Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 32/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

यत्र न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादा न प्रतीत्यसमुत्पादाङ्गानि न पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न महाकरुणा न द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि न हि बोधिसत्त्वो महासत्त्वो मार्गस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽन्यत्र प्रकृतिशून्यता परिज्ञानार्थं सा च प्रकृतिशून्यता पूर्वं वा पश्चाद् वा मध्ये वा न जातु साप्रकृतिशून्यता तत्र प्रकृतिशून्यता पारमितायां स्थित्वा बोधिसत्त्वो महासत्त्वः (psp_6-8:99) सत्त्वान् सत्त्वसंज्ञिनः सत्त्वसंज्ञाया मोचनार्थं मार्गज्ञतायां चरति स मार्गज्ञतायां चरन् सर्वमार्गेषु चरन् सर्वमार्गेषु चरति, यद् उत श्रावकमार्गेषु प्रत्येकबुद्धमार्गेषु बोधिसत्त्वमार्गेषु, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं च परिशोध्यायुःसंस्कारान् अधिष्ठायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य बुद्धनेत्री नोपच्छिनत्ति यद् उत प्रकृतिशून्यता, एषा सा बुद्धानां भगवतां बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि बुद्धा भगवन्तस् तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽनागते ऽध्वनि भविष्यन्ति बुद्धा भगवन्तः

तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते एतर्हि दशदिग्लोकधातुषु बुद्धा भगवन्तः तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, नान्यत्र प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, बुद्धानां भगवतां तेषां चान्तिके तथा बोधिसत्त्वेन महासत्त्वेन प्रकृतिशून्यता पारमितायां चरितव्यं, यथा चरन् न परिहीयते सर्वाकारज्ञतायाः.

सुभूतिर् आह: आश्चर्यम् इदं भगवन् बोधिसत्त्वानां महासत्त्वानां यत्र नाम इमे प्रकृतिशून्येषु धर्मेषु चरन्ति, तां च प्रकृतिशून्यतां न विकोपयतीत्य् अन्यद् रूपम् अन्या प्रकृतिशून्यता, अन्या वेदना अन्या संज्ञा अन्ये संस्कारा, अन्यद् विज्ञानम् अन्या प्रकृतिशून्यता, अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अन्या प्रकृतिशून्यता, अन्या पारमिता अन्यानि शून्यतामुखान्य् अन्ये बोधिपक्ष्या धर्मा अन्या प्रकृतिशून्यता, अन्यान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अन्या प्रकृतिशून्यता, अन्या शून्यतानिमित्ताप्रणिहिताभिज्ञा अन्या प्रकृतिशून्यता, अन्ये दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अन्या प्रकृतिशून्यता, अन्या अनुत्तरा सम्यक्संबोधिर् अन्या प्रकृतिशून्यता, प्रकृतिशून्यतैवानुत्तरा सम्यक्संबोधिर् अनुत्तरा सम्यक्संबोधिर् एव प्रकृतिशून्यता. (psp_6-8:100)

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते ऽन्यद् रूपं स्याद् अन्या प्रकृतिशून्यता, अन्या वेदना अन्या संज्ञा अन्ये संस्कारा, अन्यद् विज्ञानम् अन्या प्रकृतिशून्यता, अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अन्या प्रकृतिशून्यता, अन्याः पारमिताः, अन्यानि शून्यतामुखानि, अन्ये बोधिपक्ष्या धर्मा, अन्ये आर्यसत्याप्रमणध्यानारूप्यसमापत्तिविमोक्षसमाधिधारणीमुखा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अन्या प्रकृतिशून्यता, अन्या अनुत्तरा सम्यक्संबोधिर् अन्या प्रकृतिशून्यता, न सुभूते रूपं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते, न वेदनां न संज्ञां न संस्कारान् न विज्ञानं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते. यस्मात् तर्हि सुभूते रूपं प्रकृतिशून्यता, वेदना संज्ञा संस्कारा, विज्ञानं प्रकृतिशून्यता, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि प्रकृतिशून्यता, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वविमोक्षाः सर्वसमापत्तयः सर्वाभिज्ञाः सर्वाणि ध्यानानि सर्वाण्य् अप्रमाणानि सर्वा आरूप्यसमापत्तयः सर्वतथागतबलानि सर्वबोधिसत्त्वभूमयश् चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रकृतिशून्यता, अनुत्तरा सम्यक्संबोधिः प्रकृतिशून्यता, तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वो रूपं सर्वाकारज्ञतायाम् अभिसंबुध्येत, वेदना संज्ञा संस्कारान्, विज्ञानं सर्वाकारज्ञतायाम् अभिसंबुध्येत, यावद् बोधिं सर्वाकारज्ञतायाम् अभिसंबुध्येत. यस्मात् सुभूते

प्रकृतिशून्यतैव रूपं रूपम् एव प्रकृतिशून्यता, वेदना संज्ञा संस्काराः, प्रकृतिसून्यतैव विज्ञानं विज्ञानम् एव प्रकृतिशून्यता, प्रकृतिशून्यतैव बोधिर् बोधिर् एव प्रकृतिशून्यता, तस्मात् सुभूते बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यान् सर्वधर्मान् विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं प्रतिष्ठेत्. तत् कस्य हेतोः? न हि तत्र कश्चिद् धर्मो विनश्यति वा कूटस्थो वा भवत्य् अवक्रामति वान्यत्र सदेवको लोकः समारकः सब्रह्मकः सश्रमणब्राह्मणिका प्रजाः, सदेवमानुषासुरा न रूपं यथाभूतं प्रजानन्ति, न वेदनान् न संज्ञान् न संस्कारान्, न विज्ञानं (psp_6-8:101) यथाभूतं प्रजानन्ति, अप्रजानन्तो रूपम् अभिनिविशन्ते, वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिनिविशन्ते ऽभिनिविश्याहंकारममकारे चरन्ति ते ऽहंकारममकाराव् अभिनिविश्याध्यात्मिकबाह्यानि वस्तूनि अभिनिविशन्त उपलभन्ते, अभिनिविश्योपलभ्य रूपं रूपत्वेन परिगृह्णन्ति, वेदनां वेदनात्वेन संज्ञां संज्ञात्वेन संस्कारान् संस्कारत्वेन, विज्ञानं विज्ञानत्वेन परिगृह्णन्ति, ते न परिमुच्यन्ते जात्या जरया मरणेन शोकेन परिदेवेन दुःखेन दौर्मनस्येन न परिमुच्यन्ते, उपायासेन न परिमुच्यते पञ्चगतिकात् संसारात्, तत्र बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतापारमितायां स्थित्वा रूपं न विकोपयति शून्यम् इति वाशून्यम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं न विकोपयति शून्यम् इति वाशून्यम् इति वा, एवं सर्वसमाधीन् सर्वधारणीमुखानि सर्वविमोक्षान्, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबोधिसत्त्वभूमीर् दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः

प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न विकोपयति शून्या इति वाशून्या इति वा. तत् कस्य हेतोः? न हि शून्यता विकोपयतीदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा, इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादा इमानि प्रतीत्यसमुत्पादाङ्गानि, इयं शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि, इमाः शून्यतानिमित्ताप्रणिहिताभिज्ञा इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा इयम् अनुत्तरा सम्यक्संबोधिः. तद्यथापि नाम सुभूते नाकाशम् आकाशं विकोपयति, अध्यात्मिकं वा बाह्यं वा न चाध्यात्मिकम् आकाशं बाह्यम् आकाशं विकोपयति, न च बाह्यम् आकाशम् आध्यात्मिकम् आकाशं विकोपयत्य्, एवं एव सुभूते न रूपं शून्यतां विकोपयति, न च शून्यता रूपं विकोपयति. तत् कस्य हेतोः? न हि तस्य स्वभावो ऽस्ति य एवं विकोपयत्य् अयं शून्यो ऽयं न शून्यः, एवं विस्तरेण सर्वधर्मेषु कर्तव्यम्.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न भेदः सर्वध्र्माणां कुतो भगवन् बोधिसत्त्वो महासत्त्वः संप्रस्थितो भवत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं? न (psp_6-8:102) हि भगवन् द्वैधीकारा बोधिर्, न द्वयचरितेन शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न द्वयचरितस्य बोधिर् न द्वैधीकारा बोधिः, अद्वया हि सुभूते बोधिर् अद्वैधीकारा, न सुभूते बोधिसत्त्वो महासत्त्वो ऽद्वैधीकारेण चरति बोधौ, नैव च बोधिसत्त्वस्य महासत्त्वस्य बोधी रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति, न स्कन्धधात्वायतनेषु चरति न प्रतीत्यसमुत्पादेषु चरति, न प्रतीत्यसमुत्पादाङ्गेषु चरति, न प्रतीत्यसमुत्पन्नेषु धर्मेषु चरति, न शून्यतासु चरति, न बोधिपक्ष्येषु धर्मेषु चरति, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, न शून्यतानिमित्ताप्रणिहिताभिज्ञासु चरति, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरति, न सम्यक्संबोधौ चरति. तत् कस्य हेतोः? न हि बोधिर् अहम् इति शब्दो रूपे चरति, वेदनायां संज्ञायां संस्कारेषु, न बोधिर् अहम् इति शब्दो विज्ञाने चरति, एवं यावन् न बोधिर् अहम् इति शब्दः सम्यक्संबोधौ चरति, न बोधिसत्त्वस्य महासत्त्वस्य सम्यक्संबोधिर् उद्ग्रहे चरति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वस्य महासत्त्वस्यानुत्तरा सम्यक्संबोधिर् नोद्ग्रहे चरति, कुत्र तर्हि बोधिसत्त्वस्य महासत्त्वस्य बोधिश् चरति?

भगवान् आह: तत् किं मन्यसे? सुभूते कुत्र तथागतनिर्मितस्य बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा.

सुभूतिर् आह: नो भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते ऽर्हतः स्वप्नान्तरगतस्य कुत्र बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा.

सुभूतिर् आह: नो भगवन्, यदा भगवन्न् अत्यन्तो ऽर्हन् न स्वपिति कुतः स्वप्ने बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा?

भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य न बोधिर् उद्ग्रहे वानुद्ग्रहे वा चरति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिर् नोद्ग्रहे वानुद्ग्रहे वा चरति न (psp_6-8:103) रूपे न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न स्कन्धधात्वायतनेषु न प्रतीत्यसमुत्पादेषु न प्रतीत्यसमुत्पादाङ्गेषु न पारमितासु न शून्यतासु न बोधिपक्ष्येषु धर्मेषु नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न शून्यतानिमित्ताप्रणिहिताभिज्ञासु न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न सर्वाकारज्ञतायां चरति. कथं पुनर् बोधिसत्त्वो महासत्त्वो दशसु बोधिसत्त्वभूमिषु चरित्वा षट्सु पारमितासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु सर्वशून्यतासु ध्यानेष्व् अप्रमाणारूप्यसमापत्तिषु विमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिष्व् आर्यसत्येष्व् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महाकरुणायां द्वात्रिंशन्महापुरुषलक्षणेष्व् अशीत्यनुव्यञ्जनेषु पञ्चस्व् अभिज्ञासु स्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् च परिशोध्य सत्त्वांश् च परिपाच्य सर्वाकारज्ञताम् अभिसंभोत्स्यते. न च भगवन्न् अस्थित्वा दशसु बोधिसत्त्वभूमिषु षट्सु पारमितासु सर्वशून्यतासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु महाकरुणायां पञ्चस्व् अभिज्ञास्व् अस्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् चापरिशोध्य सत्त्वाञ् चापरिपाच्य शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि, न शक्यापरिपूरयित्वा दशबोधिसत्त्वभूमीर् दशपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् महामैत्रीं महाकरुणां महामुदितां महोपेक्षां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अपरिपूरयित्वानुत्तरा सम्यक्संबोधिर् अभिसंबोधुं, परिपूरयित्वा पुनः सुभूते शक्या दशभूमीर् दशपारमिताः सर्वशून्यताश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र (psp_6-8:104) आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टाङ्गमार्गशून्यतानिमित्ताप्रणिहितानि त्रीणि विमोक्षमुखानि यावद् अशीत्यनुव्यञ्जनानि महामैत्री महाकरुणां महामुदितां महोपेक्षां परिपूरयित्वा सर्वाकारज्ञतानुप्राप्तुं, तत् पुनः सुभूते रूपप्रकृतौ स्थित्वा वेदना संज्ञा संस्कारा, विज्ञानप्रकृतौ स्थित्वा यावद् बोधिप्रकृतौ स्थित्वा सा च प्रकृतिर् उपशान्ता न कस्यचिद् धर्मस्योपचयं वा करोत्य् अपचयं वा करोत्य् उत्पादं वा निरोधं वा उच्छेदं वा शाश्वतं वा संक्लेशं वा व्यवदानं वा प्राप्तिं वाभिसमयं वा. इत्य् अद्वयधर्मनिवेशनकर्म

