Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 33/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न पुनः सुह्बूते बोधिसत्त्वो महासत्त्वो ऽसंचिन्त्यतम् आत्मभावं परिगृह्णाति, (psp_6-8:132) येनात्मभावेन सत्त्वानाम् अर्थः कर्तव्यः तम् आत्मभावं सत्त्वानाम् अर्थाय प्रतिगृह्णाति, किं पुनः सुभूते ऽस्त्य् एतद् अर्हतः प्रत्येकबुद्धस्य वा उपायकौशल्यं येनोपायकौशल्येन समन्वागतस् तिर्यग्योनाव् उपपन्नः स्यात्.

सुभूतिर् आह: नो भगवन्.

भगवान् आह: तथागतस्य तद् उपायकौशल्यम् अस्ति येन तत्रोपपन्नः स्याद्, ये च तत्र वधाय पराक्रमन्ते तान् अनुत्तरायां क्षान्तौ समादापयति विनये प्रतिष्ठापयति तेषाम् एव चार्थे आत्मानं परित्यजयति, न च तेषां सत्त्वानां विहेठना भवति, तद् अनेन ते सुह्बूते पर्यायेनैवं वेदितव्यं तथा बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थाय महाकरुणां परिपूरयमाणो ऽनुत्तरायां सम्यक्संबोधौ तिर्यग्योनौ वर्तते.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमेषु भगवन् कुशलधर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्व इमम् एवंरूपम् आत्मभावं परिगृह्णाति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सर्वन् तत् सुभूते कुशलं कर्म यद् बोधिसत्त्वेन महासत्त्वेन परिपूरयितव्यं, सर्वकुशलधर्मपरिपूरिर् अनुत्तरा सम्यक्संबोधिस् तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णेन न कश्चिद् धर्मो यो न परिपूरयितव्यो येन परिपूरितेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत, तद् बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय सर्वकुशलधर्मपरिपूर्यै शिक्षितवयं यत्र शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति सर्ववासनानुसंधिं प्रहास्यति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो यावच् छुक्लधर्मसमन्वागत आर्येणानास्रवेण धर्मेणापायेषूपपद्यते तिर्यग्योनौ वा?

भगवान् आह: किं पुनः सुभूते तथागत आर्यो ऽनास्रवः?

सुभूतिर् आह: आर्यो भगवन्न् अनास्रवः.

भगवान् आह: किं पुनस् तथागतस् तिर्यग्योनिगतं प्राणिनम् आत्मानम् अभिनिर्मिणोति, यद् अभिनिर्माय बुद्धकृत्यं कुर्यात्?

सुभूतिर् आह: कुर्याद् भगवन् कुर्यात् सुगत.

भगवान् आह: किं पुनस् तथागतस् तिर्यग् भवति? (psp_6-8:133)

सुभूतिर् आह: नो भगवन्.

भगवान् आह: किं पुनस् तिर्यग्योनेर् दुःखं प्रत्यनुभवति?

सुभूतिर् आह: नो भगवन्.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानाश्रवेण धर्मेण समन्वगतः सञ्चिन्त्य तथारूपम् आत्मभावं परिगृह्णाति, येनात्मभावेन समन्वागतम् अन्यान् परिपाचयेद् यथा तथागतः.

सुभूतिर् आह: किं पुनर् भगवंस् तथागतस् तन् निर्मितम् अभिनिर्मिणोति, यद् अभिनिर्माय कर्म कारयति, येन कर्मणा परेषां प्रीतिर् जायते?

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतस् तत् तथारूपम् आत्मभावं परिगृह्णाति, येनात्मभावेन समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति.

सुभूतिर् आह: न हि भगवन् दुष्खा अपाया?

भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारा मायां दर्शयति, हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वान्यान् वा विविधान् प्राणकजातान् दर्शयत्य् अपि तु स हस्ती वा भवति, अश्वो वा बलीवर्दविग्रहो वान्ये वा विविधाः प्राणकजाता भवन्ति.

सुभूतिर् आह: नो भगवन्.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतः सञ्चिन्त्य तथारूपम् आत्मभावं परिगृह्णाति येनात्मभावेण समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति.

सुभूतिर् आह: महोपायकुशलो बोधिसत्त्वो महासत्त्वो यो नाम भगवन्न् आर्येणानास्रवेण धर्मेण समन्वागतो येन येन ह्य् आत्मभावेन शक्यते सत्त्वानाम् अर्थः कर्तुन् तं तम् एवात्मभावं परिगृह्णाति. इति सम्यक्संबोधिप्रतिनियमनिवेशनकर्म

कतमेषु भगवन् शुक्लेषु धर्मेषु स्थित्वा इदम् एवंरूपम् उपायकौशल्यं करोति येन तैर् न लिप्यते?

भगवान् आह: प्रज्ञापारमितायां सुभूते स्थित्वा बोधिसत्त्वो (psp_6-8:134) महासत्त्व एवंरूपेणोपायकौशल्येन समान्वगतो भवति, येनोपायकौशल्येन समन्वागतः पूर्वदक्षिणपश्चिमोत्तरस्याम् अधमूर्धं विदिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां कृत्यं करोति, न तत्र क्वचित् स्पृश्यते. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः सर्वथैव धर्मान् नोपलभते, यद् वा स्पृश्येत येन वा स्पृश्येत यो वा स्पृश्येत्. तत् कस्य हेतोः? तथा हि सर्व एते त्रयो धर्माः स्वभावशून्याः तत्र न शून्यतया शून्यता संस्पृश्यते नैव शून्यतां कश्चित् संस्पृशति, नापि शून्यता संस्पृश्यते, तत् कस्य हेतोः? तथा हि स्वभावशून्यतया शून्यता नोपलभ्यते, इयं सानुपलंभशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.

सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमितायाम् एव स्थितो नान्येषु धर्मेषु?

भगवान् आह: कतमो वा सुभूते धर्मोए यः प्रज्ञापारमितायां नान्तर्गतः?

सुभूतिर् आह: यद् भगवन् प्रज्ञापारमितास्वभावेन शून्या, तत् कथं प्रज्ञापारमितायां सर्वधर्मा अन्तर्गताः, न हि भगवञ् छून्यतायां कश्चिद् धर्मान्तर्गतः?

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न पुनः सुभूते सर्वधर्माः सर्वधर्मैः शून्याः, न च सर्वधर्माः शून्यतायाम् अन्तर्गताः. इत्य् अप्रमेयसत्त्वार्थनिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मे शून्यतायां स्थित्वा अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा पूर्वस्यान् दिशि गङ्गानदी वालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु च बुद्धेषु भगवन्सु कुशलमूलान्य् अवरोपयत्य्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्धवं विदिक्षु गङ्गानदीवालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति. (psp_6-8:135)

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ये ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तान् सर्वान् शून्यान् पश्यति, ये ऽपि तत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि बुद्धा भगवन्तः स्वभावेण शून्या, अन्यत्र नामसंकेतात् प्रज्ञाप्तिम् उपादाय निर्दिश्यन्ते, सा च सर्वा प्रज्ञप्तिः स्वभावेन शून्या. यदि ते लोकधातवो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि बुद्धा भगवन्तो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि प्रज्ञप्तिसमुदाचारा न स्वभावेन शून्या अभविष्यंस्, तत्प्रादेशिकी शून्यताभविष्यद् यस्मात् प्रादेशिकी शून्यता नोपलभ्यते तस्मात् सर्वधर्मा सर्वधर्मैः शून्याः.

अत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां चरन्न् अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा दिव्यञ् चक्षुर् अभिनिर्हरति, दिव्यं श्रोत्रम् ऋद्धिविधिज्ञानं पूर्वनिवासं च्युत्युपपत्तिम् अभिनिर्हरति. आभिर् अभिज्ञाभिर् बोधिसत्त्वेन महासत्त्वेन शक्यानुत्तरां सम्यक्संबोधिर् अभिसंबोद्धुं, यद् इयं बोधिसत्त्वस्य महासत्त्वस्याभिज्ञापारमितायां बोधिर् अन्तर्गता, अभिज्ञासु बोधिर् अन्तर्गता मार्गयितव्यायां मार्गयमाणो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेणात्मनस् तान् कुशलान् धर्मान् पश्यति, परांश् च कुशलेषु धर्मेषु नियोजयति, न च कुशलेषु धर्मेष्व् अभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वकुशला धर्माः स्वभावेन शून्याः, न च शून्यता क्वचिद् अभिनिवेक्ष्यते यद् अभिनिवेशम् आस्वादयिष्यति निःस्वभावशून्यता.

तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यं चक्षुर् अभिनिर्हरति येन चक्षुषा सर्वधर्मा शून्यान् पश्यति, तत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् धर्मान् आगम्य तत् कर्माभिनिरूपयति, यया कर्माभिनिरुक्त्या सत्त्वानान् धर्मं देशयति न पुनः सत्त्वप्रज्ञप्तिम् उप्लभ्यते, इत्य् अनुपलंभयोगेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अभिज्ञा अभिनिर्हरति, यास्व् अभिज्ञास्व् अभिज्ञा करुणाधर्माः कर्तव्यास् तान् करोति.

तद् बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण पूर्वस्यां दिशि दक्षिणस्यां दिशि पश्चिमायां दिश्य् उत्तरस्यां दिश्य् अध ऊर्ध्वलोकधातुषु यावद् विदिक्षु लोकधातुषु सत्त्वान् पश्यति, (psp_6-8:136) स तत्रर्द्ध्या गत्वा सत्त्वानाम् अर्थं करोति, यदि वा दानेन यदि वा शीलेन यदि वा क्षान्त्या यदि वा वीर्येण यदि वा ध्यानेन यदि वा प्रज्ञया यदि वा सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् यदि वाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखैर् यदि वा श्रावकप्रत्येकबुद्धधर्मैर् यदि वा बोधिसत्त्वधर्मैर् यदि वा बुद्धधर्मैस् तेषां सत्त्वानां कृत्यं करोति.

तत्र ये सत्त्वा मत्सरिणस् तेषाम् एवं धर्मं देशयति, ददत दानन् दुष्खं हि भोः पुरुषा दारिद्र्यन् न च दारिद्र्येण शक्यम् आत्मनो ऽर्थः कर्तुं प्राग् एव परस्य, तस्माद् यूयम् आत्मना च सुखिनो भविष्यथ परांश् च सुखयिष्यथ मा दारिद्र्येणान्येषां मांसानि खादयन्तो न मोक्ष्यथ त्रिभिर् अपायैः.

