति / एवं हि मञ्जुश्रीः ग्लानेन बोधिसत्वेन स्वचित्तं निध्यपयितव्यं जराव्याधिमरणोपपत्तिप्रहाणाय / एवं च मञ्जुश्रीः बोधिसत्वानां बोधिर् यदि न भवेत्, निरर्थको ननु व्यायामो भवेत् / यथा प्रत्यर्थिकनिर्घाताच् छुरा इत्य् उच्यन्ते, एवम् एव जराव्याधिमरणदुःखोपशमनाद् बोधिसत्वा इत्य् उच्यन्ते /
व्क्न् 4.15 तेन बोधिसत्वेन व्याधितेनैवं प्रत्यवेक्षितव्यम् / यथा मम व्याधिर् अभूतो ऽसन्न् एवं सर्वसत्वानाम् अपि व्याधिर् अभूतो ऽसन्न् इति / तस्यैवं प्रत्यवेक्षमाणस्य नानुशंसादृष्टिपतिता सत्वेषु महाकरुणोत्पद्यते, अन्यत्रागन्तुकक्लेशप्रहाणाभियुक्त्या सत्वेषु महाकरुणोत्पद्यते / तत् कस्माद् धेतोः / अनुशंसदृष्टिपतितयैव हि महाकरुणया बोधिसत्वस्य खेदो भवत्य् उपपत्तिषु / अनुशंसदृष्टिपर्युत्थानविगतया पुनर् महाकरुणया बोधिसत्वस्य खेदो न भवत्य् उपपत्तिषु / सो ऽयम् उपपद्यते, न च दृष्टिपर्युत्थानपर्युत्थित उपपद्यते / सो ऽपर्युत्थितचित्त उपपद्यमानो मुक्त एवोत्पद्यते मुक्त एव जायते / स मुक्त एवोत्पद्यमानो मुक्त एव जायमानो बद्धानां सत्वानां शक्तः प्रतिबलो बन्धमोक्षाय धर्मं देशयितुम् / यथोक्तं भगवता स तावद् आत्मना बद्धः परं बन्धनान् मोचयिष्यतीति नादं स्थानं विद्यते / यस् त्व् आत्मना मुक्तः परं बन्धनान् मोचयिष्यतीति स्थानम् एतद् विद्यते तस्मान् मुक्तेन बोधिसत्वेन भवितव्यम्, न बद्धेन /
व्क्न् 4.16 तत्र कतमो बन्धः, कतमो मोक्षः / अनुपायाद् भवगतिपरिग्रहो बोधिसत्वस्य बन्धः, उपायाद् भवगतिगमनं मोक्षः / अनुपायाद् ध्यानसमाध्यास्वादनता बोधिसत्वस्य बन्धः, उपायेन ध्यानसमाध्यास्वादनता मोक्षः / अनुपायसंगृहीता प्रज्ञा बन्धः, उपायसंगृहीता प्रज्ञा मोक्षः / प्रज्ञयासंगृहीत उपायो बन्धनम्, प्रज्ञासंगृहीत उपायो मोक्षः /
व्क्न् 4.17 तत्र कतमो ऽनुपायसंगृहीता प्रज्ञा बन्धः, यद् इदं शून्यतानिमित्ताप्रणिहितनिध्यप्तिः, न च लक्षणानुव्यञ्जनबुद्धक्षेत्रालंकारसत्वपरिपाचननिध्यप्तिः / इयम् अनुपायसंगृहीता प्रज्ञा बन्धः / तत्र कतमोपायसंगृहीता प्रज्ञा मोक्षः, यद् इदं लक्षनानुव्यञ्जनबुद्धक्षेत्रालंकारसत्वपरिपाचननिध्यप्तिचित्तं च शून्यतानिमित्ताप्रणिहितपरिजयश् च / इयम् उपायसंगृहीता प्रज्ञा मोक्षः / तत्र कतमः प्रज्ञयासंगृहीत उपायो बन्धः, यद् इदं सर्वदृष्टिक्लेशपर्युत्थानानुशयानुनयप्रतिघप्रतिष्ठितस्य सर्वकुशलमूलारम्भो बोधौ चापरिणामना / अयं प्रज्ञयासंगृहीत उपायो बन्धः / तत्र कतमः प्रज्ञासंगृहीत उपायो मोक्षः, यद् इदं सर्वदृष्टिक्लेशपर्युत्थानानुशयानुनयप्रतिघप्रहीणस्य सर्वकुशलमूलारम्भो बोधौ परिणामितस् तस्य चापरामर्शः / अयं बोधिसत्वस्य प्रज्ञासंगृहीत उपायो मोक्षः /
व्क्न् 4.18 तत्र मञ्जुश्रीः ग्लानेन बोधिसत्वेनैवम् इमे धर्मा निध्यपयितव्याः / यत्ल् कायस्य चित्तस्य च व्याधेश् चानित्यदुःखशून्यानात्मप्रत्यवेक्षणा, इयम् अस्य प्रज्ञा / यत् पुनः कायव्याधिपरिहरणतया न खिद्यते, न प्रतिबध्नाति संसारम्, सत्वार्थयोगम् अनुयुक्तः, अयम् अस्योपायः / पुनर् अपरं यत् कायस्य व्याधेश् चित्तस्य चान्योन्यपरापरतां न निर्नवतानिःपुराणतां प्रत्यवेक्षते, इयम् अस्य प्रज्ञा / यत् पुनः कायस्य व्याधेश् चित्तस्य च नात्यन्तोपशमं निरोधम् अत्ययति, अयम् अस्योपायः /
व्क्न् 4.19 एवं हि मञ्जुश्रिः ग्लानेन बोधिसत्वेन चित्तं निध्यपयितव्यम् / न च तेन निध्यप्तौ वानिध्यप्तौ वा स्थातव्यम् / तत् कस्माद् धेतोः / यदि ह्य् अनिध्यप्तौ तिष्ठेद् बालधर्म एषः / अथ निध्यप्तौ तिष्ठेच् छ्रावकधर्म एषः / तस्माद् बोधिसत्वेन न निध्यप्तौ स्थातव्यम् / यद् अत्रास्थानम् अयं बोधिसत्वस्य गोचरः /
व्क्न् 4.20 यन् न पृथग्जनगोचरो नार्यगोचरः, अयं बोधिसत्वस्य गोचरः / यत् संसारगोचरश् च न च क्लेशगोचरः, अयं बोधिसत्वस्य गोचरः / यन् निर्वाणप्रत्यवेक्षणगोचरश् च न चात्यन्तपरिनिर्वाणगोचरः, अयं बोधिसत्वस्य गोचरः / यच् चतुर्मारसंदर्शनगोचरश् च सर्वमारविषयातिक्रान्तगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् सर्वज्ञज्ञानपर्येष्टिगोचरश् च न चाकाले ज्ञानप्राप्तिगोचरः, अयं बोधिसत्वस्य गोचरः / यच् चतुःसत्यज्ञानगोचरश् च न चाकाले सत्यप्रतिवेधगोचरः, अयं बोधिसत्वस्य गोचरः / यद् अध्यात्मप्रत्यवेक्षणगोचरश् च संचिन्त्यभवोपपत्तिपरिग्रहगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अजातिप्रत्यवेक्षणगोचरश् च न च नियामावक्रान्तिगोचरः, अयं बोधिसत्वस्य गोचरः / यत् प्रतीत्यसमुत्पादगोचरश् च सर्वदृष्टिविगतगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् सर्वसत्वसंगणिकागोचरश् च न च क्लेशानुशयगोचरः, अयं बोधिसत्वस्य गोचरः / यद् विवेकगोचरश् च न च कायचित्तक्षयनिश्रयगोचरः, अयं बोधिसत्वस्य गोचरः / यत् त्रैधातुकगोचरश् च न च धर्मधातुसंभेदगोचरः, अयं बोधिसत्वस्य गोचरः / यच् छून्यतागोचरश् च सर्वाकारगुणपर्येष्टिगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् आनिमित्तगोचरश् च सत्वप्रमोचनारम्बणवितर्कगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अप्रणिहितगोचरश् च संचिन्त्यभवगतिसंदर्शनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अनभिसंस्कारगोचरश् च सर्वकुशलमूलाभिसंस्काराप्रतिप्रस्रब्धिगोचरश् च, अयं बोधिसत्वस्य गोचरः /
यत् षट्पारमितागोचरश् च सर्वसत्वचित्तचरितपारगमनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् षडनुस्मृतिगोचरश् च न च सर्वास्रवक्षयगोचरः, अयं बोधिसत्वस्य गोचरः / यत् सद्धर्मप्रतिष्ठानगोचरश् च न च कुमार्गाध्यालम्बनगोचरः, अयं बोधिसत्वस्य गोचरः / यत् षडभिज्ञागोचरश् च न चास्रवक्षयगोचरः, अयं बोधिसत्वस्य गोचरः / यच् चतुरप्रमाणगोचरश् च न च ब्रह्मलोकोपपत्तिस्पर्शनगोचरः, अयं बोधिसत्वस्य गोचरः / यद् ध्यानसमाधिसमापत्तिगोचरश् च न च समाधिसमापत्तिवशेनोपपत्तिगोचरः, अयं बोधिसत्वस्य गोचरः / यत् स्मृत्युपस्थानगोचरश् च न च कायवेदनाचित्तधर्मात्यर्थगोचरः, अयं बोधिसत्वस्य गोचरः / यत् सम्यक्प्रहाणगोचरश् च न च कुशलाकुशलद्वयोपलम्भगोचरः, अयं बोधिसत्वस्य गोचरः / यद् ऋद्धिपादाभिनिर्हारगोचरश् चानाभोगर्द्धिपादवशवर्तिगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् पञ्चेन्द्रियगोचरश् च सर्वसत्वेन्द्रियपरापरज्ञानगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् पञ्चबलप्रतिष्ठानगोचरश् च दशतथागतबलाभिसंदर्शनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् सप्तबोध्यङ्गपरिनिष्पत्तिगोचरश् च बुद्धिप्रभेदज्ञानकौशल्यगोचरश् च, अयं बोधिसत्वस्य गोचरः / यन् मार्गप्रतिष्ठानगोचरश् च कुमार्गानध्यालम्बनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यच् छमथविदर्शनासंभारपर्येष्टिगोचरश् च न चात्यन्तशान्तिपतनगोचरः, अयं बोधिसत्वस्य गोचरः /
यद् अनुत्पादलक्षणसर्वधर्ममीमांसनगोचरश् च रूपलक्षनानुव्यञ्जनबुद्धकायालंकारपरिनिष्पत्तिगोचरः, अयं बोधिसत्वस्य गोचरः / यच् छ्रावकप्रत्येकबुद्धाकल्पसंदर्शनगोचरश् च बुद्धधर्मात्यजनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अत्यन्तविशुद्धिप्रकृतिसमापन्नसर्वधर्मानुगमनगोचरश् च यथाधिमुक्तिसर्वसत्वेर्यापथसंदर्शनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अत्यन्तासंवर्तविवर्ताकाशस्वभावसर्वबुद्धक्षेत्रप्रत्यवेक्षणगोचरश् च नानाव्यूहानेकव्यूहबुद्धक्षेत्रगुणव्यूहसंदर्शनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् धर्मचक्रप्रवर्तनमहापरिनिर्वाणसंदर्शनगोचरश् च बोधिसत्वचर्यात्यजनगोचरश् च, अयम् अपि बोधिसत्वस्य गोचरः /
इह निर्देशे निर्दिश्यमाने ये मञ्जुश्रिया कुमारभूतेन सार्धम् आगता देवपुत्रास् ततो ऽष्टानां देवपुत्रसहस्राणाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि // //
ग्लानप्रतिसंमोदनापरिवर्तश् चतुर्थः //
व्क्न् 5.1 अथायुष्मतः शारिपुत्रस्यैतद् अभवत्: कुत्रेमे बोधिसत्वा निषत्स्यन्ति, इमे च महाश्रावकाः / नेह गृह आसनानि संविद्यन्ते /
अथ विमलकीर्तिर् लिच्छविर् आयुष्मतः शारिपुत्रस्य चेतोवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् एतद् अवोचत्: किं भदन्तशारिपुत्रो धर्मार्थिक आगत उतासनार्थिकः /
आह: धर्मार्थिका वयम् आगता नासनार्थिकाः /
व्क्न् 5.2 आह: तेन हि भदन्तशारिपुत्र यो धर्मर्थिको भवति, नासौ स्वकायार्थिको भवति / किं पुनर् आसनार्थिको भविष्यति / यो भदन्तशारिपुत्र धर्मार्थिको भवति, न स रूपवेदनासंज्ञासंस्कारविज्ञानार्थिको भवति, न स्कन्धधात्वायतनार्थिकः / यो धर्मार्थिकः, न स कामधातुरुपधात्वारूप्यधात्वर्थिको भवति, नासौ बुद्धाभिनिवेशार्थिको भवति, न धर्मसंघाभिनिवेशार्थिकः /
व्क्न् 5.3 पुनर् अपरं भदन्तशारिपुत्र यो धर्मार्थिकः, नासौ दुःखपरिज्ञानार्थिको न समुदयप्रहाणार्थिको न निरोधसाक्षात्क्रियार्थिको न मार्गभावनार्थिको भवति / तत् कस्माद् धेतोः / अप्रपञ्चो हि धर्मो निरक्षरः / तत्र यः प्रपञ्चयति ः दुःखं परिज्ञास्यामि समुदयं प्रहास्यामि निरोधं साक्षात्करिष्यामि मार्गं भावयिष्यामीति, नसौ धर्मार्थिकः, प्रपञ्चार्थिको ऽसौ / धर्मो हि भदन्तशारिपुत्र उपशान्तः / तत्र य उत्पादव्यये चरन्ति, न ते धर्मार्थिका न विवेकार्थिकाः, उत्पादव्ययार्थिकास् ते / धर्मो ह्य् अरजो रजोऽपगतः / तत्र ये क्वचिद् धर्मे रक्षन्ते ऽन्तशो निर्वाणे ऽपि, न ते धर्मार्थिकाः, रजोऽर्थिकास् ते / धर्मो ह्य् अविषयः / ये विषयसंख्याताः, न ते धर्मार्थिकाः, विषयार्थिकास् ते / धर्मो नायूहो निर्यूहः / ये केचिद् धर्मं गृह्णन्ति वा मुञ्चन्ति वा, न ते धर्मार्थिकाः, उद्ग्रहनिःसर्गार्थिकास् ते /
