Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

विमलकीर्तिनिर्देशसूत्र

Thông tin
GRETIL — L.M. Joshi and Bhiksu Pasadika: Vimalakīrtinirdeśa sūtram. Sarnath : Central Institute of Higher Tibetan Studies, 1981. (Reconstructed Version).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कुलपुत्राः, (यो) बोधिसत्त्व एवं हि धर्माभियुक्तः, (स) बोधिसत्त्वः संस्कृतन्न क्षपयन्ति /

"किम् असंस्कृते ऽस्थानम्? यदा शून्यतायां व्यन्तीकरणम्, शून्यतासाक्षात्करणन्तु नास्ति; अनिमित्तव्यन्तीकरणम्, परं त्वनिमित्तसाक्षात्करणन्नास्ति; अप्रणिहितव्यन्तीकरणम्, कि त्वप्रणिहितसाक्षात्करणन्नास्ति; अनभिसंस्कारव्यन्ती-करणम्, अनभिसंस्कारसाक्षात्करणन्तु नास्ति /

"अनित्यताप्रत्यवेक्षा, परं तु कुशलमूलासन्तुष्टिः; दुःखप्रत्यवेक्षा, किं तु संचिन्त्योपपत्तिः; नैरात्म्यप्रत्यवेक्षा, आत्मपरित्यागस्तु नास्ति /

"शान्तिप्रत्यवेक्षा, परं तूपशमानुत्थापनम्; विवेकप्रत्यवेक्षा, कि तु कायचित्तेनौत्सुक्यम्; अनालयप्रत्यवेक्षा, अपि तु शुचिधर्मालयप्रतिक्षेपो नास्ति; अनुत्पादप्रत्यवेक्षा, सत्त्वानां तु भारादानधारणम्; अनास्रवप्रत्यवेक्षा, परं तु संसारप्रबन्धोत्थापनकरणम्; अप्रचारप्रत्यवेक्षा, सत्त्वपरिपाचनार्थ प्रचारोत्पादः; नैरात्म्यप्रत्यवेक्षा, अपि तु सत्त्वमहाकरुणानुत्सर्गः; अप्ररोहणप्रत्यवेक्षा, अपि तु खलु पुनः श्रावकनियत्यपातः /

"(सर्वधर्मेषु) तुच्छरिक्तनिःसारास्वामिकानिकेतप्रत्यवेक्षा, परं त्वतुच्छपुण्ये चारिक्तज्ञाने च परिपुर्णसंकल्प् (एषु) च स्वयम्भूज्ञानाभिषेके च स्वयम्भूज्ञानाभियोगे च नीतार्थबुद्धगोत्रे प्रतिष्ठा /

कुलपुत्राः, एवं हि तादृशधर्माधिमुक्तबोधिसत्त्वो ऽसंस्कृते न तिष्ठति, संस्कृतञ्चापि न क्षपयति /

पुनरपरं, कुलपुत्राः, बोधिसत्त्वः पुण्यसम्भारस्य समभिनिर्हारार्थम् असंस्कृते न तिष्ठति, ज्ञानसम्भारसमभिनिर्हारार्थ संस्कृतन्न क्षपयति / महामैत्री समन्वागतः (सो) ऽसंस्कृते न तिष्ठति, महाकरुणासमन्वागतः (स) संस्कृतन्न क्षपयति /

"सत्त्वपरिपाचनार्थाय (सो) ऽसंस्कृते न तिष्ठति, बुद्धधर्माधिमुक्तिकारणात् (स) संस्कृतन्न क्षपयति / बुद्धलक्षणपरिपूरणार्थम् असंस्कृते न तिष्ठति, सर्वज्ञज्ञानपरिपूरणार्थ संस्कृतन्न क्षपयति / उपायकौशल्यकारणादसंस्कृते न तिष्ठति, प्रज्ञासुनिश्चितः (स) संस्कृतन्न क्षपयति / बुद्धक्षेत्रपरिशोधनार्थमसंस्कृते न तिष्ठति, बुद्धाधिष्ठानकारणात् संस्कृतन्न क्षपयति / सत्त्वार्थानुभवकारणादसंस्कृते न तिष्ठति, धर्मार्थ सम्प्रकाशनकारणात् संस्कृतन्न क्षपयति /

"कुशलमूलसंचयार्थायासंस्कृते न तिष्ठति, कुशलमूलवासनाकारणात् संस्कृतन्न क्षपयति / प्रणिधानपरिपूरणार्थमसंस्कृते न तिष्ठति, अप्रणिहितकारणात् संस्कृतन्न क्षपयति / आशयपरिशुद्धिकारणादसंस्कृते न तिष्ठति, अध्याशयपरिशुद्धिकारणात् संस्कृतन्न क्षपयति / पञ्चभिज्ञाविक्रीडनताकारणाद् असंस्कृते न तिष्ठति, बुद्धज्ञानस्य षडभिज्ञार्थाय संस्कृतन्न क्षपययि /

"पारमितासंचयपरिपूरणार्थम् असंस्कृते न तिष्ठति, कालपरिपूरिकारणात् संस्कृतन्न क्षपयति / धर्मधनसंग्रहार्थमसंस्कृते न तिष्ठति, प्रादेशिकधर्मास्पृहणताकारणात् संस्कृतन्न क्षपयति / धर्मभैषज्यसंग्रहार्थमसंस्कृते न तिष्ठति, यथायोगं धर्मभैषज्यप्रयोगार्थाय संस्कृतन्न क्षपयति /

"प्रतिज्ञाधैर्यार्थायासंस्कृते न तिष्ठति; प्रतिज्ञाहान्याः पश्चात् (यथा) अघिगच्छेत, (स) संस्कृतन्न क्षपयति / सर्व धर्मौषध्याधानार्थायासंस्कृते न तिष्ठति, एवम् मृदुधर्मौषधप्रयोगार्थ संस्कृतन्न क्षपयति / स सर्वक्लेशरोगपरिज्ञानकारणादसंस्कृते न तिष्ठति, सर्वरोगसंशमनार्थ संस्कृतक्षयन्नेच्छति / कुलपुत्राः, इत्येवं बोधिसत्त्वः संस्कृतन्न क्षपयति चासंस्कृते न तिष्ठति / स हि बोधिसत्त्वानां क्षयाक्षयन्नाम विमोक्षः / तस्मिन्, सत्पुरुषाः, युष्माभिरपि योगः करणीयः" /