ये दुःशीला सत्त्वास् तेषाम् एवं धर्मं देशयति, दुःखं हि भोः पुरुषा दौःशील्यं न च दौःशील्येन शक्यम् आत्मनो ऽथः कर्तुं प्राग् एव परस्य, दौःशील्यस्य च यो विपाको नरको वा तिर्यग्योनिर् वा यमलोको वा तत्र यूयं त्रिष्व् अपायेषु प्रपतिता आत्मानम् एव न शक्यथोद्धर्तुं प्राग् एव परं, तद् भवद्भिर् एकदौशील्यचित्तस्याप्य् अवकाशो न दातव्यः, मा पश्चात् प्रभूतं कालं तप्यत.

ये सत्त्वाः प्रतिहतचित्ताः परस्य चं क्रुध्यन्ति व्यापद्यन्ते दोषम् उत्पादयताम् एषाम् एवं धर्मं देशयति, मा भवन्तो ऽन्योन्यं क्षुभ्यथान्योन्यं व्यापद्यध्वे मा दोषम् उत्पादयत क्षुब्धचित्तस्य हि न कश्चित् कुशलो धर्म आमुखी भवति, तद् भवन्तो ऽन्योन्यम् एवं क्षुब्धचित्ता व्यापन्नचित्ताः स्थानम् एतद् विद्यते यन् नरकं वा प्रपतथा तिर्यग्योनिं वा यमलोकं वा, तद् भवद्भिर् एकचित्तेनापि न क्षोब्धव्यं प्राग् एवान्येषां चित्तानाम् अवकाशो दातव्यः.

ये कुशीदाः सत्त्वास् तान् वीर्ये नियोजयति तेषाम् एवं धर्मं देश्यति, मा भवन्तः कौशीद्यम् आपद्यध्वं न कुसीदानां हीनवीर्याणां काचिच् छुभा प्रवृत्तिः स्थानम् एतद् विद्यते यत् कुशीदानान् नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि कुशीदचित्तस्यावकाशो न दातव्यः प्राग् एवान्येषां चित्तानाम्.

ये विक्षिप्तचित्ताः सत्त्वास् तान् सर्वान् ध्याने नियोजयति, तेषां एवं (psp_6-8:137) धर्मं देशयति, मा भवन्तो मुषितस्मृतयो विक्षिप्तचित्ताश् च भवतन् मुषितस्मृतीनाम् विक्षिप्तचित्तानां वा कुशला धर्मा भवन्ति स्थानम् एतद् विद्यते, यं मुषितस्मृतीनां विक्षिप्तचित्तानां वा नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि विक्षिप्तचित्तस्यावकाशो न दातव्यः, प्राग् एवान्येसाञ् चित्तानाम्.

ये दुष्प्रज्ञाः सत्त्वास् तान् सर्वान् प्रज्ञायां नियोजयति, तेषाम् एवं धर्मं देशयति, मा यूयं दौष्प्रज्ञचित्तम् उत्पादयेध्वं नाप्रज्ञानां सुगतिगमनं भवति स्थानम् एतद् विद्यते यद् दुष्प्रज्ञानां नरको वा तिर्यग्योनिर् वा यमलोको वा, तद् भवद्भिर् एकचित्तोत्पादो ऽपि प्रज्ञाविरहितो नोत्पादयितव्यं प्राग् एवान्येषां चित्तोत्पादानाम् अवकाशो दातव्यः.

ये रागचरिताः सत्त्वास् तान् शुभभावनायां नियोजयति, ये मार्गे ऽस्थिताः सत्त्वास् तान् मार्गे नियोजयति यदि वा श्रावकमार्गे नियोजयति, यदि वा प्रत्येकबुद्धमार्गे नियोजयति तेषाम् एवं धर्मं देशयति, यत्र भवन्तो ऽभिनिविष्टात् ते धर्माः स्वभावेन शून्याः, न स्वभावेन शून्येषु धर्मेषु शक्यम् अभिनिवेष्टुम् अनभिनिविष्टा च शून्यता.

एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञासु स्थित्वा सत्त्वानाम् उपकारं करोति.

नास्ति स सुभूते बोधिसत्त्वो महासत्त्वो यः शक्तो ऽभिज्ञास्व् अस्थित्वा सत्त्वानां धर्मदेशनां कर्तुम्, उत्पथप्रस्थितान् वा सत्त्वान् मार्गे ऽवतारयितुं नेदं स्थानं विद्यते. तद्यथा सुभूते ऽपक्षः पक्षी न शक्नोत्य् आकाशे क्रमितुम्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽनागम्याभिज्ञा न शक्नोति सत्त्वानां धर्मं देशयितुं, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः.

स इमाभिर् अभिज्ञाभिर् अभिनिर्हृताभिर् यद् आकाङ्क्षति सत्त्वानाम् अर्थं कर्तुं तत् करिष्यति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण गङ्गानदीवालुकोपमान् लोकधातून् द्रक्ष्यति तत्र सत्त्वा उत्पन्नास् तान् द्रक्ष्यति, दृष्ट्वा च तान् सत्त्त्वान् ऋद्ध्या गत्वा चेतसैव चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तथाइव तेषां धर्मं देशयिष्यति, यदि वा दानकथां (psp_6-8:138) यदि वा शीलकथां यदि वा क्षान्तिकथां यदि वा वीर्यकथां यदि वा ध्यानकथां यदि वा प्रज्ञाकथां यावन् निर्वाणकथां वा.

स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेणोभौ शब्दौ श्रोष्यति मानुष्यञ् चामानुष्यञ् च, तत्र ये गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयति, तन् दिव्येन श्रोत्रधातुना श्रुत्वा तथाइवोद्ग्रहीष्यति तथाइवोद्गृह्य सत्त्वानां धर्मं देशयति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.

तस्य चेतःपर्यायज्ञानं सुविशुद्धं भविष्यति स तेन चेतःपर्यायज्ञानेन सुविशुद्धेन सत्त्वानां चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तेषां तथाइव धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.

सो ऽनेकविधं पूर्वनिवासम् अनुस्परिष्यति, अप्य् आत्मनः परेषाम् अपि स तेन पूर्वनिवासानुस्मृतिज्ञानेन एवं ज्ञास्यति, एवंनामानि ते ऽभूवन् पूर्वकास् तथागता अर्हन्तः सम्यक्संबुद्धाः सश्रावकसंघास् तत्र ये सत्त्वाः पूर्वनिवासानुस्मृत्यधिमुक्तिका भविष्यन्ति तेभ्यस् तथाइव धर्मं देशयिष्यति दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.

सो ऽनेकविविधया ऋद्ध्या समन्वागतो गङ्गानदीवालुकोपमान् लोकधातून् गत्वा बुद्धान् भगवतः पर्युपास्ते तेषु च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयिष्यति कुशलमूलान्य् अवरोप्य तद् एव पुनर् बुद्धक्षेत्रम् आगमिष्यति, आगत्य तेषां सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.

तस्यास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानं सुपरिशुद्धं भविष्यति, स तेनास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानेन सुविशुद्धेन सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् (psp_6-8:139) निर्वाणकथां वा.

एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः.

स इमाभिर् अभिज्ञाभिर् निहृताभिर् यं यम् एवाकाङ्क्षिष्यत्य् आत्मभावं प्रतिग्रहीतुं तं तम् एवात्मभावं प्रतिग्रहीष्यति, न च तेन सुखेन वा दुःखेन वा सुमना वा दुर्मना वा भविष्यति, नैवास्यानुनय प्रतिघौ भविष्यथः. तद्यथापि नाम सुभूते बुद्धनिर्मितः पुरुषः सर्वकृत्यानि करोति, न च तेन सुखेन वा दुष्खेन वा लिप्यते.

एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताभिज्ञाभिर् विक्रीडितव्यम् एवं विक्रीडं बुद्धक्षेत्रं च परिशोधयिष्यति सत्त्वान् परिपाचयिष्यति.

एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन परिशुद्धेषु बुद्धक्षेत्रेषु परिपाचितेषु सत्त्वेषु शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्. तत् कस्य हेतोः? नास्ति हि सुभूते अङ्गहानिर् अस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायां सम्यक्समोधौ. इति बुद्धोपसंक्रमणोपासनादिनिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोध्यङ्गानि यानि बोधिसत्त्वो महासत्त्वः परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?

एवम् उक्ते भागवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सर्वे कुशला धर्माः सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोध्यङ्गानि.

सुभूतिर् आह: ते पुनर् भगवन् कतमे कुशला धर्मा यैः कुशलैः धर्मैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: प्रथमचित्तोत्पादम् उपादाय सुभूते दानपारमिता कुशलो धर्मस् तत्र च याविकल्पना यद् दानं न जानातीदं दानं यस्यार्थे दातव्यं येन दातव्यं, ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय, यया पारमितयात्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायै सम्यक्संबोधये (psp_6-8:140) मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास् तीर्णास् तरन्ति तरिष्यन्ति च. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता कुशला धर्मास् तत्र च याविकल्पना, यत् प्रज्ञां न जानातीयं प्रज्ञा यस्यार्थे भावयितव्या येन भावयितव्या, ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय यया प्रज्ञापारमितया, आत्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायै सम्यक्संबोधये मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वास् तीर्णास् तरन्ति तरिष्यन्ति च.

