Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

विमलकीर्तिनिर्देश

Thông tin
GRETIL — the Study Group on Buddhist Sanskrit Literature: Vimalakīrtinirdeśa, A Sanskrit Edition Based upon the Manuscript Newly Found at the Potala Palace, Tokyo 2006 (The Institute for Comprehensive Studies of Buddhism, Taisho University).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अथ विमलकीर्तिर् लिच्छविस् तादृशम् ऋद्ध्यभिसंस्कारम् अभिसंस्करोति स्म / यथा तां सर्वावतीं पर्षदं सार्धं तैः सिंहासनैर् दक्षिणे पाणौ प्रतिष्ठाप्य येन भगवांस् तेनोपसंक्रामत् / उपसंक्रम्य तां पर्षदं धरणितले प्रतिष्ठाप्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं सप्तकृत्वः प्रदक्षिणीकृत्यैकान्ते ऽस्थात् /

अथ ये ते बोधिसत्वा गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्राद् आगताः, ते चान्ये च तेभ्यः सिंहासनेभ्यो ऽवतीर्य भगवतः पादौ शिरोभिर् वन्दित्वैकान्ते प्रत्यतिष्ठन् / एवं शक्रब्रह्मलोकपाला देवपुत्राश् च भगवतः पादौ शिरोभिर् वन्दित्वैकान्ते प्रत्यतिष्ठन् /

अथ स भगवांस् तान् बोधिसत्वान् धर्म्यया कथय प्रतिसंमोद्यैवम् आह: निसीदत कुलपुत्राः स्वेषु स्वेषु सिंहासनेषु /

ते भगवतानुज्ञाता न्यषिदन् /

व्क्न् 10.3 तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: दृष्टं ते शारिपुत्र एषाम् अग्रसत्वानां बोधिसत्वानां विक्रीडितम् /

आह: दृष्टं भगवन् /

भगवान् आह: ततः का ते संज्ञोत्पन्ना /

आह: अचिन्त्या संज्ञा मे भगवन् तत्रोदपद्यत यथा चिन्तयितुं तुलयितुं गणयितुं न शक्नोमि तादृशीं तेषाम् अचिन्त्यां क्रियां पश्यामि /

व्क्न् 10.4 अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: अनाघ्रातपूर्वं भगवन् गन्धम् आजिघ्रामि / कस्यैष ईदृशो गन्धः /

आह: एषाम् एव आनन्द बोधिसत्वानां सर्वरोमकूपेभ्यो गन्धः कायात् प्रवाति /

शारिपुत्रो ऽप्य् आह: अस्माकम् अप्य् आयुष्मन्न् आनन्द सर्वरोमकूपेभ्य ईदृशो गन्धः प्रवाति /

आह: कुतो ऽस्य गन्धस्य प्रादुर्भावः /

आह: विमलकीर्तिना लिच्छविना गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रात् सर्वगन्धसुगन्धाल् लोकधातोर् भोजनम् आनीतम् / तद् यावद्भिर् भुक्तं सर्वेषाम् ईदृशो गन्धः कायात् प्रवाति /

व्क्न् 10.5 अथायुष्मान् आनन्दो विमलकीर्तिं बोधिसत्वम् एवम् आह: कियच्चिरं पुनर् एष कुलपुत्र गन्धो ऽनुवर्तिष्यते /

आह: यावद् एतद् भोजनं न परिणतं भविष्यति /

आनन्द आह: कियच्चिरेण पुनर् एतद् भोजनं परिणंस्यति /

आह: सप्तभिः सप्ताहैः परिणंस्यति / उपरि चास्य सप्ताहम् ओजः स्फरिष्यति / न चाजीर्णदोसो भविष्यति /

व्क्न् 10.6 यैश् च भदन्तानन्द भिक्षुभिर् अनवक्रान्तनियामैर् एतद् भोजनं भुक्तं तेषाम् अवक्रान्तनियामानां परिणंस्यति / यैः पुनर् अवक्रान्तनियामैर् भुक्तं तेषां नापरिमुक्तचित्तानां परिणंस्यति / यैर् अनुत्पादितबोधिचित्तैः सत्वैः परिभुक्तं तेषाम् उत्पादितबोधिचित्तानाम् परिणंस्यति / यैर् उत्पादितबोधिचित्तैर् भुक्तं तेषां नाप्रतिलब्धक्षान्तिकानां परिणंस्यति / यैः पुनः प्रतिलब्धक्षान्तिकैर् भुक्तं तेषाम् एकजातिप्रतिबद्धानां परिणंस्यति /

व्क्न् 10.7 तद्यथापि नाम भदन्तानन्द स्वादुर् नाम भैषज्यम्, तत् तावत् कौष्ठगतं न परिणमति यावन् न सर्वगतं विषम् अपगतं भवति / ततः पश्चात् तद् भैषज्यं परिणमति / एवम् एव भदन्तानन्द तावद् एव तद् भोजनं न परिणतं भवति यावत् सर्वक्लेशविषं न निर्विषं भवति / ततः पश्चात् तद् भोजनं परिणमति /

अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: बुद्धकृत्यं भगवन् एतद् भोजनं करोति /

आह: एवम् एतद् आनन्द एवम् एतद् यथा वदसि /

व्क्न् 10.8 सन्त्य् आनन्द बुद्धक्षेत्राणि येषु बोधिसत्वा बुद्धकृत्यं कुर्वन्ति / सन्ति बुद्धक्षेत्राणि येषु बोधिवृक्षो बुद्धकृत्यं करोति / सन्ति बुद्धक्षेत्राणि येषु तथागतलक्षणरूपदर्शनं बुद्धकृत्यं करोति / एवं गगनम् अन्तरीक्षं बुद्धकृत्यं करोति / तादृशस् तेषां सत्वानां विनयो भवति /

व्क्न् 10.9 एवं स्वप्नप्रतिभासदकचन्द्रप्रतिश्रुत्कामायामरीच्युपमोपन्यासाक्षरविभक्तिनिर्देशाः सत्वानां बुद्धकृत्यं कुर्वन्ति / सन्ति बुद्धक्षेत्राणि यत्राक्षरविज्ञप्तिर् बुद्धकृत्यं करोति / सन्त्य् आनन्द बुद्धक्षेत्राणि तादृशानि परिशुद्धानि यत्रानुदाहारताप्रव्याहारतानिर्देशतानभिलाप्यता तेषां सत्वानां बुद्धकृत्यं करोति /

व्क्न् 10.10 न कश्चिद् आनन्द ईर्यापथो न कश्चिद् उपभोगो यो बुद्धानां भगवतां सत्वविनयाय बुद्धकृत्यं न करोति / ये चेम आनन्द चत्वारो माराश् चतुराशीतिश् च क्लेशमुखशतसहस्राणि यैः सत्वाः संक्लिश्यन्ते, सर्वैस् तैर् बुद्धा भगवन्तो बुद्धकृत्यं कुर्वन्ति /

व्क्न् 10.11 इदम् आनन्द सर्वबुद्धधर्मप्रवेशं नाम धर्ममुखं यत्र यत्र धर्ममुखे प्रविष्टो बोधिसत्वः सर्वोदारव्यूहगुणसमन्वागतेषु बुद्धक्षेत्रेषु नावलीयते नावनमति / सर्वोदारव्यूहगुणसमन्वागतेषु च बुद्धक्षेत्रेषु न कृष्यति नोन्नमति / तथागतानां च सकाशे सो ऽधिमात्रं गौरवम् उत्पादयति / आश्चर्यम् इदं बुद्धानां भगवतां सर्वधर्मसमताधिमुक्तानां सत्वपरिपाचनतया बुद्धक्षेत्रनानात्वदर्शनम् /

व्क्न् 10.12 तद्यथा आनन्द भवति बुद्धक्षेत्राणाम् अपरापरगुणनानात्वम्, न पुनः खगपथसंछादितस्य बुद्धक्षेत्रस्याकाशनानात्वम् / एवम् एव आनन्द भवति तथागतानं रुपकायनानात्वम्, न पुनस् तथागतानाम् असङ्गज्ञाननानात्वम् /