व्क्न् 5.4 धर्मो ऽनालयः / य आलयारामाः, न ते धर्मार्थिकाः, आलयार्थिकास् ते / धर्मो निर्निमित्तः / येषां निमित्तानुसारिविज्ञानम्, न ते धर्मार्थिकाः, निमित्तार्थिकास् ते / धर्मो ऽसंवासः / ये केचिद् धर्मेण सार्धं संवसन्ति, न ते धर्मार्थिकाः, संवासार्थिकास् ते / धर्मो ऽदृष्टश्रुतमतविज्ञातः / ये दृष्टश्रुतमतविज्ञातेषु चरन्ति, न ते धर्मार्थिकाः, दृष्टश्रुतमतविज्ञातार्थिकास् ते /
व्क्न् 5.5 धर्मो भदन्तशारिपुत्र असंस्कृतः संस्कृतापगतः / ये संस्कृतगोचराः, न ते धर्मार्थिकाः, संस्कृतोद्ग्रहणार्थिकास् ते / तस्माद् इह भदन्तशारिपुत्र धर्मार्थिकेन ते भवितुकामेन सर्वधर्मानर्थिकेन भवितव्यम् / इह धर्मनिर्देशे निर्दिश्यमाने पञ्चानां देवपुत्रशतानां धर्मेषु धर्मचक्षुर् विशुद्धम् /
व्क्न् 5.6 अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् आमन्त्रयते स्म: त्वं मञ्जुश्रीः दशसु दिक्ष्व् असंख्येयेषु बुद्धक्षेत्रशतसहस्रेषु बुद्धक्षेत्रचारिकां चरसि / तत् कतरस्मिन् बुद्धक्षेत्रे त्वया सर्वविशिष्टानि सर्वगुणोपेतानि सिंहासनानि दृष्टानि / एवम् उक्ते मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविम् एतद् अवोचत्: अस्ति कुलपुत्र पूर्वे दिग्भागे षट्त्रिंशद्गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्य् अतिक्रम्य मेरुध्वजा नाम लोकधातुः / तत्र मेरुप्रदीपराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति / तस्य तथागतस्य चतुरशीतियोजनशतसहस्र आत्मभावः / अष्टषष्टियोजनशतसहस्रं तस्य भगवतः सिंहासनम् / तेषां च बोधिसत्वानां चत्वारिंशद्योजनशतसहस्र आत्मभावः / चतुस्त्रिंशद्योजनशतसहास्रानि तेषां बोधिसत्वानां सिंहासनानि / मेरुध्वजायां लोकधातौ तस्य भगवतो मेरुप्रदीपराजस्य तथागतस्य बुद्धक्षेत्रे सर्वविशिष्टानि सर्वगुनोपेतानि सिंहासनानि /
व्क्न् 5.7 अथ विमलकीर्तिर् लिच्छविस् तस्यां वेलायां तथारूपं समन्वाहारं समन्वाहरति स्म / तादृशं चर्द्ध्यभिसंस्कारम् अभिसंस्कृतवान्, यत् ततो मेरुध्वजालोकधातोर् द्वात्रिंशत्सिंहासनशतसहस्राणि तेन भगवता मेरुप्रदीपराजेन तथागतेन प्रेषितानि / तावद् उद्विद्धानि तावद् विस्तीर्णानि तावद् दर्शनीयानि यद् अपूर्वाणि तैर् बोधिसत्वैस् तैश् च महाश्रावकैस् तैश् च शक्रब्रह्मलोकपालैर् देवपुत्रैश् च / तान्य् उपर्य् अन्तरीक्षेणागत्य विमलकिर्तेर् लिच्छवेर् निवेशने प्रत्यतिष्ठन् / तच् च गृहं तावद् विस्तीर्णं संदृश्यते, यत्र तानि द्वात्रिंशत्सिंहासनशतसहस्राणि विचित्राण्य् अनुत्पीडनतया / न च वैशाल्या महानगर्या आवरणं कृतम्, न जम्बूद्वीपस्य, न चातुर्द्वीपिकस्यावरणम् / सर्वे ते तथैव संदृश्यन्ते यथा पूर्वं तथा पश्चात् /
व्क्न् 5.8 अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् एतद् अवोचत्: निषिद त्वं मञ्जुश्रीः सिंहासने सार्धम् एतैर् बोधिसत्वैः / तादृशांश् चात्मभावान् अधितिष्ठत यत् सिंहासनेष्व् अनुरूपाः स्युः /
अथ ये ऽभिज्ञाप्रतिलब्धा बोधिसत्वास् ते द्वाचत्वारिंशद्योजनशतसहस्रम् आत्मभावम् अधिष्ठाय तेषु सिंहासनेषु निसीदन्ति स्म / ये चादिकर्मिका बोधिसत्वास् ते न शक्नुवन्ति स्म तेषु सिंहासनेषु निषत्तुम् /
अथ विमलकीर्तिर् लिच्छविर् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: निषीद भदन्तशारिपुत्र सिंहासने /
आह: न शक्नोमि सत्पुरुष निषत्तुम् उच्चानि प्रगृहितानि चेमानि सिंहासनानि /
आह: तेन हि भदन्तशारिपुत्र तस्यैव भगवतो मेरुप्रदीपराजस्य तथागतस्य नमस्कारं कुरु / ततः शक्ष्यसि निषत्तुम् /
अथ ते महाश्रावकास् तस्य भगवतो मेरुप्रदीपराजस्य तथागतस्य नमस्कारं कुर्वन्ति स्म / ते तत्र पश्चात् तेषु सिंहासनेषु न्यषीदन् /
व्क्न् 5.9 अथायुष्माञ् शारिपुत्रो विमलकिर्तिं लिच्छविम् एवम् आह: आश्चर्यं कुलपुत्र यद् इहैवं परीत्ते गृह इमानीयन्ति सिंहासनसहस्राण्य् एवम् उच्चान्य् एवं प्रगृहीतानि विचित्राणि / न च वैशाल्या महानगर्या आवरणं कृतम्, न जम्बूद्वीपस्य, न ग्रामनगरनिगमजनपदराष्ट्रराजधानीनाम्, न चातुर्महाद्वीपिकस्य किंचिद् आवरणम्, न देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणाम् आवरणं कृतम् / तथैव संदृश्यन्ते यथा पूर्वं तथा पश्चात् /
व्क्न् 5.10 विमलकीर्तिर् आह: अस्ति भदन्तशारिपुत्र तथागतानां बोधिसत्वानां चाचिन्त्यो नाम विमोक्षः, यत्राचिन्त्यविमोक्षे प्रतिष्ठितो बोधिसत्वः सुमेरुं पर्वतराजं तावद् उच्चं तावत् प्रगृहीतं तावद् उद्विद्धं तावद् विस्तीर्णं सर्षपफलकोशे प्रवेशयेत् / न च सर्षपफलकोशं विवर्धयेत् / न च सुमेरुं हापयेत् / तां च क्रियाम् आदर्शयेत् / न चातुर्महाराजकायिका देवास् त्रयस्त्रिंशतो वा जानीरन् ः कस्मिन् वयं प्रक्षिप्ताः / अन्ये च सत्वा ऋद्धिविनेया जानीयुः पश्येयुस् तं सुमेरुं पर्वतराजं सर्शपफलकोशप्रविष्टम् / अयं भदन्तशारिपुत्र बोधिसत्वानाम् अचिन्त्यस्य विमोक्षस्य विषयप्रवेशः /
व्क्न् 5.11 पुनर् अपरं भदन्तशारिपुत्र अचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वो यश् चतुर्षु महासमुद्रेष्व् अप्स्कन्धस् तम् एकस्मिन् रोमकूपे प्रक्षिपेत् / न च मत्स्यकच्छपशिशुमारमण्डूकानाम् अन्येषां वौदकानां प्राणिनां पीडा भवेत् / न च नागयक्षगन्धर्वासुराणाम् एवं भवेत् ः कस्मिन् वयं प्रक्षिप्ताः / सा च क्रिया प्रज्ञायेत / न च कश्चित् सत्वो विहिंसितो विहेठितो वा भवेत् /
व्क्न् 5.12 इमं च त्रिसाहस्रमहासाहस्रं लोकधातुं भार्गवचक्रम् इव परिगृह्य दक्षिणे पाणाव् अवभ्राम्य गङ्गानदीवालिकासमान् लोकधातून् क्षिपेत् / न च सत्वा जानीरन् ः कस्मिन् वयं नीताः, कुतो वागता इति / पुनर् अपि चानाय्य यथास्थानं स्थापयेत् / न च गमनागमनं संजानीरन् / सा च क्रिया संदृश्येत /
व्क्न् 5.13 पुनर् अपरं भदन्तशारिपुत्र सन्ति सत्वा अप्रमाणसंसारवैनयिकाः / सन्ति संक्षिप्तसंसारवैनयिकाः / तत्राचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वो ऽप्रमाणसंसारवैनयिकानां सत्वानां वैनयिकवशम् उपादाय सप्तरात्रं कल्पम् अतिक्रान्तम् आदर्शयेत् / संक्षिप्तसंसारवैनयिकानां सत्वानां वैनयिकवशम् उपादाय कल्पं सप्तरात्रम् अतिक्रान्तम् आदर्शयेत् / तत्राप्रमाणसंसारविनेयाः सत्वाः सप्तरात्रं कल्पम् अतिक्रान्तं संजानीरन् इ संक्षिप्तसंसारविनेयाः सत्वाः कल्पं सप्तरात्रम् अतिक्रान्तं संजानीरन् /
व्क्न् 5.14 इति ह्य् अचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वः सर्वबुद्धक्षेत्रगुणव्यूहान् एकस्मिन् बुद्धक्षेत्रे संदर्शयति / सर्वसत्वान् अपि दक्षिणे करतले प्रतिष्ठाप्य चित्तजायिकयर्द्ध्या क्रमेत् / सर्वबुद्धक्षेत्रेषु च संदर्शनं दद्यात् / न चैकतो ऽपि क्षेत्राच् चलेत् / यावत्यश् च दशसु दिक्षु बुद्धानां भगवतां पूजा वर्तन्ते, ताः सर्वा एकरोमकूप आदर्शयेत् / यावन्तश् च दशसु दिक्षु चन्द्रसूर्यास् तारारूपानि च, तान्य् अपि सर्वाण्य् एकरोमकूप आदर्शयेत् / यावत्यश् च दशसु दिक्षु वातमण्डल्यः प्रवान्ति, ता अपि सर्वा मुखद्वारे प्रवेशयेत् / न चास्य कायो विकीर्येत / न च तत्र बुद्धक्षेत्रे तृणवनस्पतयो नमेयुः /
व्क्न् 5.15 यानि च दशसु दिक्षु बुद्धक्षेत्राण्य् उद्दह्यन्ते कल्पोद्दाहेन, तद् अपि सर्वम् अग्निस्कन्धं स्वमुखे प्रक्षिपेत् / यच् च तेन कर्म कर्तव्यं भवेत्, तच् च कुर्यात् / यच् चावस्ताद् गङ्गानदीवालिकाकोटीसमेषु बुद्धक्षेत्रेष्व् अतिक्रम्य बुद्धक्षेत्रम्, तद् अभ्युत्क्षिप्योर्धं दिग्भागं गङ्गानदीवालिकाकोटीसमेषु बुद्धक्षेत्रेषु प्रतिष्ठापयेत् / तद्यथापि नाम बलवान् पुरुषः सूच्यग्रेण बदरीपत्रम् उत्क्षिपेत् /
व्क्न् 5.16 एवम् अच्ंत्यविमोक्षप्रतिष्ठितो बोधिसत्वः सर्वसत्वानि चक्रवर्त्यादिरूपाण्य् अधितिष्ठेत् /
व्क्न् 5.17 यावन्तश् च दशसु दिक्षु शब्दावभासाः शब्दप्रज्ञाप्तयः, ताः सर्वा हीनमध्यविशिष्टानां सत्वानां सर्वबुद्धघोषरुतरचितान्य् अधितिष्ठन्, ततश् च रुतघोषाद् अनित्यदुःखशून्यानात्मशब्दरुतानि निश्चारयेत् / यावद्भिश् चाकारनिर्देशैर् दशसु दिक्षु बुद्धा भगवन्तो धर्मं देशयन्ति, तांस् ततो रुतनिर्घोषान् निश्चारयेत् /
व्क्न् 5.18 अयं भदन्तशारिपुत्र अचिन्त्यविमोक्षप्रतिष्ठितानां बोधिसत्वानां यत्किंचिन्मात्रो विषयावतारनिर्देशः / अपि तु कल्पम् अहं भदन्तशारिपुत्र कल्पावशेसं वाचिन्त्यविमोक्षप्रतिष्ठितानां बोधिसत्वानां विषयानां विषयावतारनिर्देशं निर्दिशेयम्, अतो वोत्तरि /