एवं चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियानि पञ्चबलानि सप्तबोध्यङ्गानि, आर्याष्टाङ्गो मार्गः सर्वशून्यताः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयः सर्वधारणीमुखानि सर्वसमाधयः शून्यतानिमित्ताप्रणिहितानि पञ्चाभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा बोधिसत्त्वस्य महासत्त्वस्य कुशला धर्मास् तेषु चाविकल्पना यद् बुद्धधर्मान् न जानातीमे बुद्धधर्मा यस्यार्थे भावयितव्या येन भावयितव्यास् ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय यैर् बुद्धधर्मैर् आत्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्त्वस्यानुत्तरायै सम्यक्संबोधये मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास् तीर्णास् तरन्ति च तरिष्यन्ति च, यावन्तः सुभूते केचिद् बोधये मार्गास् तान् कुशलान् धर्मान् बोधिसत्त्वेन महासत्त्वेन परिपूर्य सर्वाकारज्ञतानुप्राप्तव्या सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयितव्यम्. इति बोध्यङ्गनिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इमे धर्मा बोधिसत्त्वधर्माः, बुद्धधर्माः पुनः कतमे?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् पुनर् आयुष्मान् सुभूतिर् एवम् आह, यदीमे धर्मा बोधिसत्त्वधर्मा बुद्धधर्माः पुनः कतमे? एत एव सुभूते बुद्धधर्मा यद् (psp_6-8:141) एभिर् धर्मैः सर्वाकारज्ञताम् अभिसंबुध्यते तस्य सर्वाकारज्ञताप्राप्तस्य सर्ववासनानुसंधिः प्रहीयते, तां बोधिसत्त्वो महासत्त्वो ऽभिसंबुध्यते तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्मा एकक्षणसमायुक्तया प्रज्ञया अभिसंबुद्धा अयं विशेसो बोधिसत्त्वस्य महासत्त्वस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य. तद् यथापि नाम सुभूते अन्य एव प्रतिपन्नको ऽन्यः फलस्थः, न च ताव् उभाव् अपि नाग्रपुद्गलौ, एवम् एव सुभूते बोधिसत्त्वा महासत्त्व आनन्तर्यमार्गप्रतिपन्नकस् तथागतः पुनर् अर्हन् सम्यक्संबुद्धः सर्वधर्मेष्व् अनावरणज्ञानप्राप्तः, अयं सुभूते विशेषो बोधिसत्त्वस्य महासत्त्वस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इमे धर्माः स्वलक्षणशून्यास् तत् कथं स्वलक्षणशून्येषु धर्मेषु विशेषो वा नानाकरणं वोपलभ्यते? अयं नैरयिको ऽयं तैर्यग्योनिको ऽयं यामलौकिको ऽयं देवो ऽयं मनुष्यो ऽयं गोत्रभूमिर् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति, यथैव भगवन्न् इमे पुद्गला नोपलभ्यन्ते तथाइव भगवन् कर्म नोपलभ्यते, यथैव भगवन् कर्म नोपलभ्यते तथाइव विपाको नोपलभ्यते.

एवम् उक्ते भगवान् आयुष्मण्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि स्वलक्षणशून्येषु धर्मेषु न कर्म न विपाक उपलभ्यते, ये स्वलक्षणशून्यान् धर्मान् सत्त्वा नाभिजानन्ति ते कर्माभिसंकुर्वन्ति दुश्चरितं वा सुचरितं वा सास्रवं वानास्रवं वा, ते दुश्चरितेन कर्मणा त्रिष्व् अपायेषु प्रपतन्ति, नरकेषु वा तिर्यग्योनौ वा यमलोके वा, सुचरितेन देवमनुष्येषूपपद्यन्ते, अनाच्छेद्य रूपधातौ चोपपद्यन्ते, तद् बोधिसत्त्त्वो महासत्त्वो दानपारमितायां चरन्, शीलपारमितायां चरन्, क्षान्तिपारमितायां चरन्, वीर्यपारमितायां चरन्, ध्यानपारमितायां चरन्, प्रज्ञापारमितायां चरन्, उपायपारमितायां चरन्, प्रणिधानपारमितायां चरन्, बलपारमितायां चरन्, ज्ञानपारमितायां चरन्, अध्यात्मशून्यतायां (psp_6-8:142) चरन्, बहिर्धाशून्यतायां चरन्, अध्यात्मबहिर्धाशून्यतायां चरन्, यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्, शून्यतानिमित्ताप्रणिहितेषु चरन्, पञ्चस्व् अभिज्ञासु चरन्, दशसु बोधिसत्त्वभूमिषु चरन्, दशसु तथागतबलेषु चरन्, चतुर्षु वैशारद्येषु चरन्, चतसृषु प्रतिसंवित्सु चरन्, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन्न् अच्छिद्रचारीमान् बोधिसत्त्वधर्मान् उत्पादयति यानुत्पाद्य बोध्यङ्गपरिवारसहगतं वज्रोपमं समाधिं समापन्नो ऽनुत्त्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्य सत्त्वानाम् अर्थं करोति, येनार्थेन कृतेन न पुनर् विप्रणस्यन्ति येन विप्रणाशेण पञ्चगतिके संसारे प्रपतेयुः.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवतानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पञ्चगतिकः संसार उपलब्धः?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवता कृष्णां वा शुक्लं वा कर्मोपलब्धम्?

भगवान् आह: न सुभूते.

सुभूतिर् आह: यदि नोपलब्धं कुतो नरकस् तिर्यग्योनिर् यमलोकः प्रज्ञप्तो देवमनुष्याः प्रज्ञप्ताः, स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञप्ताः, बोधिसत्त्वो महासत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धः प्रज्ञप्तः?

भगवान् आह: किं पुनः सुभूते एते सत्त्वा जानन्ति स्वलक्षणशून्याः सर्वधर्मा इति?

सुभूतिर् आह: नो भगवन्.

भगवान् आह: यदि सुभूते सत्त्वा एवं जानीयुः स्वलक्षणशून्याः सर्वधर्मा इति, न बोधिसत्त्वो ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठेतानुत्तरायां सम्यक्संबोधौ स्थित्वा न सत्त्वान् मोचयेत्, त्रिभ्यो ऽपायेभ्यो यावत् पञ्चगतिकात् संसाराद्, यस्मात् तर्हि सुभूते (psp_6-8:143) सत्त्वा न जानन्ति स्वलक्षणशून्यान् धर्मांस् ते ऽज्ञता न परिमुच्यन्ते पञ्चगतिकात् संसारात्, तद् बोधिसत्त्वो महासत्त्वस् तेषां बुद्धानां भगवताम् अन्तिके श्रुत्वा स्वलक्षणशून्यान् सर्वधर्मान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठेत्, इमे धर्मास् तथा न संविद्यन्ते यथा बालपृथग्जना अभिनिविष्ठास् ते सत्त्वा असतो ऽसंविद्यमानां धर्मान् स्वयम् एव विकल्पयन्त्य् उपलभन्ते वासत्त्वे सत्त्वसंज्ञिनो ऽरूपे रूपसंज्ञिनो ऽवेदनायां वेदनासंज्ञिनो ऽसंज्ञायां संज्ञासंज्ञिनो ऽसंस्कारेषु संस्कारसंज्ञिनो ऽविज्ञाञे विज्ञानसंज्ञिनो ऽस्कन्धेषु स्कन्धसंज्ञ्मो ऽधातुषु धातुसंज्ञिनो ऽनायतनेष्व् आयतनसंज्ञिनो ऽप्रतीत्यसमुत्पादे प्रतीत्यसमुत्पादसंज्ञ्मो ऽप्रतीत्यसमुत्पन्नेषु धर्मेषु प्रतीत्यसमुत्पन्नधर्मसंज्ञिनो ऽप्रतीत्यसमुत्पादाङ्गे प्रतीत्यसमुत्पादाङ्गसंज्ञिनो ऽलोकोत्तरेषु लोकोत्तरसंज्ञिनो ऽसास्रवेषु सास्रवसंज्ञिनः, नानास्रवेष्व् अनास्रवसंज्ञिनो ऽसंस्कृतेषु धर्मेषु संस्कृतधर्मसंज्ञिनः, संस्कृतेषु धर्मेषु असंस्कृतधर्मसंज्ञिनः, असंविद्यमानानां विपर्यासे ऽविपर्यस्तचित्ताः कायेन वाचा मनसा च कर्माभिसंस्कुर्वन्ति, ते पञ्चगतिकात् संसाराद् न परिमुच्यन्ते, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापार्मितायां चरन् सर्वान् अन्तर्गतान् कुशलान् धर्मान् कृत्वा बोधिसत्त्वचर्यां चरति, यया चर्यया चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इति कर्मफलसंबन्धो विप्रणासनिवेशनकर्म

अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य दुष्खञ् च दुष्खसमुदयं च दुष्खनिरोधञ् च दुःखनिरोधगामिनीञ् च प्रतिपदम् आख्याति देशयति प्रकाशयति विवृणोति विभजति प्रज्ञापयति प्रतिष्ठापयति, एषु चतुर्ष्व् आर्यसत्येषु सर्वान्तर्गताः कुशला धर्मा ये केचिद् बोधिपक्ष्या धर्मा यैर् बोधिपाक्षिकैर् धर्मैस् त्रयाणां रत्नानां व्यवस्थानं भविष्यति, कतमेषां त्रयाणाम्? बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य, एतेषां त्रयाणां रत्नानां प्रादुर्भावात् सत्त्वाः परिमुच्यन्ते पञ्चगतिकात् संसारात्.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् दुःखज्ञानेन परिनिर्वान्ति, अथ दुष्खेन परिनिर्वान्ति? उताहो समुदयज्ञानेन परिनिर्वान्ति, अथ समुदयेन परिनिर्वान्ति? उताहो (psp_6-8:144) निरोधज्ञानेन परिनिर्वान्ति, अथ निरोधेन परिनिर्वान्ति? उताहो मार्गज्ञानेन परिनिर्वान्ति, अथ मार्गेण परिनिर्वान्ति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते दुष्खज्ञानेन परिनिर्वान्ति न दुष्खेन, न समुदयज्ञानेन न समुदयेन, न निरोधज्ञानेन न निरोधेन, न मार्गज्ञानेन परिनिर्वान्ति न मार्गेण, या पुनः सुभूते चतुर्णाम् आर्यसत्यानां समता तत् परिनिर्वाणम् उक्तं मया, न पुनर् दुःखेन परिनिर्वान्ति न दुष्खज्ञानेन, न समुदयेन न समुदयज्ञानेन, न निरोधेन न निरोधज्ञानेन, न मार्गेण परिनिर्वान्ति न मार्गज्ञानेन.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा भगवन् चतुर्णाम् आर्यसत्यानां समता?