अथ ते बोधिसत्त्वाः, इममुपदेशं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः, भगवत्पूजनार्थच तेभ्यो बोधिसत्त्वेभ्यश्चास्मै धर्मपर्यायाय पूजनार्थं /, सर्वमिमं त्रिसाहस्रमहासाहस्रलोकधातुं सर्वानेकचूर्णगन्धधूपपुष्षैर्जानुमात्रम् आच्छादयन्ति स्म / भगवतः पर्षन्मण्डलमभिकीर्य, भगवतः पादौ शिरसाभिवन्द्य, भगवते त्रिःप्रदक्षिणीकृत्य, उदानमुदानयामासुः / ततस् (ते) ऽस्माद्बुद्धक्षेत्रादन्तर्हिता एकक्षणलवमुहूर्तेन तस्यां सर्वगन्धसुगन्धायां लोकधात्वान्न्यषीदन् /

11 अभिरतिलोकधात्वादानं तथागताक्षोभ्यसन्दर्शनं च

अथ भगवांल्लिच्छवि विमलकीर्तिमेतदवोचत्- "कुलपुत्र, यदा तथागतं द्रष्टुमिच्छसि, तदा कथं पश्यसि तथागतम्?" एवमामन्त्रयते स्म / लिच्छविर्विमलकीर्तिभगवन्तमेतदवोचत्- "भगवन्, यदाहं तथागतं द्रष्टुकामः, तदाध्रुवं तथागतादर्शनेन (तं) पश्यामि / (तथागतं) पूर्वान्तादनुत्पन्नं चापरान्तमगच्छन्तंच प्रत्युत्पन्ने ऽध्वन्यप्यप्रतिष्ठितं पश्यामि / तत् कस्य हेतोः?

"(तथागतो) रूपतथतास्वभावश्च रूपापगतः, वेदना-........ संज्ञा ...... संस्कार........विज्ञानतथता स्वभावश्च विज्ञानापगतः / चतुर्धात्वप्रतिष्ठितस् (तथागत) आकाशधातुसमः, षडायतनानुत्पन्नः, चक्षुः श्रोत्रघ्राणजिह्वाकायमनोमार्गसमतिक्रान्तः / (तथागतस्-) त्रैधातुकासंकीर्णः, मलत्रयरहितः, विमोक्षत्रयानुगतः, त्रिविद्याप्राप्तः, अप्रतिलब्ध(श्च) सम्प्रतिलब्धः /

"स) सर्वधर्मेष्वश्लेषनिष्ठागतः, भूतकोट्यपगतः, तथतासुप्रतिष्ठितः सो ऽन्योन्यविगतः / (तथागतो) हेत्वनुत्पादितो ऽप्रत्ययप्रतिबद्धः, लक्षणापगतः, असलक्षणः, न चैकलक्षणो न च भिन्नलक्षणः, अकल्पितः, असंकल्पितः, अविकल्पितः / (तथागतः) पारे नास्ति, अपारे च नास्ति, नास्ति मध्ये ऽपि; इह वा तेन वा तत्र वान्यत्र वा नास्ति / विज्ञानेन (सो) ऽज्ञातव्यः, विज्ञानस्थानन्नास्ति; (स) न च तमो न चालोकः /

"(तथागतो) नामापगतो निमित्तापगतः, (स) नास्ति दुर्वलो वा बलवान् वा, न च देशस्थो न च पक्षस्थितः, कुशलाकुशलापगतः, संस्कृतासंस्कृतापगतः, कश्चिदभिलाप्यो ऽर्थो नास्ति; दानमात्सर्यशीलदौः शील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यानौद्धत्यप्रज्ञादौष्प्रज्ञासु(सो) ऽनभिलाप्यः / (तथागतो) नास्ति सत्यं वा मृषा वावधारणं वाअनवधारणं वा, न च जगद्विधिर्न च जगदबिधिः, सर्ववादचर्यात्यन्तसमुच्छिन्नः / (स) क्षेत्रभावो वा क्षेत्राभावो वा नास्ति, न च दक्षिणीयो न च दानानुपभोगः, न ग्राहितव्यं वा स्पृशेयं वा निमित्तं वा / (सो) ऽसंकृतः, संख्याविगतः, समतासमः, धर्मतासमासमः, अतुल्यवीर्यः, तुलनासमतिक्रान्तः, गमनं वा, आपन्नं वा, समतिक्रान्तं वा (स) नास्ति / "(तथागतो) ऽदृष्टः, अश्रुतः, अमतः, अविज्ञातः, सर्वग्रन्थापगतः, सर्वज्ञज्ञानसमताप्राप्तः, सर्वधर्मसम(ता)निर्विशेषप्राप्तः, सर्वत्र निरवद्यः, अकिञ्चिनः, कषायरहितः, अकल्पः, अविकल्पः, अकृतः, अनुत्पन्नः, अजातः, अभूतः, असंभूतः; अभावी, अनभावी, अभयः, अनालयः; अशोकः अनानन्दः, अतरंगः, सर्वव्यवहारनिर्देशावक्तव्यः / "तथागतकायो हि, भगवन्, ईदृशः; स एवं द्रष्टव्यः / य एवं पश्यति, सम्यक् पश्यति सः / यो ऽन्यथा पश्यति, स मिथ्या पश्यति" / तत आयुष्मांशारिपुत्रो भगवन्तमेतदवोचत्- "स कुलपुत्रो विमलकीर्तिः, भगवन्, कस्माद्बुद्धक्षेत्राच्च्युत्वा, अस्मिन् बुद्धक्षेत्र आगतः?" भगवानामन्त्रयते स्म- "शारिपुत्र, इमं सत्पुरुषं ऽत्वं कस्माच्च्युत्वा, इह जात?ऽ इति पृच्छ" / तत आयुष्मांशारिपुत्रो लिच्छवि विमलकीर्तिमेतदवोचत्- "कुलपुत्र, त्वं कस्माच्च्युत्वा, इह जातः?" विमलकीर्तिराह-

