Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

विमलकीर्तिनिर्देशसूत्र

Thông tin
GRETIL — L.M. Joshi and Bhiksu Pasadika: Vimalakīrtinirdeśa sūtram. Sarnath : Central Institute of Higher Tibetan Studies, 1981. (Reconstructed Version).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

विमलकीर्तिनिर्देशसूत्र

आर्यविमलकीर्तिनिर्देशो नाम महायानसूत्रम्

1. बुद्धक्षेत्रपरिशुद्धिनिदानम् नमः सर्वातीतप्रत्युत्पन्नानागतेभ्यो बुद्धबोधि- सत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यः /

एवं मया श्रुतम्- एअकस्मिन् समये भगवान् वैशाल्यां विहरति स्म आम्रपालीवने महता भिक्षुसंघेन सार्धम् अष्टाभिर्भिक्षुसहस्रैः, सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सभ्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैः /

द्वात्रिंशदा च बोधिसत्त्वसहस्त्रैः सार्धम्- अभिज्ञानाभिज्ञातैर्बोधिसत्त्वैर्महाभिज्ञापरिकर्मनिर्यातैर्बुद्धाधिष्ठानाधिष्ठितैर्धर्मनगरपालैः सद्धर्मपरिग्राहकैर्महासिंहनादिभिर्दशदिक्षु सुगर्जितनादैरनध्येषितं सर्वसत्त्वानाम् कल्याणमित्रभूतैस्त्रिरत्नगोत्रानाच्छेद्यकारिभिर्निबृतमारप्रत्यर्थिकैः सर्वपरप्रवाद्यनभिभूतैः स्मृतिबुद्ध्यवबोधसमाधिधारणीप्रतिभानसम्पन्नैः सर्वावरणपर्युत्थानविगतैरनावरणविमोक्ष उपस्थितैरनाच्छेद्यप्रतिभानैर्दानदमनियमसंयमशीलक्षान्तिवीर्यध्यानप्रज्ञोपायकौशल्यप्रणिधानबलज्ञानपारमितानिर्यातैरनुपलब्धिधर्मक्षान्तिसमन्वागतैरवैवर्तिकधर्मचक्रप्रवर्तयद्भिरलक्षणमुद्रामुद्रितैः सर्वसत्त्वेन्द्रियज्ञानकुशलैः सर्वपर्षदनभिभूतस्य बैशारद्येन बिक्रामिभिर्महापुण्यज्ञानसंभारसंचितवद्भिः सर्वलक्षणानुव्यंजनालंकृतकायैर्वरिष्ठरूपधारिभिश्चालंकारापगतैः सुमेरून्नतशिखर इव यशःकीर्त्यभ्युद्गतैर्वज्रदृढाध्याशयेन बुद्धधर्मसंघे ऽभेद्यश्रद्धाप्रतिलब्धैर्धर्मरत्नरश्म्यामृतवृष्टिं सुप्रवर्षयद्भिः सर्वसत्त्वानां शब्दवागंगस्वरशब्दविशुद्ध्युपेतस्वरैर्गम्भीरधर्मप्रतीत्यसमुत्पादे प्रतिपद्यान्तानन्तदृष्टिवासनानां संधिसमन्तच्छेदैर्निर्भयसिंहसदृशैर्घोषाभिनिर्नादिभिर्महाधर्ममेघस्वरनादिभिः समविसमधर्मसमतिक्रान्तैर्धर्मरत्नस्य प्रज्ञापुण्यसंभारसमुदागमस्य महासार्थवाहैः; उत्थापनस्य च शान्तसूक्ष्मश्लक्ष्णस्य च दुर्दृशस्य दुरवगाह्यस्य धर्मस्य नये विचक्षणैः; सर्वसत्त्वागमनिर्गमसत्त्वाशयगत्यनुप्रवेश ज्ञानविषयसमर्पितैः;

असमसमबुद्धज्ञाने ऽभिषेकेणाभिषिक्तैर्दशबल वैशारद्य आवेणिकबुद्धधर्मे(ष्व-) अध्याशयेन प्रतिपन्नैः; सर्वापायभैरवदुर्गति बिनिपातभयस्य परिखाया उत्तीर्य, संचिन्त्य सम्भवस्य गत्युत्पत्तिदेशिकैर्महावैद्यराजैः सर्वसत्त्वविनयस्य विधिविद्वद्भिः सर्वसत्त्वानां सर्वक्लेशरोगावबोधैः; यथायोगं धर्मभैषज्ययुक्तिसुप्रयुक्तवद्भिर्गुणानन्त् आकरसमर्पितैरनन्तबुद्धक्षेत्राणि गुणव्यूहेन स्वालंकृतवद्भिरमोघदर्शनश्रवणैरबन्ध्यपादोत्सर्गैः; कोटिनयुतशतसहस्राप्रमेयकल्पे(ष्व-)पि गुणान् परिवर्णयेत्, गुणौघो ऽनन्तो ऽधिगतः /

तद्यथा-

समदर्शिनाम बोधिसत्त्वेन च समासमदर्शिना च समाधिविकुर्वितराजेन च धर्मेश्वरेण च धर्मकेतुना च प्रभाकेतुना च प्रभाव्यूहेन च रत्नव्यूहेन च महाव्यूहेन च प्रतिभानकूटेन च रत्नकूटेन च रत्नपाणिना च रत्नमुद्राहस्तेन च नित्यप्रलम्बहस्तेन च नित्योत्क्षिप्तहस्तेन च नित्यतपसा च नित्यनन्दहासेन्द्रियेण च प्रामोद्यराजेन च देवराजेन च प्रणिधानव्यसनानुप्राप्तेन प्रतिसंवित्प्रसाधनप्राप्तेन च गगनगंजेन च रत्नप्रदीपधरेण च रत्नवीरेण च रत्ननन्दिना च रत्नश्रिया चेन्द्रजालेन च जालिनीप्रभेण चानुपलब्धिध्यानेन च प्रज्ञाकूटेन च रत्नमुक्तेन च मारहन्त्रा च विद्युद्देवेन च बिकुर्वणराजेन च निमित्तकूटसमतिक्रान्तेन च सिंहगर्जिताभ्यवघोषणस्वरेण च गिर्यग्रसमुद्घातराजेन च गन्धहस्तिना च गन्धकुंजरनागेन च नित्योद्युक्तेन चानिक्षिप्तधुरेण च प्रमतिना च सुन्दरजातेन च पद्मश्रीगर्भेण पद्मव्यूहेन चावलोकितेश्वरेण च महास्थामप्राप्तेन च ब्रह्ममजालकेन च रत्नश्वेतासनेन च मारजिता च समक्षेत्रालङ्कारेण च मणिरत्नच्छत्रेण च मणिचूडेन च मैत्रेयेण च मञ्जुश्रीकुमारभूतेन च तैरित्यादिभिर्द्वात्रिंशदा बोधिसत्त्वसहस्रैः (सार्धम्)

चतुष्क महाद्विपाशोक-(नाम)-नामलोकधातोर्ब्रह्मशिख्यादयो दशसहस्रम् ब्रह्मणां भगवतो दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय चागताः / ते ऽपि तस्यां पर्षद्येव संनिपतिताः / नानाचतुष्कमहाद्वीप्(एभ्यो) ऽपि द्वादशसहस्रं शक्राणाम् आगतम् / ते ऽपि तस्यां पर्षद्येव संनिपतिताअः / एवम् अन्यच्च महेशाख्यमहेशाख्या ब्रह्मा कौशिकश्च लोकपालदेवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगा अपि तस्यां पर्षद्येव संनिपतिता अभूवन् / एवमेव चतुष्परिषद् भिक्षुभिक्षुण्युपासकोपासिका अपि तत्र संनिपतिता आसुः /

अथ भगवांश्रीगर्भे सिंहासने निषण्णो ऽनेकशतसहस्रपर्षदा परिवृतः पुरस्कृतो धर्म देशयति स्म / सुमेरूरिव पर्वतराजः समुद्राभ्युद्गतः सर्वाः पर्षदो ऽभिभूय भासते तपति विरोचते स्म श्रीगर्भे सिहासने निषण्णः /

ततो लिच्छविकुमारो रत्नाकरो बोधिसत्वो लिच्छविकुमाराणाम् पञ्चशतमात्रञ्च सप्तरत्नच्छत्रं समादाय, वैशाल्या महानगर्या निश्वर्य, येनाम्रपालीवनंच येन भववांस्तेनोपसंक्रान्ताअः / उपसंक्रम्य भगवतः पादयोअः शिरसा वन्दित्वा, भगवति सप्तकृत्वः प्रदक्षिणीकृत्य ते रत्नच्छत्रं यथा धारिणो भगवन्तम् अभित्रायन्ते स्म / अभिपालयित्वैकान्ते स्थुअः /

तानि निर्यातितानि रत्नच्छत्राणि समनन्तरं सद्यो बुद्धानुभावेनैकीभूत्वा, तेन रत्नच्छत्रेणायं सर्वत्रिसाहस्रमहासाहस्रलोकधातुअः संछादितः प्रतिभाति स्म / स त्रिसाहस्रमहासाहस्रलोकधातुपरिणाहश्व तस्यैव महारत्नच्छत्रस्य मध्ये प्रभासितो(ऽभूत्) (ये) ऽस्मिन् त्रिसाहस्रमहासाहस्रलोकधातौ केचन(पर्वताः)- स्युअः सुमेरुः पर्वतराजश्व हिमवन्तपर्वतश्च मुचिलिन्दपर्वतश्व महामुचिलिन्द पर्वतश्च गन्धमादनश्च रत्नपर्वतच्च कालपर्वतश्च चक्रवाडश्च महाचक्रवाडश्च- सर्वे ते ऽपि तस्यैव महारत्नच्छत्रस्य मध्ये प्रभासिता(अभूवन्) / यदस्मिन् त्रिसाहस्रमहासाहस्रलोकधातौ किंचिज् (जल) स्यात् महासमुद्रसरस्तडागपुष्करणीनदीकुनदीपल्वलनिम्नं- सर्वम् तदपि तस्यैव महारत्नच्छत्रस्य मध्ये प्रभासितम् (अभूत्) / अस्मिन् त्रिसाहस्रमहासाहस्रलोकधातावादित्यचन्द्रविमानाश्व तारकारूपाणि देवभवनानि च नागपुराणि च यक्षगन्धर्वासुरगरुडकिंनरमहोरगावासाश्व चतुर्महाराजप्रासादाश्व ग्रामनगरनिगमराष्ट्रराजधान्यो यावतकाः स्युः; सर्वास्ता अपि तस्यैवैकाकिनो महारत्नच्छत्रस्याभासं गच्छन्ति स्म / दशदिग्लोके भगवताम् बुद्धानां या धर्मदेशनोत्पन्ना, सापि तस्मादेकाकिनो महारत्नछत्रान् निर्गते स्वरे नदति स्म /

अथ भगवतो ऽस्मिन् एवं रूपे महाप्रातिहार्ये दृष्टे, सा सर्वावती पर्षदाश्चर्यप्राप्ताभूत् / तुष्टोदग्रात्तमनाः प्रमुदिता प्रीतिसौमनस्यजाता तथागतम् अभिवन्द्यानिमिषाभ्यां नेत्राभ्यां पश्यत्यस्थात् /

ततो रत्नाकरो लिच्छविकुमारो भगवत इदं एवं रूपं महाप्रातिहार्य दृष्ट्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस्तेनांजलिं प्रणम्य, भगवन्तम् आभिर्गाथाभिरभ्यनन्दत्-

"विशालनेत्र शुद्धरुचिरपद्मदलवत् / शुभाभिप्राय शमथपारगत परमप्राप्त // कुशलकर्माचितवनप्रमेयगुणसागर / नमस्तुभ्यं श्रमणाय शान्तिमार्गसंनिश्रिताय // पुरुषवृषभस्य यूयन्नायकस्यर्द्धिविधिम् पश्यत / सुगतस्य सर्वाण्यपि क्षेत्राणि प्रवरव्यक्तानि दृश्यन्ते // तव धर्मकथोदारामृतगा / तानि सर्वाण्यस्मिन् गगनतले दृश्यन्ते // तवोत्तमधर्मराज्यम् इदम्, धर्मराज / जिनेन च जगद्भयो धर्मधनम् प्रदलितम् // धर्मप्रभेदनविज्ञाय परमार्थसंदर्शकाय / धर्मेश्वराय धर्मराजाय तुभ्यं शिरसा नमः // ऽअस्तिनास्त्य पगताः सर्व इमे धर्मा हेतून् प्रतीत्यसमुत्पन्नाः / एष्वात्मवेदककारका न सन्ति / कुशलपापकर्म किंचिदविप्रणाशम्ऽ इति वचनेनोपदर्शयसि // त्वया मुनीन्द्र, मारातिबलबलं संजित्य / परमप्रशान्तबोध्यमरणक्षेमं प्राप्तम् // तत्तत्र निर्वेदनचित्तमनो ऽप्रचारैअः / सर्वतीर्थिककुगणैरज्ञातम् // अद्भुतं धर्मराजदेवमनुष्याणामभिमुखम् / त्रिपरिवर्त बह्वाकारं प्रशान्तस्वभावविशुद्धं धर्मचक्रं प्रवर्तयसि / तदनन्तरं त्रिरत्नम् उपदिश्यते // ये धर्मरत्नेन सुविनीताः / ते ऽवितर्का नित्यप्रशान्ताः // त्वं हि जातिजरामरणान्तगो वैद्यो वरः / अप्रमेयगुणसागराय शिरसा नमः //

सत्कारसुकृतैस्सुमेरुरिवाप्रकम्प्यः / शीलवत्सु च दुःशीलेषु च समम् मैत्री // समतासंप्रस्थितो मनश्वाकाशवत् / अस्मै सत्त्वरत्नाय कुर्यात् पूजान्न कः? महामुने इमा हि पर्षदः संनिपतिताः / तव मुखं सुप्रसादमनसा प्रेक्षन्ते // सर्वैरपि जिनः स्वाभिमुखे दृष्टः / तद्ध्रुवम् जिनस्यावेणिकबुद्धलक्षणम् // भगवत एकवाक् प्रवर्तिता, परं तु (सा) / पर्षद्भिर्नानावाक्षु विज्ञायते // विज्ञायते सर्वजगता स्वकार्थो यथा / तद्ध्रुवम् जिनस्यावेणिकबुद्धलक्षणम् // तेनैकवाक्स्ववघोषणकार्येण / केचित् वासनापरिभाविताः केचित् प्रतिपन्नः // (या) विमत्याकांक्षाः, ता नायकः प्रतिप्रस्रभ्भयति म / तद्ध्रुवम् जिनस्यावेणिकबुद्धलक्षणम् // दशबलनायकविक्रामिणे तुभ्यं नमः / नमस्ते ऽभयाय भयविप्रमुक्ताय // आवेणिकधर्मानवस्यं सुप्रतिपन्नाय / सर्वजगन्नेत्रे तुभ्यं नमः / नमः सर्वसंयोजनबन्धनच्छेदकाय // पारगताय स्थलस्थिताय नमः / खिन्नजगत्तारकाय तुभ्यं नमः / नमः संसारप्रबृत्त्याम् अप्रतिष्ठिताय // सत्त्वगतिसंप्रस्थितः सर्वसहचरः / परं तु (ते) सर्वगतिविमुक्तमनः // परिशुद्धपद्ममुदके जातमुदकेन पर्यनुपलिप्तम् / मुनिपद्मेन शून्यता भाविता ध्रुवम् // सर्वाकारनिमित्तानि संप्रवान्तानि / त्वं कस्मिंश्वित् प्रणिधानकारी नासि // परिशुद्धस्य बुद्धस्य महानुभावो ऽचिन्त्यः / आकाशसदृशम् अप्रतिष्ठितं वन्दाम्यहम्" //