भगवान् आह: यत्र सुभूते न दुष्खन् न दुष्खज्ञानं, यत्र न समुदयो न समुदयज्ञानं, यत्र न निरोधो न निरोधज्ञानं, यत्र न मार्गो न मार्गज्ञानम्, अपि तु खलु सुभूते या एषां चतुर्णाम् आर्यसत्याणां तथतावितथतानन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता यस्योत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्माधातुर् यासंप्रमोषधर्मतायै अपरिहाणधर्मतायै संप्रवर्तते, तां बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधये चरति, यथा सत्यानुबोधये चरति, यथा सत्यान्य् अनुबोधव्यानि.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधये चरति, यथा चरन् सत्यान्य् अनुबुध्यते, अभिसंबुध्य तथत्वाय प्रतिपद्यते, यथा प्रतिपद्यमानो न श्रावकभूमिं पतति न प्रत्येकबुद्धभूमिं पतति बोधिसत्त्वनियामम् अवक्रामति.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सो धर्मो यस्यान्तं पश्यति, तथा च पश्यति यथा न कञ्चिद् धर्मम् उपलभते, अनुपलंभमानः सर्वधर्मा शून्या इति पश्यति, सत्यपर्यापन्नां (psp_6-8:145) वा असत्यपर्यापन्नां वा तं सर्वे शुन्या इति पश्यति, स एवं पश्यन्न् अवक्रान्तनियामो बोधिसत्त्वो महासत्त्वो गोत्रभूमौ स्थितो भवति, तस्य गोत्रभूमौ स्थितस्य न मूर्धविनिपातो भवति येन मूर्धविनिपातेन श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेत्, स इह गोत्रभूमौ स्थित्वा चत्वारि ध्यानान्य् उत्पादयति, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीर् उत्पादयति, स इह शमथभूमौ स्थित्वा सर्वधर्मान् प्रविचिनोति, चत्वार्य् आर्यसत्यान्य् अनुबुध्यते, स दुःखञ् च परिजानाति न च दुष्खारम्बणं चित्तम् उत्पादयति, समुदयञ् च प्रजहाति न च समुदयारम्बणं चित्तम् उत्पादयति, निरोधञ् च साक्षात्करोति न च निरोधारम्बणं चित्तम् उत्पादयति, मार्गञ् च भावयति न च मार्गारम्बणं चित्तम् उत्पादयति, अन्यत्र बोधिनिम्नेन चित्तेन बोधिप्रवेशेन बोधिप्राग्भारेण चित्तेन सर्वधर्मान् यथावत् पश्यति.

सुभूतिर् आह: कथं भगवन् सर्वधर्मान् यथावत् पश्यति?

भगवान् आह: सर्वधर्मान् शून्यान् पश्यति.

सुभूतिर् आह: कथं भगवन् सर्वधर्मान् शून्यान् पश्यति?

भगवान् आह: यद् उत स्वलक्षणशून्यान् सर्वधर्मान् पश्यति, यो ऽनयैवंरूपया विपश्यनया सर्वधर्माः शून्या इति पश्यति, न च कस्यचिद् धर्मस्य स्वभावं पश्यति, यत्र स्वभावे स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.

सुभूतिर् आह: एवं सति भगवन्न् अभावस्वभावा बोधिः.

भगवान् आह: एवम् एतत् सुभूते एवम् एतद्, यथा वदसि, अभावस्वभावा सुभूते बोधिः, सा न बुद्धेन कृता न प्रत्येकबुद्धेन नार्हता नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् य इह समाधौ चरन्त्य् अन्यत्र सत्त्वा न जानन्ति न पश्यन्ति, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति. इति सत्यदर्शनविवेशनकर्म

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् तदा भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वशिक्षायां (psp_6-8:146) शिक्षितुकामेन रूपे कथं शिक्षितव्यं? वेदनायां संज्ञायां संस्कारेषु विज्ञाने कथं शिक्षितव्यम्? चक्षुरायतने श्रोत्रायतने घ्राणायतने जिह्वायतने कायायतने मनआयतने कथं शिक्षितव्यम्? रूपायतने शब्दायतने गन्धायतने रसायतने स्प्रष्टव्यायतने धर्मायतने कथं शिक्षितव्यम्? चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातौ, श्रोत्रधातौ शब्दधातौ श्रोत्रविज्ञानधातौ, घ्राणधातौ गन्धधातौ घ्राणविज्ञानधातौ, जिह्वाधातौ रसधातौ जिह्वाविज्ञानधातौ, कायधातौ स्प्रष्टव्यधातौ कायविज्ञानधातौ, मनोधातौ धर्मधातौ मनोविज्ञानधातौ कथं शिक्षितव्यम्? चक्षुःसंस्पर्शायतने श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शायतने कथं शिक्षितव्यम्? अविद्यायां संस्कारेषु विज्ञाने नामरूपे षडायतने स्पर्शे वेदनायां तृष्णायाम् उपादाने भवे जातौ जरामरणे कथं शिक्षितव्यम्? दुष्खसत्ये समुदयसत्ये निरोधसत्ये मार्गसत्ये कथं शिक्षितव्यम्? रूपिषु धर्मेष्व् अरूपिषु सनिदर्शनेष्व् अनिदर्शनेषु सप्रतिघेष्व् अप्रतिघेषु संस्कृतेष्व् असंस्कृतेषु सास्रवेष्व् अनास्रवेषु सावद्येष्व् अनवद्येषु हीनेषु प्रणीतेष्व् अध्यात्मिकेषु वा बाह्येषु वा दृष्टश्रुतमतविज्ञातेष्व् अतीतानागतप्रत्युत्पन्नेषु कुशलाकुशलव्याकृताव्याकृतेषु कामप्रतिसंयुक्तेषु रूपप्रतिसंयुक्तेष्व् आरूप्यप्रतिसंयुक्तेषु शैक्षेष्व् अशैक्षेषु नैवशैक्षनाशैक्षेषु कथं शिक्षितव्यम्? रागे प्रतिघे माने ऽविद्यायां दृष्टौ विचिकित्सायां कथं शिक्षितव्यम्? मात्सर्ये दाने दौःशील्ये शीले व्यापादे क्षान्तौ कौशीद्ये वीर्ये विक्षेपे ध्याने दौष्प्रज्ञे प्रज्ञायां कथं शिक्षितव्यम्? विकल्पे शून्यतायां निमित्ते आनिमित्ते मिथ्याप्रणिहिते सम्यक्प्रणिहिते, शुभे ऽशुभे धर्मे कथं शिक्षितव्यम्? क्लेशे क्लेशप्रहाणे संक्लेशे व्यवदाने संसारे निर्वाणे धातौ कथं शिक्षितव्यम्? बुद्धधर्मेषु कथं शिक्षितव्यम्?

एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: प्रज्ञापारमितायां चरता मैत्रेय बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वशिक्षायां शिक्षितुकामेन, नाममात्रकं रूपम् इति शिक्षितव्यं, नाममात्रं वेदना संज्ञा संस्कारा विज्ञानं नाममात्रं यावद् (psp_6-8:147) बुद्धधर्मा इति शिक्षितव्यम्.

अथ मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: यदा भगवन् सवस्तुकम् इदं नामधेयम् उपलभ्यते, यद् इदं रूपम् इति, सवस्तुकम् इदं नामधेयम् उपलभ्यते यद् इदं वेदना संज्ञा संस्कारा विज्ञानं, सवस्तुकम् इदं नामधेयम् उपलभ्यते यद् इदं यावद् बुद्धधर्मा इति, यद् उत संस्कारनिमित्तम् उपादाय, तदा कथं बोधिसत्त्वेन महासत्त्वेन नाममात्रकं रूपम् इति शिक्षितव्यं, नाममात्रं वेदना संज्ञा संस्कारा विज्ञानं नाममात्रं यावद् बुद्धधर्मा इति शिक्षितव्यम्, अथावस्तुकम् एवं सति तस्य नाम्नस् तद् अपि नाममात्रं न प्रयुज्यते यद् इदं रूपम् इति नाममात्रं न प्रयुज्यते यद् इदं वेदना संज्ञा संस्कारा विज्ञानं, यावद् बुद्धधर्मा इति नाममात्रं न प्रयुज्यते.

एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् इदं वेदना संज्ञा संस्कारा विज्ञानम्, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् इदं यावद् बुधधर्मा इति, यतश् च मैत्रेय तेन संस्कारनिमित्तेन वस्तूनि रूपम् इत्य् एतस्मिन् नाम्नि रूपम् इति संप्रत्ययो भवति, प्रत्ययागमः प्रतिसंवेदनः, तेन च मैत्रेय पर्यायेणैवं वेदितव्यं, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति, तत् किं मन्यसे? मैत्रेय स्याद् इहैकत्यस्य तस्मिन्न् एव संस्कारनिमित्ते वस्तूनि संज्ञा वा प्रज्ञप्तिर् वा नाम वानुव्यवहारो वाभिनिवेशो वा.

[मैत्रेय] आह: एवं भगवन्.

[भगवान् आह:] तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, आगन्तुकम् एकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति.

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: (psp_6-8:148) एवं सति भगवन्न् उपलब्ध एव भवति रूपस्य स्वभावो यत् तत् संस्कारनिमित्तं वस्तु, यद् उपादाय नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो भवति, यद् इदं रूपम् इति यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति.

एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: संस्कारनिमित्ते वस्तूनि नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो रूपम् इति, तत् किं मन्यसे? मैत्रेय स्वभावो वा स रूपस्य प्रज्ञप्तिमात्रं वेति.

[मैत्रेय] आह: प्रज्ञप्तिमात्रं भगवन् यद् इदं प्रज्ञप्तिमात्रम्.

भगवान् आह: तत् कथं मैत्रेय तवैवं भवत्य् उपलब्ध एवं भवति रूपस्य स्वभाव इति, यत् तत् संस्कारनिमित्तवस्तु यद् उपादाय नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो भवति, यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति. तत् किं मन्यसे? मैत्रेय स्वभावो वा स वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां प्रज्ञप्तिमात्रं वेति. [मैत्रेय] आह: प्रज्ञप्तिमात्रं भगवन् यद् इदं प्रज्ञप्तिमात्रम्.

भगवान् आह: तत् कथं मैत्रेय तवैवं भवत्य् उपलब्ध एवं भवति वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां स्वभाव इति?

मैत्रेय आह: सचेद् भगवन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं रूपं, सचेद् भगवन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा इति, तद् एवं सति न तूपलब्ध एव स्वभावो भवति, रूपस्य यद् इदन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् इति, तद् एवं सति न तूपलब्ध एव स्वभावो भवति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां, यद् इदं नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् इति.

भगवान् आह: तत् किं मन्यसे? मैत्रेय यद् रूपम् इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं, यद् वेदनेति संज्ञेति संस्कारा (psp_6-8:149) इति विज्ञानम् इति यावद् बुद्धधर्मा इति, नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् अपि नु तस्योत्पादो वा प्रज्ञायते व्ययो वा संक्लेशो वा व्यवदानं वा.

[मैत्रेय] आह: नो हीदं भगवन्.

[भगवान् आह:] तत् कुतस् तवैवं भवति मैत्रेय उपलब्ध एव स्वभावो भवति रूपस्य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणाम् इति पेयालम्?

मैत्रेय आह: किं पुनर् भगवन् सर्वशः स्वलक्षणेन नास्त्य् एव रूपं, किं पुनर् भगवन् सर्वशः स्वलक्षणेन नास्त्य् एव वेदना संज्ञा संस्कारा विज्ञानं, न सन्त्य् एव यावद् बुद्धधर्माः.