व्क्न् 5.19 अथ खलु स्थविरो महाकाश्यप इमं बोधिसत्वानाम् अचिन्त्यविमोक्षं श्रुत्वाश्चर्यप्राप्तः स्थविरं शारिपुत्रम् एतद् अवोचत्: तद्यथापि नाम आयुष्मञ् शारिपुत्र जात्यन्धस्य पुरुषस्य पुरस्तात् कश्चिद् एव सर्वरूपगतान्य् उपदर्शयेत् / न च तत्र स जात्यन्ध एकरूपम् अपि पश्येत् / एवम् एव आयुष्मञ् शारिपुत्र इहाचिन्त्यविमोक्षे निर्दिश्यमाने सर्वश्रावकप्रत्येकबुद्धा इह जात्यन्धा इव चक्षुर्विहीना एकस्मिन्न् अप्य् अचिन्त्यकारणे न प्रत्यक्षाः / को नाम विद्वान् इमम् अचिन्त्यं विमोक्षं श्रुत्वानुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादयेत् / तत् किं नु भूयः करिष्यामो ऽत्यन्तोपहतेन्द्रिया दग्धविनष्टानीव बीजान्य् अभाजनीभूता इह महायाने / सर्वश्रावकप्रत्येकबुद्धैर् इमं धर्मनिर्देशं श्रुत्वा रुदद्भिस् त्रिसाहस्रमहासाहस्रो लोकधातुर् विज्ञापयितव्यः / सर्वबोधिसत्वैश् च प्रमुदितैर् इमम् अचिन्त्यविमोक्षं श्रुत्वा मूर्ध्ना संप्रत्येतव्यः, अधिमुक्तिबलं च संजनयितव्यम् / यस्यैषाचिन्त्यविमोक्षाधिमुक्तिः सर्वमारास् तस्य किं करिष्यन्ति / इमं निर्देशं निर्दिशतः स्थविरस्य महाकाश्यपस्य द्वात्रिंशता देवपुत्रसहस्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि /
व्क्न् 5.20 अथ विमलकीर्तिर् लिच्छविः स्थविरं महाकाश्यपम् एवम् आह: यावन्तो भदन्तमहाकाश्यप दशसु दिक्ष्व् अप्रमेयेषु लोकधातुषु मारा मारत्वं कारयन्ति, सर्वे ते यद्भूयसाचिन्त्यविमोक्षप्रतिष्ठिता बोधिसत्वा उपायकौशल्येन सत्वपरिपाचनाय मारत्वं कारयन्ति / यावद्भिर् भदन्तमहाकाश्यप दशसु दिक्ष्व् अप्रमेयेषु लोकधातुषु बोधिसत्वा याचनकैर् याच्यन्ते हस्तपादान् वा कर्णनासं वा शोणितं स्नायुं वास्थिमज्जानं वा नेत्राणि वोत्तमाङ्गानि शिरांसि वाङ्गप्रत्यङ्गानि वा राज्यराष्ट्रजनपदान् वा भार्यापुत्रदुहितॄर् वा दासदासीर् वा हयगजरथवाहनानि वा सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडमणिरत्नजातं वान्नपानानि रसान् वा, वस्त्राणि चोत्पीड्य याच्यन्ते, सर्वे ते याचनका यद्भूयसाचिन्त्यविमोक्षप्रतिष्ठिता बोधिसत्वा उपायकौशल्येनेमां दृढाध्याशयतां दर्शयन्ति / तत् कस्माद् धेतोः / उग्रतपसो हि भदन्तमहाकाश्यप बोधिसत्वास् त एवं दर्शयन्ति / नास्ति हि प्राकृतजनस्यास्थानानवकाशकृतस्य बोधिसत्वम् उत्पीडयितुम् /
तद्यथापि नाम भदन्तमहाकाश्यप न शक्तिर् अस्ति खद्योतकस्य सूर्यमण्डलप्रभाम् अभिभवितुम् / एवम् एव भदन्तमहाकाश्यप न शक्तिर् अस्ति प्राकृतस्य जनस्य बोधिसत्वेनानवकाशकृतस्योपसंक्रमितुं याचितुं वा / तद्यथा भदन्तमहाकाश्यप यो हस्तिनागस्य प्रहारो न स शक्यो गर्दभेन सोढुम् / एवम् एव भदन्तमहाकाश्यप न शक्यम् अबोधिसत्वेन बोधिसत्वस्योत्पीडनं सोढुम् / बोधिसत्व एव बोधिसत्वोत्पीडां सहते / अयं भदन्तमहाकाश्यप अचिन्त्यविमोक्षप्रतिष्ठितानां बोधिसत्वानाम् उपायज्ञानबलप्रवेशः // //
अचिन्त्यविमोक्षसंदर्शनपरिवर्तः पञ्चमः //
व्क्न् 6.1 अथ खलु मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविम् एतद् अवोचत्: कथं सत्पुरुष बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः /
आह: तद्यथापि नाम मञ्जुश्रीः विज्ञपुरुष उदकचन्द्रम् अवेक्षेत, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथापि नाम मञ्जुश्रीः आदर्शमण्डले मुखमण्डलम् आलोकयेत्, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथा मञ्जुश्रीः मरीचिकायाम् उदकम्, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथा मञ्जुश्रीः मायाकारो मायाकारनिर्मितं पुरुषम् अवेक्षेत, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथा मञ्जुश्रीः प्रतिश्रुत्काया रुतघोषः, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथा मञ्जुश्रीः गगने ऽभ्रकूटम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः फेनपिण्डस्य पूर्वान्तः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रिः उदकबुद्बुदानाम् उत्पादव्ययः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः कदल्याः सारदर्शनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः विद्युतः संक्रान्तिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः पञ्चमो धातुः / एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः सप्तमम् आयतनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः आरूप्येषु रूपावभासः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः परितप्तानां बीजानाम् अङ्कुरपरिनिष्पत्तिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः मण्डूकरोमप्रवारः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः /
तद्यथा मञ्जुश्रीः मृतस्य कामक्रीडारतिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः स्रोतआपन्नस्य सत्कायदृष्टिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रिः सकृदागामिनस् तृतीयो भवः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः अनागामिनो गर्भावक्रान्तिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रिः अर्हतः रागदोषमोहाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः क्षान्तिप्रतिलब्धस्य बोधिसत्वस्य मात्सर्यदौःशील्यव्यापादविहिंसाचित्तानि, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः तथागतस्य क्लेशवासना, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः जात्यन्धस्य पुरुषस्य रूपदर्शनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः निरोधसमापन्नस्याश्वासाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः आकाशे शकुनिपदम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः पण्डकस्येन्द्रियस्य प्रादुर्भावः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः बन्ध्यायाः पुत्रप्रतिलम्भः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः तथागतनिर्मितस्यानुत्पन्नाः क्लेशाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः स्वप्नदर्शनप्रतिबुद्धस्य दर्शनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः /
तद्यथा मञ्जुश्रिः अपरिकल्पयतः क्लेशाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः अनुपादानस्याग्नेः संभवः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः परिनिर्वृतस्य प्रतिसंधिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / एवं हि मञ्जुश्रीर् बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः /
व्क्न् 6.2 आह: यदि कुलपुत्रैवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः, कथं पुनर् अस्य महामैत्री भवति सर्वसत्वेषु /
आह: यदा मञ्जुश्रीः बोधिसत्व एवं प्रत्यवेक्षते, मया ह्य् एषां सत्वानाम् एवं धर्मपरिज्ञायै धर्मो देशयितव्य इति, अतो ऽस्य भूता सत्वत्राणमैत्री सर्वसत्वेषूत्पद्यते ऽनारम्बणतया, उपशममैत्र्य् अनुत्पादनतया, निष्परिदाहमैत्री निःक्लेशतया, यथावद्मैत्री त्र्यध्वसमतया, अविरोधमैत्र्य् अपर्युपस्थानतया, अद्वयमैत्र्य् अध्यात्मबहिर्धासंसृष्टतया, अकोप्यमैत्र्य् अत्यन्तनिष्ठतया, दृढमैत्री वज्रदृढाभेद्याशयतया, शुद्धमैत्री प्रकृतिशुद्धतया, सममैत्र्य् आकाशसमतया, अर्हन्मैत्र्य् अरिनिर्घातनतया, बोधिसत्वमैत्री सत्वपरिपाकास्रंसनतया, तथागतमैत्री तथतानुबोधनतया, बुद्धमैत्री सुप्तसत्वप्रबोधनतया, स्वयम्भुमैत्री स्वयमभिसंबोधनतया बोधिमैत्रि समरसतया, असमारोपमैत्र्य् अनुनयप्रतिघप्रहाणतया, महाकरुणामैत्री महायानपरिदीपनतया, अपरिखेदमैत्री शून्यनैरात्म्यप्रत्यवेक्षणतया, धर्मदानमैत्र्य् अनाचार्यमुष्टितया, शीलमैत्री दुःशीलसत्वावेक्षणतया, क्षान्तिमैत्र्य् आत्मपराक्षण्यनतया, वीर्यमैत्री सर्वसत्वभारवहनतया, ध्यानमैत्र्य् अनास्वादनतया, प्रज्ञामैत्री कालसंप्रापणतया, उपायमैत्री सर्वत्रमुखोद्दर्शनतया, अकुहनमैत्र्य् आशयपरिशुद्धितया, अशाठ्यमैत्र्य् आशयतया, अध्याशयमैत्री निरङ्गणतया, अमायामैत्र्य् अकृत्रिमतया, सौख्यमैत्री बुद्धसौख्यप्रतिष्ठापनतया / इयं मञ्जुश्रीः बोधिसत्वस्य महामैत्री /
व्क्न् 6.3 आह: कतरा पुनर् अस्य महाकरुणा /
आह: यत् कृतं कृतं कुशलमूलं सर्वसत्वेभ्य उत्सृजति /
आह: कतरा पुनर् अस्य महामुदिता /
आह: यद् दत्वात्तमना भवति, न विप्रतिसारी /
आह: कतरा पुनर् अस्य महोपेक्षा /
आह: योभयतो ऽर्थता /
व्क्न् 6.4 आह: संसारभयभीतेन किं प्रतिपत्तव्यम् /
आह: संसारभयभीतेन मञ्जुश्रिः बोधिसत्वेन बुद्धमाहात्म्यं प्रतिपत्तव्यम् /
आह: बुद्धमाहात्म्ये स्थातुकामेन कुत्र स्थातव्यम् /
आह: बुद्धमाहात्म्ये स्थातुकामेन सर्वसत्वसमतायां स्थातव्यम् /
आह: सर्वसत्वसमतायां स्थातुकामेन कुत्र स्थातव्यम् /
आह: सर्वसत्वसमतायां स्थातुकामेन सर्वसत्वप्रमोक्षाय स्थातव्यम् /
व्क्न् 6.5 आह: सर्वसत्वप्रमोक्षं कर्तुकामेन किं कर्तव्यम् /
आह: सर्वसत्वप्रमोक्षं कर्तुकामेन क्लेशप्रमोक्षः कर्तव्यः /
आह: क्लेशान् उत्स्रष्टुकामेन कथं प्रयुक्तेन भवितव्यम् /
आह: क्लेशान् उत्स्रष्टुकामेन योनिशः प्रयुक्तेन भवितव्यम् /
आह: कथं प्रयुक्तः पुनर् योनिशः प्रयुक्तो भवति /
आह: अनुत्पादानिरोधप्रयुक्तो योनिशः प्रयुक्तो भवति /
आह: किं नोत्पादयति, किं न निरोधयति /
आह: अकुशलं नोत्पादयति, कुशलं न निरोधयति /
आह: कुशलस्याकुशलस्य च किं मूलम् /
आह: सत्कायो मूलम् /
आह: सत्कायस्य च पुनः किं मूलम् /
आह: सत्कायस्येच्छालोभौ मूलम् /
आह: इच्छालोभयोः किं मूलम् /
आह: इच्छालोभयोर् अभूतपरिकल्पो मूलम् /