"यः स्थविरेण साक्षात्कृतधर्मः, किं तस्मिश्च्युत्युत्पत्ती स्तःकेचित्?" आह- "तस्मिन् धर्मे केचिच्च्युत्युत्पत्ती न स्तः" / आह- "भदन्त शारिपुत्र, सर्वेषु धर्मेष्वेवमेव च्युत्युत्त्यपगतेषु, कस्मादेवं ऽत्वं कस्माच्च्युत्वा, इह जात?ऽ इति मन्यसे? भदन्त शारिपुत्र, मायाकारनिर्मितौ चेत् स्त्रीं वा पुरुषं वा ऽत्वं कस्माच्च्युत्वा, इह जात?ऽ इति पृच्छेत्, तत्समाधानं किम् (अभविष्यत्)?" आह- "निर्माणञ्चेच्च्युत्युत्पत्त्यपगतं, तत् किं व्यसर्जयिष्यत्?" आह- "भदन्त शारिपुत्र, ननु न ऽसर्वधर्मा निर्माणस्वभावा इति तथागतेनाख्यातम्?" आह- "तत् तथेति, कुलपुत्र" / आह- "सर्वेषु धर्मेषु, भदन्त शारिपुत्र, निर्माणस्वभावेषु, कस्मादिदं ऽत्वं कस्माच्च्युत्वा, इह जात?ऽ इति मन्यसे? भदन्त शारिपुत्र, च्युतिर्नामाभिसंस्कारसंवर्त लक्षणा; उत्पत्तिर्नाम-साभिसंस्कारसन्ततिलक्षणा / ततो बोधिसत्त्वो यद्यपि म्रियते, कुशलमूलाभिसंस्कारन्न क्षपयति / स यद्यपि जायते, अकुशलसन्ततिन्न प्रतिसन्दधाति" / अथ भगवानाअयुष्मन्तं शारिपुत्रमेतदवोचत्- "शारिपुत्र, अयं सत्पुरुष इहागतोभिरतिलोकधातोरक्षोभ्यस्य तथागतस्यान्तिकात्" / आह- "आश्चर्यम्, भगवन्, (यथा) ऽयं सत्पुरुषः, एतावद्विशुद्धबुद्धक्षेत्रादागतो (ऽस्मिन्) बहुलात्ययदुष्टे बुद्धक्षेत्रे ऽभिनन्दति" / ततो लिच्छविर्विमलकीर्तिरब्रवीत्- "शारिपुत्र, तत् कि मन्यसे? सूर्यप्रभासाः किमन्धकारसहिताः?" आह- "नो हीदं, कुलपुत्र" / "ननु तौ न सहितौ?" आह- "तौ, कुलपुत्र, असहितौ / सूर्यमण्डल अभ्युद्गतमात्रे, सर्वान्धकारा विगच्छन्ति" / आह- "कस्माज्जम्बुद्वीपे सूर्य उदयति?" आह- "तध्यालोककरणार्थंचान्धकारापकर्षणार्थम्" / आह- "एवमेव, भदन्त शारिपुत्र, बोधिसत्त्वः सत्त्वपरिशोधनार्थं च ज्ञानालोककरणार्थ च महान्धकारापकर्षणार्थ संचिन्त्यापरिशुद्धक्षेत्रेषु जायते / क्लेशैः सार्धन्न विरहति, सर्वसत्त्वानां तु क्लेशान्धकारं विनोदयति" / ततः सर्वासां तासां पर्षदां ऽसाभिरतिलोकधातुश्च सो ऽक्षोभ्यस्तथागतश्च ते बोधिसत्त्वाश्च ते महाश्रावका अस्माभिर्द्रष्टव्या इति भावनाभूत् /

अथ भगवान् सर्वासां तासां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय, लिच्छवि विमलकीर्तिमेतदवोचत्- "कुलपुत्र, इयं हि पर्षत्तामभिरतिलोकधातुं चाक्षोभ्यं तथागतं द्रष्टुमिच्छति; तेन तस्यै पर्षदे देशय" / अथ लिच्छवये विमलकीर्तय एवं भवति स्म- "अस्मात् सिंहासनाद् अनुत्थाय, तामभिरतिलोकधातुं च बोधिसत्त्वानाम् अनेकशतसहस्राणि च सचक्रवाड पर्वतपरिवृतभवनान् देवनागयक्षगन्धर्वासुरांश्च (तां लोकधातुं) सनदीतडागोत्ससरस्समुद्रपरिखां च ससुमेरुगिर्यल्पहर्म्या च सचन्द्रसूर्यतारकां च सदेवनागयक्षगन्धर्वस्थानां च सब्रह्मभवनपरिवारां च सग्रामनगरनिगमजनपदराष्ट्रनरनरीगृहां च सबोधिसत्त्वश्रावकपर्षदं चाक्षोभ्यस्य तथागतस्य बोधिवृक्षं चापि पर्षत्सागरे निषण्णं च धर्म देशयन्तमक्षोभ्यं तथागतं च तानि पद्मानि, दशदिक्षु यानि सत्त्वेषु बुद्धकार्य कुर्वन्ति, (तत्सर्वम् उपादास्यामि) / (यास्) तिस्रो रत्ननिःश्रेण्यो जम्बुद्वीपाद्यावत् त्रयास्त्रिशभवनं, तास्वभ्यार्यनिःश्रेणीषु त्रयस्त्रिंशा देवा अक्षोभ्यस्य तथागतस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च जम्बुद्वीपम् उपयान्ति, (तासु च) जम्बुद्वीपस्य मनुष्यास्त्रयस्त्रिंशानां देवानां दर्शनाय त्रयस्त्रिंशभवनम् आरोहन्ति, (ताश्च) तामेवंरुपाम् अप्रमाणगुणसञ्चयाम् अभिरतिलोकधातुम् आप्स्कन्धाद्यावदकनिष्ठभवनं कुम्भकारस्य चक्रमिवोपादाय, केवलं छित्त्वा, दक्षिणपाणिना च पुष्पमालामिव गृहीत्वा, अस्यां च सहालोकधातौ प्रक्षेप्स्यामि / प्रक्षिप्य, अस्यै सर्वपर्षदे निर्देक्ष्यामि" / ततो लिच्छविर्विमलकीर्तिरेतादृशं समाधि समापद्यते स्मैतादृशं चद्ध्र्यभिसंस्कारमभिसंस्करोति स्म, (यथा-)भिरतिलोकधातुं, तां केवलं छित्त्वा, दक्षिणपाणिना गृहीत्वा, अस्यां सहालोकधातौ प्रक्षिपति स्म /