व्क्न् 10.13 समा ह्य् आनन्द सर्वबुद्धा रूपेण वर्णेन तेजसा वपुषा लक्षणैः कुलमाहात्म्येन शीलेन समाधिना प्रज्ञया विमुक्त्या विमुक्तिज्ञानदर्शनेन बलैर् वैशारद्यैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया हितैषितयेर्यया चर्यया प्रतिपदायुःप्रमाणेन धर्मदेशनया सत्वपरिपाकेन सत्वविमुक्त्या क्षेत्रपरिशुद्ध्या सर्वबुद्धधर्मपरिपूरया / तेनोच्यते सम्यक्संबुद्ध इति तथागत इति बुद्ध इति /

एषाम् आनन्द त्रयाणां पदानां यो ऽर्थविस्तरपदविभङ्गः स त्वया कल्पस्थितिकेनापि न सुकरः पर्यवाप्तुम् / त्रिसाहस्रपर्यापन्ना अप्य् आनन्द सत्वास् त्वत्सदृशा भवेयुर् अग्रा बहुश्रुतानां स्मृतिधारिणीप्रतिलब्धानाम्, ते ऽपि सर्वे सत्वा आनन्दसदृशा एषां त्रयाणां पदानाम् अर्थविनिश्चयं श्रुतस्मृतिधारिणीलब्धानाम् अर्थविनिश्चयनिर्देशं कल्पेनापि न शक्नुयुः पर्यवाप्तुम्, यद् इदं सम्यक्संबुद्ध इति तथागत इति बुद्ध इति / एवम् अप्रमाणा ह्य् आनन्द बुद्धबोधिः, एवम् अचिन्त्यं तथागतानां प्रज्ञाप्रतिभानम् /

व्क्न् 10.14 अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: अद्याग्रेणाहं भगवन् न भूयो ऽग्रो बहुश्रुतानाम् इत्य् आत्मानं प्रतिज्ञास्यामि /

भगवान् आह: मा त्वम् आनन्द अवलीनचित्तम् उत्पादय / तत् कस्माद् धेतोः / श्रावकान् संधाय त्वं मया आनन्द अग्रो बहुश्रुतानां निर्दिष्टः, न बोधिसत्वान् / तिष्ठन्त्व् आनन्द बोधिसत्वाः / न ते पण्डितेनावगाहयितव्याः / शक्यो ह्य् आनन्द सर्वसागराणां गाधः प्रमातुम्, न त्व् एव शक्यो बोधिसत्वानां प्रज्ञाज्ञानस्मृतिधारणीप्रतिभानस्य गाधः प्रमातुम् / उपेक्षका यूयम् आनन्द बोधिसत्वचर्यायां भवथ / तत् कस्माद् धेतोः / य इम आनन्द विमलकीर्तिना लिच्छविनैकपूर्वभक्ते व्यूहाः संदर्शिताः, ते सर्वश्रावकप्रत्येकबुद्धैर् ऋद्धिप्राप्तैः सर्वर्द्धिविकुर्वितप्रातिहार्यैः कल्पकोटीशतसहस्राणि न शक्याः संदर्शयितुम् /

व्क्न् 10.15 अथ ये ते बोधिसत्वा भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रात् सर्वगन्धसुगन्धाल् लोकधातोर् अगतः, ते सर्वे प्राञ्जलीभूत्वा तथागतस्य नमस्यन्तः, एवं च वाचम् अभासन्त: प्रतिनिःसृजामो वयं भगवन् तान् मनसिकारान् यैर् अस्माभिर् इह बुद्धक्षेत्रे हीनसंज्ञोत्पादिता / तत् कस्माद् धेतोः / अचिन्त्यो हि भगवन् बुद्धानां भगवतां बुद्धविषयः / उपायकौशल्येन सत्वपरिपाकाय यथा यथेच्छन्ति तथा तथा क्षेत्रव्यूहान् आदर्शयन्ति / देहि भगवन् अस्मभ्यं धर्मप्राभृतं यथा वयं तत्र सर्वगन्धसुगन्धे लोकधातौ गता भगवन्तम् अनुस्मरेम /

व्क्न् 10.16 भगवान् आह: अस्ति कुलपुत्राः क्षयाक्षयो नाम बोधिसत्वानां विमोक्षः / तत्र युष्माभिः शिक्षितव्यम् / स पुनः कतमः / क्षयम् उच्यते संस्कृतम्, अक्षयम् असंस्कृतम् / तद् बोधिसत्वेन संस्कृतं च न क्षपयितव्यम्, असंस्कृते च न प्रतिष्ठातव्यम् /

व्क्न् 10.17 तत्र संस्कृतस्याक्षयता, यद् इदं महामैत्र्या अच्यवनता, महाकरुणाया अनुत्सर्गः, अध्याशयसंप्रस्थितसर्वज्ञताचित्तस्यासंप्रमोषः, सत्वपरिपाकेष्व् अपरिखेदः, संग्रहवस्तूनाम् अरिञ्चना, सद्धर्मपरिग्रहाय कायजीवितपरित्यागः, कुशलमूलेष्व् अतृप्तिः, परिणामनाकौशल्यप्रतिष्ठा, धर्मपर्येष्टाव् अकौशीद्यम्, धर्मदेशनास्व् अनाचार्यमुष्टिः, तथागतदर्शनपूजावस्तुन्य् औत्सुक्यम्, संचिन्त्योपपत्तिष्व् अनुत्त्रासः, संपत्तिविपत्तिष्व् अनुन्नामावनामता, अशिक्षितेष्व् अपरिभवः, शिक्षितेषु शास्तृप्रेमा, क्लेशाकीर्णानां योनिश उपसंहारः, विवेकरतिष्व् अतन्मयता, आत्मसौख्ये ऽनध्यवसानम्, परसौख्येन तन्मयता, ध्यानसमाधिसमापत्तिष्व् अवीचिसंज्ञा, संसार उद्यानविमानसंज्ञा, याचनकेषु कल्याणमित्रसंज्ञा, सर्वस्वपरित्यागे सर्वज्ञतापरिपूरिसंज्ञा, दुःशीलेषु परित्राणसंज्ञा, पारमितासु मातापितृसंज्ञा, बोधिपक्ष्येषु धर्मेषु स्वपरिवारसंज्ञा, अपर्याप्तीकृताः सर्वकुशलमूलसंभाराः, सर्वबुद्धक्षेत्रगुणानां स्वक्षेत्रनिष्पादनता, लक्षणानुव्यञ्जनपरिपूर्यै निरर्गडयज्ञयजनता, कायवाक्चित्तालंकारता सर्वपापाकरणतया, कायवाक्परिशुद्ध्या चित्तपरिशुद्ध्या चासंख्येयकल्पसंसरणता, चित्तशूरतयाप्रमाणबुद्धगुणश्रवणेनासंसीदनता, क्लेशशत्रुनिग्रहाय प्रज्ञाशस्त्रग्रहणता, सर्वसत्वभारोद्वहनतायै स्कन्धधात्वायतनपरिज्ञा, उत्तप्तवीर्यता मारसैन्यधर्षणार्थम्, निर्मानता धर्मपर्येष्ट्यै, ज्ञानपर्येष्टिधर्मग्राह्यताया अल्पेच्छसंतुष्टिता, सर्वलोकप्रियतायै सर्वलोकधर्मासंसृष्टता, लोकानुवर्तनतायै सर्वेर्यापथाविकोपनता, सर्वक्रियासंदर्शनताया

अभिज्ञोत्पादनता, सर्वश्रुतधारणतायै धारणीस्मृतिज्ञानता, सर्वसत्वसंशयच्छेदनताया इन्द्रियपरापरज्ञानता, असङ्गाधिष्ठानता धर्मदेशनतायै, असङ्गप्रतिभानता प्रतिभानप्राप्तप्रतिलम्भतया, देवमनुष्यसंपत्त्यनुभवता दशकुशलकर्मपरिशुद्धितया, ब्रह्मपथप्रतिष्ठानता चतुरप्रमाणोत्पादनतायै, बुद्धस्वरप्रतिलम्भता धर्मदेशनाध्येषणानुमोदनासाधुकारप्रदानेन, बुद्धेर्यापथप्रतिलम्भता कायवाङ्मनःसम्यमविशेषगामितया सर्वधर्मातन्मयतया, बोधिसत्वसंघकर्षणतया महायानसमादापनता, सर्वगुणाविप्रणाशतया चाप्रमादः /