अथ भगवन्तं ताभिर्गाथाभिरभिनन्द्य, रत्नाकरेण लिच्छविकुमारेण भगवन्तम् एवमुक्तम्- "भगवन्, एभ्यो लिच्छविकुमारेभ्यः पंचशतमात्रेभ्यः सर्वेभ्यो ऽनुत्तरसम्यक् संबोध्यां संप्रतिपन्नेभ्यो ऽबोधिसत्त्वानां परिशुद्धं बुद्धक्षेत्रं किम्ऽ- इति परिशुद्धं बुद्धक्षेत्रं पृच्छद्भ्यो भगवता तथागतेनैभ्यो बोधिसत्त्वेभ्यः परिशुद्धं बुद्धक्षेत्रं सूक्तम् देशितं स्यात् /

एवमुक्ते, भगवान् रत्नाकराय लिच्छविकुमाराय साधुकारम् अदात्- "साधु साधु कुमार / साधु (यथा) त्वं परिशुद्दं बुद्धक्षेत्रम् आरभ्य, तथागतम् पृच्छसि / तेन हि कुमार त्वं शृणु साधु च सुष्ठु च मनसि कुरु / बोधिसत्त्वानाम् परिशुद्धं बुद्ध क्षेत्रम् आरभ्य भाषिष्येहं ते" / -"साधु भगवन्" / -इत्युक्त्वा लिच्छविकुमारो रत्नाकरश्व पंचमात्राणि लिच्छविकुमारशतानि भगवते प्रत्यश्रौषुअः /

भगवांस्तानेवम् आमन्त्रयते स्म- "कुलपुत्र (/), सत्त्वक्षेत्रः हि बोधिसत्त्वस्य बुद्धक्षेत्रम् / तत्कस्य हेतोअः? यावद्बोधिसत्त्वः सत्त्वानुपबृंहयति तावद्बुद्धक्षेत्रस्य परिग्राहकः / ईदृशस्य बुद्धक्षेत्रस्य परिग्राहको यथा सत्त्वा विनीता भवन्ति / बुद्धक्षेत्रप्रवेशं यथा सत्त्वा बुद्धज्ञानप्रवेशं गच्छन्त्येवं रूपं बुद्धक्षेत्रम् परिगृह्णाति / एवं रुपं बुद्धक्षेत्रम् परिगृह्णाति यथा बुद्धक्षेत्रप्रवेशम्- आर्यजातेन्द्रियोत्पादं सत्त्वा गच्छन्ति / तत् कस्य हेतोः? कुलपुत्राः, बोधिसत्त्वानां बुद्धक्षेत्रं हि सत्त्वार्थक्रियोत्पत्तिहेतोअः / रत्नाकर, तद्यथा- आकाशसमे किचित् कर्तुकामस्तथा कुर्यात् किंचाप्याकाशे हि करणे चालंकारे च तथा न युज्यते / रत्नाकर सर्वधर्मान् आकाशमान् ज्ञात्वा, बोधिसत्वो यथा सत्त्वपरिपाचनार्थाय बुद्धक्षेत्रं कर्तुकामस्तथा बुद्धक्षेत्रं कुर्यात् किंचापि बुद्धक्षेत्रम् आकाशे हि करणे न युज्यते, अलंकारे न युज्यते /

"रत्नाकर, अथ चाशयक्षेत्रं हि बिधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे शाठ्यमायापगताः सत्त्वा उपपत्स्यन्ते / कुलपुत्र, अध्याशयक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वकुशलमूलसंभारोपचितवन्तः सत्त्वा उपपत्स्यन्ते / प्रयोगक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वकुशलधर्मोपस्थिताः सत्त्वा उपपत्स्यन्ते / बोधिसत्त्वस्योदारचित्तोत्पादो बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्रे महायानांप्रस्थिताः सत्त्वा उपपत्स्यन्ते / दानक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वस्वपरित्यागिनस्सत्त्वा उपपत्स्यन्ते / शीलक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्र सर्वाशयसहगता दशकुशलकर्मपथपरिरक्षन्तः सत्त्वा उपपत्स्यन्ते / क्षान्तिक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे द्वात्रिंशल्लक्षणलंकृताः क्षान्तिदमपरमशमथपारमिताः सत्त्वा उपपत्स्यन्ते / वीर्यक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वकुशलधर्मेष्वारब्धवीर्याः सत्त्वा उपपत्स्यन्ते / ध्यानक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्रे स्मृतिसंप्रजन्यसमाहिताः सत्त्वा उपत्स्यन्ते; प्रज्ञाक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सम्यक्त्वनियतसत्त्वा उपपत्स्यन्ते / चत्वार्यप्रमाणानि हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे मैत्रीकरुणामुदितोपेक्षाविहारिणस्सत्त्वा उपपत्स्यन्ते /

चत्वारि संग्रहवस्तूनि हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वविमुक्तिपरिगृहीताः सत्त्वा उपपत्स्यन्ते / उपायकौशल्यं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वोपायचर्याविचक्षणाः सत्त्वा उपपत्स्यन्ते / सप्तत्रिशद्बोधिपक्ष्यधर्मा हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्रे स्मृत्युपस्थानसम्यक्प्रधानर्द्धिपादेन्द्रियबलबोध्यंगमार्गप्रतिपत्तिज्ञाः सत्त्वाउपपत्स्यन्ते / परिणामना चित्तं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वगुणालंकारा आविर्भवन्ति / अष्टाक्षणप्रशान्त्युपदेशो हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वापाया अत्यन्तसमुच्छिन्नाः; अष्टाक्षणा अपगता भवन्ति / प्रत्यात्मशिक्षापदस्थितिश्व परस्यापच्यनालापो हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्र आपत्तिशब्दो ऽपि तु न नद्यते / दशकुशलकर्मपथपरिशुद्धिर्हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे ध्रुवायुर्महाभोगब्रह्मचर्यसत्यानुवर्तनवचनालंकार- मञ्जुवाक्याभेद्यपर्षन्निर्भिन्निनिवेशनकौशल्येर्ष्या- विप्रयोगाव्यापादचित्तसम्यग्दृष्टिसमन्वागताः सत्त्वा उपपत्स्यन्ते /

"एवं, हि कुलपुत्र, यादृशो बोधिसत्त्वस्य बोधिचित्तोत्पादस्तादृशो ऽप्याशयः / यादृश आशयस्तादृशो ऽपि प्रयोगः / यावत् प्रयोगस्तावच्चाध्याशयः / तावदध्याशयस्तावच्च निध्यप्तिअः / यावन्निध्यप्तिअतावच्च प्रतिपत्तिअः / यावत् प्रतिपत्तिस्तावच्च परिणामना / यावत् परिणामना तावच्चोपायाः / यावदुपायास् तावच्च परिशुद्धक्षेत्रम् / यथा परिशुद्धक्षेत्रम्, परिशुद्धसत्त्वास्तथा / यथा परिशुद्धसत्त्वास्तथापि परिशुद्धज्ञानम् / परिशुद्धज्ञानं यथा, तथापि परिशुद्धशासनम् / यथा परिशुद्धशासनं, तथा च परिशुद्धज्ञानसाधनम् परिशुद्धज्ञानसाधनं यथा, तथा पुनः परिशुद्धस्वचित्तम् /

:तस्मात्, कुलपुत्र, बोधिसत्त्वेन बुद्धक्षेत्रपरिशुद्धनिश्विकीर्षया स्वचित्तपर्यवदापनाय प्रयत्तव्यम् / तत् कस्य हेतोः? यथा बोधिसत्त्वस्य चित्तं परिशुद्धम्, तादृशे बुद्धक्षेत्रम् परिशुद्धम् भवति" /

ततो बुद्धानुभावेनायुष्मतः शारिपुत्रस्यैतदभूत्- ऽयदि यथा चित्तं परिशुद्धम्, तादृशे बोधिसत्त्वस्य बुद्धक्षेत्रम् परिशुद्धं भवेत्, भगवतः शाक्यमुनेर्बोधिसत्त्वचर्या चरतः, तस्य चित्तन्न परिशुद्धं किम्, यथा बुद्धक्षेत्रम् एवं रुपम् परिशुद्धन्न दृश्यतेऽ?- तस्यैतदभूत् /

अथ भगवानायुष्मतः शारिपुत्रस्य चेतसैव चेतः परिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रमेतदवोचत्- "शारिपुत्र, तत् किं मन्यसे? सूर्यश्व चन्द्रः किन्न परिशुद्धौ, यथा जात्यन्धैर्न दृश्येते?"- अब्रवीत्- "नो हीदं, भगवन् / तैर्जात्यन्धैर्दुष्कृतम्, न तु सूर्येण च चन्द्रेण हि दुष्कृतम्" / -अवोचत्- "तथा हि, शारिपुत्र, केनचित् सत्त्वेन तथागतस्य बुद्धक्षेत्रगुणालङ्कारव्यूहो न दृश्यते, स सत्त्वाज्ञानेन हि दोषः, न तु तथागतेन तस्मिन् दोषः / तथागतस्य बुद्धक्षेत्रं हि परिशुद्धम्, किं तु त्वया तन्न दृश्यते" /

ततो ब्रह्मा शिख्यायुष्मन्तं शारिपुत्रमेवमब्रवीत्- "भदन्त शारिपुत्र, तथागतस्य बुद्धक्षेत्रन्न परिशुद्धम्ऽ इति मा ब्रवीः / भदन्त शारिपुत्र, परिशुद्धं भगवतो बुद्धक्षेत्रम्; तद् यथा- परनिर्मितवशर्तिदेवानाम्, भदन्त शारिपुत्र, आवासव्यूहो यथा, भगवतः शाक्यमुनेर्बुद्धक्षेत्रव्यूहो ऽपि मयेदृशो दृश्यते"

ततः शारिपुत्रः स्थविरो ब्रह्माणं शिखिनमेवमब्रवीत् / "ब्रह्मन्, अहं त्विमां महापृथिवीमुत्कूलनिकूलकण्टकप्रपातशिखरश्वभ्रगूथोडिगल्ल प्राकीर्णाम् पश्यामि" /

ब्रह्मा शिख्यब्रवीत- "तथा हीदृशं बुद्धक्षेत्रं परिशुद्धन्न दृश्यते / भदन्त शारिपुत्र, उत्कूले निकूले चित्ते बुद्धज्ञानायाशयो नियतमपरिशुद्धः / येभ्यः केभ्यश्वित्, भदन्त शारिपुत्र, सत्त्वेषु समचित्तता च बुद्धज्ञानायाशयः परिशुद्धस्तैर्हीदं बुद्धक्षेत्रम् परिशुद्धं दृश्यते" /

अथ भगवानिमं त्रिसाहस्रमहासाहस्रलोकधातुम् पादाङ्गुष्ठेनाहन्ति स्म / समनन्तरहतो ऽयं लोकधातुरनेकरत्नकूटमनेकरत्नशतसहस्रसंभारो ऽनेकरत्नशतसहस्रप्रतिव्यूहो भूतस्तद् यथा- रत्नव्यूहस्य तथागतस्यानन्तगुणरत्नव्यूहो लोकधातुरिव, अयं च लोकधातुस्तादृशः / ततः सापि सर्वावती परिषदाश्वर्यप्राप्ता रत्नपद्मव्यूहासन आत्मानमपि च निषण्णाम् चिन्तां करोति स्म /

अथ भगवानायुष्मन्तं शारिपुत्रमवोचत्- "ननु त्वं, शारिपुत्र, इमं बुद्धक्षेत्रगुणव्यूहं पश्यसि?" अब्रवीत्- "ध्रुवम् पश्यामि, भगवन् / सन्दृश्यन्त इमे ऽदृष्टाश्रुतपूर्वा व्यूहाः" / अभाषत- "शारिपुत्र, इदं हि बुद्धक्षेत्रन्नित्यमीदृशम्, कि तु हीनसत्त्वपरिपाचनार्थाय तथागतो बुद्धक्षेत्रेमेवं बहुदोषदुष्टं देशयति / शारिपुत्र, तद्यथापि नाम देवपुत्रा एकस्मिन् रत्नभाजने भोजनं भक्षन्ति, अपि तु यथा- पुण्यसंनिचयभेदेन दिव्याहारामृतप्रत्युपस्थिताः, एवमेव, शारिपुत्र, सत्त्वा एकस्मिन् बुद्धक्षेत्र उत्पन्ना यथा-परिशुद्धिर्बुद्धानां बुद्धक्षेत्रगुणव्यूहम् पश्यन्ति" /

अस्मिन् बुद्धक्षेत्रगुणालङ्कारव्यूहे दृश्यमाने, चतुरशीत्या प्राणिसहस्रै- रनुत्तरसम्यक्सम्बोधिचित्तान्युत्पादितान्यभूवन् / ये केचन लिच्छविकुमाराणाम् पञ्चशतं लिच्छविकुमारेण सार्धमुपसंक्रान्ताः ते ऽप्यानुलोमिकीम् क्षान्तिम् प्राप्नुवन् /

अथ भगवांस्ता ऋद्विविधीअः पिंडयति स्म; ततश्व तद्बुद्धक्षेत्रं भूयः पूर्वस्वभावमापन्नं दृश्यते स्म /

तत्र श्रावकयानिदेवमनुष्याणामेतदभूत्- ऽअनित्या वत संस्काराःऽ / विदित्वेति द्वांत्रिशदे प्राणिसहस्रेभ्यः सर्वधर्मेषु विरजो विगतमलं विशुद्धं धर्मचक्षुः; अष्टाभ्यो भिक्षुसहस्रेभ्यो ऽनुपादायाश्रवेभ्यश्चित्तानि विमुक्तान्यभूवन् / चतुशीत्यापि बुद्धक्षेत्रोदाराधिमुक्तिकप्राणिसहस्रैः, सर्वधर्मान् विठपन-प्रत्युस्थानलक्षणान् विदित्वा, अनुत्तरसभ्यक्सम्बोधिचित्तान्युत्पादितानि /

