Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

विमलकीर्तिनिर्देश

Thông tin
GRETIL — the Study Group on Buddhist Sanskrit Literature: Vimalakīrtinirdeśa, A Sanskrit Edition Based upon the Manuscript Newly Found at the Potala Palace, Tokyo 2006 (The Institute for Comprehensive Studies of Buddhism, Taisho University).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

विमलकीर्तिनिर्देश

विमलकीर्तिनिर्देश

नमः सर्वबुद्धबोधिसत्वेभ्यः //

व्क्न् 1.1 एवं मया श्रुतम् / एकस्मिन् समये भगवान् वैशाल्यां विहरति स्म, आम्रपालीवने महता भिक्षुसम्घेन सार्धम् अष्टाभिर् भिक्षुसहस्रैः,

व्क्न् 1.2 सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसम्योजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिप्राप्तैः,

व्क्न् 1.3 द्वात्रिंशता च बोधिसत्वसहस्रैर् अभिज्ञानाभिज्ञातैः सर्वैर् महाभिज्ञापरिकर्मनिर्यातैः, बुद्धाधिष्ठानाधिष्ठितैः, सद्धर्मनगरपालैः, सद्धर्मपरिग्राहकैः, महासिंहनादनादिभिः, दशदिग्विघुष्टशब्दैः, सर्वसत्वानध्येषितकल्याणमित्रैः, त्रिरत्नवंशानुपच्छेतृभिः, निहतमारप्रत्यर्थिकैः, सर्वपरप्रवाद्यनभिभूतैः, स्मृतिसमाधिधारणीसंपन्नैः, सर्वनिवरणपर्युत्थानविगतैः, अनावरणविमोक्षप्रतिष्ठितैः, अनाच्छेद्यप्रतिभानैः, दानदमनियमसंयमशीलक्षान्तिवीर्यध्यानप्रज्ञोपायनिर्यातैः, अनुपलम्भानुत्पत्तिकधर्मक्षान्तिसमन्वागतैः, अवैवर्तिकधर्मचक्रप्रवर्तकैः, अलक्षणमुद्रामुद्रितैः, सर्वसत्वेन्द्रियज्ञानकुशलैः, सर्वपर्षदनभिभूतवैशारद्यविक्रामिभिः, महापुण्यज्ञानसंभारोपचितैः, लक्षणानुव्यञ्जनसमलंकृतकायैः, परमरूपधारिभिः, अपगतभूषणैः, मेरुशिखराभ्युद्गतयशःकीर्तिसमुद्गतैः, दृढवज्राध्याशयाभेद्यबुद्धधर्मप्रसादप्रतिलब्धैः, धर्मरत्नविकरणामृतजलसंप्रवर्षकैः, सर्वसत्वरुतरवितस्वराङ्गघोषविशुद्धस्वरैः, गम्भीरधर्मप्रतीत्यावतारान्तानन्तदृष्टिवासनानुसंधिसमुच्छिन्नैः, विगतभयसिंहोपमनादिभिः, तुल्यातुल्यसमतिक्रान्तैः, धर्मरत्नप्रज्ञासमुदानीतमहासार्थवाहैः ऋजुसूक्ष्ममृदुदुर्दृशदुरनुबोधसर्वधर्मकुशलैः, आगतिसत्वाशयमतिमनुप्रविष्टज्ञानविषयिभिः, असमसमबुद्धज्ञानाभिषेकाभिषिक्तैः, दशबलवैशारद्यावेणिकबुद्धधर्माध्याशयगतैः सर्वापायदुर्गतिविनिपातोत्क्षिप्तपरिखैः, संचिन्त्यभवगत्युपपत्तिसंदर्शयितृभिः, महावैद्यराजैः, सर्वसत्वविनयविधिज्ञैः, यथार्हधर्मभैषज्यप्रयोगप्रयुक्तैः, अनन्तगुणाकरसमन्वागतैः, अनन्तबुद्धक्षेत्रगुणव्यूहसमलंकृतैः, अमोघश्रवणदर्शनैः, अमोघपदविक्रमैः, अपरिमितकल्पकोटीनियुतशतसहस्रगुणपरिकीर्तनापर्यन्तगुणौघैः /

व्क्न् 1.4 तद्यथा समदर्शिना च नाम बोधिसत्वेन महासत्वेन समविषमदर्शिना च, समाधिविकुर्वणराजेन च, धर्मेश्वरेण च, धर्मकेतुना च, प्रभाकेतुना च, प्रभाव्यूहेन च, महाव्यूहेन च, रत्नकूटेन च, प्रतिभानकूटेन च, रत्नमुद्राहस्तेन च, नित्योत्क्षिप्तहस्तेन च, नित्योत्पलकृतहस्तेन च, नित्योत्कण्ठितेन च, नित्यप्रहसितप्रमुदितेन्द्रियेण च, प्रामोद्यराजेन च, देवराजेन च, प्रणिधिप्रयातप्राप्तेन च, प्रतिसंवित्प्रणादप्राप्तेन च, गगनगञ्जेन च, रत्नोल्काधारिणा च, रत्नवीरेण च, रत्नश्रिया च, रत्ननन्दिना च, इन्द्रजालिना च, जालिनिप्रभेण च, अनारंबणध्यायिना च, प्रज्ञाकूटेन च, रत्नजहेन च, मारप्रमर्दिना च, विद्युद्देवेन च, विकुर्वणराजेन च, लक्षणकूटेन च, लक्षणकूटसमतिक्रान्तेन च, सिंहघोषाभिगर्जितस्वरेण च, शैलशिखरसंघट्टनराजेन च, गन्धहस्तिना च, गजगन्धहस्तिना च, सततोद्युक्तेन च, अनिक्षिप्तधुरेण च, सुमतिना च, सुजातेन च, पद्मश्रीगर्भेण च, पद्मव्यूहेन च, अवलोकितेश्वरेण च, महास्थामप्राप्तेन च, ब्रह्मजालिना च, रत्नयष्टिना च, मारजितेन च, क्षेत्रालंकृतेन च, मणिरत्नच्छत्रेण च, सुवर्णचूडेन च, मणिचूडेन च, मैत्रेयेण च, मञ्जुश्रिया च कुमारभूतेन बोधिसत्वेन महासत्वेन, एवंप्रमुखैर् द्वात्रिंशता बोधिसत्वसहस्रैः /

व्क्न् 1.5 दशभिश् च ब्रह्मसहस्रैर् जटिब्रह्मप्रमुखैः, अनेकाच् चतुर्महाद्वीपकाल् लोकधातोर् अभ्यागतैर् भगवतो दर्शनायै वन्दनायै पर्युपासनायै धर्मश्रवणाय च / ते तत्रैव पर्षदि संनिपतिताः / द्वादश च शक्रसहस्राण्य् अन्यान्येभ्यश् चतुर्महाद्वीपकेभ्यो ऽभ्यागतानि तत्रैव पर्षदि संनिपतितान्य् अभूवन् / तथान्ये ऽपि महेशाख्यमहेशाख्याः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगास् तत्रैव पर्षदि संनिपतिता अभूवन् संनिसण्णाः / तथा चतस्रः पर्षदो भिक्षुभिक्सूण्युपासकोपासिकाश् चोपसंक्रान्ता अभूवन् /

व्क्न् 1.6 तत्र भगवान् अनेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्मं देशयति स्म / सुमेरुर् इव पर्वतराजः सागरमध्याद् अभ्युद्गतः सर्वपर्षदम् अभिभूय भासते तपति विरोचते श्रीगर्भे सिंहासने निषण्नः /

व्क्न् 1.7 अथ रत्नाकरो बोधिसत्वो लिच्छविकुमारः सार्धं पञ्चमात्रैर् लिच्छविकुमारशतैः सप्तरत्नमयानि च्छत्राणि गृहीत्वा वैशाल्यां महानगर्यां निष्क्रम्य येनाम्रपालीवनं येन च भगवांस् तेनोपसंक्रामत् / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं सप्तकृत्वः प्रदक्षिणीकृत्य यथा परिगृहीतैस् तैश् छत्रैर् भगवन्तम् अभिच्छादयति स्म / अभिच्छाद्यैकान्ते स्थितो ऽभूत् /

व्क्न् 1.8 समन्तरनिःसृष्टानि च तानि रत्नच्छत्राण्य् अथ तावद् एव बुद्धानुभावेनैकं महारत्नच्छत्रं संस्थितम् / तेन च महारत्नच्छत्रेणायं त्रिसाहस्रमहासाहस्रो लोकधातुः सर्वः संछादितः संदृश्यते स्म / यश् चास्मिंस् त्रिसाहस्रमहासाहस्रे लोकधाताव् आयामविस्तारः, स तस्मिन् महारत्नच्छत्रे संदृश्यते स्म / ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरवो महापर्वतराजा हिमवन्मुचिलिन्दमहामुचिलिन्दगन्धमादनरत्नपर्वता वा चक्रवाडमहाचक्रवाडाः, ते ऽपि सर्वे तस्मिन्न् एवैकमहारत्नच्छत्रे संदृश्यन्ते स्म / ये ऽपीह त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रा वा सरस्तडागानि वा नदीकुनद्यः स्रवन्त्यो वा प्रवहन्ति, ता अपि सर्वास् तस्मिन्न् एवैकमहारत्नच्छत्रे संदृश्यन्ते स्म / यान्य् अपीह त्रिसाहस्रमहासाहस्रे लोकधातौ सूर्याचन्द्रमसां विमानानि तारारूपाणि वा देवभवनानि वा नागभवनानि वा यक्षभवनानि वा गन्धर्वासुरगरुडकिन्नरमहोरगभवनानि वा चातुर्महाराजभवनानि वा ग्रामनगरनिगमराष्ट्रराजधान्यो वा, तान्य् अपि सर्वाणि तस्मिन्न् एवैकमहारत्नच्छत्रे संदृश्यन्ते स्म / यापि च दशदिशि लोके बुद्धानां भगवतां धर्मदेशना प्रवर्तते, सापि तस्माद् एवैकमहारत्नच्छत्रान् निश्चरन्ती श्रूयते स्म /

व्क्न् 1.9 तत्र सा सर्वा पर्षद् आश्चर्यप्राप्ता भगवतो ऽन्तिकाद् इदम् एवंरूपं महाप्रातिहार्यं दृष्ट्वा तुष्टोदग्रात्तमनाः प्रमुदिता प्रीतिसौमनस्यजाता तथागतं नमस्यती स्थितानिमिषं प्रेक्षमाणा /

व्क्न् 1.10 अथ खलु रत्नाकरो लिच्छविकुमारो भगवतो ऽन्तिकाद् इदम् एवंरूपं महाप्रातिहार्यं दृष्ट्वैकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिर् अभ्यष्टावीत्:

शुभशुद्धकमलवरपत्रविशालनेत्र शुद्धाशया शमथपारमिताग्रप्राप्त / शुभकर्मसंचय विशालगुणाप्रमेय वन्दामि त्वां श्रमणशान्तिपथप्रणेतुम् // 1 //

पश्यथ ऋद्धि पुरुषर्षभनायकस्य संदृश्यते सुगतक्षेत्रवरप्रकाशाः / अमृतंगमा च वरधर्मकथा उदारा सा सर्व श्रूयति इतो गगनतलातः // 2 //

धर्मेण ते जितम् इदं वरधर्मराज्यं धर्मं धनं च ददसे जगतो जितारे / धर्मप्रभेदकुशलं परमार्थदर्शिन् धर्मेश्वरं शिरसि वन्दमि धर्मराजम् // 3 //

न च नाम अस्ति न च नास्ति गिरं प्रभाषि हेतुं प्रतीत्य इमि संभवि सर्वधर्माः / नैवात्र आत्मन च कारकु वेदको वा न च कर्मु नश्यति शुभम् अशुभं च किंचित् // 4 //

मारस् त्वयास्तु विजितस् सबलो मुनीन्द्रः प्राप्ता शिवा अमृतशान्तवराग्रबोधिः / यस्मिन्न् अवेदित न चित्तमनःप्रचारा सर्वकुतीर्थिकगणाश् च न यान्ति गाहं // 5 //

चक्रं च ते त्रिपरिवर्ति बहुप्रकारं प्रावर्तितं प्रशमनं प्रकृतीविशुद्धम् / प्रत्यक्ष देवमनुजाद्भुतधर्मराजा रत्नानि त्रीणि उपदर्शित तत्र काले // 6 //

ये तुभ्य धर्मरतनेन विनीत सम्यक् तेषाम् अकल्पन पुनः सतते प्रशान्ता / वैद्योत्तमं मरणजातिजरान्तकारिं शिरसा नतो ऽस्मि गुणसागरम् अप्रमेयम् // 7 //

सत्कारसत्कृत न वेधसि मेरुकल्प दुःशीलशीलवति तुल्यगताधिमैत्री / गगनप्रकाशमनसे समताविहारी को नाम सत्वरतने ऽस्मि न कुर्यु पूजाम् // 8 //

समागता ते जनता महामुने मुखम् उदीक्षन्ति प्रसन्नमानसा / सर्वे च पश्यन्ति जिनं पुरस्ताज् जिनस्य आवेणिकबुद्धलक्षणम् // 9 //

एकां च वाचं भगवान् प्रमुञ्चसे नानारुतं च परिषद् विजानति / यथास्वकं चार्थ विजानते जनो जिनस्य आवेणिकबुद्धलक्षणम् // 10 //

एकाय वाचाय उदीरिताय वासेसि एके अपरे निविद्यसि / आकाङ्क्षतां काङ्क्ष शमेसिर् नायको जिनस्य आवेणिकबुद्धलक्षणम् // 11 //

वन्दामि त्वां दशबल सत्यविक्रमं वन्दामि त्वाम् अभयगतं विशारदम् / धर्मेषु आवेणिकनिश्चयं गतं वन्दामि त्वां सर्वजगत्प्रणायकम् // 12 //