एवं हि कुलपुत्राः एतद्धर्माधिमुक्तो बोधिसत्वः संस्कृतं न क्षपयति /

व्क्न् 10.18 कथं पुनर् असंस्कृते न प्रतितिष्ठते / यदा शून्यतापरिजयं च करोति / न च शून्यतां साक्षात्करोति / आनिमित्तपरिजयं च करोति / न चानिमित्तं साक्षात्करोति / अप्रणिहितपरिजयं च करोति, न चाप्रणिहितं साक्षात्करोति / अनभिसंस्कारपरिजयं च करोति, न चानभिसंस्कारं साक्षात्करोति / अनित्यम् इति च प्रत्यवेक्षते, न च कुशलमूलैस् तृप्यते / दुःखम् इति च प्रत्यवेक्षते, संचिन्त्य चोपपद्यते / अनात्मेति च प्रत्यवेक्षते, न चत्मतां परित्यजति / शान्तम् इति च प्रत्यवेक्षते, न चात्यन्तशान्तिम् उत्पादयति / विविक्तम् इति च प्रत्यवेक्षते, कायचित्तेन चोद्युज्यते / अनालयम् इति च प्रत्यवेक्षते, शुक्लधर्मालयं च न विजहाति / अनुपादानम् इति च प्रत्यवेक्षते, उपात्तं च सत्वानां भारं वहति / अनास्रवम् इति च प्रत्यवेक्षते, संसारप्रवृत्तिं चोपयाति / अप्रचारम् इति च प्रत्यवेक्षते, प्रचरति सत्वपरिपाकाय / नैरात्म्यम् इति च प्रत्यवेक्षते, सत्वमहाकरुणां च नोत्सृजति / अजातिं च प्रत्यवेक्षते, श्रावकनियामे च न पतति / रिक्तम् इति च तुच्छम् इति चासारकम् इति चास्वामिकम् इति चानिकेतम् इति च प्रत्यवेक्षते, अरिक्तपुण्यश् चातुच्छज्ञानश् च परिपूर्णसंकल्पश् च स्वयम्भूज्ञानाभिषिक्तश् च स्वयम्भूज्ञाने चाभियुक्तो नीतार्थो बुद्धवंशे प्रतिष्ठितो भवति / एवं हि कुलपुत्राः एवं धर्माधिमुक्तो बोधिसत्वो ऽसंस्कृते न प्रतितिष्ठते संस्कृतं न क्षपयति /

व्क्न् 10.19 पुण्यसंभाराभियुक्तत्वद् असंस्कृते न प्रतितिष्ठति, ज्ञनसंभाराभियुक्तत्वात् संस्कृतं न क्षपयति / महामैत्रीसमन्वागतत्वाद् असंस्कृते न प्रतितिष्ठति, महाकरुणासमन्वागतत्वात् संस्कृतं न क्षपयति / सत्वपरिपाचनत्वाद् असंस्कृते न प्रतितिष्ठति, बुद्धधर्माभिलाषित्वात् संस्कृतं न क्षपयति / बुद्धलक्षणपरिपूरणत्वाद् असंस्कृते न प्रतितिष्ठति, सर्वज्ञज्ञानपरिपूरणार्थं संस्कृतं न क्षपयति / उपायकुशलत्वाद् असंस्कृते न प्रतितिष्ठति, प्रज्ञासुनिरीक्षितत्वात् संस्कृतं न क्षपयति / बुद्धक्षेत्रपरिशुद्ध्यर्थम् असंस्कृते न प्रतितिष्ठति, बुद्धाधिष्ठानत्वात् संस्कृतं न क्षपयति / सत्वार्थानुभवनाद् असंस्कृते न प्रतितिष्ठति, धर्मार्थसंदर्शनात् संस्कृतं न क्षपयति / कुशलमूलसंभारत्वाद् असंस्कृते न प्रतितिष्ठति, कुशलमूलवासनत्वात् संस्कृतं न क्षपयति / प्रणिधानपरिपूरणार्थम् असंस्कृते न प्रतितिष्ठति, अप्रणिहितत्वात् संस्कृतं न क्षपयति / आशयपरिशुद्धत्वाद् असंस्कृते न प्रतितिष्ठति, अध्याशयपरिशुद्धत्वात् संस्कृतं न क्षपयति / पञ्चाभिज्ञाविक्रीडितत्वाद् असंस्कृते न प्रतितिष्ठति, बुद्धज्ञानषडभिज्ञत्वात् संस्कृतं न क्षपयति / पारमितासंभारपरिपूरणार्थम् असंस्कृते न प्रतितिष्ठति, अपरिपूर्णकालत्वात् संस्कृतं न क्षपयति / धर्मधनसमुदानयनत्वाद् असंस्कृते न प्रतितिष्ठति, प्रादेशिकधर्मानर्थिकत्वात् संस्कृतं न क्षपयति / सर्वभैषज्यसमुदानयनत्वाद् असंस्कृते न प्रतितिष्ठति, यथार्हभैषज्यप्रयोजनात् संस्कृतं न क्षपयति / दृढप्रतिज्ञया असंस्कृते न प्रतितिष्ठति, प्रतिज्ञोत्तारणत्वात् संस्कृतं न क्षपयति / धर्मभैषज्यसमुदानयनत्वाद् असंस्कृते न प्रतितिष्ठति, यथापीत्वरधर्मभैषज्यप्रयोजनात् संस्कृतं न क्षपयति / सर्वसत्वक्लेशव्याधिपरिज्ञानाम् असंस्कृते न प्रतितिष्ठति, सर्वव्याधिशमनात् संस्कृतं न क्षपयति / एवं हि कुलपुत्राः बोधिसत्वः संस्कृतं न क्षपयति, असंस्कृते न प्रतितिष्ठति / अयम् उच्यते क्षयाक्षयो नाम बोधिसत्वानां विमोक्षः / तत्र युष्माभिः सत्पुरुषाः योगः करणीयः /

व्क्न् 10.20 अथ खलु ते बोधिसत्वा इमं निर्देशं श्रुत्वा तुष्टा उदग्र आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाता भगवतः पूजाकर्मणे तेषां च बोधिसत्वानाम् अस्य धर्मपर्यायस्य पूजाकर्मणे सर्वम् इमं त्रिसाहस्रमहासाहस्रं लोकधातुं सर्वचूर्णगन्धधुपव्यूहैः पुष्पैश् च जानुमात्रं संछाद्य भगवतश् च पर्षन्मण्डलम् अभिकीर्तिं कृत्वा भगवतः पादौ शिरोभिर् वन्दित्वा भगवन्तं त्रिष्प्रदक्षिणीकृत्योदानम् उदानयन्त इह बुद्धक्षेत्रे ऽन्तर्हितास् तेन क्षणलवमुहूर्तेन तत्र सर्वगन्धसुगन्धे लोकधातौ प्रत्युपस्थिताः // //

क्षयाक्षयो नाम धर्मप्राभृतपरिवर्तो दशमः //

व्क्न् 11.1 अथ खलु भगवान् विमलकीर्तिं लिच्छविम् एतद् अवोचत्: यदा त्वं कुलपुत्र तथागतस्य दर्शनकामो भवसि, तदा कथं त्वं तथागतं पश्यसि /

