Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

विमलकीर्तिनिर्देशसूत्र

Thông tin
GRETIL — L.M. Joshi and Bhiksu Pasadika: Vimalakīrtinirdeśa sūtram. Sarnath : Central Institute of Higher Tibetan Studies, 1981. (Reconstructed Version).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

"तेन ग्लानेन बोधिसत्त्वेनैवं - ऽयथा मम रोगो ऽभूतो ऽसन्, तथा हि सर्वसत्त्वानां रोगो ऽप्यभूतो ऽसन्-ऽ इत्युपलक्षितव्यम् / एवं प्रेक्षमाणः सो ऽनुशंसदर्शनाभ्रष्टः सत्त्वेषु महाकरुणामुत्पादयति, (अन्यत्) स्थापयित्वा चागन्तुकक्लेशप्रहाणाय सत्त्वेष्वभियोगमहाकरुणामुत्पादयति / तत् कस्य हेतोः? अनुशंसदर्शनपतितया महाकरुणया हि जातिषु बोधिसत्त्वो निर्विद्यते / अनुशंसदर्शनपर्युत्थानापगतया महाकरुणा बोधिसत्त्वो जातिषु न निर्विद्यते / दृष्टिपर्युत्थाने समुत्तिष्ठति, स न जायते / चित्तपर्युत्थानापगतो जायमानः स मुक्त इव जायते, स मुक्त इवोत्पद्यते / मुक्त इव जायमानो मुक्त इवोत्पद्यमानो बुद्धसत्त्वबन्धनमुक्तिधर्मदेशनायै समर्थश्च प्रतिबलो भवति / यदिदम् भगवता-आत्मना बद्धेन परं बन्धनाद्विमोचयेत्, तधि स्थानन्न विद्यते / आत्मना मुक्तेन परं बन्धनाद्विमोचयेत्, तत्स्थानं विद्यत-इति भाषितम् / तस्माद् बोधिसत्त्वो मुक्त्यै कुर्यान्न बन्धनाय /

"तत्र बन्धनं किम्? किम्मुक्तिः? अनुपाये भवमुक्तिपरिग्रहो बोधिसत्त्वस्य बन्धनम् / उपायेन भवप्रवृत्त्यवक्रांतिर्मुक्तिः / अनुपायेन ध्यानसमाधिसमापत्त्यास्वादो बोधिसत्त्वस्य बन्धनम् / उपायेन ध्यानसमाध्यास्वादो मुक्तिः / उपायेनानुद्दिष्ट प्रज्ञा हि बन्धनम् / उपायेन निष्ठितप्रज्ञाः मुक्तिः / प्रज्ञानुद्दिष्टोपायो बन्धनम् / प्रज्ञया निष्ठितोपायो मुक्तिः /

"तत्रोपायानुद्दिष्टप्रज्ञाबन्धनं किम्? यदुत-शून्यतानिमित्ताप्रणिहितनिध्यप्तिश्च लक्षणानुव्यंजन बुद्धक्षेत्रालंकारसत्त्वपरिपाचनानिध्यप्तिर्ह्युपायानुद्दिष्टप्रज्ञा च बन्धनम् / तत्रोपायनिष्ठितप्रज्ञामुक्तिः किम्? यदुतलक्षणानुव्यंजनबुद्धक्षेत्रालङ्कारसत्त्वपरिपाचनचित्तनिध्यप्तिश्च शून्यतानिमित्ता प्रणिहितपरिजयकरणम्, इदं ह्युपायनिष्ठितप्रज्ञा च मुक्तिः / तत्र प्रज्ञानुद्दिष्टोपायबन्धनं किम्? यदिदं-सर्वदृष्टिक्लेशपर्युत्थानानुशयानुनयप्रतिघावस्थितस्य सर्वकुशलमूलव्यापारबोध्यपरिणामना हि प्रज्ञानुद्दिष्टोपायश्च बन्धनम् / तत्र प्रज्ञानिष्ठितोपायमुक्तिः किम्? यदिदम्- तया सर्वदृष्टिक्लेशपर्युत्थानानुशयानुशयानुनयप्रतिघपरिवर्जकस्य सर्वकुशलमूलव्यापारबोधिपरिणामनयापरामृष्टिः, सा हि बोधिसत्त्वस्य प्रज्ञानिष्ठितोपायश्च मुक्तिः /

"मंजुश्रीः, तत्र ग्लानेन बोधिसत्त्वेनैवं तेषु धर्मेषु निध्यायितव्यं-यः कायचित्तरोगे ऽनित्यतादुःखशून्यननैरात्म्यसंबोधः, स तत्प्रज्ञा / यः कायस्य रोगविवर्जनेनानुत्पाद्श्च संसारास्रंसने सत्त्वार्थप्रयोगानुयोगः, अयं हि तदुपायः / भूयो ऽपि यः ऽकायचित्तरोगाः परस्परं परंपरया न च नवा न च जीर्णा (इत्य्) अवबोधः, स तत्प्रज्ञा / यच्च कायचित्तरोगोपशमनिरोधयोरनुत्थापनं, तत्तदुपायः /

"मंजुश्रीः, तथा हि ग्लानेन बोधिसत्त्वेन स्वचित्तं निध्यायितव्यम्; किं तु तेन निध्यप्त्यनिध्यप्त्योर्न बिहरितव्यम् / तत् कस्य हेतोः? यदि निध्यप्त्यां बिहरेत्, स हि पृथग्जनस्य धर्मः / अथानिध्यप्त्यां बिहरेत्, स श्रावकधर्मः / तस्माद् बोधिसत्त्वेन निध्यप्त्यनिध्यप्त्योर्न विहरितव्यम् / यत्तत्राप्रतिष्ठितं, तद्वोधिसत्त्वगोचरः /

"यः पृथग्जनगोचरश्चार्यगोचरश्च नास्ति, स हि बोधिसत्त्वगोचरः / यः संसारगोचरे ऽपि क्लेशगोचरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः / यो निर्वाणावबोधगोचरे ऽप्यत्यन्तपरिनिर्वाणगोचरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः / यश्चतुर्मारदेशनागोचरे ऽपि सर्वमारविषयसमतिक्रान्तगोचरः, स बोधिसत्त्वस्य गोचरः / यः सर्वज्ञज्ञानैषणागोचरे ऽप्यकालज्ञानप्राप्तिगोचरस्तु नास्ति, स हि बोधिसत्त्वस्य गोचरः / यश्चतुःसत्यज्ञानगोचरे ऽप्यकालसत्यप्रतिपादनगोचरस्तु नास्ति, स हि बोधि सत्त्वस्य गोचरः / यो ऽध्यात्मप्रत्यवेक्षणगोचरे ऽपि संचिन्त्यभवप्रतिकांक्षिपरिग्रहगोरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः / यो ऽनुत्पादप्रत्यवेक्षणगोचरऽपि नियतप्राप्त्यवक्रान्तिगोचरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः / यः प्रतीत्यसमुत्पादगोचरे ऽपि सर्वदृष्टिविष्यगोचरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः / यः सर्वसत्त्वसंसर्गगोचरे ऽपि क्लेशानुशयगोचरस्तु नास्ति, ......पे / यो विवेक-गोचरे ऽपि कायचित्तक्षयस्थानगोचरस्तु नास्ति, ......पे / यस्रैधातुकगोचरे ऽपि धर्मधातुव्यवच्छेदकरणागोचरस्तु नास्ति, ......पे / यः शून्यतागोचरे ऽपि गूणसर्वथैषणागोचरस्तु, ......पे / यो ऽनिमित्तगोचरे ऽपि प्रमोचयितव्य सत्त्वावलम्बनव्यवसायगोचरस्तु, ......पे / यो ऽप्रणिहितगोचरे ऽपि संचिन्त्यभवगतिदर्शनगोचरस्तु, ......पे / यो ऽनभिसंस्कारगोचरे ऽपि सर्वकुशलमूलाभिसंस्कारास्रंसनगोचरस्तु, ......पे / यः षट्पारमितागोचरे सर्वसत्त्वचित्तचर्यापारायणगोचरः, ...... पे / यः षडभिज्ञागोचरे ऽपि क्षीणाअस्रवगोचरस्तु नास्ति, ......पे /

यः सद्धर्मस्थानगोचरे कुमार्गानुपलब्धिगोचरः, ......पे / यश्चतुरप्रमाणगोचरे ऽपि ब्रह्मलोकजात्यसंसर्गगोचरेस्तु, ......पे / यः षडनुस्मृतिगोचरे सर्वास्रवगोचरो नास्ति, ......पे / यो ध्यानसमाधिसमापत्तिगोचरे ऽपि समाधिसमापत्तिवशेनानुत्पादगोचरस्तु, ......पे / यः स्मृत्युस्थानगोचरे ऽपि कायवेदनाचित्तधर्मातिरेकगोचरस्तु नास्ति, ......पे / यः प्रधान गोचरे कुशलाकुशलद्वयालम्बनगोचरो नास्ति, ......पे / य ऋद्धिपादनिर्हारगोचरे ऽप्यनाभोगर्द्धिपादवशगोचरः, ......पे / य पंचेन्द्रियगोचरे सर्वसत्त्वेन्द्रियवरावरज्ञानगोचरः, ......पे / यः पंचबलावस्थानगोचरे तथागतस्य दशबलाभिरतिगोचरः, ......पे यः सप्तबोध्यंगपरिनिष्पन्नगोचरे बुद्धिप्रविचयज्ञानकौशल्यगोचरः, ......पे / यो मार्गाश्रयगोचरे ऽपि कुमार्गानुपलब्धिगोचरस्तु, ......पे /

यः शमथविपश्यनासमग्रारम्भगोचरे ऽप्यत्यन्तोपशमापतनगोचरस्तु, ......पे /

यः सर्वधर्मानुत्थापनलक्षणावबोध्गोचरे ऽपि लक्षणानुव्यञ्जनबुद्धकायविभूषणसमुत्थापनतागोचरस्तु, ......पे /

yaḥ śrāvakapratyekabuddhacāritra darśanagocare 'pi buddhadharmānapāyivyāpāragocarastu, ......pe / yaḥ sarvasvabhāvātyantaviśuddhatāpannadharmānugamanagocare 'pi sarvasattva(nāṃ) yathādhimukti tatheryāqpathadarśanāgocarastu, ......pe /

यः सर्वबुद्धक्षेत्रात्यन्तविनाशाविष्करणापगता ऽकाशस्वभावाधिगमगोचरे ननाव्युहा नेकव्युहबुद्धक्षेत्रगुणव्युय्हदर्शनागोचरः, ......पे /

यः सद्धर्मचक्रप्रवर्तनमहापरिनिर्वाणासंदर्शनगोचरश्च बोधिसत्त्वचर्या अत्यजनगोचरश्च, अयमपि बोधिसत्त्वस्य गोचरः" /

अस्मिन् उपदेशे निर्दिश्यमाने, तेषाम् मंजुश्रीया कुकारभूतेन सार्धमागतानाम् देवपुत्राणामष्तसहस्रैरनुत्तरसम्यक्सम्बोधिचित्तमुत्पादितम् /

ग्लानसंमोदन कथायाः परिवर्तश्चतुर्थः /

5 अचिन्त्यविमोक्षनिर्देशः

अथायुष्मतः शारिपुत्रस्यैवं भवति स्म- ऽयद्यस्मिन् गृह आसनान्यपि न स्युः, इमे बोधिसत्त्वाश्च महाश्रावकाः कुत्र निषीदन्ति?ऽ ततो लिच्छविर्विमलकीर्तिरायुष्मतः शारिपुत्रस्य चित्तवितर्क ज्ञात्वा, आयुष्मन्तं शारिपुत्रमेवमवोचत्-

"भदन्त शारिपुत्र, कि धर्मार्थिक आगतो ऽसि? आहोस्विदासनार्थिकः?" आह- "धर्मार्थिक आगतः, नास्म्यासनार्थिकः" / अवोचद्- "भदन्त शारिपुत्र, यद्यतो यो धर्मार्थिकः सो ऽपि स्वकायार्थिको न स्यात्, आसनछन्दीक्षणं कुत आगतम्? भदन्त शारिपुत्र, यो धर्मकामः, स हि रूपवेदनासंज्ञासंस्कारविज्ञानकामो नास्ति, स्कन्धधात्वायतनकामो नास्ति / यो धर्मकामः, स कामरूपारूप्यधातुकामो नास्ति, / यो धर्मकामः, स बुद्धभिनिवेशकामो नास्ति, धर्मसंघाभिनिवेशकामो नास्ति / "भदन्त शारिपुत्र, पुनरपरं यो धर्मकामः, स दुःखपरिज्ञानकामो नास्ति, समुदयप्रहाणकामो नास्ति, निरोधसाक्षात्कारकामो नास्ति, मार्गभावनाकामो नास्ति / तत् कस्य हेतोः? धर्मो ह्यप्रपञ्चऽनक्षरः; ततो यद्- ऽदुःखं परिज्ञातव्यम्, समुदायः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यऽ इत्युत्तरिकरणीयं, तद्धर्मकामो नास्ति, तधि प्रपञ्चकामः / "भदन्त शारिपुत्र, धर्मो ह्युपशान्तश्च प्रशान्तः, ततो य उत्पादविनाशनसमुदाचारः, स धर्मकामो नास्ति, विवेककामो नास्ति; स उत्पादविनाशकामः / भदन्त शारिपुत्र, पुनरपरं धर्मो ऽ रजो विरजः; ततः कश्चिद्धर्मश्चेद् यस्मिन् अनुनयस्-(स्याद्-) अन्तमशो निर्वाणे ऽपि, स हि धर्मकामो नास्ति; स ऽरागरजः कामःऽ / धर्मो विषयो नास्ति / या विषयगणना, सा धर्मकामो नास्ति; स विषयकामः / धर्मो ह्यनाव्यूहो ऽनिर्व्युहः; कश्चिद्धर्मो यस्मिनभिग्रहणं चोत्सर्गः, स धर्मकामो नास्ति; स ह्यभिग्रहणोत्सर्गकामः /

"धर्मो ऽनालयः; य आलयारामाः, ते न धर्मकामाः, ते ह्यालयकामाः / धर्मो ऽनिमित्तः शून्यः; येषां विज्ञाननिमित्तानुगमनम्, ते न धर्मकामाः, ते निमित्तकामाः / धर्मो ऽसहवासः; ये केचिद्धर्मेण सह विहरन्ति, ते न धर्मकामाः, ते विहारकामाः / धर्मो दृष्टश्रुतमतविज्ञातन्नास्ति; ये दृष्टश्रुतमतविज्ञाते चरन्ति ते दृष्टश्रुतमतविज्ञातकामाः, न तु धर्मकामाः /

"भदन्त शारिपुत्र,, धर्मस्संस्कृतासंस्कृतन्नास्ति; ये संस्कृतावचराः ते न धर्मकामाः, ते संस्कृरग्रहणकामाः / भदन्त शारिपुत्र, अत इच्छेश्चेद्धर्म, त्वया सर्वधर्मा अप्रतिकांक्षितव्याः" /

अस्मिन् धर्मोपदेशे निर्दिश्यमाने, देवपुत्राणाम् पञ्चशत(स्य) धर्मेषु विशुद्धं धर्मचक्षुरुदपादि / अथ लिच्छविर्विमलकीर्तिर्मजुश्रीकुमारभूतमब्रवीत्- "मंजुश्रीः, दशदिक्षु शतसहस्राण्यसंख्येयानि बुद्धक्षेत्राणि बुद्धक्षेत्रचारिकां चरित्वा, कस्मिन् बुद्धक्षेत्रे सर्वोत्तमानि सर्वगुणसम्पन्नानि सिंहासनानि त्वया दृष्टानि?" एवमवोचत् /

मंजुश्रीकुमारभूतो लिच्छवि बिमलकीर्तिमेतदवोचत्- "कुलपुत्र, इतः पूर्वास्मिन् द्वात्रिशद्-गङ्गानदीवालुकासमानि बुद्धक्षेत्राण्यतिक्रम्य, अस्ति मेरुध्वजो नाम लोकधातुः / तत्रमेरुप्रदीप राजो नाम तथागतस्तिष्ठिति ध्रियते यापयति / तस्य तथागतस्य काय(प्रमाणं) चतुरशीतिर्योजनशतसहस्राणी / तस्य भगवतस्सिंहानप्रमाणमष्टषष्टिर्योजनशतसहस्राणि / तेषां बोधिसत्त्वानां काय(प्रमाणम्) अपि द्विचत्वारिंशद्योजनशतसहस्राणि / तेषां बोधिसत्त्वानां सिंहासन(प्रमाणम्) अपि चतुर्त्रिशद्योजनशतसहस्राणि / कुलपुत्र, तस्मिंस्तस्य मेरुप्रदीपराजस्य तथागतस्य बुद्धक्षेत्रे मेरुध्वजे लोकधातौ सिंहासनानि सन्ति सर्वोत्तमानि सर्वगुणसम्पन्नानि" /