वन्दामि सम्योजनबन्धनच्छिदं वन्दामि त्वां पारगतं स्थले स्थितम् / वन्दामि खिन्नस्य जनस्य तारकं वन्दामि संसारगताव् अनिश्रितम् // 13 //

सत्वैर् समाधानगतं गतीगतम् गतीषु सर्वासु विमुक्तमानसम् / जलेरुहं वा सलिले न लिप्यसे निषेविता ते मुनिपद्म शून्यता // 14 //

विभाविता सर्वनिमित्त सर्वशो न ते कहिंचित् प्रणिधान विद्यते / अचिन्तियं बुद्धमहानुभावं वन्दे ऽहम् आकाशसमम् अनिश्रितम् // 15 //

व्क्न् 1.11 अथ रत्नाकरो लिच्छविकुमारो भगवन्तम् आभिर् गाथाभिर् अभिष्टुत्य भगवन्तम् एतद् अवोचत्: इमानि भगवन् पञ्चमात्राणि लिच्छविकुमारशतानि सर्वाण्य् अनुत्तरायां सम्यक्संबोधौ संप्रस्थितानि / तानि चेमानि बुद्धक्षेत्रपरिशुद्धिं परिपृच्छन्ति ः कतमा बोधिसत्वानां बुद्धक्षेत्रपरिशुद्धिर् इति / तत् साधु भगवन् देशयतु तथागतो ऽमीषां बोधिसत्वानां बुद्धक्षेत्रपरिशुद्धिम् /

एवम् उक्ते भगवान् रत्नाकराय लिच्छविकुमाराय साधुकारम् अदात्: साधु साधु कुमार / साधु खलु पुनस् त्वं कुमार यस् त्वं बुद्धक्षेत्रपरिशुद्धिम् आरभ्य तथागतं परिपृच्छसि / तेन हि कुमार शृणु साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते यथा बोधिसत्वानां बुद्धक्षेत्रपरिशुद्धिम् आरभ्य /

साधु भगवन्न् इति रत्नाकरो लिच्छविकुमारस् तानि च पञ्चमात्राणि लिच्छविकुमारशतानि भगवतः प्रत्यश्रौषुः /

भगवांस् तेषाम् एतद् अवोचत्:

व्क्न् 1.12 सत्वक्षेत्रं कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम् / तत् कस्य हेतोः / यावन्तं बोधिसत्वः सत्वेषूपचयं करोति तावद् बुद्धक्षेत्रं परिगृह्णाति / यादृशः सत्वानां विनयो भवति तादृशं बुद्धक्षेत्रं परिगृह्नाति / यादृशेन बुद्धक्षेत्रावतारेण सत्वा बुद्धज्ञानम् अवतरन्ति तादृशं बुद्धक्षेत्रं परिगृह्नाति / यादृशेन बुद्धक्षेत्रावतारेण सत्वानाम् आर्याकाराणीन्द्रियाण्य् उत्पद्यन्ते तादृशं बुद्धक्षेत्रं परिगृह्णाति / तत् कस्य हेतोः / सत्वार्थनिर्जातं हि कुलपुत्र बोधिसत्वानां बुद्धक्षेत्रम् / तद्यथा रत्नाकर यादृशम् इच्छेद् आकाशं मापयितुं तादृशं मापयेत, न चाकाशं शक्यते मापयितुं नाप्य् अलंकर्तुम् / एवम् एव रत्नाकर आकाशसमान् सर्वधर्माञ् ज्ञात्वा / यादृशम् इच्छेद् बोधिसत्वः सत्वपरिपाकाय बुद्धक्षेत्रं मापयितुं तादृशं बुद्धक्षेत्रं मापयति, न च बुद्धक्षेत्राकाशता शक्यं मापयितुं नाप्य् अलंकर्तुम् /

व्क्न् 1.13 अपि च रत्नाकर,

आशयक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्याशठा अमायाविनः सत्वा बुद्धक्षेत्र उपपद्यन्ते /

अध्याशयक्षेत्रं कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वकुशलसंभारोपचिताः सत्वा बुद्धक्षेत्रे संभवन्ति /

प्रयोगक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वकुशलधर्मोपस्थिताः सत्वास् तत्र बुद्धक्षेत्र उपपद्यन्ते /

उदारो बोधिसत्वस्य बोधिचित्तोत्पादो बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य महायानसंप्रस्थिताः सत्वास् तत्र बुद्धक्षेत्रे संभवन्ति /

दानक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वपरित्यागिनः सत्वास् तत्र बुद्धक्षेत्रे संभवन्ति /

शीलक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वाभिप्रायसंपन्ना दशकुशलकर्मपथसंरक्षकाः सत्वास् तत्र बुद्धक्षेत्रे संभवन्ति /

क्षान्तिक्षेत्रं कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य द्वात्रिंशल्लक्षनालंकृताः क्षान्तिदमशमथपारमिप्राप्ताः सत्वा बुद्धक्षेत्रे संभवन्ति /

वीर्यक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वकुशलपर्येष्टिष्व् आरब्धवीर्याः सत्वा बुद्धक्षेत्रे संभवन्ति /

ध्यानक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य स्मृतिसंप्रजन्यसमाहिताः सत्वा बुद्धक्षेत्रे संभवन्ति /

प्रज्ञाक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सम्यक्त्वनियताः सत्वा बुद्धक्षेत्रे संभवन्ति /

चत्वार्य् अप्रमाणानि च बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य मैत्रीकरुणामुदितोपेक्षाविहारिनः सत्वा बुद्धक्षेत्रे संभवन्ति /

चत्वारि संग्रहवस्तूनि कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वविमुक्तिसंगृहीताः सत्वा बुद्धक्षेत्रे संभवन्ति /

उपायकौशल्यं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वोपायमीमांसाकुशलाः सत्वा बुद्धक्षेत्रे संभवन्ति /

सप्तत्रिंशद्बोधिपक्षा धर्मा बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सम्यक्स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गविधिज्ञाः सत्वा बुद्धक्षेत्रे संभवन्ति /

परिणामनाचित्तं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वगुणालंकारं बुद्धक्षेत्रं दृश्यते /

अष्टाक्षणप्रशमदेशना कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वापायसमुच्छिन्नम् अष्टाक्षणविगतं बुद्धक्षेत्रं संभवन्ति /

स्वयं शिक्षापदेषु वर्तमाना परापत्त्यचोदनता बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्यापत्तिशब्दो ऽपि बुद्धक्षेत्रे न संभवति /

दशकुशलकर्मपथपरिशुद्धिः कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य नियतायुषो महाभोगा ब्रह्मचारिणः सत्यानुपरिवर्तिन्या वाचालंकृता मधुरवचना अभिन्नपर्षदो भिन्नसंधानकुशला ईर्ष्याविगता अव्यापन्नचित्ताः सम्यग्दृष्टिसमन्वागताः सत्वा बुद्धक्षेत्रे संभवन्ति /

व्क्न् 1.14 इति हि कुलपुत्र, यावन्तो बोधिसत्वस्य प्रयोगास् तावन्त आशयाः / यावन्त आशयास् तावन्तो ऽध्याशयाः / यावन्तो ऽध्याशयास् तावन्त्यो निध्यप्तयः / यावन्त्यो निध्यप्तयस् तावन्त्यः प्रतिपत्तयः / यावन्त्यः प्रतिपत्तयस् तावन्त्यः परिणामनाः / यावन्त्यः परिणामनास् तावन्त उपायाः / यावन्त उपायास् तावन्त्यः क्षेत्रपरिशुद्धयः / यादृशी क्षेत्रपरिशुद्धिस् तादृशी सत्वपरिशुद्धिः / यादृशी सत्वपरिशुद्धिस् तादृशी ज्ञानपरिशुद्धिः / यादृशी ज्ञानपरिशुद्धिस् तादृशी देशनापरिशुद्धिः / यादृशी देशनापरिशुद्धिस् तादृशी ज्ञानप्रतिपत्तिपरिशुद्धिः / यादृशी ज्ञानप्रतिपत्तिपरिशुद्धिस् तादृशी स्वचित्तपरिशुद्धिः /

तस्मात् तर्हि कुलपुत्र बुद्धक्षेत्रं परिशोधयितुकामेन बोधिसत्वेन स्वचित्तपरिशोधने यत्नः करणीयः / तत् कस्य हेतोः / यादृशी बोधिसत्वस्य चित्तपरिशुद्धिस् तादृशी बुद्धक्षेत्रपरिशुद्धिः संभवति /

व्क्न् 1.15 अथ बुद्धानुभावेनायुष्मतः शारिपुत्रस्यैतद् अभवत्: यदि यादृशी चित्तपरिशुद्धिस् तादृशी बोधिसत्वस्य बुद्धक्षेत्रपरिशुद्धिः संभवति, तन् मा आहैव भगवतः शाक्यमुनेर् बोधिसत्वचर्यां चरतश् चित्तम् अपरिशुद्धं येनेदं बुद्धक्षेत्रम् एवम् अपरिशुद्धं संदृश्यते /

अथ खलु भगवान् आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे, शारिपुत्र मा आहैव सूर्याचन्द्रमसाव् अपरिशुद्धौ यज् जात्यन्धो न पश्यति /

आह: नो हीदं भगवन् जात्यन्धापराध एष न सूर्यचन्द्रमसोः /

आह: एवम् एव शारिपुत्र सत्वानाम् अज्ञानापराध एष यस् तथागतस्य बुद्धक्षेत्रगुणालंकारव्यूहं केचित् सत्वा न पश्यन्ति, न तत्र तथागतस्यापराधः / परिशुद्धं हि शारिपुत्र तथागतस्य बुद्धक्षेत्रं यूयं पुनर् इदं न पश्यथ /

व्क्न् 1.16 अथ खलु जटी ब्रह्मा स्थविरं शारिपुत्रम् एतद् अवोचत्: मा भदन्तशारिपुत्र तथागतस्यापरिशुद्धं बुद्धक्षेत्रम् इदं व्याहार्षीत् / परिशुद्धं हि भदन्तशारिपुत्र भगवतो बुद्धक्षेत्रम् / तद्यथापि नाम शारिपुत्र वशवर्तिनां देवानां भवनव्यूहाः / ईदृशान् वयं बुद्धक्षेत्रगुणव्यूहान् भगवतः शाक्यमुनेः पश्यामः /

अथ खलु स्थविरः शारिपुत्रो जटिनं ब्रह्माणम् एतद् अवोचत्: वयं पुनर् ब्रह्मन्न् इमां महापृथिवीम् उत्कूलनिकूलां कण्टकप्रपातगिरिशेखरश्वभ्रगूथोडिगल्लप्रतिपूर्णां पश्यामः /

जटी ब्रह्माह: नूनं भदन्तशारिपुत्रस्योत्कूलनिकूलं चित्तम् अपरिशुद्धबुद्धज्ञानाशयं येनेदृशं बुद्धक्षेत्रं पश्यसि / ये पुनस् ते भदन्तशारिपुत्र बोधिसत्वाः सर्वसत्वसमचित्ताः परिशुद्धबुद्धज्ञानाशयास् त इमं बुद्धक्षेत्रं परिशुद्धं पश्यन्ति /

व्क्न् 1.17 अथ भगवान् पादाङ्गुष्ठेन इमं त्रिसाहस्रमहासाहस्रं लोकधातुं पराहन्ति स्म / अथ खलु तस्मिन् समये ऽयं त्रिसाहस्रमहासाहस्रो लोकधातुर् अनेकरत्नशतसहस्रसंचितो ऽनेकरत्नशतसहस्रप्रत्यर्पितः संस्थितो ऽभूत् / तद्यथापि नाम रत्नव्यूहस्य तथागतस्यानन्तगुणरत्नव्यूहो लोकधातुस् तादृशो ऽयं लोकधातुः संदृश्यते स्म / तत्र सा सर्वावती पर्षद् आश्चर्यप्राप्ता रत्नपद्मनिषण्नम् आत्मानं संजानीते स्म /

व्क्न् 1.18 तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: पश्यसि त्वं शारिपुत्र इमान् बुद्धक्षेत्रगुणव्यूहान् /

आह: पश्यामि भगवन् अदृष्टाश्रुतपूर्वा इमे व्यूहाः संदृश्यन्ते /

आह: ईदृशं मम शारिपुत्र सदा बुद्धक्षेत्रम् / हीनसत्वपरिपाकाय तु तथागत एवं बहुदोषदुष्टं बुद्धक्षेत्रम् उपदर्शयति / तद्यथा शारिपुत्र देवपुत्राणाम् एकपात्र्यां भुञ्जानानां यथा पुण्योपचयविशेषेण सुधादेवभोजनम् उपतिष्ठतः, एवम् एव शारिपुत्र एकबुद्धक्षेत्रोपपन्ना यथा चित्तपरिशुद्ध्या सत्वा बुद्धानां बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति /

व्क्न् 1.19 अस्मिन् खलु पुनर् बुद्धक्षेत्रगुणव्यूहालंकारे संदर्श्यमाने चतुरशीतेः प्राणिसहस्राणाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि / यानि च तानि रत्नाकरेण लिच्छविकुमारेण सार्धं पञ्च लिच्छविकुमारशतान्य् आगतानि तेषाम् अप्य् आनुलोमिक्याः क्षान्तेः प्रतिलंभो ऽभूत् /