एवम् उक्ते विमलकीर्तिर् लिच्छविर् भगवन्तम् एतद् अवोचत्: यदाहं भगवन् तथागतस्य दर्शनकामो भवामि, तदा तथागतम् अपश्यनया पश्यामि / पूर्वान्ततो ऽजातम् अपरान्ततो ऽसंक्रान्तं प्रत्युत्पन्ने ऽध्वन्य् असंस्थितं पश्यामि / तत् कस्य हेतोः / रूपतथतास्वभावम् अरूपम्, वेदनातथतास्वभावम् अवेदनाम्, संज्ञातथतास्वभावम् असंज्ञम्, संस्कारतथतास्वभावम् असंस्कारम्, विज्ञानतथतास्वभावम् अविज्ञानम्, चतुर्धात्वसंप्राप्तम् आकाशधातुसमम्, षडायतनानुत्पन्नं चक्षुःपथसमतिक्रान्तं श्रोत्रपथसमतिक्रान्तं घ्राणपथसमतिक्रान्तं जिह्वापथसमतिक्रान्तं कायपथसमतिक्रान्तं मनःपथसमतिक्रान्तम्, त्रैधातुकासंसृष्टम्, त्रिमलापगतम्, त्रिविमोक्षानुगतम्, त्रिविद्यानुप्राप्तम्, अप्राप्तं संप्राप्तम्, सर्वधर्मेष्व् असङ्गकोटीगतं भूतकोट्यकोटिकम्, तथताप्रतिष्ठितं तदन्योन्यविसंयुक्तम्, न हेतुजनितं न प्रत्ययाधीनम्, न विलक्षणं न सलक्षणम्, नैकलक्षणं न नानालक्षणम् /

न लक्ष्यते न संलक्ष्यते न विलक्ष्यते, नार्वाङ् न पारे न मध्ये, नेह न तत्र, नेतो नान्यतः, न ज्ञानविज्ञेयो न विज्ञानप्रतिष्ठितः, अतमो ऽप्रकाशः, अनामानिमित्तम्, न दुर्बलो न बलवान्, न देशस्थो न प्रदेशस्थः, न शुभो नाशुभः, न संस्कृतो नासंस्कृतः /

नापि केनचिद् अर्थेन वचनीयः, न दानतो न मात्सर्यतः, न शीलतो न दौःशील्यतः, न क्षान्तितो न व्यापादतः, न वीर्यतो न कौशीद्यतः, न ध्यानतो न विक्षेपतः, न प्रज्ञातो न दौःप्रज्ञ्यतः, न वचनीयो नावचनीयः, न सत्यतो न मृषातः, न नैर्याणिकतो नानैर्याणिकतः /

न गमानीयो नागमनीयः, सर्वरुतव्याहारसमुच्छिन्नः, न क्षेत्रभूतो नाक्षेत्रभूतः, न दक्षिणार्हो न दक्षिणाशोधयिता, अग्राह्यः, अपरामृष्टः, अनिकेतः, असंस्कृतः, संख्यापगतः, समतया समः, धर्मतया तुल्यः, अतुल्यवीर्यः, तुलनासमतिक्रान्तः, न क्रान्तो न चाक्रान्तः, न समतिक्रान्तः, न दृष्टश्रुतपरिज्ञातः, सर्वग्रन्थिविगतः, सर्वज्ञज्ञानसमताप्राप्तः, सर्वसत्वसमः, सर्वधर्मनिर्विशेषप्राप्तः, सर्वतो ऽनवद्यः, निष्किंचनः, निष्कषायः, निष्कलः, निर्विकल्पः, अकृतः, अजातः, अनुत्पन्नः, अभूतः, असंभूतः, न भविष्यति, निर्भयः, निष्क्लेशः, निःशोकः, निष्प्रीतिकः, नीरूर्मिकः, सर्वव्यवहारनिर्देशैर् अवचनीयः /

ईदृशो भगवन् तथागतस्य कायः / स तथैव द्रष्टव्यः / य एवं पश्यन्ति, ते सम्यक् पश्यन्ति / ये त्व् अन्यथा पश्यन्ति, ते मिथ्या पश्यन्ति /

व्क्न् 11.2 अथायुष्माञ् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमस्माद् भगवन् बुद्धक्षेत्राच् च्युतौ विमलकीर्तिः कुलपुत्र इदं बुद्धक्षेत्रम् आगतः /

भगवान् आह: एतम् एव त्वं शारिपुत्र सत्पुरुषं परिपृच्छ ः कुतस् त्वं च्युत्वेहोपपन्न इति /

अथायुष्माञ् शारिपुत्रो विमलकीर्तिं लिच्छविम् एतद् अवोचत्: कुतस् त्वं कुलपुत्र च्युत्येहोपपन्नः /

विमलकीर्तिर् आह: यः स्थविरेण धर्मः साक्षात्कृतः, कच्चित् तस्य धर्मस्य च्युतिर् उपपत्तिर् वा /

आह: न तस्य धर्मस्य काचिच् च्युतिर् उपपत्तिर् वा /

आह: एवम् अच्युतिकानाम् अनुत्पत्तिकानां भदन्तशारिपुत्र सर्वधर्माणां कुतस् तवैवं भवति ः कुतस् त्वं च्युत्वेहोपपन्न इति / यं भदन्तशारिपुत्र निर्मितां स्त्रियं पुरुषं वा पृच्छेः ः कुतस् त्वं च्युत्वेहोपपन्न इति / स किं व्याकुर्यात् /

आह: न कुलपुत्र निर्मितस्य च्युतिर् नोपपत्तिः, स किं व्याकरिष्यति /

आह: ननु भदन्तशारिपुत्र निर्मितस्वभावाः सर्वधर्मास् तथागतेन निर्दिष्टाः /

आह: एवम् एतत् कुलपुत्र /

आह: निर्मितस्वभावेषु भदन्तशारिपुत्र सर्वधर्मेषु ः कुतस् त्वं च्युत्वेहोपपन्न इति / च्युतिर् इति भदन्तशारिपुत्र अभिसंस्कारक्षनैअक्षणपदम् एतत् / उपपत्तिर् इत्य् अभिसंस्कारप्रबन्ध एषः / तत्र बोधिसत्वश् च्यवते, न कुशलमूलाभिसंस्कारं क्षपयति / उपपद्यते च, न चाकुशलं प्रबध्नाति /

व्क्न् 11.3 तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: अक्षोभ्यस्य शारिपुत्र तथागतस्य सकाशाद् आगत एष कुलपुत्रो ऽभिरत्या इओकधातोः /

आह: आश्चर्यं भगवन् यद् एष सत्पुरुषस् तावत्परिशुद्धाद् बुद्धक्षेत्राद् आगत्येहैवं बहुदोषदुष्टे बुद्धक्षेत्रे ऽभिरमते /

विमलकीर्तिर् आह: तत् किं मन्यसे भदन्तशारिपुत्र अपि नु सूर्यरश्मयो ऽन्धकारेण सार्धं रमन्ते /

आह: नो हीदं कुलपुत्र, न तयोर् योगो ऽस्ति / सहोद्गते हि सूर्यमण्डले सर्वं तमो ऽपयान्ति /

आह: किं कारणं पुनः सूर्यो जम्बूद्वीप उदयते /

आह: यावद् एवावभासकरणाय तमोऽपघातय च /

आह: एवम् एव शारिपुत्र संचिन्त्य बोधिसत्वा अपरिशुद्धेषु बुद्धक्षेत्रेषूपपद्यन्ते सत्वानां परिशोधनाय / न च क्लेशैः सार्धं संवसन्ति, क्लेशान्धकारं च विधमन्ति सर्वसत्वानाम् /

व्क्न् 11.4 अथ सा सर्वा पर्षत् परितृषिताभुत्: पश्येम वयं तम् अभिरतिं लोकधातुं तं चाक्षोभ्यं तथागतं तांश् च बोधिसत्वांस् तांश् च महाश्रावकान् /

अथ भगवांस् तस्याः सर्वस्याः पर्षदश् चेतस चेतःपरिवितर्कम् आज्ञाय विमलकीर्तिं लिच्छविम् एतद् अवोचत्: दर्शय कुलपुत्र अस्याः पर्षदस् ताम् अभिरतिं लोकधातुं तं चाक्षोभ्यं तथागतम् / द्रष्टुकमेयम् पर्सत् /