ततस्तेन खलु समयेन तादृशमभिप्रायं सञ्चिन्त्य, लिच्छविना विमलकीर्तिनास्या एवंरुपर्द्विविध्या अभिसंस्कारो ऽभिसंस्कृतः, (यथा) मेरुध्वजाल्लोकधातोर्भगवता मेरुप्रदीपराजेन तथागतेत द्वात्रिशत्सिंहासनसहस्राण्यनुप्रेषितानि-एतावदुन्नतारोहाण्येतावद्विशालान्येतावद्दर्शनीयानि, यानि तैर्बोधिसत्त्वैश्च तैर्महाश्रावकैश्च तैःशक्रब्रह्मलोकपालदेवपुत्रैरदृष्टपूर्वाणि / तान्युपरिविहायस आगत्य, लिच्छवेर्विमलकीर्तेर्गृहे प्रतिष्ठानानि / द्वात्रिंशन्नानासिहासनसहस्रेष्वनायातेन वहमानेषु, तध्गृहमप्येतावद्विशालं दृष्यते स्म / वैशाल्यपि महानगर्यनिवृताभूत; जम्बुद्वीपश्चतुर्द्वीपको (लोकधातु-)श्चानिवृताः, सर्वे ते ऽपि यथापूर्व दृश्यन्ते स्म /

अथ लिच्छविर्विमलकीर्तिर्मञ्जुश्रीकुमारभूतमेतदवोचत्- "मंजुश्रीः, सिंहासनानुरुपकायाधिष्ठितास्तवमिमे च बोधिसत्त्वाः सिहासने (षु) निषीदत" / ततो ये ऽभिऽज्ञालाभिबोधिसत्त्वाः, ते द्विचत्वारिंशद्योजनशतसहस्रकायाधिष्ठिताः सिहासने(षु) निषीदन्ति स्म / ये बोधिसत्त्वाआदिकर्मिकाः, ते तेषु सिहासनेषु नीषीदितुन्नाशकन् / ततो लिच्छविर्विमलकीर्तिर्यथा ते बोधिसत्त्वाः पञ्चाभिज्ञायां सिध्येयुस्तथा ह्येवं तेभ्यो बोधिसत्त्वेभ्यो धर्म देशयि / ते ऽभिज्ञाम् प्राप्य, ( ऋद्ध्या) द्विचत्वारिशद्योजनशतसहस्रशरीराण्यभिनिर्माय, तेषु सिहासनेषु निषिदन्ति स्म / तेष्वापि महाश्रावकेषु तेषु सिहासनेषु निषीदितुमसमर्थेषु, लिच्छविर्विमलकीर्तिस्तत आयुष्मन्तं शारिपुत्रमब्रवीत्- "भदन्त शारिपुत्र, सिहसने निषीद" / अवोचत्- "सत्पुरुष, एषु सिहासनेषूत्कृष्टेषु चातिमात्रेषु, निषीदितुन्न शक्रोमि" / अब्रवीत्- "भदन्त शारिपुत्र, तस्मै भगवते तथागताय मेरुप्रदीपराजाय कुरु प्रणामञ्च निषीदितुं शक्ष्यसि" / अथ ते महाश्रावकास्तस्मै भगवते तथागताय मेरुप्रदीपराजायाभिवन्दनं कृत्वा पुरतस्ते सिहासने(षु) न्यषीदन् /

अथायुष्मांशारिपुत्रो लिच्छवि विमलकीर्तिमेतदवोचत्- "कुलपुत्र, आश्चर्य (यथै-)वमुत्कृष्टातिमात्राणीदृशनानासहस्राणि सिंहासनान्येतावदल्पगृहं प्रविशन्ति चैभिरपि वैशाली महानगरी निवृता नाति, जम्बूद्वीपस्य ग्रामनगरनिगमराष्ट्रराजधानी च चतुर्महाद्वीपको ऽपि (लोकधातु-)श्च न किचिन्निवृताः, अपि च देवनागयक्षगन्धर्वासुर्गरुड किन्नरमहोरगस्थानान्यनिवृतानि पूर्व यादृशान्यायत्यपि दृश्यन्ते तथा" /

लिच्छविर्विमलकीर्तिरब्रबीत्- "भदन्त शारिपुत्र, तथागतेभ्यश्च बोधिसत्त्वेभ्यो ऽचिन्त्यो नाम विमोक्षो ऽस्ति / तस्मिनचिन्त्यविमोक्षे विहरन् बोधिसत्त्व एतावदुन्नतातिरेकविपुलं सुमेरुं पर्वतराजं सर्षपाभ्यन्तरम् प्रक्षिपन् तस्मिन् सर्षपे ऽवर्धमाने च सुमेरावव्यये, (तादृशां) क्रीयां देशयति / चातुर्महाराजकायिकदेवाश्च त्रयस्रिंशदेवा अपि ऽकुत्र वयम् प्रक्षिप्ताःऽ, न जानन्ति / अन्यैस्त्वृद्विविधिनेयिकसत्त्वैः स पर्वतराजस्सुमेरुः सर्षपाभ्यन्तरम् प्रक्षिप्तम् प्रज्ञायते च दृश्यते / स हि, भदन्त शारिपुत्र, बोधिसत्त्वानाम् अचिन्त्यविमोक्षविषयप्रवेषः /

"भदन्त शारिपुत्र, भूयो ऽप्यचिन्त्यविमोक्षविहारिबोधिसत्त्वस्य चतुर्महासमुद्रस्य स्कन्धान् एकोरोमकूपं प्रवर्तयः, मत्स्यकूर्मशिशुमारमण्डूकान्यजलजप्राणिभ्य उपघातो नास्ति / नागक्षगन्धर्वासुराणामप्येवं ऽवयं कुत्र विवेशयिता इति न भवति; तस्याम् क्रियायां दृश्यमानायां, तेभ्यस्सत्त्वेभ्य उपघातश्च संक्षोभो नास्ति /

"अयमप्य-(चिन्त्यविमोक्षविहारिबोधिसत्त्वस् / त्रिसाहस्रमहा-साहस्रलोकधातुं कुम्भकारस्य चक्रमिव दक्षिणहस्तेनादाय च प्रवर्तय्य, गङ्गानदीवालुकोपमलोकधा(तूनां दूरं क्षिपति); क्षिप्त(श्च) सत्त्वा ऽवयं कुत्रोद्धृताः, कुत आगता न जानन्ति / पुनरेव गृहीताः (स्व) स्थानमेव प्रतिष्ठापिता आगमनगमनन्न जानन्ति, यद्यपि सा क्रिया संदृशयते / "भदन्त शारिपुत्र, भूयो ऽप्यप्रमेयकालवैनेयिकसत्त्वा विद्यन्ते, विद्यन्ते च संक्षेप्य कालवैनेयिकाः /

तत्राचिन्त्यविमोक्षविहारिबोधिसत्त्वो ऽप्रमेयकालवैनेयेकसत्त्ववैनेयार्थाय सप्ताहं कल्पात्ययेन, संक्षेप्यकालवैनेयिकसत्त्वेभ्यः कल्पं सप्ताहात्ययेन दर्शयते / तत्राप्रमेयकालवैनेयिकसत्त्वाः सप्ताहे कल्पात्ययं जानन्ति / ये संक्षेप्यकालवैनेयिकसत्त्वाः, ते कल्पं सप्ताहेनातीतं जानन्ति /

"तथा ह्यचिन्त्यविमोक्षविहारिबोधिसत्त्वः सर्वबुद्धक्षेत्रगुणव्यूहानेकबिद्धक्षेत्रे दर्शयते / चापि सर्वसत्त्वान् दक्षिणकरतल आधाय, चित्तजवनर्द्धिविध्या गच्छन्त्यसर्वबुद्धक्षेत्राण्यादर्शयति, कि चाप्येकबुद्धक्षेत्रादचलितः / दशदिक्षु भगवते बुद्धाय यावत् पूजनानि, सर्वाणि तान्येकरोमकूपे देशयति / दशदिक्षु यावच्चन्द्रश्चादित्यश्च तारकारूपाणि, सर्वाणि तान्यप्येकरोमकूपे दर्शयते /

"दशदिक्षु वायुमण्डलानि यावदुत्तिष्ठन्ति, सर्वाणि तानि मुखेन पीत्वा, तस्य कायो ऽविनष्टश्च तेषां बुद्धक्षेत्राणाम् तृणवनस्पतयो ऽप्रपतिताः / दशदिक्षु सर्व तं बुद्धक्षेत्रदहन कल्पोद्दाहाग्निराशि स्वोदरं प्रक्षिप्य, यत् कर्म तेन करणीयं, तत् करोति / अधस्ताद्गङ्गानदीवालुकासम(अनि) बुद्धक्षेत्रा(ण्य) अतिक्रम्य, स (एकं) बिद्धक्षेत्रमूर्ध्वमुत्क्षिप्य चारुह्य, ऊर्ध्व गङ्गानदीवालुकासमा(नि) बुद्धक्षेत्रा(ण्य) अतिक्रम्य, उपरिष्टात्-तद्यथापि नाम महास्थाम्ना पुरुषेण सूच्यग्रेण बदरपत्रमुच्छ्रितम्-एवमेवोत्क्षिप्तं (बिद्धक्षेत्रन्) निक्षिपति /

"तथा ह्यचिन्त्यविमोक्षविहारिबोधिसत्त्वः सर्वसत्त्वरुपमधितिष्ठति / चक्रवर्तिराजस्य रूपमधितिष्ठति; एवमेवाधितिष्ठति लोकपालशक्रब्रह्मश्रावकप्रत्येकबुद्धबोधिसत्त्वसर्वसत्त्वबुद्धरूपम् /

"(स बोधिसत्त्वो) दशदिक्षु सत्त्वानां सर्वाग्रमध्यहीनशब्दप्रसिद्धः / याः काश्चन शब्दप्रज्ञप्तयः, ताः सर्वा बुद्धघोषरुतंच बुद्धधर्मसंघशब्दमधितिष्ठिति, तस्मात् शब्दस्वराद् अनित्यतादुःखशून्यनैरात्म्यशब्दस्वरं निश्चारयति; दशदिक्षु भगवान् बुद्दो यावदाकारमुपदेशेन दर्शयति, तेभ्यः सर्वेभ्यः शब्दस्वरेभ्यो निश्चारयति /

"भदन्त शारिपुत्र, अयं ह्यचिन्त्यविमोक्षविहारिबोधिसत्त्वविषयप्रवेशः किंचिन्मात्रं केवलं दर्शितः / भदन्त शारिपुत्र, (तत्त्वतः) कल्पाभ्यधिकं वा तदतिक्रान्तं वाचिन्त्यविमोक्षविहारिबोधिसत्त्वविषयप्रवेशोपदेशम् दएशनीयम् (अभविष्यत्) / अथ महाकाश्यपः स्थविर इमं बोधिसत्त्वाचिन्त्यविमोक्षोपदेशं श्रुत्वा, आश्चर्याद्भुतप्राप्तः शारिपुत्रं स्थविरमेतदवोचत्-

"आयुष्मंशारिपुत्र, तद्यथापि नाम जात्यन्धपुरुषस्याभिमुखं सर्वरूपोपपन्नानाम् क्रियाणाम् दर्शितानामपि तेन जात्यन्धेनैकरुपमपि तु न दृश्यते; एवमेवायुष्मंशारिपुत्र, अस्याचिन्त्यविमोक्षमुखस्य देशनाकाले सर्वश्रावकप्रत्येकबुद्धेभ्यो जात्यन्धसमेभ्यश्चक्षुर्नास्ति चैकमात्राचिन्त्यद्वारमप्यनभिमुखीभूतम् / इममचिन्त्यविमोक्षं श्रुत्वा, को विचक्षणो ऽनुत्तरसम्यक्संबोधिचित्तन्न जनयेत्?

"(अस्माभिः) प्रणष्टेन्द्रियैर्दग्धपूतिकबीजसदृशैरस्मै महायानाय भाजनाभूतैरिदानीम् कथं करणीयम्? (अस्माभिर्) इमं धर्मोपदेशं श्रुत्वा, आर्तस्वरं क्रन्दित्वा, सर्वश्रावकप्रत्येकबुद्धैस्त्रिसाहस्रमहासाहस्रलोकधातौ शब्दमादातव्यम् / सर्वबोधिसत्त्वैरिममचिन्त्यविमोक्षं श्रुत्वा, युवको राजपुत्रो यथा मुकुटं गृहणीयाच्च प्रामोद्येन मूर्ध्नि प्रतिग्रहीष्यति, चास्मिन् स्वाधिमुक्तिबलमुत्पादयितव्यम् / यास्मिन् अचिन्त्यविमोक्षऽधिमुक्तिः, तस्यां सर्वमारा अपि कि कुर्युः?"

mahākāśyapena sthavirenāsmanupadeśe deśite, dvātriṃśaddevaputrasahasrāṇyanuttarasamyaksaṃbodhicittamutpādayanti sma / tato licchavirvimalakīrtirmahākāśyapaṃ sthavirametadavocat- "bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu ye kecinmārā mārakāriṇaḥ, sarve te 'cintyavimokṣavihāribodhisattvāścopāyakauśalyena sattvaparipācanārthammārakāriṇaḥ / "bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu bodhisattve(bhyo) ye hastapadaśrotraghrāṇalohitasnāyvasthimajjācakṣuḥ pūrvakāyaśīrṣāṅgapratyaṃgarājyarāṣṭrapradeśabhāryāputraduhitṛdāsadāsyaśvahastiratha-vāhanasuvarṇajātarūpamaṇimuktāśaṅkhasfaṭikaśilāpravāḍavaiḍūryānarghaṇiratnāhārapānarasavastrayācakāḥ saṃbādhaṃ kurvanti, sarve te 'pi yācakā yadbhūyasācintyavimokṣavihāribodhisattvā upāyakauśalyenemāṃ (bodhisattva-)adhyāśayadṛḍhatāṃ deśayanti / tat kasya hetoḥ? bhadanta mahākāśyapa, bodhisattveṣu kaṭukatapasaivaṃ deśayatsu, akṛtāvakāśe janakāyāya bodhisattvasaṃbādhakaraṇānubhāvo nāsti / akṛtāvakāśe (janakāyena) hananotthāpanam aśakyam / "bhadanta kāśyapa, tadyathāpi māna khadyotakena sūryamaṇḍalābhāso 'nākramaṇīyaḥ; evameva bhadanta kāśyapa, akṛtāvakāśe (janakāyena) bodhisattvākramaṇotthāpanamaśakyam / bhadanta mahākāśyapa, tadyathāpi nāma kuñjaramātaṅgāya nāgarājāya gardabheta prahāradānamakṣamaṇīyam; evameva bhadanta mahākāśyapa, bodhisattvābhāvena bodhisattvasambādhakaraṇaśakyam / (yadya) api kho pana bodhisattvaḥ khalu bodhisattvāya sambādhaṃ kuryāt (tad-) bodhisattvasambādhakaraṇaṃ bodhisattvaḥ kṣamate / "bhadanta mahākāśyapa, ayaṃ hyacintyavimokṣavihāribodhisattvānāmupāyajñānabalapraveśaḥ" /

अचिन्त्यविमोक्षनिर्देशस्य परिवर्तः पंचमः /

6 देवी

अथ मंजुश्रीकुमारभूतो लिच्छवि विमलकीर्तिम् एवमवोचत्- "सत्पुरुष, बोधिसत्त्वेन सर्वसत्त्वाः कथं द्रष्टव्याः?"- अब्रवीत्- "मंजुश्रीः, तद्यथापि नाम विज्ञः पुरुष उदकचन्द्रं प्रक्षेते, एवमेव बोधिसत्त्वेन सर्वसत्त्वा द्रष्टव्याः / मंजुश्रीः, तद्यथापि नाम मायाकारो मायाकारनिर्मितमनुष्यं प्रेक्षते, एवमेव बोधिसत्त्वेन सर्वसत्त्वा द्रष्टव्याः / मंजुश्रीः, तद्यथापि नामादर्शमण्डले मुखं दृश्यम्, एवमेव बोधिसत्त्वेन सर्वसत्त्वा द्रष्टव्याः / मंजुश्रीः, तद्यथापि नाम मृगतृष्णिकाजलम् बोधिसत्त्वेन सर्वसत्त्वा द्रष्टव्याः / मंजुश्री, तद्यथापि नाम प्रतिश्रुत्काघोषनादिः /////