व्क्न् 1.20 अथ भगवान् पुनर् एव ताम् ऋद्धिं प्रतिसंहरति स्म / ततः पुनर् एवेदं बुद्धक्षेत्रं तत्स्वभावम् एव संवृतम्, तत्र श्रावकयानिकानां देवमनुष्याणाम् ः अनित्या बतेमे सर्वसंस्कारा इति विदित्वा द्वात्रिंशता प्राणिसहस्राणां विरजोविगतमलं धर्मेषु धर्मचक्षुर् विशुद्धम् / अष्टानां च भिक्षुसहस्राणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि / चतुरशीतेश् च प्राणिसहस्राणाम् उदारबुद्धधर्माधिमुक्तानां ō विठपनप्रत्युपस्थानलक्षणाः सर्वधर्मा इति विदित्वानुत्तरस्यां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि // //

बुद्धक्षेत्रपरिशुद्धिनिदानपरिवर्तः प्रथमः //

व्क्न् 2.1 तेन खलु पुनः समयेन वैशाल्यां महानगर्यां विमलकीर्तिर् नाम लिच्छविः प्रतिवसति स्म / पूर्वजिनकृताधिकारः, अवरोपितकुशलमूलः, बहुबुद्धपर्युपासितः, प्रतिलब्धक्षान्तिकः, लब्धप्रतिभानः, महाभिज्ञाविक्रीडितः, धारणीप्रतिलब्धः, वैशारद्यप्राप्तः, निहतमारप्रत्यर्थिकः, गम्भीरधर्मनयसुप्रविष्टः, प्रज्ञापारमितानिर्जातः, उपायकौशल्यगतिंगतः, प्रतिभानसमन्वागतः, सत्वाशयचरितकुशलः, इन्द्रियपरापरज्ञाननिर्यातः, यथाप्रत्यर्हधर्मदेशकः, कृतनिश्चयः कृतश्रम इह महायाने, सुपरीक्षितकर्मकारी, बुद्धेर्यापथप्रतिष्ठितः, सागरवरबुद्ध्यनुप्रविष्टः, सर्वबुद्धस्तुतस्तोमितप्रशंसितः, सर्वशक्रब्रह्मलोकपालनमस्कृतः, स सत्वपरिपाकायोपायकौशल्येन वैशाल्यां महानगर्यां प्रतिवसति स्म /

व्क्न् 2.2 अक्षयभोगो दरिद्रानाथसत्वसंग्रहाय / परिशुद्धशीलो दुःशीलसंग्रहाय / क्षमदमप्राप्तो दुष्टप्रदुष्टव्यापन्नक्रुधचित्तानां सत्वानां संग्रहाय / उत्तप्तवीर्यः कुसीदानां सत्वानां संग्रहाय / ध्यानस्मृतिसमाधिस्थितो विभ्रान्तचित्तानां सत्वानां संग्रहाय / प्रज्ञानिश्चयप्राप्तो दुःप्रज्ञानां सत्वानां संग्रहाय /

व्क्न् 2.3 अवदातवस्त्रधारी श्रमणेर्यापथसंपन्नः / गृहवासस्थितः कामधातुरूपधात्वारूप्यधात्वसंसृष्टः / भार्यापुत्रदारांश् च संदर्शयति, सदा च ब्रह्मचारी / परिवारपरिवृतश् च भवति, सदा च विवेकचारी / आभरणविभूषितश् च संदृश्यते, सदा च लक्षणपरिच्छिन्नः / अन्नपानभोजनजीवः संदृश्यते, सदा च ध्यानाहारः / सर्वद्यूतकरशालासु च संदृश्यते, द्यूतक्रीडासक्तचित्तांश् च सत्वान् परिपाचयति, सदा चाप्रमादचारी / सर्वपाषण्डप्रत्येषकश् च / बुद्धे चाभेद्याशयः / सर्वलौकिकलोकोत्तरशास्त्रविधिज्ञश् च / सदा च धर्मारामरतिरतः / सर्वसंगणिकासु च संदृश्यते, सर्वत्र चाग्रपूजितः /

व्क्न् 2.4 धर्मवादी च वृद्धमध्यदह्रसहायकश् च लोकानुवर्तनाय /

सर्वव्यवहारोद्युक्तश् च न च लाभभोगाभिलाषी /

सर्वचत्वरश्र्ङ्गाटकेषु च संदृश्यते सर्वसत्ववैनयिकतायै /

राजकार्यानुप्रविष्टश् च सत्वारक्षायै /

सर्वधर्मश्रवणसांकथ्येषु च संदृश्यते हीनयानविच्छन्दनाय महायाने समादापनतया /

सर्वलिपिशालासु चोपसंक्रामति दारकपरिपाचनाय /

सर्वगणिकाकुलानि च प्रविशति कामदोषसंदर्शनाय /

सर्वकल्लवालगृहाणि च प्रविशति स्मृतिसंप्रजन्योपस्थापनाय /

व्क्न् 2.5 श्रेष्ठिषु च श्रेष्ठिसंमतः श्रेष्ठधर्मारोचनतायै /

गृहपतिषु च गृहपतिसंमतः सर्वग्राहोद्ग्रहपरिच्छेदाय /

क्षत्रियेषु च क्षत्रियसंमतः क्षान्तिसौरत्यबलप्रतिष्ठापनाय /

ब्राह्मणेषु च ब्राह्मणसंमतो मानमददर्पनिर्घातनाय /

आमात्येषु चामात्यसंमतः सर्वराजकार्यसहधर्मम्योजनाय /

कुमारेषु च कुमारसंमतो राजभोगैश्वर्याभिलाषविनिवर्तनाय /

अन्तःपुरेषु च काञ्चुकीयसंमतः स्त्रीकुमारिकापरिपाचनाय /

व्क्न् 2.6 प्राकृतजनानुवर्तकश् च सामान्यपुण्यविशिष्टाध्यालंबनाय /

शक्रेषु च शक्रसंमत ऐश्वर्यानित्यत्वसंदर्शनायौ /

ब्रह्मसु च ब्रह्मसंमतो विशेषज्ञानसंदर्शनाय /

लोकपालेषु च लोकपालसंमतः सर्वसत्वपरिपालनाय /

इति हि विमलकीर्तिर् लिच्छविर् एवम् अप्रमाणोपायकौशलज्ञानसमन्वागतो वैशाल्यां महानगर्यां प्रतिवसति स्म /

व्क्न् 2.7 स उपायकौशल्येन ग्लानम् आत्मानम् उपदर्शयति स्म / तस्य ग्लानस्य वैशाल्यां महानगर्यां राजराजमहामात्रामात्यकुमारपारिषद्या ब्राह्मणगृहपतयः श्रेष्ठिनैगमजानपदास् तदन्यानि च बहूनि प्राणिसहस्राणि ग्लानपरिपृच्छकान्य् उपसंक्रामन्ति स्म /

व्क्न् 2.8 तेषाम् उपसंक्रान्तानां विमलकीर्तिर् लिच्छविः / इमम् एव चातुर्महाभौतिकं कायम् आरभ्य धर्मं देशयति स्म: एवम् अनित्यो ऽयं मार्षाः कायः / एवम् अध्रुवः, एवम् अनास्वासिकः, एवं दुर्बलः, एवम् असारः / एवं जर्जरः, एवम् इत्वरः, एवं दुःखः, एवम् आबाधिकः, एवं विपरिणामधर्मा, एवं बहुरोगभाजनो ऽयं मार्षाः कायः / तत्र पण्डितेन निश्रयो न कर्तव्यः /

व्क्न् 2.9 फेनपिण्डोपमो ऽयं मार्षाः कायो ऽपरिमर्दनक्षमः /

बुद्बुदोपमो ऽयं कायो ऽचिरस्थितिकः /

मरीच्युपमो ऽयं कायः क्लेशतृष्णासंभूतः /

कदलीस्कन्धोपमो ऽयं कायो ऽसारकत्वात् /

यन्त्रभूतो बतायं कायो ऽस्थिस्नायुविनिबद्धः /

मायोपमो ऽयं कायो विपर्याससंभूतः /

स्वप्नोपमो ऽयं कायो वितथदर्शनः /

प्रतिभासोपमो ऽयं कायः पूर्वकर्मप्रतिभासतया संदृश्यते /

प्रतिश्रुत्कोपमो ऽयं कायः प्रत्ययाधीनत्वात् /

मेघोपमो ऽयैः कायश् चित्ताकुलविगमलक्षणः /

विद्युत्सदृशो ऽयं कायः क्षणभङ्गयुक्तो ऽनवस्थितः /

अस्वामिको ऽयं कायो नानाप्रत्ययसंभूतः /

व्क्न् 2.10 निर्व्यापारो ऽयं कायः पृथिवीसदृशः /

अनात्मो ऽयं कायो ऽप्सदृशः /

निर्जीवो ऽयं कायस् तेजःसदृशः /

निष्पुद्गलो ऽयं कायो वायुसदृशः /

निःस्वभावो ऽयं काय आकाशसदृशः /

व्क्न् 2.11 असंभूतो ऽयं कायो महाभूतानाम् आलयः /

शून्यो ऽयं काय आत्मात्मीयविगतः /

जडो ऽयं कायस् तृणकाष्ठकुड्यलोष्टप्रतिभाससदृशः /

निश्चेष्टो ऽयं कायो वातयन्त्रयुक्तो वर्तते /

रिक्तो ऽयं कायो ऽशुचिपूतिसंचयः /

तुच्छो ऽयं काय उच्छादनपरिमर्दनविकिरणविध्वन्सनधर्मा /

उपद्रुतो ऽयं कायश् चतुरुत्तरैश् चतुर्भी रोगशतैः /

जीर्णोदपानसदृशो ऽयं कायः सदा जराभिभूतः /

पर्यन्तस्थायी बतायं कायो मरणपर्यवसानः /

वधकाशीविषशून्यग्रामोपमो ऽयं कायः स्कन्धधात्वायतनपरिगृहीतः /

तत्र युष्माभिर् एवंरूपे काये निर्विद्विराग उत्पादयितव्यस् तथागतकाये च स्पृहोत्पादयितव्या /

व्क्न् 2.12 धर्मकायो हि मार्षाः तथागतकायो दाननिर्जातः शीलनिर्जातः समाधिनिर्जातः प्रज्ञानिर्जातो विमुक्तिनिर्जातो विमुक्तिज्ञानदर्शननिर्जातः / मैत्रीकरुणामुदितोपेक्षानिर्जातः / दानदमसंयमनिर्जातः क्षान्तिसौरत्यनिर्जातो दृढवीर्यकुशलमूलनिर्जातो ध्यानविमोक्षसमाधिसमापत्तिनिर्जातः श्रुतप्रज्ञोपायनिर्जातः / सप्तत्रिंशद्बोधिपक्ष्यनिर्जातः शमथविदर्शनानिर्जातो दशबलनिर्जातश् चतुर्वैशारद्यनिर्जातः / अष्टादशावेणिकबुद्धधर्मनिर्जातः सर्वपारमितानिर्जातः / अभिज्ञाविद्यानिर्जातः सर्वाकुशलधर्मप्रहाणाय निर्जातः सर्वकुशलधर्मपरिग्रहनिर्जातः सत्यनिर्जातो भूतनिर्जातो ऽप्रमादनिर्जातः / अप्रमाणशुभकर्मनिर्जातो मार्षास् तथागतकायस् तत्र युष्माभिः स्पृहा कर्तव्या / सर्वसत्वानां च सर्वक्लेशव्याधिप्रहाणायानुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयितव्यानि /

व्क्न् 2.13 एवं विमलकीर्तिर् लिच्छविस् तथा संनिपतितानां तेषां ग्लानपरिपृच्छकानां तथा तथा धर्मं देशयति यद् बहूनि सत्वशतसहस्राण्य् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयन्ति // //

अचिन्त्योपायकौशल्यपरिवर्तो नाम द्वितीयः //

व्क्न् 3.1 अथ विमलकीर्तेर् लिच्छवेर् एतद् अभवत्: अहं च ग्लान आबाधिको मञ्चसमारूढः, न च मां तथागतो ऽर्हन् सम्यक्संबुद्धः समन्वाहरति, न च मे ग्लानपरिपृच्छकं कंचित् प्रेषयत्य् अनुकंपाम् उपादाय /

व्क्न् 3.2 समन्वाहृतश् च भगवता विमलकीर्तिर् लिच्छविः / अथ भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: गच्छ त्वं शारिपुत्र विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

एवम् उक्त आयुष्माञ् शारिपुत्रो भगवन्तम् एतद् अवोचत्: नाहं भगवन् उत्सहे विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छको गन्तुम् / तत् कस्य हेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये ऽन्यतमस्मिन् वृक्षमूले प्रतिसंलीनो ऽभूवम् / विमलकीर्तिश् च लिच्छविर् येन तद् वृक्षमूलं तेनोपसंक्रम्य माम् एतद् अवोचत्: व्क्न् 3.3 न भदन्तशारिपुत्र एवं प्रतिसंलयनं संलातव्यं यथा त्वं प्रतिसंलीनः / अपि तु तथा प्रतिसंलीयश् च यथा त्रैधातुके न कायश् चित्तं वा संदृश्यते / तथा प्रतिसंलीयश् च यथा निरोधाच् च न व्युत्तिष्ठसि सर्वेर्यापथेषु च संदृश्यसे / तथा प्रतिसंलीयश् च यथा प्राप्तिलक्षणं च न विजहासि पृथग्जनलक्षणेषु च संदृश्यसे / तथा प्रतिसंलीयश् च यथा ते न चाध्यात्मं चित्तम् अवस्थितं भवेन् न बहिर्धोपविचरेत् / तथा प्रतिसंलीयश् च यथा सर्वदृष्टिगतेभ्यश् च न चलसि सप्तत्रिंशत्सु च बोधिपक्ष्येषु धर्मेषु संदृश्यसे / तथा प्रतिसंलीयश् च यथा संसारावचरांश् च क्लेशान् न प्रजहासि निर्वाणसमवसरणश् च भवसि / ये भदन्तशारिपुत्र एवं प्रतिसंलयनं प्रतिसंलीयन्ते तेषां भगवान् प्रतिसंलयनम् अनुजानाति /