भगवान् आह: नाहं मैत्रेय सर्वशः स्वलक्षणेन रूपन् नास्तीति वदामि, नाहं मैत्रेय सर्वशः स्वलक्षणेन वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा न सन्तीति वदामि.

मैत्रेय आह: कथं भगवन् रूपम् अस्ति? कथं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्माः सन्ति?

भगवान् आह: लोकसंकेतव्यवहारतो मैत्रेय रूपम् अस्ति न तु परमार्थतो लोकसंकेतव्यवहारतो मैत्रेय वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्माः सन्ति नो परमार्थतः.

मैत्रेय आह: यथा खल्व् अहं भगवन् भगवतो भाषितस्यार्थम् आजानामि निरभिलप्य एव धातुः परमार्थतः, सचेद् भगवन् निरभिलप्यो धातुः परमार्थतः, तत् कथं यत् तत् संस्कारनिमित्तं वस्तु यत्र रूपम् इत्य् आगन्तुकं नामधेयं प्रक्षिप्यते, तत् कथं यत् तत् संस्कारनिमित्तं वस्तु यत्र वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा इत्य् आगन्तुकं नामधेयं प्रक्षिप्यते परमार्थतो न भवति, सचेत् तन् न परमार्थः तत् कथं निरभिलप्यो धातुर् भवति संस्कारनिमित्तं वस्तु निरभिलप्यो धातुर् इति न युज्यते.

भगवान् आह: तेन हि मैत्रेय त्वाम् एवात्र प्रतिपक्षामि यथा ते क्षमते तथाइवं व्याकुरु. तत् किं मन्यसे? मैत्रेय यथा ते निरभिलप्य धातौ प्रज्ञाप्रचारो भवति, उपलभसे त्वं तस्मिन् समये संस्कारनिमित्तं वस्तु यत्रेदम् आगन्तुकनामधेयं प्रक्षिप्तं यद् (psp_6-8:150) इदं रूपम् इति वेदनेति संज्ञेति संस्करा इति विज्ञानम् इति यावद् बुद्धधर्मा इति.

[मैत्र्य आह:] नो हीदं भगवन्.

[भगवान् आह:] तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, यत् तत् संस्कारनिमित्तं वस्तुस् तन् निरभिलप्याद् धातोर् नान्यन् नाप्य् अनन्यन्, स च तस्मात् संस्कारनिमित्ताद् वस्तुनो नान्यो निरभिलप्यो धातुर् नाप्य् अनन्यो यत्रेदम् आगन्तुकं नामधेयं प्रक्षिपतं यद् इदं रूपम् इति, वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, संस्कारनिमित्ताच् चेद् वस्तुनो मैत्रेय निरभिलप्यो धातुर् अन्यः स्याद् अपीदानीं सर्वकालं पृथग्जनाः परिनिर्वायुर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेरन्, अनन्यश् चेन् मैत्रेय संस्कारनिमित्ताद् वस्तुनो निरभिलप्यो धातुः स्याद् अपीदानीं तद् अपि निमित्तं नोपलभ्येत्, यतस् तस्य निरभिलप्यस्य धातोः प्रतिवेधो भवेत्. तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, न तस्मात् संस्कारनिमित्ताद् वस्तुनो ऽन्यो निरभिलप्यो धातुर्, नापि तस्माद् अनन्यो निरभिलप्यो धातुर् यत्रेदम् आगन्तुकं नामधेयं प्रक्षिपतं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति.

मैत्रेय आह: सचेद् भगवन् बोधिसत्त्वो महासत्त्वो निरभिलप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमानस् तत् संस्कारनिमित्तं वस्तु नोपलभते, यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, तत् कथं भगवन् विद्यमानं नोपलभते?

एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: न हि मैत्रेय तस्य संस्कारनिमित्तस्य वस्तुनः काचिद् विद्यमानता वाविद्यमानता वा. तत् कस्य हेतोः? यस्मिन् हि वा मैत्रेय समये तत् संस्कारनिमित्तं वस्तु विकल्पयसि तस्मिन् समये तत् संस्कारनिमित्तं वस्तु विकल्पतो ग्रहणम् एति, तस्मिन् वा पुनः समये निरभिलप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमानो न विकल्पयसि तस्मिन् समये निर्विकल्पतो ग्रहणम् एति.

मैत्रेय आह: एवं भगवन्. भगवान् आह: न त्व् एवं सति मैत्रेय विकल्पमात्रम् एतद् यद् उत संस्कारनिमित्तं वस्तु यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं (psp_6-8:151) यद् इदं रूपम् इति वेदनेति संज्ञेति संस्करा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, विकल्पमात्रे वा पुनस् तस्य निर्विकल्पे वा धातौ वर्तमानस्य विकल्पेष्व् अपगतेषु कतमा तस्य विद्यमानता वाविद्यमानता वोपलभ्यते, यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति?

मैत्रेय आह: प्रज्ञापारमितायां चरता भगवन् बोधिसत्त्वेन महासत्त्वेन धर्मप्रभेदकौशल्ये वर्तमानेन कतिभिर् आकारै रूपप्रभेदप्रज्ञप्तिर् अनुगन्तव्या? कतिभिर् आकारैर् वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मप्रभेदप्रज्ञप्तिर् अनुगन्तव्या?

भगवान् आह: त्रिभिर् मैत्रेयाकारैर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मप्रभेदकौशल्ये वर्तमानेन रूपप्रभेदप्रज्ञप्तिर् अनुगन्तव्या, वेदना संज्ञा संस्कारा विज्ञानं यावद् बुध्धधर्मप्रभेदप्रज्ञप्तिर् अनुगन्तव्या, यद् उतेदं परिकल्पितं रूपम् इदं विकल्पितं रूपम् इदं धर्मता रूपम् इति, यद् उतेयं परिकल्पिता वेदना इयं विकल्पिता वेदना इयं धर्मता वेदना, यद् उत इयं परिकल्पिता संज्ञा इयं विकल्पिता संज्ञा इयं धर्मता संज्ञा, यद् उतेमे परिकल्पिताः संस्कारा इमे विकल्पिताः संस्कारा इमे धर्मता संस्काराः, इदं परिकल्पितं विज्ञानम् इदं विकल्पितं विज्ञानम् इदं धर्मता विज्ञानम्, इमे यावत् परिकल्पिता बुद्धधर्मा इमे विकल्पिता बुद्धधर्मा इमे धर्मता बुद्धधर्माः.

मैत्रेय आह: कतमद् भगवन् परिकल्पितं रूपम्? कतमद् विकल्पितं रूपम्? कतमद् धर्मता रूपं? कतमा भगवन् परिकल्पिता वेदना संज्ञा संस्कारा विज्ञानं? कतमा विकल्पैता वेदना संज्ञा संस्कारा विज्ञानं? कतमा धर्मता वेदना संज्ज्ञा संस्कारा विज्ञानं? यावत् कतमे भगवन् परिकल्पिता बुधधर्माः? कतमे विकल्पिता बुद्धधर्माः? कतमे धर्मता बुद्धधर्माः?

भगवान् आह: या मैत्रेय तस्मिन् संस्कारनिमित्ते वस्तूनि रूपम् इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारन् निश्रित्य रूपस्वभावतया परिकल्पतेनेदं परिकल्पितं रूपं, यत् मैत्रेय तस्मिन् संस्कारनिमित्ते (psp_6-8:152) वस्तूनि वेदनेति संज्ञेति संस्कार इति विज्ञानम् इति यावद् बुद्धधर्मा इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारन् निश्रित्य वेदनास्वभावतया संज्ञास्वभावतया संस्कारस्वभावतया विज्ञानस्वभावतया यावद् बुद्धधर्मस्वभावतया परिकल्पनेयं परिकल्पिता, वेदना संज्ञा संस्कारा विज्ञानं यावद् इमे परिकल्पिता बुद्धधर्माः, या पुनस् तस्य संस्कारनिमित्तस्य वस्तुनो विकल्पमात्रधर्मतायाम् अवस्थानता विकल्पप्रतीत्याभिलपनता तत्रेदं नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारो रूपम् इति, वेदनेति संज्ञेति संस्कारा इति, विज्ञानम् इति यावद् बुद्धधर्मा इति, इदं विकल्पितं रूपम् इयं विकल्पिता वेदना इयं विकल्पिता संज्ञा इमे विकल्पिताः संस्कारा इदं विकल्पितं विज्ञानम् इमे विकल्पिता बुद्धधर्माः. या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितैवेयं धर्माणां धर्मता धर्मस्थितिता धर्मधातुर् यत् तेन परिकल्पितरूपेण तस्य विकल्पितरूपस्य नित्यं नित्यकालं ध्रुवं ध्रुवकालं निःस्वभावता धर्मनैरात्म्यं तथता भूतकोटिर् इदं धर्मता रूपम् इयं धर्मता वेदना संज्ञा संस्कारा विज्ञानम् इमे यावद् बुद्धधर्माः.

मैत्रेय आह: एषां भगवन् त्रयाणां रूपाणां कतमद् रूपम् अद्रव्यं द्रष्टव्यं? कतमत् सद्रव्यं द्रष्टव्यं? कतमन् नैवाद्रव्यं न सद्रव्यं द्रष्टव्यं परमार्थप्रभावितं? आसां भगवंस् तिषृणां वेदनानां तिषृणां संज्ञानां त्रयाणां संस्काराणां त्रयाणां विज्ञानानां त्रयाणां यावद् बुद्धधर्माणां कतमे ऽद्रव्या द्रष्टव्या? कतमे सद्रव्या द्रष्टव्या? कतमे नैवाद्रव्या द्रष्टव्या न सद्रव्यान् परमार्थप्रभाविताः?

भगवान् आह: यत् मैत्रेय परिकल्पितं रूपम् इदम् अद्रव्यं द्रष्टव्यं, यद् विकल्पितं रूपम् इदं विकल्पितं रूपं सद्रव्यताम् उपादाय सद्रव्यं द्रष्टव्यं नो तु स्वतन्त्रवृत्तितः, यद् धर्मता रूपं तन् नैवाद्रव्यं सद्रव्यं परमार्थप्रभावितं द्रष्टव्यं, (psp_6-8:153) या मैत्रेय परिकल्पिता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये परिकल्पिता बुद्धधर्मा इमे ऽद्रव्या द्रष्टव्याः, या विकल्पिता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये विकल्पिता बुद्धधर्मा इमे विकल्पितसद्रव्यताम् उपादाय सद्रव्या द्रष्टव्या नो तु स्वतन्त्रवृत्तितः, या मैत्रेय धर्मता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये मैत्रेय धर्मता बुद्धधर्मास् ते नैवाद्रव्या न सद्रव्याः परमार्थेन प्रभाविता द्रष्टव्याः.