अथ विमलकीर्तेर् लिच्छवेर् एतद् अभवत्: यन् न्व् अहम् इतश् चासनान् नोत्तिष्ठेयम् / तां चाभिरतिं लोकधातुम् अनेकबोधिसत्वशतसहस्रां देवनागयक्षगन्धर्वासुराध्युषितां सचक्रवाडपरिखां सनदीतडागोत्ससरःसमुद्रपरिखां ससुमेरुगिरिकूटपर्वतां सचन्द्रसूर्यज्योतिषां सदेवनागयक्षगन्धर्वभवनां सब्रह्मभवनपारिसद्यां सग्रामनगरनिगमजनपदराष्ट्रमनुष्यां सस्त्र्यागारां सबोधिसत्वसश्रावकपर्षदम्, अक्षोभ्यस्य तथागतस्य बोधिवृक्षम्, अक्षोभ्यं च तथागतं सागरोपमायां महापर्षदि निषण्णं धर्मं देशयमानम्, अपि तानि पद्मानि यानि दशसु दिक्षु बुद्धकृत्यं कुर्वन्ति सत्वानाम्, अपि तानि त्रीणि रत्नमयानि सोपानानि यानि जम्बूद्वीपम् उपादाय त्रयस्त्रिंशद्भवनम् अभ्युद्गतानि यैः सोपानैर् देवास् त्रयस्त्रिंशतो जम्बूद्वीपम् अवतरन्त्य् अक्षोभ्यं तथागतं दर्शनाय वन्दनायै पर्युपासनाय धर्मश्रवणाय जाम्बुद्वीपकाश् च मनुष्यास् त्रयस्त्रिंशद्भवनम् अभिरोहन्ति देवांस् त्रयस्त्रिंशतो दर्शनाय / एवम् अप्रमाणगुणसमुदितां ताम् अभिरतिं लोकधातुम् अप्स्कन्धम् उपादाय यावद् अकनिष्ठभवनं भार्गवचक्रम् इव परिच्छिद्य दक्षिणेन पाणिना पुष्पदामम् इवादायेमां लोकधातुं प्रवेशयेयम् / प्रवेश्य चास्याः सर्वस्याः पर्षदो दर्शयेयम् /

व्क्न् 11.5 अथ विमलकीर्तिर् लिच्छविस् तस्यां वेलायां तथारूपं समाधिम् समापन्नः, तादृशं चर्द्ध्यभिसंस्कारम् अभिसंस्कृतवान् यस् तम् अभिरतिं लोकधतुं परिच्छिद्य दक्षिणेन पानिना गृहीत्वेमं सहं लोकधातुं प्रवेशयति स्म /

व्क्न् 11.6 तत्र ये दिव्यचक्षुषो ऽभिज्ञाप्रतिलब्धाः श्रावका बोधिसत्वा देवमनुष्याश् च, ते महान्तम् उत्क्रोशम् उत्क्रोशन्ति स्म: क्न्यामहे भगवन् क्रियामहे सुगत / त्राय च तथागत इति /

तान् भगवान् विनयनार्थम् एवम् आह: न ममात्र वृषभिता विमलकीर्तिना बोधिसत्वेन क्रियमाणानाम् /

तत्र ये पुनर् अन्ये देवमनुष्याः, ते न जानन्ति न पश्यन्ति ः कुतो वयं क्रियामह इति / न ह्य् अभिरत्या लोकधातोर् इमं सहं लोकधातुं प्रवेशिताया ऊनत्वं न पूर्णत्वम् अभूत् / न चास्य लोकधातोर् उत्पीडो न संबाधः / नाप्य् अभिरत्या लोकधातोर् ऊनभावः / यथा पूर्वं तथा पश्चात् संदृश्यते /

व्क्न् 11.7 अथ भगवाञ् शाक्यमुनिस् तां सर्वां पर्षदम् आमन्त्रयते स्म: पश्यत मार्षाः अभिरतिं लोकधातुम् अक्षोभ्यं च तथागतम् एतांश् च क्षेत्रव्यूहाञ् श्रावकव्यूहान् बोधिसत्वव्यूहांश् च /

त आहुः: पश्यामो भगवन् इति /

आह: ईदृशं मार्साः बुद्धक्षेत्रं परिग्रहीतुकामेन बोधिसत्वेनाक्षोभ्यस्य तथागतस्य बोधिसत्वचर्यायाम् अनुशिक्षितव्यम् /

अस्मिन् पुनर् अभिरतिलोकधातुसंदर्शनर्द्धिप्रातिहार्ये ऽक्षोभ्यस्य च तथागतस्य संदर्शने ऽस्मिन् सहे लोकधातौ चतुर्दशानाम् अयुतानां देवमानुषिकायाः प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि / सर्वैश् चाभिरत्यां लोकधातौ प्रणिधानम् उत्पादितम् उपपत्तये / ते सर्वे भगवता व्याकृता अभिरत्यां लोकधाताव् उपपत्तये / इति हि विमलकीर्तिर् लिच्छविर् यावान् इह सहे लोकधातौ सत्वपरिपाकः कर्तव्यस् तं सर्वं कृत्वा पुनर् एव ताम् अभिरतिं लोकधातुं यथस्थाने स्थापयमास /

व्क्न् 11.8 तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: दृष्टा ते शारिपुत्र अभिरतिर् लोकधातुः स चाक्षोभ्यस् तथगतः /

आह: दृष्टा मे भगवन् / सर्वसत्वानां तादृशा बुद्धक्षेत्रगुणव्यूहा भवन्तु / सर्वसत्वाश् चेदृश्यर्द्ध्या समन्वागता भवन्तां यादृश्या विमलकीर्तिर् लिच्छविः कुलपुत्रः / एभिर् अपि च सुलब्धा लाभाः / ये वयम् ईदृशान् सत्पुरुषान् लभामहे दर्शनाय / तेषम् अपि सत्वानां सुलब्धा लाभा भविष्यन्ति, य एतर्हि तथागतस्य तिष्ठतो वा परिनिर्वृतस्य वेमं धर्मपर्यायम् अन्तशः श्रोष्यन्ति / कः पुनर् वादः, ये श्रुत्वाधिमोक्ष्यन्ते प्रत्येष्यन्त्य् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्त्य् अधिमोक्ष्यन्ति प्रवर्तयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति भावनायोगम् अनुयुक्ताश् च भविष्यन्ति /

व्क्न् 11.9 ते धर्मरत्ननिधानप्राप्ता भविष्यन्ति, येषाम् अयं धर्मपर्यायो हस्तगतो भविष्यति / तथागतसहायास् ते भविष्यन्ति, य इमं धर्मपर्यायं स्वाध्यास्यन्ते / धर्मसंरक्षकास् ते भविष्यन्ति, य एतद्धर्माधिमुक्तानाम् उपस्थानपरिचर्यां करिष्यन्ति / गृहगतस् तेषां तथागतो भविष्यति, य इमं धर्मपर्यायं सुलिखितं कृत्वा धारयिष्यन्ति सत्करिष्यन्ति / सर्वपुण्यपरिगृहीतास् ते भविष्यन्ति, य इमं धर्मपर्यायम् अनुमोदिष्यन्ते / महाधर्मयज्ञं ते यजिष्यन्ति, य इतो धर्मपर्यायाद् अन्तशश् चतुष्पदिकाम् अपि गाथां संवरम् अपि परेभ्यो विस्तरेण देशयिष्यन्ति / तद् एव तेषां भगवन् व्याकरणं येषाम् इह धर्मपर्याये क्षान्ती रुचिर् मतिः प्रेक्षा दृष्टिर् अधिमुक्तिर् मुक्तिश् च भविष्यति // //

अभिरतिलोकधात्वानयनाक्षोभ्यतथागतदर्शनपरिवर्त एकादशः //

व्क्न् 12.1 अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: बहुनि मे भगवन् तथागतस्यान्तिकान् मञ्जुश्रियश् च कुमारभूतस्यान्तिकाद् धर्मपर्यायशतसहस्राणि श्रुतानि / न च मे जात्व् एवम् अचिन्त्यविमोक्षविकुर्वितधर्मनयप्रवेशश्रुतपूर्वो यादृश इह धर्मपर्याये निर्दिष्टः /