व्क्न् 6.6 आह: अभूतपरिकल्पस्य किं मूलम् /
आह: अभूतपरिकल्पस्य विपर्यस्ता संज्ञा मूलम् /
आह: विपर्यस्तायाः संज्ञायाः किं मूलम् /
आह: विपर्यस्तायाः संज्ञाया अप्रतिष्ठा मूलम् /
आह: अप्रतिष्ठायाः किं मूलम् /
आह: यन् मञ्जुश्रीः अप्रतिष्ठानं तस्य किं मूलं भविष्यति / इति ह्य् अप्रतिष्ठानमूलप्रतिष्ठिताः सर्वधर्माः /
व्क्न् 6.7 अथ या तत्र गृहे देवता प्रतिवसति, सा तेषां बोधिसत्वानां महासत्वानाम् इमं धर्मनिर्देशं श्रुत्वा तुष्टोदग्रात्तमना, औदारिकम् आत्मभावं संदर्श्य दिव्यैः पुष्पैस् तान् महासत्वांस् तांश् च महाश्रावकान् अभ्यवकिरति स्म / अभ्यवकीर्णानां च तत्र यानि बोधिसत्वानां काये पुष्पाणि पतितानि, तानि धरणितले प्रतिष्ठितानि / यानि पुनर् महाश्रावकाणां काये पुष्पाणि पतितानि, तानि तत्रैव स्थितानि न भूमौ पतितानि / ततस् ते महाश्रावका ऋद्धिप्रातिहार्यैः तानि पुष्पाण्य् उत्सृजन्ति, न च पतन्ति /
व्क्न् 6.8 अथ सा देवतायुष्मन्तं शारिपुत्रम् एवम् आह: किं भदन्तशारिपुत्र, एतानि पुष्पाण्य् उत्सृजसि /
आह: अकल्पिकानि देवते एतानि पुष्पाणि / तस्माद् अहम् एतानि पुष्पाण्य् अपनयामि /
देवताह: मा भदन्तशारिपुत्र एवं वोचः / तत् कस्माद् धेतोः / एतानि हि पुष्पाणि कल्पिकानि / किं कारणम् / तथा ह्य् एतानि पुष्पाणि न कल्पयन्ति न विकल्पयन्ति / स्थविरः पुनः शारिपुत्रः कल्पयति विकल्पयति च / ये भदन्तशारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्यां कल्पयन्ति विकल्पयन्ति च, ते ऽकल्पिकाः / स्थविरस् तु कल्पयति विकल्पयति च / ये पुनर् न कल्पयन्ति न विकल्पयन्ति, ते कल्पिकाः / पश्य भदन्तशारिपुत्र एषां महासत्वानां काये पुष्पाणि न श्लिष्यन्ति / यथापि नाम सर्वकल्पविकल्पप्रहीणत्वात् / तद्यथापि नाम भीरुकजातीयस्य पुरुषस्यामनुष्या अवतारं इअभन्ते / एवम् एव संसारभयभीतानां रूपशब्दगन्धरसस्प्रष्टव्यान्य् अवतारं लभन्ते / ये पुनः सर्वसंसारक्लेशभयविगताः, किं तेषां रूपशब्दगन्धरसस्प्रष्टव्यानि करिष्यन्ति / येषां वासनाप्रहीणा, तेषां काये पुष्पाणि श्लिष्यन्ति / तस्मात् सर्ववासनाप्रहीणानां काये पुष्पाणि न श्लिष्यन्ति /
व्क्न् 6.9 अथ खल्व् आयुष्माञ् शारिपुत्रस् तां देवताम् एतद् अवोचत्: कियच्चिरनिविष्टा पुनस् त्वं देवते इह गृहे /
आह: यावच्चिरनिविष्टा स्थविरस्यार्या विमुक्तिः /
आह: न चिरस्थिता त्वं देवते इह गृहे /
आह: कियच्चिरनिविष्टा पुनः स्थविरस्यार्या विमुक्तिः /
ततः स्थविरस् तूष्णीम् अभूत् /
आह: किम् इदानीं महाप्रज्ञानाम् अग्र्यः स्थविरस् तूष्णीम् अभूत् / प्राप्तकालं प्रश्नं न विसर्जयति /
आह: अप्रव्याहारा हि देवते विमुक्तिः / तन् न जाने किं व्याहरामीति /
आह: यद् यद् एव स्थविरो ऽक्षरम् उदाहरति, सर्वाण्य् एतान्य् अक्षराणि विमुक्तिलक्षणानि / तत् कस्माद् धेतोः / या हि सा विमुक्तिः, सा नाध्यात्मं न बहिर् नोभयम् अन्तरेणोपलभ्यते / एवम् अक्षराण्य् अपि / तस्मात् तर्हि भदन्तशारिपुत्र मा अक्षरापनयेन विमुक्तिं निर्दिश / तत् कस्माद् धेतोः / सर्वधर्मसमता हि विमुक्तिः /
आह: ननु देवते रागदोषमोहविगमाद् विमुक्तिः /
देवताह: अभिमानिकानाम् एष निर्देषो रागदोषमोहविगमाद् विमुक्तिर् इति / ये निरभिमानिकाः, तेषां रागदोषमोहप्रकृतिर् एव विमुक्तिः /
व्क्न् 6.10 अथ खल्व् आयुष्माञ् शारिपुत्रस् तां देवताम् एतद् अवोचत्: साधु साधु देवते किं त्वया प्राप्तं किं वा साक्षात्कृतम्, यस्यास् त ईदृशं प्रतिभानम् /
आह: न मया भदन्तशारिपुत्र किंचित् प्राप्तं साक्षात्कृतं वा / तेन म ईदृशं प्रतिभानम् / येषाम् एवं भवत्य् अस्माभिः प्राप्तं वा साक्षात्कृतं चेति, ते स्वाख्याते धर्मविनय आभिमानिका इत्य् उच्यन्ते /
व्क्न् 6.11 आह: किं त्वं देवते श्रावकयानिका प्रत्येकबुद्धयानिका महायानिका वा /
आह: श्रावकायानिकास्मि श्रावकयानसूचनतया, प्रत्येकबुद्धयानिकास्मि प्रतीत्यधर्मावतारेण, महायानिकास्मि महाकरुणानुत्सृजनतया /
व्क्न् 6.12 अपि तु खलु पुनर् भदन्तशारिपुत्र न चम्पकवनं प्रविष्टा एरण्डगन्धं जिघ्रन्ति / चम्पकवनं तु प्रविष्टाश् चम्पकगन्धम् एव जिघ्रन्ति / एवम् एव भदन्तशारिपुत्र नेह गृहे बुद्धधर्मगुणगन्धिके वसन्तः श्रावकप्रत्येकबुद्धगन्धैः जिघ्रन्ति / ये ऽपि भदन्तशारिपुत्र शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा इदं गृहं प्रविशन्ति, ते ऽप्य् अस्य सत्पुरुषस्य धर्मश्रवणेन बुद्धधर्मगुणगन्धेनोत्पादितबोधिचित्ता निष्क्रामन्ति / द्वादशवर्षाण्य् उपादाय भदन्तशारिपुत्र प्रतिवसन्त्या मे न जातु श्रावकप्रत्येकबुद्धसंप्रयुक्ता कथा श्रुतपूर्वा, नान्यत्र महामैत्रीमहाकरुणाप्रतिसंयुक्तैवाचिन्त्यधर्मप्रतिसंयुक्तैव /
व्क्न् 6.13 इह भदन्तशारिपुत्र गृहे ऽष्टाव् आश्चर्याद्भुता धर्माः सततसमितं संदृश्यन्ते / कतमे ऽष्टौ /
नेह रात्रिर् वा दिवसो वा प्रज्ञायते सदावभासितम् इदं गृहं सुवर्णवर्णया प्रभया / नेह सूर्याचन्द्रमसौ प्रज्ञायेते, न भ्राजेते / अयं प्रथम आश्चर्याद्भुतो धर्मः /
पुनर् अपरं भदन्तशारिपुत्र ये प्रविशन्तीदं गृहम्, तेषां समनन्तरप्रविष्टानां सर्वक्लेशा न बाधन्ते / अयं द्वितीय आश्चर्याद्भुतो धर्मः /
पुनर् अपरं भदन्तशारिपुत्र इदं गृहम् अविरहितं शक्रब्रह्मलोकपालैर् अन्यबुद्धक्षेत्रसंनिपतितैश् च बोधिसत्वैः / अयं तृतीय आश्चर्याद्भुतो धर्मः /
पुनर् अपरं भदन्तशारिपुत्र इदं गृहं सततसमितम् अविरहितं धर्मश्रवणेन षट्पारमिताप्रतिसंयुक्तया कथयाविवर्त्यधर्मकथया च / अयं चतुर्थ आश्चर्याद्भुतो धर्मः / पुनर् अपरं भदन्तशारिपुत्र इह गृहे यास् तूर्यसंगीतयो दिव्यमानुष्यकाणि वा वाद्यानि वाद्यन्ते, तेभ्यस् तूर्येभ्यो ऽप्रमाणो धर्मशब्दनिर्हारो निश्चरति सार्वकालिकः / अयं पञ्चम आश्चर्याद्भुतो धर्मः /
पुनर् अपरं भदन्तशारिपुत्र इह गृहे चत्वारि महानिधानानि सर्वरत्नपरिपूर्णान्य् अक्षयाणि यतो निष्यन्दं सर्वदरिद्रकृपणा आदाय प्रक्रामन्ति, न च क्षीयन्ते / अयं षष्ठ आश्चर्याद्भुतो धर्मः /
पुनर् अपरं भदन्तशारिपुत्र इह गृहे शाक्यमुनिस् तथागतो ऽमिताभो ऽक्षोभ्यो रत्नश्री रत्नार्ची रत्नचन्द्रो रत्नव्यूहो दुःप्रसहः सर्वार्थसिद्धः प्रभूतरत्नः सिंहनादनादी सिंहघोषस् तथागत एवं प्रमुखा दशसु दिक्ष्व् अप्रमाणास् तथागता ये ऽस्य सत्पुरुषस्य चिन्तितमात्रेणागच्छन्ति / आगत्य च तथागतगुह्यं नाम धर्ममुखप्रवेशं देशयित्वा प्रक्रामन्ति / अयं सप्तम आश्चर्याद्भुतो धर्मः /
पुनर् अपरं भदन्तशारिपुत्र इह गृहे सर्वदेवभवनव्यूहाः सर्वबुद्धक्षेत्रगुणव्यूहाश् च संदृश्यन्ते / अयम् अष्टम आश्चर्याद्भुतो धर्मः /
इमे भदन्तशारिपुत्र अष्टाव् आश्चर्याद्भुता धर्माः सततसमितम् इह गृहे संदृश्यन्ते / तत् कस्माद् धेतोः / क इमाम् अचिन्त्यधर्मतां पश्यञ् श्रावकधर्मतायै स्पृहयेत् /
व्क्न् 6.14 आह: किं त्वं देवते स्त्रीभावं न निवर्तयसि /
आह: परिपूर्णानि मे द्वादशवर्षाण्य् उपादाय स्त्रीभावं पर्येषमाणाया न चैनं लभे / अपि च भदन्तशारिपुत्र या मायाकारेण स्त्रीनिर्मिता यस् ताम् एवं वदेत्: किं त्वं स्त्रीभावं न निवर्तयसीति, स किं वदेत् /
आह: न तस्याः काचित् भूता परिनिष्पत्तिः /
आह: एवम् एव भदन्तशारिपुत्र अपरिनिष्पन्नेषु सर्वधर्मेषु मायानिर्मितस्वभावेषु कुतस् तवैवं भवति: किं त्वं स्त्रीभावं न निवर्तयसीति /
व्क्न् 6.15 अथ सा देवता तादृशम् अधिष्ठानम् अधितिष्ठति स्म / यथा स्थविरः शारिपुत्रो यादृशी सा देवता तादृशः संदृश्यते, सा देवता यादृशः स्थविरस् तादृशी संदृश्यते / अथ सा देवता शारिपुत्ररूपा शारिपुत्रं देवतारूपधारिणम् अपृच्छत्: किं भदन्तशारिपुत्र स्त्रीभावं न निवर्तयसि /
शारिपुत्रो देवतारूप्य् आह: न जाने किं विनिवर्तयामीति / पुरुषरूपम् अन्तर्हितं स्त्रीरूपं मे निर्वृत्तम् /
आह: यदि स्थविरः शक्ष्यति स्त्रीभावं विनिवर्तयितुम्, ततः सर्वाः स्त्रियो ऽपि स्त्रीभावं विनिवर्तयिष्यन्ति / यथा स्थविरो न स्त्री स्त्रीव संदृश्यते, एवं सर्वस्त्रीणाम् अपि स्त्रीरूपं न च स्त्रियः स्त्रीरूपाश् च संदृश्यन्ते / इदं संधाय भगवान् आह: ःसर्वधर्मा न स्त्री न पुरुषः इति /
अथ सा देवता तद् अधिष्ठानम् अवासृजत् / अथायुष्माञ् शारिपुत्रः पुनर् एव स्वरूपसमन्वागतो बभूव / अथ सा देवतायुष्मन्तं शारिपुत्रम् एवम् आह: क्व नु ते भदन्तशारिपुत्र स्त्रीरूपं कृतं गतम् /
आह: न तत् कृतं न विकृतम् /
आह: एवम् एव सर्वधर्मा न कृता न विकृताः / यत्र च न कृतिर् न विकृतिस् तद् बुद्धवचनम् /
व्क्न् 6.16 आह: इतस् त्वं देवते च्युता कुत्रोपपत्स्यसे /
आह: यत्रैव तथागतनिर्मित उपपत्स्यते, तत्रैवाहम् उपपत्स्ये /
आह: तथागतनिर्मितस्य न च्युतिर् नोपपत्तिः /
आह: एवम् एव सर्वधर्माणां न च्युतिर् नोपपत्तिः /
आह: कियच्चिरेण पुनर् देवते बोधिम् अभिसंभोत्स्यसे /
आह: यदा स्थविरः पृथग्जनधर्मसमन्वागतो भविष्यति, तदाहं बोधिम् अभिसंभोत्स्ये /
आह: अस्थानम् एतद् देवते यद् अहं पृथग्जनधर्मसमन्वागतः स्याम् /
आह: एवम् एव भदन्तशारिपुत्र अस्थानम् एतद् यद् अहं बोधिम् अभिसंभोत्स्ये / तत् कस्माद् धेतोः / अस्थानस्थितैव हि बोधिः / तस्माद् अस्थानं न कश्चिद् अभिसंभोत्स्यते /