ākāśamegharāśiḥ ///// fenapiṇḍasya pūrvāntaḥ ///// ) budbudodayavyayau ///// kadalīsārāpekṣeva ///// ///// vidyuccyutiriva ///// paṃcamadhātusadṛśāḥ ///// saptamāyatanasadṛśāḥ ///// ārupyeṣu rūpadarśanasadṛśā ///// dagdhabījād ///// 'ṅkuraniṣpattiriva ///// maṇḍūkasya romācchādanaṃ yathā ///// ṃaraṇārthikasya krīḍāratiriva ///// srotāpannasya satkāyadṛṣṭiryathā ///// sakṛdāgāmini tṛtīyabhava iva ///// anāgāmini garbhāvakrāntiḥ ///// ///// arhati rāgadveṣamohāḥ ///// kṣāntilābhibodhisattve mātsaryadauḥśīlyavyāpādavihisācittam ///// tathāgate vāsanā ///// jātyandhajanena rūpa darśanam ///// nirodhasamāpatti(lābhina) ānāpānaḥ ///// akāśe śakuneḥ padam ///// ///// paṇḍakalāṃgularohaṇaḥ ///// vandhyāputraprāptiḥ ///// tathāgatanirbhitasya kleśotpattiḥ ///// vibodhe svapnadṛṣṭadarśanam ///// asaṅkalpe kleśaḥ ///// ahetukatvādagnyotpādaḥ parinirvṛtasya pratisandhiriva bodhisattvena sarvasattvāḥ pratyavekṣyāḥ / maṃjuśrīḥ, evam paramārthata eva nairārmyaprabodhena sarvasattvāḥ pratyavekṣyāḥ" /

अब्रवीत्- "कुलपुत्र, यदि बोधिसत्त्वेन सर्वसत्त्वा एवम् प्रत्यवेक्ष्याः, कथमथ सर्वसत्त्वेषु महामैत्र्युपपत्स्यते?"- आह- "मंजुश्रीः, यदा बोधिसत्त्वस्तथा हि प्रत्यवेक्षते- ऽएवं धर्म परिज्ञाय, एभ्यः सत्त्वेभ्यो दर्शयामिऽ- ति ततः सर्वसत्त्वेषु सम्यक्शरणमैत्र्युपपद्यते-

"अनुपादानकारणादुपशान्तमैत्री, क्लेशाभावेनातापमैत्री, त्र्यध्वसमताकारणाद्यद्यदुपमता मैत्री, पर्युत्थानाभाव कारणादविरोधमैत्री, आध्यात्मिकबाह्यासम्भेदकारणादद्वयमैत्री, सुनिष्ठाकारणादक्षोभ्यमैत्री, अभेद्याभिप्रायवज्रकारणाद्दृढमैत्री, स्वभावविशुद्धिकारणाद् विशुद्धिमैत्री, आशयसमताकारणात् समतामैत्री, अरिहननकारणादर्हन्मैत्री, अनाच्छेद्यसत्त्वपरिपाचनकारणाद् बोधिसत्त्वमैत्री, भूयो ऽपि तथताधिगमकारणात् तथागतमैत्री, सत्त्वापस्वापनसुप्रबोधनकारणाद् बुद्धमैत्री, स्वयमभिसंबोधिकारणात् स्वयंभूमैत्री, तुल्यरसकारणाद् बोधिमैत्री, अनुनयप्रतिघप्रहाणकारणादनारोपमैत्री, महायानपर्यवभासकरणतो महाकरुणामैत्री, शून्यतानैरात्म्यप्रत्यवेक्षणकारणादपरिखेदमैत्री, आचार्यमुष्ट्यभावकारणादधर्मदानमैत्री, दुःशीलसत्त्वापेक्षाकारणात् शील-मैत्री, स्वपररक्षाकारणात् क्षान्तिमैत्री, सर्वसत्त्वभारवहनकारणाद् वीर्यमैत्री, अनास्वादकारणाद् ध्यानमैत्री, कालेनासाधनकारणात् प्रज्ञामैत्री, समन्तद्वारदर्शनकारणादुपायमैत्री, अभिप्रायपरिशुद्धिकारणादकुहनमैत्री, पश्चात्तापकरणतो निश्चलमैत्री, अनङ्गणकारणादध्याशयमैत्री, अकृत्रिमकारणादमायाविमैत्री, बुद्धसुखप्रतिष्ठापनकारणात् सुखमैत्री / मंजुश्रीः, सा हि बोधिसत्त्वस्य मैत्री / "

अब्रवीत्- "तस्य महाकरुणा किम्?" आह- "यद्यत् कुशलमूलं स्यात् कुशलमूलं स्यात्, (तत्) सर्वसत्त्वेभ्य उत्सृजति" / अब्रवीत्- "तस्य महामुदिता किम्?" / आह- "यः (स) दानात् प्रीतिमनोभूतो ऽविप्रतिसारः" / अब्रवीत्- "तस्योपेक्षा किम्?" आह- "यः (स) उभयार्थोत्पादः" / - अब्रवीत्- "संसारभयभीतेन कि प्रतिसर्तव्यम्?" आह- "संसारभयभीतेन मंजुश्रीर्बोधिसत्त्वेन बुद्धमाहात्म्यं प्रतिसर्तव्यम्" /

आह- "बुद्धमहात्म्ये स्थातुकामेन कुत्र स्थातव्यम्?" आह- "बुद्धमहात्म्ये स्थातुकामेन सर्वसत्त्वसमतायां स्थातव्यम् /" आह- "सर्वसत्त्वसमतायां स्थातुकामेन कुत्र स्थातव्यम्" आह- "सर्वसत्त्वसमतायां स्थातुकामेन सर्वसत्त्वप्रमोक्षाय स्थातव्यम्" /

अब्रवीत्- "सर्वसत्त्वप्रमोक्षाय कर्तुकामेन कथं करणीयम्?" आह- "सर्वसत्त्वप्रमोक्षाय कर्तुकामेन क्लेशप्रमोक्षः करणीयः" / अब्रवीत्- "क्लेशप्रहातुकामेन कथं प्रयोक्तव्यम्?" आह- "क्लेशप्रहातुकामेन योनिशः प्रयोक्तव्यम्" / अब्रवीत्- "कथं प्रयुज्यमानो योनिशः प्रयुज्यते?" आह- "अनुत्पादानिरोधयोः प्रयोगो हि योनिशः प्रयोगो ऽस्ति" / अब्रवीत्- "अनुदयः किम्, किम् अनिरोधः?" आह- "अकुशलानुदयश्च कुशलानिरोधः" / अब्रवीत्- "कुशलाकुशलमूलं किम्?" आह- "सत्काय -(दृष्टि) र्मूलम्" / अब्रवीत्- "सत्काय - (दृष्टि) मूलं किम्?" आह- "सत्काय - (दृष्टि) मूलं रागः" / अब्रवीत्- "कि रागमूलम्?" -आह- "रागस्य मूलं ह्यभूतपरिकल्पः" /

अब्रवीत्- "अभूतपरिकल्पस्य किं मूलम्?" आह- "अभूतपरिकल्पस्य हि) विपर्यस्ता संज्ञा मूलम्" / आह- "विपर्यस्तायाः संज्ञायाः कि मूलम्??" -(आह- "विपर्यस्तायाःसंज्ञाया) अप्रतिष्ठानं मूलम्" / आह- "अप्रतिष्ठायाः किं मूलम्?" आह- "यन्मंजुश्रीरप्रतिष्ठानं, न तस्य किंचिन्मूलम् / इति ह्यप्रतिष्ठानमूलप्रतिष्ठिताः सर्वधर्माः" /

अथ तस्मिन् गृहे कस्यचित्स्थानस्य देवी, तेषां बोधिसत्त्वानाम् महासत्त्वानामिमां धर्मदेशनां श्रुत्वा, हृष्टोदग्रा चात्तमनाः, औदारिकमात्मभावमभिसंदृश्य, दिव्यपुष्पैस्तान् बोधिसत्त्वान् महासत्त्वांश्च महाश्रावकानभिकिरति स्म / यानि च बोधिसत्त्वानां काये ऽभ्यवकीर्णानि पुष्पानि, तानि भूमौ प्रपतन्ति स्म / यानि महाश्रावकानां काय आपन्नानि पुष्पानि, तानि तत्रैव प्रसक्तानि भूमौ न प्रपतन्ति स्म / ततस्ते महाश्रावका ऋद्धिविधिप्रातिहार्येण पुष्पान्याधुनन्ति स्म, अपि खो पन तानि न प्रपतन्ति स्म /

अथ सा देवयायुष्मन्तं शारिपुत्रमेतदवोचत्- "भदन्त शारिपुत्र, इमानि पुष्पान्याधूय किं करिष्यसि?" आह- "देवि, इमानि पुष्पानि न युज्यन्ते; तस्मादिमानि पुष्पानि रिंचामि" / देव्यब्रवीत् - "भदन्त शारिपुत्र, एवम्मा वादीः / तत् कस्य हेतोः? युज्यन्त इमानि पुष्पानि / तत् कस्य हेतोः? यतस्तानि पुष्पानि निर्विकल्पानि / निर्विकल्पेषु शारिपुत्रः स्थविर एव कल्पयति च विकल्पयति / भदन्त शारिपुत्र, यत् स्वाख्याते धर्मविनये प्रव्रजिताः कल्पयन्ति च विकल्पयन्ति, तधि न युज्यते / स्थवीरे कल्पयति च विकल्पयति, यन्निर्विकल्पं तधि युज्यते /

"पश्य, भदन्त शारिपुत्र-तथा हि कल्पविकल्पप्रहाणकारणाद् बोधिसत्त्वानां महासत्त्वानां काये पुष्पानि न सज्जन्ति / तद्यथापि नाम भयजातीयमनुष्ये ऽमनुष्यैरवतारो लभ्यते, एवमेव संसारभयभीतेषु रूपशब्द गन्धरसस्प्रष्टव्येभ्यो ऽवतारः प्रतिलभ्यः / ये सर्वसंस्कारक्लेशभयापगताः, तेभ्यो रूपशब्दगन्धरसस्प्रष्टव्यानि कि करिष्यन्ति? येषु वासनाप्रहीणा, तेषु पुष्प (अन्य) पि सज्जन्ति; येषां तु वासना प्रहीणा, तेषां काये पुष्प(अनि) न सज्जन्ति / तस्मात् सर्ववासनाविघातकानां काये पुष्पान्य सक्तानि" /

तत आयुष्मांशारिपुत्रस्तां देवीमेतदवोचत्- "देवि, त्वमिमं गेहं प्रविश्य कियच्चिरचरितम्?" देव्याह- "स्थविरो विमोक्षं प्रविष्टो यावत्, (तच्-)चिरम्" / अब्रवीत्- "देवि, त्वमस्मिन् गेहे स्थित्वा, अचिरं दृष्टा" / आह- "स्थविरो विमोक्षं प्रविष्टः कियच्चिरम्?"-अथ स्थविरस्तूष्णीभूतो ऽभूत् / आह- "महाप्रज्ञावतामग्र्यः स्थविरः कस्मान्मौनी चेदानीं सहसा प्रश्नन्न परिहरसि?" अब्रवीत्- "देवि, विमोक्षऽनभिलाप्यश्च स यथा वक्तव्यः, (तन्) न जानामि" / आह- "यानि स्वविरेणाक्षराण्युक्तानि, सर्वाणि तानि विमोक्षलक्षणानि / तत् कस्य हेतोः? यो विमोक्षः, स ह्यनन्तरगतश्च न बहिर्धा नोभयश्चानुपलब्धः / एवमेव तान्यक्षराण्यनन्तरगतानि न च बहिर्धा नोभयानि चानुपलब्धानि / तस्मात्, भदन्त शारिपुत्र, अक्षरापकर्षणेन विमोक्षम्माप्रतिवेदयस्व / तत् कस्य हेतोः? यतः सर्वधर्मसम(ता)र्यविमोक्षः" / अब्रवीत् - "देवि, रागद्वेषमोहापगतेषु विमोक्ष ननु नास्ति?" देव्याह- "ऽरागद्वेषमोहापगतेषु विमोक्षऽ इति स ह्यभिमानिकेभ्य उपदेशः / ये ऽनभिमानिकाः, तेभ्यो हि रागद्वेषमोहस्वभावता विमोक्षः" /

अथायुष्मांशारिपुत्रस्तां देविमेतदवोचत्- "साधु, देवि; कि प्राप्य, कि साक्षात्कृत्य त्वमेवंप्रतिभानवती?" / आह- "भदन्त शारिपुत्र, मया न किञ्चित् प्राप्तं वा साक्षात्कृतं वा / अतो मे प्रतिभान ईदृशः / येषामेवम् ऽअस्माभि प्राप्तञ्च साक्षात्कृतम्ऽ इति, ते हि स्वाख्यातधर्मविनये ऽऽतिमानिका उच्यन्ते" / अब्रवीत्- "देवि, त्वं कि श्रावकयानीया प्रत्येकबुद्धयानीया वा महायानीया वा?" आह- "श्रावकयानं दर्शयती, अहं श्रावकयानिनी / द्वादश(अंग) प्रतीत्यसमुत्पादेअद्वारेणावतारणेन्-आहं प्रत्येकबुद्धयानिनी / अनुत्सृष्टायाम्महाकरुणायाम् अहम्महायानीया / "भदन्त शारिपुत्र, अपि तु खलु पुनर्यथा चम्पकवने प्रविष्टे, एरण्डगन्धो न घ्रायते, चम्पकवने प्रविष्टे ऽपि खो पन चम्पकगन्धो घ्रायते; एवमेव, भदन्त शारिपुत्र, अस्मिन् बुद्धधर्मगुणगन्धोपेते गेहे विहारिणा श्रावकप्रत्येकबुद्धगन्धो न घ्रायते / "भदन्त शारिपुत्र, ये शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुअगरुडकिंनरमहोरगा अस्मिन् गेहे निविष्टाः, तेपयस्य सत्पुरुषस्य धर्म श्रुत्वा, बुद्धधर्मगुणगन्धेन बोधिचित्तमुत्पाद्य प्रक्रान्ताः / "भदन्त शारिपुत्र, अस्मिन् गेहे द्वादश वर्षाणि महामैत्रीमहाकरुणा समर्पितां चाचिन्त्यबुद्धधर्मसम्प्रपुक्तां (कथां) स्थापयित्वा, श्रावकप्रत्येकबुद्धसहगतां कथां पुरा नाश्रौषम् / भदन्त शारिपुत्र, अस्मिन् गृहे ऽष्टविधा आश्चर्यद्भुतप्राप्ता धर्माः सततसमितमाभासं गच्छन्ति / कतमे ऽष्टौ?