व्क्न् 12.2 निःसंशयं ते सत्वा एवं धर्मभाजना भविष्यन्ति, य इमं धर्मपर्यायम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति / कः पुनर् वादः / ये भावनायोगम् अनुयुक्ता भविष्यन्ति, पिथितास् तेषां सर्वापायाः, अनावृतास् तेषां सर्वे सुगतिपथाः, दृष्टास् ते सर्वबुद्धैः, निहतास् तैः सर्वपरप्रवादिनः, पराजितास् तैः सर्वमाराः, विशोधितास् तैर् बोधिमार्गाः, प्रतिष्ठितास् ते बोधिमण्डे, तथागतगतिसमवसरणास् ते भविष्यन्ति /

व्क्न् 12.3 य इमं धर्मपर्यायं धारयिष्यन्ति, अहम् अपि भगवन् तेषां कुलपुत्राणाम् उपस्थानपरिचर्यां करिष्यामि सार्धं सर्वपरिवारेण / यत्र च ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्व् अयं धर्मपर्यायः प्रचरिष्यति देशयिष्यति संप्रकाशयिष्यति, तत्राहं सपरिवारो धर्मश्रवणायोपसंक्रामिष्यामि / अप्रसन्नानां च कुलपुत्राणां प्रसादम् उत्पादयिष्यामि, प्रसन्नानां च धार्मिकिं रक्षावरणगुप्तिं करिष्यामि /

व्क्न् 12.4 एवम् उक्ते भगवाञ् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: साधु साधु देवानम् इन्द्र, सुभाषितं ते ऽनुमोदते तथागतः / या देवानाम् इन्द्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिर् इह धर्मपर्याय उद्दिष्टा / तस्माद् इह देवेन्द्र अतीतानागतप्रत्युत्पन्नास् तेन कुलपुत्रेण व कुलदुहित्रा वा बुद्धा भगवन्तः पूजिता भविष्यन्ति, य इमं धर्मपर्यायम् उद्ग्रहीष्यत्य् अन्तशः पुस्तकलिखितम् अपि करिष्यति वाचयिष्यति लिखिष्यति पर्यवाप्स्यति /

व्क्न् 12.5 यश् च पुनर् देवेन्द्र कुलपुत्रो वा कुलदुहिता वेमं त्रिसाहस्रमहासाहस्रं लोकधातुं तथागतपूर्णं तद्यथापि नामेक्षुवनं वा नडवनं वा वेणुवनं वा तिलवनं वैवं शालिवनं वा प्रतिपूर्णं कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् तांस् तथागतान् सर्वपूजाभिः सर्वसुखोपधानैः, परिनिर्वृतानां च तेषां तथागतानाम् एकैकस्य तथागतस्य पूजाकर्मण एकघनस्याविकोपितस्य शरीरस्य सर्वरत्नमयं स्तूपं प्रतिष्ठापयेच् चतुर्महाद्वीपिकलोकधातुप्रमाणं यावद् ब्रह्मलोकम् उच्चैस्त्वेन यष्टिच्छत्रपताकाभिर् उद्विद्धोपशोभितम् एवं सर्वतथागतानां प्रत्येकं स्तूपं कारयेत्, स च तत्र कल्पं वा कल्पावशेषं वा पूजां कुर्यात् सर्वपुष्पैः सर्वगन्धैः सर्वध्वजपताकाभिः सर्वतूर्यताडावचरसंप्रवादितेन पूजां कुर्यात्, तत् किं मन्यसे देवानाम् इन्द्र अपि नु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहु पुण्यं प्रसुनुयात् /

आह: बहु भगवन् बहु सुगत, नास्य पुण्यस्कन्धस्य शक्यः पर्यन्तो ऽधिगन्तुं कल्पकोटीशतसहस्रैर् अपि /

व्क्न् 12.6 भगवान् आह: आरोचयामि ते देवानाम् इन्द्र, प्रतिवेदय / अतः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसुनुयात्, य इमम् अचिन्त्यविमोक्षनिर्देशं धर्मपर्यायम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् / तत् कस्माद् धेतोः / धर्मनिर्जाता हि देवेन्द्र बुद्धानां भगवतां बोधिः, सा धर्मेणैव शक्या पूजयितुम्, नामिषेण / तद् अनेनापि ते देवेन्द्र पर्यायेणैवं वेदितव्यम् /

व्क्न् 12.7 भूतपूर्वं देवानाम् इन्द्र अतीते ऽध्वन्य् असंख्येये कल्पे ऽसंख्येयतरे विपुले ऽप्रमाणे ऽचिन्त्ये यद् आसीत् तेन कालेन तेन समयेन भैसज्यराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् महाव्यूहे लोकधातौ विशोधने कल्पे / तस्य खलु पुनर् देवानाम् इन्द्र भैषज्यराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य विंशतिर् अन्तरकल्प आयुःप्रमाणम् अभूत् / षट्त्रिंशच् चास्य कोटीनियुतानि श्रावकानां संघो ऽभूत् / द्वादशकोट्यो बोधिसत्वानां संघो ऽभूत् / तेन च देवानाम् इन्द्र कालेन तेन समयेन रत्नच्छत्रो नाम राजाभूच् चक्रवर्ती सप्तरत्नसमन्वागतश् चतुर्द्वीपेश्वरः / परिपूर्णं चास्य पुत्रसहस्रम् अभूच् छूराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् /

व्क्न् 12.8 तेन खलु पुनः समयेन राज्ञा रत्नच्छत्रेण स भगवान् भैषज्यराजस् तथागतः पञ्चान्तरकल्पान् सत्कृतः सपरिवारः सर्वसुखोपधानेन / इति हि देवानाम् इन्द्र तेषां पञ्चानाम् अन्तरकल्पानाम् अत्ययेन स राजा रत्नच्छत्रस् तत् पुत्रसहस्रम् आमन्त्रयते स्म: यत् खलु मार्षाः जानीत, कृता मया तथागतस्य पूजा, यूयम् इदानीं तथागतस्य पूजां कुरुत / इति हि देवानाम् इन्द्र ते राजकुमाराः पितू राज्ञो रत्नच्छत्रस्य ः साध्व् इति प्रतिश्रुत्य सर्वे सहिताः समग्रा अपरान् पञ्चान्तरकल्पांस् तं भगवन्तं भैषज्यराजं तथागतं सत्कुर्वन्ति सर्वसुखोपधानैः /

व्क्न् 12.9 ततश् चैको राजकुमारः सोमच्छत्रो नाम / तस्यैकाकिनो रहोगतस्यैतद् अभूत्: अस्ति त्व् अस्याः पुजाया अन्योदारता विशिष्टतरा पूजेति /

तस्यान्तरीक्षाद् देवता बुद्धाधिष्ठानेनैवम् आह: धर्मपूजा सत्पुरुष सर्वपूजाभ्यो विशिष्यते /

स एवम् आह: कतमा पुनः सा धर्मपूजेति /

देवताह: एतम् एव त्वं सत्पुरुष तथागतं भैषज्यराजम् उपसंक्रम्य परिपृच्छ ः कतमा सा धर्मपूजेति / स ते भगवान् व्याकरिष्यति /

अथ देवानाम् इन्द्र स सोमच्छत्रो राजकुमारो येन भगवान् भैषज्यराजस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामत् / उपसंक्रम्य तस्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् / एकान्तस्थितश् च सोमच्छत्रो राजकुमारस् तं भगवन्तं भैषज्यराजं तथागतम् एतद् अवोचत्: धर्मपूजा धर्मपूजेति भगवन् उच्यते / कतमा सा धर्मपूजेति /

व्क्न् 12.10 स भगवान् आह: धर्मपूजा कुलपुत्र या तथागतभाषितानां सूत्रान्तानां गम्भीराणां गम्भीरावभासानां सर्वलोकप्रत्यनीकानां दुरवगाहानां दुर्दृशानां दुरनुबोधानां सूक्ष्माणां निपुणानां निरुपलम्भानाम् बोधिसत्वपिटकान्तर्गतानां धारणीसूत्रान्तराजमुद्रामुद्रितानाम् अविवर्तचक्रसूचकानाम् षट्पारमितानिर्जातानां संगृहीतग्रहाणां बोधिपक्ष्यधर्मानुगतानां / बोध्यङ्गाहाराणां सत्वमहाकरुणावताराणां महामैत्रीनिर्देशानां मारदृष्टिगतविगतानां प्रतीत्यसमुत्पादनिर्दिष्टानाम्