व्क्न् 3.4 सो ऽहं भगवन् एतां श्रुत्वा तूष्णीम् एवाभूवम् / न तस्य शक्नोम्य् उत्तरे प्रतिवचनं दातुम् / तन् नाहम् उत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.5 तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते स्म: गच्छ त्वं मौद्गल्यायन विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

मौद्गल्यायनो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्य हेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये वैशाल्यां महानगर्याम् अन्यतमस्मिन् वीथीमुखे गृहपतिभ्यो धर्मं देशयामि / तत्र मां विमलकीर्तिर् लिच्छविर् उपसंक्राम्यैवम् आह:

व्क्न् 3.6 न भदन्तमौद्गल्यायन गृहिभ्यो ऽवदातवसनेभ्य एवं धर्मो देशयितव्यो यथा भदन्तो देशयति / अपि तु तथा भदन्तमौद्गल्यायन धर्मो देशयितव्यो यथैव स धर्मः / धर्मो हि भदन्तमौद्गल्यायन असत्वः सत्वरजोविगतः, नैरात्म्यो रागरजोविगतः, निर्जीवो जातिच्युतिविगतः, निष्पुद्गलः पूर्वान्तापरान्तपरिच्छिन्नः, शान्त उपशान्तलक्षणः, विरागो ऽनारम्बणगतिकः, अनक्षरः सर्ववाक्यच्छेदः, अनुदाहारः सर्वोर्मिविगतः, सर्वत्रानुगत आकाशसमसदृशः, अवर्णलिङ्गसंस्थानः सर्वप्रचारविगतः, अममो ममकारविगतः, अविज्ञप्तिश् चित्तमनोविज्ञानविगतः, असदृशो निष्प्रतिपक्षत्वात्, हेतुविलक्षणः प्रत्ययासमारोपः, धर्मधातुसमवसरणः सर्वधर्मसमाहितः, तथतानुगतो ऽननुगमनयोगेन, भूतकोटिप्रतिष्ठितो ऽत्यन्ताचलितत्वात्, अचलितः षड्विषयानिश्रितत्वात्, न क्वचिद् गमनागमनो ऽनवस्थितत्वात्, शून्यतासमाहित आनिमित्तप्रभावितो ऽप्रणिहितलक्षणः, ऊहापोहविगतः, अनुत्क्षेपो ऽप्रक्षेपः, उत्पादभङ्गविगतः, अनालयश् चक्षुःश्रोत्रघ्राणजिह्वाकायमनःपथसमतिक्रान्तः, अनुन्नतो ऽनवनतः, स्थितो ऽनेञ्ज्यं प्राप्तः, सर्वप्रचारविगतः /

व्क्न् 3.7 ईदृशस्य भदन्तमहामौद्गल्यायन धर्मस्य कीदृशी देशना / धर्मदेशनेति भदन्तमहामौद्गल्यायन समारोपपदम् एतत् / ये ऽपि शृण्वन्ति ते ऽपि समारोपेनैव शृण्वन्ति / यत्र भदन्तमौद्गल्यायन असमारोपपदं न तत्र देश्यते न श्रूयते न विज्ञायते / तद्यथा मायापुरुषो मायापुरुषेभ्यो धर्मं देशयति /

व्क्न् 3.8 एवं हि चित्तावस्थानेन धर्मो देशयितव्यः / सत्वेन्द्रियकुशलेन च ते भवितव्यम्, सुदृष्टप्रज्ञादर्शनेन महाकरुणामुखीभूतेन महायानसंवर्णकेन बुद्धेकृतज्ञेन शुद्धाशयेन धर्मनिरुक्तिविधिज्ञेन, त्रिरत्नवंशानुपच्छेदाय च ते धर्मो देशयितव्यः /

व्क्न् 3.9 तेन भगवन् तथा तथा धर्मो देशितो यथा ततो गृहपतिपर्सदो ऽष्टानां गृहपतिशतानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि / अहं च निष्प्रतिभानो ऽभूवम् / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.10 तत्र भगवान् आयुष्मन्तं महाकाश्यपम् आमन्त्रयते स्म: गच्छ त्वं महाकाश्यप विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

महाकाश्यपो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् दरिद्रवीथ्यां पिण्डाय चरामि / तत्र मां विमलकिर्तिर् लिच्छविर् उपसंक्रम्यैवम् आह:

व्क्न् 3.11 प्रादेशिकी भदन्तमहाकाश्यपस्य करुणामैत्री, यन् महाकुलान्य् उत्सृज्य दरिद्रकुलान्य् उपसंक्रामसि / अपि तु भदन्तमहाकाश्यप धर्मसमताप्रतिष्ठितेन ते भवितव्यम् / सर्वदा सर्वसत्वसमन्वाहारेण पिण्डपातः पर्येष्टव्यः / अनाहारेण चाहारः पर्येष्टव्यः / परपिण्डग्राहापनयाय च ते पिण्डाय चरितव्यम् / शून्यग्रामाधिष्ठितेन च ग्रामः प्रवेष्टव्यः / नरनारीपरिपाकाय च ते नगरं प्रवेष्टव्यम् / बुद्धकुलकुलीनेन च ते कुलान्य् उपसंक्रमितव्यानि /

व्क्न् 3.12 अप्रतिग्रहणतया च पिण्डपातः प्रतिग्राह्यः / जात्यन्धसमतया च रूपाणि द्रष्टव्यानि / प्रतिश्रुतकोपमतया च शब्दाः श्रोतव्याः / वातसमतया च गन्धा घ्रातव्याः / अविज्ञप्तितो रसा आस्वादयितव्याः / ज्ञानास्पर्शनतया च स्पर्शाः स्प्रष्टव्याः / मायापुरुषविज्ञाप्त्या च धर्मा विज्ञातव्याः / यो ऽस्वभावो ऽपरभावश् च तद् अनुज्ज्वलितम् / यद् अनुज्ज्वलितं तन् न शाम्यति /

व्क्न् 3.13 यदि स्थविरो महाकाश्यपो ऽष्टौ च मिथ्यात्वानि समतिक्रामेत्, अष्टौ च विमोक्षान् समापद्येत, मिथ्यासमतया च सम्यक्त्वसमताम् अवतरेत्, एकेन च पिण्डपातेन सर्वसत्वान् प्रतिपादयेत्, सर्वबुद्धान् सर्वार्यांश् च प्रतिपाद्य पश्चाद् आत्मना परिभुञ्जीत, तथा च परिभुञ्जीत यथा न संक्लेशो न विगतक्लेशः, परिभुञ्जीत न समाहितो न व्युत्थितः, न संसारस्थितो न निर्वाणस्थितः परिभुञ्जीत / ये च भदन्ताय पिण्डपातं ददति ते तेषां नाल्पफलं न महाफलैः भवेत् / न च हानाय न विशेषाय गच्छेत्, बुद्धगतिसमवसरणाय च भवेत न श्रावकगतिसमवसरणाय / एवं स्थविरो महाकाश्यपो ऽमोघं राष्ट्रपिण्डं परिभुञ्जीत /

व्क्न् 3.14 सो ऽहं भगवन् इमं धर्मनिर्देशं श्रुत्वाश्चर्यप्राप्तः सर्वबोधिसत्वान् नमस्यामि / गृहिणो ऽपि नामैवंरूपं प्रतिभानम्, को ऽनुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादयेत् / ततः प्रभृति मे न कश्चित् सत्वः श्रावकयाने प्रत्येकबुद्धयाने वा समादापितपूर्वो ऽन्यत्र महायानात् / तन् नाहं भगवन् उत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.15 तत्र भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: गच्छ त्वं सुभूते विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

सुभूतिर् अप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्य हेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये वैशाल्यां महानगर्यां पिण्डाय चरामि / विमलकीर्तेर् लिच्छवेर् निवेशनं पिण्डाय प्रविष्टः / तस्य मे विमलकीर्तिर् लिच्छविः पात्रं गृहीत्वा प्रणीतेन भोजनेन प्रतिपूर्यैवम् आह:

व्क्न् 3.16 सचेत् त्वं भदन्तसुभूते आमिषसमतया सर्वधर्मसमताम् अनुगतः सर्वधर्मसमतया च बुद्धधर्मसमताम् अनुगत एव, त्वम् इमं पिण्डपातं प्रतिगृह्नीष्व / सचेत् त्वं भदन्तसुभूते न रागदोषमोहप्रहीणो न च तैः सार्धं संवससि / सचेद् एवम् अस्य् अविकोप्य सत्कायम् एकायनं मार्गम् अनुगतः / न च ते ऽविद्या भवतृष्णा च समुद्घातिता न च विद्याविमुक्ती उत्पादिते / आनन्तर्यसमतया च ते समाधिविमुक्तिः / न चासि मुक्तो न बद्धः / न च ते चत्वार्य् आर्यसत्यानि दृष्टानि न च न दृष्टसत्यः / न प्राप्तफलो न पृथग्जनसमवसरणः / न चास्य् आर्यो नानार्यः / न सर्वधर्मसमन्वागतश् च सर्वधर्मसमधिगतश् च /

व्क्न् 3.17 न च ते शास्ता दृष्टो न धर्मः श्रुतो न संघः पर्युपासितः / ये च ते षट् शास्तारस् तद्यथा पूरणः काश्यपः, मस्करी गोशालीपुत्रः, संजयो वैराष्ट्रिकपुत्रः, ककुदः कात्यायनः, अजितः केशकम्बलः, निर्ग्रन्थो ज्ञातिपुत्रः, ते च भदन्तस्य शास्तारस् तांश् च निश्रित्य प्रव्रजितो यद्गामिनस् ते षट् शास्तारस् तद्गाम्य् एवार्यसुभूतिः,

व्क्न् 3.18 सर्वदृष्टिगतेषु चार्यमन् अन्तर्गतो न चान्तमध्यप्राप्तः, अष्टाक्षणसमवसरणश् चासि न चासि लक्षणम् अनुप्राप्तः, संक्लेशेन चासि समो ऽव्यवदानम् अधिगतः, या च सर्वसत्वानाम् अरणा सा भदन्तस्याप्य् अरणा, न च त्वया दक्षिणा विशोध्यते, ये च भदन्ताय पिण्डपातं ददति तांश् च विनिपातयसि, सर्वमारैश् च ते सार्धम् एकहस्तः कृतः / सर्वक्लेशाश् च ते सहायाः, यत्स्वभावाश् च क्लेशास् तत्स्वभावो भदन्तः, सर्वसत्वेषु ते वधकचित्तं प्रत्युपस्थितम्, सर्वबुद्धाश् च ते ऽभ्याख्याताः, सर्वबुद्धधर्मांश् च प्रतिक्रोशसि, न चासि संघप्रतिसरणः, न च जातु परिनिर्वास्यसि / एवं त्वम् इमं पिण्डपातं प्रतिगृहीण /

व्क्न् 3.19 तस्य मे भगवन् इमं धर्मनिर्देशं श्रुत्वान्धकारप्राप्ता दिशो ऽभूवन् ः तत् किम् अस्मै निर्दिशामि, कथम् वा प्रतिपद्य इति / सो ऽहं तत् पात्रम् उत्सृज्य ततो गृहान् निष्क्रमिष्यामीति /

विमलकीर्तिर् इइच्छविर् माम् एवम् आह: मा भदन्तसुभूते अक्षरेभ्य उत्त्रसीः, प्रतिगृहाणेदं पात्रम् / तत् किं मन्यसे भदन्तसुभूते, यदि तथागतनिर्मित एवम् उच्येत कच्चित् स उत्त्रसेत् /

सो ऽहम् अवोचम्: नो हीदं कुलपुत्र /

स माम् एवम् आह: निर्मितमायास्वभावेभ्यो भदन्तसुभूते सर्वधर्मेभ्यो नोत्त्रसितव्यम् / तत् कस्माद् धेतोः / सर्वाणि हि तानि वचनानि तत्स्वभावानि, एवं पण्डिता अक्षरेषु न सज्जन्ति न तेभ्य उत्त्रस्यन्ति / तत् कस्माद् धेतोः / सर्वाणि तान्य् अक्षराण्य् अनक्षराणि स्थापयित्वा विमुक्तिं विमुक्तिलक्षणांश् च सर्वधर्मान् /

व्क्न् 3.20 इह निर्देशे निर्दिश्यमाने द्वयोर् देवपुत्रशतयोर् विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धम्, पञ्चानां च देवपुत्रशतानाम् आनुलोमिक्याः क्षान्तेः प्रतिलम्भो ऽभूत् / अहं च निष्प्रतिभानो ऽभूवम्, न चास्य शक्नोम्य् उत्तरे प्रतिवचनं दातुम् / तन् नाहम् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.21 अथ खलु भगवान् आयुष्मन्तं पूर्णं मैत्रायणीपुत्रम् आमन्त्रयते स्म: गच्छ त्वं पूर्ण विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

पूर्णो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये वनस्यान्यतमस्मिन् पृथिवीप्रदेश आदिकर्मिकाणां भिक्षूणां धर्मं देशयामि /

तत्र विमलकीर्तिर् लिच्छविर् उपसंक्रम्य माम् एवम् आह:

व्क्न् 3.22 समापद्य भदन्तपूर्ण एतेषां भिक्षूणां चित्तं व्यवलोक्य धर्मं देशय / मा महारत्नभाजनेषु प्रति कुल्माषान् प्राक्षैप्सीः / जानिष्व तावत् किमाशया एते भिक्षव इति / मा वैडूर्यरत्नं काचमणिकैः समानीकार्षीः / मा भदन्तपूर्ण अप्रत्यवेक्ष्या सत्वेन्द्रियेषु प्रादेशिकेन्द्रियत्वम् उपसंहार्षीः / मा अक्षतां क्षिणुष्व / मा महामार्गम् अवतर्तुकामान् भन्दरथ्यां प्रवेशय / मा महासागरं गोष्पदे प्रवेशय / मा सूर्यप्रभां खद्योतकैर् निर्वर्तय / मा सिंहनादसंप्रस्थितान् सृगालनादे नियोजय / अपि भदन्तपूर्ण सर्वे ह्य् एते भिक्षवो महायानसंप्रस्थिता अमुषितबोधिचित्ताः / तेषां भदन्तपूर्ण मा श्रावकयानम् उपदर्शय / कष्टं हि श्रावकयानम् / जात्यन्धा इव मे श्रावकाः प्रतिभान्ति सत्वेन्द्रियविमात्रताज्ञाने /

व्क्न् 3.23 अथ विमलकीर्तिर् लिच्छविस् तस्यां वेलायां तथारूपं समाधिं समापद्यते स्म / यथा ते भिक्षवो ऽनेकविधं पूर्वेनिवासम् अनुस्मरण्ति स्म / ते पञ्चबुद्धशतपर्युपासितकुशलमूलाः सम्यक्संबोधये, तेषां तद् बोधिचित्तम् आमुखीभूतम् / ते तस्य सत्पुरुषस्य पादौ शिरोभिः प्रणम्य तत्रैव निषण्णाः प्राञ्जलयो भूत्वा, तेषां तादृशी धर्मदेशना कृता यथावैवर्तिकाः संवृत्ता अनुत्तरस्यां सम्यक्संबोधौ /

व्क्न् 3.24 तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.25 तत्र भगवान् आयुष्मन्तं कात्यायनम् आमन्त्रयते स्म: गच्छ त्वं कात्यायन विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

कात्यायनो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन्: भगवता संक्षिप्तेन भिक्षूणाम् अववादो दत्तः / तेषां सूत्रपदविनिश्चयाय धर्मं देशयामि, यद् इदम् अनित्यार्थं दुःखार्थम् अनात्मार्थं शान्तार्थम् /

तत्र विमलकीर्तिर् लिच्छविर् उपसंक्रम्य माम् एवम् आह:

व्क्न् 3.26 मा भदन्तकात्यायन सप्रचाराम् उत्पादभङ्गयुक्तां धर्मतां निर्दिश / यो भदन्तमहाकात्यायन अत्यन्ततया न जातो न जनिष्यति नोत्पन्नो न निरुद्धो न निरोत्स्यते ऽयम् अनित्यार्थः / यः पञ्चानां स्कन्धानां शून्यतानुगमानुत्पादानिरोधार्थो ऽयं दुःखार्थः / यद् आत्मानात्मयोर् अद्वयत्वम् अयम् अनात्मार्थः / यो ऽस्वभावो ऽपरभावस् तद् अनुज्ज्वलितम्, यद् अनुज्वलितं न तच् छाम्यति, यो ऽत्यन्तोपशमो ऽयं शान्तार्थः /

व्क्न् 3.27 अस्मिन् खलु पुनर् निर्देशे निर्दिश्यमाने तेषां भिक्षूणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.28 तत्र भगवान् आयुष्मन्तम् अनिरुद्धम् आमन्त्रयते स्म: गच्छ त्वम् अनिरुद्ध विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

अनिरुद्धो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः /

व्क्न् 3.29 अभिजानाम्य् अहं भगवन्: अन्यतमस्मिंश् चङ्क्रमे चङ्क्रमामि / तत्र शुभव्यूहो नाम ब्रह्मा दशभिर् ब्रह्मसहस्रैः सार्धं तं प्रदेशम् अवभास्य येनाहं तेनोपसंक्रम्य मम पादौ शिरसाभिवन्द्यैकान्ते स्थित्वा माम् एतद् अवोचत्: कियद् आयुष्मान् अनिरुद्धो दिव्येन चक्षुषा पश्यति /

तम् एनम् अहम् एतद् अवोचम्: अहं मार्ष इमं त्रिं साहस्रमहासाहस्रं लोकधातुं भगवतः शाक्यमुनेर् बुद्धक्षेत्रं तद् यथापि नाम करतले न्यस्तम् आमलकफलम् एवं पश्यामि /

व्क्न् 3.30 इयं च कथा प्रवृत्ता विमलकीर्तिश् च लिच्छविस् तं प्रदेशम् उपसंक्रामत् / उपसंक्रम्य मम पादौ शिरसा वन्दित्वैवम् आह: किं भदन्तानिरुद्ध दिव्यं चक्षुर् अभिसंस्कारलक्षणम् उतानभिसंस्कारलक्षणम् / यद्य् अभिसंस्कारलक्षणं तद् बाह्यैः पञ्चाभिज्ञैः समम्, अथानभिसंस्कारलक्षणं अनभिसंस्कारो ऽसंस्कृतस् तेन न शक्यं द्रष्टुम् / तत् कथं स्थविरः पश्यति /

सो ऽहं तूष्णीम् अभूवम् /

व्क्न् 3.31 स च ब्रह्मा तस्य सत्पुरुषस्येमं निर्देशं श्रुत्वाश्चर्यप्राप्तस् तं नमस्कृत्यैतद् अवोचत्: के लोके दिव्यचक्षुषः /

आह: बुद्धा भगवन्तो लोके दिव्यचक्षुषो ये समाहितावस्थां च न विजहति सर्वबुद्धक्षेत्राणि च पश्यन्ति / न च द्वयप्रभाविताः /

व्क्न् 3.32 अथ स ब्रह्मेमं निर्देशं श्रुत्वा दशसहस्रपरिवारो ऽध्याशयेनानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति स्म / स मां वन्दित्वा तं च सत्पुरुषम् अभिवाद्य तत्रैवान्तर्हितः / अहं च निष्प्रतिभानो ऽभूवम् / तन् नाहम् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.33 तत्र भगवान् आयुष्मन्तम् उपालिम् आमन्त्रयते स्म: गच्छ त्वम् उपाले विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

उपालिर् अप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन्: अन्यतमौ द्वौ भिक्षू आपत्तिम् आपन्नौ, तौ भगवतः पर्यपत्रपमाणौ भगवन्तं नोपसंक्रामतः / तौ येनाहं तेनोपसंक्रान्ताव् उपसंक्राम्य माम् एतद् अवोचताम् / आवां भदन्तोपाले आपत्तिम् आपन्नौ, ताव् आवां पर्यपत्रपमाणौ भगवन्तम् उपसंक्रमितुं नोत्सहावहे / उत्साहाय आयुष्मन्न् उपाले विनोदयस्वावयोः कौकृत्यं व्युत्थापयस्वावाम् आपत्तेः /

व्क्न् 3.34 सो ऽहं भगवंस् तौ भिक्षू धर्म्यया कथया संदर्शयामि / विमलकीर्तिश् च लिच्छविस् तं प्रदेशम् अनुप्राप्तः स माम् एतद् अवोचत्: मा भदन्तोपाले एतौ भिक्षू आगाढीकार्षीः, विनोदयानयोर् आपत्तिम्, मा आविलीकार्षीः / न हि भदन्तोपाले आपत्तिर् अध्यात्मप्रतिष्ठिता न बहिर्धासंक्रान्तो नोभयम् अन्तरेणोपलभ्यते / तत् कस्माद् धेतोः / उक्तं हि भगवता चित्तसंक्लेशात् सत्वाः संक्लिश्यन्ते चित्तव्यवदानाद् विशुध्यन्ते / चित्तं च भदन्तोपाले नाध्यात्मप्रतिष्ठितं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / यथा चित्तं तथापत्तिः, यथापत्तिस् तथा सर्वधर्माः, तथतां न व्यतिवर्तन्ते / या भदन्तोपाले चित्तस्य प्रकृतिर् यया चित्तप्रकृत्या भदन्तस्य चित्तं विमुक्तम्, किं जातु सा चित्तप्रकृतिः संक्लिष्टा /

आह: नो हिदम् /

आह: तत्प्रकृतिकानि भदन्तोपाले सर्वसत्वानां चित्तानि /

व्क्न् 3.35 संकल्पो भदन्तोपाले क्लेशः / अकल्पाविकल्पा च प्रकृतिः / विपर्यासः संक्लेशः, अविपर्यस्ता च प्रकृतिः / आत्मसमारोपः संक्लेशः, नैरात्म्या च प्रकृतिः / उत्पन्नभग्नानवस्थिता भदन्तोपाले सर्वधर्मा मायामेघविद्युत्सदृशाः / निरपेक्षाः सर्वधर्माः क्षणम् अपि नावतिष्ठन्ते / स्वप्नमरीचिसदृशाः सर्वधर्मा वितथदर्शनाः / दकचन्द्रप्रतिबिम्बसदृशाः सर्वधर्माश् चित्तपरिकल्पेनोत्पद्यन्ते / ये त्व् एवं जानन्ति ते विनयधरा इत्य् उच्यन्ते / य एवं विनीतास् ते सुविनीताः /

व्क्न् 3.36 अथ तौ भिक्षु एतद् अवोचताम्: प्रज्ञाधरो विनयधरो ऽयम् उपासकः / न त्व् अयं भदन्तोपालिर् यो भगवता विनयधराणाम् अग्रो निर्दिष्टः /

ताव् अहम् एवं वदामि: मा भिक्षू अत्र गृहपतिसंज्ञाम् उत्पादयताम् / तत् कस्माद् धेतोः / तथागतं स्थापयित्वा नास्ति कश्चिच् छ्रावको वा बोधिसत्वो वा, य एतस्य प्रतिभानम् आच्छिन्द्यात् / तादृश एतस्य प्रज्ञालोकः /

व्क्न् 3.37 अथ तौ भिक्षू विनीतकौकृत्याव् अध्याशयेन तत्रैवानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितवन्तौ, तं च सत्पुरुषम् अभिवन्द्यैवम् आहतुः: सर्वसत्वा ईदृशस्य प्रतिभानस्य लाभिनो भवन्तु / तन् नाहम् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.38 तत्र भगवान् आयुष्मन्तं राहुलम् आमन्त्रयते स्म: गच्छ त्वं राहुल विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

राहुलो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये संबहुला लिच्छविकुमारका येनाहं तेनोपसंक्रम्य माम् एतद् अवोचन्: त्वं राहुल तस्य भगवतः पुत्रश् चक्रवर्तिराज्यम् उत्सृज्य प्रव्रजितः, तत्र के ते प्रव्रज्याया गुणानुशंसाः /

तेषाम् अहं यथारूपं प्रव्रज्याया गुणानुशंसा निर्दिशामि, विमलकीर्तिर् लिच्छविर् येनाहं तेनोपसंक्रान्तः / स माम् अभिवन्द्यैतद् अवोचत्:

व्क्न् 3.39 न भदन्तराहुल एवं प्रव्रज्याया गुणानुशंसा निर्देष्टव्या यथा त्वं निर्दिशसि / तत् कस्माद् धेतोः / निर्गुणा निरनुशंसा हि प्रव्रज्या / यत्र भदन्तराहुल संस्कृतप्रवृत्तिस् तत्र गुणानुशंसा / प्रव्रज्या चासंस्कृता, असंस्कृते च न गुणा नानुशांसा / प्रव्रज्या भदन्तराहुल अरूपिणि रूपविगता, पन्था निर्वाणस्य, प्रशंसिता पण्डितैः, परिगृहीतार्यैः, पराजयः सर्वमाराणाम्, पञ्चगत्युत्तारणी, पञ्चचक्षुविशोधनी, पञ्चबलप्रतिलम्भा, पञ्चेन्द्रियप्रतिष्ठा, परेषाम् अनुपघातः, पापधर्मासंसृष्टा, परतीर्थ्यप्रमर्दनी, प्रज्ञप्तिसमतिक्रान्ता, पङ्के संक्रमः, अममा ममकारविगता, अपरिग्रहा, अनुपादाना, अनाकुला, आकुलप्रहीणा, स्वचित्तदर्शनी परचित्तसंरक्षणी, शमथानुकूला, सर्वतो ऽनवद्या / इयम् उच्यते प्रव्रज्या / य एवं प्रव्रजितास् ते सुप्रव्रजिताः /

व्क्न् 3.40 प्रव्रजत यूयं कुमारकाः स्वाख्याते धर्मविनये / दुर्लभो हि बुद्धोत्पादः, दुर्लभा क्षणसंपत्, दुर्लभो मनुष्यप्रतिलम्भः /

ते कुमारका एवम् आहुः: श्रुतम् अस्माभिर् गृहपते, न तथागतो ऽनवसृष्टं मातापितृभ्यां प्रव्राजयतीति /

स तान् आह: उत्पादयत यूयं कुमारकाः अनुत्तरायां सम्यक्संबोधौ चित्तम् / प्रतिपत्त्या च संपादयत, सैव युष्माकं भविष्यति प्रव्रज्या सोपसंपत् /

व्क्न् 3.41 तत्र द्वात्रिंशता लिच्छविकुमारैर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादितानि / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.42 तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: गच्छ त्वम् आनन्द विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

आनन्द आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये भगवतः कायस्य कश्चिद् एवाबाधः / तत्र च क्षीरेण कृत्यम् आसीत् / सो ऽहम् अन्यतमस्मिन् ब्राह्मणमहाशालस्य गृहमूले पात्रं गृहीत्वा स्थितः /

विमलकीर्तिर् लिच्छविस् तं प्रदेशम् अनुप्राप्तः / स मां वन्दित्वैवम् आह:

व्क्न् 3.43 किं भदन्तानन्द काल्यम् एव पात्रम् आदायास्मिन् गृहद्वारसमीपे तिष्ठसि /