"अस्मिन् गृहे सततसमितं सुवर्णवर्णप्रभा / अतो रात्रीदिवन्न प्रज्ञायते / अस्मिन् गृहे चन्द्रसूर्यौ न च दृश्येते / अयं प्रथम आश्चर्याद्भुतो धर्मः /

"पुनरपरं, भदन्त शारिपुत्र, ये प्रविशन्ति इदं गृहं, तेषां समनन्तरप्रविष्टानां सर्वक्लेशा न बाधन्ते / अयं द्वितीय आश्चर्याद्भूतो धर्मः /

"पुनरपरं, भदन्त शारिपुत्र, अस्मिन् गृहे सदा शक्रब्रह्मलोकपालाश्च सर्वबुद्धक्षेत्रागता बोधिसत्त्वा अविरहिताः / अयं तृतीय आश्चर्याद्भूतो धर्मः /

"पुनरपरं, भदन्त शारिपुत्र, अस्मिन् गृहे सततसमितं धर्मावधोषणञ्च षट्पारमिताप्रतिसंयुक्ता कथा चावैवर्तिकधर्मचक्रकथा ऽविरहिताः / अयं चतुर्थ आश्चर्याद्भुतो धर्मः /

"पुनरपरं, भदन्त शारिपुत्र, अस्मिन् गृहे सदा दिव्यमानुष्यदुन्दुभिसङ्गीतवाद्यं क्रीयते; तेभ्यो दुन्दुभिभ्यो बुद्धधर्म(स्य) आप्रमेयबिधिघोषः सर्वकालेषूत्पद्यते / आयं पञ्चम आश्चर्याद्भूतो धर्मः /

"पुनरपरं, भदन्त शारिपुत्र, अस्मिन् गृहे सर्वरत्नसम्पूर्णाश्चतुरक्षयमहानिधयो विद्यन्ते / तदनुभावेन सर्वैर्दरिद्रैश्च व्यसनिभिः प्रपन्नम्, (महानिधि-) कुण्डमपि त्वक्षयम् / अयं षष्ठ आश्चर्याद्भुतो धर्मः /

"पुनरपरं, भदन्त शारिपुत्र, अस्मिन् गृहे तथागताः शाक्यमुनिश्चामिताभश्चाक्षोभ्यश्च रत्नश्रीश्च रत्नार्चिश्च रत्नचन्द्रश्च रत्नव्यूहश्च दुष्पहश्च सर्वार्थसिद्धश्च महारत्नश्च सिहप्रसिद्धिश सिहस्वरश्चादयो दशदिक्ष्वपरिमाणतथागता अस्य सत्पुरुषस्य सहचित्तमात्रेण समागच्छन्ति चागतास्तथागतगुह्यन्नाम धर्ममुखप्रवेशं निदर्श्य प्रतिगच्छन्ति / अयं सप्तम आश्चर्याद्भूतो धर्मः /

"पुनरपरं, भदन्त शारिपुत्र, अस्मिन् गृहे सर्वदेववेश्मव्यूहाश्चसर्वबुद्धक्षेत्रगुणालङ्कारा आभासं गच्छन्ति / अयमष्टम आश्चर्याद्भूतो धर्मः / "भदन्त शारिपुत्र, अस्मिन् गृहे तेष्वष्टास्वाश्चर्याद्भुतेषु धर्मेष्वाभासं गच्छत्सु चेदृशाचिन्त्यधर्मे दृश्यमाने, कः श्रावकधर्ममिच्छेत्?" अब्रवीत्- "देवि, यदि ते स्त्रीभावात् स्याद्विकारः, किमपराधः?" आह- "यावद् द्वादश वर्षाणि स्त्रीभावम्मे मृग्यमाणा, (सो)- ऽद्यापि (मया) नोपलभ्यते / भदन्त शारिपुत्र, तस्यै मायाकारेण निर्मितायै स्त्रियै एवं ऽयदि ते स्त्रीभावात् स्याद्विकारः, किमपराध?ऽ इत्युक्ते, तत् कि कथयेत?" अब्रवीत्- "तत्र किचित्संपरिनिष्पन्नन्नास्ति" / आह- "भदन्त शारिपुत्र, एवमेव सर्वधर्मेष्वपरिनिष्पन्नेषु च मायानिर्माणस्वभावेषु, त्वं ऽयदि स्त्रीभावात् स्याद्विकारः, किमपराध?ऽ इति (पृच्छन्)-तत् कि मन्यसे?" अथ सा देव्येतादृशाधिष्ठानाधिष्ठिताभूत्, यथा शारिपुत्रः स्थविरो यादृश सा देवी तादृशा दृश्यते स्म; सा देव्यपि यादृशः शारिपुत्रः, स्थविरस्तादृशो दृश्यते स्म / ततः सा शारिपुत्रस्य रूपमापन्ना देवी तं देवीरूपापन्नं शारिपुत्रमेवम्- "भदन्त शारिपुत्र, यदि स्त्रीभावात् स्याद्विकारः, किमपराध?" इति पृच्छति स्म / देवीरूपापन्नः शारिपुत्र एतदवोचत्- "मम पुरुषरूपस्यान्तर्हितस्य, स्त्रीकायापन्नो यो विकारस्तन्न जानामि" / आह- "यदि स्थविरः स्त्रीरूपात् प्रतिविकारस्य समर्थः स्यात्, सर्वाः स्त्रियः स्त्रीभावात् परिवर्तेरन् / यथा स्थविरः स्त्री-(रूपे) दृश्यते, तथा सर्वाः स्त्रियो ऽपि स्त्रीरूपेषु दृश्यमानाः स्त्र्यभावात् स्त्रीरूपेषु दृश्यन्ते / ततो भगवता ऽसर्वे धर्माः स्त्रीपुरुषाभावा इति संघाय भाषीतम्" /

अथ सा देवी तदधिष्ठानमुत्सृजति स्म, आयुष्मांश्च शारिपुत्रः पुनः स्वरूपोपसंहितो ऽभूत् / अथ सा देवी शारिपुत्रमेतदवोचत्- "भदन्त शारिपुत्र, क्व ते स्त्रीपुत्तली?" अब्रवीत्- "(सा) मया न च कृता न चापि विकृता / आह- "एवमेव सर्वधर्मा अप्यकृताश्चाविकृताः / यदकृतंचाविकृतंच-तधि बुद्धवचम्" / अब्रवीत्- "देवी, इतश्च्युत्वा कुत्रोपपत्स्यसे?" आह- "यत्र तथागतनिर्माणान्युत्पद्यन्ते, तत्राहमप्युपपत्स्ये" / अब्रवीत्- "तथागतनिर्माणेषु न भवतश्च्युत्पत्ती" / आह- "सर्वे धर्माश्च तथैव च्युत्युपत्त्यपगताः" / अब्रवीत्- "देवि, केव चिरेण त्वं बोधिमभिसंभोत्स्यसे?" आह- "यदा, स्थविर, पृथग्जनधर्मसंपन्नो भविष्यसि, तदापि बोधिमभिसम्बुद्धामि" / अब्रवीत्- "देवि, (यद्-) अहं पृथग्जनधर्मसंपन्नो भवेयम्, तदस्थानम्" / आह- "भदन्त शारिपुत्र, एवमेव(यद्-) अहमपि बोधिमभिसंबुध्यामि, तदस्थानम् / तत् कस्य हेतोः? बोधिरस्थाने प्रतिष्ठिता; अतो ऽस्थाने न कश्चिदभिसंबुद्धति" /

शारिपुत्रः स्थविरो ऽवोचत्- "तथागतेनाख्यातम्- ऽगंगानदीवालुकासमास्तथागता अभिसंबुद्धाः, अभिसंबुध्यन्त्यभिसंभोत्स्यन्तऽ इति" / देव्याह- "भदन्त शारिपुत्र, ऽअतीतानागतप्रत्युत्पन्ना बुद्धा इति तध्यक्षरगणनासंकेताधिवचनम् / अतीतानागतप्रत्युत्पन्नेषु बुद्धेष्वभूतेषु, बोधिस्त्र्यध्वसमतिक्रान्ता / स्थविरः किम् अर्हत्त्वलाभी?" अब्रवीत्- "अप्राप्तिहेतोर्लाभी" / आह- "एवमेवाभिसंबोध्यभावहेतोरभिसंबोधिः" / ततो लिच्छविर्विमलकीर्तिरायुष्मन्तं शारिपुत्रं स्थविरमेतदवोचत्- "भदन्त शारिपुत्र, इयं देवी बुद्धानां द्विनवतिकोटिनयुतानि पर्युपास्य, अभिज्ञाज्ञानविक्रीडिता प्रणिधानसंभूता क्षान्तिलाभिनी, अवैवर्तिक- संप्रस्थिता सत्त्वपरिपाचनार्थाय प्रणिधानवशेन यथेष्टं तथावस्थिता" /

7 तथागतगोत्रम्

ततो मंजुश्रीकुमारभूतो लिच्छवि विमलकीर्तिमेतदवोचत्- "कुलपुत्र, अथ कथम् बोधिसत्त्वो बुद्धधर्मेषु गति गच्छति?" आह- ऽमंजुश्रीः; यदा बोधिसत्त्वो ऽगति गच्छति तदा बोधिसत्त्वो बुद्धधर्मेषु गति गच्छति" / अब्रवीत्- "बोधिसत्त्वस्य आगतिगमनं किम्?"

आह- "यदा (बोधिसत्त्वः) पंचानन्तरीयाणां गतिगामी, व्यापादविहिंसाप्रद्वेषो ऽपि न भविष्यन्ति / नरकगतिगामी (सः), परं तु सर्वक्लेशविरजाः / तिर्यग्गतिगामी तु (स) मौर्ख्यान्धकारापगतः / (सो) ऽसुरगतिगामि च मानमददर्पविगतः; यमलोकगतिगामी सर्वपुण्यज्ञानसंभारोपात्तवान्; अनिज्यारूप्यगतिगामी, परं तु तद्गतिन्न समवक्रमति / "(स) रागगतिगामि च सर्वकामसंभोगवीरतरागः; द्वेषगतिगामी सर्व सत्त्वाप्रतिहतः; मोहगतिगामी सर्वधर्मेषु प्रज्ञानिध्यप्तिचित्तसमर्पितः / "मात्सर्यगतिगामी कायजीवितनिरपेक्षः (स) आध्यात्मिकबाह्यानि वस्तू(-न्य्-) उत्सृजति / दुःशीलगतिगामी, परं त्वल्पावद्ये ऽपि भयदर्शी (स) सर्वधूतगुणसंलेखेषु सन्तिष्ठते; व्यापादखिलप्रतिघगतिगामी चात्यन्ताव्यापन्नो मैत्रीविहारी; कौसीद्यगतिगामि चाप्रतिप्रस्रब्धो वीर्यमारभमाणः सर्वकुशलमूलपर्येषणाभियुक्तो भवति / इन्द्रियव्यभिचारगतिगामि स्वभावसमापन्नो ऽमोघध्यानः, दौष्प्रज्ञगतिगामी प्रज्ञापारमितागतिमुपसंक्रम्य, (स) सर्वलौकिकलोकोत्तरशास्त्रपण्डितः / "कुहनलपनाकारगतिगामी च सन्ध्याभाष्येषु कुशलः (स) उपायकौशल्यचर्यानिर्यातः; मानगति दर्शयन् (स) सर्व लोकसेतुवेदिका भवति, क्लेशगतिगामी, परं त्वत्यन्तसंक्लेशरहितः स्वभावपरिशुद्धः /

"मारगतिगामी च सर्वबुद्धधर्मेष्वपरप्रणेयः; श्रावकगतिगामि (स) सत्त्वांस्त्वश्रुतधर्म श्रावयति, प्रत्येकबुद्धगतिगामी सर्वसत्त्वपरिपाचनार्थम्महाकरुणादुत्पन्नः, दरिद्रगतिगामी त्वक्षयपरिभोगरत्नपाणिः; उपहतेन्द्रियगतिगामि (स) त्वभिरूपो लक्षणसमलंकृतः, हीनकुलीनगतिगामी पुण्यज्ञानसंचयेन तथागतवंशात् प्रजायते; दुर्बलदुर्वर्णमन्दगतिगामी दर्शनीयो नारायणप्रतिरूपककायलाभी / "सर्वसत्त्वेभ्य आतुरदुःखचर्या देशयमानो मरणभयसमतिक्रान्त्तस्(स) सुमारित(भयः); परिभोगगतिगामी सर्वाण्वेषणरहितो ऽनित्यतासंज्ञायाम् बहुप्रत्यवेक्षणः, बोधिसत्त्वो ऽन्तःपुरानेकरसान् देशयमानः कि तु विवेकचारी कामकर्दमोत्तीर्णः / धात्वायतनगतिगामी(स) धारणीइप्रतिलब्धो नानाप्रतिभानविभूषितः; तीर्थिकगतिगामी तीर्थ्यः (स) न भवति, सर्वलोकगतिगामि सर्वग्त्यप्रतिनिर्वर्ती, निर्वाणगतिगामी संसारप्रबन्धं नोत्सृजति / मंजुश्रीः, इत्येवं बोधिसत्त्वो ऽगति गच्छन् बुद्धधर्मेषु गति गच्छति" / अथ लिच्छविर्विमलकीर्तिर्मञ्जुश्रीकुमारभूतमेतदवोचत्- "मञ्जुश्रीः, कि तथागतगोत्रम्?" अब्रवीत्- "कुलपुत्र, सत्कायो हि गोत्रं तथागतानाम् / अविद्याभवतृष्णा हि गोत्रम् / रागद्वेषमोहचतुर्विपर्यास पञ्चनीवरणषडायतनसप्तविज्ञानस्थित्य-अष्टमिथ्यात्वनवाघात-वस्तु दशाकुशलकर्मपथा हि गोत्रम् / कुलपुत्र, इदं तथागतगोत्रम्; संक्षेपात्, कुलपुत्र, द्वाषष्टिर्दृष्टिगतानि हि तथागतगोत्रम्" / आह- "मञ्जुश्रीः, कस्मात् समन्वाहृत्यैद्भाषसे?" अब्रवीत्- "कुलपुत्र, असंस्कृतदर्शनसमव्रक्रान्तिस्थानेनानुत्तरसम्यक्सम्बोधिचित्तोत्पादो ऽशक्यः /

क्लेशाकरसंस्कृतस्थानसत्यादर्शनेनानुत्तरसम्यक्सम्बोधिचित्तोत्पादः शक्य /

"कुलपुत्र, तद्यथापि नाम जांगल प्रदेशे कुसुमानि-उत्पलपद्मकुमुदपुण्डरीकसौगन्धीकानि नोत्पद्यन्ते; पंकपुलिन उत्पादितानि चेत्, कुसुमानि-उत्पलपद्मकुमुदपुण्डरीकसौगन्धिकान्युत्पद्यन्ते / कुलपुत्र, एवमेवासंस्कृतनियतप्राप्तिसत्त्वेभ्यो बुद्धधर्मा नोत्पद्यन्ते / क्लेशपंकपुलिनोपपन्नसत्त्वेभ्यो बुद्धधर्मा उत्पद्यते /

"तद्यथापि नामाकाशे बीजन्न विरोहति, भुवि परंतु वर्तमानं बिरोहति; एवमेवासंस्कृतनियतप्राप्तिसत्त्वेभ्यो बुद्धधर्मो नोत्पद्यते; सुमेरुसमां सत्कायदृष्टिमुत्पाद्य बोधिचित्तमुत्पद्यते ततश्च बुद्धधर्मा विरोहन्ति / "कुलपुत्र, अनेन पर्यायेण सर्वे क्लेशास्तथागतगोत्रं द्रष्टव्याः / कुलपुत्र, तद्यथापि नाम महासमुद्रे ऽप्रविष्टे, अनर्ध्यरत्नमनुप्राप्तुमशक्यम्; एवमेव, क्लेशसागरे ऽप्रविष्टे, सर्वज्ञताम् तस्मादुत्पादयितुमशक्यम्" / अथ महाकाश्यपः स्थविरो मंजुश्रीकुमारभूताय साधूकारमदात्- "साधु, साधु / मंजुश्रीः, इदं वचनं सुप्रभाषितम्, इअदं तत्त्वम् / क्लेशा-स् तथागतगोत्रम्, अस्मद्विधेभ्यस्-तु बोधिचित्तोत्पादश्च बुद्धधर्ममभिसम्बोद्धुं कथं शक्यम्? पञ्चानन्तरीयसंयोगेन हि बोधिचित्तोत्पादः शक्यश्च बुद्धधर्मा अप्यभिसम्बोधनीयाः / तद्यथापि नाम विकलेन्द्रियपुरुषाय पञ्च कामगुणा निर्गुणाश्चासमर्थाः एवमेव परिवर्जितसर्वसंयोजनाय श्रावकाय सर्वे बुद्धधर्मा निर्गुणश्चासमर्था ः; तस्मै प्रत्यालम्बनमसमर्थम् /

"मंजुश्रीः, अतः पृथग्जनास्तथागते कृतज्ञाः, कि तु श्रावका अकृतज्ञाः / तत् कस्य हेतोः? यदर्थं पृथग्जनो बुद्धगुणश्रवणेन त्रिरत्नगोत्रमनुच्छिन्नकरणार्थमनुत्तरसम्यक्सम्बोधिचित्तोत्पादं करोति; श्रावकस्तु यावज्जीवम् बुद्धधर्मबलवैशारद्यानि श्रुत्वाप्यनुत्तरसम्यक्सम्बोधिचित्तोत्पादे ऽसमर्थः" / ततस्सर्वरूपसन्दर्शनो नाम बोधिसत्त्वस्तस्याम् पर्षदि सन्निपतितो निषण्णो (ऽभूत्) / स लिच्छवि विमलकीर्तिमेतदवोचत्- "गृहपते, क्व ते मातापितरौ च पुत्रदाराश्च दासदासीकर्मकरपौरुषेयाः? क्व ते मित्रज्ञातिसालोहिताः? तव परिवाराश्वहस्तिरथपत्तिवाहनानि क्व?" एवमब्रवीत् / लिच्छविर्विमलकीर्तिः सर्वरूपसन्दर्शनं बोधिसत्वमिमा गाथा अभाषत-