बुद्धक्षेत्रपरिशुद्धिनिदानस्य् अपरिवर्तः प्रथमः /

2. अचिन्त्योपायकौशल्यम्

अपि च तेन कालेन वैशाल्याम्महानगर्याम् एको विमलकीर्तिर्नाम लिच्छविरासीत्, पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो ऽनेकबुद्धपर्युपासितः क्षान्तिप्रतिलब्धः प्रतिभानलब्धो महाभिज्ञाविक्रीडितो धारणीप्रतिलब्धो वैशारद्यप्राप्तो निहतमारप्रत्यर्थिको गम्भीरधर्मनेत्री सुप्रतिपन्नः प्रज्ञापारमिता निर्यात उपायकौशल्यगतिंगतः प्रतिभानवत् सत्त्वाशयचर्याविज्ञः सत्त्वेन्द्रियवरावरज्ञाननिर्यातो यथाप्रत्यर्हं धर्मशास्ता / अस्मिन् महायाने प्रयत्य, ज्ञातः सुनिश्वितः कर्मकरो बुद्धस्येर्यापथे विहारी परमबुद्धिसागरानुगतः सर्वबुद्धैः संस्तुतः स्तोभितः प्रशंसितः सर्वशक्रब्रह्मलोकपालनमस्कृतः सः /

उपायकौशल्येन सत्त्वपरिपाचनार्थाय वैशाल्याम्महानगर्या विहरन्, (सो) ऽनाथदरिद्रसत्त्वसंग्रहायाक्षयभोगः / दुःशीलसत्त्वसंग्रहाय परिशुद्धशीलः / द्विष्टातिद्विष्टव्यापादि दुअःशीलक्रोधनसत्त्वसंग्रहाय क्षान्तिदमप्राप्तः / अलससत्त्वसंग्रहायोत्तप्तवीर्यः / विक्षिप्तचित्तसत्त्वसंग्रहाय ध्यानस्मृतिसमाधिविहारी / दौष्प्रज्ञसत्त्वसंग्रहाय प्रज्ञाविनिश्चयलाभी / यद्यप्यवदातवस्त्रपरिवेष्टिताः (स) श्रमणचरित सम्पन्नः / गृहावासे यद्यपि विहरन्, कामरूपारूपधात्वसंसृष्टः / पुत्रदारान्तःपुरे ऽपि नित्यम् ब्रह्मचारी / परिवारपरिवृतो यद्यपि दृश्यमानः प्रविवेकचारी / भूषणालंकृतो दृश्यमानः, किं तु लक्षणोपेतः / यद्यप्याहारपानभोजनं दृश्यमानो भुञ्जन्, सदा ध्यानस्य प्रीतिभोजनं परिभुङ्क्ते स्म / सर्वक्रीडाद्यूतकोणेषु दृश्यमानो ऽपि, क्रीडाद्यूतरक्तान् सत्त्वान् परिपाचयति स्म नित्यममोघचारी / सर्वपाषण्डिकान् यद्यपि गवेषी, बुद्धे ऽभेद्याभिप्रायसम्पन्नः / लौकिकलोकोत्तरमन्त्रशास्त्रविज्ञानो ऽपि सदा धर्मसम्मोदनन्दाधिमुक्तः / संसर्गसमन्तमध्ये दृश्यमानो ऽपि, सर्वमध्ये प्रमुखः पूजितः /

लोकसामग्रीकरणार्थाय ज्येष्ठमध्यकुमाराणां सहायीभावं गच्छति स्म धर्मभाणकः / सर्वव्यवहारप्रतिपन्नो यद्यपि, लाभभोगनिराकाङ्क्षः / सत्त्वधर्षणार्थाय सर्वपथचत्वरशृङ्गाटकेषु दृश्यमानो ऽपि, सत्त्वरक्षणार्थाय राजकार्येषु च प्रयुक्तः / हीनयानाधिमुक्तिवारणाथार्य महायाने च सत्त्वपरिग्रहार्थाय सर्वधर्मश्रवणिकसंवाचकेषु दृश्यते स्म / बालपरिपाचनार्थाय सर्वलिपिशालागाम्यपि / कामादीनवसम्प्रकाशनार्थाय गणिकागाराण्यपि सर्वत्रावक्रामी / स्मृतिसम्प्रतिष्ठापनार्थाय सर्वमद्यविक्रयगृहाणि चावक्रमति स्म /

धर्मश्रेष्ठोपदेशकारणाच्छ्रेष्ठ्यन्तरे ऽपि श्रेष्ठिसम्मतीयः / सर्वग्राहकादानपरिच्छेदकारणाद्गृहपत्यन्तरे च गृहपतिसम्मतीयः / क्षान्तिसौरत्यबलप्रतिष्ठापनकारणात् क्षत्रियान्तरे क्षत्रियसम्मतीयः / मानमददर्पप्रणाशनकारणाद् ब्राह्मणान्तरे ऽपि ब्राह्मणसम्मतीयः / सर्वराजकार्यधर्मानुरूपाज्ञाकारणादमात्यान्तरे चामात्यसम्मतीयः / राजभोगैश्वर्यसङ्गविवर्तनकारणात्कुमारान्तरे च कुमारसम्मतीयः / कुमारीपरिपाचनकारणाद् अन्तःपुरे ऽपि कञ्चुकिसम्मतीयः /

प्राकृतस्य पुण्यं विशेषेणाध्यालम्बनतो जनकायेन सार्धं सामग्रीमापन्नः / ईश्वराधिपतय उपदेशकारणाच्छक्रान्तरे च शक्रसम्मतीयः / ज्ञानविशेषशासनकारणाद्ब्रह्मान्तरे ऽपि ब्रह्मसम्मतीयः / सर्वसत्त्वपरिपाचनाल् (लोकपालेषु) लोकपालसम्मतीयः / तथा हि लिच्छविर्विमलकीर्तिरप्रमाणोपायकौशल्यज्ञानसम्पन्नो वैशाल्याम्महानगर्यां विहरति स्म /

स उपायकौशल्येनात्मानं ग्लाननिभं देशयित्वा, तस्य रोगप्रश्नार्थाय वैशाल्या महानगर्या राजामात्यधिपकुमारमण्डलब्राह्मणगृहपतिश्रेष्ठिनैगमजानपदाः, नो हीदं- प्राणिनाम् बहुसहस्रं रोगपृच्छनायागतम् / तेभ्यस्तत्र समागतेभ्यो लिच्छविर्विमलकीर्तिरिममेव चतुर्महाभूतकायम् आरभ्य, धर्मं देशयति स्म-

"मित्राः, अयं हि काय एवमनित्य एवमध्रुवो ऽनाश्वासः / (स ह्य्-) एवं दुर्बलो ऽसारस्तथा हि लुप्तः परीत्तकालो दुःखो बहुरोगो विपरिणामधर्मः / मित्राः, तथा ह्यस्मिन् काये बहुरोगभाजने हि- तस्मिन् पण्डितो ऽसंवासिकः /

"मित्राः, अयं कायो धारणन्- न क्षममाणः फेनपिण्डोपमः / अयं हि कायो ऽचिरस्थितिको बुद्बुदोपमः / अयं कायः क्लेशतृष्णोत्पन्नो मरीच्युपमः / असारो ऽयं कायः कदलीस्तम्भोपमः / अस्थिरस्नायुबन्धो वतायं यन्त्रोपमः / अयं कायो हि विपर्यासोत्पन्नो मायोपमः / अभूतदर्शनं ह्ययं कायस्स्वप्नोपमः / प्रतिबिम्बोपमो ऽयं कायः पूर्वकर्मप्रतिबिम्बो दृश्यमानः / अयं कायः प्रत्ययाधीनः, प्रतिश्रुत्कोपमस्तत् / विक्षिप्तचित्तो (यथा) ह्ययं कायः पतनलक्षणो मेघोपमः / अयं कायः क्षणविनाशनसहगतश्चानवस्थितो विद्युत्तुल्यः / अस्वामिको ऽयं हि कायो नानाप्रत्ययोत्पन्नः /

"निर्व्यापारो ह्यं कायः पृथिवीसदृशः / आपसदृशो ऽयं कायो ऽनात्मकः / अयं कायस्तेजस्सदृशो निर्जीवः / अयं कायो वायुसदृशो निष्पुद्गलः / आकाशसदृशो ऽयं कायो निःस्वभावः /

"अयं कायो महाभूतस्थानो ऽभूतः / आत्मात्मीयरहितो ऽयं कायः शून्यः / तृणकाष्ठाभित्तिलोष्टप्रतिभासोपमो ऽयं कायो जडः / अयं हि कायो वातयन्त्रसमन्वागमेन (यथ्-)ओत्पन्नो वेदनारहितः / अयं हि पूयमीढसंचितः कायस्तुच्छः / नित्यलेपपरिमर्दनभेदनविध्वंसनधर्मो ऽयं कायो रिक्तः / अयं हि कायश्चतुरधिकचतुःशतरोगोपद्रुतः / सदा जराभिभूतो ह्ययं कायो जरोदपानसदृशः / मरणान्तो ऽयं कायो ऽन्तानिश्रितः / अयं हि कायः स्कन्धधात्वायतनपरिगृहीतो वधकाशिविषशून्यग्रामोपमः / तस्मिन् युष्माभिरेवंकाये निर्विदुद्वेगयोरुत्पादितयोस्तथागतकायाधिमुक्तिरुत्पादयितव्या /

"मित्राः, तथागतकायो हि धर्मकायो ज्ञानजः / तथागतकायः पुण्यजो दानजश्शीलजस्समाधिजः प्रज्ञाजो विमुक्तिजो विमुक्तिज्ञानदर्शनजो मैत्रीकरुणामुदितोपेक्षोत्पन्नोदानदमसंयमोत्पन्नो दशकुशलकर्मपथजः क्षान्तिसौरत्यजस्थिरवीर्यकुशलमूलजो ध्यानविमोक्षसमाधिसमापत्तिजश्श्रुतप्रज्ञोपायजस्सप्तत्रिंशद्बोधिपाक्षिकधर्मजश्श्मथविपश्यनाजो दशबलजश्चतुर्वैशारद्यजो ऽष्टादशावेणिकबुद्धधर्मजस्सर्वपारमितोत्पन्नो ऽभिज्ञा-(त्रि-) विद्योत्पन्नस्सर्वाकुशलधर्मप्रहाणसर्वकुशलधर्मसंग्रहजः सत्यजस्सम्यक्त्वजो ऽप्रमादजः /

"मित्राः, तथागतकायो ह्यप्रमाणकुशलकर्मजः / तस्मिन् युष्माभिरवंकाये ऽधिमुक्तिरुत्पादयितव्या / सर्वसत्त्वक्लेशरोगप्रजहनार्थाय आनुत्तरसम्यक्सम्बोधिचित्तमुत्पादयितव्यम्" /

एवमेव लिच्छविर्विमलकीर्तिस्तथा हि तस्मै रोगप्रश्नगणाय, यथा बहुशतानां सत्त्वसहस्राणामनुत्तरसम्यक्सम्बोधिचित्तमुत्पादितम्, तथा ह्येवं धर्मं देशयति स्म /

अचिन्त्योपायकौशल्यस्य परिवर्तो नाम द्वितीयः /

3. श्रावकबोधिसत्त्वप्रेषणोक्तम्

ततो लिच्छवेर्विमलकीर्तेरेतदभूत्- "मयि ग्लाने दुअःखिते च मञ्चस्योपरि सन्ने, तथागतेनार्हता सम्यक्सम्बुद्धेन, मान्न समन्वाहृत्यानुकम्पान्नोपादाय, रोगपृच्छनन्न किञ्चिदप्युत्सृष्टम्" इति /

अथ भगवांल्- लिच्छवेर्विमलकीर्तेरीदृशं चित्तसङ्कल्पं बुद्ध्वा, आयुष्मन्तं शारिपुत्रमामन्त्रयते स्म- "शारिपुत्र, लिच्छवेर्विमलकीर्ते रोगपृच्छनाय गच्छ" //

एवमुक्ते, भगवन्तमायुष्मांशारिपुत्र एतदवोचत्- "भगवन्, लिच्छवेर्विमलकीर्ते रोगपृच्छनगमनन्नोत्सहे / तत् कस्य हेतोः? भगवन्, अभिजानामि-

"एकस्मिन् समय एकस्मिन् वृक्ष मूले माम् प्रतिसंलीनं लिच्छविर्विमलकीर्तिरपि, येन तस्य वृक्षस्य मूलं तेनोपसंक्रम्यैतद्वदति स्म- ऽभदन्त शारिपुत्र, यथा त्वं प्रतिसंलीनस्तादृशे प्रतिसंलयने न प्रतिसंलयितव्यम्ऽ /

"ऽयथा त्रैधातुककायश्च चित्तंच न प्रज्ञायेते, तथा हि प्रतिसंलय / यथा निरोधान्नोत्तिष्ठति सर्वत्रापीर्यापथमाविर्भवति, तथा हि प्रतिसंलय / यथा प्राप्तिलक्षणानुत्सृजनातायाम् पृथग्जनलक्षणमेवापि दृश्यते, तथा हि प्रतिसंलय / यथा पुनस्तव चित्तमध्यात्ममनवस्थितम्, बाह्यरूपे ऽपि नानुविचरति, तथा प्रतिसंलय / यथा सर्वदृष्टिगतेष्वचलो ऽपि च सप्तत्रिंशद्बोधिपाक्षिकधर्माभासं गच्छति, तथा हि प्रतिसंलय / यथा संसारावचरक्लेशाप्रहाणे निर्वाणसमवसरणमपि गच्छति, तथा हि प्रतिसंलय / भदन्त शारिपुत्र, य एवम् प्रतिसंलयने प्रतिसंलीनाः, तान् भगवान् प्रतिसंलयन आमन्त्रयते स्मऽ /

"इत्युक्ते, भगवन्, तं धर्ममेव श्रुत्वा, तस्मै प्रतिवादविसर्जनस्यासमर्थस्तूष्णीभूतो ऽभूवम् / एतस्मात् कारणात् तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे" /

अथ भगवानायुष्मन्तम् महामौद्गल्यायनम् आमन्त्रयते स्म- "मौद्गल्यायन, लिच्छवेर्विमलकीर्ते रोगपृच्छनाय गच्छ" / मौद्गल्यायनो ऽपि त्ववोचत्- "भगवन्, तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे / तत् कस्य हेतोअः? भगवन्, अभिजानामि-

"एकस्मिन् समये वैशाल्या महानगर्या एकस्मिन् वीथीद्वारे गृहपतिभ्यो धर्ममदेशयम् / तस्मिन् समिपे लिच्छविर्विमलकीर्तिरुपसंक्रम्य, मामेतद्वदति स्म- ऽभदन्त मौद्गल्यायन, यथावदातवस्त्रेभ्यो गृहिभ्यो देशयसि, तथा हि धर्मो ऽव्यपदेश्यः / भदन्त मौद्गल्यायन, स धर्मो यथाधर्म दर्शयितव्यः /