व्क्न् 12.11 निरात्मनिःसत्वनिर्जीवनिष्पुद्गलानां शून्यतानिमित्ताप्रणिहितानभिसंस्काराणां बोधिमण्डाहारकाणां धर्मचक्रप्रवर्तकानां देवनागयक्षगन्धर्वसंस्तुतप्रशस्तानां सद्धर्मवंशानुपच्छेर्त्तॄणां धर्मगञ्जसंधारकानां धर्माग्रपूजावतीर्णानां सर्वार्यजनपरिगृहीतानां सर्वबोधिसत्वचर्याप्रशासकानां भूतार्थधर्मप्रतिसंचितावताराणां धर्मोद्दानानित्यदुःखानात्मशान्तनिर्जातानां दुःशीलौजोघट्टकानां सर्वपरप्रवादिकुदृष्ट्युपलम्भाभिनिविष्टत्रासकराणां सर्वबुद्धप्रशस्तानां संसारविपक्षाणां निर्वाणसुखसंदर्शकानाम् / एवंरूपाणां सूत्रान्तानां या देशना संप्रकाशना धारणा प्रत्यवेक्षणा सद्धर्मसंग्रहः, इयम् उच्यते धर्मपूजेति /

व्क्न् 12.12 पुनर् अपरं कुलपुत्र धर्मपूजा या धार्मेषु धर्मनिध्यप्तिः, धर्मप्रतिपत्तिः, प्रतीत्यसमुत्पादानुलोमता, सर्वान्तदृष्टिविगमः, अजातानुत्पादक्षान्तिः, नैरात्म्यनिःसत्वतावतारः, हेतुप्रत्ययाविरोधः, अविग्रहः, अविवादः, अममत्वम्, ममकारविगमः, अर्थप्रतिशरणता न व्यञ्जनप्रतिशरणता, ज्ञनप्रतिशरणता न विज्ञनप्रतिशरणता, नीतार्थसूत्रान्तप्रतिशरणता न नेयार्थसंवृत्यभिनिवेशः, धर्मताप्रतिशरणता न पुद्गलदृष्ट्युपलम्भो न ग्राह्याभिनिविष्टता, यथावद्धर्मानुगमः, अनालयप्रवेशः, आलयसमुद्घातः, अविद्याव्युपशमो यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासव्युपशमः / एवं च द्वादशाङ्गं प्रतीत्यसमुत्पादम् अवेक्ष्यते, अक्षयाभिनिर्हारेण चाभिनिर्हरति, सत्वावेक्षया च दृष्टिनिरपेक्षः / इयम् अपि कुलपुत्र उच्यते ऽनुत्तरा धर्मपूजेति /

व्क्न् 12.13 इति हि देवानाम् इन्द्र स सोमच्छत्रो राजकुमारस् तस्य भगवतो भैषज्यराजस्य तथागतस्यान्तिकाद् इमां धर्मपूजां श्रुत्वानुलोमिकीं धर्मक्षान्तिं प्रतिलभते स्म / यथाप्रावृतैश् च वस्त्राभरणैस् तं भगवन्तं छादयति, एवं वाचम् अभाषत्: अहं भगवन् उत्सहे तथागतस्य सद्धर्मपरिग्रहाय सद्धर्मपूजाकरणतायै सद्धर्मं परिरक्षितुम् / तस्य मे भगवांस् तथाधिष्ठानं करोतु / यथाहं निहतमारप्रत्यर्थिको भगवतः सद्धर्मं परिगृह्नीयाम् /

तस्य स तथागतो ऽध्याशयं विदित्वा व्याकृतवान् पश्चिमे काले सद्धर्मनगरपालरक्षायै /

व्क्न् 12.14 स खलु पुनर् देवानाम् इन्द्र सोमच्छत्रो राजकुमारस् तस्य तथागतस्य तिष्ठत एव श्रद्धयागाराद् अनगारिकां प्रव्रजितः सन्न् आरब्धवीर्यो विहरति स्म कुशलेषु धर्मेषु / तेनारब्धवीर्येण कुशलधर्मप्रतिष्ठितेन न चिरात् पञ्चाभिज्ञा उत्पादिताः / गतिंगतश् च धारणीनाम् अभूद् अनाच्छेद्यप्रतिभानः / स तस्य भगवतः परिनिर्वृतस्याभिज्ञाधारणीबलेन परिपूर्णान् दशान्तरकल्पांस् तस्य भगवतो भैषज्यराजस्य तथागतस्य प्रवृत्तं धर्मचक्रम् अनुवर्तयति स्म / तेन खलु पुनर् देवानाम् इन्द्र सोमच्छत्रेण भिक्षुणा सद्धर्मपरिग्रहाभियुक्तेन दशकोटीशतानि सत्वानाम् अवैवर्तिकानि कृतान्य् अभूवन्न् अनुत्तरायां सम्यक्संबोधौ, चतुर्दश च प्राणिनियुतानि श्रावकप्रत्येकबुद्धयानिकानि, अप्रमाणाश् च सत्वाः स्वर्गोपगाः कृताः /

व्क्न् 12.15 स्यात् खलु पुनस् ते देवानाम् इन्द्र अन्यः स तेन कालेन तेन समयेन रत्नच्छत्रो नाम राजाभूच् चक्रवर्ती, न खलु पुनस् ते देवानाम् इन्द्र एवं द्रष्टव्यम् / तत् कस्माद् धेतोः / रत्नार्चिः स तथागतस् तेन कालेन तेन समयेन रत्नच्छत्रो नाम राजाभूच् चक्रवर्ती / यत् पुनस् तद् राज्ञो रत्नच्छत्रस्य पुत्रसहस्रम् अभूत् / इमे ते भाद्रकल्पिका बोधिसत्वा अभूवन् / यद् इह भद्रकल्पे परिपूर्णं बुद्धसहस्रम् उत्पत्स्यते यतश् चत्वार उत्पन्नाः शेषा उत्पत्स्यन्ते, क्रकुच्छन्दप्रमुखा यावद् रोचपर्यवसानाः, रोचो नाम तथागतः पश्चिमको भविष्यति /

स्यात् खलु पुनस् ते देवानाम् इन्द्र एवम् अन्यः स तेन कालेन तेन समयेन सोमच्छत्रो नाम राजकुमारो ऽभूद् येन तस्य भगवतो भैषज्यराजस्य तथागतस्य सद्धर्मः परिगृहीत इति / न खलु पुनस् त एवं द्रष्टव्यम् / तत् कस्माद् धेतोः / अहं स तेन कालेन तेन समयेन सोमच्छत्रो नाम राजकुमारो ऽभूवम् / तद् अनेनापि ते देवेन्द्र पर्यायेणैवं वेदितव्यम् / यावत्यस् तथागतानां पूजाः, धर्मपूजा तासाम् अग्र्याख्यायते, ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीतोत्तरा निरुत्तराख्यायत इति / तस्माद् इह देवानाम् इन्द्र धर्मपूजया मां पूजयत, मा आमिषपूजया / धर्मसत्कारेण मां सत्कुरुत, मा आमिषसत्कारेण /

व्क्न् 12.16 तत्र भगवान् मैत्रेयं बोधिसत्वम् आमन्त्रयते स्म: इमां ते ऽहं मैत्रेय असंख्येयकल्पकोटीसमुदानीताम् अनुत्तरां सम्यक्संबोधिम् अनुपरीन्दामि, यथेम एवंरूपा धर्मपर्याया युष्मदधिष्ठानेन परिग्रहेण तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये जम्बूद्वीपे वैस्तारिका भवेयुः, नान्तर्धीयेरन् / तत् कस्माद् धेतोः / भविष्यन्ति मैत्रेय अनागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च देवनागयक्षगन्धर्वाश् चावरोपितकुशला अनुत्तरां सम्यक्संबोधिं संप्रस्थिताः / ते ऽश्रवणाद् अस्य धर्मपर्यायस्य मा परिहास्यन्त इति / इमान् एवंरूपान् सूत्रान्ताञ् श्रुत्वातीव प्रेम च प्रसादं च प्रतिलप्स्यन्ते, मूर्ध्ना च प्रतिग्रहीष्यन्ति / तेषां त्वं मैत्रेय तथारूपाणां कुलपुत्राणां कुलदुहितॄणां चानुरक्षाया इमान् एवंरूपान् सूत्रान्तांस् तस्मिन् काले वैस्तारिकान् कुर्याः /