तत्र ये श्रावकबोधिसत्त्वदेवमनुष्या दिव्यचक्षुरभिज्ञाप्राप्ताः, ते क्रन्दति स्म- "भगवन्, उपादीयामहे / सुगत, उपादीयामहे / सुगत, अस्मभ्यं शरणं कुर्व"-इति याचन्ते स्म / विनयार्थ भगवान् तानेतदवोचत्- "बोधिसत्त्वेन विमलकीर्तिनोह्यध्वे; स हि मद्गोचरो नास्ति" / तत्रान्यदेवमनुष्यादिभिः-कुत्रोह्यामहे-ह्यज्ञातमदृष्टम् / साभिरतिलोकधातुरस्यां सहालोकधातौ प्रक्षिप्यमाणापि, अस्यां लोकधातौ पूर्णत्वं वोनत्वं वा न ज्ञायेते स्म, न च संबाधो वा बन्धनं वा / साप्यभिरतिलोकधातुरनूनत्वा यथापूर्व, पश्चात्तथा दृश्यते स्म / अथ भगवांशाक्यमुनिस्ताः सर्वाः पर्षद आमन्त्रयते स्म- "हे मित्राणि, पश्यताभिरतिलोकधातुं चाक्षोभ्यं तथागतं चेमान् बुद्धक्षेत्रश्रावकबोधि सत्त्वव्यूहान्" / ते ऽवोचन्- "ध्रुवम्, भगवन्, पश्यामः" / आह- "(यो) बोधिसत्त्व एतादृशं बुद्धक्षेत्रं परिग्रहीतुकामः, (तेन) तथागतस्याक्षोभ्यस्य बोधिसत्त्वानां सर्वचर्या अनुशिक्षितव्याः" /

तथा ह्यभिरतिलोकधातुसंदर्शनस्यार्द्धिप्रातिहार्येण चाक्षोभ्यतथागतसंसर्शनेनास्याः सहालोकधातोश्चतुर्दशदेवमनुष्यप्रजायुतैरनुत्तरसम्यक्सम्बोधिचित्तान्युत्पादितानि / सर्वे ऽपि तस्यामभिरतिलोकधातौ जनितुं प्रणिधानमकार्षुः, भगवांश्च सर्वेषां तेषामभिरतिलोकधातावुपपत्ति व्याकरोति स्म / लिच्छविर्विमलकीर्तिस्तथा हि सर्वास्तान्, यावत् परिपाचनीयानस्यां सहालोकधातौ, सत्त्वान् विपाच्य, तामभिरतिलोकधातुं यथास्थानं पुनः प्रतिष्ठापयति स्म / ततो भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- "ननु पश्यसि, शारिपुत्र, तामभिरतिलोकधातुं चाक्षोभ्यं तथागतम्?" आह- "ध्रुवम्, भगवन् पश्यामि / सर्वसत्त्वेभ्यो ऽस्तु तादृशो बुद्धक्षेत्रगुणव्यूहः / सर्वे सत्त्वाश्च भवन्तु कुलपुत्रो लिच्छविर्विमलकीर्तिर्यथा तादृशर्द्धिसम्पन्नाः / लाभा नः सुलब्धा यद्वयं तादृशं सत्पुरुषं पश्यामः / ये सत्त्वाः प्रत्युपन्नस्य वा परिनिर्वृततथागतस्य वेमं धर्मपर्यायं शृण्वन्त्यन्तशः, लाभास्तेषामपि सुलब्धा भवेयुः / कः पुनर्वादो य (इमं धर्मपर्यायं) श्रुत्वा, अधिमुच्यन्ते पत्तीयन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्त्यधिमुच्य, देशयिष्यन्ति प्रपटन्ति परेभ्यश्च संप्रकाशयिष्यन्ति भावनाधिगमानुयुक्ता (भविष्यन्ति)? "ये सुलब्धा इमं धर्मपर्यायं, धर्मरत्ननिधि ते प्रतिलप्स्यन्ते / य इमं धर्मपर्यायं स्वाध्यायन्ति, ते भवन्ति तथागतस्य सहायाः / य एतद्धर्माधिमुक्तन् सत्कुर्वन्ति पर्युपासन्ति च, ते हि भूता धर्मपालाः / य इमं धर्मपर्यायं सम्यग् लिखन्ति धारयिष्यन्ति मानयिष्यन्ति, तेषां गृहे तथागतो विहरिष्यति / ये ऽस्मिन् धर्मर्याये ऽनुमोदन्ते, ते परिरक्षन्ति सर्वपुण्यानि / ये केचिदितो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य, परेभ्यो देशयेयुः, ते हि महाधर्मयज्ञं कुर्युः / ये(षाम्) अस्मिन् धर्मपर्याये क्षान्तिश्च छन्दश्च बुद्धिश्चासावबोधनादर्शनाधिमुक्तयः, तेभ्यस्तदेव व्याकरणम् / अभिरतिलोकधत्वादानस्य तथागताक्षोभ्यसंदर्शनस्य च परिवर्त एकादशः /

12 पूर्वयोगः सद्धर्मपरीन्दना च

अथ भगवन्तं शक्रो देवानामिन्द्र एतदवोचत्- "पुरा, भगवन्, तथागतान्मंजुश्रीकुमारभूताच्च धर्मपर्यायानां बहुशतसहस्राण्यश्रौषम्, परं तु यथास्माद्धर्मपर्यायादीदृशाचिन्त्यविकुर्वणनयप्रवेशनिर्देशः पुरा न कदाचिदश्रौषम् /