"विशुद्धबोधिसत्त्वानां माता हि प्रज्ञापारमिता / पितास्त्युपायकौशल्यम् ताभ्यां जायन्ते परिणायकाः //

धर्मप्रीतिरस्ति पत्नी मैत्रीकरुणे दुहितरौ (तेषां) / उभे धर्मसत्ये स्तः पुत्रौ शून्यतार्थचित्तिर्गृहम् //

एवं हि सर्वे क्लेशास् (तेषां) यथेष्टवशवर्तिशिष्याः / मित्राणि बोध्यंगानि तैर्हि बोधिर्वराग्रोत्पद्यते //

सहायास्- तेषां सदासंवासाः सन्ति षट् पारमिताः / संग्रहा नारीभवनानि संगीतिस् (तेषां) धर्मदेशना //

तेषामुद्यानं भूतिकानि बोध्यङ्गपुष्पितम् / vimuktijñānam falam dharmamahādhanaṃ (santi) vṛkṣāḥ //

विमोक्षा भवन्ति पुष्करिणी (तेषां) पूरिता समाधिजलेन / विशुद्धपद्मेनाच्छादिता (येषां) तस्यां प्रक्षालनं विमलास्ते //

अभिज्ञास्- तेषा वाहनम् महायानमनुत्तरम् / सारथि (-र्भवति) बोधिचित्तं मार्गो ह्यष्टाङ्गिकशान्तिः //

तेषां बिभूषणं (सन्ति) लक्षणानि अशीतिरनुव्यञ्जनानि च / कुशलाशयो ह्रीरपत्रपा सन्ति वस्त्राणि तेषाम् //

सद्धर्मधनवन्तस्ते प्रयोगस-(तेषां) धर्मदेशना / पवित्रा प्रतिपत्तिर्महालाभः परिणामं (तेषां) बोध्यर्थं //

शयनञ्च भवन्ति चत्वारि ध्यानानि शुद्धाजीवेन संस्तृतास्ते / ज्ञानं तत्प्रबोधः सदा श्रवणसमापन्ना(स्ते) //

तदाहारश्च भवत्यमृतं पानं विमुक्तिरसः / बिशुद्धाभिप्रायो ऽस्ति स्नानं (तेषां) शीलं गन्धविलेपनम् //

क्लेशशत्रूपघातेनाथ अजितवीरास्ते / चतुरो ऽपि मारान् प्रधर्षितवन्तः / उच्छ्रितवन्तो बोधिमण्डलध्वजं //

सञ्चिन्त्यं दर्शयन्ति जातिं कि चापि (ते) ऽजन्मानुत्पादाः / सर्वक्षेत्रेषु चाभासन्ते सूर्यो यथा समुदितः //

विनायके (भ्यः) सर्वपूजनैः बुद्धानां कोट्यै पूजां कृत्वा / न कदाचिद् (एतद् भवति) - ऽअस्मा(भि)र्बुद्धेभ्यः परिसेवितव्यम्ऽ //

कि चापि सत्त्वहिताय बुद्धक्षेत्रावचरा(स्ते) / (ज्ञात्वा) ऽऽकाशोपमानि क्षेत्राणि सत्त्वे (-षव्-) असत्त्वसंज्ञिनः //

सर्वसत्त्वान ये रूपा रुतघोषाश्च ईरिताः / एकक्षणेन दर्शन्ति बोधिसत्त्वा विशारदाः //

मारकर्माणि कि चापि जानन्ति मारानुबन्धिनः / उपायपारं गतास् (-ते) तत्सर्वक्रिया दर्शयन्ति //

ते जीर्णव्याधिता भोन्ति मृतमात्मान दर्शयी / सत्त्वानां परिपाकाय मायाधर्म विक्रीडिताः //

कल्पोद्दाहं च दर्शेन्ति उद्दहित्वा वसुन्धराम् / नित्यसंज्ञिन सत्त्वानाम् अनित्यमिति दर्शयी //

सत्त्वैः शतसहस्रेभिरेकराष्ट्रे निमन्त्रिताः / सर्वेषां गृह भुञ्जन्ति सर्वान्नामन्ति बोधये //

ये केचिन्मन्त्रविद्या वा शिल्पस्थाना बहूविधाः / सर्वत्र पारमिप्राप्ताः सर्वसत्त्वसुखावहाः //

यावन्तो लोकपाषण्डाः सर्वत्र प्रव्रजन्ति ते / नानादृष्टिगतं प्राप्तांस्ते सत्त्वान् परिपाचति //

चन्द्रा वा भोन्ति सूर्या वा शक्रब्रह्मप्रजेश्वराः / भवन्ति आपस्तेजश्च पृथिवी मारुतस्तथा //

रोग अन्तरकल्पेषु भैषज्यं भोन्ति उत्तमाः / येन ते सत्त्व मुच्यन्ते सुखी भोन्ति अनामयाः //

दुर्भिक्षान्तरकल्पेषु भवन्ती पानभोजनम् / क्षुधा पिपासामपनीय धर्म देशेन्ति प्राणिनाम् //

शस्त्र अन्तरकल्पेषु मैत्रीध्यायी भवन्ति ते / अव्यापादे नियोजेन्ति सत्त्वकोटिशतान् बहून् //

महासंग्राममध्ये च समपक्षा भवन्ति ते / सन्धिसामग्री रोचेन्ति बोधिसत्त्वा महाबलाः //

ये चापि निरयाः केचिद्बुद्धक्षेत्रेष्वचिन्तिषु / संचिन्त्य तत्र गच्छन्ति सत्त्वानां हितकारणात् //

यावन्त्यो गतयः कश्चित्तिर्यग्योनौ प्रकाशिताः / सर्वत्र धर्म देशेन्ति तेन उच्यन्ति नायकाः //

कामभोगां (-श्च) दर्शेन्ति ध्यानं च ध्यायिनां तथा / विध्वस्तमारं कुर्वन्ति अवतारं न देन्ति ते //

अग्निमध्ये यथा पद्ममभूतं तं विनिर्दिशेत् //

एवं कामांश्च ध्यानं च अभूतं ते विदर्शयी //

संचिन्त्य गणिकां भोन्ति पुंसामाकर्षणाय ते / रागाङ्कुरं च संलोभ्य बुद्धज्ञाने स्थापयन्ति ते //

ग्राभिकाश्च सदा भोन्ति सार्थवाहाः पुरोहिताः / अग्रामात्याथ चामात्यः सत्त्वामां हितकारणात् //

दरिद्राणां च सत्त्वानां निधाना भोन्ति अक्षयाः / तेषां दानाअनि दत्वा च बोधिचित्तं जनेन्ति ते //

मानस्तब्धेषु सत्त्वेषु महानग्ना भवन्ति ते //

सर्वमानसमुद्धतं बिधि प्रार्थेन्ति उत्तमाम् //

भयादितानां सत्त्वानां सन्तिष्ठन्ते ऽग्रतः सदा / अभयं तेषु दत्वा च परिपाचेन्ति बोधये //

पञ्चभिज्ञाश्च ते भूत्वा ऋषयो ब्रह्मचारिणः / शीले सत्त्वान् नियोजेन्ति क्षान्तिसौरत्यसंयमे //

उपस्थानगुरन् सत्त्वान् पश्यन्तीह विशारदाः / चेटा भवन्ति दासा वा शिष्यत्वमुपयान्ति च //

येन येनैव चांगेन सत्त्वो धर्मरतो भवेत् / दर्शेन्ति हि क्रियाः सर्वा महोपायसुशिक्षिताः //

येषाम् अनन्ता शिक्षा हि अनन्तश्चापि गोचरः / अनन्तज्ञानसम्पन्ना अनन्तप्राणिमोचकाः //

न तेषां कल्पकोटीभिः कल्पकोटिशतैरपि / बुद्धैरपि वदद्भिस्तु गुणान्तः सुवचो भवेत् //

ये ऽप्रज्ञहीनसत्त्वाः स्थापयित्वा (तान्) / अस्मिन् धर्मे श्रुते कोविदः को न प्रणिदधात्युत्तमबोध्यै?" //

8 अद्वयधर्ममुखप्रवेशः

अथ लिच्छविर्विमलकीर्तिस्तान् बोधिसत्त्वानेतदवोचत्- "सत्पुरुषाः, किमस्ति बोधिसत्त्वानामद्वयधर्ममुखप्रवेशः? अस्तु स्वभिधानम्" / धर्मविकुर्वणो नाम बोधिसत्त्वस्तत्र तस्मिन् संनिपात एतदवोचत्- "कुलपुत्र, उत्पादभङ्गौ हि द्वयम्; यदनुत्पन्नमजातम् तस्मिन् कश्चिद्भङ्गो नास्ति / अनुत्पत्तिकधर्मक्षान्ति प्राप्तिरस्यद्वयप्रवेशः" / बोधिसत्त्वः श्रीगुप्तो ऽभाषत- "ऽअहञ्च ममे ऽ -ति तधि द्वयम् / आत्मसमारोपाभावे मम (भावो) नास्ति / यः समारोपाभावः, स ह्यद्वयप्रवेशः" / बोधिसत्त्वः श्रीकूटो ऽब्रवीत्- "संक्लिष्टञ्च व्यवदानन्नाम ते द्वयम् / संक्लिष्टपरिज्ञाने व्यवदानमन्यना नास्ति / सर्वमन्यनासून्मूलनानुगतिमार्गः सो ऽद्वयप्रवेशः" / बोधिसत्त्वो भद्रज्योतिराह- "चलश्च मन्यना तौ हि द्वयम् / यो ऽचलः, (तत्-) मन्यनाकरणम्, अमनसिकारो ऽनधिकारः / अधिकारविप्रयोगः सो ऽद्वयप्रवेशः" / बोधिसत्त्वः सुबाहुरवोचत्- "बोधिचित्तं च श्रावकचित्तन्नाम-ते हि द्वयम् / यन्मायाचित्तसमदर्शनं तन्न च बोधिचित्तन्न च श्रावकचित्तम् / या चित्तस्य समलक्षणता, सा ह्यद्वयप्रवेशः" / बोधिसत्त्वो ऽनिभिष आह- "आदानञ्चानादानं, ते द्वयम् / यदनुपादानं, तन्नोपलभ्यते / यन्नोपलभ्यते, तस्मिन् कल्पनापकर्षणाकरणम् / सर्वधर्माकरणमनाचारः, स ह्यद्वयप्रवेशः" / बोधिसत्त्वः सुनेत्रो ऽवोचत्- "एकलक्षणत्वञ्चालक्षणत्वन्नाम, ते द्वयम् / यत् कल्पनाकरणं सङ्कल्पाकरणम्, (तद्) एकलक्षणत्वालक्षणत्वाकरणम् / यो लक्षणाविलक्षणे समलक्षणताप्रवेशः, सो ऽद्वयप्रवेशः" / बोधिसत्त्वस्तिष्यो ऽब्रवीत्- "कुशलाकुधलम् इति, ते द्वयम् /

यत् कुशलाकुशलानुत्थापनम्, निमित्तानिमित्तयोरद्वयावबोधः, (तद्-) अद्वयप्रवेशः" / बोधिसत्त्वः सिहो ऽभाषत- "सावद्यञ्चानवद्यमिति, ते द्वयम् / यत् प्रभेदज्ञानबज्रेणाबन्धनानिःसरणं, तदद्वयप्रवेशः" / बोधिसत्त्वः सिहमतिरवोचत्- "इदं सास्रवम्, इदमनास्रवमिति-ते हि द्वयम् / यत् समताधर्मप्राप्त्यास्रवानास्त्रवसंज्ञाकरणञ्चसंज्ञाभावः, (यः) समतायां न च समताप्राप्तिर् न च संज्ञाग्रन्थिः, य एवमवतारः, तदद्वयप्रवेशः" / बोधिसत्त्वः सुखाधिमुक्तो ऽभाषत- "इदं हि सुखम् इदं सुखन्नास्तीति-ते द्वयम् / सुविशुद्धज्ञानतः सर्वसंख्याविगता चाकाशसमालिप्ता बुद्धिः, साद्वयप्रवेशः" / बोधिसत्त्वो नारायणो ऽब्रवीत्- "इदं हि लौकिकम्, इदं लोकोत्तरमिति ते द्वयम् / या लोकस्य स्वभावशून्यता, तस्यां किञ्चिदप्युत्तरणन्नास्ति, अवतारो नास्ति, न चाधिगति र्न चानधिगतिः / यस्यानुत्तरणम् अनवतारो ऽनधिगतिश्चानधिगत्यभावः, तध्यद्वयप्रवेशः" / बोधिसत्त्वो विनयमतिराह "संसारश्च निर्वाणमिति-ते द्वयम् / संसारस्वभावदर्शनेन संसारश्च परिनिर्वाणन्न स्तः / यदेवं ज्ञातं, तदद्वयप्रवेशः" / बोधिसत्त्त्वः प्रत्यक्षदर्शनो ऽवोचत्- "क्षयाक्षयौ नाम-तौ द्वयम् / क्षयोहि सुक्षीणः / यः सुक्षीणस्तस्मिन्न (किञ्चित्) क्षपयितव्यम्; अतो ऽक्षय उच्यते / यो ऽक्षयः स क्षणिकश्च, क्षणिके क्षयो नास्ति / तदेवनमुप्रविष्टम् अद्वयधर्मद्वारावगाहो नाम" / बोधिसत्त्वः समन्तगुप्तो ऽब्रबीत्- "आत्मनैरात्भ्यमिति-ते द्वयम् / आत्मभावे ऽनुपलभ्यमाने, किं नैरात्म्यं कुर्यात्? (तत्-) तयोः स्वभावदर्शनेनाद्वयम् अद्वयप्रवेशः" /