तम् एनम् अहम् एतद् अवोचम्: भगवतो गृहपते कायस्य कश्चिद् एवाबाधः / तत्र च क्षीरेण कृत्यम्, तत् पर्येषामि /

स माम् एवम् आह: अलं भदन्तानन्द मा एवं वोचः / वज्रसंहतनो हि भदन्तानन्द तथागतकायः सर्वाकुशलवासनाप्रहीणः सर्वमहौजस्ककुशलधर्मसमन्वागतः / कुतस् तस्य व्याधिः कुत उपद्रवः /

व्क्न् 3.44 तूष्णींभूतो भदन्तानन्द गच्छ / मा भगवन्तम् अभ्याचक्ष्व / मा कस्यचिद् भूय एवं वोचः / मा महौजस्का देवपुत्रा अन्यबुद्धक्षेत्रसंनिपतिताश् च बोधिसत्वाः श्रोष्यन्ति / राज्ञस् तावद् भदन्तानन्द चक्रवर्तिन इत्वरकुशलमूलसमन्वागतस्य व्याधिर् न संविद्यते / कुतस् तस्य भगवतो ऽप्रमाणकुशलसमन्वागतस्य व्याधिर् भविष्यति / नेदं स्थानं विद्यते / गच्छ गच्छ भदन्तानन्द / मा माम् अध्यपत्रापय, मा अन्यतीर्थिकचरकपरिव्राजकनिग्रन्थाजीवाः श्रोष्यन्ति, मा तेषाम् एवं भविष्यति / कीदृशो बत अयम् एषां शास्ता यः स्वयम् एव तावद् आत्मानं ग्लानं न शक्नोति परित्रातुम्, कुतः पुनर् ग्लानानां सत्वानां त्राणं भविष्यति / ततः प्रच्छन्नं भदन्तानन्द गच्छ शीघ्रम् / मा कश्चिच् छृणुयात् /

व्क्न् 3.45 अपि तु भदन्तानन्द धर्मकायास् तथागता नामिषकायाः / लोकोत्तरकायास् तथागताः सर्वलोकधर्मसमतिक्रान्ताः / अनाबाधस् तथागतस्य कायः सर्वास्रवविनिवृतः / असंस्कृतस् तथागतस्य कायः सर्वसंख्याविगतः / तस्य भदन्तो व्याधिम् इच्छतीत्य् अयुक्तम् असदृशम् /

व्क्न् 3.46 तस्य मे भगवन् महदपत्राप्यं जातम् / मा मे भगवतो ऽन्तिकाद् दुःश्रुतं दुर्गृहीतं वा कृतम् इति / सो ऽहम् अन्तरीक्षाच् छब्दम् अश्रौषम् /

एवम् एतद् आनन्द यथा गृहपतिर् निर्दिशति / अथ च पुनः पञ्चकषाये भगवान् उत्पन्नः, तेनानर्थलूहदरिद्रचर्यया सत्वा विनेतव्याः / तद् गच्छ त्वम् आनन्द क्षीरं गृहीत्वा, मा पर्यपत्रपश् चेति /

व्क्न् 3.47 ईदृशा भगवन् विमलकीर्तेर् लिच्छवेः प्रश्नव्याकरणनिर्देशाः / तन् नाहं भगवन् उत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.48 एवं तानि पञ्चमात्राणि श्रावकशतान्य् अनुत्सहमानानि भगवते निवेदयन्ति / ये च तैर् विमलकीर्तिना लिच्छविना सार्धं कथासंलापाः कृतास् तान् सर्वान् भगवते निवेदयन्ति स्म /

व्क्न् 3.49 तत्र भगवान् मैत्रेयं बोधिसत्वम् आमन्त्रयते स्म: गच्छ त्वं मैत्रेय विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

मैत्रेयो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये संतुषितेन देवपुत्रेण सार्धं तुषितकायिकैश् च देवपुत्रैः सार्धं धर्म्यां कथां कथयामि यद् इदं बोधिसत्वानां महासत्वानाम् अविवर्त्यां भूमिम् आरभ्य / तत्र च विमलकीर्तिर् लिच्छविस् तं प्रदेशम् उपसंक्रान्तः / स माम् एतद् अवोचत:

व्क्न् 3.50 त्वं मैत्रेय एकजातिप्रतिबद्धो भगवता व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ / तत् कतमयासि मैत्रेय जात्याउ व्याकृतः, किम् अतीतया वानागतयोत प्रत्युत्पन्नया / तत्र यातीता जातिः सा क्षीणा, याप्य् अनागता साप्य् असंप्राप्ता, प्रत्युत्पन्नायाः स्थितिर् नास्ति जातेः / यथोक्तं भगवता: तथा हि त्वं भिक्षः क्षणे क्षणे जायसे जीर्यसि म्रियसे च्यवसे उपपद्यसे चेति / अजातितश् च नियामावक्रान्तिः / न चाजातिर् व्याक्रियते / नाप्य् अजातिर् अभिसंबुध्यते /

व्क्न् 3.51 तत् कथं त्वं मैत्रेय व्याकृतस् तथतोत्पादेन तथतानिरोधेन वा / न च तथतोत्पद्यते न निरुध्यते, न निरोत्स्यते / या च सर्वसत्वानां तथता, या च सर्वधर्माणां तथता, सैव मैत्रेयस्यापि तथता / एवं यदि त्वं व्याकृतः सर्वसत्वा अपि व्याकृता भवन्ति / तत् कस्माद् धेतोः / न हि तथता द्वयप्रभाविता नानात्वप्रभाविता / तद् यदा मैत्रेयो बोधिम् अभिसंभोत्स्यते, सर्वसत्वा अपि तस्मिन् समये तादृशीम् एव बोधिम् अभिसंभोत्स्यन्ते / तत् कस्माद् धेतोः / सर्वसत्वानुबोधो हि बोधिः / यदा च मैत्रेयः परिनिर्वास्यति, सर्वसत्वा अपि तदा परिनिर्वास्यन्ति / तत् कस्माद् धेतोः / न ह्य् अपरिनिर्वृतानां सर्वसत्वानां तथागताः परिनिर्वान्ति / परिनिर्वृतानि ते सत्वानि पश्यन्ति निर्वाणप्रकृतिकानि / तस्माद् इह मैत्रेय मा एतान् देवपुत्रान् उल्लापय मा विसंवादय /

व्क्न् 3.52 न बोधौ कश्चित् प्रतिष्ठते, न निवर्तते / अपि तु खलु पुनर् मैत्रेय यैषां देवपुत्राणां बोधिपरिकल्पनदृष्टिस् ताम् एताम् उत्सर्जय /

न हि बोधिः कायेनाभिसंबुध्यते, न चित्तेन / व्युपशमो बोधिः सर्वनिमित्तानाम्, असमारोपो बोधिः सर्वारम्बणानाम्, अप्रचारो बोधिः सर्वमनस्काराणाम्, परिच्छेदो बोधिः सर्वदृष्टिगतानाम्, विगमो बोधिः सर्वपरिकल्पानाम्, विसंयोगो बोधिः सर्वेञ्जितमन्यस्यन्दितानाम्, अनधिष्ठानं बोधिः सर्वप्रणिधानानाम्, असङ्गप्रवेशो बोधिः सर्वोद्ग्रहविगता, स्थिता बोधिर् धर्मधातुस्थाने, अनुगता बोधिस् तथतायाम्, प्रतिष्ठिता बोधिर् भूतकोट्याम्, अद्वया बोधिर् मनोधर्मविगता / समा बोधिर् आकाशसमतया, असंस्कृता बोधिर् उत्पादभङ्गस्थित्यन्यथात्वविगता, परिज्ञा बोधिः सर्वसत्वचित्तचरिताशयानाम्, अद्वारा बोधिर् आयतनानाम्, असंसृष्टा बोधिः सर्ववासनानुसंधिक्लेशविगता, न देशस्था न प्रदेशस्था बोधिः स्थानास्थानविगता, तथताप्रतिष्ठिता बोधिः सर्वतो ऽदृश्या / नामधेयमात्रं बोधिस् तच् च नाम निरीहकम्, निरात्मिका बोधिर् आयूहनिर्यूहविगता, अनाकुला बोधिः प्रकृतिपरिशुद्धा, प्रकाशा बोधिः स्वभावपरिशुद्धा, अनुद्ग्रहा बोधिर् अध्यालम्बनविगता, निर्नानात्वा बोधिः सर्वधर्मसमतावबोधत्वात्, अनुपमा बोधिर् उपमोपन्यासविगताः, सूक्ष्मा बोधिर् दुरनुबोधत्वात्, सर्वत्रानुगता बोधिर् आकाशस्वभावत्वात् / सा न शक्या कायेन वाचा चित्तेनाभिसंबोद्धुम् /

व्क्न् 3.53 इह भगवन् निर्देशे निर्दिश्यमाने ततः परिषदो द्वयोर् देवपुत्रशतयोर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत् / अहं च निष्प्रतिभानो ऽभूवम् / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.54 तत्र भगवान् प्रभाव्यूहं लिच्छविकुमारम् आमन्त्रयते स्म: गच्छ त्वं सत्पुरुष विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

प्रभाव्यूहो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये भगवन् वैशाल्या महानगर्या निष्क्रमामि / विमलकीर्तिश् च लिच्छविः प्रविशति / सो ऽहं तम् अभिवाद्यैवम् अवोचम्: कुतस् त्वं गृहपते आगच्छसीति /

स माम् एवम् आह: आगच्छामि बोधिमण्डाद् इति /

तम् अहम् एतद् अवोचम्: बोधिमण्ड इति कस्यैतन् नाम /

स माम् एतद् अवोचत्:

व्क्न् 3.55 बोधिमण्ड इति कुलपुत्र आशयमण्ड एषो ऽकृत्रिमतया, प्रयोगमण्ड एष आरम्भोत्तारणतया, अध्याशयमण्ड एष विशेषाधिगमतया, बोधिचित्तमण्ड एषो ऽसंप्रमोषनतया,

व्क्न् 3.56 दानमण्ड एष विपाकाप्रतिकाङ्क्षणतया, शीलमण्ड एष प्रणिधानपरिपूरणतया, क्षान्तिमण्ड एष सर्वसत्वाप्रतिहतचित्ततया, वीर्यमण्ड एषो ऽविनिवर्तनतया, ध्यानमण्ड एष चित्तकर्मण्यतया, प्रज्ञामण्ड एष प्रत्यक्षदर्शितया,

व्क्न् 3.57 मैत्रीमण्ड एष सर्वसत्वसमचित्ततया, करुणामण्ड एष खेदसहिष्णुतया, मुदितामण्ड एष धर्मारामरतिरततया, उपेक्षामण्ड एषो ऽनुनयप्रतिघप्रहाणतया,

व्क्न् 3.58 अभिज्ञामण्ड एष षडभिज्ञतया, विमोक्षमण्ड एषो ऽकल्पनतया, उपायमण्ड एष सत्वपरिपाचनतया, संग्रहवस्तुमण्ड एष सर्वसत्वसंग्रहनतया, श्रुतमण्ड एष प्रतिपत्तिसारकत्वात्, निध्यप्तिमण्ड एष योनिशःप्रत्यवेक्षणतया, बोधिपक्ष्यधर्ममण्ड एष संस्कृतासंस्कृतोत्सर्जनतया, सत्यमण्ड एष सर्वलोकाविसंवादनतया, प्रतीत्यसमुत्पादमण्ड एषो ऽविद्यास्रवक्षयतया यावज् जरामरणास्रवक्षयतया, सर्वक्लेशप्रशमनमण्ड एष यथाभूताभिसंबोधनतया,

व्क्न् 3.59 सर्वसत्वमण्ड एष सत्वास्वभावतया, सर्वधर्ममण्ड एष शून्यताभिसंबोधनतया, सर्वमारनिर्घातनमण्ड एसो ऽचलनतया, त्रैधातुकमण्ड एष प्रस्थानविगमनतया, सिंहनादनदनवीर्यमण्ड एषो ऽभीतानुत्रासनतया, बलवैशारद्यावेणिकसर्वबुद्धधर्ममण्ड एस सर्वतो ऽनुपाक्रुष्टत्वात्, त्रैविद्यविद्यामण्ड एस निरवशेषत्वात् क्लेशानाम्, एकचित्तनिरवशेषसर्वधर्मानुबोधमण्ड एष सर्वज्ञज्ञानसमुदागमत्वात् /

व्क्न् 3.60 इति हि कुलपुत्र यावन्तो बोधिसत्वाः पारमिताप्रतिसंयुक्तं सत्वपरिपाकप्रतिसंयुक्तं सद्धर्मपरिग्रहप्रतिसंयुक्तं कुशलमूलप्रतिसंयुक्तं क्रमम् उत्क्षिपन्ति निक्षिपन्ति च / सर्वे ते बोधिमण्डाद् आगच्छन्ति, बुद्धधर्मेभ्य आगच्छन्ति, बुद्धधर्मेषु च प्रतिष्ठन्ते /

व्क्न् 3.61 इह भगवन् निर्देशे निर्दिश्यमाने पञ्चमात्रैर् देवमनुष्यशतैर् बोधाय चित्तान्य् उत्पादितानि / अहं च निष्प्रतिभानो ऽभूवम् / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.62 तत्र भगवान् जगतिन्धरं बोधिसत्वम् आमन्त्रयते स्म: गच्छ त्वं जगतिन्धर विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

जगतिन्धरो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये स्वके विहारे विहरामि / अथ मारः पापीयान् द्वादशभिर् अप्सरःसहस्रैः परिवृतः शक्रवेषेण तूर्यसंगीतिसंप्रवादितेन येनाहं तेनोपसंक्रम्य मम पादौ शिरसा वन्दित्वा सपरिवारो मां पुरस्कृत्यैकान्ते ऽस्थात् / तम् एनम् अहं जानामि ः शक्र एष देवेन्द्र इति /