"ये सत्त्वाः, भगवन्, इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, ते ऽपि निःसंशयमेतादृशधर्मभाजनं भवेयुः / कः पुनर्वादो ये भावनाधिगमनानुयुक्ता (भविष्यन्ति)? ते छेत्स्यन्ति सर्वदुर्गति-(मार्गम्), तेभ्यः सर्वसुगतिमार्गो विवृतः; सर्वबुद्धैस्ते दृष्टा भविष्यन्ति; ते सर्वपरप्रवादिघ्ना भविष्यन्ति; सर्वमारास्तैः सुपराजिता भविष्यन्ति; ते विशोधितबोधिसत्त्वमार्गा भविष्यन्ति, बोधिमण्डसमाश्रितास्तथागतगोचरे समवसरन्ति / "कुलपुत्रो वा कुलदुहिता वा, भगवन् यौ धारयिष्यत इमं धर्मपर्यायं, ताभ्यां सर्वपरिवारेण सह सत्कारं पर्युपासनं करिष्यामि / (तेषु) ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु, येष्वयं धर्मपर्यायश्चर्यते निर्दिश्यते प्रकाश्यते, तेन धर्मश्रवणाय सपरिवारो गमिष्यामि / अश्रद्धेषु कुलपुत्रेषु श्रद्धामुत्पादयिष्यामि, श्राद्धानां धार्मिकेन रक्षावरण गुप्ति करिष्यामि" /

एवमुक्ते, भगवांशक्रं देवानामिन्द्रमेतदामन्त्रयते स्म- "साधु, देवेन्द्र, साधु / (यत्) त्वया सुभाषितम्, तस्मिंस्तथागतो ऽप्यनुमोदते / (या), देवेन्द्र, अतीतानागतप्रत्युत्पन्नानां भगवतां बुद्धानां बोधिः, सास्माद्धर्मपर्यायान्निर्दिष्टा / अतो देवेन्द्र, ये केचित् कुलपुत्रा वा कुलदुहितरो वेमं धर्मपर्यायमुद्ग्रहीष्यन्ति, अन्तशः पुस्तके लिखिष्यन्ति, उद्ग्रहीष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, ते ह्यतीतानागतप्रत्युत्पन्नान् भगवतो बुद्धान् पूजयिष्यन्ति /

"अयं, देवेन्द्र, त्रिसाहस्रमहासाहस्रलोकधातुस्तथागतैः परिपूर्णः (स्यात्, परिपूर्णस्) तद्यथापि नामेक्षुवनैर्वा नडवनैर्वा वेणुवनैर्वा तिलवनैर्वा खदिरवनैर्वा; (यैरयं लोकधातुः) परिपूर्णस्तांस्तथागतान्, क्ल्पं वा कल्पाधिकं वा, कुलपुत्रोओ वा कुलदुहिता वा मानयेद्गुरुकुर्यात् सत्कुर्यात् पूजयेत् सर्वपूजासुखोपधानैः / तेषां परिनिर्वृतानामपि तथागतानामेकैकस्य तथागतस्य पूजनार्थ सर्वरत्नमयं विस्तरेण चतुर्महाद्वीपकलोकप्रमाणमारोहे ब्रह्मलोकसम्प्राप्तमुच्छ्रितच्छत्रपताकयष्टिसूपशोभितम् एकान्तकठोराकुथितशारीरिकधास्तूपं (कुर्यात्) / स एवमेव सर्वतथागतानां प्रत्येकं स्तूपं कृत्वा, तत् कल्पं वा कल्पाधिकं वा सर्वपुष्पगन्धध्वजपताकैः पूजयेद्घट्टियदुन्दुभितूर्यैश्च /

"तत् कि मन्यसे, देवेन्द्र, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहु पुण्यं प्रसवेत्?" आह- "बहु भगवन्, बहु सुगत / कल्पकोटिशतसहस्रैरपि तस्य पुण्यस्कन्धस्य पर्यन्तमनुप्राप्तुमशक्यम्" / भगवानामन्त्रयते स्म- "अधिमुच्यस्व., देवेन्द्र, त्वयानुगन्तव्यम् यः कुलपुत्रो वा कुलदुहिता वेममचिन्त्यविमोक्षनिर्देशस्य धर्मपर्यायमुद्गृह्णीयाद्वाचयेत् पर्यवाप्नुयात्, (सो ऽस्माद्-) बहु(तरं) पुण्यं प्रसवेत् / तत् कस्य हेतोः? भगवतां बुद्धानां हि बोधिः, देवेन्द्र, धर्मसम्भवा; सा च धर्मपूजायै शक्या, न परं त्वामिषेण (पूज्या) / अनेने पर्यायेण, देवेन्द्र, त्वयैवं वेदितव्यम्" / "भूतपूर्व, देवेन्द्र, अतीते ऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैविपुलैरप्रमेयैरचिन्त्यैस्तेभ्यः परेण परतरेण यदासीत् तेन कालेन तेन समयेन भैषज्यराजो नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो लोक उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धोभगवान् विचारणे कल्पे महाव्यूहायां लोकधातौ / तस्य भैषज्यराजस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्य विशत्यन्तरकलपानायुष्प्रमाणमभूत् / तस्य षट्त्रिशत्कोटिनयुताः श्रावक(संनिपातो) ऽभूत् द्वादशकोटिनयुता बोधिसत्त्व(संनिपातो) ऽभूत् /

"तेन खलु पुनः समयेन रत्नच्छत्त्रो नाम राजोदपादि चक्रवर्ती चातुर्द्वीपः सप्तरत्नसमन्वागतः / पुर्ण चास्याभूत् सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरुपिणां परसैन्यप्रमर्दकानाम् /

"स रत्नच्छत्त्रो राजा पञ्चान्तरकल्पान् सर्वसुखोपधानैर्भगवन्तं भैषज्यराजं तथागतं सपरिवारं मानयति स्म / तेषु पञ्चान्तरकल्पेष्वतीतेषु, देवेन्द्र, रत्नच्छत्त्रो राजा सहस्रं पुत्रानेतसवोचत्- ऽहे, वित्त / अहं तथागतमपूजयम् / अत इदानीं यूपमपि पूजयत तथागतम्ऽ / ततस्ते राजकुमाराः पित्रे रत्नच्छत्त्राय राज्ञे साधुकारं दत्त्वा, तस्मै प्रत्यश्रौषुः / ते च सह गणेन तथागतं भैषज्यराजं पञ्चान्तरकल्पान् सर्वसुखोपधानैः सत्करोन्ति स्म /