स्थविर आह: उक्तं देवते तथागतेन ःगङ्गानदीवालिकासमास् तथागता अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते चः /
देवताह: अक्षरगणनासंकेताधिवचनम् एतद् भदन्तशारिपुत्र अतीतानागतप्रत्युत्पन्ना बुद्धा इति / न पुनर् बुद्धा अतीता वानागता वा वर्तमाना वा / त्र्यध्वसमतिक्रान्ता हि बोधिः / अपि च प्राप्तं स्थविरेणार्हत्वम् /
आह: प्राप्तम् असंप्राप्तिकारणेन /
आह: एवम् एवाभिसंबोधिर् अनभिसंबोधिकारणेन /
व्क्न् 6.17 अथ विमलकीर्तिर् लिच्छविर् आयुष्मन्तं शारिपुत्रम् एवम् आह: द्वानवतिबुद्धकोटीपर्युपासिता भदन्तशारिपुत्र एषा देवताभिज्ञाज्ञानविक्रीडिता प्रणिधानसमुच्छ्रिता क्षान्तिप्रतिलब्धावैवर्तिकसमवसरणा प्रणिधानवशेन यथेच्छति तथा तिष्ठति सत्वपरिपाकाय // //
देवतापरिवर्तः षष्ठः //
व्क्न् 7.1 अथ खलु मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविम् एवम् आह: कथं कुलपुत्र बोधिसत्वो गतिंगतो भवति बुद्धधर्मेषु /
आह: यदा मञ्जुश्रीः बोधिसत्वो ऽगतिगमनं गच्छति, तदा बोधिसत्वो गतिंगतो भवति बुद्धधर्मेषु /
आह: कतमच् च बोधिसत्वस्यागतिगमनम् /
आह: यदा पञ्चानन्तर्यगतिं च गच्छति, न च व्यापादविहिंसाप्रदुष्टो भवति / निरयगतिं च गच्छति, सर्वरजःक्लेशविगतश् च भवति / तिर्यग्योनिगतिं च गच्छति, विगततमोऽन्धकारश् च भवति / असुरगतिं च गच्छति, मानमददर्पविगतश् च भवति / यमलोकगतिं च गच्छति, सर्वपुण्यज्ञानसंभारोपात्तश् च भवति / अनेञ्ज्यरूपगतिं च गच्छति, न च तद्गतिसमवसरणो भवति / रागगतिं च गच्छति, विगतरागश् च भवति सर्वकामभोगेषु / दोषगतिं च गच्छति, अप्रतिहतश् च भवति सर्वसत्वेषु / मोहगतिं च गच्छति, प्रज्ञानिध्यप्तिचित्तश् च भवति सर्वधर्मेषु / मात्सर्यगतिं च गच्छति, सर्वाध्यात्मबाह्यवस्तुपरित्यागी च भवति कायजीवितानपेक्षः / दुःशीलगतिं च गच्छति, सर्वशीलशिक्षाधुतगुणसंलेखप्रतिष्ठितश् च भवत्य् अनुमात्रेष्व् अवद्येषु भयदर्शी / व्यापादखिलक्रोधगतिं च गच्छति, मैत्रीविहारि च भवत्य् अत्यन्ताव्यापन्नचित्तः / कौसीद्यगतिं च गच्छति, सर्वकुशलमूलपर्येष्ट्यभियुक्तश् च भवत्य् अप्रतिप्रस्रब्धवीर्यारम्भः / विभ्रान्तेन्द्रियगतिं च गच्छति, अरिक्तध्यानश् च भवति प्रकृतिसमापन्नः / दौःप्रज्ञगतिं च गच्छति, सर्वलोकिकलोकोत्तरशास्त्रकुशलश् च भवति प्रज्ञापारमितागतिंगतः / कुहनलपनचर्यागतिं गच्छति, उपायकौशलचर्यानिर्यातश् च भवति संधाभाष्यकुशलः / मानगतिं च दर्शयति, सेतुसंक्रामभृतश् च भवति सर्वलोकस्य / क्लेशगतिं च गच्छति, प्रकृतिपरिशुद्धश् च भवत्य् अत्यन्तासंक्लिष्टः / मारगतिं च गच्छति, अपरप्रत्ययश् च भवति सर्वबुद्धधर्मेषु /
श्रावकगतिं च गच्छति, अश्रुतधर्मश्रावयिता च भवति सत्वानाम् / प्रत्येकबुद्धगतिं च गच्छति, महाकरुणानिर्यातश् च भवति सत्वपरिपाकाय / दरिद्रगतिं च गच्छति, रत्नपाणिताप्रतिलब्धश् च भवत्य् अक्षयभोगः / विकलेन्द्रियगतिं च गच्छति, लक्षणसमलंकृतश् च भवत्य् अभिरूपः / हीनकुलोपपत्तिगतिं च गच्छति, तथागतकुलगोत्रसंभृतश् च भवति पुण्यज्ञानोपचितसंभारः / दुर्बलदुर्वर्णावहोटिमकगतिं च गच्छति, नारायणात्मभावप्रतिलब्धश् च भवति प्रियदर्शनः सर्वसत्वानाम् / जीर्णव्याधितोग्लानचर्यां च दर्शयति, अत्यन्तव्याधिसमुद्घातितश् च भवति मरणभयसमतिक्रान्तः / भोगगतिं च दर्शयति, अनित्यसंज्ञाप्रत्यवेक्षणाबहुलश् च भवति सर्वैषणाप्रतिप्रस्रब्धः / अन्तःपुरनाटकव्यूहाश् च बोधिसत्वो दर्शयति, उत्तीर्णकामपङ्कश् च भवत्य् अनिकेतचारी / धन्धायतनगतिं च गच्छति, विचित्रप्रतिभानालंकारश् च भवति धारणीप्रतिलब्धः / तीर्थिकगतिं च गच्छति, तीर्थभूतश् च भवति / सर्वलोकगतिं च गच्छति, सर्वगतिनिवृत्तश् च भवति / निर्वाणगतिं च गच्छति, संसारप्रबन्धं च न जहाति / एवं मञ्जुश्रीः बोधिसत्वो ऽगतिगमनं गच्छति, गतिंगतश् च भवति सर्वबुद्धधर्मेषु /
व्क्न् 7.2 अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् एवम् आह: कतमन् मञ्जुश्रीः तथागतानां गोत्रम् /
आह: सत्कायः कुलपुत्र तथागतानां गोत्रम्, अविद्या भवतृष्णा च गोत्रम्, रागदोषमोहा गोत्रम्, चत्वारो विपर्यासा गोत्रम्, पञ्च निवरणानि गोत्रम्, षड् आयतनं गोत्रम्, सप्त विज्ञानस्थितयो गोत्रम्, अष्टौ मिथ्यात्वानि गोत्रम्, नवाघातवस्तूनि गोत्रम्, दशाकुशलाः कर्मपथा गोत्रम् / इदं कुलपुत्र तथागतानां गोत्रम् / संक्षेपेण कुलपुत्र द्वाषष्टिर् दृष्टिगतानि तथागतानां गोत्रम् /
व्क्न् 7.3 आह: किं संधाय मञ्जुश्रीः एवं वदसि /
आह: न शक्यं कुलपुत्र असंस्कृतदर्शिना नियामावक्रान्तिस्थितेनानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितुम् / क्लेशागारसंस्कृतस्थितेनादृष्टिसत्येन शक्यम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितुम् / तद्यथा कुलपुत्र नोज्जङ्गलेषु पृथिवीप्रवेशेषूत्पलपद्मकुमुदपुण्डरीकसौगन्धिकानि विरोहन्ति / कर्दमपुलिनप्रक्षिप्तान्य् उत्पलपद्मकुमुदपुण्डरीकसौगन्धिकानि विरोहन्ति / एवम् एव कुलपुत्र नासंस्कृतनियामप्राप्तेषु सत्वेषु बुद्धधर्मा विरोहन्ति / क्लेशपुलिनकर्दमप्राप्तेषु सत्वेषु बुद्धधर्मा विरोहन्ति / तद्यथापि नाम नाकाशे बीजानि विरोहन्ति / धरणितलप्रतिष्ठितानि विरोहन्ति / एवम् एव नासंस्कृतनियामप्राप्तेषु बुद्धधर्मा विरोहन्ति / सुमेरुसमां सत्कायदृष्टिम् उत्पाद्य बोधिचित्तम् उत्पद्यते / ततश् च बुद्धधर्मा विरोहन्ति / तद् अनेनापि ते कुलपुत्र पर्यायेणैवं वेदितव्यम् / यथा सर्वक्लेशास् तथा तथागतानां गोत्रम् / तद्यथापि नाम कुलपुत्र नानवतीर्य महासमुद्रं शक्यम् अनर्घं रत्नम् उत्क्षेप्तुम् / एवम् एव नानवतीर्णेन क्लेशसागरं शक्यं सर्वज्ञताचित्तरत्नम् उत्पादयितुम् /
व्क्न् 7.4 अथ स्थविरो महाकाश्यपो मञ्जुश्रिये कुमारभूताय साधुकारम् अदात्: साधु साधु मञ्जुश्रीः सुभाषिता त इयं वाग् भूतम् / एतत् क्लेशा गोत्रं तथागतानाम् / कुतो ह्य् अस्मद्विधानां शक्तिर् अस्ति बोधिचित्तम् इदानीम् उत्पादयितुम् / पञ्चानन्तर्यप्राप्तः शक्तो बोधिचित्तम् उत्पादयितुम्, शक्तो बुद्धधर्मान् अभिसंबोद्धुम्, न पुनर् अहम् /
व्क्न् 7.5 तद्यथा विकलेन्द्रियस्य पुरुषस्य पञ्चकामगुणा निर्गुणा निःसमर्थाः / एवम् एव सर्वसंयोजनप्रहीणस्य श्रावकस्य सर्वबुद्धधर्मा निर्गुणा निःसमर्थाः / न तस्य भूयः शक्तिर् अस्ति तान् अध्यालम्बितुम्* / तस्मान् मञ्जुश्रीः पृथग्जनास् तथागतस्य कृतज्ञाः, न श्रावकाः / तत् कस्माद् धेतोः / पृथग्जना हि बुद्धगुणाञ् श्रुत्वा त्रिरत्नवंशानुपच्छेदायानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति / श्रावकाः पुनर् यावज्जीवम् अपि बुद्धधर्मबलवैशारद्यानि श्रुत्वानुत्तरायां सम्यक्संबोधौ न शक्ताश् चित्तम् उत्पादयितुम् /
व्क्न् 7.6 अथ सर्वरूपसंदर्शनो नाम बोधिसत्वस् तस्याम् एव पर्षदि संनिपतितो ऽभूत् संनिषण्णः / स विमलकीर्तिं लिच्छविम् एवम् आह: कस्मिन् पुनस् ते गृहपते मातापितरौ दासीदासकर्मकरपौरुषेयम्, कुत्र मित्रज्ञातिसालोहिताः, कुत्र परिवारो हयगजरथपतिवाहनं वा / एवम् उक्ते विमलकीर्तिर् लिच्छविः सर्वरूपसंदर्शनं बोधिसत्वं गाथाभिर् अध्यभाषत्:
प्रज्ञापारमिता माता बोधिसत्वान मारिष / पिता चोपायकौशल्यं यतो जायन्ति नायकाः // (1)
भार्या धर्मरतिस् तेषां मैत्रि करुणा च दुहितरौ / सत्यधर्माव् उभौ पुत्रौ गृहं शून्यार्थचिन्तना // (2)
सर्वक्लेशास् तथा शिष्या यथेष्टवशवर्तिनः / बोध्यङ्गाश् चैव मित्राणि बोधिं बुध्यन्ति यैर् वराम् // (3)
सहायाश् चानुबद्धा हि षड् इमाः पारमिताः सदा / स्त्र्यागारः संग्रहस् तेषार धर्माः संगीतिवादितम् // (4)
उद्यानं धारणी तेषां बोध्यङ्गकुसुमैश् चितम् / फलं विमुक्तिज्ञानं च वृक्षा धर्मधनं महत् // (5)
विमोक्षाः पुष्किरिण्यश् च समाधिजालपूरिताः / विशुद्धिपद्मसंछन्ना यत्र स्नायन्ति निर्मलाः // (6)
अभिज्ञा वाहनं तेषां महायानम् अनुत्तमम् / सारथिर् बोधिचित्तं तु सन्मार्गो ऽष्टाङ्गिकः शिवः // (7)
भूषना लक्षणान्य् एषाम् अशीतिश् चानुव्यञ्जनाः / ह्रीरपत्राप्यवस्त्रास् ते कल्याणाध्याशयाः शुभाः // (8)
सद्धर्मधनवन्तस् ते प्रयोगो धर्मदेशना / प्रतिपत्तिर् महालाभः परिणामश् च बोधये // (9)
शयनं चतुरो ध्यानाः शुद्धाजीवेन संस्तृताः / प्रज्ञा विबोधनं तेषां नित्यं श्रुतसमाहिता // (10)
अमृतं भोजनं तेषां विमुक्तिरसपानकम् / विशुद्धाशयता स्नानं शीलं गन्धानुलेपनम् // (11)
क्लेशशत्रुविनिर्घाताच् छूरास् ते ह्य् अपराजिताः / धर्षेन्ति चतुरो मारान् बोधिमण्डध्वजाश्रिताः // (12)
संचिन्त्यजाति दर्शेन्ति अजाताश् च असंभवाः / दृश्यन्ते सर्वक्षेत्रेषु रश्मिराजवद् उद्गताः // (13)
बुद्धकोट्यो हि पूजित्वा सर्वपूजाहि नायकान् / न चैवात्मनि बुद्धे वा जातु कुर्वन्ति निश्रयम् // (14)
बुद्धक्षेत्राणि शोधेन्ति सत्वानां चरितं यथा / आकाशक्षेत्रानुप्राप्ता न सत्वे सत्वसंज्ञिनः // (15)
सर्वसत्वान ये रूपा रुतघोषाश् च ईरिताः / एकक्षनेन दर्शेन्ति बोधिसत्वा विशारदाः // (16)
मारकर्म च बुध्यन्ते माराणां चानुवर्तकाः / उपायपारमिप्राप्ताः सर्वां दर्शेन्ति ते क्रियाम् // (17)
ते जीर्णव्याधिता भोन्ति मृतम् आत्मानु दर्शयी / सत्वानां परिपाकाय मायाधर्मविहारिणः // (18)
कल्पोद्दाहं च दर्शेन्ति उद्दह्य तां वसुन्धराम् / नित्यसंज्ञीन सत्वानाम् अनित्यम् इति दर्शयी // (19)