बोधिसत्त्वो विद्युद्देवो ऽभाषत- "विद्याविद्ये ऽति-ते द्वयम् / अविद्यायाः स्वभाव इव, तथैव विद्यापि / याविद्या भवति, साव्याकृता, असंख्येया, संज्ञापथातिक्रान्ता / अस्यां यो ऽभिसमयः, सो ऽद्वयप्रवेशः" / बोधिसत्त्वः प्रियदर्शन आह- "रूपं खलु शून्यम् / रुपन्नाशनेन न शून्यम्, अपि खो पन रूपस्वभावः शून्यः / एवमेव वेदनासंज्ञासंस्कारविज्ञानं (-च) शून्यते ऽति-ते द्वयम् / विज्ञानं खलु शून्यता / विज्ञानन्नाशनेन न शून्यम्, अपि खो पन विज्ञानस्वभावः शून्यः / यो ऽस्मिन् पञ्चोपादानस्कन्धे (ष्व्) एवमेव जानाति, एवं ज्ञानेन विज्ञः, सो ऽद्वये प्रविशति" / बोधिसत्त्वः प्रभाकेतुरवोचत्- "चतुर्धातुनो ऽन्यत्राकाशधातुरन्य इति-ते द्वयम् / चतुर्धातु पुनराकाशस्वभावम् / पूर्वान्तो ऽप्याकाशस्वभावः / अपरान्तश्चाकाशस्वभावः / एवमेव प्रत्युत्पन्नम् / यत् तथा धात्ववतारज्ञानम्, तदद्वयप्रवेशः" / बोधिसत्त्वो ऽग्रमतिरभाषत- "चक्षुश्च रूपन्नाम-ते द्वयम् / ये चक्षुःपरिज्ञानेन रूपे ऽलोभो ऽद्वेषो ऽमोहः तधि शान्तिर्नाम / एवमेव श्रोत्रशब्दो, घ्राणगन्धौ, जिह्वारसौ, कायस्प्रष्टव्ये, मनोधर्मौ-ते द्वयम् / ये च मनः परिज्ञानाद्धर्मे(-ष्व्) अलोभो ऽद्वेषो ऽमोओहः-तधि शान्तिर्नाम / एवं शान्तिविहारो ऽद्वयप्रवेशः" / बोधिसत्त्वो ऽक्षयमतिराह- "दानसर्वज्ञतापरिणामने-ते द्वयम् / दानस्वभावः सर्वज्ञता / सर्वज्ञतास्वभावः परिणामना / एवमेव शीलक्षान्तिवीर्यध्यानप्रज्ञासर्वज्ञतापरिणामने-ते द्वयम् / सर्वज्ञता हि (शीलक्षान्तिवीर्यध्यान-) प्रज्ञास्वभावः; परिणामना च सर्वज्ञतास्वभावः / तस्मिन् एकनये ऽवतारः, सो ऽद्वयप्रवेशः" /

bodhisattvo gambhīramatirabhāṣata- "śūnyatāyā anyatrānimittāpraṇihitamapyanyamiti-te dvayam / yacchūnyama, tasminna kiñcinnimittam / animitte 'praṇihitam / apraṇihite cittamānovijñānāsañcāraḥ / yat sarvavimokṣamukheṣu draṣṭavyameka vimokṣamukhaṃ, tadadvayamukhapraveśaḥ" / bodhisattvaḥ śāntendriyo 'bravīt- "buddhadharmasaṅghā iti-te dvayam / buddhasya svabhāvo hi dharmaḥ, dharmasya ca svabhāvaḥ saṅgha / sarve te punarasaṃskṛtāḥ / asaṃskṛtaṃ hyākāśa (samam) sarvadharmanaya ākāśatulyaḥ / yadevamanugamanaṃ, tadhyadvayapraveśaḥ" / bodhisattvo 'pratihatekṣaṇo 'bhāṣata- "satkāyaśca satkāyanirodha iti-tau dvayam / satkāya eva nirodhaḥ / tat kasya hetoḥ? satkāyadṛṣṭyanutpāde 'sati yat tathā dṛṣṭayā 'satkāya' iti vā 'satkāyanirodha' iti tadkalpyam; akalpyaṃ nirvikalpam / atyantākalpanayā nirodhasvabhāvo bhavati / asambhavo 'vināśas-so 'dvayapraveśaḥ" / bodhisattvaḥ subinīto 'vocat- "kāyavākcittasaṃvaro nāma tadadvayam / tat kasya hetoḥ? ime dharmā anabhisaṃskāralakṣaṇāḥ / tat kāyānabhisaṃskāraṃ, tallakṣaṇe 'pi vāganabisaṃskārañca cittānabhisaṃskāram / tat sarvadharmānabhisaṃskāraṃ, taditi jñātavyamanuveditavyam / tat tadanabhisaṃskārajñānam, tadhyadvayapraveśaḥ" / bodhisattvaḥ puṇyakṣetra āha- "puṇyāpuṇyānijyābhusaṃskārābhisaṃskāraṇate 'ti - te dvayam / yat puṇyāpuṇyānizyānabhisaṃskāram, tadadvayam / puṇyāpuṇyānijyābhisaṃskārāṇāṃ svalakṣaṇaṃ śūnyatā / tasyā puṇyaṃ vāpuṇyaṃ vānijyaṃ vā na bhavanti / abhisaṃskaraṇatāpi ca na bhavati ya evamanabhinirhāraḥ, sa hyadvayapraveśaḥ" /

बोधिसत्त्वः पद्मव्यूहो ऽब्रवीत्- "आत्मपर्युत्थानादुत्पादः, तधि द्वयम् / आत्मपरिज्ञा द्वयानुत्थापनम् / तथाद्वयस्थाने ऽविज्ञप्तिकेनाविज्ञाप्तिकम्-तध्यद्वयप्रवेशः" / बोधिसत्त्वः श्रीगर्भो ऽभाषत "उपलम्भेन प्रभेदः-तद्द्वयम् / यो ऽनुपलम्भस्-तद्द्वयम् / ततो यावनुपादाननोत्सर्गौ, तध्यद्वयप्रवेशः" / बोधिसत्त्वश्चन्द्रोत्तरो ऽब्रवीत्- "अन्धकारालोकाविति-तौ द्वयम् / अन्धकारालोकाभावः-तदद्वयम् / तत् कस्य होतोः? एवं निरोधसमापन्ने न चान्धकारो न चालोकः / सर्वधर्मलक्षणत्वं तथैवापि / यो ऽस्यां समतायामवतारः, सो ऽद्वयप्रवेशः" / बोधिसत्त्वो रत्नमुद्राहस्तो ऽवोचत्- "निर्वाणभिरतिश्च संसारारतिस्-ते द्वयम् / ये निर्वाणानभिरतिश्च संसारनरतिस्-ते ऽद्वयम् / तत् कस्य हेतोः? यद् बन्धनान्निःसरणमाख्यायते, कि तु यदत्यन्ततो ऽबन्धनम्, तन्मोक्षं कुतो गवेषी? (यद्) अबन्धनानिःसरणयोर्भिक्षुणा रत्यरती न लभ्येते, न तध्यद्वयप्रवेशः" / बोधिसत्त्वो रत्नकूटराज आह- "मार्गकुमार्गाविति-तौ द्वयम् / मार्गावगाहे कुमार्गानाचारः / अनाचारस्थानम् मार्गसंज्ञा वाभूतमार्गसंज्ञा (वा) न भवति / संज्ञापरिज्ञा हि मतिद्वयानवतारः / सो ऽद्वयप्रवेशः" / बोधिसत्त्वः सत्यरतो ऽभाषत - "सत्यमृषे नाम ते द्वयम् / यदि सत्यदर्शनेन सत्यता(पि) न समनुदृश्यते,मिथ्यादृष्टिः कुतो दृश्यते? तत् कस्य हेतोः? मांसचक्षुषा न दृश्यते, दृश्यते प्रज्ञाचक्षुषा अदर्शनेन यथाविदर्शना, तथा (हि) दृश्यते / यत्र न च दर्शनन्न च विदर्शना तद्द्वयप्रवेशः" /

तथैव ते बोधिसत्त्वाः स्वकस्वकनिर्देशं देशयित्वाः, मंजुश्रीकुमारभूतदमेतवोचन्- "मंजुश्रीः, बोधिसत्त्वोस्याद्वयप्रवेशः किम्?" मंजुश्रीरब्रवीत्- "सत्पुरुषाः, यद्यपि सर्वैर्युष्माभिः सुभाषितम्, सर्व तद् युष्माभिरुक्तं हि द्वयम् / स्थापयित्वैकोपदेशम् (अपि), (यद्) अनभिलाप्यम्, अभाष्यम्, अनुक्तम्, अनवघोष्यम्, अव्यपदेश्यम्, प्रज्ञप्तिरहितम् तध्यद्वयप्रवेशः" / ततो मंजुश्रीकुमारभूतो लिच्छवि विमलकीर्तिमेतद् अवोचत्- "अस्माभिः स्वकस्वकनिर्देशे व्याख्याते, कुलपुत्र, त्वमप्यद्वयधर्ममुखनिर्देशाय स्वभिधानं कुरु" / अथ लिच्छविर्विमलकीर्तिस्तूष्णीभूतो ऽभूत / ततो मंजुश्रीकुमारभूतो लिच्छविविमलकीर्तये साधुकारम् अदात्- "साधु, साधु, कुलपुत्र / अयं हि बोधिसत्त्वानाम् अद्वयप्रवेशः / तस्मिन् अक्षरवचनविज्ञप्तिप्रचारो नास्ति" / अस्मिन् निर्देशे देशिते, बोधिसत्त्वानाम् पञ्चसहस्रेणाद्वयधर्ममुखप्रवेशेनानुत्पत्तिकधर्मक्षान्तिः प्रतिलब्धा /

अद्वयधर्ममुखप्रवेशस्य परिवर्तो ऽस्तमः

9 nirmāṇabhojyādānam athāyuṣmataḥ śāriputrasyaitadabhūt- "madhyāhna āpanne, ime mahābodhisattvāścennottiṣṭhanti, ime 'nnaṃ kutra bhuñjanta" iti / tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka cetasā jñātvā, āyuṣmantaṃ śāriputrametadavocat- "bhadanta śāriputra, tathāgatena ye 'ṣṭau vimokṣā ākhyātāḥ, teṣu vimokṣeṣu tiṣṭha, āmiṣasammiśritavicāreṇa dharmammā śrauṣīḥ / bhadanta śāriputra, muhūrta pratīkṣasva; ananubhūtapūrvāhāraṃ bhakṣayiṣyasi" / tatastadā licchavirvimalakīrtistathārūpaṃ samādhi samāpadyate sma, īdṛśad rdhyabhisaṃskāramabhisaṃskaroti sma, (yathā tad) ūrdhvadiśi buddhakṣetram, ito dvicatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy) atikramya, yat sarvagandhasugandhā nāma lokadhātuḥ, tebhyo bodhisattvebhyaśca tebhyo mahāśrāavakebhyo darśayati sma / tatra sugandhakuṭo nāma tathāgato 'dya tiṣṭhiti, dhriyate, yāpayati / tasmillokadhātau(yo) daśadikṣu sarvabuddhakṣetrāṇām manuṣyadev (ebhyo) gandha utpadyate, tasmādviśiṣṭataro (gandhas) tasya lokadhātordāruṇa utpadyate / tasmillokadhātau śrāvakapratyekabuddhānāṃ nāmadheyamapi nāsti / kevalaṃ bodhisattvānāṃ gaṇasannipātāya sa sugandhakūūṭastathāgato dharma deśayati / tasmillokadhātau sarvāṇi kūṭāgārāṇi dhūpamayāni; sarvacaṃkramaṇodyānavimānāni ca dhūpamayāni / yatteṣāṃ bodhisattvānāṃ juṣṭānnaṃ, tasya gandhenāprameyalokadhātavaḥ sfuṭāḥ / tena khalu samayena bhagavān sugandhakūṭastathāgatastairbodhisattvaissahabhojanakhādanārtha niṣaṇṇo ('bhvat) /

तत्र महायानसम्प्रस्थितो गन्धव्यूहतर्पणो नाम देवपुत्रो भगवतश्च तेषां बोधिसत्त्वानाम् उपस्थाने च पर्युपासने ऽभियुक्तो (ऽभूत्) / ततस्तया सर्वावत्या पर्षदा तस्मिलोकधातौ स भगवांश्च ते बोधिसत्त्वा भोजनाय रचिता निषण्णा दृश्यन्ते स्म / अथ लिच्छविर्विमलकीर्तिः सर्वान् तान् बोधिसत्त्वानेतदवोचत्- "सत्पुरुषाः, युष्मन्मध्ये कस्तस्माद् बुद्धक्षेत्रादाहारादानायोत्सहते?" अत्र मंजुश्रियो ऽधिष्ठानेन न कश्चिदुत्सहते स्म / ततो लिच्छविर्विमलकीर्तिमंजुश्रीकुमारभूतमेतदवोचत्- "मंजुश्रीः, ईदृशस्ते परिवारो ननु न लज्जा (करः)? आह- "कुलपुत्र, तथागतेन ऽनाशिक्षिताय् आतिमन्यना कर्तव्ये ऽ ति ननु न प्रोक्तम्?" अथ लिच्छविर्विमलकीर्तिस्तस्याः शय्याया अनुत्थाय, तेषां बोधिसत्त्वानाम् अभिमुखं निर्मितबोधिसत्त्वस्य सुवर्णवर्णप्रतिरूपकं लक्षणानुव्यञ्जस्वलङ्कृतं कायं निर्मिमीते स्म / येन स सर्वपरिवारो ध्यामीकृतः, तादृशो रूपे अवभासमागच्छति स्म / ततो लिच्छविर्विमलमीर्तिस्तं निर्मितबोधिसत्त्वमेतदवोचत्- "कुलपुत्र, ऊर्ध्वदिशि गच्छ; द्वाचत्वारिशद्गङ्गनदीवालुकोपमानि बुद्धक्षेत्राण्यतिक्रभ्य, (तत्र्) अस्ति सर्वगन्धसुगन्धा नाम लोकधातुः / तत्र सुगन्धकूटो नाम तथागतो ऽद्य भोजनखादनार्थ निषण्णः / तत्रोपसंक्रम्य, तस्य तथागतस्य पादौ शिरसाभिवन्द्य, एतन्निवेदय- ऽलिच्छविर्विमलकीर्तिर्भगवतः पादौ शतसहस्रकृत्वः शिरसाभिवन्द्य, भगवत्यल्पाबाधताम् अल्पातङ्कतां लघूत्तथानतां यत्रां बलं सुखम्ह् अनवद्यतां सुखस्पर्शविहारतां रोग् (आभावं) पृच्छति चैवमपोइ कथयति / भगवान् भोजनस्यावशेषम् मे ददातु /

तेन सहालोकधातौ (विमलकीर्ति-) र्बुद्धकार्य करिष्यति / (ये) हीनाधिमुक्तिकसत्त्वाः, त उदाराधिमुक्ति जनयिष्यन्ति, तथागतलक्षणान् च वर्धन्तऽ इति" / अथ स निर्मितबोधिसत्त्वो लिच्छविविमलकीर्तये ऽसाध्व्ऽ इति कृत्वा, प्रत्यश्रौषीत् / उल्लोकितमुखस्तेषां बोधिसत्त्वानाम् अभिमुखादपक्रामाति स्म, ते बिधिसत्त्वास्तु तद्गमनन्न पश्यन्ति स्म / ततः स निर्मितबोधिसत्त्वो (येन) सर्वगन्धसुगन्धा नाम लोकधातुः; तेनोपगम्य, तस्य भगवतः सुगन्धकूटस्य तथागतस्य पादौ शिरसाभिवन्द्य, एतदवोचत्-

"भगवन्, बोधिसत्त्वो विमलकीर्तिर्भगवतः पादौ शिरसाभिवन्द्य, भगवत्यल्पाबाधताम् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखम् अनवद्यतां सुखस्पर्शविहारतां रोग्(आभावं) पृच्छति / स भगवतः पादौ सतसहस्रकृत्वः शिरसाभिवन्द्य, एतद् याचति- ऽभगवान् भोजनस्य भोज्यावशेषम्मे ददातु / तेनास्मिन् सहालोकधातौ (विमलकीर्ति-)र्बुद्धकार्य करिष्यति / (ये) हीनाधिमुक्तिकसत्त्वाः, ते बुद्धधर्मोदारमत्यधिमुक्ति जनयिष्यन्ति, तथागतलक्षणानि च वर्धन्तऽ-इति" /

अथ ते भगवतः सुगन्धकूटस्य तथागतस्य बुद्धक्षेत्रस्य बोधिसत्त्वा आश्चर्याद्भुतप्राप्ताः तं भगवन्तं सुगन्धकूटं तथागतमेतदवोचन्- "भगवन् एवंरूपो महासत्त्वः कुत आगतः? स सहालोकधातुः क्वास्ति? "हीनाधिमुक्तिका" नाम तदस्ति किम्?" इति ते बोधिसत्त्वास्तं भगवन्तमेवं पृच्छन्ति स्म /

ततो भगवांस्तान् बोधिसत्त्वानेतदवोचत्- "कुलपुत्राः, इतो ऽधोदिशि द्विवचत्वारिशद्गङ्गानदीवालुकासमानि बुद्धक्षेत्राण्य् अतिक्रम्य, अस्ति सहा नाम लोकधातुः / तत्र शाक्यमुनिर्नाम तथागतः पञ्चकषायबुद्धक्षेत्रे हीनाधिमुक्तिकेभ्यः सत्त्वेभ्यो धर्म देशयति / तत्र सो ऽचिन्त्यविमोक्षविहारी विमलकीर्तिर्नाम बोधिसत्त्वः बोधिसत्त्वेभ्यो धर्म देशयति / स मन्नामपरिकीर्तन् (आर्थाय) चास्य लोकधातोः प्रशंसासम्प्रकाशना (-ऽर्थाय) च तेषां बोधिसत्त्वानां कुशलमूलसुतप्तकरणार्थाय निर्मितबोधिसत्त्वं प्रेषयति" /

ततस्ते बोधिसत्त्वा एतदवोचन्- "भगवन्, तस्य बोधिसत्त्वस्य माहात्म्यम्, यावदिदं निर्माणञ्च तस्यैवंरूपर्धिबलवैशारद्यानि भूतानि" / स भवानवोचत्- "तस्य बोधिसत्त्वस्येदृशाम् माहात्म्यम्, (यथा) दशदिक्षु सर्वबुद्धक्षेत्रेषु निर्माणा (नि) प्रेषयति, तानि निर्माणानि च तेषां बुद्धक्षेत्राणां सर्वसत्त्वकार्य-(आर्थ) बुद्धकार्येण प्रत्युपस्थितानि भवन्ति" /