"तेषु चन्द्रच्छत्त्रस्य नाम राजपुत्रस्य रहोगतस्यैवं भवति स्म- ऽतस्याः पूजाया अन्या विशिष्टतरोदारा पूजा ननु भवतीऽ ति / बुद्धाधिष्ठानेनान्तरीक्षाद्देवा एतदाहुः- ऽधर्मपूजा हि, सत्पुरुष, सर्वपूजासूत्तमा / स आह- ऽसा धर्मपूजा किमस्ति?ऽ देवा आहुः- ऽतस्य, सत्पुरुष, तथागतस्य भैषज्यराजस्य समीपं गत्वा, सा धर्मपूजा किमस्तीति पृच्छ / भगवांस्ते व्याकरिष्यतिऽ /

"अथ, देवेन्द्र, चन्द्रच्छत्त्रो राजकुमारो येन भगवान् भैषज्यराजस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रान्तः / उपसंक्रम्य, भगवत्पादौ शिरसा वन्दित्वा, एकान्ते ऽस्थात् / एकान्तस्थितश्चन्द्रच्छत्त्रो राजपुत्रो भगवन्तं भैषज्यराजं तथागतमेतदवोचत्- ऽधर्मपूजा नाम, भगवन्, सा किमस्ति?ऽ

"स भगवानामन्त्रयते स्म- ऽकुलपुत्र, धर्मपूजा हि तथागतभाषिता गम्भीरसूत्रान्ताः गम्भीरावभासाः सर्वलोकविप्रत्यनीका दुर्विगाह्या दुर्दृशा दुरवबोधाः सूक्ष्मा निपुणा अतर्कावचराः / (ते सूत्रान्ता) बोधिसत्त्वपिटकान्तर्भूता धारणीसूत्रान्तराजमुद्रामुद्रिता अवैवर्तिक(धर्म-) चक्रसंदर्शकाः षट्पारमितासम्भूताः सर्वग्राहापरिगृहीताः / "ऽ(ते सूत्रान्ता) बोधिपक्ष्यधर्मद्समन्वागता बोध्यङ्गनिष्पादनापर्यापन्नाः सत्त्वमहाकरुणावतारणा महामैत्रीसंदर्शकाः सर्वमारदृष्टिगतापगताः प्रतीत्यसमुत्पादसंदर्शकाः /

"ऽ(धर्मेषु ते सूत्रान्ता) अनात्मका निःसत्त्वा निर्जीवा निष्पुद्गलाः शून्यतानिमित्ताप्रणिहितानभिसंस्कारानुत्पादासम्भवसम्प्रयुक्ताः / (ते) बोधिमण्डं समुदागच्छन्ति धर्मचक्रप्रवर्तकाः / प्रशंसितास्- (ते) वर्णिता देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाधिपतिभिः / (सूत्रान्तास्ते) सद्धर्मवंशास्रंसना धर्मकोशग्राहका धर्मपूजावरापन्नाः / सर्वार्यजनैः परिगृहीतास् (ते) सर्वबोधिसत्त्वचर्याः सम्प्रकाशयन्ति भूतार्थधर्मप्रतिसंविदापन्नाः / धर्मसूत्रान्ता अनित्यतादुःखनैरात्म्यशान्ति (-निर्देश-) नैर्यानिकाः /

"ऽमात्सर्यदौःशील्यव्यापादकौसीद्यमुषितस्मृतिदुष्प्रज्ञावसाद परप्रवादिकुदृष्टिसर्वालम्बनाभिनिवेशां जहति (ते) सर्वबुद्धस्तोमिताः, संसारपक्षप्रतिपक्षा निर्वाणसुखं सम्प्रकाशयन्ति / ये तादृशसूत्रान्ताः सम्प्रकाशनधारणप्रत्यवेक्षणसद्धर्मसंग्रहाः, सा हि धर्मपूजा नाम /

"ऽपुनरपरं, कुलपुत्र, धर्मपूजा हि धर्मा-(नु-)धर्मनिध्यप्तिर्धर्मा-(नु-) धर्मप्रतिपत्तिः प्रतीत्यसमुत्पादसमादानं; (सा) सर्वान्तग्राहदृष्टिरहिता, अनुत्पादानोपपत्तिक्षान्तिः, नैरात्म्यनिःसत्त्वप्रवेशः, हेतुप्रत्ययो रविरोधो ऽविवादो ऽकलहः, अहंकारमम(कारा-)पगता /

"ऽ(धर्मपूजा) ह्यर्थप्रतिसरणन्न व्यञ्चनप्रतिसरणम्, ज्ञानप्रतिसरणन्न विज्ञानप्रतिसरणम्, नीतार्थ सूत्रप्रतिसरणन्न नेयार्थसंवृत्यभिनिवेशः, धर्मताप्रतिसरणन्न पुद्गलदृष्ट्युपलब्धिग्रहणाभिनिवेशः; यथाबुद्धधर्ममवबोधः, अनालयप्रवेशः, अलयसमुद्धातः; प्रतीत्यसमुत्पादस्य द्वादशांगे(षु) तद्यथा- अविद्यानिरोधाद् यावज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्त इत्यक्षयसत्त्वदृष्ट्यभिनिर्हारेणाभिसम्पन्नं सर्वदृष्ट्यदर्शनं च-सा हि, कुलपुत्र, अनुत्तरा धर्मपूजा नामऽ /