मैत्रेय आह: यद् उक्तं भगवन् भगवताद्वयस्यैषा गणना कृता यद् उत रूपम् इत्य्, अद्वयस्यैषा गणना कृता यद् उत वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति तद् एवं रूपप्रभेदप्रज्ञप्तौ सत्याम्, एवं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मप्रभेदप्रज्ञप्तौ सत्यां, किं संधाय निर्दिष्टं भगवता अद्वयस्यैषा गणना कृता यद् उत रूपम् इत्य् अद्वयस्यैषा गणना कृता यद् उत वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृतेति.

भगवान् आह: तत् किं मन्यसे? मैत्रेय या परिकल्पिते रूपे ऽद्रव्यता रूपं वा तन् न वेति.

[मैत्र्य] आह: नो हीदं भगवन्.

[भगवान् आह:] या पुनस् तत्र नामसंज्ञाप्रज्ञप्तिव्यवहारमात्रता रूपम् इत्य् अपि नु तद् रूपम्?

[मैत्रेय] आह: नो हीदं भगवन्.

[भगवान् आह:] तद् अनेन मैत्रेय पर्यायेणैवं वेदितव्यं, यत् परिकल्पितं रूपं तन् न रूपं नारूपं यत् पुना रूपं नारूपं तद् अद्वयं, इदं च संधायोक्तं मया अद्वयस्यैषा गणना कृता यद् इदं रूपम् इति. तत् किं मन्यसे? मैत्रेय या विकल्पितस्य रूपस्य सद्रव्यता अपि नु तद् रूपं यद् उपादाय नामसंज्ञाप्रज्ञप्तिव्यवहारो भवति रूपम् इति.

[मैत्रेय] आह: नो हीदं भगवन्.

[भगवान् आह:] तत् किं मन्यसे? मैत्रेय या निमित्तेन परिकल्पितेन रूपेण परिकल्पितस्य रूपस्य तत् स्वभावतासल्लक्षणतापि नु तद् (psp_6-8:154) रूपम्.

[मैत्रेय] आह: नो हीदं भगवन्.

[भगवान् आह:] तद् अनेन ते मैत्रेय पर्यायेणैवं वेदितव्यं, यद् विकल्पितं रूपम् अपि न रूपन् नारूपं यत् पुनर् न रूपं नारूपं तद् अद्वयम्, इदञ् च संधायोक्तं मया अद्वयस्यैषा गणना कृता यद् इदं रूपम् इति. तत् किं मन्यसे? मैत्रेय या धर्मता रूपस्य नैरात्म्यप्रभाविततापि नु तद् रूपम्.

[मैत्रेय] आह: नो हीदं भगवन्.

[भगवान् आह:] या पुनस् तथाइवं धर्मता रूपस्य रूपधर्मता अपि नु तद् रूपम्?

[मैत्रेय] आह: नो हीदं भगवन्.

[भगवान् आह:] तद् अनेन मैत्रेय पर्यायेणैवं वेदितव्यं, यद् धर्मता रूपम् अपि न रूपं नारूपं यन् न रूपं नारूपं तद् अद्वयम् इदं च संधायोक्तं मयाद्वयस्यैषा गणना कृता यद् इदं रूपम् इति वेदनायां संज्ञायां संस्कारेषु विज्ञाने यावद् बुद्धधर्मेषु पेयालं कर्तव्यम्.

मैत्रेय आह: प्रज्ञापारमितायां चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य रूप एवम् अद्वयलक्षणकुशलस्य वेदनायां संज्ञायां संस्कारेषु विज्ञाने यावद् बुद्धधर्मेषु एवम् अद्वयलक्षणकुशलस्यान्तद्वयं वर्जयित्वा मध्यमां प्रतिपदं प्रतिपन्नस्य, कथं लक्षणपरिज्ञा? कथं लक्षणप्रहाणं? कथं लक्षणसाक्षात्क्रिया? कथं लक्षणभावना द्रष्ट्रव्या?

भगवान् आह: प्रज्ञापारमितायां मैत्रेय चरतो बोधिसत्त्वस्य महासत्त्वस्यान्तद्वयं वर्जयित्वा मध्यमां प्रतिपदं प्रतिपन्नस्य, रूपस्य यन् न परिज्ञानं नापरिज्ञानम् इयम् एवास्य परिज्ञा, यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न परिज्ञानं नापरिज्ञानम् इयम् एवास्य परिज्ञा, यद् रूपस्य (psp_6-8:155) न प्रहाणं नाप्रहाणम् इदम् एवास्य प्रहाणं, यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न प्रहाणं नाप्रहाणम् इदम् एवास्य प्रहाणं, या रूपस्य न साक्षात्क्रिया नासाक्षात्क्रिया इयम् एवास्य साक्षात्क्रिया, या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न साक्षात्क्रिया नासाक्षात्क्रिया इयम् एवास्य साक्षात्क्रिया रूपप्रहाणाय न मार्गस्य भावना नाभावना इयम् एवास्य भावनाया, एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां प्रहाणाय न मार्गस्य भावना नाभावना इयम् एवास्य भावना.

मैत्रेय आह: प्रज्ञापारमितायां भगवंश् चरतो बोधिसत्त्वस्य महासत्त्वस्यैवं परिज्ञाप्रहाणसाक्षात्क्रियाभावनासमन्वागतस्य कतमं निर्वाणम्?

भगवान् आह: गम्भीरं मैत्रेय परमगम्भीरं बोधिसत्त्वानां महासत्त्वानां निर्वाणम्.

मैत्रेय आह: केन कारणेन बोधिसत्त्वानां महासत्त्वानाम् एवं गम्भीरं परमगम्भीरं निर्वाणम्?

भगवान् आह: बोधिसत्त्वानां महासत्त्वानां मैत्रेय निर्वाणं यन् निर्वाणं नानिर्वाणं तेन गम्भीरं परमगम्भीरम् इत्य् उच्यते.

मैत्रेय आह: कथं भगवन् बोधिसत्त्वानां महासत्त्वानां न निर्वाणं भवति? भगवान् आह: परार्थं मैत्रेयारभ्य संसारापरित्यागो न निर्वाणम्, आत्मार्थम् आरभ्य निर्वाणापरित्यागो नानिर्वाणम्.

मैत्रेय आह: सचेद् भगवन् बोधिसत्त्वो महासत्त्वः परार्थम् आरभ्य संसारं न परित्यजति संसारात् परित्यागात् कथम् अनेन निर्वाणं न परित्यक्तं भवति? सचेद् भगवन् बोधिसत्त्वो महासत्त्व आत्मार्थम् आरभ्य निर्वाणं न परित्यजति निर्वाणापरित्यागात् कथम् अनेन संसारो न परित्यक्तो भवति?

भगवान् आह: इह मैत्रेय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् संसारम् अपि संसारतो न विकल्पयति, निर्वाणम् अपि निर्वाणतो न विकल्पयति, तस्यैवम् अविकल्पयतः समम् एतद् भवति (psp_6-8:156) यद् उत संसारश् च निर्वाणश् च. तत् कस्य हेतोः? तथा हि स यथा संसारं संसारतो ऽविकल्पयन् संसारान् नोद्विजति, तथाइव निर्वाणं निर्वाणतो ऽविकल्पयन् निर्वाणतो नोद्विजत्य् एवम् अविकल्पधातुप्रतिष्ठितस्यानया युक्त्या न संसारपरित्यागो न निर्वाणपरित्यागो वेदितव्यः.

मैत्रेय आह: न नु भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाविकल्पधातुप्रतिष्ठितेन संसारो यथैव न त्यक्तस् तथा नादत्तः कथम् अत्यक्तो भवति? निर्वाणं यथा न त्यक्तं तथा नादत्तं कथं अत्यक्तं भवति?

भगवान् आह: नाहं मैत्रेय संसारस्यैवम् आदानं वानादानं वा वदामि, निर्वाणस्यैवम् आदानं वानादानं वा वदाम्य् अपि तु मैत्रेय प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्याविकल्पधात्वालम्बनेन ज्ञानेन चित्तवशिताम् अनुप्राप्तस्य दशदिशि लोके गङ्गानदीवालुकोपमेषु लोकधातुसूपायकौशल्येन संसारसांदर्शनताम् उपादायाहं परिनिर्वृताणां बोधिसत्त्वानां महासत्त्वानां संसारस्यापरित्यागं वदामि, शून्यताम् उपलंभधातुप्रतिष्ठानताम् उपादाय निर्वाणस्यापरित्यागं वदामि.

मैत्रेय आह: अविकल्पनाया भगवन् कथं समस्तलक्षणं द्रष्टव्यम्?

भगवान् आह: यच् च मैत्रेय रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं यावद् ये च बुद्धधर्मा या च रूपस्य शून्यता या च वेदनाया या च संज्ञाया या च संस्काराणां या च विज्ञानस्य या च यावद् बुद्धधर्माणां शून्यता, तेषां च धर्माणां तस्याश् च शून्यताया या भावाभावाद्वयता या चाप्रपञ्चना इदं मैत्रेय अविकल्पनायाः समस्तलक्षणं द्रष्टव्यम्.

मैत्रेय आह: किं नु भगवन् सर्वेषां श्रावकाणाम् एकांशेनैकांशिकी निर्वाणप्रतिष्ठा भवति?

भगवान् आह: नो हीदं मैत्रेय, तत् कस्य हेतोः? हि नानाधातुको ऽयं मैत्रेय लोको ऽनेकधातुकस् तस्मिंश् च नानाधातुकेषु भूताः सत्त्वगोत्रप्रभृतय उपलभ्यन्ते, अस्ति मैत्रेय सत्त्वानां सा गोत्रजातिर् (psp_6-8:157) यादित एव प्रणीतं विशेसं प्रार्थयते प्रणीतम् एव विशेषम् अधिगच्छति, अस्ति सा गोत्रजातिर् यादित एवं हीणं विशेषं प्रार्थयते हीनम् एव विशेषम् अधिगच्छति तेनैव च संतुष्टो भवति, अस्ति सा गोत्रजातिर् यादित एव हीनविशेषं प्रार्थयते हीनम् एव विशेषम् अधिगच्छति न च तावता संतुष्टो भवति, तत उत्तरि प्रणीतं विशेषं प्रार्थयते प्रणीतम् एव विशेषम् अधिगच्छति.