अथ भगवान् सुगन्धकूटस्तथागतः सर्वगन्धसमन्वागते भाजने सर्वगन्धवासितं भोजनं छोरयति स्म; तत्तस्मै निर्मितबोधिसत्त्वायादात् / ततस्तदा बोधिसत्त्वानां नवतिशतसहस्राणि तेन गमिकानि- "भगवन्, वयमपि तां सहां लोकधातुं, तं भगवन्तं शाक्यमुनि दर्शनाय, वन्दनाय, पर्युपासनाय. तं च विमलकीर्ति च तान् बोधिसत्त्वान् दर्शनाय गच्छामः" / स भगवानवोचत्- "कुलपुत्राः, गच्छत यस्येदानीं कालं मन्यध्वे /

"कुलपुत्राः, ते सत्त्वा उन्मादाश्च प्रमत्ताः खल्व् अभविष्यन्; तेन गच्छत गन्धापगतभूताः / तस्य सहालोकधातोस्ते सत्त्वा अवसादमासादयन्ति; तस्माहु स्वरूपान् निवर्तध्वम् / तस्मिल्लोकधातौ हीनसंज्ञाम् उत्पाद्य, प्रतिघसंज्ञाम् मोत्पादयत / तत् कस्य हेतोः? कुलपुत्राः, बुद्धक्षेत्रें ह्याकाशक्षेत्रम् / सत्त्वपरिपाचनार्थाय भगवन्तो बुद्धाः सर्वान् बुद्धगोचरान्न दर्शन्ति" /

अथ स निर्मित बोधिसत्त्वस्तत् (सर्वगन्धवासितं) भोज्यं समादाय, बोधिसत्त्वानां नवतिशतसहस्रैः सार्ध बुद्धानुभावेन च विमलकीर्तेरधिष्ठानेन एएकक्षणलवमुहूर्तेन तत्रईव तस्याः सर्वगन्धसुगन्धालोकधात्वा अन्तर्हितश्च लिच्छविविमलकीर्तेर्गृहे निषीदति स्म / अथ लिच्छविर्विमलकीर्तिर्यादृशानि पूर्वसिंहासनानि, तादृशानां नवतिशतसहस्राण्यधितिष्ठति स्म / तेषु ते बोधिसत्त्वा न्यषीदन् / ततस्स निर्मित बोधिसत्त्वस्तद्भोज्यपूर्णभाजनं विमलकीर्तये ऽदात् /

ततस्तस्य भोज्यस्य गन्धो वैशालीम् महानगरीं संन्यविक्षत्; साहस्रलोकधातुं यावच्च घ्रायते स्मास्वाद्यगन्धः / ये वैशाल्या ब्राह्माणगृहपतयश्च लिच्छव्यधिपो लिच्छविचन्द्रच्छत्त्रश्च तं गन्धमाघ्राय, आश्चर्यप्राप्ता अद्भुतप्राप्ताः प्रसन्नकायचित्ता लिच्छवीनां चतुरशीतिसहस्रैः परिपूर्णैः सह विमलकीर्तेर्गृहम् प्रविशन्ति स्म /

ते तस्मिन् गृहे बोधिसत्त्वान् सम्पूर्णसिहासनेषु तन्मात्रोन्नतातिमात्रविशालेषु निषण्णान् पश्यन्ति स्म / दृष्ट्वा, तैरधिमुक्तिश्च प्रमुदितोत्पादिताः / सर्वे ते तान् महाश्रावकां च तान् महाबोधिसत्त्वानभिवन्द्य, एकान्ते ऽस्थुः / भूम्यवचरदेवपुत्राश्च कामावचररूपावचरदेवपुत्राश्च तेन गन्धेन चोदिता विमलकीर्तेर्गृहं समागच्छन्ति स्म /

अथ लिच्छविर्विमलकीर्तिः शारिपुत्रं स्थविरं च तान् महाश्रावकानेतदवोचत्- "भदन्ताः, तथागतभोज्यम् महाकरुणापरिवासितामृतं भक्षयत, प्रादेशिकचित्ततां तु मोपप्रज्ञापयत / दानभोगे ऽसमर्था अभविष्यत" / ततः केचिच्छ्रावका एतन्मन्यन्ते स्म- "स्वल्पभोजनम् इहानयैतादृशपरिषदा कथं भोजनीयम्?" इति / ततस्स निर्मितबोधिसत्त्वस्तां श्रावकानेतदवोचत्- "आयुष्मन्तः, युष्मत्प्रज्ञापुण्ये तथागतस्य प्रज्ञापुण्याभ्याम् मा तोलयत / तत् कस्य हेतोः? तद्यथापि नाम चतुर्महासमुद्राः क्षीणाः सम्भवेयुः, कि त्वस्मिन् भोजने न किञ्चित्क्षयो ऽभविष्यत् / (एवमेव) सर्वे सत्त्वा तस्य भोजनस्य कल्पं सुमेरुमात्रालोपान् भक्षयेयुः, कि त्विदं क्षयन्नायास्यत् / तत् कस्य हेतोः? सो ऽक्षयशीलप्रज्ञा समाधिमयस्य तथागतभोजनस्य भाजनावशेषः क्षयं यातुन्न शक्नोति" /

अथ ततो भोजनात् सर्वावती सा पर्षत् तृप्ता भूता / न च तद्भोजनं क्षीयते / यैश्च बोधिसत्त्वैः श्रावकैश्च शक्रब्रह्मलोकपालैस्तदन्यैश्च सत्त्वैस्तद्भोजनं भुक्तम्, तेषां तादृशं सुखं काये ऽवक्रान्तं यादृशं सर्वसुखमण्डितायां लोकधातौ बोधिसत्त्वानां सुखम् / सर्वरोमकूपेभ्यश्च तेषां तादृशो गन्धः प्रवाति, तद्यथापि नाम तस्यामेव सर्वगन्धसुगन्धायां लोकधातौ वृक्षाणां गन्धः /

ततस्संप्रजानल्लिंच्छविर्विमलकीर्तिर्भगवतः सुगन्धकूटस्य तथागतस्य बुद्धक्षेत्रादागतान् बोधिसत्त्वानेतदवोचत्- "कुलपुत्राः, तस्य तथागतस्य सुगन्धकूटस्य धर्मदेशना कीदृशा"? ते ऽवदन्- "स तथागतो ऽक्षरनिरुक्तिभ्यां धर्मन्न दर्शयति / तेन गन्धेनैव बोधिसत्त्वा विनिता भवन्ति / ये गन्धवृक्षाः, येषां मूलेषु ते बोधिसत्त्वा निषण्णाः, तेभ्यो (यादृशो) गन्धस्तेभ्यो (बोधिसत्त्वेभ्यः), तादृशो निश्चरति / घ्रातमात्र एव तस्मिन् गन्धे, सर्वबोधिसत्त्वगुणाकरो नाम समाधि (स्तैः) प्रतिलभ्यते / प्राप्तमात्र एव तस्मिन् समाधौ, सर्वेषु तेषु बोधिसत्त्वगुणा उत्पद्यन्ते" /

atha te bodhisattvā licchavi vimalakīrtimetadavadan- "iha bhagavāṃ śākyamuniḥ kīdṛśāṃ dharmadeśanāṃ prakāśayati?" āha- "satpuruṣāḥ, ime sattvā hi durvineyāḥ; ebhyaḥ khaṭuṃkadurvineyasattvebhyaḥ khaṭuṃkadurvineyavineyakathāḥ prakāśayati / ke khaṭuṃkadurvineyāḥ vineyāḥ? khaṭuṃkadurvineyakathā katamā? tadyathā- "ime hi nairayikāḥ, iyaṃ hi tiryagyoniḥ, ayaṃ yamalokaḥ, imāni hyakṣaṇāni, ime vihīnendriyāḥ / "idaṃ hi kāyaduścaritaṃ, ayaṃ hi kāyaduścaritasya vipākaḥ / idaṃ vāgduścaritaṃ, ayaṃ vāgduścaritasya vipākaḥ / idaṃ manoduścaritaṃ, ayaṃ manoduściritasya vipākaḥ / "ayaṃ hi prāṇātipātaḥ, iyamadattādānaṃ, ayaṃ kāmamithyācāraḥ, ayaṃ mṛṣāvādaḥ, ayaṃ paiśunyavādaḥ, ayaṃ pāruṣyavādaḥ, ayaṃ saṃbhinnapralāpaḥ, iyaṃ hyabhidhyā, ayaṃ vyāpādaḥ, iyaṃ mithyādṛṣṭiḥ, ayaṃ hi teṣāṃ vipākaḥ / "idaṃ mātsarya, idaṃ mātsaryasya falaṃ; idaṃ dauḥśīlyam,(idaṃ dauḥśīlyasya falaṃ); ayaṃ krodhaḥ, (idaṃ krodhasya falam); idaṃ kausīdyam, idaṃ kausīdyasya falam; iyaṃ hi dauṣprajñā, idaṃ dauṣprajñāfalam / "ayaṃ śikṣāpadasamatikramaḥ, ayaṃ hi prātimokṣaḥ; idaṃ kāryam, idamakāryam; ayaṃ yogācāraḥ; idaṃ prahāṇam; idamāvaraṇam, idamanāvaraṇam; iyamāpattiḥ, idamāpattivyutthānaṃ; ayaṃ mārgaḥ, ayaṃ kumārgaḥ; idaṃ kuśalam, idamakuśalam; idaṃ sāvadyam, idamanavadyam; idaṃ sāsravaṃ idamanāsravam; idaṃ laukikam ' idaṃ lokottaram; idaṃ saṃskṛtam, idamasaṃskṛtam ayaṃ hi saṃkleśaḥ, idaṃ vyavadānam; ayaṃ saṃsāraḥ, idaṃ nirvāṇam iti / "evamanekavidyaṃ dharma deśayan, (śākyamunistathāgataḥ sattvānām) aśvakhaṭuṃkacittaṃ pratiṣṭhāpayati / tadyathāpi nāma khaṭuṃkāśvo vā hastī vā 'rvāk marmahatā vinītā bhavanti, evameva khaṭuṃkadurvineyāḥ sattvā api sarvaduḥkhaprakāśanakathāyā vinītā bhavanti" /

ते बोधिसत्त्वा अवदन्- "तथा भगवतो बुद्धस्य शाक्यमुनेर्माहात्म्यं प्रतिष्ठापितम् / आश्चर्य हि हीनदरिद्रखटुंकसत्त्वदमनं / ये (च) बोधिसत्त्वा एवंविध औदारिके बुद्धक्षेत्रे ऽवस्थिताः, तेषामचिन्त्यमहाकरुणा" /

ततो लिच्छविर्विमलकीर्तिरब्रवीत्- "तत् तथेति, सत्पुरुषाः; यथा वदथ (तत्) तथा / ये बोधिसत्त्वा इहोत्पन्नाः, एषाम् महाकरुणा सुदृढा / ते ऽतस्मिल्लोकधातावेकस्यां जात्यां सत्त्वेभ्यो बह्वर्थ कुर्वन्ति / तस्यां सर्वगन्धसुगन्धायां लिकधातौ कल्पानामपि सतसहस्राणि सत्त्वेभ्य ईदृशमर्थ कर्तुन्न शक्नुवन्ति / तत् कस्य हेतोः? सत्पुरुषाः, अस्यां सहायां लोकधातौ दश परिग्रहावहाः कुशलसंनिचयधर्माः संविद्यन्ते / ते ऽन्यस्मिन् बुद्धक्षेत्रे न भवन्ति / कतमे दश? तद्यथा- "दानेन दरिद्रसंग्रहः; शीलेन दुःशीलसंग्रहः; क्षान्त्या कटुकसंग्रहः; वीर्येण कुसीदसंह्ग्रहः; ध्यानेन विक्षिप्तचित्तसंग्रहः; प्रज्ञया दुष्प्रज्ञसंग्रहः; अक्षणप्राप्तेभ्यो ऽष्टाभ्यो ऽक्षणेभ्यो ऽतिक्रमणदेशना; प्रदेशकारिभ्यो महायानदेशना कुशलमूलेनानवरोपितकुशलमूलसंग्रहः; चतुर्भिः संग्रहवस्तुभिः सततसमितं सत्त्वपरिपाचनम् / ते दश प्रग्रहावहाः कुशलसंनिचयधर्मा अन्यस्मिन् बुद्धक्षेत्रे न संविद्यन्ते" / बोधिसत्त्वा अवदन्- "अन्विताः कतिभिर्धर्मैर्बोधिसत्त्वाः, अस्याः सहाया लोकधात्वाश्च्युत्वा, अक्षतानुपद्रुताः परिशुद्धबुद्धक्षेत्रं गमिष्यन्ति?" आह- "अन्विता अष्टाभिर्धर्मैर्बोधिसत्त्वाः, अस्याः सहाया लोकधात्वाश्च्युत्वा, अक्षतानुपद्रुताः परिशुद्धबुद्धक्षेत्रं गमिष्यन्ति / कतमे ऽष्टौ? (बोधिसत्त्वैः प्रत्यवेक्षितव्यम्)- " ऽसर्वसत्त्वा मयानुग्रह्याः, इच्छंस्त्वेभ्यो न किचिद् हितं / सर्वसत्त्वानां सर्वदुःखं क्षाम्यम्, तत्-(प्राप्तानि) सर्वकुशलमूलानि सर्वसत्त्वेभ्य उत्स्रष्टव्यानीति / सर्वसत्त्वेष्वप्रतिहतो (भवानि) / शास्तरीव सर्वबोधिसत्त्वनन्दी (भवानि) / श्रुताश्रुतधर्मा श्रुत्वा, (भवान्य्-) अप्रतिक्षेपः / परलाभ ईर्ष्यापगतः स्वलाभेनागर्वश्च चित्तनिध्यप्तो (भवानि) / आत्मस्खलितानि प्रत्यवेक्षमाणः परदिषान्न चोदयामि / अप्रमादरतश्च सर्वगुणान् संप्रतीच्छमीऽ(ति) / तैरष्टाभिर्धर्मैरन्विता बोधिसत्त्वाः, सहाया लोकधात्वाश्च्युत्वा, अक्षतानुपद्रुताः परिसुद्धबुद्धक्षेत्रं गमिष्यन्ति" /

अथ लिच्छविविमलकीर्तिना च मंजुश्रीकुमारभूतेन चैवं तस्यां पर्षदि संनिपतितेभ्यस्तथा हि धर्मे देशिते, शतमात्राणां प्रणिसहस्राणाम् अनुत्तरसम्यक्संबोधिचित्तान्युत्पादितानि / बोधिसत्त्वानां दशभिः सहस्रैरनुत्पत्तिकधर्मक्षान्तिः प्रतिलब्धा /

निर्माणभोज्यादानस्य परिवर्तो नवमः /

10 क्षयाक्षयन्नाम धर्मयौतकम्

तेन खलु पुनः समय आम्रपालीवने भगवता धर्मे निर्दिश्यमाने, स मण्डलमाडो विस्तीर्णो विशालो ऽभूत्; सा पर्षच्च सुवर्णवर्ण इव संनिविष्टा(ऽभूत्) / ततः आयुष्मानानन्दो भगवन्तमेतदवोचत्- "भगवन्, अत्रेदमाम्रपालीवनं विस्तीर्णंच विशालभूतं, सर्वावती पर्षदपि सुवर्णवर्णे दृश्यते / कस्य खल्विदं पूर्वनिमित्तं?" भगवानवोचत्- "आनन्द, इदं लिच्छविविमलकीर्तिमंजुश्रीकुमारभूतयोः प्रभूतपरिवारेण परिवृतयोः पुरस्कृतयोस्तथागतसमीपागमनपूर्वनिमित्तं" / अथ लिच्छविर्विमलकीर्तिमंजुश्रीकुमारभूतमेतदवोचत्- "मंजुश्रीः, इमे महासत्त्वा अपि नमस्यन्ति तथागतं दृश्यमानाः, तस्माह्वावां तथागतस्य समीपं गमिष्यावः" / मंजुश्रीराह- "कुलपुत्र, गमिष्यावो यस्येदानीं कालं मन्यसे" /