"ऽधर्मो हि, भदन्त मौद्गल्यायन, निःसत्त्वः सत्त्वरजो ऽपगतः / निरात्मकः (स) रागरजो ऽपगतो निर्जीव उपपत्तिच्युत्यपगतः यो ऽनाश्रवः, पूर्वान्तापरान्तपरिच्छिन्नः (सः) / शान्तोपशमलक्षणस्(स)रागरहितः ऽनालम्बनगामी (सो)ऽ नक्षरस्सर्ववाच्छिन्नो ऽनभिलाप्यस्सर्वतरंगरहितः / सर्वानुगत आकाशसमो वर्णलिङ्गाकारविगतः सर्वचरणापगतो ममाभावो ममकारापगतस् (सः) / (सो) ऽविज्ञप्तिकश्चित्तमनोविज्ञानविगतः, प्रतिपक्षाभावकारणादतुल्यः / हेतुप्रतिकूलः (स) प्रत्ययाव्यवस्थितः /

"ऽधर्मधातुसमवसरणात्- (स) सर्वधर्मान् हि समादधात्यननुगमननयेन तथतानुगतः / (सो) ऽत्यन्ताकम्प्यः; अतः स्थितो भूतकोट्यां षड्विषयेष्वाश्रयरहितत्वेनाकम्प्यः, अप्रतिष्ठितेन यत्र यत्र गमनागमनव्यपगतः, शून्यतासमवसरणः / अनिमित्तेन सुस्फुटितः (सो) / अप्रणिहितलक्षण एव, कल्पना अपनयापगतः / अपकाररहितः (सो) ऽप्रक्षेप उत्पादव्ययापगतो ऽनालयश्चक्षुःश्रोत्रघ्राणजिह्वाकायमनः पद्धतिसमतिक्रान्तो ऽनुन्नतो ऽनवनतो ऽवस्थितो ऽचलभूतः /

"ऽसर्वचर्याविगते, भदन्त महामौद्गल्यायन, एवं धर्मे देशना कथम् भवति? भदन्त महामौद्गल्यायन, सापि धर्मदेशना नामारोपितवचनम् / यच्छ्रवणम्, तदप्यारोपितश्रवणम् / भदन्त मौद्गल्यायन, यत्रारोपितवचनन्नास्ति, नास्ति तत्र धर्मदेशना, श्रवणं च ज्ञानं च न स्तः / तद्यथापि नाम मायापुरुषेण मायापुरुषेभ्यो धर्मो देश्येत /

"ऽअनेन चित्तस्थानेन धर्मो दर्शयितव्यः- त्वया सत्त्वेन्द्रियकौशल्यम् करणीयम् / प्रज्ञाचक्षुषा सुदर्शिना च महाकरुणाभिमुखीभूतेन च महायानवर्णवादिना च बुद्धकृतज्ञेन च परिशुद्धाशयेन च धर्मनिरुक्तिविज्ञानेन त्रिरत्नगोत्राच्छिन्नकरणार्थाय त्वया धर्मो दर्शयितव्यःऽ /

"इत्युक्ते, भगवन्, तथैवम् तद्धर्मोपदेशेन तस्या गृहपतिपरिषदो ऽष्टाभिर्गृहपति शतैरनुत्तरसम्यक्संबोधिचित्तमुत्पादितम् / अहं तु, भगवन्, प्रतिभानापगतो ऽभूवम् / एतस्मात्कारणात्तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे" /

ततो भगवानायुष्मन्तं महाकाश्यपमामन्त्रयते स्म- "काश्यप, लिच्छवेविमलकीर्ते रोगपृच्छनाय गच्छ" / महाकाश्यपो ऽपि त्ववोचत् "भगवन्, तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे / तत् कस्य हेतोः? अभिजानामि- "एकस्मिन् समये मम दरिद्रवीथ्यां पिण्डपाताय स्थितं लिच्छविर्विमलकिर्तिः, तेनोपसंक्रम्य, एतद्वदति स्म- ऽतथा हि महासत्त्वगृहा (णि) हित्वा, दरिद्रगृहाणि गच्छतो भदन्तस्य महाकाश्यपस्य भवन्त्येकदेशमैत्री /

"ऽतस्मात्, महाकाश्यप, धर्मसमतायां स्थातव्यम् / सर्वकाले सर्वसत्त्वान्त्समन्वाहृत्य, पिण्डपातः पर्येष्टितव्यः / निराहाराहारः पर्येष्टितव्यः / परिपिण्डग्राहविनोदनार्थाय पिण्डपाताय चरितव्यम् / शून्यग्रामाधिष्ठितेन त्वया ग्रामं प्रवेष्टव्यम् / पुंस्त्रीपरिपाचनार्थाय ग्रामं प्रवेष्टव्यम् / बुद्धविद्यया त्वयान्तर्गृहे गन्तव्यम् /

"ऽअनादानेन पिण्डपात उपादेयः, जात्यन्धोपमेन रूपाणि द्रष्टव्यानि, प्रतिश्रुत्कानिभाः शब्दाः श्रोतव्याः, वायुतुल्या गन्ध घ्रातव्याः, अविज्ञप्तिकेन रसा अनुभवितव्याः, ज्ञानस्पर्शाभावेन स्प्रष्टव्यानि स्पर्ष्टव्यानि, मायापुरुषस्य विज्ञानेन धर्मा वेदितव्याः / यौ न च स्वभावो न च परभावस्तौ नोज्ज्वलौ / यदज्वलनम्, तन्न शाम्यति /

"ऽयदि, स्थविर महाकाश्यप, अष्टमिथ्यात्वाव्यतिक्रमणे चाष्टविमोक्षसमापत्त्यांच मिथ्यात्वसमतया सम्यक्त्वसमताम् प्रविशसे, एकपिण्डपातमपि सर्वसत्त्वेभ्यो ददत्, सर्वबुद्धेभ्यश्च सर्वार्येभ्यो ऽप्यनुप्रयच्छसि चोपनाभ्य, पुरत आत्मना भोजनं दृष्टं स्यात्, यथा न च क्लेशसंप्रयुक्तो न च क्लेशविप्रमुक्तस्तथा हि परिभोक्ष्यसि; न समाहितो वा (समाधि-)समुत्थितो व परिभोक्ष्यसि संसारनिर्वाणाप्रतिष्ठितः /

"ऽभदन्त, ये केचन तुभ्यं पिण्डपातं ददति, तेभ्यो महाफलं वाल्पफलं वा न भवतः, न च मध्य(-फलं) विशेष(-फलं) वा / (ते) बुद्धप्रवृत्तिं समवसरन्ति, न तु श्रावकगतिं / स्थविर महाकाश्यप, तथा ह्यमोघराष्ट्रपिण्डम् परिभोक्ष्यसिऽ /

"इत्युक्ते, भगवन्, अहमिमं धर्मोपदेशं श्रुत्वा, आश्चर्याद्भुतप्राप्तः सर्वबोधिसत्त्वेभ्यः प्रणाममकार्षम् / ऽयदि गृहस्थो ऽप्येवंप्रतिभानसंपन्नः को ऽनुत्तरसम्यक्संबोधिचित्तन्नोत्पादयेद्ऽ [इति] चिन्तयित्वा, पूर्वम् महायाने ऽप्राप्ते, तदर्वांमया न कश्चित्सत्त्वः श्रावकप्रत्येकबुद्धयानयोर्विवेशितः / भगवन्, एतस्मात्कारणात्तस्य सत्युरुषस्य रोगपृच्छनगमनन्नोत्सहे" /

अथ भगवानायुष्मन्तं सुभूतिमामन्त्रयते स्म- "सुभूते .......गच्छ" / सुभूतिरपि त्ववोचत्- "भगवन्, .........नोत्सहे /

"एकस्मिन् समये वैशाल्याम्महानगर्यां लिच्छवेर्विमलकीर्तेर्गेहं पिण्डपातायागतस्य लिच्छविर्विमलकिर्तिर्मे पात्रमिष्ट्वा, (तत्) प्रणीताहारेण पूरयित्वा, एतद्वदति स्म-

"ऽभदन्त सुभुते, त्वंचेदामिषसमतया सर्वधर्मसमतान्वयश्च सर्वधर्मसमतया बुद्धधर्मसमतान्वयः, साम्प्रतमिमं पिण्डपातं भुंधि / (भुंधि,) भदन्त सुभूते, यदि त्वं लोभद्वेषमोहान्न प्रतिनिसृज्य तैस्सार्थं त्वप्रतिष्ठितः; सत्कायदृष्त्यनुच्चाल्य, एकायनमार्गं गतः; त्वयापि त्वविद्याभव तृष्णयोरहतयोर्विद्याविमुक्ती पुनरनवरोपिते (यदि), पंचानन्तरियाणि च तव विमुक्तिश्च समानि, त्वन्न च विमुक्तो न चापि बद्धः, त्वया चत्वार्यार्यसत्यानि न च दृष्टानि सत्यंच नादृष्टम्, फले त्वप्राप्ते पृथग्जनो ऽपि नासि, पृथग्जनधर्मात् पुनरनिवृत्तस्त्वन्न चार्यो न चानार्यः, भूयो ऽपि सर्वधर्मप्रतिसंयुक्तस्तु सर्वधर्मसंज्ञाविप्रमुक्तः, (इमं पिण्डपातं भुंधि) /

"ऽ(भुंधि, यदि) त्वया शास्ता चादृष्टो ऽश्रुतश्च धर्मार्धश्च संघो ऽपर्युपासितः / ये ते षट् शास्तारः यदिदम्- पूरणः काश्यपः, मस्करी गोशालीपुत्रः, संजयी वैराडीपुत्रः ककुदः कात्यायनः, अजितः केशकम्बलश्च निर्ग्रन्थो ज्ञातिपुत्रस्- तान् भदन्तस्य शास्तॄन्निश्राय, त्वम् प्रव्रजित (श्चेद्भुंधि) /

"ऽयेन ते षट् शास्तारो गच्छन्ति तेन् आर्यः सुभूतिरपि गामि (चेत्); सर्वदृष्टिगतेषु प्रविशन्, त्वमपि त्वन्तमध्याप्रतिलब्धः; त्वं (चेत्) पुनरष्टाक्षणप्रतिपन्नः क्षणाप्राप्तः, संक्लेशसम्भूतस्त्वं व्यवदानानुपगतः; यत्सर्वसत्त्वानामरणं, तद्भदन्तस्यारणं (चेत्);त्वद्दाने ऽविशोधिते, भदन्त, ये केचित्तुभ्यं पिण्डपातं ददति, ते परं तु (चेत्स्व-)विनिपातकराः; (यदि) त्वं सर्वमारसहगतश्च सर्वक्लेशास्त्वत्सहायीभवं गताः; यः क्लेशस्वभावः सो ऽपि (चेद्-) भदन्तस्य स्वभावो भवति, त्वया सर्वसत्त्वघातकचित्तम् उपस्थापितम्, त्वया सर्वबुद्धानुध्वंसनम् (कृतं स्यात्), सर्वबुद्धधर्माकीर्ति कृत्वा, संघे चाप्रतिसरणस्त्वञ्चेन्न कदाचि परिनिर्वासि, तत इमं पिण्डपातं भुंधि /

"इत्युक्ते, इमं तन्निर्देशं श्रुत्वा, भगवन्, माम् ऽतं किम् भासिष्ये ऽहं, किं वक्ष्यामि, किं करणीयम्?ऽ (इति) चिन्तयमानं, दशदिक्षु तमोभूतासु, तत् पात्रमुत्सृज्य, गेहात् प्रतिनिःसरन्तं लिच्छविर्विमलकीर्तिरेतद्वदति स्म-

"ऽभदन्त सुभुते, अक्षरेभ्यो ऽभयेनेदं पात्रं प्रतीच्छ / भदन्त सुभूते तत् किं मन्यसे तथागतस्य निर्माणे तदुक्तं स्यात्, तस्मात् किं भवेर्भीतः?ऽ- तं- ऽनो हीदं कुलपुत्रऽ इत्यवचम् / स मामब्रवीत्- ऽभदन्त सुभूते, मायानिर्माणस्वभावेभ्यः सर्वधर्मेभ्यो मा भैषिः / तत् कस्य हेतोः? तेषु सर्वेष्वपि वचनेषु तत्स्वभावेषु तस्माहु नाम पण्डिता अक्षरेष्वसङ्गास्तेभ्यो ऽत्रस्ताः तत् कस्य हेतोः? तेषु सर्वेष्वक्षरेषु ह्यनक्षरेषु, (सर्वं) स्थापयित्वा, विमोक्षः सर्वधर्मा हि विमोक्षलक्षणाः / ऽ

"अस्मिन्निर्देशे देशिते, देवपुत्राणां द्विशतं धर्मेषु विरजं वीतमलं विशुद्धं धर्मचक्षुश्च देवपुत्राणां पञ्चशतमनुलोमिकीम् क्षान्ति प्राप्नुवन्ति स्म / अहं तु प्रतिभानापगतस्तस्मै पुनर्विसर्जनस्यासमर्थो (ऽभूवम्) / एतस्मात् कारणात्, भगवन् तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे / "

ततो भगवानायुष्मन्तं पूर्णमैत्रायणीपुत्रमामन्त्रयते स्म- "पूर्ण,..... गच्छ" / - पूर्णो ऽपि त्ववोचत्- "भगवन्..... नोत्सहे..... /

"एकस्मिन् समये माम् महावनस्यैकस्मिन् पृथिवीप्रदेशे स्थितमादिकर्मिकेभ्यो भिक्षुभ्यो धर्म देशयन्तं लिच्छविर्विमलकीर्तिस्तेनागत एदद् वदति स्म-

"ऽभदन्त पूर्ण, समापत्तिमनुप्राप्यैषां भिक्षूणाञ्चित्तम् पश्य, (दृष्ट्वा) च धर्म प्रतिवेदस्यस्व / महारत्नभाजनं पूतिकेनौदनेन मा पीपरः / एषां भिक्षूणाम्, जानीहि, अध्याशयः कीदृशः / वैडूर्यमणिरत्नं काचकमणिना मोपमाहि /

"ऽभदन्त पूर्ण, सत्त्वेन्द्रियेष्वनिश्चितेषु, प्रादेशिकेन्द्रियम् मोपसंहर / अव्रणस्य व्रणम् मा प्रसूष्व / महामार्गावतारार्थिक्(-एभ्यो) वीर्थीमञ्जरीम् मा परिग्रहीअः / महासमुद्रेण गोखुरपदं मा पीपरः / सुमेरु सर्षपफले मा निक्षिप / दिनकरस्य प्रभां खद्योतकेन मा निराकुरु / सम्यक्सिंहनादार्थिक(-एभ्य) शृगालरुतम् मा परिग्रहीः /

"ऽभदन्त पूर्ण, एषां सर्वभिक्षूणां हि महायानसम्प्रतिपन्ननां बोधिचित्तं भ्रान्तं केवलम्; भदन्त पूर्ण, एभ्यः श्रावकयानम् मा प्रकाशय / श्रावकयानं ह्यभूतम्; सत्त्वेन्द्रियक्रमज्ञान इमे श्रावका मया जात्यन्धसदृशा मताःऽ /