"ततस्स राजपुत्रश्चन्द्रच्छत्त्रः, देवेन्द्र, भगवतो भैषज्यराजात्तथागताद्धर्मपूजामेवं श्रुत्वा, अनुलोमिकीं धर्मक्षान्ति प्राप्नोति स्म / सर्ववस्त्रविभूषणेषु तस्मै भगवत उपनामितेषु, एतद्वचनमवोचत्- ऽभगवति तथागते परिनिर्वृते, सद्धर्मपरिग्रहपूजनार्थ सद्धर्म परिग्रहीतुम् उत्सहे / अधितिष्ठतु मामेवं भगवान्, यथाहं मारपरप्रवादिनो निहत्य, सद्धर्म परिगृह्णीयाम्ऽ / "तथागतस्तस्याध्याशयं बुद्ध्वा, ऽपश्चिमकाले पाश्चिमसमये सद्धर्मनगरं पालयिष्यसे रक्षिष्यसि परिग्रहीष्यसीऽ-(ति) व्याकरोति स्म / "अथ स राजपुत्रश्चन्द्रच्छत्त्रस्तथा तथागतप्रतिष्ठितश्रद्धयागारदनागारिकां प्रव्रजितः कुशले(षु) धर्मे(षू) वीर्यमारभते स्म / आरब्धिवीर्यः स्थित्वा, कुशलेषु धर्मेषु सुप्रतिष्ठितः सो ऽचिरेण धारणीगतिगतः पञ्चभिज्ञा उत्पादयति स्म / सो ऽनाच्छेद्यप्रतिभानप्रतिलाभी, भगवति भैषज्यराजे तथागते परिनिर्वृते, अभिज्ञाधारणीइवशेन धर्मचक्रं प्रवर्तयति स्म / स भगवान् भैषज्यराजस्तथागतो यथा, तथा दशान्तरकल्पान् (धर्मचक्रम्) अनुप्रवर्तयति स्म / "तथा हि, देवेन्द्र, चन्द्रच्छत्त्रस्य भिक्षोः सद्धर्मपरिग्रहाभियोगेन कोटिदशशतं सत्त्वा अनुत्तरसम्यक्संबोधि(मार्ग्-) आवैवर्तिका अभूवन् / प्राणिनां चत्वारिशन्नयुतानि श्रावकप्रत्येकबुद्धयाने विनीतान्य् (अभूवन्) / अप्रमाणसत्त्वाः स्वर्गेषूत्पद्यन्ते स्म / "मन्येथाः, देवेन्द्र, अन्यः स तेन कालेन तेन समयेन रत्नच्छत्त्रो नाभाभुद्राजा चक्रवर्ती / न खलु पुनस्त्वयैवं द्रष्टव्यम् /

तत् कस्य हेतोः? अयमेव स रत्नार्चिस्तथागतस्तेन कालेन तेन समयेन रत्नच्छत्त्रो नाम राजा चक्रवर्त्यभूत् / (ये) तस्य रत्नच्छत्त्रस्य राज्ञः पुत्राः सहस्रमभूवन्, ते सन्तीमे वर्तमानस्य भद्रकल्पस्य बोधिसत्त्वाः / अस्मिन् भद्रकल्पे पूर्णबुद्धानां सहस्रमुत्पद्यन्ते / तेषां चत्वारो हि-क्रकुच्छन्दादय उत्पन्नपूर्वाः / अवशिष्टा अपि प्रादुर्भविष्यन्ति-ककुत्सुन्दादयो यावद्रोचं / अन्ते रोचो नाम तथागत उत्पद्यते / "मन्येथाः, देवेन्द्र, अन्यः स तेन कालेन तेन् समयेन चन्द्रच्छत्त्रो नाम राजपुत्रो ऽभूत् तस्य भगवतो भैषज्यराजस्य तथागतस्य सद्धर्मपरिग्राहकः / न खलु पुनस्त्वयैवं द्रष्टव्यम् / तत् कस्य हेतोः? अहमेव स, देवेन्द्र, तेन कालेन तेन समयेन चन्द्रच्छत्त्रो नाम राजपुत्रो ऽभूवम् /

"anena paryāyeṇa, devendra, vedyam- yāvattathāgatapūjāḥ, (tāsu) dharmapūjā hyuttamā nāma, varā paramā varāgrā praṇītottarānuttareti / tasmāttarhi, devendra, nāmiṣeṇa dharmapūjayā pūjā me kartavyā / nāmiṣeṇa satkāro me kartavyaḥ, dharmasatkātreṇa mānayitavyam" / atha bhagavān maitreyaṃ bodhisattvammahāsattvamāmantrayate sma- "imāmahaṃ maitreyāsaṃkhyeyakalpakoṭisamudānītāmanuttarāṃ samyaksaṃbodhi tvayi parīndāmi, yathā paścime kāle paścime samaye 'yamevaṃrūpo dharmaparyāyastvadadhiṣṭhānena parigṛhīto jambudvīpe vardheta na cāntardhīyeta, tat kasya hetoḥ? anāgate 'dhvani, maitreya, (ye) 'varipitakuśalamūlāḥ kulaputrakuladuhitṛdeva nāgayakṣagandharvāsurā anuttarasamyaksaṃbodhisamprasthitāḥ, ta imaṃ dharmaparyāyanna śrutvā, dhvaṃsiṣyante / evaṃrupaṃ sūtrāntaṃ śrutvā, prahṛṣṭāḥ śraddhāṃ pratilapsyante śirasā cā- (bhivandya, taṃ) grahīṣyanti / teṣāṃ kulaputrakuladuhitṝṇāṃ rakṣaṇārthāya, maitreya, tena kālena tvayāyamīdṛśaḥ sūtrāntaḥ sfaraṇīyaḥ /

"इमे हि, मैत्रेय, बोधिसत्त्वानां द्वे मुद्रे / कतमे द्वे? नानापदव्यञ्जनप्रसन्नस्य मुद्रा गम्भीरेण धर्मनयेनात्रस्तस्य यथाभूतं प्रतिपन्नकस्य मुद्रा च / ते, मैत्रेय, बोधिसत्त्वानां द्वे मुद्रे / ततो ये बोधिसत्त्वा नानापदव्यञ्जनप्रसन्नास्तत्पराः, ते ह्यादिकर्मिका अचिरब्रह्मचारिणो वेदितव्याः / ये, मैत्रेय, बोधिसत्त्वा अस्य गम्भीरस्यानुपलिप्तस्य सूत्रान्तस्य यमकव्यत्यस्ताहारस्य ग्रन्थं वा पटलं वा पठन्ति शृणवन्त्यधिमुच्यन्ते देशयन्ति, (ते) हि चिरब्रह्मचारिणो वेदितव्याः /