व्क्न् 12.17 द्वे इमे मैत्रेय बोधिसत्वानां मुद्रे / कतमे द्वे / विचित्रपदव्यञ्जनप्रसादमुद्रा च गम्भीरधर्मनयानुत्त्रासयथाभूतावतारप्रवेशमुद्रा च / इमे मैत्रेय बोधिसत्वानां द्वे मुद्रे / तत्र मैत्रेय ये बोधिसत्वा विचित्रपदव्यञ्जनप्रसादगुरुकाः, त आदिकर्मिका बोधिसत्वा वेदितव्याः / ये पुनर् इमं मैत्रेय गम्भीरं सूत्रान्तम् अरूपलेपं यमकव्यत्यस्तनिहारपदपुटप्रभेदं प्रवर्तयिष्यन्ति श्रोस्यन्त्य् अधिमोक्ष्यन्ते वेदयिष्यन्ति, इमे बोधिसत्वाश् चिरचरितब्रह्मचर्या वेदितव्याः /

व्क्न् 12.18 तत्र मैत्रेय द्वाभ्यां कारणाभ्याम् आदिकर्मिका बोधिसत्वा आत्मानं क्षिण्वन्ति / न च गम्भीरेषु धर्मेषु निध्यप्तिं गच्छन्ति / कतमाभ्यां द्वाभ्याम् / अश्रुतपूर्वांश् च गम्भीरान् सूत्रान्ताञ् श्रुत्वोत्त्रस्यन्ति / संशयप्राप्ताश् च भवन्ति, नानुमोदन्ते / उत्तरि च प्रतिक्षिपन्ते: य एते ऽस्माभिः पूर्वं न श्रुतपूर्वाः कुत इमे ऽधुनागताः / ये च ते कुलपुत्रा गम्भीरधर्मसूत्रान्तधारका गम्भीरधर्मभाजना गम्भीरधर्मदेशयितारः, तान् न सेवन्ते न भजन्ते न पर्युपासन्ते, अगौरवाश् च तेषु भवन्ति, अन्तरान्तरा च तेषाम् अवर्णम् अपि निश्चारयन्ति / आभ्यां मैत्रेय द्वाभ्यां कारणाभ्याम् आदिकर्मिका बोधिसत्वा आत्मानं क्षिण्वन्ति / न च गम्भीरेषु धर्मेषु निध्यप्तिं गच्छन्ति / व्क्न् 12.19 द्वाभ्यां मैत्रेय कारणाभ्यां गम्भीराधिमुक्तिको बोधिसत्व आत्मानं क्षिणोति / न चानुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते / कतमाभ्यां द्वाभ्याम् / तांश् चादिकर्मिकान् अचिरचरितान् बोधिसत्वान् अवमन्यते परिभवति न ग्राहयति न विवेचयति नानुशास्ति / तयैव च गम्भीराधिमुक्त्या शिक्षायाम् अगौरवो भवति / लोकामिषदानेन च सत्वान् अनुगृह्णाति, न धर्मदानेन / आभ्यां मैत्रेय द्वाभ्यां कारणाभ्यां गम्भीराधिमुक्तिको बोधिसत्व आत्मानं क्षिणोति / न च क्षिप्रम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते /

व्क्न् 12.20 एवम् उक्ते मैत्रेयो बोधिसत्वो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावत् सुभाषितं भगवतः / वयं भगवन् एतांश् च दोषान् विवर्जयिष्यामः / इमां च तथागतस्यासंख्येयकल्पकोटीनियुतशतसहस्रसमुदानीताम् अनुत्तरां सम्यक्संबोधिं परिरक्षिष्यामो धारयिष्यामः / तेषां चानागतानां कुलपुत्राणां कुलदुहितॄणां भाजनीभूतानाम् इमान् एवंरूपान् सूत्रान्तान् हस्तगतान् करिष्यामः / स्मृतिं चैषाम् उपसंहरिष्यामो यया स्मृत्येमान् एवंरूपान् सूत्रान्तान् रोचयिष्यन्त्य् उद्ग्रहीष्यन्ति पर्यवाप्स्यन्ति धारयिष्यन्ति प्रवर्तयिष्यन्ति लिखिष्यन्ति परेषां च विस्तरेण देशयिष्यन्ति / तेषां च वयं भगवन् उपस्तम्भं करिष्यामः / ये च खलु पुनर् भगवन् तस्मिन् काल इमान् एवंरुपान् सूत्रान्तान् रोचयिष्यन्ति प्रवर्तयिष्यन्ति / वेदितव्यम् एतद् भगवन् मैत्रेयस्य बोधिसत्वस्याधिष्ठानम् इति /

अथ भगवान् मैत्रेयस्य बोधिसत्वस्य साधुकारम् अदात्: साधु साधु मैत्रेय, सुभाषिता त इयं वाक् / अनुमोदते तथागतो ऽनुजानाति च सुभासितम् /

व्क्न् 12.21 अथ ते बोधिसत्वा एकस्वरेण वाचम् अभाषन्त: वयम् अपि भगवन् तथागतस्य परिनिर्वृतस्यान्योन्येभ्यो बुद्धक्षेत्रेभ्य आगत्येमां तथागतबुद्धबोधिं वैस्तारिकीं करिष्यामः / तेषां च कुलपुत्राणाम् आरोचयिष्यामः /

व्क्न् 12.22 अथ चत्वारो महाराजानो भगवन्तम् एतद् अवोचन्: यत्र यत्र भगवन् ग्रामनगरनिगमराष्ट्रराजधानीष्व् इम एवंरूपा धर्मपर्यायाः प्रचरिष्यन्ति देशयिष्यन्ति प्रकाशयिष्यन्ति, तत्र तत्र वयं भगवन् चत्वारो महाराजाः सबलाः सवाहनाः सपरिवारा धर्मश्रवणायोपसंक्रमिष्यामः / तस्य च धर्मभाणकस्य समन्ततो योजनशतं रक्षां संविधाष्यामः, यथा तस्य धर्मभाणकस्य न कश्चिद् अवतारप्रेक्ष्य् अवतारगवेष्य् अवतारं लप्स्यते /

व्क्न् 12.23 तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: उद्गृहाण त्वम् आनन्द इमं धर्मपर्यायं धारय वाचय परेषां च विस्तरेण संप्रकाशय /

आह: उद्गृहीतो मे भगवन् अयं धर्मपर्यायः / किं भगवन् अस्य धर्मपर्यायस्य नामधेयम् / कथं चऐनं धारयामि /

भगवान् आह: तस्मात् तर्हि त्वम् आनन्द इमं धर्मपर्यायं विमलकीर्तिनिर्देशं यमकपुटव्यत्यस्तनिहारम् अचिन्त्यधर्मविमोक्षपरिवर्तम् इत्य् अपि धारयेमं धर्मपर्यायम् // //

इदम् अवोचद् भगवान् / आत्तमना विमलकीर्तिर् लिच्छविर् मञ्जुश्रीश् च कुमारभूत आयुष्मांश् चानन्दस् ते च महाश्रावकाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति // //

निगमनपरीन्दनापरिवर्तो नाम द्वादशः //

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत् / तेषां च यो निरोधो एवंवादी महाश्रमणः //

देयधर्मो ऽयं प्रवरमहायानयायिनो भिक्षुशीलध्वजस्य यद् अत्र पुण्यं तद् भवत्व् आचार्योपाध्यायमातापितृपूर्वंगमं कृत्वा सकलसत्वराशेर् अनुत्तरज्ञानफलावाप्तय इति //

श्रीमद्गोपालदेवराज्ये संवत् 12 भाद्रदिने 29 लिखितेयम् उपस्थायकचाण्डोकस्येति //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.