तम् अहम् एतद् अवोचम्: स्वागतं ते कौशिक, अप्रमत्तेन ते भवितव्यं सर्वकामरतिषु, अनित्यप्रत्यवेक्षनाबहुलेनात्तसारेण ते भवितव्यं कायजीवितभोगेभ्यः /

स माम् एवम् आह: प्रतीच्छ त्वं सत्पुरुष इमानि द्वादशाप्सरःसहस्राणि ममान्तिकात्, एतास् ते परिचारिका भवन्ताम् /

तम् अहम् एतद् अवोचम्: मा त्वं कौषिक अकल्पिकेन वस्तुना श्रमणान् शाक्यपुत्रीयान् निमन्त्रय, यथा न ह्य् एता अस्माकं कल्प्यन्त इति /

व्क्न् 3.63 एषा च कथा प्रवृत्ता, विमलकीर्तिर् लिच्छविर् उपसंक्रान्तः / स माम् एवम् आह: मा अत्र कुलपुत्र शक्रसंज्ञाम् उत्पादय / मार एष पापीयांस् तव विहेठनाभिप्राय उपसंक्रान्तः, नैष शक्र इति /

अथ विमलकीर्तिर् लिच्छविस् तं मारं पापीयांसम् एतद् अवोचत्: अस्मभ्यं पापीयन् एता अप्सरसो निर्यातय / अस्माकम् एताः कल्प्यन्ते, न श्रमणानां शाक्यपुत्रीयाणाम् इति /

अथ मारः पापीयान् भीतस् त्रस्तः संविग्नः / मा विमलकीर्तिना लिच्छविना विप्रलप्स्य इति, इच्छति चान्तर्धातुम्, न च शक्नोति सर्वर्द्धिम् अपि दर्शयित्वान्तर्धातुम् / सो ऽन्तरीक्षाच् छब्दम् अश्रौषीत्: निर्यातय त्वम् एताः पापीयन् अप्सरस एतस्मै सत्पुरुषाय, ततः शक्ष्यसि स्वभवनं गन्तुम् / अथ मारो भीतस् त्रस्तो ऽकामको ऽस्मै ता अप्सरसो निर्यातयति /

व्क्न् 3.64 प्रतिगृह्य च विमलकीर्तिस् ता अप्सरस एतद् अवोचत्: निर्यातिता यूयं मह्यं मारेण पापीयसा, उत्पादयतेदानीम् अनुत्तरायां सम्यक्संबोधौ चित्तम् / स तासां तदानुलोमिकीं बोधिपरिपाचनीं कथां कृत्वा बोधौ चित्तम् उत्पादयति स्म /

स ता एवम् आह: उत्पादितम् इदानीं युष्माभिर् बोधिचित्तम्, धर्मारामरतिरताभिर् इदानीं युष्माभिर् भवितव्यम्, न कामरतिरताभिः /

ताहुः: कतमा च पुनर् धर्मारामरतिः /

स आह: बुद्धे ऽभेद्यप्रसादरतिः, धर्मे शुश्रूषणरतिः, संघ उपस्थानरतिः, गुरुषु गौरवोपस्थानरतिः, त्रैधातुकान् निःसरणरतिः, विषयेष्व् अनिश्रितरतिः, स्कन्धेषु वधकानित्यप्रत्यवेक्षणारतिः, धातुष्व् आशीविषपरितुलनारतिः, आयतनेषु शून्यग्रामविवेकरतिः, बोधिचित्तारक्षणरतिः, सत्वेषु हितवस्तुतारतिः, दाने संविभागरतिः, शीलेष्व् अशैथिल्यरतिः, क्षान्त्यां क्षमदमरतिः, वीर्ये कुशलसमुदानयनरतिः, ध्यानेषु परिकर्मरतिः, प्रज्ञायाम् अपगतक्लेशावभासरतिः, बोधौ विस्तीर्णरतिः, मारस्य निग्रहरतिः, क्लेशानां प्रघातनारतिः, बुद्धक्षेत्रस्य विशोधनारतिः, लक्षणानुव्यञ्जनपरिनिष्पत्त्यर्थं सर्वकुशलमूलोपचयरतिः, गम्भीरधर्मश्रवणानुत्त्रासरतिः, त्रिविमोक्षमुखपरिजयरतिः, निर्वाणारम्बणरतिः, बोधिमण्डालंकाररतिः, न चाकालप्राप्तिरतिः, सभागजनसेवनारतिः, विषभागेष्व् अदोषाप्रतिघातरतिः, कल्याणमित्रेषु सेवारतिः, पापमित्रेषु विसर्जनारतिः, धर्मप्रीतिप्रामोद्यरतिः, उपाये संग्रहरतिः, अप्रमादबोधिपक्ष्यधर्मसेवनारतिः / एवं हि बोधिसत्वो धर्मारामरतिरतो भवति /

व्क्न् 3.65 अथ मारः पापीयांस् ता अप्सरस एतद् अवोचत्: आगच्छत / इदानीं गमिष्यामः स्वभवनम् इति /

ता एवम् आहुः: निर्यातिता इदानीं त्वया वयम् अस्मै गृहपतये / धर्मारामरतिरताभिर् अस्माभिर् इदानीं भवितव्यम्, न कामरतिरताभिः /

अथ मारः पापीयान् विमलकीर्तिं लिच्छविम् एवम् आह: निःसृज त्वं गृहपते इमा अप्सरसः / सर्वस्वपरित्यागिनो बोधिसत्वा महासत्वा भवन्ति /

विमलकीर्तिर् आह: अवसृष्टा भवन्तु / गच्छ पापीयन् / सर्वसत्वानां धार्मिका अभिप्रायाः परिपूर्यन्ताम् /

अथ ता अप्सरसो विमलकीर्तिं नमस्कृत्यैवम् आहुः: कथं वयं गृहपते मारभवने ऽवतिष्ठेम /

व्क्न् 3.66 आह: अस्ति भगिन्यः अक्षयप्रदीपं नाम धर्ममुखम् / तत्र प्रतिपद्यध्वम् / तत् पुनः कतमत् / तद्यथा भगिन्यः एकस्मात् तैलप्रदीपाद् दीपशतसहस्राण्य् आदीप्यन्ते / न च तस्य दीपस्य परिहाणिर् भवति / एवम् एव भगिन्यः एको बोधिसत्वो बहूनि सत्वशतसहस्राणि बोधौ प्रतिष्ठापयति / न च तस्य बोधिसत्वस्य चित्तस्मृतिर् हीयते, न परिहीयते, उत च वर्धते / एवं सर्वान् कुशलान् धर्मान् यथा यथा परेषाम् आरोचयति देशयति, तथा तथा विवर्धते सर्वैः कुशलैर् धर्मैः / इदं तद् अक्षयप्रदीपं नाम धर्ममुखम् / तत्र युष्माभिर् मारभवने स्थिताभिर् अपरिमाणानां देवपुत्राणाम् अप्सरसां च बोधिचित्तं रोचयितव्यम् / एवं यूयं तथागतस्य कृतज्ञा भविष्यथ / सर्वसत्वानां चोपजीव्या भविष्यथ /

व्क्न् 3.67 अथ ता अप्सरसो विमलकीर्तेर् लिच्छवेः पादौ शिरसा वन्दित्वा सार्धं मारेण प्रक्रान्ताः / इमे भगवन् विमलकीर्तेर् लिच्छवेर् विकुर्वणविशेषाः, यान् अहं नाज्ञासिषम् / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.68 तत्र भगवान् सुदत्तं श्रेष्ठिपुत्रम् आमन्त्रयते स्म: गच्छ त्वं कुलपुत्र विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

सुदत्तो ऽप्य् आह: नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन्: स्वके पैतृके निवेशने महायज्ञं यजामि / सर्वदरिद्रदुःखितेभ्यः सर्वश्रमणब्राह्मणकृपणवनीयकयाचनकेभ्यो दानं ददामि / सप्तदिवसान् महायज्ञं यजामि /

तत्र सप्तमे दिवसे विमलकीर्तिर् लिच्छविस् तां महायज्ञशालां प्रविश्य माम् एतद् अवोचत्: न श्रेष्ठिपुत्र एवं यज्ञो यष्टव्यो यथा त्वं यजसे / धर्मयज्ञस् ते यष्टव्यः / किं त आमिषयज्ञेन /

तम् अहम् एतद् अवोचम्: कथं पुनर् धर्मयज्ञो यष्टव्यः /

स माम् एवम् आह:

व्क्न् 3.69 येन धर्मयज्ञेनापूर्वाचरमं सर्वसत्वाः परिपाच्यन्ते, अयं धर्मयज्ञः / स पुनः कतमः / यद् इदं बोध्याकाराभिनिर्हृता महामैत्री, सद्धर्मसंग्रहाभिनिर्हृता महाकरुणा, सर्वसत्वप्रामोद्यारम्बनाभिनिर्हृता महामुदिता, ज्ञानसंग्रहाभिनिर्हृता महोपेक्षा,

व्क्न् 3.70 शान्तदान्ताभिनिर्हृता दानपारमिता, दुःशीलसत्वपरिपाचनाभिनिर्हृता शीलपारमिता, नैरात्म्यधर्माभिनिर्हृता क्षान्तिपारमिता, बोध्यङ्गाभिनिर्हृता वीर्यपारमिता, कायचित्तविवेकाभिनिर्हृता ध्यानपारमिता, सर्वज्ञज्ञानाभिनिर्हृता प्रज्ञापारमिता,

व्क्न् 3.71 सर्वसत्वपरिपाचनाभिनिर्हृता शून्यताभावना, संस्कृतपरिकर्माभिनिर्हृतानिमित्तभावना, संचिन्त्योपपत्त्यभिनिर्हृताप्रणिहितभावना,

व्क्न् 3.72 सद्धर्मपरिग्रहाभिनिर्हृतो बलपराक्रमः, संग्रहवस्त्व् अभिनिर्हृतं जीवितेन्द्रियम्, सर्वसत्वानां दासत्वशिष्यत्वाभिनिर्हृता निर्मानता, असारात् सारादानाभिनिर्हृतः कायजीवितभोगप्रतिलम्भः, षडनुस्मृत्यभिनिर्हृता स्मृतिः, संरञ्जनियधर्माभिनिर्हृतो ऽध्याशयः, सम्यक्प्रतिपत्त्यभिनिर्हृताजीवपरिशुद्धिः, प्रसादप्रामोद्यसेवनाभिनिर्हृतार्यपर्युपासना, अनार्येष्व् अप्रतिघाताभिनिर्हृता चित्तनिध्यप्तिः, प्रव्रज्याभिनिर्हृतो ऽध्याशयः, प्रतिपत्त्यभिनिर्हृतं श्रुतकौशलम्, अरणाधर्मप्रतिवेधाभिनिर्हृतो ऽरण्यवासः, बुद्धज्ञानसंप्रापणाभिनिर्हृतं संलयनम्, सर्वसत्वक्लेशमोचनयोगाभिनिर्हृता योगाचारभूमिः,

व्क्न् 3.73 लक्षणानुव्यञ्जनसंभाराभिनिर्हृतः सत्वपरिपाकः, बुद्धक्षेत्रालंकाराभिनिर्हृतः पुण्यसंभारः, सर्वसत्वचित्तचरितयथाशयधर्मदेशनाभिनिर्हृतो ज्ञानसंभारः, सर्वधर्मानायूहानिर्यूहैकनयज्ञनाभिनिर्हृतः प्रज्ञासंभारः, सर्वक्लेशसर्वावरणसर्वाकुशलधर्मप्रहाणाभिनिर्हृतः सर्वकुशलमूलसंभारः,

व्क्न् 3.74 सर्वज्ञज्ञानानुबोधनसर्वकुशलधर्माभिनिर्हृतः सर्वबोधिपक्ष्यधर्मसमुद्गमः /

अयं स कुलपुत्र धर्मयज्ञः, यत्र धर्मयज्ञे प्रतिष्ठिता बोधिसत्वा इष्टयज्ञयाजूका दक्षिणीया भवन्ति सदेवकस्य लोकस्य / एवं हि भगवन् तस्य गृहपतेर् निर्दिशतस् तस्या ब्राह्मणपर्षदो द्वयोर् ब्राह्मणशतयोर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि /

व्क्न् 3.75 अहं चाश्चर्यप्रसादप्रतिलब्धस् तस्य सत्पुरुषस्य चरणौ प्रणम्य शतसहस्रमूल्यं मुक्ताहारं कण्ठाद् अवतार्य ददामि / स तैः मुक्ताहारं न प्रतिगृह्णाति स्म / तम् अहम् एतद् अवोचम्: प्रतिगृह्येमम्, यत्र ते प्रसादो भवति तस्मै प्रयच्छेति /

तेन स मुक्ताहारो गृहीत्वा द्विधाकृतः / एको भागो यस् तत्र यज्ञशालायां सर्वलोकजुगुप्सितो नगरदरिद्रस् तस्मै दत्तः / द्वितीयश् च भागो दुष्प्रसहाय तथागताय दत्तः / यथा च सर्वा पर्षत् पश्यति तं च मरीचिं लोकधातुं तं च दुष्प्रसहं तथागतं तं च मुक्ताहारं दुष्प्रसहस्य मूर्धसंधौ मुक्ताहारकूटागारं प्रादुर्भूतं चित्रं दर्शनीयं चतुरस्रं चतुःस्थूणं समंभागशः सुविभक्तम् /