"आदिकर्मिकास्ततः, मैत्रेय, बोधिसत्त्वा द्वाभ्यां कारणाभ्यामात्मानं व्रणयन्ति गम्भीरे च धर्मे न निध्यायन्ति / कतमे द्वे? अश्रुतपूर्व गम्भीरं सूत्रान्तं श्रुत्वा, त्रस्ताश्च संशयिता नानुमोदन्ते / स एवमस्माभिरश्रुतपूर्वः कुत आगत इति (पृच्छन्तस्तं) त्यजन्ति / ये कुलपुत्रा गम्भीरं सूत्रान्तमुद्गृह्णन्ति गम्भीरधर्मभाजनभूताश्च गम्भीरं धर्म देशयन्ति, तेभ्यो न सेवन्ति चासमागमा न पर्युपासते तां च न सत्कुर्वन्ति / अन्ततस्तेष्ववर्णमपि निश्चारयन्ति / ताभ्यां कारणाभ्यामादिकर्मिकबोधिसत्त्वा आत्मानं व्रणयन्ति गम्भीरे च धर्मे नावकल्पयन्ति /

"ताभ्यां द्वाभ्यां कारणाभ्यां गम्भीराधिमुक्तिक बोधिसत्त्वा आत्मानं व्रणयन्ति चानुत्पत्तिकधर्मक्षान्तिन्न लभन्ते / कतमे द्वे? आदिकर्मिकानचिरचरितान् बोधिसत्त्वान् अवमन्यन्ते विमानयन्ति, न (समा-)दापयन्ति न (वि-)वरन्ति न देशयन्ति / गम्भीरे (धर्मे) ऽल्पश्रद्धाः शिक्षान्न मानयन्ति, लोकस्य चामिषदानेन न तु धर्मदानेन सत्त्वानुपकुर्वन्ति / "मैत्रेय, गम्भीरधिमुक्तिकबोधिसत्त्वा आभ्यां कारणाभ्यामात्मानं व्रणयन्ति चानुत्पत्तिकधर्मक्षान्ति शीघ्रन्न लभन्ते" / एवमामन्त्रयते स्म / भगवन्तं बोधिसत्त्वो मैत्रेय एतदवोचत्- "भगवता यथा सुभाषितम्, भगवन्, (तद्) आश्चर्यम् / साधु, भगवन् / अद्याग्रेण, भगवन्, इमानत्ययान् (वि-)वर्जयेयम् / (या) तथागतेनासंख्येयकोटिनयुतशतसहस्रेभ्यः कल्पेभ्यो ऽनुत्तरसम्यक्संबोधिः समुदानीता, इमामारक्षिष्यामि धारयिष्यामि / "(ये) ऽनागते (ऽध्वनि) कुलपुत्रा वा कुलदुहितरो वा भाजनभूताः, तेभ्य ईदृशं सूत्रान्तं हस्तगतं करिष्यामि / (तेषां) स्मृतिमुपसंहरिष्यामि ययेममेवंरूपं सुत्रान्तम् / अधिमुच्योद्ग्रहीष्यन्ति धारयिष्यन्ति पर्पवाप्स्यन्ति विवेशयन्ति लिखिष्यन्ति परेभ्यश्च विस्तरेण सम्प्रकाशयिष्यन्ति / तानहं, भगवन्, प्रस्थापयिष्यामि / (ये) भगवन्, तेन समयेनास्मिनेवंरूपे सूत्रान्ते ऽधिमुच्यन्ते ऽभिनिविशन्ति च, ते हि, भगवन्, मैत्रेयस्य बोधिसत्त्वस्याधिष्ठानेनाधिष्ठिता वेदितव्याः" /

अथ भगवान् मैत्रेयाय बोधिसत्त्वाय साधुकारमदात्- "साधु, मैत्रेय, साधु / सुभाषितं तत्ते वाक्यम् / तथागतो ऽपि तत्ते सुभाषितमनुमोदयति" /

ततस् (सर्वे) ते बोधिसत्त्वा एकनिर्घोषिणैतद्वाक्यमवोचन्- "वयमपि, भगवन्, तथागते परिनिर्वृते, नानाबुद्धक्षेत्रेभ्य आगतास्तथागतस्य बुद्धस्येमां बोधिमुपबृंहयिष्यामः / ते ऽपि कुलपुत्रा अधिमोक्षयिष्यन्ति" /

अथ भगवन्तं चतुर्महाराजिका (देवा) अप्येतदवोचन्- "येषु येषु, भगवन्, ग्रामनगरमिगमराष्ट्रराजधानीष्वेवंरुपो धर्मपर्यायश्चरितो देशितः सम्प्रकाशितः, तेषु तेषु, भगवन्, वयमपि चतुर्महाराजिका (देवाः) सबलवाहनपरिवारा धर्मश्रवणार्थम् एष्यामः / तेषां धर्मभाणकानाम् आ योजनापरिसामन्तकाद्रक्षां करिष्यामो यथा न कश्चित्तेषां धर्मभाणकानामवतारप्रेक्ष्यवतारगवेष्यवतारं लप्स्यते" /

अथ भगवानायुष्मन्तमानन्दमेतदवोचत्- "उद्गृह्णीष्व त्वम्, आनन्द, इमं धर्मपर्यायं, धारय परेषां च विस्तरेण सम्प्रकाशय" / आह- "अस्मिन् धर्मपर्याय उद्गृहीते, को नामयं भगवन् धर्मपर्यायः, कथं चैनं धारयामि?" भगवानामन्त्रयते स्म- "तस्मादानन्द, इमं धर्मपर्यायं ऽविमलकीर्तिनिर्देशंऽ वा ऽयमकव्यत्यस्ताभिनिर्हारंऽ वाप्य् ऽअचिन्त्यविमोक्षपरिवर्तन्नामऽ धर्मपर्यायं धारय" / इदमवोचद् भगवान् / आत्तमना लिच्छविर्विमलकीर्तिर्मजुश्रीश्च कुमारभूतः स चायुष्मानानन्दस्ते च बोधिसत्त्वाते च महाश्रावकाः सा च सर्वावती पर्षत्सदेवमानुषासुर गन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति /

पूर्वयोगस्य सद्धर्मपरीनन्दनायाश्च परिवर्तो नाम द्वादशः /

विमलकीर्तिनिर्देशो नाम महायानसूत्रं समाप्तम् /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.