मैत्रेय आह: यो भगवंस् तृतीयः सत्त्वो गोत्रभूमिः, सो ऽर्हत्त्वं प्राप्यानुत्तरां सम्यक्संबोधिम् अभिप्रार्थयमानो ऽनुपपद्यमानश् च कथं प्राप्नोत्य् उपपत्तिश् चास्य भगवता प्रतिपत्तौ च न व्याकृता?

भगवान् आह: नो ऽहं मैत्रेय कर्मक्लेशवशेन तस्योपपत्तिं प्रज्ञापयामि, अपि त्व् अचिन्त्यान् निर्वाणपारगामिनीम् अर्हतो ऽप्य् उपपत्तिं प्रज्ञापयामि.

मैत्रेय आह: आश्चर्यं भगवन् यावद् उदाराशया बोधिसत्त्वा महासत्त्वा माहात्म्याध्याशयाश् च, यत्रेदानीम् आदित एव प्रणीतं विशेषं प्रार्थयन्ति, प्रणीतम् एव विशेषम् अधिगच्छन्ति, कतमा भगवन् बोधिसत्त्वानां महासत्त्वानाम् उदाराशयता? कतमा च माहात्म्याध्याशयता?

भगवान् आह: यन् मैत्रेय बोधिसत्त्वो महासत्त्वः शक्रत्वलोकपालत्वचक्रवर्तित्वसर्वाकारलोकसंपत्तिभिर् अनर्थिनो ऽनुत्तरायां सम्यक्संबोधौ कुशलमूलं परिणामयति, तासु च निःसंगता निरवग्रहता चेयं बोधिसत्त्वानां महासत्त्वानाम् उदाराशयता. तत् पुनर् बोधिसत्त्वा महासत्त्वास् तद् असक्तिसुखम् अनवग्रहसुखं निर्वृत्तिसुखं च सर्वसत्त्वसाधारणम् इच्छन्तो ऽनुत्तरायां सम्यक्संबोधौ कुशलमूलं परिणामयन्ति, यद् उत संसारापरित्यागतया इयम् एषां माहात्म्याध्याशयता द्रष्टव्या.

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: आश्चर्याद्भुता भगवन् बोधिसत्त्वधर्माः, आश्चर्याद्भुता भगवन् बोधिसत्त्वशिक्षा, आश्चर्यान् अद्भुतान् भगवन् कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वधर्मान् अनुप्राप्तुकामेनानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम्. (psp_6-8:158)

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् ते न बुद्धैः कृता न प्रत्येकबुद्धैर् नार्हद्भिर् नानागामिभिर् न सकृदागामिभिर् न स्रोतआपन्नैर् नापि तैर् बोधिसत्त्वैर् महासत्त्वैः कृतास् तत् कुत एषां धर्माणां नानाकरणं वा व्यवस्थानं वा प्रज्ञायते? इमे नैरयिका इमे तैर्यग्योनिका इमे यामलौकिका इमे देवा इमे मानुष्याः, अनेन कर्मणा नैरयिका अनेन कर्मणा तिर्यग्योनिका अनेन कर्मणा यामलौकिका अनेन कर्मणा मनुष्याः, अनेन कर्मणा कामधातुका देवाः, अनेन कर्मणा ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः, अनेन कर्मणा परीत्ताभा अप्रमाणाभा आभास्वराभाः, अनेन कर्मणा परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः, अनेन कर्मणा अनभ्रकाः पुण्यप्रसवा वृहत्फलाः, अनेन कर्मणा अस्पृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः, अनेन कर्मणा आकाशानन्त्यायतनसमापत्तयो विज्ञानानन्त्यायतनसमापत्तय आकिञ्चन्यायतनसमापत्तयो नैवसंज्ञानासंज्ञायतनसमापत्तयः, अनेन कर्मणा स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो, ऽनेन कर्मणा बोधिसत्त्वो महासत्त्वो, ऽनेन कर्मणा तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावस्य हि भगवन् न काचित् क्रिया यया नरकं वा गच्छच्छेत्, तिर्यग्योनिं वा यमलोकं वा देवं वा मनुष्यं वा कामधातुं वा रूपधातुं वा आरूप्यधातुं वा गच्छेत्, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वा प्राप्स्यति, बोधिसत्त्वो महासत्त्वो बोधिसत्त्वमार्गे वा चरिष्यति, सर्वाकारज्ञतां वा प्राप्स्यति, यान् प्राप्य सत्त्वान् संसारात् परिमोचयिष्यति.

अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, अभावस्य हि सुभूते न कर्म न क्रिया न फलं, बालपृथग्जना हि सुभूते यावद् आर्यधर्मेष्व् अकोविदास् ते अभावस्वभावान् धर्मान् न जानन्ति, ते विपर्याससमुत्थितैर् विकल्पैर् विविधानि कर्माण्य् उपस्थापयन्ति, तेषां तादृशाम् एवात्मभावा भवन्ति, यदि वा नैरयिका यदि वा तैर्यग्योनिका यदि वा यामलौकिका यदि वा मनुष्येषु यदि वा कामधातुषु देवेषु यदि वा रूपधातुकेषु (psp_6-8:159) देवेषु यदि वा आरूप्यधातुकेषु देवेषु यावद् अभावस्य न कर्म न क्रिया न फलं, यः पुनर् अभावो ऽभाव एव सः. यत् पुनः सुभूतिर् एवम् आह: यः स्रोताअपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वो मार्गज्ञतायां चरति तथागतो वा सर्वाकारज्ञताम् अनुप्राप्नोति. तत् किं मन्यसे? सुभूते नाभावो मार्गो नाभावः स्रोतआपत्तिफलन् नाभावः सकृदागामिफलन् नाभावो ऽनागामिफलन् नाभावो ऽर्हत्त्वन् नाभावः प्रत्येकबोधिर् नाभावो यावत् सर्वाकारज्ञता.

सुभूतिर् आह: अभावो भगवन् मार्गो ऽभावः स्रोतआपत्तिफलम् अभावः सकृदागामिफलम् अभावो नागामिफलम् अभावो ऽर्हत्त्वम् अभावः प्रत्येकबोधिर् अभावो यावत् सर्वाकारज्ञता.

भगवान् आह: किं पुनः सुभूते ऽभावो धर्मो ऽभावं धर्मम् अनुप्राप्नोति?

सुभूतिर् आह: नो हीदं भगवन्.

भगवान् आह: इति हि सुभूते यश् चाभावो यश् च मार्गः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणास् तत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन ये सत्त्वाश् चतुर्भिर् विपर्यासैर् अभिनिविष्टाः पञ्चसु स्कन्धेष्व् अनित्ये नित्यसंज्ञिनो ऽनात्मन्य् आत्मसंज्ञिनो दुःखे सुखसंज्ञिनो ऽशुभे शुभसंज्ञ्मो भावेष्व् अभिनिविष्टास् तांस् तान् भावेभ्यो विवेचयति. इति चतुर्विपर्यासनिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अस्ति भगवन् अवस्तु भूतं भव्यं तथतावितथता यत्र स्थित्वा बालपृथग्जना इदं वस्त्व् इत्य् अभिनिवेशेनाभिनिविश्य भूतं भव्यं तथतावितथता कर्माभिसंकुर्वन्ति येन कर्मणा पञ्चगतिकान् संसारान् न परिमुच्यन्ते.

भगवान् आह: नास्ति सुभूते ऽन्तशो वालाग्रकोटीनिक्षेपमात्रम् अपि वस्तु यत्र स्थित्वा बालपृथग्जनाः कर्माभिसंस्कुर्वन्ति, अन्यत्र विपर्यासेन.

सुभूतिर् आह: कथं भगवन् विपर्यासेन बालपृथग्जनाः कर्माभिसंस्कुर्वन्ति? (psp_6-8:160)

भगवान् अह: तेन हि सुभूते उपमान् ते करिष्यामि, अस्यैवार्थस्य भूयस्या मात्रया प्रसिद्धये यथा पण्डिता जानीयुस्, तत् किं मन्यसे? सुभूते किञ्चित् स्वप्ने दर्शिनस् तद् वस्त्व् अस्ति यत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचरेत्.

सुभूतिर् आह: स्वप्न एव तावद् भगवन् नास्ति कुतः पुनस् तत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचरिष्यति.

भगवान् आह: तत् किं मन्यसे? सुभूते ऽस्ति स कश्चिद् धर्मो लौकिको वा लोकोत्तरो वा सास्रवो वानास्रवो वा संस्कृतो वासंस्कृतो वा यो न स्वप्नोपमः.

सुभूतिर् आह: नास्ति भगवन् स कश्चिद् धर्मः संस्कृतो वासंस्कृतो वा सास्रवो वानास्रवो वा लौकिको वा लोकोत्तरो वा यो न स्वप्नोपमः.

भगवान् आह: तत् किं मन्यसे? सुभूते कश्चित् स्वप्ने पञ्चगतिकः संसारो विद्यते?

सुभूतिर् आह: नो हीदं भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते काश्चित् स्वप्ने मार्गभावना भवति, यां मार्गभावनाम् आगम्य न संक्लिश्येत वा न व्यवदायेत वा.

सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् स्वप्नो ऽप्रज्ञप्तिको ऽप्रज्ञपनीयः सर्वपदव्यञ्जनैः.

भगवान् आह: तत् किं मन्यसे? सुभूते यदादर्शमण्डले प्रतिबिम्बो दृश्यते किञ्चित् तस्य वस्त्व् अस्ति यत् कर्माभिसंस्कुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्?

सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् प्रतिबिम्बो ऽन्यत्र बालपृथग्जनानाम् उल्लापनात् तत् कुतस् तस्य कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्.

भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.

सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् प्रतिबिम्बकस् (psp_6-8:161) तत् कुतस् तस्य मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.

भगवान् आह: तत् किं मन्यसे? सुभूते या सा प्रतिश्रुत्का नदीकुञ्जवनपर्वातकन्दराभ्यवकाशोदकप्रत्यासन्नतो निश्चरति किन् तस्याः प्रतिश्रुत्कायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्?

सुभूतिर् आह: नो भगवन् न वस्तुका सा प्रतिश्रुत्का कुतस् तस्याः कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्.

भगवान् आह: तत् किं मन्यसे? सुभूते किन् तस्याः प्रतिश्रुत्का या मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदापयेत.

सुभूतिर् आह: नो भगवन्न् अत्यन्ततया सा भगवन् प्रतिश्रुत्का नास्ति कुतस् तस्या मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत्, न व्यवदायेत्.

भगवान् आह: तत् किं मन्यसे? सुभूते या सा मरीच्याम् अनुदके उदकसंज्ञा अनदीषु वा नदीसंज्ञा अनगरेषु नगरसंज्ञा अनुद्यानेष्व् उद्यानसंज्ञा किं तस्या मरीचिसंज्ञायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्?