व्क्न् 3.76 स इदं प्रातिहार्यं संदर्श्येमां वाचम् अभाषत: यस्य दायकस्य दानपतेर् यादृशी तथागते दक्षिणीयसंज्ञा तादृशी नगरदरिद्रे निर्नानात्वेन समा, महाकरुणाचित्तेन विपाकाप्रतिकाङ्क्षणतया परित्यागः / इयं धर्मयज्ञस्य परिपूरिः /

व्क्न् 3.77 तत्रासौ नगरदरिद्र इदं प्रातिहार्यं दृष्ट्वा, इमं च धर्मनिर्देशं श्रुत्वा, अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति स्म / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

व्क्न् 3.78 इति हि सर्वे ते बोधिसत्वा महासत्वाः स्वकस्वकान् निर्देशान् निर्दिशन्ति स्म, ये चैषां तेन सत्पुरुषेण सार्धम् अन्तराकथासमुदाहारा अभूवन्, न चोत्सहन्ते गन्तुम् // //

श्रावकबोधिसत्वविसर्जनप्रश्नो नाम तृतीयः परिवर्तः //

व्क्न् 4.1 तत्र भगवान् मञ्जुश्रियं कुमारभूतम् आमन्त्रयते स्म: गच्छ त्वं मञ्जुश्रीः विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

मञ्जुश्रीर् अप्य् आह: किं चापि दुरासदो ऽसौ भगवन् विमलकीर्तिर् लिच्छविः, गम्भीरनयप्रतिभानप्रविष्टः, व्यस्तसमस्तवचननिर्हारकुशलः, अविष्ठितप्रतिभानः, अप्रतिमबुद्धिः सर्वसत्वेषु, सर्वबोधिसत्वक्रियासु निर्यातः, सर्वबोधिसत्वसर्वबुद्धगुह्यस्थानेषु सुप्रविष्टः, सर्वमारस्थानविवर्तनकुशलमहाभिज्ञाविक्रीडितः, अद्वयासंभेदधर्मधातुगोचरपरमपारमिप्राप्तः, एकव्यूहधर्मधात्वनन्ताकारव्यूहधर्मनिर्देशकः, सर्वसत्वेन्द्रियव्यूहसंप्रापणज्ञानकुशलः, उपायकौशल्यगतिंगतः, प्राप्तप्रश्नविनिश्चयः / स न शक्यो ऽल्पकेन संनाहेनाभिराधयितुम् / अथ च पुनर् गमिष्यामि बुद्धाधिष्ठानेन, तत्र यथाशक्ति यथाबलं निर्देक्ष्यामि /

व्क्न् 4.2 अथ ततः पर्षदस् तेषां बोधिसत्वानां तेषां च श्रावकाणां तेषां च शक्रब्रह्मलोकपालानां तेषां च देवपुत्राणाम् एतद् अभवत्: निश्चयेन तत्र महाधर्मश्रवणसांकथ्यं भविष्यति, यत्र मञ्जुश्रीः कुमारभूतः स च सत्पुरुष उभौ संलपिष्यतः / तत्राष्टौ च बोधिसत्वसहस्राणि पञ्चमात्राणि च श्रावकशतानि संबहुलाश् च शक्रब्रह्मलोकपालाः संबहुलानि च देवपुत्रशतसहस्राणि मञ्जुश्रियम् अनुबद्धानि धर्मश्रवणाय / अथ मञ्जुश्रीः कुमारभूतस् तैर् बोधिसत्वैर् महासत्वैस् तैश् च श्रावकैस् तैश् च शक्रब्रह्मलोकपालैर् देवपुत्रैश् च परिवृतो वैशालीं महानगरीं प्रविशति स्म /

व्क्न् 4.3 अथ विमलकीर्तेर् एतद् अभवत्: अयं मञ्जुश्रीः कुमारभूत आगच्छति महता परिवारेण / यन् न्व् अहं शून्यं गृहम् अधितिष्ठेयम् / तेन तं गृहं शून्यम् अधिष्ठितम् अपगतद्वारपालम् / न तत्र मञ्चा वा पीठा वासनानि वा संदृश्यन्ते ऽन्यत्रैकस्मान् मञ्चात्, यत्रात्मना ग्लानः समारूढः शयितः / व्क्न् 4.4 अथ मञ्जुश्रीः सपरिवारो येन विमलकीर्तेर् निवेशनं तेनोपसंक्रामत् / उपसंक्रम्य प्रविशति स्म / स तं गृहं शून्यम् अपश्यद् विगतद्वारपालम् / न चात्र मञ्चान् वा पीठान् वापश्यद् अन्यत्रैकमञ्चात्, यत्र विमलकीर्तिः शयितः / अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् अद्राक्षीत् / दृष्ट्वा च पुनर् एवम् आह: स्वागतं मञ्जुश्रियो ऽस्वागतं मञ्जुश्रियो ऽनागतस्यादृष्टश्रुतपूर्वस्य दर्शनम् /

मञ्जुश्रिर् आह: एवम् एतद् गृहपते यथा वदसि / य आगतो न स भूय आगमिष्यति / यश् च गतो न स भूयो गमिष्यति / तत् कस्माद् धेतोः / न चागतस्यागमनं प्रज्ञायते, न च गतस्य गमनम्, यश् च दृष्टो न भूयो द्रष्टव्यः /

व्क्न् 4.5 अपि तु कच्चित् ते सत्पुरुष क्षपणीयम्, कच्चिद् यापनीयम्, कच्चिद् वातेन प्रतिकुप्यन्ति धातवः, कच्चिद् अपगच्छति व्याधिर् न विवर्धते / भगवांस् ते ऽल्पाबाधतां परिपृच्छति, अल्पातङ्कतां चाल्पग्लान्यतां च लघूत्थानतां च यत्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च /

व्क्न् 4.6 कुत्र ते गृहपते इदं व्याधिसमुत्थानम् / कियच्चिरम् उपादाय ते व्याधिः / कदा चोपशमिष्यति /

विमलकिर्तिर् आह: यावच्चिरम् उपादाय मञ्जुश्रीः अविद्या भवतृष्णा च तावच्चिरम् उपादाय ममैष व्याधिः / यदा च सर्वसत्वा विगतव्याधयो भविष्यन्ति तदा मम व्याधिः प्रश्रब्धो भविष्यति / तत् कस्माद् धेतोः / सत्वाधिष्ठानो हि मञ्जुश्रीः बोधिसत्वस्य संसारः / संसारनिश्रितश् च व्याधिः / यदा सर्वसत्वा विगतव्याधयो भविष्यन्ति तदा बोधिसत्वो ऽरोगो भविष्यति /

व्क्न् 4.7 तद्यथा मञ्जुश्रीः श्रेष्ठिन एकपुत्रको ग्लानो भवेत् / तस्य मातापितराव् अपि ग्लानौ स्याताम् / तावच् च दुःखितौ भवेतां यावन् नासाव् एकपुत्रकस् तयोर् विगतव्याधिः स्यात् / एवं मञ्जुश्रीः बोधिसत्वस्य सर्वसत्वेष्व् एकपुत्रकप्रेम / स सत्वग्लान्येन ग्लानो भवति, सत्वारोग्यात् त्व् अरोगः / यत् पुनर् मञ्जुश्रिः एवं वदसि ः कुतः समुत्थितो व्याधिर् इति, महाकरुणासमुत्थितो बोधिसत्वानां व्याधिः /

व्क्न् 4.8 मञ्जुश्रीर् आह: शून्यं ते गृहपते गृहम् / न च ते कश्चिद् उपस्थायकः /

आह: सर्वबुद्धक्षेत्राण्य् अपि मञ्जुश्रिः शून्यानि /

आह: केन शून्यानि /

आह: शून्यतया शून्यानि /

आह: शून्यतायाः का शून्यता /

आह: अपरिकल्पनाश् च शून्यतायाः शून्यताः /

आह: शक्या पुनः शून्यता परिकल्पयितुम् /

आह: येनापि परिकल्प्येत तद् अपि शून्यम् / न च शून्यता शून्यतां परिकल्पयति /

आह: शून्यता गृहपते कुतो मार्गितव्या /

आह: शून्यता मञ्जुश्रीः द्वाषष्टिभ्यो दृष्टिगतेभ्यो मार्गितव्या /

आह: द्वाषष्टिः पुनर् दृष्टिगतानि कुतो मार्गितव्यानि /

आह: तथागतविमुक्तितो मार्गितव्यानि /

आह: तथागतविमुक्तिः पुनः कुतो मार्गितव्या /

आह: सर्वसत्वचित्तचरितेभ्यो मार्गितव्या / यत् पुनर् मञ्जुश्रीः एवं वदसि ः कस् त उपस्थायक इति / सर्वमाराः सर्वपरप्रवादिनश् च ममोपस्थायकाः / तत् कस्माद् धेतोः / मारा हि संसारस्य वर्णवादिनः / संसारश् च बोधिसत्वस्योपस्थायकः / परप्रवादिनो दृष्टिगतानां वर्णवादिनः / बोधिसत्वश् च सर्वदृष्टिगतेभ्यो न चलति / तस्मात् सर्वमाराः सर्वपरप्रवादिनश् च ममोपस्थायकाः /

व्क्न् 4.9 मञ्जुश्रीर् आह: किदृशो ऽयं ते गृहपते व्याधिः /

आह: अदृश्यो ऽनिदर्शनः /

आह: किम् एष व्याधिः कायसंप्रयुक्त उत चित्तसंप्रयुक्तः /

आह: न कायसंप्रयुक्तः कायविविक्ततया / न चित्तसंप्रयुक्तो मायाधर्मतया चित्तस्य /

आह: चत्वार इमे गृहपते धातवः / कतमे चत्वारः, यद् उत पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् इति / तत् कतमस् तत्र धातुर् बाधते /

आह: य एवं धातुको मञ्जुश्रीः सर्वसत्वानां व्याधिस् तेनाहं व्याधितः /

व्क्न् 4.10 अपि तु खलु पुनर् मञ्जुश्रीः कथं बोधिसत्वेन ग्लानको बोधिसत्वः प्रतिसंमोदितव्यः /

मञ्जुश्रीर् आह: कायानित्यतया न च निर्विद्विरागतया, कायदुःखतया न च निर्वाणाभिनन्दनतया, कायानात्मतया सत्वपरिपाचनतया च, कायशान्ततया न चात्यन्तशमतया, सर्वदुश्चरितदेशनतया न च संक्रान्तितः, स्वग्लान्येन परसत्वग्लानकरुणतया, पूर्वान्तकोटीदुःखानुस्मरणतया, सत्वार्थक्रियानुस्मरणतया, कुशलमूलाभिमुखीकरणतया, आदिविशुद्धतया, अपरितर्षणतया, सदावीर्यारंभाच् च, वैद्यराजो भविष्यसि सर्वव्याधीनां शमयितेति / एवं बोधिसत्वेन बोधिसत्वो ग्लानः प्रतिसंमोदितव्यः /

व्क्न् 4.11 मञ्जुश्रीर् आह: कथं कुलपुत्र बोधिसत्वेन ग्लानेन स्वचित्तं निध्यपयितव्यम् /

विमलकीर्तिर् आह: इह मञ्जुश्रीः बोधिसत्वेन ग्लानेनैवं स्वचित्तं निध्यपयितव्यम् / पूर्वान्तासद्विपर्यासकर्मसमुत्थानसमुत्थितो ऽयं व्याधिर् अभूतपरिकल्पक्लेशसमुत्थितः / न पुनर् अत्र कश्चित् परमार्थतो धर्म उपलभ्यते यस्यैष व्याधिः / तत् कस्माद् धेतोः / चातुर्महाभौतिको ऽयं समुच्छ्रयः / न चैषां धातूनां कश्चित् स्वामी न समुत्थापयिता / अनात्मा ह्य् अयं समुच्छ्रयः / यो ऽयं व्याधिर् नाम नायं परमार्थत उपलभ्यते, अन्यत्रात्माभिनिवेशात् / उत नात्मन्य् अभिविनिष्टा विहरिष्यामो व्याधिमूलपरिज्ञाताविनः / तेनात्मसंज्ञां विष्ठाप्य धर्मसंज्ञोत्पादयितव्या / धर्मसंघातो ऽयं कायः / धर्मा एवोत्पद्यमाना उत्पद्यन्ते / धर्मा एव निरुध्यमाना निरुध्यन्ते / ते च धर्माः परस्परं न चेतयन्ति न जानन्ति / न च तेषाम् उत्पद्यमानानाम् एवं भवत्य् उत्पद्यामह इति / न निरुध्यमानानाम् एवं भवति निरुध्यामह इति /

व्क्न् 4.12 तेन धर्मसंज्ञाया एवं चित्तम् उत्पादयितव्यम् / याप्य् एषा धर्मसंज्ञा सो ऽपि विपर्यासः / विपर्यासश् च महाव्याधिः / विगतव्याधिकेन च मया भवितव्यम् / व्याधिप्रहाणाय च योगः करणीयः / तत्र कतमद् व्याधिप्रहाणम्, यद् इदम् अहंकारममकारप्रहाणम् / तच् च कतमद् अहंकारममकारप्रहाणम्, यद् इदं द्वयविगमः / तत्र कतमो द्वयविगमः, यद् इदम् अध्यात्मं बहिर्धा च समुदाचारः / तत्र कतमो ऽध्यात्मं बहिर्धा समुदाचारः, यद् उत समतयाचलनताप्रचलनता / कतमा च समता / आत्मसमतया च निर्वाणसमता / तत् कस्माद् धेतोः / उभे ऽप्य् एते शून्ये, यद् उतात्मा निर्वाणं च / केनैते शून्ये / नामोदाहारेणैते शून्ये / उभाव् अप्य् एताव् अपरिनिष्पन्नौ, यद् उतात्मा निर्वाणं च / तेन समदर्शिना नान्यो व्याधिर् नान्या शून्यता कर्तव्या / व्याधिर् एव शून्यता /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.