"अथ लिच्छवौ बिमलकीर्तौ तेन कालेन तादृशं समाधि समापन्ने, यथा तेभ्यो भिक्षुभ्यो विविधपूर्वनिवासानुस्मृतिर्भवति, तेभ्यः सम्यक्सम्बोध्यर्थाय बुद्धानाम् पञ्चशतम् पर्युपासितेभ्यः कुशलमूलसमन्वागतेभ्यः स्व बोधिचित्तमभिमुखीभूत्वा, ते सत्पुरुषस्य पादयोअः शिरसा प्रणिपत्य प्रगृहीताञ्जलयो ऽभूवन् / (यथा) पुनस्ते ऽनुत्तरसम्यक्सम्बोध्या अविनिवर्तनीया भवन्ति, तस्मिंस्तथा धर्म दर्शितवति, भगवन्, चिन्तयतोममैवमभूत्-

"ऽश्रावकेण, परचित्ताशयानविविच्य, न कस्मैचिद्धर्मो निर्देश्यः / तत् कस्य हेतोअः? श्रावकस्तु सर्वसत्त्ववरावरेन्द्रियविज्ञो नास्तिऽ यथा तथागतोर्हन् सम्यक्सम्बुद्धस्तथा नित्यसमाहितो नास्तिऽ / भगवन्, एतस्मात्कारणात्तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे / "

ततो भगवानायुष्मन्तम् महाकात्यायनमामन्त्रयते स्म- "कात्यायन,..... गच्छ" / कात्यायनस्त्ववोचत्- "भगवन्,..... नोत्सहे..... /

"एकस्मिन् समये भगवता भिक्षुभ्यो ऽववादकसूत्रे ऽमन्त्रिते, तस्य सूत्रस्य वचननिर्णयाय मां धर्म तद्यथा - ऽअनित्यतादुःखनैरात्म्य शान्त्यर्थम्ऽ देशयमानं लिच्छविर्विमलकीर्तिस्तेनोपसंक्रम्य, एतद्वदति स्म -

"ऽभदन्त महाकात्यायन, प्रचारसम्प्रयुक्तामुत्पादभङ्गसहगतां धर्मतां मा शाधि / यदत्यन्ततो ऽनुत्पादितम्, नोत्पद्यते, सञ्जनितन्न भविष्यति; (यदत्यन्ततो) ऽनिरुद्धम्, न निरुध्यते, निरुद्धन्न भविष्यति, तध्यनित्यताया अर्थः / यः पञ्चस्कन्धेषु शून्यताधिगमेनानुपपत्त्यवबोधार्थः, स हि दुःखस्यार्थः / यात्मनैरात्म्ययोरभावता, सा नैरात्म्यस्यार्थः / यत्स्वभावपरभावापगतं, तध्यज्वलनम्, यदज्वलनम्, तन्न शाम्यति; यदप्रशान्तम्, तच्छान्त्या अर्थःऽ /

"अस्मिनुपदेशे देशिते, तेषां भिक्षुणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तान्यभूवन् / भगवन्, एतस्मात्..... नोत्सहे" /

अथ भगवनायुष्मन्तमनिरुद्धमामन्त्रयते स्म- "अनिरुद्ध,..... गच्छ" / अनिरुद्धो ऽपि त्ववोचत्- "भगवन्, .....नोत्सहे..... / ..... /

"एकस्मिन् समये मामेकस्मिम्स्ःचंक्रमणे चंक्रम्यमाणं, येनाहं तेनागम्य, शुभव्यूहो नाम महाब्रह्मा ब्रह्मणां दशसहस्रेण सार्ध तं देशमवभास्य, मम पादौ शिरसाभिवन्द्य, एकान्ते स्थित एतदवोचत्- ऽभदन्तानिरुद्ध, त्वं भगवताग्रदिव्यचक्षुर्वानाख्यातः; आयुष्मतो ऽनिरुद्धस्य दिव्यचक्षुषा कियदर्वाग् दृश्यते?ऽ- तम् एवमवचम्- ऽमित्र, तद्यथापि नाम पुरुषस्य चक्षुर्वतः करतले संनिहितमाम्लफलं दृश्यते, तथा भगवतः शाक्यमुनेर्बुद्धक्षेत्रम्, त्रिसाहस्रमहासाहस्रलोकधातुम् पश्यामीऽति /

"मामेतद्वदन्तं लिच्छविर्विमलकीर्तिस्तं देशमुपसंक्रम्य, मम पादौ शिरसाभिवन्द्य, एतदवोचत्- ऽभदन्तस्यानिरुद्धस्य दिव्यचक्षुः किमभिसंस्कारलक्षणं वानभिसंस्कारलक्षणं वा? तद्यद्यभिसंस्कारलक्षणम्, स्याद् बाह्य पञ्चाभिज्ञासमम् / यद्यनभिसंस्कार(-लक्षणम्), अनभिसंस्कारः स्यादसंस्कृतः / स दर्शनस्याशक्तश्चेत्, स्थविरः कथम् पश्येत्?ऽ

"इत्युक्ते ऽभूवं तूष्णीभूतः / स ब्रह्मा तु तस्मात्सत्पुरुषादिमं निर्देशं श्रुत्वा, आश्चर्यप्राप्तो ऽभिवन्दनं कृत्वा, एतदब्रवीत्- ऽलोके दिव्यचक्षुर्वानस्ति कः?ऽ- आह- ऽभगवन्तो बुद्धा हि लोके दिव्यचक्षुर्वन्तः; ते ह्यनुपतसमाहितस्थाने सर्वबुद्धक्षेत्राणि संपश्यन्त्युभाभ्याम् अप्रभाविताःऽ /

"अथ ब्रह्मा (च) दश परिजनसहस्राणीमं निर्देशं श्रुत्वा, अध्याशयेनानुत्तरसम्यक्संबोधिचितं संजनयन्ते स्म / ते मह्यंच तस्मै सत्पुरुषाय नमस्कृत्वा, अभिवन्द्य, तत्रैवान्तरधायिषुः / अहं तु प्रतिभानापगतो ऽभूवम् / एतस्मात्.....नोत्सहे" /

ततो भगवानायुष्मन्तमुपालिमामन्त्रयते स्म- "उपाले,.....गच्छ" / - उपालिअः पुनरवोचत्- "भगवन्.....नोत्सहे..... /

"एकस्मिन् समये द्वौ भिक्षू आपत्तिमापन्नौ भगवति लज्जमानौ भगवत्समीपमनुपसंक्रम्य, तावुभौ येनाहम् तेनोपसंक्रम्य, मावेवं वदतः- ऽभदन्तोपाले, आवमापत्तिमापन्नोउ च लज्जमानौ भगवत्समीपं त्वनुपसंक्रम्य, आयुष्मानुपालिरावयोअः संशयं प्रतिविनोदयतु, आवामापत्त्याः प्रणयतुऽ /

"इत्युक्ते, भगवन्, येन ताभ्यां भिक्षुभ्यां धर्मकथामदेशयम् तेन स लिच्छविर्विमलकीर्तिरप्युपसंक्रम्य, मामेतद्वदति स्म-

"ऽभदन्तोपाले, त्वयानयोर्भिक्ष्वोरापत्तिर्भूयो दृढा न कर्तव्या, नाविल(-तरा) कर्तव्या; अनयोरापत्तिविप्रतिसारं प्रतिविनोदय / भदन्तोपाले, आपत्तिर्ह्यध्यात्ममप्रतिष्ठिता, बहिर्धाव्यतिवृत्ता; उभयेष्वसत्सु च (सा) नोपलभ्यते / तत् कस्य हेतोअः? भगवानवोचत् चित्तसंक्लेशेन सत्त्वसंक्लेशः; चित्तव्यवदानेन विशुद्धिरिति-

"ऽसुभाषितार्थे, भदन्तोपाले, चित्तमध्यात्मं वा बहिर्धा वा नास्ति; उभयेष्वसत्स्वपि (तन्-)नोपलभ्यते / चित्तं यथा तथाप्यापत्तिअः / यथापत्तिस्तथापि सर्वधर्माःतथताया नातिक्रामण्ति /

"ऽभदन्तोपाले, यश्चित्तस्वभावः- स भदन्तस्य विमुक्तचित्तस्य चित्तस्वभावो येन केन चित्तस्वभावेन कि कदाचन संक्लिष्टो ऽभूत्?ऽ अब्रवम्-ः ऽनो हीदंऽ / - आह- ऽभदन्तोपाले, सर्वसत्त्वचित्तं हि तत्स्वभावः /

"ऽभदन्तोपाले, संकल्पो हि क्लेशः, निर्विकल्पो ऽविकल्पना स्वभावः / विपर्यासः संक्लेश, अविपर्यासः स्वभावः / आत्मसमारोपः संक्लेशः, नैरात्म्यं स्वभावः /

"ऽभदन्तोपाले, सर्वधर्मा ह्युपपद्य, विनश्यन्तो ऽप्रतिष्ठिता मायाभ्रविधुदुपमाः / सर्वधर्मा अनवस्थिताः क्षणमात्रमपि न तिष्ठन्ति / सर्वधर्मा हि स्वप्नमरीचिनिभा अभूतदर्शनम् / सर्वधर्मा उदकचन्द्रप्रतिबिम्बकल्पाश् चित्तसंकल्पात् समुछ्रिताः / यैः कैश्चन तथाहि प्रज्ञायते, ते विनयधरा नामोच्यन्ते; ये केचनैवं दांतास्ते सुदांताःऽ /

"अथ तौ भिक्षू एतदवदताम्- ऽअयं गृहपतिअः सुप्रज्ञावान्; विनयधराणां भगवतैष ह्यग्र आख्यातो भदन्तोपालिस्तादृशः (सुप्रज्ञावान्) नास्तिऽ / ताभ्यामेवमवचम्- ऽभिक्षू, इमं युवां गृहपतिम्मा प्रतिजानीतम् / तत् कस्य हेतोः? स्थापयित्वा तथागतम्, ये केचनास्य प्रतिभानप्रतिप्रस्रब्ध्याः समर्थाः श्रावका वा बोधिसत्त्वा वा, ते केचिन्न विद्यन्ते / अस्य प्रज्ञालोकस्तज्जातीयःऽ /

"ततस्तौ भिक्षू विचिकित्साम् प्रतिनिसृज्य, तत्रैवाध्याशयेनानुत्तरसम्यक्सम्बोधिचित्तं संजनयमानौ, तं सत्पुरुषमभिवन्द्य, एतदवदताम्- ऽसर्वसत्त्वा अपि चैवंरूपं प्रतिभानं लभेरन्ऽ, इति / एतस्मात् .....नोत्सहे" /

अथ भगवानायुष्मन्तं राहुलमामन्त्रयते स्म- "राहुल,..... गच्छ" / राहुलस्त्ववोचत्- "भगवान्,..... नोत्सहे..... /

"एकस्मिन् समये ऽनेकलिच्छविकुमारा येनाहं तेनोपसंक्रम्य, मामेवं वदन्ति स्म- ऽभदन्त राहुल, त्वं भगवतो ऽसि पुत्रः / चक्रवर्तिराज्यं हित्वा, प्रव्रज्य, कि त्वयोपलब्धम्, प्रव्रज्याया गुणानुशंसं किम्?ऽ इत्युक्ते, मां तेभ्यो यथायोगम् प्रव्रज्यागुणानुशंसं देशयन्तं लिच्छविर्विमलकीर्तिरपि, येनाहं तेनोपसंक्रान्तो मह्यन्नमस्कृत्वा, एतदवोचत्-

"ऽभदन्त राहुल, यथा प्रव्रज्या गुणानुशंसं देशयसि तथा न देशयेः / तत् कस्य हेतोः? प्रवज्या हि गुणरहिता, अनुशंसापगता / भदन्त राहुल, यस्मै संस्कृतम् प्रवर्तते तस्मै गुणानुशंसम्; प्रव्रज्या त्वसंस्कृतयोगश्चासंस्कृते गुणानुशंसन्नास्ति /

"ऽभदन्त राहुल, अरूपिणी हि प्रव्रज्या रूपापगता, अवराग्रान्तदृष्टिविगता निर्वाणपथः, पण्डितैर्वर्णिता, आर्यैः परिगृहीता सर्वमारपराजयकरा, पञ्चगति निअःसरणम्, पञ्चचक्षुः शोधना, पञ्चबलप्राप्तिः, पञ्चेन्द्रियाश्रयः; (सा)ऽन्येभ्यो ऽपीडा पापधर्मासंसृष्टा परतीर्थिकसुदमनं, प्रज्ञप्तिसमतिक्रान्ता कामपंके गम्भीरः, आधारणरहिता ममाभावा वीताहङ्कारा; अनुपादानम्, अनुपायासः, संक्षोभप्रतिनिःसर्गः, स्वचित्तविनयश्च परचित्तरक्षणम्, शमथसामग्री, सर्वत्र निरवद्य(-त्वम्)- सा हि प्रव्रज्या नाम / ये केचन तथा हि प्रव्रजितास्ते सुप्रव्रजिताः /

"ऽकुमाराः, एतादृशे स्वाख्याते धर्मे प्रव्रजत / बुद्धोत्पादो दुर्लभः, क्षणसम्पदपि च दुर्लभा, दुर्लभा पुनर्मनुष्यगतिअःऽ /

"ते कुमारा एतदवदन्- ऽगृहपते, अस्माभिर्यथा श्रुतम् तथागतेन(ओक्तम्)- मातापितृभ्यामनुत्सृष्टः प्रव्राजको न (भवतीऽ-)ति / स तानब्रवीत्- ऽकुमाराः, अनुत्तरसम्यक्सम्बोधिचित्तं संजनयमानाः प्रयत्नेन प्रतिपत्स्यथ / (तथा हि) यूयं तत्त्वतः प्रव्रजिताश्चोपसम्पन्नाःऽ /

"अथ त्रिसहस्रं द्विशतं लिच्छविकुमारा अनुत्तरसम्यक्सम्बोधिचित्तमुत्पादयन्ति स्म / भगवन्, एतस्मात्.....नोत्सहे" /

ततो भगवानायुष्मन्तमानन्दमामन्त्रयते स्म- "आनन्द,.....गच्छ" / आनन्द; पुनरवोचत्- "भगवन्,.....नोत्सहे..... /

"एकस्मिन् समये भगवतः काय एको रोगो निश्चार्य, तस्मै क्षीरमाकाङ्क्षमाणो ऽहमेकस्य ब्राह्माणमहाशालकुलस्य द्वारसमीपे पात्रधारी स्थितो (ऽभूवम्) / लिच्छविर्विमलकीर्तिरपि तद्देशमुपसंक्रम्य, मह्यन्नम स्कृत्वा, एवं वदति स्म-

"ऽभदन्तानन्द, किमर्थम् कल्यमेव पात्रमादाय, अस्य कुलस्य द्वारसमीपे स्थितो ऽसि?ऽ- तमेवमवचम्- ऽभगवतः काय एको रोगो निश्चार्य, तस्मै क्षीरेण प्रयोजनात्तद्(-भैषज्यं) पर्येषऽ इत्यवादिषम् / स मामेतदवोचत्-

"ऽभदन्तानन्द, एवम्मा वग्धि / भदन्तानन्द, तथागतस्य हि कायो वज्रकठिनः, सर्वाकुशलवासनाप्रहीणः / तस्मै सर्वकुशलधर्मोपेताय रोगः कुतो भवेत्? आतंकस्तस्मै कुतः?