सत्वकोटीसहस्रेभिर् एकराष्ट्रे निमन्त्रिताः / सर्वेषां गृहि भुञ्जन्ति सर्वान् नामेन्ति बोधये // (20)
ये केचिन् मन्त्रविद्या वा शिल्पस्थाना बहूविधाः / सर्वत्र पारमिप्राप्ताः सर्वसत्वसुखावहाः // (21)
यावन्तो लोकि पाषण्डाः सर्वत्र प्रव्रजन्ति ते / नानादृष्टिगतप्राप्तान् सत्वान् हि परिमोचयि // (22)
चन्द्रा भवन्ति सूर्या वा शक्रब्रह्मप्रजेश्वराः / भवन्ति आपस् तेजश् च पृथिवी मारुतस् तथा // (23)
रोग-अन्तरकल्पेषु भैषज्यं भोन्ति उत्तमम् / येहि सत्वा विमुच्यन्ति सुखी भोन्ति अनामयाः // (24)
दुर्भिक्षान्तरकल्पेषु भवन्ति पानभोजनम् / क्षुधापिपासाम् अपनेत्वान् धर्मं देशेन्ति प्राणिनाम् // (25)
शस्त्र-अन्तरकल्पेषु मैत्र्याध्यायी भवन्ति ते / अव्यापादे नियोजेन्ति सत्वकोटीशतान् बहून् // (26)
महासंग्राममध्ये च समपक्षा भवन्ति ते / संधिसामग्रि रोचेन्ति बोधिसत्वा महाबलाः // (27)
ये चापि निरयाः केचिद् बुद्धक्षेत्रेष्व् अचिन्तियाः / संचिन्त्य तत्र गच्छन्ति सत्वानां हितकारणात् // (28)
यावन्त्यो गतयः काश्चित् तिर्यग्योनौ प्रकाशिताः / सर्वत्र धर्मं देशेन्ति तेन उच्यन्ति नायकाः // (29)
कामभोगां पि दर्शेन्ति ध्यानं दर्शेन्ति ध्यायिनाम् / विहस्तं मारं कुर्वन्ति अवतारं न देन्ति ते // (30)
अग्निमध्ये यथा पद्मम् अद्भुतं पि विदर्शयेत् / एवं कामांश् च ध्यानं च अद्भुतं ते विदर्शयि // (31)
संचिन्त्य गणिका भोन्ति पुंसाम् आकर्षणाय ते / रागाङ्कुशेन लोभेत्वा बुद्धज्ञाने स्थपेन्ति ते // (32)
ग्रामिकाश् च सदा भोन्ति सार्थवाहाः पुरोहिताः / अग्रामात्यो ऽथ चामात्याः सत्वानां हितकारणात् // (33)
दरिद्राणां च सत्वानां निधानं भोन्ति अक्षयम् / येषां दानानि दत्वा हि बोधिचित्तं जनेन्ति ते // (34)
मानस्तब्धेषु सत्वेषु महानग्ना भवन्ति ते / सर्वमानसमुद्घातां बोधिं प्रार्थेन्ति उत्तमाम् // (35)
भयार्दितानां सत्वानां संतिष्ठन्ते ऽग्रतः सदा / अभयं तेषु दत्वा च परिपाचेन्ति बोधये // (36)
पञ्चाभिज्ञा हि भूत्वा ते ऋषयो ब्रह्मचारिणः / शीले सत्वान् नियोजेन्ति क्षान्तिसौरत्यसंयमे // (37)
उपस्थानगुरून् सत्वान् संपश्येह विनायकाः / चेटा भवन्ति दासा वा शिष्यत्वम् उपयान्ति च // (38)
येन येनैव चाङ्गेन सत्वा धर्मरता भवे / दर्शेन्ति हि क्रियाः सर्वा महोपायसुशिक्षिताः // (39)
तेषाम् अनन्तशिक्षा हि अनन्तश् चापि गोचरः / अनन्तज्ञानसंपन्ना अनन्तप्राणिमोचकाः // (40)
न तेषां कल्पकोटीभिः कल्पकोटीशतैस् तथा / भाषद्भिः सर्वबुद्धैस् तु गुणान्तः सुवचो भवेत् // (41)
बोधिं न प्रार्थयेत् को ऽग्र्यां श्रुत्वा धर्मान् इमान् बुधः / अन्यत्र हीनसत्वेभ्यो येषां प्रज्ञा न विद्यते // (42)
इति // //
तथागतगोत्रपरिवर्तः सप्तमः //
व्क्न् 8.1 अथ विमलकीर्तिर् लिच्छविस् तान् बोधिसत्वान् आमन्त्रयते स्म: प्रतिभातु सत्पुरुषाः कतमो बोधिसत्वानाम् अद्वयधर्ममुखप्रवेशः /
तत्र धर्मविकुर्वणो नाम बोधिसत्वः संनिपतितः / स एवम् आह: उत्पादभङ्गौ कुलपुत्र द्वयम् / यन् न जातं नोत्पन्नं न तस्य कश्चिद् भङ्गः / अनुत्पादधर्मक्षान्तिप्रतिलम्भो ऽद्वयप्रवेशः /
व्क्न् 8.2 श्रीगुप्तो बोधिसत्व आह: अहं ममेति द्वयम् एतत् / आत्मासमारोपान् ममेति न भवति / यश् चासमारोपो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.3 श्रीकूटो बोधिसत्व आह: संक्लेशो व्यवदानम् इति द्वयम् एतत् / संक्लेशपरिज्ञानाद् व्यवदानमनना न भवति / सर्वमननासमुद्घाता सारूप्यगामिनी प्रतिपद् अयम् अद्वयप्रवेशः /
व्क्न् 8.4 सुनक्षत्रो बोधिसत्व आह: इञ्जना मननेति द्वयम् एतत् / यत् पुनर् नाञ्जते न मनसिकरोत्य् अनधिकारः, अधिकारविरहितो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.5 सुबाहुर् बोधिसत्व आह: बोधिचित्तं श्रावकचित्तम् इति द्वयम् एतत् / या पुनर् मायाचित्तसमदर्शनता तत्र न बोधिचित्तं न श्रावकचित्तम् / या चित्तसमलक्षणतायम् अद्वयप्रवेशः /
व्क्न् 8.6 अनिमिषो बोधिसत्व आह: उपादानम् अनुपादानम् इति द्वयम् एतत् / यन् नोपाददाति तन् नोपलभते, तत्रोहापोहं न करोति / अकरणम् अव्यापत्तिः सर्वधर्माणाम् अयम् अद्वयप्रवेशः /
व्क्न् 8.7 सुनेत्रो बोधिसत्व आह: एकलक्षणम् अलक्षणम् इति द्वयम् एतत् / यत् पुनर् न लक्षयति न विकल्पयति, नैकलक्षणं करोति नालक्षणम् / यल् लक्षणविलक्षणसमलक्षणप्रवेशो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.8 पुष्यो बोधिसत्व आह: कुशलम् अकुशलम् इति द्वयम् एतत् / या कुशलाकुशलस्यानुपस्थानता तद् अनिमित्तम् / अनिमित्तकोट्याश् चाद्वयता / यत्र निस्तीरणतायम् अद्वयप्रवेशः /
व्क्न् 8.9 सिंहो बोधिसत्व आह: अवद्यतानवद्यतेति द्वयम् एतत् / यत् पुनर् वज्रनिबद्धज्ञानतया न बध्यते न मुच्यते ऽयम् अद्वयप्रवेशः /
व्क्न् 8.10 सिंहमतिर् बोधिसत्व आह: इदं सास्रवम् इदम् अनास्रवम् इति द्वयम् एतत् / यत् पुनः समताधर्मप्राप्तः सास्रवानास्रवसंज्ञं न करोति, न वासंज्ञाप्राप्तः, न चासंज्ञासमतायां समताप्राप्तः, न संज्ञाग्रथितः / य एवं प्रवेशो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.11 सुखाधिमुक्तो बोधिसत्व आह: इदं सुखम् इदम् असुखम् इति द्वयम् एतत् / यत् पुनः सर्वसौख्यापगतो गगनसमबुद्धिः सुविशुद्धज्ञानतया न सञ्जत्य् अयम् अद्वयप्रवेशः /
व्क्न् 8.12 नारायणो बोधिसत्व आह: इदं लौकिकम् इदं लोकोत्तरम् इति द्वयम् एतत् / या लौकिकस्य प्रकृतिशून्यता, न तत्र किंचिद् उत्तीर्यते नावतीर्यते न सार्यते न विसार्यते / यत्र नोत्तरणं नावतरणं न सरणं न विसरणम् अयम् अद्वयप्रवेशः /
व्क्न् 8.13 दान्तमतिर् बोधिसत्व आह: संसारो निर्वाणम् इति द्वयम् एतत् / संसारस्वभावदर्शनान् न संसरति न परिनिर्वाति / यैवं बुध्यनायम् अद्वयप्रवेशः /
व्क्न् 8.14 प्रत्यक्षदर्शी बोधिसत्व आह: क्षयो ऽक्षय इति द्वयम् एतत् / क्षयो ऽत्यन्तक्षीणः / यश् चात्यन्तक्षीणः स न क्षपयितव्यः / तेनोच्यते ऽक्षय इति / यश् चाक्षयः स क्षणिकः / क्षनिकस्य नास्ति क्षयः / एवं प्रविष्टो ऽद्वयधर्ममुखप्रविष्टो वक्तव्यः /
व्क्न् 8.15 समन्तगुप्तो बोधिसत्व आह: आत्मा निरात्मेति द्वयम् एतत् / यस् ताम् आत्मतां नोपलभते, स किं निरात्मीकरिष्यति / आत्मस्वभावदर्शी द्वयं न करोत्य् अयम् अद्वयप्रवेशः /
व्क्न् 8.16 विद्युद्देवो बोधिसत्व आह: विद्याविद्येति द्वयम् एतत् / अविद्याप्रकृतिकैव विद्या / या चाविद्या साप्रकृतिकागणना गणनापथसमतिक्रान्ता / यो ऽत्राभिसमयो ऽद्वयाभिसमयो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.17 प्रियदर्शनो बोधिसत्व आह: रूपं शून्यम् इति द्वयम् एतत् / रुपम् एव हि शून्यता / न रूपविनाशाच् छून्यता, रूपप्रकृतिर् एव शून्यता / एवं वेदना संज्ञा संस्कारा विज्ञानं शून्यम् इति द्वयम् एतत् / विज्ञानम् एव हि शून्यता / न विज्ञानविनाशाच् छून्यता, विज्ञानप्रकृतिर् एव शून्यता / यो ऽत्र पञ्चसूपादानस्कन्धेष्व् एवं ज्ञानानुबोधो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.18 प्रभाकेतुर् बोधिसत्व आह: अन्ये चत्वारो धातवो ऽन्य आकाशधातुर् इति द्वयम् एतत् / आकाशस्वभावा एव चत्वारो धातवः / पूर्वान्तत आकाशस्वभावा अपरान्तत आकाशस्वभावास् तथा प्रत्युत्पन्नतो ऽप्य् आकाशस्वभावाः / यच् चैवं धातुप्रवेशज्ञानम् अयम् अद्वयप्रवेशः /
व्क्न् 8.19 सुमतिर् बोधिसत्व आह: चक्षू रूपं च द्वयम् एतत् / यत् पुनश् चक्षुःपरिज्ञातावी रूपेषु न रज्यति न दुष्यति न मुह्यति, स उच्यते शान्त इति / श्रोत्रं शब्दाश् च घ्राणं गन्धाश् च जिह्वा रसाश् च कायः स्प्रष्टव्यानि च मनो धर्माश् च द्वयम् एतत् / यत् पुनर् मनःपरिज्ञातावी धर्मेषु न रज्यते न दुष्यति न मुह्यति, स उच्यते शान्त इति / एवं शान्तस्थितस्याद्वयप्रवेशः /
व्क्न् 8.20 अक्षयमतिर् बोधिसत्व आह: दानं सर्वज्ञतायां परिणामयतीति द्वयम् एतत् / दानस्वभावैव सर्वज्ञता, सर्वज्ञतास्वभाव एव परिणामः / एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां सर्वज्ञतायां परिणामयतीति द्वयम् एतत् / प्रज्ञास्वभावैव सर्वज्ञता, सर्वज्ञतास्वभाव एव परिणामः / यो ऽत्रैकनयप्रवेशो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.21 गम्भीरबुद्धिर् बोधिसत्व आह: अन्या शून्यतान्यद् अनिमित्तम् अन्यद् अप्रणिहितम् इति द्वयम् एतत् / यद् धि शून्यं तत्र न किंचिन् निमित्तम् / अनिमित्ते ऽप्रणिहितम् / अप्रणिहिते न चित्तं न मनो न मनोविज्ञानं प्रचरति / यत्रैकं विमोक्षमुखं तत्र सर्वाणि विमोक्षमुखानि द्रष्टव्यान्य् अयम् अद्वयप्रवेशः /
व्क्न् 8.22 शान्तेन्द्रियो बोधिसत्व आह: बुद्धो धर्मः संघ इति द्वयम् एतत् / बुद्धस्य हि धर्मः, धर्मप्रकृतिकश् च संघः / सर्वाण्य् एतानि रत्नान्य् असंस्कृतानि, असंस्कृतं चाकाशम्, आकाशसमश् च सर्वधर्मनयः / य एवम् अनुगमो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.23 अप्रतिहतचक्षुर् बोधिसत्व आह: सत्कायः सत्कायनिरोध इति द्वयम् एतत् / सत्काय एव हि निरोधः / तत् कस्माद् धेतोः / तथा हि स सत्काय इति दृष्टिं नोपस्थापयति, यया दृष्ट्या सत्काय इति वा सत्कायनिरोध इति वा कल्पयति / सो ऽकल्पो ऽविकल्पो ऽत्यन्ताविकल्पो निरोधस्वभावप्राप्तः, न संभवति न विभवत्य् अयम् अद्वयप्रवेशः /