सुभूतिर् आह: नो भगवन्न् अत्यन्ततया भगवंस् तस्यां मरीच्याम् उदकं नास्ति नैव नदी नैव नगरन् नैवोद्यानम् अन्यत्र संज्ञाविपर्यासश् चक्षुर्मोहनतायास् तत् कुतो ऽस्याः कर्म भविष्यति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्.

भगवान् आह: तत् किं मन्यसे? सुभूते किं तस्यां विपर्यस्तायां संज्ञायां मार्गभावना भवति यां मार्गभावनाम् आगम्य न (psp_6-8:162) संक्लिश्येत न व्यवदायेत.

सुभूतिर् आह: नो भगवन् न हि विपर्यस्तायां भगवन् संज्ञायाम् अस्ति मार्गभावना यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.

भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारेण विविधा मायाभिनिर्मिता, यदि वा हस्तिकायो यदि वाश्वकायो यदि वा बलीवर्दकायो यदि वा पत्तिकायो यदि वा जनपदकायो यदि वा स्त्रीरूपं यदि वा पुरुषरूपम् अपि नु तस्या मायायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.

सुभूतिर् आह: नो भगवन् न हि मायाया भगवन् वस्त्व् अस्त्य् अन्तशो वालाग्रकोटीनिक्षेपमात्रम् अपि यत्र स्थित्वा कर्माभिसंकुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत् मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.

भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.

सुभूतिर् आह: नो भगवन् न वस्तु कस्य भगवन् धर्मस्य कुतो मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.

भगवान् आह: तत् किं मन्यसे? सुभूते यत् पुनस् तथागतनिर्मितो ऽभिनिर्मिणोत्य् अन्यन् निर्मितं किं तस्य निर्मितस्य कर्मास्ति येन कर्मणा नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.

सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् निर्मितः.

भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य निर्मितस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न वयवदायेत.

सुभूतिर् आह: नो भगवन्. (psp_6-8:163)

भगवन् अह: तत् किं मन्यसे? सुभूते कश्चिद् अत्र संक्लिश्येत वा व्यवदायेत वा.

सुभूतिर् आह: न कश्चिद् भगवन् संक्लिश्येत वा व्यवदायेत वा.

भगवान् आह: यथैव सुभूते न संक्लिश्येत वा न व्यवदायेत वा तथाइव नास्ति संक्लेशो वा व्यवदानं वा. तत् कस्य हेतोः? अहंकारममकारे हि सुभूते स्थिताः सत्त्वाः संक्लिश्यन्ते वा व्यवदायन्ते वा, यथैव भूतदर्शी न संक्लिश्यते वा न व्यवदायते वा तथाइव सुभूते नास्ति संक्लेशो वा व्यवदानं वा. इति निर्वस्तुकविपर्यासज्ञाननिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: भूतं वेति भगवन् न संक्लिश्यते न वयवदायते, अभूतं वेति भगवन् न संक्लिश्यते न व्यवदायते, तथा ह्य् अभावस्वभावाः सर्वधर्माः, अभावस्वभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावस्यापि भगवन् न संक्लेशो न व्यवदानम्, अभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावाभावस्यापि भगवन् न संक्लेशो न व्यवदानं तत्र यद् एतद् भगवता व्यवदानन् निर्दिष्टन् तत् कथम् इदं भगवन् भवति?

भगवान् आह: या एषा सुभूते सर्वधर्माणां समता तन् मयोक्तं व्यवदानम्.

सुभूतिर् आह: सा पुनः कतमा सर्वधर्माणां समता?

भगवान् आह: तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता, या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मनियामता धर्मधातुम् इदम् उच्यते व्यवदानं, तत् पुनर् लोकव्यवहारेण व्यवह्रियते न पुनः परमार्थेनानिरभिलप्यो हि सो ऽप्रव्याहारः सर्वाकारघोषवाक्यथातीतः. इति व्यवदाननिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमास् तत् कथं बोधिसत्त्वो महासत्त्वः स्वप्नोपमैः (psp_6-8:164) सर्वधर्मैः प्रतिश्रुत्कोपमैः प्रतिभासोपमैः प्रतिबिम्बोपमैर् मरीच्युपमैर् मायोपमैर् गन्धर्वनगरोपमैर् निर्मितकोपमैर् धर्मैर् अवस्तुकेष्व् अद्रव्येष्व् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति, दानपारमितापरिपूर्यै, शीलपारमितापरिपूर्यै, क्षान्तिपारमितापरिपूर्यै, वीर्यपारमितापरिपूर्यै, ध्यानपारमितापरिपूर्यै, प्रज्ञापारमितापरिपूर्यै, उपायपारमितापरिपूर्यै, प्रणिधानपारमितापरिपूर्यै, बलपारमितापरिपूर्यै, ज्ञानपारमितापरिपूर्यै, अभिज्ञापारमितापरिपूर्यै, चत्वारि ध्यानानि समापद्यते, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः परिपूरयति, चत्वारि स्मृत्युपस्थानां परिपूरयति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् परिपूरयति, पञ्चेन्द्रियाणि परिपूरयति, पञ्चबलानि परिपूरयति, सप्तबोध्यङ्गानि परिपूरयति, आर्याष्टाङ्गं मार्गं परिपूरयति, अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीः परिपूरयति, चत्वार्य् आर्यसत्यानि परिपूरयति, शून्यतानिमित्ताप्रणिहितानि समापद्यते, पञ्चाभिज्ञाः परिपूरयति, अध्यात्मशून्यतां भावयति, बहिर्धाशून्यतां भावयति, अध्यात्मबहिर्धाशून्यतां भावयति, यावद् अभावस्वभावशून्यतां भावयति, सर्वसमाधीन् सर्वधारणीमुखानि परिपूरयति, दशबोधिसत्त्वभूमीः परिपूरयति, दशतथागतबलानि परिपूरयति, चत्वारि वैशारद्यानि परिपूरयति, चतस्रः प्रतिसंविदः परिपूरयति, अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति द्वात्रिंशन्महापुरुषलक्षणानि परिपूरयत्य् अशीत्यनुव्यञ्जनानि परिपूरयति, यावत् त्रिसाहस्रे महासाहस्रे लोकधाताव् आभासकरीम् आभां परिनिष्पादयति, ब्रह्मस्वरतां परिनिष्पादयति, तत्रैकेन स्वरेण दशसु दिक्षु लोकधातुषु यथाधिमुक्तानां सत्त्वानां चेतसैव चित्तम् आज्ञाय धर्मं देशयति.

भगवान् आह: तत् किं मन्यसे? सुभूते नैते धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमाः, ये त्वया परिकीर्तिताः.

सुभूतिर् आह: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमाः, कथं भगवन् स्वप्नोपमेषु (psp_6-8:165) सर्वधर्मेषु यावन् निर्मितकोपमेषु बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरति? न च भगवन् स्वप्नो भूतो न प्रतिश्रुत्का भूता न प्रतिभासो भूतो न प्रतिबिम्बं भूतं न मरीचिर् भूता न माया भूता न गन्धर्वनगरं भूतं न निर्मितको भूतो न च भगवन् शक्यम् अभूतेन दानपारमितायां चरितुं शीलपारमितायां चरितुं क्षान्तिपारमितायां चरितुं वीर्यपारमितायां चरितुं ध्यानपारमितायां चरितुं प्रज्ञापारमितायां चरितुं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु सर्वशून्यतास्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरितुम्.

भगवान् आह: तत् किं मन्यसे? सुभूते दानपारमितानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सप्तत्रिंशद्बोधिपक्ष्यधर्माः सर्वशून्यता आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सर्वे ते सुभूते धर्मा अनभिसंस्कृता अनभिनिर्वृत्ता न शक्या अनभिसंस्कृतैर् धर्मैः सर्वाकारज्ञताम् अनुप्राप्तुम्.

अपि तु खलु पुनः सुभूते सर्व एते धर्मा मार्गस्यावाहनाय संवर्तन्ते, न पुनः फलस्याधिगमाय, य एतेषां धर्माणाम् अनुत्पादो ऽप्रादुर्भावो ऽलक्षणम् अपि तत्, अतो बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यान् कुशलान् धर्मान् नोपलभते, यदि वा दानपारमितां यदि वा शीलपारमितां यदि वा क्षान्तिपारमितां यदि वा वीर्यपारमितां यदि वा ध्यानपारमितां यदि वा प्रज्ञापारमितां यदि वा सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान्, यदि वा अध्यात्मशून्यतां यदि वा बहिर्धाशून्यतां यदि वाध्यात्मबहिर्धाशून्यतां यदि वा यावद् अभावस्वभावशून्यतां यदि वार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि यदि वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मांस् तान् सर्वान् मायोपमा इति जानाति. (psp_6-8:166)

न चेमान् धर्मान् अपरिपूर्य दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यत्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबोधिसत्त्वभूमीर् दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनान्य् अपरिपूर्य सर्वाकारवरोपेतं ज्ञानम् अपरिपूर्य सत्त्वान् अपरिपाच्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति नैतत् स्थानं विद्यते, यान् यान् एव कुशलान् धर्मान् आरभते तांस् तान् कुशलान् धर्मान् स्वप्नोपमान् प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिम्बोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् जानाति.

स प्रज्ञापारमितायां चरन् ध्यानपारमितायां चरन् वीर्यपारमितायां चरन् क्षान्तिपारमितायां चरन् शीलपारमितायां चरन् दानपारमितायां चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन्न् अध्यात्मबहिर्धाशून्यतायां चरन्, यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिषु चरन्न् अष्टविमोक्षेषु चरन् नवानुपूर्वविहारसमापत्तिषु चरन्, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरन्, पञ्चस्व् अभिज्ञासु चरन् सर्वसमाधिषु चरन् सर्वधारणीमुखेसु चरन् दशबोधिसत्त्वभूमिषु चरन् दशसु तथागतबलेषु चरन् चतुर्षु वैशारद्येषु चरन् चतसृषु प्रतिसंवित्सु चरन्न् अष्टादशावेणिकबुद्धधर्मेषु चरन् यावत् सर्वाकारवरोपेतसर्वाकारज्ञतायां चरन् स्वप्नोप्मान् जानाति, प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् जानाति, तांश् च सर्वसत्त्वान् स्वप्ने चरतः स जानाति प्रतिश्रुत्कायां प्रतिभासे प्रतिबिम्बे मरीच्यां मायायां गन्धर्वनगरे निर्मितके चरतो जानाति.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.