"ऽभदन्तानन्द, भगवते ऽनुध्वंसनाकरणाय तूष्णीम् प्रतिगच्छ / कञ्चिदन्यमेतन्मा वग्धि / महामहौजस्का देवपुत्राश्च बुद्धक्षेत्रसमागता बोधिसत्त्वा हि श्रोष्यन्ति / भदन्तानन्द, यदि परीत्तकुशलमूलोपेतश्चक्रवर्तिराजो ऽप्यरोगः, तस्मा अप्रमाणकुशलमूलसहगताय भगवते रोगः कुतः? तत् स्थानन्न बिद्यते /

"ऽभदन्तानन्द, मां लज्जितकरणाय प्रतिगच्छ / अन्यतीर्थिकाः, मीमांसकाः, परिब्राजकाः, निर्ग्रन्थाः, आजीविकाश्च हि श्रोष्यन्ति / त एवम्- ऽअहो यद्येषां शास्ता स्वातुरत्राणस्याप्यसमर्थः, सत्त्वातुराणां त्राणमिव (दातुं) कुतः शक्रोतीऽ(-ति) चिन्तयिष्यन्ति / भदन्तानन्द, प्रतिच्छादयमानो ऽन्तर्धानं गच्छेः, कश्चिच्छृणुयात् /

"ऽभदन्तानन्द, तथागता हि धर्मकायः, न (स) आहारपोषितं देहम् / तथागताः सर्वलोकधर्मसमतिक्रान्तो लोकोत्तरकायः / तथागतस्य कायो ऽनुपद्रवो विनिवृत्तास्रवः / तथागतस्य कायो ह्यसंस्कृतः सर्वसंस्कारापगतः / भदन्तानन्द, ईदृशाय व्याधिमेष्टुम्, अयुक्तिश्चासदृशम्ऽ /

"ऽइत्युक्ते, तत्र ऽकिम् मया भगवतो मिथ्या श्रुतम्, मिथ्योद्गृहीतम्?ऽ (इति) चिन्तयमानो ऽतिलज्जितो भूत्वा, अथान्तरीक्षात्स्वरमश्रौषम्- ऽआनन्द, गृहपतिर्यथा देशयति, तत्तथा; अपि तु भगवति पञ्चकषाय काल उत्पन्ने, अतः सत्त्वा हीनेन प्रदानचरितेन दम्याः / ततः, आनन्द, अलज्जितः क्षीरमाहृत्य प्रतिगच्छे ऽ-त्यवादीत् /

"भगवन्, लिच्छवेर्विमलकीर्तेः प्रश्नसमाधानोपदेशस्तादृशो (ऽभुत्) / एतस्माद्भगवन्,..... नोत्सहे" /

एवमेव पञ्चशतमात्राः श्रावका अनुत्सहमानाः "स्वप्रतिभानम्" भगवन्तमवोचन् / यल्लिच्छविना विमलकीर्तिना सह कथितं, तत्सर्वं भगवन्तमवोचन् /

अथ भगवान् बोधिसत्त्चं मैत्रेयमामन्त्रयते स्म - "मैत्रेय,..... गच्छ" / मैत्रेयस्त्ववोचत्- "भगवन्,..... नोत्सहे..... /

"एकस्मिन् समये सन्तुषितदेवपुत्रगणेन (च) तुषितवंशदेवपुत्रैः सार्ध (येनाहं), बोधिसत्त्वमहासत्त्वानामवैवर्तिकभूमिमारभ्य, तथा हि धर्मकथां कथयमानः, तेन लिच्छविर्विमलकीर्तिरूपसंक्रम्य, मामेतदवोचत्-

"ऽमैत्रेय, यदि त्वं भगवतानुत्तरायां सम्यक्सम्बोध्यामेकजातिप्रतिबद्धो व्याकृतः, स मैत्रेयः कया जात्या व्याकृतः? अतीतेन किम्? अहो स्विदनागतेन? अहो स्वित्प्रत्युपन्नेन? तत्र यातीतजातिः, सा हि क्षीणा / यदनागतम्, तदननुप्राप्तम् / प्रत्युत्पन्नजात्यां तु स्थानन्नास्ति / तद् यथा भगवता- ऽतथा हि भिक्षो, एकक्षणे त्वं जायसे, जीर्यसे, म्रियसे, च्यवसे, उपपद्यसऽ इति सुभाषितम् / अनुत्पादे नियामावक्रान्तिः, अजातिख्याकृता /

"ऽअनुत्पद्यमानश्चेन्नाभिसम्बुध्यसे; मैत्रेय, कथं व्याकृतो ऽसि? तथताजात्या वा तथतानिरोधेन वा? तथतोत्पादनिरोधापगता, अनुपत्स्यमाना चानिरोत्स्यमाना /

"ऽया सर्वसत्त्वानां, सर्वधर्माणाञ्च सर्वार्याणांच तथता, सा हि, मैत्रेय, तवापि तथाता / त्वञ्चेदेवंव्याकृतः, सर्वसत्त्वा अप्य्-(एवं-) व्याकृताः / तत् कस्य हेतोः? तथता हि द्वयाप्रभाविता, नानात्वाप्रभाविता / तेन हि, मैत्रेय, यदा त्वं बोधिमभिसम्भोत्स्यसे, तदा सर्वसत्त्वा अपि तादृशां बोधिमभिसम्भोत्स्यन्ते / तत् कस्य हेतोः? बोधिर्हि सर्वसत्त्वान्वया / मैत्रेय, यदा त्वं परिनिर्वृतस्तदा सर्वसत्त्वा अपि परिनिर्वायिष्यन्ति / तत् कस्य हेतोः? (यदि) सर्वसत्त्वाः (स्युर्) अपरिनिर्वृताः, तथागतः (स्याद्) अपरिनिर्वृतः / सर्वे ते सत्त्वाः सुपरिनिर्वृतास्तेन हि निर्वाणजातीया दृश्यन्ते / मैत्रेय, तस्मादिमान् देवपुत्रान् मा विप्रलम्भस्व, मा वञ्चयस्व /

"ऽबोध्यान्न कश्चित् प्रतिष्ठिते(वा) विवर्तते(वा) / तस्मान्मैत्रेय, इमान् देवपुत्रांस्तां बोधिसङ्कल्पदृष्टिमुत्सर्जय / बोधिन्न कायेन नापि चित्तेनाभिसम्बुध्यति / बोधिर्हि सर्वनिमित्तव्यूपशमः / बोधिः सर्वालम्बनारोप रहिता, सर्वमनसिकारप्रचारापगता, सर्वदृष्टिगतपरिच्छिन्ना, सर्वपरितर्कविगता; बोधिः सर्वेञ्जितचेतश्चलनविसंयुक्ता, सर्वप्रणिधानाप्रवृता, सर्वोद्ग्रहणविरहिता, अश्लेषप्रतिपन्ना, धर्मधातुनिश्रयनिश्रिता, तथतान्वया भूतकोट्यवस्थिता मनोधर्माभावेनाद्वया, आकाशसमसमा, उत्पादव्ययस्थित्यन्यथात्वाभावेनासंस्कृता /

"ऽबोधिः सर्वसत्त्वानाञ्चित्तचर्याध्याशयपरिज्ञा, आयतनानां द्वाराभूता सर्ववासनाप्रतिसन्धिक्लेशविप्रमुक्तासंसृष्टा, स्थानास्थानविसंयोगेन विषयाप्रतिष्ठिता, - ऽ-समन्ततोदेशानवस्थिता, प्रादुर्भाविनी तथतानुपस्थिता / बोधिर्नाममात्रा, तन्नामाप्यचलम् / आयूहनिर्यूहविगता बोधिरतरङ्गा / बोधिर्निरुपायासा, प्रकृत्या परिशुद्धा, प्रभासः स्वभावविशुद्धा / बोधिरनुद्ग्रहणा स्वनालम्बना, सर्वधर्मसमताधिगमेनाभिन्ना / बोधिरुदाहरण विश्लेषेणानुपमा, सुदुरवबोधा-यतः सूक्ष्मा /

"ऽबोधिश्चेदाकाशस्वभावेन सर्वत्रगा, सा हि कायेन वा चित्तेन वाभिसम्बुद्धनाय् आसमर्था / तत् कस्य हेतोः? कायो हि तृणकाष्ठकुड्यपथप्रतिभासनिभः / चित्तमरूपमसनिदर्शनमनिश्रयमविज्ञप्तिकम्" /

"भगवन्, अस्मिनुपदेशे प्रकाशिते, तस्याः परिषदो द्वे शते देवपुत्राणामनुत्पत्तिकधर्मक्षान्तिम् प्राप्नुवन् / अहं त्वपगतप्रतिभानो ऽभूवम् / एतस्मात्.....नोत्सहे" /

ततो भगवाल्लिंच्छविकुमारं प्रभाव्यूहमामन्त्रयते स्म- "प्रभाव्यूह,..... गच्छ" / प्रभाव्यूहो ऽप्यवोचत्- "भगवन्,..... नोत्सहे..... /

"एकस्मिन् समये वैशाल्या महानगर्या निर्गतो ऽहं लिच्छविंविमलकीर्तिम् प्रविशन्तं समागमम् / स मामभिवाद्य, (तम्) एतदवादिषम्- ऽगृहपते, कुत आगतः?ऽ स मामब्रवीत्- ऽआगतो बोधिमण्डात्ऽ / तमब्रवम्- ऽतद्वोधिमण्डन्नाम किमधिवचनम्?ऽ -स मामेतदवोचत्- ऽकुलपुत्र, बोधिमण्डन्नामतध्यकृत्रिमकारणादाशयमण्डम्, व्यापारकर्मोत्तारणकारणात्तद् हि योगमण्डम्, विशेषाधिगमकारणात्तद् ह्यध्याशय मण्डम्, समविस्मारणकारणात्तद् हि बोधिचित्तमण्डम् /

"ऽविपाकाप्रतिकाङ्क्षणताकारणात्तद् हि दानमण्डम्; तच्छीलमण्डं प्रणिधानपरिपूरणात्; सर्वसत्त्वेषु प्रतिघचित्ताभावेन क्षान्तिमण्डम्; अविनिवर्तनीयकारणाद्वीर्यमण्डम्; चित्तकर्मण्यताकारणाद् ध्यानमण्डम्; प्रत्यक्षदर्शनात् प्रज्ञामण्डम् /

"ऽसर्वसत्त्वेषु समचित्तकारणान्मैत्रीमण्डम्; सर्वोपक्रमसहनकारणात् करुणामण्डम्; धर्मानन्दाभिरत्यधिमुक्तिकारणान्मुदितामण्दम्; अनुनय प्रतिघप्रतिनिसर्गात् तध्युपेक्षामण्डम् /

"षडभिज्ञ (-प्रात्प्या)ऽभिज्ञामण्डम्, निर्विकल्पाद्विमोक्षमण्डम्, सत्त्वपरिपाचनादुपायामण्डम्, सर्वसत्त्वसंग्रहकारणात्संग्रहवस्तुमण्डम्, प्रतिपत्तिसाख्यापाराच्छ्रवणमण्डम्, योनिशः प्रत्यवेक्षणान्निध्यप्तिमण्डम्, संस्कृतासंस्कृतप्रहाणकारणाद्वोधिपाक्षिपाक्षिकधर्ममण्डम्, सर्वलोकावंचनात्सत्यमण्डम्, अविद्यास्रवक्षयाज्जरामरणं यावदास्रवक्षयकारणात् प्रतीत्यसमुत्पादमण्डम्, यथाभूतमभिसम्बोधिकारणात्सर्वक्लेशप्रशममण्डम् /

"सर्वसत्त्वनिःस्वभावात् तधि सर्वसत्त्वमण्डम्, शून्यताभिसम्बोधिकारणात्तद् हि सर्वधर्ममण्डम्, अचलकारणात्सर्वमारप्रमर्दनमण्डम्, प्रवेशवियोगात्त्रैधातुकमण्डम्, अभयासन्त्रासकारणात् सिंहनादनादिनो वीर्यमण्डम्, सर्वत्रानिन्दितकारणात्तद् हि सर्वबलवैशारद्यावेणिकबुद्धधर्ममण्डम्, क्लेशाशेषकारणात्त्रैविद्यतामण्डम्, सर्वज्ञज्ञानसमुदागमात् तध्येकचित्तक्षणे सर्वधर्मनिरवशेषाधिगममण्डम् /

"ऽयावत्तथा हि, कुलपुत्र, बोधिसत्त्वाः पारमितासमन्वागताः, सत्त्वपरिपाचनसमर्पिताः, सद्धर्माधारणप्रतिसंयुताः (तादृशानां) कुशलमूलसहगतानां सर्वाणि पादनिःक्षेपणोत्क्षेपणानि, बोधिमण्डादागतानी, बुद्धधर्मेभ्य आगतानि, बुद्धधर्मेषु प्रतिष्ठितानिऽ /

"भगवन्, अस्मिन्निर्देशे देशिते, देवमनुष्याणां पञ्चशतमात्रेण बोधिचित्त उत्पादिते, अहं तु ततो ऽपगतप्रतिभानो ऽभूवम् / एतस्मात्.....नोत्सहे" /

अथ भगवान् बोधिसत्त्वं जगतींधरमामन्त्रयते स्म- "जगतींधर,.....गच्छ" / -जगर्तीधरस्त्ववोचत्- "भगवन्,.....नोत्सहे..... /

"एकस्मिन् समये स्वस्थाने स्थितिकाले येनाहं, मारः पापीमानप्सरसां द्वादशसहस्रैः परिवृतः शक्रस्य वेषेण तूर्यञ्च सङ्गीतिमुपादाय, तेनोपसंक्रम्य मम पादौ शिरसाभिवन्द्य, स सपरिवारो माम् पुरस्कृतवानेकान्ते ऽस्थात् /

"तन्तु शक्रम् देवेन्द्रं चिन्तयमानस्तमेतदवचम्- ऽकौशिक, तुभ्यं स्वागतम् / सर्वकामरसेष्वप्रमादं कुरु / कायजीवभोगात् सारादानानित्यतासंकल्पं बहुलीकुरुऽ /