व्क्न् 8.24 सुविनीतो बोधिसत्व आह: कायवाङ्मनःसंवर इति द्वयम् एतत् / तत् कस्माद् धेतोः / अनभिसंस्कारलक्षना ह्य् एते धर्माः / या कायस्यानभिसंस्कारता तल्लक्षणैव वागनभिसंस्कारता तल्लक्षणैव मनोऽनभिसंस्कारता / या च सर्वधर्माणाम् अनभिसंस्कारता, सा ज्ञातव्यानुगन्तव्या / यद् अत्रानभिसंस्कारज्ञानम् अयम् अद्वयप्रवेशः /
व्क्न् 8.25 पुण्यक्षेत्रो बोधिसत्व आह: पुण्यपुण्यानिञ्ज्यान् संस्कारन् अभिसंस्करोतीति द्वयम् एतत् / यत् पुनः पुण्यापुण्यानिञ्ज्यानभिसंस्कारता साद्वया / या च पुण्यापुण्यानिञ्ज्यानां संस्काराणां स्वलक्षणशून्यता न तत्र पुण्यापुण्यानिञ्ज्याः संस्काराः / यैवम् अनुमार्जनायम् अद्वयप्रवेशः /
व्क्न् 8.26 पद्मव्यूहो बोधिसत्व आह: आत्मसमुत्थानसमुत्थितं द्वयम् / आत्मपरिज्ञातावी द्वयं नोत्थापयति / अद्वयस्थितस्य विज्ञाप्तिर् नास्ति / अविज्ञप्तिकश् चाद्वयप्रवेशः /
व्क्न् 8.27 श्रीगर्भो बोधिसत्व आह: उपलम्भप्रभावितं द्वयम् / यन् न लभते तन् नोपलभते, तन् नायूहति न निर्यूहति / तत्र नायूहो न निर्यूहो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.28 चन्द्रोत्तरो बोधिसत्व आह: तमः प्रकाश इति द्वयम् एतत् / अतमो ऽप्रकाश इत्य् अद्वयम् / तत् कस्माद् धेतोः / तथा हि निरोधसमापन्नस्य न तमो न प्रकाशः / एवंलक्षणाश् च सर्वधर्माः / यो ऽत्र समताप्रवेशो ऽयम् अद्वयप्रवेशः /
व्क्न् 8.29 रत्नमुद्राहस्तो बोधिसत्व आह: निर्वाणे ऽभिरतिः संसारे ऽनभिरतिर् इति द्वयम् एतत् / यस्य न निर्वाणे ऽभिरतिर् न संसारे ऽनभिरतिर् इदम् अद्वयम् / तत् कस्माद् धेतोः / बद्धस्य हि सतो मोक्षः प्रभाव्यते / यो ऽत्यन्तम् एवाबद्धः स किं मोक्षं पर्येषिष्यते / अबद्धो ऽमुक्तो भिक्षुर् न रतिम् उत्पादयति नारतिम् अयम् अद्वयप्रवेशः /
व्क्न् 8.30 मणिकूटराजो बोधिसत्व आह: मार्गः कुमार्ग इति द्वयम् एतत् / मार्गप्रतिपन्नस्य न कुमार्गः समुदाचरति / असमुदाचारस्थितस्य न मार्गसंज्ञा भवति न कुमार्गसंज्ञा / संज्ञापरिज्ञाताविनो हि द्वये बुद्धिर् नाक्रामत्य् अयम् अस्याद्वयप्रवेशः /
व्क्न् 8.31 सत्यनन्दी बोधिसत्व आह: सत्यं मृषेति द्वयम् एतत् / सत्यदर्शी सत्यम् एव न समनुपश्यति, कुतो मृषा द्रक्ष्यति / तत् कस्माद् धेतोः / न हि स मांसचक्षुषा पश्यति, प्रज्ञाचक्षुषा पश्यति / तथा च पश्यति, न विपश्यति / यत्र च न पश्यना न विपश्यनायम् अद्वयप्रवेशः /
व्क्न् 8.32 इत्य् एवं ते बोधिसत्वाः स्वकस्वकान् निर्देशान् निर्दिश्य मञ्जुश्रियम् कुमारभूतम् एतद् अवोचत्: कतमो मञ्जुश्रिः बोधिसत्वस्याद्वयप्रवेशः /
मञ्जुश्रीर् आह: सुभाषितं युष्माकं सत्पुरुषाः सर्वेषाम् / अपि तु यावद् युष्माभिर् निर्दिष्टं सर्वम् एतद् द्वयम् / एकनिर्देशं स्थापयित्वा यः सर्वधर्माणाम् अनुदाहारो ऽप्रव्याहारो ऽनुदीरनाकीर्तनानभिलपनम् अप्रज्ञपनम् अयम् अद्वयप्रवेशः /
व्क्न् 8.33 अथ खलु मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविम् एतद् अवोचत्: निर्दिष्टो ऽस्माभिः कुलपुत्र स्वकस्वको निर्देशः / प्रतिभातु तवाप्य् अद्वयधर्मप्रवेशनिर्देशः /
अथ विमलकीर्तिर् लिच्छविस् तूष्णीम् अभूत् /
अथ मञ्जुश्रीः कुमारभूतो विमलकीर्तेर् लिच्छवेः साधुकारम् अदात्: साधु साधु कुलपुत्र अयं बोधिसत्वानाम् अद्वयधर्ममुखप्रवेशो यत्र नाक्षररुतरवितविज्ञप्तिप्रचारः /
इह निर्देशे निर्दिश्यमाने पञ्चानां बोधिसत्वसहस्राणाम् अद्वयधर्ममुखप्रवेशाद् अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत् // //
अद्वयधर्ममुखप्रवेशपरिवर्तो ऽष्टमः //
व्क्न् 9.1 अथायुष्मतः शारिपुत्रस्यैतद् अभूत्: कालः पर्यन्तीभूतः / इमे च महासत्वा नोत्तिष्ठन्ति / कुत्रैते परिभोक्ष्यन्ते /
अथ विमलकीर्तिर् लिच्छविर् आयुष्मतः शारिपुत्रस्य चेतसा चेतःपरिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् एवम् आह: ये ते भदन्तशारिपुत्र तथागतेनाष्टौ विमोक्षा आख्यातास् तैर् विमोक्षैर् विहर / त्वं मा आमिषम्रक्षितया संतत्या धर्मं श्रौषीः / अपि तु खलु पुनर् भदन्तशारिपुत्र मुहूर्तम् आगमयस्व, यावद् अनास्वादितपूर्वभोजनं भोक्ष्यसे /
व्क्न् 9.2 अथ विमलकीर्तिर् लिच्छविस् तस्यां वेलायां तथारूपं समाधिसमापन्नः तादृशं चर्द्ध्यभिसंस्कारम् अभिसंस्कृतवान् / यद् ऊर्ध्वे दिग्भाग इतो बुद्धक्षेत्राद् द्वाचत्वारिंशद् गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्य् अतिक्रम्य सर्वगन्धसुगन्धं नाम लोकधातुं तेषां बोधिसत्वानां तेषां च महाश्रावकाणाम् उपदर्शयति / तत्र गन्धोत्तमकूटो नाम तथागत एतर्हि तिष्ठति ध्रियते यापयति / तत्र च लोकधातौ यादृशा दशसु दिक्षु सर्वबुद्धक्षेत्रेषु दिव्या मानुष्यकाश् च गन्धा वान्ति / ते तत्र लोकधातौ वृक्षेभ्यो विशिष्टतमा गन्धा वान्ति / तत्र लोकधातौ नास्ति श्रावकप्रत्येकबुद्धानां नामधेयम् अपि / शुद्धानाम् एव बोधिसत्वानां संनिपातः / स तेभ्यो गन्धोत्तमकूटस् तथागतो धर्मं देशयति / तत्र च लोकधातौ सर्वगन्धमयाः कूटागाराः, सर्वगन्धमयाश् चङ्क्रमा उद्यानविमानानि / यं च ते बोधिसत्वा आहारम् आहरन्ति तस्य भोजनस्य यो गन्धः सो ऽप्रमाणाल् लोकधातून् स्फरति /
तस्मिंश् च समये भगवान् गन्धोत्तमकूटस् तथागतो भक्ताय निषण्णो ऽभुत् सार्धं तैर् बोधिसत्वैः / तत्र गन्धव्युहाहारा नाम देवपुत्रा महायानसंप्रस्थितास् तस्य भगवतस् तेषां बोधिसत्वानाम् उपस्थानपरिचर्याया उद्युक्ताः / तत्र सा सर्वा पर्षत् तं लोकधातुं पश्यति तं च भगवन्तं तांश् च बोधिसत्वान् भक्ताग्रनिषण्नान् /
व्क्न् 9.3 अथ विमलकीर्तिर् लिच्छविस् तान् सर्वान् बोधिसत्वान् आमन्त्रयते स्म: को युष्माकं सत्पुरुषाः उत्सहते ऽतो बुद्धक्षेत्राद् भोजनम् आनेतुम् / तत्र मञ्जुश्रियो ऽधिष्ठानेन न कश्चिद् उत्सहते /
अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् एवम् आह: न त्वं मञ्जुश्रीः पर्यपत्रपस ईदृश्या पर्षदा /
आह: ननूक्तं कुलपुत्र तथागतेनाशिक्षितो न परिभवितव्य इति /
व्क्न् 9.4 अथ विमलकीर्तिर् लिच्छविर् अनुत्तिष्ठन्न् एततः शयनात् पुरतस् तेषां बोधिसत्वानां निर्मितं बोधिसत्वं निर्मिमीते स्म / सुवर्णवर्णेन कायेन लक्षणानुव्यञ्जनसमलंकृतेन तस्य तादृशो रूपावभासो ऽभूद् येन सा सर्वा पर्षद् ध्यामीकृता भवेत् /
अथ विमलकीर्तिर् लिच्छविस् तं निर्मितं बोधिसत्वम् एवम् आह: गच्छ कुलपुत्र ऊर्धंदिग्भागे द्वाचत्वारिंशद् गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्य् अतिक्रम्य सर्वगन्धसुगन्धो नाम लोकधातुः / तत्र गन्धोत्तमकूटो नाम तथागतः, स एतर्हि भक्ताय निषण्णः / तत्र गत्वा मद्वचनात् तस्य तथागतस्य पादौ शिरसा वन्दित्वैवं वद ः विमलकीर्तिर् लिच्छविर् भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽल्पाबाधतां च परिपृच्छत्य् अल्पातङ्कतां च लघुत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च / एवं च वदति ः देहि मे भगवन् भुक्तावशेषं यत् सहे लोकधातौ बुद्धकृत्यं करिष्यति / एषां च हीनाधिमुक्तिकनां सत्वानम् उदारां मतिं रोचयिष्यति / तथागतस्य नामधेयं वैस्तारिकं कृतं भविष्यति /
व्क्न् 9.5 अथ स निर्मितो बोधिसत्वो विमलकीर्तेर् लिच्छवेः साध्व् इति प्रतिश्रुत्य तेषां बोधिसत्वानां पुरत ऊर्धमुखः संदृश्यते / न चैनं ते बोधिसत्वाः पश्यन्ति गच्छन्तम् /
अथ स निर्मितो बोधिसत्वस् तं सर्वगन्धसुगन्धं लोकधातुम् अनुप्राप्तः / स तत्र भगवतो गन्धोत्तमकूटस्य तथागतस्य पादौ शिरसा वन्दित्वैवम् आह: विमलकीर्तिर् भगवन् बोधिसत्वो भगवतः पादौ शिरसा वन्दते / अल्पाबाधतां च परिपृच्छत्य् अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च /
स च भगवतः पादौ शिरसा वन्दित्वैवम् आह: देहि मे भगवन् भुक्तावशेषं भोजनं यद् इदं सहे लोकधातौ बुद्धकृत्यं करिष्यति / तेषां हीनाधिमुक्तानां सत्वानाम् उदारेषु बुद्धधर्मेषु मतिं रोचयिष्यति / भगवतश् च नामधेयं वैस्तारिकं कृतं भविष्यति /
व्क्न् 9.6 अथ खलु ये तस्य भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रे बोधिसत्वास् ते विस्मितास् तं भगवन्तं गन्धोत्तमकूटं तथागतम् एवम् आहुः: कुतो ऽयं भगवन् ईदृशो महासत्व आगच्छति, क्व वा स सहो लोकधातुः, कैषा हीनाधिमुक्तिकता नाम / एवं ते बोधिसत्वास् तं तथागतं परिपृच्छन्ति /
अथ स भगवांस् तान् बोधिसत्वान् एवम् आह: अस्ति कुलपुत्राः अधोदिग्भाग इतो बुद्धक्षेत्राद् द्वाचत्वारिंशद् गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्य् अतिक्रम्य सहो लोकधातुः / तत्र शाक्यमुनिर् नाम तथागतो धर्मं देशयति हीनाधिमुक्तिकानां सत्वानां पञ्चकषाये बुद्धक्षेत्रे / तत्र विमलकीर्तिर् नाम बोधिसत्वो ऽचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वेभ्यो धर्मं देशयति / तेनैष निर्मितो बोधिसत्वो ऽनुप्रेषितो मम नामधेयपरिकीर्तनायास्य च लोकधातोर् वर्णसंप्रकाशनाय तेषां च बोधिसत्वानां कुशलमूलोत्तानतायै /
व्क्न् 9.7 अथ ते बोधिसत्वा एवम् आहुः: कियन् महात्मा स भगवन् बोधिसत्वो यस्यायं निर्मित एवम् ऋद्धिबलवैशारद्यप्राप्तः /
स भगवान् आह: तथा महात्मा स बोधिसत्वो यत् सर्वबुद्धक्षेत्रेषु निर्मितान् प्रेषयति / ते च निर्मिता बुद्धकृत्येन सत्वानां प्रत्युपस्थिता भवन्ति /