ततो लिच्छविर्विमलकीर्तिरेवंरूपम् ऋद्ध्यभिसंस्कारमभिसंस्करोति स्म, यथा तैस्सिंहासनैस्साकं सर्वावतीं पर्षदं दक्षिणपाणौ प्रतिष्ठाप्य, येन भगवांस्तेनोपसंक्रान्तः / उपसंक्रम्य, पर्षदं भूमौ प्रतिष्ठापयति स्म / भगवतः पादौ शिरसाभिवन्द्य, सप्तकृत्वः प्रदक्षिणीकृत्यैकान्ते ऽस्थात् / अथ ते ऽपि सुगन्धकूटस्य तथागतस्य बुद्धक्षेत्रादागता बोधिसत्त्वाः सिंहासनेभ्यो ऽवतीर्य, भगवतः पादौ शिरसाभिवन्द्य, भगवते कृताञ्जलिभूता नमस्कुर्वन्त एकान्ते ऽस्थुः / सर्वे ते ऽपि बोधिसत्त्वा महासत्त्वाश्च महाश्रावकाश्च सिंहासनेभ्यो ऽवर्तीय, भगवतः पादौ शीरसाभिवन्द्य, एकान्ते ऽस्थुः / एवमेव सर्वे ते शक्रब्रह्मलोकपालदेवपुत्रा भगवतः पादौ शिरसाभिवन्द्य, एकान्ते ऽस्थुः /

tato bhagavān, tān bodhisattvān dharmakathayā saṃpraharṣayitvā, etadavocat- "kulaputrāḥ, svakasvakasiṃhāsaneṣu niṣīdata" / bhagavataitadukte, te nyaṣīdan / atha bhagavāṃśāriputramāmantrayate sma- "śāriputra, bodhisattvānāṃ varasattvānāṃ vikurvaṇāni nanu tvayā dṛṣṭāni?" āha- 'dhruvaṃ, bhagavan, dṛṣṭāni" / bhagavānavocat- "tataste kīdṛśā saṃjñotpannā?" āha- "dhruvaṃ, bhagavan tato me 'cintyasaṃjñotpannā / teṣāṃ karaṇamevamacintya dṛṣṭaṃ, yathā cintātulanāgaṇanā aśakyāḥ" / atha bhagavantamāyuṣmānānanda etadavocat- "bhagavan, apūrvaghrāto gandhaḥ śrūyamāṇaḥ, īdṛśo 'sti kasya gandhaḥ?" bhagavān avocat- "ānanda, te bodhisattvāḥ kāyasya sarvaromakūpebhya (idṛśaṃ) gandhaṃ niḥśvasanti" / śāriputro 'pyāha- "āyuṣmanānanda, asmatkāyasya sarvaromakūpebhyo 'pīdṛśo gandho niścarati" / āha- "kuto gandha āgataḥ?" āha- "ayaṃ licchavirvimalakīrtiḥ sugandhakūṭasya tathāgatasya sarvagandhasugandhālokadhātorbuddhatrādbhojanamādatte sma / paribhuktvā, sarveṣāṃ, kāyādīdṛśo gandho niścarati" / tata āyuṣmānānando licchavi vimalakīrtimetadavocat- "ayaṃ gandhaḥ kiyacciramāviṣkaraṇamāyāti?" āha- "yāvadannamajīrṇam / ānanda āha- "kiyacciracaritaṃ tadannaṃ jīrṇa bhaviṣyati?" āha- "saptāharātrāntare jīrṇa bhaviṣyati / tato 'pi yāvatsaptāhamevabhojaḥ parisfuṭaṃ bhaviṣyati / ajīrṇe 'pi (bhojane), na kācit pīḍā jāyate /

"यैश्च भदन्त आनन्द भिक्षुभिरनवक्रान्तनियामैरेतद्भोजनं भुक्तम्, तेषामेवावक्रान्तनियामानां परिणंस्यति / यैरवक्रान्तनियामैरेतद्भोजनं भुक्तं, यावत्ते ऽपरिमुक्तचित्ताः" (तेषान्-) न परिणंस्यति / यैरनुत्पादितबोधिर्चित्तैः सत्त्वै परिभुक्तम् / ऽ तेषामुत्पादितबोधिचित्तानां परिणंस्यति / यैरुत्पादितबोधिचित्तैर्भुक्तम् ऽ तेषां नाप्रतिलब्धक्षान्तिकानां परिणंस्यति / यैः प्रतिलब्धक्षान्तिकैर्भुक्तम्, तेषामेकजातिप्रतिबद्धानां परिणंस्यति /

"भदन्तानन्द,तद्यथापि नामसरन्नाम भैषज्यमुदरे ऽवतीर्य, यावत् सर्वाणि विषाण्यनपगतानि, (तावन्-) न परिणंस्यति; तद्भैषज्यं पश्चात् परिणंस्यति / एवमेव, भदन्तानन्द, यावत् सर्वक्लेशविषाण्यनपगतानि, तद्भोजनन्न परिणंस्यति / तद्भोजनं पश्चात् केवलं परिणंस्यति / "तत आयुष्मानानन्दो भगवन्तमेतदवोचत्- "इदम्, भगवन्, भोजनं हि बुद्धकार्य करोति" / आमन्त्रयते स्म- "तत् तथा, आनन्द; यथा वदसि, तत् तथेति /

"संविद्यन्ते, आनन्द, बुद्धक्षेत्राणि, येषु बोधिसत्त्वा बुद्धकार्य कुर्वन्ति; संविद्यन्ते बुद्धक्षेत्राणि, येषु प्रभया बुद्धकार्य कृतं, ..... येषु बोधिवृक्षेण..., .....तथागतलक्षणरूपदर्शनेन....,..... ......चीवरेण....., भोज्येन....... , .... जलेन....., ...... उद्यानेन......, ..... विमानेन....., .... कूटागारेण बुद्धकार्य कृतं; संविद्यन्ते च आनन्द, बुद्धक्षेत्राणि, येषु निर्माणेन बुद्धकार्य कृतं / आनन्द, संविद्यन्ते पुनर्बुद्धक्षेत्राणि, (येष्व्) आकाशेन बुद्धकार्य कृतं / एवमेवाकाशान्तरीक्षं बुद्धकार्य कृतं / अनेन ते सत्त्वा वैनेयिका भवन्ति" / "एवमेव, आनन्द, स्वप्नप्रतिबिम्बोदकचन्द्रप्रतिश्रुत्कामायामरीच्युदाहरणाक्षरनिरुक्तिदर्शनेन तेभ्यः सत्त्वेभ्यो बुद्धकार्य कृतं / संविद्यन्ते ऽपि बुद्धक्षेत्राणि, येष्वक्षरविज्ञप्त्या बुद्धकार्य कृतं / आनन्द, यत्रावचनानभिलापानिदर्शनानुदाहारेण तेभ्यः सत्त्वेभ्यो बुद्धकार्य कृतं, (तत्र) एवं परिशुद्धबुद्धक्षेत्राणि संविद्यन्ते /

"भगवताम्, आनन्द बुद्धानाम् ईर्यापथोपभोगपरिभोगेन सत्त्वदमनार्थमकृतबुद्धकार्य किञ्चिन्नास्ति / आनन्द, तैश्चतुर्भिर्मारैश्च चतुरशीतीशतसहस्रैश्च क्लेशमुखैः, (यैः) सत्त्वाः संक्लिष्टाः, सर्वैस्तैर्बुद्धा भगवन्तो बुद्धकार्य कुर्वन्ति /

"इदं ह्यानन्द, सर्वबुद्धधर्ममुखप्रवेशो नाम धर्ममुखम् / ते ऽस्मिन् धर्ममुखे प्रविष्टा बोधिसत्त्वाः सर्वोदारगुणव्यूहान्वितबुद्धक्षेत्रेषु न च दीना वोत्तमा वा / सर्वोदारगुणव्यूहान्वितबुद्धक्षेत्रेषु (ते), न चोदग्रा वा गर्विता वा, तथागतेषु प्रतिमानम् उत्पादयन्ति / भगवन्तो बुद्धा (यथा) सर्वधर्मसमताधिगताः सत्त्वपरिपाचनार्थाय नानाप्रकारबुद्धक्षेत्राणि दर्शयन्ति, तदाश्चर्यम् /

"आनन्द, तद्यथापि नाम बुद्धक्षेत्राणां गुणा अन्यो ऽन्यं नानाविधाः, कि तु क्रियामार्गेण प्रसारितबुद्धक्षेत्राण्याकाशंच् आभिन्नानि / एवमेव, आनन्द, तथागतानां रूपकाया नानाविधाः, परं तु तथागतानामसंगज्ञानं ह्याभिन्नम् /

"आनन्द, सर्वबुद्धानां रूपवर्णतेजः कायलक्षणाभिजातशीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनबलवैशारद्या-(ऽवेणिक-) बुद्धधर्ममहामैत्रीमहाकरुणाहिताभिप्रायेर्यापथचर्यामार्गायुष्प्रमाणधर्मदेशनासत्त्वपरिपाचनसत्त्वविमोचन-(बुद्ध-)क्षेत्रपरिशोधनानि सर्वबुद्धधर्मपरिनिष्पन्ने समानि / अतस् (तथागताः) सम्यक्संबुद्ध इत्युच्यन्ते, (उच्यन्ते) तथागता बुद्धा इति /

"सुखमवगन्तुम्, आनन्द, तेषां त्रयाणां वाक्यानां यदर्थव्यासश्च वचनविभजनं, तन्न सुकरम्, यद्यप्यायुष्प्रमाणन्ते कल्पसंनिहितं (स्यात्) / (ये) त्रिसाहस्र (महासाहस्रलोकधात्व्-)अन्तर्भूताः सत्त्वाः (स्युः), त्वमिवानन्दो बहुश्रुतानां स्मृतिधारणीप्राप्तानामग्रतां प्राप्ताः, सर्वे त आनन्दप्रतिरूपकसत्त्वाः कल्पमपि दर्श्यमानास्तेषां त्रयाणां वाक्यानां-ऽसम्यक्संबुद्धः, तथागतः, बुद्ध, इति-नियतार्थम् अवगन्तुमसमर्थाः / तथा ह्यानन्द, बुद्धबोधिरप्रमाणा, अचिन्त्ये तथागतानां प्रज्ञा प्रतिभानञ्च" /

अथ भगवन्तमायुष्मानानन्द एतत्वोचत्- "भगवन्, अद्याग्रेण ऽबहुश्रुतानाम् अग्र्यो ऽहम्ऽ इति न प्रतिजानामि" / भगवानवोचत्- "दैन्यम्, आनन्द, मोत्पादय / तत् कस्य हेतोः? श्रावकेषु, न किन्तु बोधिसत्त्वेषु, त्वां समन्वाहृत्य, ऽबहुश्रुतानामग्र्यो (ऽसी-)त्याख्यातम् मया / आनन्द, बोधिसत्त्व् एक्षणं तु निक्षिप; ते हि पण्डितैः प्रमाणग्राह्याः / सर्वसमुद्राणाम्, आनन्द, गम्भीरतां प्रमातुं शक्यम्, परं तु बोधिसत्त्वानां प्रज्ञाज्ञानस्मृतिधारणीप्रतिभानगम्भीरतां प्रमातुन्न शक्यम् /

"आनन्द, उपेक्षास्तु ते बोधिसत्त्वचर्यासु / तत् कस्य हेतोः? (यः), आनन्द, अनेन लिच्छविर्विमलकीर्तिनैकपूर्वाह्णे दर्शितो व्यूहः, सर्व ऋद्धिप्राप्तश्रावकाश्च प्रत्येकबुद्धाः कल्पानामपि शतसहस्रकोटीः सर्वर्द्धिनिर्माणप्रातिहार्यैः (तं) दर्शयितुन्न शक्नुवन्ति /"

ततस्सर्वे ते तथागतस्य सुगन्धकूटस्य बुद्धक्षेत्रादागताः प्रगृहीताञ्जलिबोधिसत्त्वास्तथागतमभिवन्दित्वा, एतद्वचनमवोचन्- "भगवन्, वयमत्रास्मिन् बुद्धक्षेत्र अवरोपितहीनसंज्ञामनसिकारान् प्रहातुमिच्छामः / तत् कस्य हेतोः? भगवतां बुद्धानाम्, भगवन्, बुद्धविषय् ओपायकौशल्यमचिन्त्यम् / ते सर्वसत्त्वपरिपाचनार्थ यथा कामः, तथा तथा क्षेत्रव्यूहान् देशयन्ति / अस्मभ्यम्, अस्मत्सर्वगन्धसुगन्धालोकधातुं गत्वा, भगवान् भगवदनुस्मृत्यावहधर्मयौतकं ददातु" / एतदवोचन् / भगवानामन्त्र्यते स्म- "कुलपुत्राः, अस्ति क्षयाक्षयन्नाम बोधिसत्त्वविमोक्षः / तस्मिन् युष्माभिः शिक्षितव्यम् / स कतमः? क्षयो नाम हि संस्कृतम्, असंस्कृतम् ह्यक्षयः / तस्मिन् बोधिसत्त्वेन संस्कृतन्न क्षपयितव्यम्, असंस्कृते न स्थातव्यम् /

"tasmin saṃskṛtākṣayo hi tadyathā- mahāmaitryavināśaḥ, mahākaruṇānutsarjanam, adhyāśayasaṃviveśitasya sarvajñacittasyāsampramoṣaḥ, sattvaparipācane 'khedaḥ, saṃgrahavastūnāmanutsargaḥ, saddharmaparigrahārtha kāyajivitotsargaḥ, kuśalamūleṣvasaṃtuṣṭiḥ, pariṇāmanākauśalye niyojanam, dharmaparyeṣaṇāyāmakausīdyam, dharmadeśanāyāmācāryamuṣṭayakaraṇam, tathāgatadarśanapūjārthodyogaḥ, saṃcintyopapattyātrāsaḥ, saṃpattyāṃ ca vipattyāmanunnatiranavanatā, aśikṣiteṣvanatimanyanā ca śikṣiteṣu śastarīva priyacintā, sfītakleśeṣu yoniśa upasaṃhāraḥ, viveka āramaśca tasminaśleṣaḥ, svasukha anassaktiścāsaktiḥ parasukhe, dhyānasamādhisamapattiṣvavīcisaṃjñā, saṃsāra udyānanirvāṇasaṃjñā, yācakeṣu kalyāṇamitrasaṃjñā, sarvasvaparityāge sarvajñatāpūraṇasaṃjñā, duḥśīleṣu guptisaṃjñā, pāramitāsu mātṛpitṛsaṃjñā, bodhipakṣyadharmeṣu svāmisevāsaṃjñā sarvakuśalamūlasaṃcayenāsantuṣṭiśca sarvabuddhakṣetra guṇaiḥ svakṣetraniṣpādanā, lakṣaṇānuvyañjanaparipūraṇārtham anargaḍayajñavisarjanam, sarvapāpākaraṇena kāyavākcittālaṅkāraḥ, kāyavākcittapariśuddhyāsaṃkhyeyakalpān saṃsaraṇam, cittaparākrameṇāpramāṇabuddhaguṇaśravaṇe 'navalīnatā, kleśaśatrunigrahāya tīkṣṇaprajñāśastradhāraṇam, sarvasattvabhāraharaṇāya skandhadhātvāyatanājñā, mārasenāṃ hantuṃ vīryyajvalanam, niradhimānatāyai jñānaiṣaṇā, dharmodgrahaṇārtham alpecchatā ca santuṣṭiḥ, sarvalokasantoṣaṇāya sarvalokadharmāsaṃbhedaḥ, lokena saha sāmagrīkaraṇārtha sarveryāpathāvināśaḥ, sarvakriyāsamprakāśanāyābhijñopasaṃhāraḥ, sarvaśrutadhāraṇāya

धारणीस्मृतिज्ञानानि, सर्वसत्त्वसंशयच्छेदनायेन्द्रियवरावरज्ञानम्, धर्मदेशनाया अप्रतिहताधिष्ठानम्, प्रतिभानप्राप्तिसुलाभेनाप्रतिहतप्रतिभानम्, कुशलकर्मपथपरिशुद्ध्या देवमनुष्यसम्पत्त्यास्वादनम् चतुरप्रमाणप्रभावनया ब्रह्ममार्गप्रतिष्ठापनम्, धर्मदेशनाभ्यर्थनया चानुमोदनासाधुकारेण बुद्धस्वरप्रतिलभ्भः, कायवाग्मनः संवरेण विशेषगामितया च सर्वधर्माश्लेषेण बुद्धेर्यापथप्रतिलम्भः, बोधिसत्त्वसंघसंग्रहेण महायानावतारणता, सर्वगुणाविप्रणाशेनाप्रमादः /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.