"अथ स मामेतदवादीत्- ऽसत्पुरुष, इमानि द्वादशसहस्राण्यप्सरसाम् मद्गृहाण च इमास्तव परिवारं कुर्व-ऽ इति वदति स्म / तमेवम्- ऽकौशिक, अयोग्यवस्तु श्रमणाय शाक्यपुत्राय मा दाः / तध्यस्मभ्यमयोग्यम्ऽ इत्यवदम् / तस्यां कथायां कथितायाम्, स लिच्छविर्विमलकीर्तिरुपसंक्रम्य, मामेवम्- ऽकुलपुत्र, अस्मिञ्शक्र एवं संज्ञाम्मोत्पादय / अयं हि मारः पापीमान् / त्वयि विडम्बनार्थमागतः, (स) शक्रो नास्तीऽ- त्यवदीत् /

"अथ लिच्छविर्विमलकीर्तिस्तं मारं पापीमन्तमेवम्- ऽमार पापीमन् इमा अप्सरसः श्रमणाय शाक्यपुत्रायायोग्याः; तेन मह्यं ताः प्रयच्छेऽ- त्यवोचत् / ततो मारस्य पापीमतो भयभीतस्य संविग्नस्य- ऽअयं लिच्छविर्विमलकीर्तिर्मद्वञ्चनाया आगच्छतीऽ-त्य (भूत्) / अन्तर्धानं कर्तुकामः सो ऽसमर्थः; सर्वर्द्धिविधीर्दर्शयित्वा, पुनरन्तर्धानस्यासमर्थो ऽभूत् /

"अथान्तरीक्षाद् घोषोनिश्चरति स्म- ऽपापीमन्, इमा अप्सरसो ऽस्मै सत्पुरुषायोपनामय, पुरतश्च स्वस्थानं गन्तुं शक्ष्यसिऽ / -ततो मारः पापीमान् भयभीतो ऽनाकाङ्क्षमाणस्तथा ता अप्सरस उपनामयति स्म /

"अथ विमलकीर्तिस्ता अप्सरसः प्रतिगृह्य ता एतदब्रवीत्- ऽयूयम् पापीमता मह्यं दत्ताः; तेनानुत्तरसम्यक्सम्बोधिचित्तमुत्पादयतऽ / स ताभ्यो बोधिपरिपाकावहानुलोमिकाभ् कथामकार्षीत्; ताश्च बोधिचित्तमुत्पादयन्ति स्म / ततः स पुनस्तासु- ऽयूयमेतर्हि बोधिचित्तमुत्पाद्य, इतो धर्मसम्मोदे हृष्टाधिमोक्षयत, कामे (षु) च हृष्टा माधिमोक्षयते ऽ त्याज्ञापयति स्म / ता अब्रुवन्- ऽसा धर्मसम्मोदरतिः किम्?ऽ

"सो ऽब्रवीत्- ऽ(सा) रतिर्बुद्धे ऽभेद्यश्रद्धा, धर्मश्रवणछन्दो रतिः, सङ्घपर्युपासने रतिः, निर्माणता च गुरुसत्कारे रतिः, धातुसमुदये च विषयास्थाने च रतिः घातकोपमस्कन्धप्रेक्षणे रतिः, सर्पविषमधातुप्रेक्षणे, शून्यग्रामनिभेष्वायतनेषु विवेकरतिः, बोधिचित्तसंरक्षे सत्त्वहितङ्कररतिः, दानसंविभागे शीलास्रंसनेरतिः, क्षान्त्यां क्षमणदमे, वीर्ये कल्याणसम्प्रतिपत्त्यां, ध्यानपरिभोगे च प्रज्ञायाम् क्लेशनिराभासे च बोध्यामुदाररतिः, मारनिग्रहरतिः, क्लेशसंवधे बुद्धक्षेत्रविशोधने, लक्षणानुव्यञ्जनसमुत्थापनतार्थं सर्वकुशलसन्निचये, गम्भीरधर्मश्रवणात्रासरतिः, त्रिषु विमोक्षमुखेषु परिचयकरणे निर्वाणाध्यालम्बने बोधिमण्डालङ्कारे चाकालप्राप्त्यै निर्व्यापारे च सभागजनाय सेवने चासभागेष्वद्वेषे चाप्रतिघे रतिः, कल्याणमित्रेभ्यः सेवने, पापमित्रविवर्जने च धर्मे चाधिमुक्तिः, सा श्रद्धा, प्रामोद्यरतिश्रोपायसंग्रहरतिश्चाप्रमादे बोधिपक्षयधर्मनिषेवणे च रतिः / एवं हि बोधिसत्त्वधर्मसम्मोदाभिरधिमुक्तिःऽ /

"अथ मारः पापीमांस्ता अप्सरस एतदब्रवीत्- ऽइदानीमस्माकमावासं गच्छत / -ता अब्रुवन्- ऽत्वया वयमस्मै गृहपते दत्ताः; तेन साभ्प्रतं धर्मसम्मोदाभिरत्यधिमुक्तिः करणीया कामे (षु) त्वभिरत्यधिमुक्तिरकरणीया / ततो मारः पापीमाल्लिंच्छवि विमलकीर्तिमेतदवोचत्- ऽयदि बोधिसत्त्वो महासत्त्वः सर्वस्वपरित्यागी च चित्तग्राहको नास्ति, गृहपते, इमा अप्सरसाः प्रेषयऽ / विमलकीर्तिरब्रवीत्- ऽइमाः प्रेष्याः; तेन पापीमन् सपरिवारो ऽपगच्छ / सर्वसत्त्वधर्माशयः परिपूर्यताम्ऽ / अथ ता अप्सरसो विमलकीर्तये ऽभिवन्दनं कृत्वा, एतदवदन्- ऽगृहपते, कथमस्माभिर्मारस्थाने विहरितव्यम्? "अवोचत्- ऽभगिन्यः, अस्त्यक्षयप्रदिपो नाम धर्ममुखम् / तेन प्रतिपद्यत / तदपि, भगिन्यः, किम्? यदिदम्-यद्यप्येकप्रदीपात् प्रदीपानां शतसहस्राणि प्रज्वालितानि, स प्रदिपऽपचयन्न गच्छति / एवमेव,भगिन्यः, एकबोधिसत्त्वः सत्त्वानां बहुशतसहस्राणि बोध्यां स्थापयित्वा, स बोधिसत्त्वो ऽनपचयचित्तस्मृतिः, पर्यनपचय उपरिवर्धते / तथा च सर्वकुसहलधर्मा यथा यथान्येभ्येः परिभाविताश् चाख्याताः, शासनं तथा तथा सर्वकुशलधर्मैर्विवर्धते / तध्यक्षयप्रदीपो नाम धर्म मुखम् / तस्मिन् मारस्थाने विहरमाणा अप्रमान्णदेवपुत्रदेवकन्यानां बोधिचित्तमधिमुच्यध्वम् / एवं हि स्यात तथागतकृतज्ञाः, सर्वसत्त्वोपजीव्याः ऽ / ततस्ता अप्सरसो लिच्छवेर्विमलकिर्तेः पादौ शिरसाभिवन्द्य, मारेण सह प्रत्यगच्छन् / भगवन्, लिच्छवेर्विमलकीर्तेस्तद्विकुर्वणविशेषणं दृस्त्वा, एतस्मात् ........नोत्सहे" /

अथ भगवंश्रेस्थिपुत्रं सुदत्तम् आमन्त्रयते स्म- "कुलपुत्र. ...... गच्छ " / सुदत्तः पुनरवोचत्- "भगवन्, ..... नोत्सहे .... / " एकस्मिन् समये माम् मत्पितृनिवेशने महायज्ञकरणार्थाय सर्वश्रमणब्राह्मणेभ्यः सर्व दरिद्रदुःखितकृपणवनीयकविह्वलीभूतेभ्यः सप्तदिवसं दानं ददं, तस्मिन् महायज्ञकरणे ऽन्तिमदिवसे लिच्छविर्विमलकीर्तिस्ताम्महायज्ञभूमिमुपसंक्रम्य, एतदवदीत्- ऽश्रेस्थिपुत्र, यथा त्वं यज्ञं करोषि तथा हि यज्ञं मा कुरुः, धर्म यज्ञं कुरु / अलं त आमिषयज्ञेन / तमेतदवदम् - तद्धर्मयज्ञं कथं देयम्? ऽ

"स मामब्रवीत्- ऽयेन केन धर्म यज्ञेनापूर्वमचरमं सत्त्वा परिपच्यन्ते, तधि धर्म यज्ञम् / तदपि किं? यदुत- बोधिव्युपहारस्य महामैत्रि, सद्धर्मसंग्रहेणाभिनिर्हृता महाकरुणा, सर्वसत्त्वप्रामोद्यपलम्भेनाभिनिर्हृता महामुदिता, ज्ञानसंग्रहेणाभिनिर्हृता महोपेक्षा-

ऽ ऽशान्तिदमेनाभिनिर्हृता दानपारमिता, दुःशीलसत्त्वपरिपाचनेनाभिनिर्ह्र्रिता शीलपारमिता, नैरत्म्यधर्मेणाभिनिर्हृता क्षान्तिपारमिता, बोध्यारम्भेणाभिनिर्हृता वीर्यपारमिता, कायचित्तविवेकेनाभिनिर्हृता ध्यानपारमिता, सर्वज्ञज्ञानेनाभिनिर्हृता प्रज्ञापारमिता- " ऽ सर्वसत्त्वपरिपाचनेनाभिनिर्हृता शून्यताभावना, संस्कृतपरिशोधनेनाभिनिर्हृतानिमित्तभावना, संचित्योपपत्त्याभिनिर्हृताप्रणिहितभावना-

"ऽ सद्धर्मपर्युद्ग्रहणेनाभिनिर्हृतो बलपराक्रमः, संग्रहवस्तुनाभिनिर्हृतं जीवितेन्द्रियम्, सर्वसत्त्वभृत्यशिष्यभवेनभिनिर्हृता निर्माणता, असरात्सारोपादानेनाभिनिर्हृतः कायजीवभोगलाभाः, षडनुस्मृत्याभिनिर्हृत स्मृतिः, संमोदनीयधर्मेणाभिनिर्हृत आशयः, सम्प्रतिपत्याभिनिर्हृताजीवपरिशुद्धिः, श्रद्धाप्रामोद्यसेवनेनाभिनिर्हृतमार्यपर्युपासनम्, अनार्याप्रतिघेनाभिर्हृतो ऽध्याशयः, प्रतिपत्याभिनिर्हृतं श्रवणकौशल्यम्, अरणाधर्मावबोधेनाभिनिर्हृत आरण्यावासः, बुद्धज्ञानप्रतिलाभेनाभिनिर्हृतं प्रतिसंलयनम्, सर्वसत्त्वक्लेशविमुक्तियोगेनाभिनिर्हृता योगाचाराभूमिः-

"ऽलक्षणानुव्यञ्जनबुद्धक्षेत्रालङ्कारसत्त्वपरिपाचननेनाभिनिर्हृतः पुण्यसम्भार, सर्वधर्मेष्वनुपादेयाहेयैकनयज्ञानेनाभिनिर्हृतः प्रज्ञासम्भारः, सर्वक्लेशावरणाकुशलधर्मप्रहाणेनाभिनिर्ह्रितः सर्वकुशलमूल सम्भारः, सर्वज्ञज्ञानाधिगमेन च कुशलधर्मेण चाभिनिर्हृतः सर्वबोधिपक्षधर्मसमुत्पादः- तधि, कुलपुत्र, धर्मयज्ञम् / तस्मिन् धर्मयज्ञे प्रतिष्ठितो बोधिसत्त्वो यज्ञदायकः, यज्ञसुकारक, सदेवके लोके भवति दक्षिणीयः ऽ /

" भगवन्, तस्मिन् गृहपताविममेवंनिर्देशं देशितवति, तस्या ब्राह्मण परिषदो ब्राह्मणानां द्विशतानामनुत्तरसम्यक्सम्बोधिचित्तमुत्पन्नम् /

"अहमपि श्राद्ध आश्चर्यप्राप्तः सत्पुरुषस्य पादावभिवन्द्य,मत्कण्ठादवतार्य शतसहस्रमूल्यं मुक्ताहारमनुप्रयच्छामि स्म / स न प्रतीच्छति स्म / अथ खल्वहमेतदवोचम्- ऽ प्रतिगृहाण त्वमिम् मुक्ताहारं, यं चाधिमुच्यसे तस्मै देहीऽ ति / स तं मुक्ताहारं प्रतिगृह्य च द्वौ प्रत्यंशौ कृत्वा चैकं प्रत्यंशं तस्मिन् यज्ञस्थाने सर्वलोकनिन्दितेभ्यो नगरदरिद्रेभ्यो ददाति स्म; द्वितियं प्रत्यंशं दुष्प्रसहाय तथागताय निर्यातयामास / एवम् रूपं प्रातिहार्यं दर्शयति स्म, यथा सर्वाभिः पर्षद्भिर्मरीचिर्नाम लोकधातुर्दुष्प्रसहो नाम तथागतश्च दृश्येते स्म / स च मुक्तहार स्तस्य दुष्प्रसहस्य तथागतस्य मुर्ध्निमुक्ताहार्कूटागारः संस्थितो ऽभूच्चतुरस्रश्चतुःस्थूणः समभागः सुविभक्तो दर्शनीयो विचित्रः /

"स एवं रूपं प्रातिहार्यं दर्शय्य, वचनमेतदवोचत्- "ऽ दायको यो दानपतिर्यथा तथागतं, तथा नगरदरिद्रान् दक्षिणीयान् सञ्जानाति चासंभिन्नं सममहाकरुणाचित्तेन विपाकप्रतिकाङ्क्षी परित्यागी, स हि धर्म यज्ञ परिनिष्पन्न ऽ इति /

"अथ ते नगरदरिद्रास् तत् प्रातिहार्यं दृष्त्वा, तं धर्मोपदेशमपि श्रुत्वा, अनुत्तरसम्यक्सम्बोधिचित्तमुत्पादयन्ति स्म / भगवन्, एतस्मात् कारणात्तस्य सत्पुरुषस्य रोगपृच्छनगमन्नोत्सहे " /

तथा हि सर्वे ते बोधिसत्त्वा महासत्त्वा अपि, या तेन सत्पुरुषेण सहावकाशकथा" ये ननोपदेशा उक्ताः तत्सर्वं देशयन्तो गमन्नोत्सहन्ते स्म /

श्रावकबोधिसत्त्वप्रेषणोक्तस्य परिवर्तस्तृतीयः /

4 ग्लानसंमोदन (कथा)

ततो भगवान् मंजुश्रीम् कुमारभूतमामन्त्रयते स्म- "मंजुश्रीः, लिच्छवेर्विमलकीर्ते रोगपृच्छनाय गच्छ" / मंजुश्रीरप्यवोचत्-