व्क्न् 9.8 अथ स भगवान् गन्धोत्तमकूटस् तथागतः सर्वगन्धसमीहिते भाजने तं सर्वगन्धपरिवासितं भोजनं तस्मै बोधिसत्वाय प्रादात् / तत्र नवतिर् बोधिसत्वसहस्राणि संप्रस्थितानि: गमिष्यामो वयं भगवन् तं सहं लोकधातुं तं भगवन्तं शाक्यमुनिं वन्दनायैतं च विमलकीर्तिं तांश् च बोधिसत्वान् दर्शनाय /
स भगवान् आह: गच्छत कुलपुत्राः यस्येदानीं कालं मन्यध्वे / अपि तु गन्धान् कुलपुत्राः प्रतिसंहृत्य तं लोकधातुं प्रविशत, मा ते सत्वा मदप्रमादम् आपत्स्यन्ते / स्वरूपं च प्रतिसंहरत, मा ते सहे लोकधातौ सत्वा मद्गुभूता भवेयुः / मा च तस्मिन् !ओकधातौ हीनसंज्ञाम् उत्पाद्य प्रतिघसंज्ञाम् उत्पादयत / तत् कस्माद् धेतोः / आकाशक्षेत्राणि हि बुद्धक्षेत्राणि, सत्वपरिपाकाय तु बुद्धा भगवन्तो न सर्वं बुद्धविषयं संदर्शयन्ति /
व्क्न् 9.9 अथ निर्मितो बोधिसत्वस् तद् भोजनम् आदाय सार्धं तैर् नवत्या बोधिसत्वसहस्रैर् बुद्धानुभावेन विमलकीर्त्यधिष्ठानेन च तेनैव क्षणलवमुहूर्तेन सर्वगन्धसुगन्धे लोकधाताव् अन्तर्हितो विमलकीर्तेर् लिच्छवेर् गृहे प्रत्यष्ठात् /
व्क्न् 9.10 तत्र विमलकिर्तिर् नवतिसिंहासनसहस्राण्य् अधितिष्ठति यादृशान्य् एव तानि प्रथमकानि सिंहासनानि / तत्र ते बोधिसत्वा निषण्णाः / स च निर्मितस् तद् भोजनपरिपूर्णं भाजनं विमलकीर्तेर् लिच्छवेर् उपनामयति स्म / तस्य भोजनस्य गन्धेन सर्वा वैशाली महानगरी निर्धूपिताभूद् यावत् साहस्रो लोकधातुः सुगन्धगन्धीकृतो ऽभूत् / तत्र वैशालका ब्राह्मणगृहपतयः सोमच्छत्रश् च नाम लिच्छवीनाम् अधिपतिस् तं गन्धम् आघ्रायाश्चर्यप्राप्तो ऽद्भुतप्राप्तः प्रह्लादितकायचेताः सार्धं परिपूर्णैश् चतुरशीत्या लिच्छविसहस्रैः / तेनैव च भोजनगन्धेन भूमावचरा देवपुत्राः कामावचरा रूपावचराश् च देवाः संचोदिता विमलकीर्तेर् लिच्छवेर् गृहम् उपसंक्रान्ता अभूवन् /
व्क्न् 9.11 अथ विमलकीर्तिर् लिच्छविः स्थविरं शारिपुत्रं तांश् च महाश्रावकान् एतद् अवोचत्: परिभुङ्ग्ध्वं भदन्ताः इदं तथागतामृतभोजनं महाकरुणाभावितम् / मा च प्रदेशचर्यायां चित्तम् उपनिबन्धत, मा न शक्यत दक्षिणां शोधयितुम् /
व्क्न् 9.12 तत्र केषांचिच् छ्रावकाणाम् एतद् अभवत्: इत एवं परीत्ताद् भोजनात् कथम् इयम् ईदृशी पर्षत् परिभोक्ष्यत इति /
तान् स निर्मितो बोधिसत्वः श्रावकान् एतद् अवोचत्: मा यूयम् आयुष्मन्तः स्वप्रज्ञापुण्यैस् तथागतप्रज्ञापुण्यानि समीकार्ष्ट / स्याच् चतुर्णां महासमुद्राणां क्षयः, न त्व् एवास्य भोजनस्य कश्चित् परिक्षयः / सचेत् सर्वसत्वा अपि सुमेरुमात्रैर् आलोपैः कल्पं परिभुञ्जीरन्, तथाप्य् अस्य क्षयो न स्यात् / तत् कस्माद् धेतोः / अक्षयशीलसमाधिप्रज्ञानिर्जातस्येदं तथागतस्य पात्रावशेषं भोजनं नैतच् छक्यं क्षपयितुम् /
व्क्न् 9.13 अथ ततो भोजनात् सर्वा सा पर्षत् तृप्ता कृता / न च तावद् भोजनं क्षीयते / यैश् च बोधिसत्वैः श्रावकैः शक्रब्रह्मलोकपालैस् तदन्यैश् च सत्वैस् तद् भोजनं भुक्तम्, तेषां तादृशं सुखं काये ऽवक्रान्तं यादृशं सर्वसुखप्रतिमण्डिते लोकधातौ बोधिसत्वानां सुखम् / सर्वरोमकूपेभ्यश् च तेषां तादृशो गन्धः प्रवाति / तद्यथापि नाम तस्मिन्न् एव सर्वगन्धसुगन्धे लोकधातौ वृक्षाणां गन्धः /
व्क्न् 9.14 अथ विमलकीर्तिर् लिच्छविर् जानन्न् एव तान् भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्राद् आगतान् बोधिसत्वान् एतद् अवोचत्: किदृशी कुलपुत्राः गन्धोत्तमकूटस्य तथागतस्य धर्मदेशना /
त एवम् आहुः: न स तथागतो ऽक्षरनिरुक्त्या धर्मं देशयति / तेनैव गन्धेन ते बोधिसत्वा विनयं गच्छन्ति / यत्र यत्रैव गन्धवृक्षे ते बोधिसत्वा निषीदन्ति, ततस् ततस् तादृशो गन्धः प्रवाति यत् समनन्तराघ्राते गन्धे सर्वबोधिसत्वगुणाकरं नाम समाधिं प्रतिलभन्ते यस्य समाधेः समनन्तरप्रतिलम्भात् सर्वेषां बोधिसत्वगुणा जायन्ते /
व्क्न् 9.15 अथ ते बोधिसत्वा विमलकीर्तिं लिच्छविम् एतद् अवोचन्: इह पुनर् भगवाञ् शाक्यमुनिः कीदृशीं धर्मदेशनां प्रकाशयति /
आह: दुर्दमाः सत्पुरुषाः इमे सत्वाः / तेषां दुर्दमानां सत्वानां खटुङ्कदुर्दमदमथकथाम् एव प्रकाशयति / कतमः पुनः खटुङ्कदुर्दमानां दमथः, कतमा च खटुङ्कदुर्दमदमथकथा / तद्यथेमे निरयाः, इयं तिर्यग्योनिः, अयं यमलोकः, इमे ऽक्षणाः, इयं हीनेन्द्रियोपपर्तिः, इदं कायदुश्चरितम्, अयं कायदुश्चरितस्य विपाकः, इदं वाग्दुश्चरितम्, अयं वाग्दुश्चरितस्य विपाकः, इदं मनोदुश्चरितम्, अयं मनोदुश्चरितस्य विपाकः, अयं प्राणातिपातः, इदम् अदत्तादानम्, अयं काममिथ्याचारः, अयं मृषावादः, इयं पिशुना वाक् / इयं परुषा वाचा, अयं संभिन्नप्रलापः, इयम् अभिध्या, अयं व्यापादः, इयं मिथ्यादृष्टिः, अयम् एषाम् एष विपाकः, इदं मात्सर्यम्, इदं दौःशील्यम्, अयं क्रोधः, इदं कौशीद्यम्, अयं विक्षेपः, इदं दौःप्रज्ञ्यम्, इदं दौःप्रज्ञ्यस्य फलम् / अयं प्रातिमोक्षशिक्षाव्यतिक्रमः, अयं प्रातिमोक्षः, इदं करणीयम्, इदम् अकरणीयम्, अयं योगः / इदं प्रधानम्, इदम् आवरणम्, इदम् अनावरणम्, इयम् आपत्तिः, इयम् अनापत्तिः, इदम् आपत्तिव्युत्थानम्, अयं मार्गः / अयं कुमार्गः, इदं कुशलम्, इदम् अकुशलम्, इदं सावद्यम्, इदम् अनवद्यम्, इदं सास्रवम्, इदम् अनास्रवम्, इदं लौकिकम्, इदं लोकोत्तरम्, इदं संस्कृतम्, इदम् असंस्कृतम्, अयं संक्लेशः, इदं व्यवदानम्, अयं संसारः, इदं निर्वाणम् /
इत्य् एवम् अनेकधर्मपरिभाषणतया खटुङ्काश्वसदृशचित्ताः सत्वा अवस्थाप्यन्ते / तद्यथा खटुङ्को हयो गजो वा यावन् मर्मवेधेन दमथं गच्छति, एवम् एवेह दुर्दमाः खटुङ्काः सत्वास् ते सर्वदुःखपरिभाषणकथाभिर् दमथं गच्छन्ति /
व्क्न् 9.16 ते बोधिसत्वा आहुः: आश्चर्यं भगवतः शाक्यमुनेर् यत्र हि नाम प्रतिसंहृत्य बुद्धमाहात्म्यं दरिद्रलूहतया खटुङ्कान् सत्वान् विनयति / ये ऽपि बोधिसत्वा इहैवं प्रतिकष्टे बुद्धक्षेत्रे प्रतिवसन्ति तेषाम् अप्य् अचिन्त्या महाकरुणा /
विमलकीर्तिर् आह: एवम् एव सत्पुरुषाः तथैतद् यथा वदथ / ये ऽपीह बोधिसत्वाः प्रत्याजाताः, दृढा तेषां महाकरुणा / ते बहुतरम् इह लोकधाताव् एकजन्मना करिष्यन्ति सत्वार्थम् / न त्व् एव तत्र सर्वगन्धसुगन्धे लोकधातौ कल्पसहस्रेण सत्वार्थः /
व्क्न् 9.17 तत् कस्माद् धेतोः / इह हि सत्पुरुषाः सहे लोकधातौ दश कुशलोच्चया धर्माः, ये ऽन्येषु बुद्धक्षेत्रेषु न संविद्यन्ते, यांश् च ते परिगृह्णन्ति / कतमे दश / यद् इदं दानसंग्रहो दरिद्रेषु, शीलसंग्रहो दुःशीलेषु, क्षान्तिसंग्रहः प्रतिहतेषु, वीर्यसंग्रहः कुशीदेषु, ध्यानसंग्रहो विक्षिप्तचित्तेषु, प्रज्ञासंग्रहो दुःप्रज्ञेषु, अष्टाक्षणसमतिक्रमदेशनाक्षणप्राप्तेषु, महायानदेशना प्रादेशिकचर्यासु, कुशलमूलसंग्रहो ऽनवरोपितकुशलमूलेषु, सततसमितं सत्वपरिपाकश् चतुर्भिः संग्रहवस्तुभिः / इमान् दश कुशलोच्चयान् धर्मान् प्रतिगृह्णन्ति ये तदन्येषु बुद्धक्षेत्रेषु न संविद्यन्ते /
व्क्न् 9.18 ते बोधिसत्वा आहुः: कतमैर् धर्मैः समन्वागतो बोधिसत्वो ऽक्षटो ऽनुपहतः सहाल् लोकधातोश् च्युत्वा परिशुद्धं बुद्धक्षेत्रं गच्छति /
विमलकीर्तिर् आह: अष्टाभिः कुलपुत्रः धर्मैः समन्वागतो बोधिसत्वः सहाल् लोकधातोश् च्युत्वाक्षटो ऽनुपहतः परिशुद्धं बुद्धक्षेत्रं गच्छति / कतमैर् अष्टाभिः / यद् उत सर्वसत्वानां मया हितं कर्तव्यम्, न चैषां सकाशात् किंचिद् धितं पर्येषितव्यम्, सर्वसत्वदुःखं चानेनोत्सोढव्यं सर्वं चानेन कुशलमूलं सर्वसत्वानाम् उत्स्रष्टव्यम्, सर्वसत्वेष्व् अप्रतिघातः, सर्वबोधिसत्वेषु शास्तृप्रेम, अश्रुतानां च धर्माणां श्रुतानां च श्रवणाद् अप्रतिक्षेपः, अनीर्षुकता परलाभेषु स्वलाभेनानभिमननाचित्तनिध्यप्तिः, आत्मस्खलितप्रत्यवेक्षा परस्यापत्त्यचोदनता अप्रमादरतस्य च सर्वगुणसमादनम् / एभिर् अष्टाभिर् धर्मैः समन्वागतो बोधिसत्वः सहाल् लोकधातोश् च्युत्वाक्षटो ऽनुपहतः परिशुद्धं बुद्धक्षेत्रं गच्छति /
अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रीश् च कुमारभूतस् तस्यां पर्षदि संनिपतितायां तथा धर्मं देशयतो यथा परिपूर्णस्य प्राणिसहस्रस्यानुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि, दशानां च बोधिसत्वसहस्राणाम् अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत् // //
निर्मितभोजनानयनपरिवर्तो नाम नवमः //
व्क्न् 10.1 तेन खलु पुनः समयेन भगवत आम्रपालीवने धर्मं देशयतः स मण्डलमाडो विपुलश् च विस्तीर्णश् च संस्थितो ऽभूत् / सा च पर्षत् सुवर्णवर्णा संदृश्यते स्म / अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: कस्येदं भगवन् पूर्वनिमित्तं यद् इदम् आम्रपालीवनम् एवं विस्तीर्णं संस्थितं सर्वा च पर्षत् सुवर्णवर्णा संदृश्यते /
भगवान् आह: एष आनन्द विमलकीर्तिर् लिच्छविर् मञ्जुश्रीश् च कुमारभूतो महत्या पर्षदा परिवृतौ तथागतस्यान्तिकम् उपसंक्रमिष्यतः /
व्क्न् 10.2 अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् एतद् अवोचत्: गमिष्यामो वयं मञ्जुश्रीः भगवतो ऽन्तिकम् / इमे च महासत्वास् तथागतं द्रक्ष्यन्ति वन्दिष्यन्ते च /
आह: गच्छाम कुलपुत्र यस्येदानीं कालं मन्यसे /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