"भगवन्, लिच्छविर्विमलकीर्तिर्दुरासदो गम्भीरनये प्रतिभानप्रतिपन्नः, व्यत्यस्तपदपुष्कलपदनिष्पादनकुशलः, अनाच्छेद्यप्रतिभानस्सर्वसत्त्वेष्वप्रतिहतबुद्धिसमर्पितः, सर्वबोधिसत्त्वकर्मनिर्यातः, सर्वबोधिसत्त्वप्रत्येकबुद्धगुह्यस्थाने सुप्रतिपन्नस्सर्वमारस्थानविनिवर्तकुशलः, महाभिज्ञाविक्रीडित उपायप्रज्ञानिर्यातो ऽद्वयधर्मधात्वसंभेदगोचरस्य वराग्रप्राप्तो धर्मधात्वेकव्यूहानन्ताकारव्यूहधर्मदेशनाकोविदः, सर्वसत्त्वेन्द्रियसम्प्रापकव्यूहज्ञो विचक्षणः, उपायकौशल्यगतिगतः प्रश्ननिर्णयप्रतिलब्धः / स परीत्तवर्मसन्नाहसन्तोषस्यासमर्थः, कि तु बुद्धाधिष्ठानेन तेन गतो यथाभूतं यथानुभावं भाषितुकामो(ऽस्मि)" /

अथ तस्याम् परिषदि तेषां बोधिसत्त्वमहाश्रावकशक्रब्रह्मलोकपालानां च देवपुत्राप्सरसामेतभूत्- "(यत्र) मंजुश्रीः कुमारभूतश्चा सत्पुरुषस्तावुभावभिलापिनौ, तत्र महाधर्मकीर्तिकथा नियतं भविष्यती" -ति / ततो बोधिसत्त्वानां लक्षं श्रावकाणांच पञ्चशतमात्रं बहुशक्रब्रह्मलोकपालाश्च बहुशतसहस्राणी देवपुत्राणांच धर्मश्रवणार्थं मंजुश्रियः कुमारभूतस्य पृष्ठितो ऽगच्छन् / अथ मंजुश्रीः कुमारभूतः सर्वैस्तैर्बोधिसत्त्वमहाश्रावकशक्रब्रह्मलोकपालदेवपुत्रैः परिवृतः पुरस्कृतो वैशालीम्महानगरीम् प्रविशति स्म /

ततो लिच्छवेइविमलकीर्तेरेतदभूत- "मंजुश्रीः कुमारभूतश्च बहुपरिवार आगच्छन्ति; तेनेदम्मे गृहमधिष्ठा(-नेन) शून्यं (भवत्व्)-" इति / (ततः) तद्गृहं शून्यं अध्यतिष्ठत् / तत्र द्वारिको ऽपि नाभवत् / मंचो यस्मिन् विमलकीर्तिग्लानः शायी, आसीदेकासनम् / तं स्थापयित्वा तत्र मंचो वा पीठिका वासनं किञ्चिन्नादृश्यत /

अथ मंजुश्रीः सपरिवारो येन विमलकीर्तेरावासस्तेनागच्छत्; उपसंक्रम्य च प्रविश्य, तद्गृहं शून्यमद्राक्षीत् / तत्र द्वारिको ऽपि नाभवत् / तस्मात्, (यस्मिन्) विमलकीर्तिः शाय्यासीत्, एकाकिमंचागन्यमञ्चं पीठिकं वासनं वा नाद्राक्षीत् / ततो लिच्छविर्विमलकीर्तिर्मजुश्रियम् कुमारभूतमदर्शत्; दृष्ट्वैदवोचत्- "मंजुश्रीः, एहि स्वागतः, मंजुश्रीः, एहि सुस्वागतः / पूर्वमनागतो ऽदृष्टो ऽश्रुतो दृश्यसे" / मंजुश्रीरब्रवीत्- "गृहपते, यथा वदसि तथा यदागतम्, तधि पुनर्नागच्छति / यद् गतं तदपि पुनर्न गच्छति / तत् कस्य हेतोः? अनागत आगमो ऽपि न प्रज्ञायते, गते ऽपि गमनन्न प्रज्ञायते, यत्कारणाद् यद्दृष्टम्, तत् पुनरपि द्रष्टव्यन्नास्ति /

"कच्चित्ते, सत्पुरुष, क्षमणीयं, कच्चिद् यापनीयं, कच्चित्ते धावतो न क्षुभ्यन्ते, कच्चिद् दुःखा वेदनाः प्रतिक्रामन्ति नाभिक्रामन्ति? भगवानपि - ऽननु तुभ्यमल्पाबाधता, अल्पातंकता, अल्पातुरः लघूत्त्थानतापि, यात्राबलसुखानवद्य (-ता-) सुखस्पर्शविहार(-ते-)ऽ त्यख्यत् / गृहपते, अयं ते रोगः कस्मादुत्पन्नः? उत्पन्नः कियच्चिरं? किमाश्रितः? कदा शाम्यति?"

विमलकीर्तिरवोचत्- "मंजुश्रीः, अविद्या च भवतृष्ण यावत्, तावदयम्मे रोगो ऽपि / यावत् सर्वसत्त्वानां रोगः, तावदपि मे रोओगः / यदा सर्वसत्त्वा वीतरोगाः, तदा रोगो ममापि न सम्भवति / तत् कस्य हेतोः? मंजुश्रीः, बोधिसत्त्वस्य संसारस्थानं हि सत्त्वाः); रोगो हि संसारस्थानम् / यदा सर्वसत्त्वा वीतरोगाः, तदा बोधिसत्त्वो ऽप्यरोगो भवति /

"मंजुश्रीः, तद्यथापि नाम श्रेष्ठिन एकपुत्रो ग्लानो भवेत्; तद्वाधकारणादुभावपि मातापितरौ ग्लानौ भवतः / यावत्स एकपुत्रो ऽरोगो ऽभूतः, तावदुभावपि मातापितरौ दुःखितौ भवतः / मंजुश्रीः, एवमेव बोधिसत्त्वः सर्वसत्त्वेष्व् एकपुत्र इव प्रियः; सर्वसत्त्वेषु ग्लानेषु सो ऽपि ग्लानो भवति / सत्त्वे (-ष्व्-) अरोगे (-षु), सो ऽप्यग्लानः / यदपि, मंजुश्रीः- ऽअयं ते रोगः कस्मादुत्पन्न?ऽ इति वदसि-बोधिसत्त्वानां हि रोगो महाकरुणायाः सन्भवति" /

मंजुश्रीरवोचत्- "गृहपते, किमस्मिंस्ते शून्यागारे न कश्चित् परिवारो ऽस्ति?"-अब्रवीत्- "मंजुश्रीः, सर्वबुद्धक्षेत्राण्यपि शून्यानि" / - अभाषत- "केन शून्यानि?"-आह- "शून्यतया शून्यानि" / -अभाषत- "शून्यतायां शून्यम् कीम्?" -आह- "सङ्कल्पो हि शून्यता शून्यः" / -अभाषत- "शून्यता कि सङ्कल्पायासमर्था?" -आह- "तस्मिन् परिकल्पे शून्ये, शून्यता हि शून्यतायां निर्विकल्पा" / -अभाषत- "गृहपते ऽ शून्यता यत्रान्वेष्टुं (युज्जते)?" -आह- "मंजुश्रीः, शून्यतान्वेष्टुं (युज्जते) द्विषष्टिदृष्टिगतेभ्यः" / -अभाषत- "द्विषष्टोदृष्टिगतानि कुतो ऽन्वेष्टुं (युज्यते)?" -आह- "तान्यन्वेष्तुं (युज्जते) तथागतस्य विमुक्त्याः" / - अभाषत- "इयं तथागतस्य विमुक्तिः कुतो ऽन्वेष्टुं (युज्यते)?" -आह- "अन्वेष्टुं (युज्यते) सर्वसत्त्वानाम् प्रथमचित्तचर्यायाः /

"मंजुश्रीः यत् ऽकिन्ते न कश्चित् परिवारो ऽस्ती?ऽ -ति वदसि- सर्वमाराश्च सर्वपरप्रवादिनः सन्ति मे परिवारः / तत् कस्य हेतोः? मारा हि संसारस्य वर्णवादिनः, संसारश्च बोधिसत्त्वस्य परिवारः / परप्रवादिषु दृष्टिगतानां वर्णवादोइषु, बोधिसत्त्वः सर्वदृष्टिगतेभ्यो ऽनिंज्यः / तस्मात् सर्वमाराश्च सर्वपरप्रवादिनो मम परिवारः" /

मंजुश्रीरभाषत- "गृहपते, रोगस्ते कीदृशः?" - आह- "आरुप्यो ऽसनिदर्शनः" / -अभाषत- "स रोगः किं कायाप्रतिसंयुक्त आहोस्विच्चित्तप्रतिसंयुक्तः?" -आह- "कायविवेकतया (स) कायप्रतिसंयुक्तो नास्ति, चित्तमायाधर्मतया चित्तप्रतिसंयुक्तो नास्ति" / -अभाषत- "गृहपते, एषां चतुर्णा, यदिदम्-पृथिव्यप्तेजोवाय्वाकाशधातूनाम्, को धातुर्हन्यते?" -आह- "मंजुश्रीः, यः कश्च सर्वसत्त्वानां रोगधातुः, तेनाहमपि ग्लानः / मंजुश्रीः, कथम् बोधिसत्त्वेन ग्लानो बोधिसत्त्वः सम्मोद्पनीयः?"

मंजुश्रीरभाषत "कायो ऽनित्य इति-(संमोदपनीयः), न हि निर्विद्विरागेन / कायो दुःख इति-निर्वाणरसेन हि न (संमोदपनीयः) / कायो नैरात्म्य इति-अथ च पुनः सत्त्वपरिपाचनेन (संमोदपनीयः) / कायः शान्त एवेति-किन्तूपशमेन (संमोदपनीयो) नास्ति / सर्वदुश्चरित् उपनीते, संक्रान्त्या न (संमोदपनीयः) / स्वातुरेणान्येशु ग्लानेषु सत्त्वे(षु)कारुण्यपूर्वान्तपर्यान्त दुःखानुस्मृतिसत्त्वार्थ कार्यानुस्मृतिकुशलमूलसाक्षात्कारादिविशुद्ध्यतृष्णानित्योद्योगं समारभ्य, सर्वरोगाभावकारणभैषज्यराजो भवेद्-इति / तथा हि बोधिसत्त्वेन ग्लानो बोधिसत्त्वः संमोदपनीयः" / मंजुश्रीरभाषत- "कुलपुत्र, ग्लानेन बोधिसत्त्वेन कथं स्वचित्तं निध्यायितव्यम्?"

विमलकीर्तिराह- "मंजुश्रीः, ग्लानेन बोधिसत्त्वेन हि स्वचित्तमेवं निध्यायितव्यम्-व्याधिः पूर्वान्ताभूतविपर्यासकर्मपर्युत्थानान्निश्ररति / अभूतसंकल्पक्लेशोत्पन्नो य आतुरो नाम धर्मः, त(स्य) परमार्थत इह न किंचिदुपलभ्यते / तत् कस्य हेतोः? अयं कायश्चतुर्महाभूतेभ्यो भूतः; एषु धातुषु कश्चदधिपतिर्वा जनको वा नास्ति / अस्मिन् काये ऽनात्मके, आत्माभिनिवेशं स्थापयित्वा, इह परमार्थतो यो रोगो नाम सो ऽनुपलम्भः; तस्मादात्मनि ह्यभिनिवेशे ऽसति, रोगमूलाज्ञायां विहरितव्यम्-इति; तेन, आत्मसंज्ञायां प्रतिप्रस्रब्धायां, धर्मसंज्ञोत्पादयितव्या /

"अयं हि कायो ऽनेकधर्मसंनिपातः; उत्पद्यमानो धर्मा एवोपद्यन्ते; निरुध्यमानो धर्म एव निरुध्यन्ते / धर्माः परस्परन्न वेदयन्ति न जानन्ति / ते धर्मा उत्पत्त्यामेवम्- ऽअहमुपपद्यऽ इति-न चिन्तयन्ति; निरोधऽप्येवम्-ऽअहन्निरिध्यऽ इति-न चिन्तयन्ति /

"तेन धर्मसंज्ञाज्ञाकरणार्थ चित्तमुत्पादयितव्यम्- ऽयन्मयैवं धर्मेषु संज्ञायते, तदपि विपर्यासः / विपर्यासो हि महारोगः / मया रोगविसंयोगः करणीयः, व्याधिप्रहाणायोद्योगः करणीयःऽ / तत्र तद्व्याधिवर्जनं किम्? यदुत-अहंकारममकारवर्जनम् / तदहंकारममकारवर्जनं किम्? यदुत-देवयविसंयोगः / तत्रा ध्यात्मबहिर्धासमुदाचाराभावः किम्? यदुत-समताया अचलं, स्वचलं, व्यचलम् / "समता किम्? मत्समताया यावन्निर्वाणसमताम् / तत् कस्य हेतोः? यदिदम्-मन्निर्वाणयोरुभयोरपि शून्यताकारणात् / ताभुबौ केन शून्यौ? नामव्यवहारोभौ शून्यौ; तस्मात्तावपरिनिष्पन्नौ / तथा हि तेन समतादर्शनेन रोग एवानन्यः / शून्यतान्यथाकारे ऽसति, रोग एव शून्यता /

"वेदना निर्वेदन द्रष्टव्या / तेन वेदनानिरोधो न साक्षात्करणीयः / परिसमाप्तबुद्धधर्म उभे वेदने उत्सृजेत्, किं तु सर्वदुर्गतिसत्त्वेषु महाकरुणानुत्थापनन्नास्ति; तथा हि करणीयं, यथैषु सत्त्वेषु योनिशो निध्यप्त्या व्याधिर्निराकृतो भवति /

"एषु (सत्त्वेषु) कश्चिद्धर्मो नोपसंहर्तव्यो वा निराकरणीयो वा / तदाधारपरिज्ञानार्थ, यस्माद् रोग उत्पन्नः, तेषु धर्मो देशयितव्यः / स आधारः किम्? यदिदम्-अध्यालम्बनम् आधारः / अध्यालम्बनाधारे यावदालमम्बनम्, तावद् रोगाधारः / कस्मिनध्यालम्बनम्? त्रैधातुकाध्यालम्बनम् / अध्यालम्बनाधारपरिज्ञा किम्? यदुतनालम्बनं चानुपलब्धिः / यानुपलब्धिस्तध्यनध्यालन्बनम् / अनुपलब्धिः किम्? यदिदम्-आत्मदृष्टिश्च परदृष्टिः-उभे दृष्टी नोपलभ्येते / अतो ऽनुपलब्धिर्नामोच्यते /

"मंजुश्रीः, आतुरेण तथा हि बोधिसत्त्वेन जराव्याधिमरणजातिवर्जनाय स्वचित्तं निध्यायितव्यम् / मंजुश्रीः, बोधिसत्त्वानांरोग एवं रूपः / यद्येवन्न भवेत्, व्यवसायो निरार्थको ऽभविष्यत् / तद्यथापि नाम प्रत्यर्थिकोपघातेन वीरो नामोच्यते, एवमेव जराव्याधिमरणदुःखशमनेन बोधिसत्त्वो नामोच्यते /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.