स खलु सुभूते लोकव्यवहारप्रज्ञप्तिधर्मम् उपादाय बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न पुनर् अत्र परमार्थं कश्चिद् अस्ति रूपं वा वेदना वा संज्ञा वा संस्कारा वा, विज्ञानं वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादा वा प्रतीत्यसमुत्पादाङ्गानि वा पारमिता वा शून्यता वा बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा विमोक्षमुखानि वाभिज्ञा वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा अनुत्तरा सम्यक्संबोधिर् यो वानुत्तरायां सम्यक्संबोधौ चरेत्, सर्व एते धर्मा लोकव्यवहारम् उपादाय प्रज्ञप्ता न पुनः परमार्थेन. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय बोधये चरति, न पुनस् तच् चित्तम् उपलभते न सत्त्वं न बोधिं, तत् किं मन्यसे? सुभूते यस्मिन् समये सुभूतिना क्लेशाः प्रहीना इन्द्रियाणि प्रतिलब्धानि, आनन्तर्यश् च समाधिः प्रतिलब्धः स्रोतआपत्तिफलं वा प्राप्तं सकृदागामिफलं वा प्राप्तम् अनागामिफलं वा प्राप्तं वार्हत्त्वं वा प्राप्तम्, अपि नु तस्मिन् समये स्वप्न उपलभ्यते, चित्तस्य मार्गो वा मार्गफलं वा.

सुभूतिर् आह: नो भगवन्.

भगवान् आह: तत् कथं सुभूतिनाम्ना स्थविरेण त्वयार्हत्त्वं प्राप्तम् इति प्रज्ञप्तम्?

सुभूतिर् आह: लोकव्यवहारम् उपादाय. (psp_6-8:105)

भगवान् आह: एवम् एतत् सुभूते लोकव्यवहारेण बोधिसत्त्वः प्रज्ञप्तो लोकव्यवहारेण रूपं प्रज्ञप्तं, वेदना संज्ञा संस्कारा लोकव्यवहारेण, विज्ञानं प्रज्ञप्तं लोकव्यवहारेण स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च प्रज्ञप्तानि लोकव्यवहारेण सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानरूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि प्रज्ञप्तानि लोकव्यवहारेण शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेनिकबुद्धधर्माः प्रज्ञप्ता लोकव्यवाहारेण सर्वाकारज्ञता प्रज्ञप्ता, न पुनर् बोधिसत्त्वेन महासत्त्वेन सम्यक्संबोधौ कश्चिद् धर्म उपलब्धो यस्य धर्मस्योपचयं वापचयं वा कुर्याद् उपकारं वापकारं वा कुर्याद् धर्माणां प्रकृतिम् उपादाय सापि धर्माणां प्रकृतिर् नोपलब्धा, कः पुनर् वादः प्रथमचित्तोत्पादम् उपलप्स्यते, दशबोधिसत्त्वभूमीर् दशपारमिताः सर्वशून्यताः, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् उपलप्स्यते, शून्यतानिमित्ताप्रणिहितान् समाधीन् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् उपलप्स्यते, यावत् सर्वधर्मान् उपलप्स्यते नेदं स्थानं विद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अर्थं करोति. इति सांकेतिकज्ञाननिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः सर्वपारमितासु सर्वशून्यतासु सप्तत्रिंसत्सु बोधिपक्ष्येषु धर्मेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन् बोधिमार्गञ् च परिशोध्याभव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते?

भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन दानपारमितायां चरति, न च दानम् उपलभते, न दानप्रतिग्राहकन् नाप्य् अन्यत्रैतेषु धर्मेषु चरति, (psp_6-8:106) तदा बोधिसत्त्वो महासत्त्वो उत्सहते बोधिमार्गे चरितुम्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् न च प्रज्ञाम् उपलभते, यो वा भावयेद् यद् वा भावयेत् तद् अपि नोपलभते नाप्य् अन्यत्रैतेषु धर्मेषु चरति, तदा बोधिसत्त्वो महासत्त्व उत्सहते बोधिमार्गे चरितुम्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् बुद्धधर्मान् न समनुपश्यति, यो वा भावयति यद् वा भावयति तद् अपि न समनुपश्यति, नाप्य् अन्यत्रैतेषु धर्मेषु चरति, तदा बोधिसत्त्वो महासत्त्व उत्सहते बोधिमार्गे चरितुम्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.

अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दाने योगम् आपद्यते?

एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् उपायकौशल्येन रूपं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, वेदना संज्ञा संस्कारा, विज्ञानं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि विज्ञानस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं न दानपारमिता न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता योजयति न वियोजयति. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं स्कन्धधात्वायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न सप्तत्रिंशद्बोधिपक्ष्या धर्मा नाध्यात्मशून्यता न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न यावद् अभावस्वभावशून्यता नाप्रमाणध्यानारूप्यसमापत्तयो नार्यसत्यानि (psp_6-8:107) न शून्यतानिमित्ताप्रणिहितानि न विमोक्षसमाधिसमापत्तिधारणीमुखानि नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा योजयन्ति न वियोजयन्ति. तत् कस्य हेतोः? तथा हि बुद्धधर्माणां स्वभावो नास्ति यो योजयति वा वियोजयति वा.

सारिपुत्र आह: यदि भगवन् न कस्यचिद् धर्मस्य स्वभावः संविद्यते यो योजयति वा वियोजयति वा, कथं प्रज्ञापारमिताया अभिनिर्हारो भवति, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, न ह्य् अशिक्षित्वा प्रज्ञापारमितायां शक्या बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.

भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, यथा वदसि न शक्याशिक्षित्वा प्रज्ञापारमितायां बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् अभिसंबोधुं, यदि खलूपायकौशल्येन शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य स्वभावम् उपलभते गृह्णाति. अथ न लभते, तत् किं ग्रहीष्यति, इयं प्रज्ञापारमिता इयं ध्यानपारमिता इयं वीर्यपारमिता इयं क्षान्तिपारमिता इयं शीलपारमिता इयं दानपारमिता, इदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, इमानि प्रतीत्यसमुत्पादाङ्गानि इमाः पारमिता इमाः शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि, इमाः शून्यतानिमित्ताप्रणिहिताभिज्ञाः, इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा इयम् अनुत्तरा सम्यक्संबोधिर् इति, इमान् धर्मान् बोधिसत्त्वो महासत्वो नोपलभते, तत् किं ग्रहीष्यत्य् अग्राह्या शारिपुत्र प्रज्ञापारमिता, अग्राह्या ध्यानपारमिता, अग्राह्या वीर्यपारमिता, अग्राह्या क्षान्तिपारमिता, अग्राह्या शीलपारमिता, अग्राह्या दानपारमिता, अग्राह्याः सर्वशून्यता, अग्राह्या बोधिपक्ष्या धर्मा, अग्राह्याण्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अग्राह्याः शून्यतानिमित्ताप्रणिहिताभिज्ञाः, अग्राह्या दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा, इयं शारिपुत्र प्रज्ञापारमिताग्राह्यपारमिता यद् उत प्रज्ञापारमिता, अत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं यत्र शिक्षमाणो बोधिअत्त्वो महासत्त्वः शिक्षाम् अपि न लप्स्यते, (psp_6-8:108) कुतः पुनर् बोधिं कुतः पुनः

प्रज्ञापारमितां कुतः पुनर् बोधिसत्त्वधर्मान् कुतः पुनः प्रत्येकबुद्धधर्मान् कुतः पुनः श्रावकधर्मान् कुतः पुनः पृथग्जनधर्मान्. तत् कस्य हेतोः? तथा हि शारिपुत्र न कस्यचिद् धर्मस्य स्वभावो विद्यते, एवम् अभावस्वभावानां सर्वधर्माणां कतमः पृथग्जनधर्मः कतमः स्रोतआपन्नः कतमः सकृदागामी कतमो ऽनागामी कतमो ऽर्हन् कतमः प्रत्येकबुद्धः कतमो बोधिसत्त्वः कतमः सम्यक्संबुद्धः? यदीमे पुद्गला नोपलभ्यन्ते, तदा कुत एते धर्माः प्रादुर्भविष्यन्ति, येषु धर्मेषु निर्दिश्यते पृथग्जनो वा स्रोतआपन्नो वा सकृदागामी वानागामी वार्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा सम्यक्संबुद्धो वा.

शारिपुत्र आह: अवस्तुकानां भगवन् सर्वधर्माणां कुतः आगमः प्रज्ञायते? अयं पृथग्जनो ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: किं नु शारिपुत्र रूपस्य वस्त्व् अस्ति भूतं भव्यं यथा बालपृथग्जनो ऽभिनिविष्टः.

शारिपुत्र आह: नो भगवन्, नैतत् सुगतान्यत्र विपर्यस्तश् चित्तः पृथग्जनो रूपम् इत्य् अभिनिविष्टो, वेदनायाः संज्ञायाः संस्काराणाम्.

भगवान् आह: किं नु शारिपुत्र विज्ञानस्य वस्त्व् अस्ति भूतं भव्यं यथा बालपृथग्जनो ऽभिनिविष्टः.

सारिपुत्र आह: नो भगवन्, नैतत् सुगतान्यत्र विपर्यस्तचित्तः पृथग्जनो विज्ञानम् इत्य् अभिनिविष्टः.

भगवान् आह: किं पुनः शारिपुत्र यावत् सर्वधर्माणां वस्त्व् अस्ति भूतं भव्यं यथा बालपृथक्जनो ऽभिनिविष्टः.

शारिपुत्र आह: नो भगवन् नैतत् सुगतान्यत्र विपर्यस्तचित्तः पृथग्जनो यावत् सर्वधर्मा इत्य् अभिनिविष्टः.

भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनावस्तुकान् धर्मान् पश्यन्न् (psp_6-8:109) अनुत्तरायां सम्यक्संबोधौ प्रस्थितः. इत्य् अनुपलंभज्ञाननिवेशनकर्म

एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमं भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्येनावस्तुकान् सर्वधर्मान् पश्यन्न् अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः?

एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कस्यचिद् धर्मस्य वस्तु समनुपश्यति यत्र वस्तूनि प्रतिहन्येत, यत्र प्रतिहन्यमान आलीयेत आलीयमानः संसीदेत् कौशीद्यम् आपद्येत, तस्मात् तर्हि शारिपुत्र अवस्तुका अजीवा निर्जीवा अभावस्वभावाः प्रकृतिशून्याः सर्वधर्माः, अन्यत्र समोहेन सत्त्वा अभिनिविष्टाः स्कन्धेषु वा धातुषु वा आयतनेषु वा प्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु वा तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् संपश्यमानः प्रकृतिशून्यान् स्वलक्षणशून्यान् प्रज्ञापारमितायां चरन् मायाकारसदृशम् आत्मानम् अधिष्ठाय सत्त्वानां धर्मं देशयति, ये सत्त्वा मत्सरिणस् तेषां दानकथां करोति, दुःशीलानां शीलकथां करोति, व्यापन्नचित्तानां क्षान्तिकथां करोति, कुशीदानां वीर्यकथां करोति, विक्षिप्तचित्तानां ध्यानकथां करोति, दुष्प्रज्ञानां प्रज्ञाकथां करोति, यदा ते सत्त्वा दाने प्रतिष्ठिता भवन्ति, शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां प्रतिष्ठिता भवन्ति, तदा तेषां सत्त्वानाम् अनुशासनीं कथां करोत्य् आर्यां नैर्याणिकीं, यया कथया स्रोतआपत्तिफलम् अनुप्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुवन्ति, प्रत्येकां बोधिं प्राप्नुवन्ति, सर्वाकारज्ञताम् अनुप्राप्नुवन्ति.

अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं भगवन् बोधिसत्त्वो महासत्त्व औपलंभिको ऽसंविद्यमानां सत्त्वान् दाने नियोजयति, शीले नियोजयति, क्षान्तौ नियोजयति, वीर्ये नियोजयति, ध्याने नियोजयति, प्रज्ञायां नियोजयति. उत्तरे चाचार्या नैर्याणिकीं कथां करोति, यया कथया स्रोतआपत्तिफलं प्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुवन्ति, प्रत्येकबोधिं प्राप्नुवन्ति सर्वाकारज्ञताम् अनुप्राप्नुवन्ति. (psp_6-8:110)

एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कश्चिद् उपलंभः. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चित् सत्त्वम् उपलभते ऽन्यत्र संवृत्तिसंकेतेन व्यवहरति, तच् छारिपुत्र बोधिसत्त्वो महासत्त्वो द्वाभ्यां सत्याभ्यां स्थित्वा सत्त्वानां धर्मं देशयति, न हि शारिपुत्र द्वाभ्यां सत्याभ्यां सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः, अपि तु खलूपायकौशल्येन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तत् ते सत्त्वा दृष्ट एव धर्म आत्मानं नोपलभन्ते, प्राग् एव यः प्रापयिष्यति, येन वा प्रापयिष्यति, एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति.

एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: महोत्पादो बतायं भगवन् बोधिसत्त्वो महासत्त्वो न च नाम भगवन् कस्यचिद् धर्मस्यैकत्वं वा नानात्वं वा पृथक्त्वं वा उपलभते, एवंरूपं च संनाहं संनह्यते येन संनाहेन संनह्य न कामधातौ दृश्यते, न रूपधातौ दृश्यते, नारूप्यधातौ दृश्यते, न संस्कारधातौ दृश्यते, नासंस्कृतधातौ दृश्यते, सत्त्वांश् च त्रैधातुकान् मोचयति, न च सत्त्वं सत्त्वप्रज्ञप्तिम् उपलभते, सत्त्वाप्रज्ञप्त्या सत्त्वाबन्धः सत्त्वामोक्षः सत्त्वाबन्धामोक्षाद् असंक्लेशाव्यवदानम् असंक्लेशाव्यवदानान् न गतिसंभेदः प्रज्ञायते, गत्यसंभेदतया न कर्म न संक्लेशः, अकर्मासंक्लेशस्य कुतो विपाको भविष्यति, येन विपाकेनात्मना सत्त्वाः पञ्चगतिके संसारे संदृश्येरन्.

एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवम् एतच् छारिपुत्रैवम् एतद् यथा वाचं भाषसे, सचेत् पूर्वं सत्त्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, बोधिसत्त्वो ऽपि तथागतो ऽपि पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, पञ्चगतिको वा संसारः पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, यस्मात् तर्हि शारिपुत्रोत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव एषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतानन्यतथता, तत्र नात्मा न सत्त्वो न जीवो न जन्तुर् (psp_6-8:111) न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः, तत् कुतो रूपं भविष्यति, कुतो वेदना कुतः संज्ञा कुतः संस्काराः, कुतो विज्ञानम् इति भविष्यति, कुतः स्कन्धधात्वायतनानि कुतः प्रतीत्यसमुत्पादः कुतः प्रतीत्यसमुत्पन्नधर्माः कुतः प्रतीत्यसमुत्पादाङ्गानि भविष्यन्त्य्, असताम् एषां धर्माणां कुतः पञ्चगतिकः संसारो भविष्यति, यतः सत्त्वाः परिमोचयितव्याः स्युर् यस्मात् तर्हि शारिपुत्र इमे धर्मा ईदृशाः स्वभावशून्यास् तद् बोधिसत्त्वो महासत्त्वः पूर्वकाणां बुद्धानां भगवताम् अन्तिकाच् छ्रुत्वानुत्तरायां सम्यक्संबोधौ संप्रस्थितो, न चात्र कश्चिद् धर्मस्वभावो यम् उपलभते यो वा शक्यो ऽधिमोक्तुं, यत्र बालपृथग्जना अभिनिविष्टा अन्यत्र विपर्यासे, तद् बोधिसत्त्वो महासत्त्वः संनाहं संनह्यते येन संनाहेन संनह्य न प्रत्युदावर्तते ऽनुत्तरायां सम्यक्संबोधौ, मया नाभिसंबोद्धव्यानुत्तरा सम्यक्संबोधिर्, अभिसंबोधव्यैवानुत्तरा सम्यक्संबोधिर्, अभिसंबुध्य च धर्मेणार्थं करिष्यामि, येनार्थेन सत्त्वान् विपर्यासात् परिमोचयिष्यामि, तद्यथापि नाम शारिपुत्र मायाकारनिर्मितः पुरुषो बहूनि प्राणिकोटिनियुतशतसहस्राण्य् अभिनिर्मिमीते, अभिनिर्माय प्रभूतेन खादनीयभोजनीयस्वादनीयेन संतर्प्ययेत्, संतर्प्यैवम् उदानम् उदानयेद् बहु मे पुण्यं प्रसूतम् इति. तत् किं मन्यसे? शारिपुत्रापि नु तत्र कश्चिद् भोजितो वा संतर्पितो वा भवेत्.

शारिपुत्र आह: नो भगवन्.

भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेष्व् ऋद्धिपादेषु पञ्चेन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेष्व् अष्टसु विमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिषु पञ्चस्व् अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु दशसु बोधिसत्त्वभूमिषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु (psp_6-8:112) अष्टादशस्व् आवेणिकबुद्धधर्मेषु महामैत्र्यां महाकरुणायाञ् चरन् बोधिमार्गां च परिपूरयति बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति न च कञ्चित् सत्त्वम् उपलभते यम् उपलभ्य विनयेत्. इति सत्त्वपरिपाकनिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यत्र बोधिसत्त्वेन महासत्त्वेन चरता सत्त्वाः परिपाचयितव्याः, बुद्धक्षेत्रं च परिशोधयितव्यम्?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्, अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् अध्यात्मबहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपथानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् शून्यतानिमित्ताप्रणिहिताभिज्ञासु चरन् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् सत्त्वान् परिपाचयति बुद्धक्षेत्रं च परिशोधयति.

सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति सत्त्वेभ्यो दानं दत्वा एवम् अववदति, इह कुलपुत्रा मा दानम् आग्रहणतो ग्रहीष्यथ, मा दानाग्रहणगृहीतेनात्मभावम् अभिनिवर्तयिष्यथ, येनात्मभावेनाभिनिवर्तितेन बहूनि दुष्खानि प्रत्यनुभविष्यथ, नेह कुलपुत्रा परमार्थेन दानं न दानपतिर् न प्रतिग्राहकः, सर्व एते त्रयो धर्माः शून्या, न च प्रकृतिशून्या धर्मान् गृह्णन्त्य् अग्राह्या शून्यता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वेभ्यो दानं ददाति, न चात्र दानम् उपलभते न दानपतिं न प्रतिग्राहकम् अनुपलंभपारमितैषा (psp_6-8:113) यद् उत दानपारमिता, स दानदातृप्रतिग्राहकान् अनुपलंभमानः सत्त्वान् स्रोतआपत्तिफले नियोजयति, सकृदागामिफले नियोजयत्य् अनागामिफले नियोयति, अर्हत्त्वे नियोजयति, प्रत्येकायां बोधौ नियोजयति, अनुत्तरायां सम्यक्संबोधौ नियोजयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति, स आत्मना च दानं ददाति, परांश् च दाने समादापयति, दानस्य च वर्णं भाषते ये ऽपि चान्ये दानं ददाति, तेषां च वर्णवादी भवति समनुज्ञः, तद् बोधिसत्त्वो महासत्त्व एवंरूपं दानं दत्वा क्षत्रियमहाशालकुलानां वा सहव्रतायोपपद्यते, ब्राह्मणमहाशालकुलानां वा सहव्रतायोपपद्यते, गृहपतिमहाशालकुलानां वा सहव्रतायोपपद्यते, कोट्टराजो वा भवति, चक्रवर्तिराज्यं वा प्रतिलभते, स तत्र सत्त्वांश् चतुर्भिः संग्रहवस्तुभिः संगृह्णाति, कतमैश् चतुर्भिर्? दानेन प्रियवद्यतया, अर्थचर्यया समानार्थतया च. एवं तान्

सत्त्वान् दानेन संगृह्यानुपूर्वेण शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां प्रतिष्ठापयति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तबोध्यङ्गेष्व् आर्याष्टाङ्गेषु मार्गेषु प्रतिष्ठापयति, शून्यतानिमित्ताप्रणिहितेषु सम्यक्नियामम् अवक्रामयति, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् अनुप्रापयति, प्रत्येकां बोधिम् अनुप्रापयत्य् अनुत्तरायां सम्यक्संबोधौ समादापयति, हंहो पुरुषा अभिसंबुद्ध्यध्वम् अनुत्तरां सम्यक्संबोधिं, तत्र न कश्चिद् धर्मः स्वभावेन संविद्यते, यत्र सत्त्वा अन्यत्र विपर्यासेन नावबुध्यन्ते, तस्मात् सर्वविपर्यासान् मा ग्रहीष्यथ, आत्मानं मोचयथ संसारात्, परांश् च मोचयिष्यथ, एवं यूयम् आत्मनश् च महान्तम् अर्थं करिष्यथ, परांश् च महत्य् अर्थे नियोजयिष्यथ. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरन् प्रथमचित्तोत्पादम् उपादाय न जातु दुर्गतिं पतति, न जातु चक्रवर्तिराज्यन् न कारयति. तत् कस्य हेतोः? यादृशं हि वीजं तादृशं फलं भवति, तस्य चक्रवर्तिनो यदा याचनका आगच्छन्ति तदा तस्य चक्रवर्तिनो राज्ञ एवं भवति, येषां मया कृतशश् चक्रवर्तिफलं परिगृहीतं नान्यत्र सत्त्वानाम् (psp_6-8:114) अर्थाय, तद् एतद् युष्माकम् एव दत्तं भवतु, तस्म्द् अत्र न मयानेन चक्रवर्तिराज्येनार्थः प्राग् एवान्ये नान्यत्र सत्त्वानाम् अर्थाय संसार उपात्तः स करुणायमानो महाकरुणां परिपूरयति, यावन् महाकरुणां परिपूरयित्वा सत्त्वानाम् अर्थं करोति, ते च

सत्त्वा नोपलभ्यन्ते ये परिनिष्पन्नाः स्युर् इत्य् अन्यत्र संज्ञानाम् असंकेतं व्यवहार इति, स च व्यवहारः प्रतिश्रुत्कोपमो ऽप्रव्याहारो वेदितव्यः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरतो न किंचित् सत्त्वानाम् अन्तिके ऽपरित्यक्षं भवति, अन्तश आत्ममांसान्य् अपि, प्राग् एव बाह्यान्य् उपकरणानि, यैर् उपकरणैः सत्त्वाः संसारात् परिमोचयितव्याः, तानि पुनः कतमान्य् उपकरणानि यद् उत दानपारमितोपकरणं, शीलपारमितोपकरणं क्षान्तिपारमितोपकरणं वीर्यपारमितोपकरणं ध्यानपारमितोपकरणं प्रज्ञापारमितोपकरणम्, अध्यात्मशून्यतोपकरणं बहिर्धाशुन्यतोपकरणम्, अध्यात्मबहिर्धाशून्यतोपकरणं यावद् अभावस्वभावशून्यतोपकरणं, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा उपकरणम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् उपकरणं शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा उपकरणम्, इमानि तान्य् उपकरणानि यैर् उपकरणैर् उपगृहीताः सत्त्वाः संसारात् परिमोक्ष्यन्ते.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सर्वस्या दानं ददद् एवं वाचं भाषेत्, अहं भो यूयं कुलपुत्राः शीलं रक्षताहं युष्माकम् अवैकल्यं करिष्याम्य् अन्नेन वा पानेन वा वस्त्रेण वा शयनासनैर् वा यानैर् वा हिरण्यसुवर्णमनिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडैर् वा, पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरैर् वा, ग्लानप्रत्ययभैषज्यपरिष्कारैर् वा यावद् अन्यतरैर् वा मानुष्यकैः परिष्कारोपकरणैर्, येन यूयं वैकल्पेन दौःशील्यं कुरुथ, तद् अहं युष्माकम् अवैकल्यं करिष्याम्य् अन्नादिना वा सप्तभिर् वा रत्नैर्, यद् वाकाङ्क्षथ तत् सर्वं परिप्रापयिष्यामि, तद् यूयं संवरशीले स्थित्वानुपूर्वेण दुष्खस्यान्तं करिष्यथ त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा (psp_6-8:115) महायानेन वा.

कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् क्षान्तिसौरत्ये नियोजयति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वा ये कुप्यन्ति वा व्यापद्यन्ते वा तेषां सत्त्वानाम् एवं वाचं भाषेत, केन यूयं कारणेन कुलपुत्रा व्यापद्यध्वे दोषम् उत्पादयथ? तद् अहं यूष्माकं सर्वं परिप्रापयिष्यामि, यस्यार्थेन कुप्यथ व्यापद्यथ तत् ममान्तिकाद् गृह्णीथ, तेन भगवताम् अवैकल्यं करिष्याम्य् अन्नेन वा पानेन वा वस्त्रेण वा शयनासनैर् वा पुष्पधूपगन्धमाल्यविलेपनचूर्णैर् वा हिरण्यसुवर्णरजतशङ्खशिलाप्रवालैर् वा विविधैर् वा मणिरत्नैर् वा यावद् अन्यतरान्यतरैर् वा मानुष्योपकरणपरिष्कारैर् येन यूयं न कुप्यथ व्यापद्यध्वे. तद् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् क्षान्तिसौरत्ये नियोजयति, नैवात्र कश्चिद् भावो ऽस्ति यः भावो येन युष्माकं क्रोध उपजायत अभूतसंकल्प एष क्रोधो नैतस्य किंचिद् वस्त्व् अस्ति यस्य यूयं वस्तुनः कृतशो ऽभिसज्जथ कुप्यथ व्यापद्यध्वे ऽभिषज्य कुपित्वा व्यापद्य दण्डेन वा शस्त्रेण वा प्रहरथान्यमन्यं वा जीविताद् व्यपरोपयथ, तद् यूयम् असद्भूतसंकल्पितक्षुभिता नरकं वा प्रपतिष्यथ तिर्यग्योनिं वा यमलोकं वा प्रपतिष्यथ, या अप्य् अन्याः काश्चिद् गतयस् तासु च दुःखां वेदनां वेदयिष्यथ, हंभो पुरुषा मावस्तुकानां धर्माणां कृतशः तत् कर्म परिगृह्णीत येन परिगृहीतेन मनुष्यप्रतिलाभो न भविष्यति, प्राग् एव बुद्धोत्पादो दुर्लभः. स खलु पुनर् भो पुरुषो दुर्लभो बुद्धोत्पादो दुर्लभो मनुष्यलाभो दुर्लभः क्षणसंपद् दुर्लभः संसारां मोक्षः, मा इमं क्षणं विरागयिष्यथ मा विचिकित्सा भविष्यथ क्षणप्राप्ताः. ततो बोधिसत्त्वो महासत्त्व आत्मना च क्षान्त्या संपादयाति, परांश् च क्षान्तिसौरत्ये नियोजयति, क्षान्तेश् च वर्णं भाषते, ये ऽपि चान्ये क्षान्तिं भावयन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः, ततस् तान् सत्त्वान् क्षान्त्यां नियोजयित्वा क्षान्त्यां स्थापयित्वानुपूर्वेण त्रिभिर् यानैः (psp_6-8:116) परिनिर्वापयति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिसौरत्ये सत्त्वान् नियोजयति.

कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन्, सत्त्वां वीर्यपारमितायां नियोजयति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् कुशीदान् हीनवीर्यान् अलसान् विदित्वा एवम् अववदति, कस्य यूयं कृतशः कौशीद्यम् आपद्यध्वे? त एवम् अवोचत्, प्रत्ययवैकल्येन, तद् बोधिसत्त्वो महासत्त्वो दानपारमितायाञ् चरन् तान् सत्त्वान् एतद् अवोचत्, हम्भो पुरुषा अहं भवतां सर्वप्रत्ययान् उपसंहरिष्यामि, यदि वा दानं यदि वा शीलं यदि वा क्षान्तिं यदि वा यैर् आकारैर् यैर् लिङ्गैर् वीर्यम् आरभेध्वं तान् भवताम् उपसंहरिष्यामि, ततस् ते सत्त्वा बोधिसत्त्वस्य महासत्त्वस्य उपकरणैर् वीर्यम् आरभन्ते कायिकं वा चैतसिकं वा, तेन कायिकेन वा चैतसिकेन वा वीर्येण सर्वान् कुशलान् धर्मान् परिपूरयन्ति, यैः कुशलैर् धर्मैर् आर्यान् अनास्रवान् धर्मान् भावयन्ति, यान् भावयमाना स्रोतआपत्तिफलं प्राप्स्यन्ति सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्स्यन्ति, प्रत्येकां बोधिं प्राप्स्यन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् वीर्यपारमितायां सत्त्वान् नियोजयति.

कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान् अववदतीह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् एवम् अववदति, किम् इदं भोः सत्त्वा यूयं ध्यानन् न समापद्यध्वे? तम् एवम् आहुः, प्रत्ययवैकल्येनेति, तान् बोधिसत्त्वो महासत्त्व एतद् अवोचत्, हंभो पुरुसा अहं तान् प्रत्ययान् उपसंहरिष्यामि, यैः प्रत्ययैर् न वितर्कान् वितर्कयिष्यथ, इदम् इति वा बहिर्धेत्य् अध्यात्मेति वाध्यात्मबहिर्धेति, तद् बोधिसत्त्वो महासत्त्वस् तेषां सत्त्वानां तान् प्रत्ययान् उपसंहरति यैः प्रत्ययैर् उपसंहृतैर् न वितर्कयन्ति ततस् ते सत्त्वा वितर्केषु च्छिन्नेषु प्रथमं ध्यानं समापद्यन्ते, द्वितीयं ध्यानं समापद्यन्ते, तृतीयं ध्यानं समापद्यन्ते, चतुर्थं ध्यानं समापद्यन्ते, मैत्रीकरुणामुदितोपेक्षाः समापद्यन्ते, ते तैर् ध्यानैस् तैश् चाप्रमाणैर् यावद् (psp_6-8:117) अष्टाङ्गमार्गं भावयमाणां त्रिभिर् यानैः परिनिर्वन्ति, तत्रापरे बोधिमार्गां न परिहीयन्ते यावद् अनुत्तरायाः सम्यक्संबोधेः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान् एवम् अववदति.

कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितया परिगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् एवम् अववदति, किम् इदं भोः सत्त्वा यूयं प्रज्ञापारमितान् न भावयथ? त एवम् अवोचत्, प्रत्ययवैकल्येनेति, तान् बोधिसत्त्वो महासत्त्वः सत्त्वान् एवम् अववदति, ममोपरि पूरयम् उपकरणं गृह्णीत ममोपर्य् उपकरणं गृहीत्वा दानं ददत, शीलं रक्षत क्षान्त्या संपादयत वीर्यम् आरभध्वं ध्यानं संपादयध्वम्, इमान् आकारान् परिपूर्यैव मीमांसयत, अस्ति कश्चिद् यः प्रज्ञापरमिताभावनायाम् उपलभ्यते? आत्मा वा सत्त्वो वा जिवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो वा कारको वा वेदको वा जानको वा पश्यको वा कामधातुर् वा रूपधातुर् वा आरूप्यधातुर् वा षट्पारामिता वा सर्वशून्यता वा सप्तत्रिंशद्बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो वा शून्यतानिमित्ताप्रणिहितानि वाष्टविमोक्षा वा नवानुपूर्वविहारसमापत्तयो वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा यावद् अनुत्तरा वा सम्यक्संबोधिः, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मम् उपलभते यम् उपलभ्याभिनिविशेत सो ऽनभिनिवेशमानो न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यत्य् असमनुपश्यन् न कल्पयत्य् अयं नैरयिको ऽयं तिर्यग्योनिको ऽयं यामलौकिको ऽयम् असुरो ऽयं देवो ऽयं मनुष्यो ऽयम् अमनुष्यः, अयं शीलवान् अयं दुःशीलो अयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितायां परिगृह्णाति. (psp_6-8:118)

कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितायां स्थित्वा क्षान्तिपारमितायां स्थित्वा वीर्यपारमितायां स्थित्वा ध्यानपारमितायां स्थित्वा प्रज्ञापारमितायां स्थित्वा यावत् सप्तत्रिंशद् बोधिपक्ष्यैर् धर्मैः सत्त्वान् परिगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानाम् उपकरणम् उपनामयति यैर् उपकरणैर् उपगृहीताः सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं भावयन्ति, येन मार्गेण भावितेन यावत् संसारात् परिमुच्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैः सत्त्वान् परिगृह्णाति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा एवं सत्त्वान् परिपाचयति, एते यूयं भोः कुलपुत्रा ममान्तिकाद् अन्नं पानं यानं वस्त्रां माल्यं गन्धं विलेपनं पुष्पं धूपं चूर्णं यावत् सर्वान् मानुष्यकोपकरणपरिष्कारान् गृहीत्वा सप्तभिश् च रत्नैः सत्त्वान् अनुगृह्णीध्वं, तद् भवतां भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय, मा चैव चिन्तयिष्यथ, अस्यैषो ऽर्थो नास्माकम् इति, यद् भवता दीर्घरात्रम् एषो ऽर्थः सत्त्वानां कृतश उपार्जितस् तद् युष्माकम् एवैष सन्तक इत्य् एवं गृहीत्वा सत्त्वेभ्यो दानं ददध्वं, तेन च दानेन शीले नियोजयध्वं क्षान्त्या नियोजयध्वं वीर्ये नियोजयध्वं ध्याने नियोजयध्वं प्रज्ञायां नियोजयध्वं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयध्वं आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु नियोजयध्वं, शून्यतानिमित्ताप्रणिहितेषु नियोजयध्वं, मा चैतावता तुष्टिम् आपद्यध्वं, यावद् अनुत्तरेष्व् आर्येष्व् अनास्रवेषु धर्मेषु प्रतिष्ठापयध्वं स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबोधाव् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयध्वम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सत्त्वाः परिपाचयितव्याः, यथा परिपाचितास् त्रिभ्यो पापेभ्यो मुच्यन्ते, यावत् सर्वस्माद् एव संसारात् परिमुच्यन्ते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा क्षान्तिपारमितायां स्थित्वा वीर्यपारमितायां स्थित्वा ध्यानपारमितायां स्थित्वा प्रज्ञापारमितायां स्थित्वा सत्त्वान् परिपाचयति, एते (psp_6-8:119) यूयं भोः सत्त्वा तेषां प्रत्ययानाम् असतां

दौःशील्यम् आपद्यथ व्यापादं कौशीद्यं विक्षेपं दौष्प्रज्ञम् आपद्यध्वे तान् प्रत्ययान् युष्माकम् उपसंहरिष्यामि, अन्नं वा पानं वा वस्त्रं वा शयनासनं वा यावत् सर्वान् मानुष्यकोपकरणपरिष्कारान् स तान् सत्त्वांस् तथारूपेणानुग्रहेणानुगृह्णाति यथारूपेणानुग्रहेनानुगृहीताः समान् दशकुशलान् कर्मपथान् समादाय वर्तन्ते, अखण्डे ऽच्छिद्रे ऽशबले ऽकल्माषे ऽपरामृष्टे संवरशीले स्थित्वा षट्सु पारमितासु सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु स्थित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति.

अथ खल्व् आयुष्मतः सुभूतेर् एतद् अभवत्: कतमो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन इदृशाः संनाहाः संनद्धव्याः?

अथ खलु भगवान् आयुष्मतः सुभूतेश् चेतसैव चैतः परिवितर्कम् आज्ञायायुष्मन्तं सुभूतिम् एतद् अवोचत्: षट् पारमिताः सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सप्तत्रिंशद् बोधिपक्ष्या धर्मा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वशून्यता अष्टविमोक्षा नवानुपूर्वविहारसमापत्तय आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः सर्वधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबोधिसत्त्वभूमयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. अपि तु खलु सुभूते सर्वधर्मा अपि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, तत् किं मन्यसे? सुभूते अस्ति स कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेन न शिक्षितव्यं यत्राशिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. नास्ति सुभूते कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेनाशिक्षितव्यम् अशिक्षित्वा यत्र बोधिसत्त्वो महासत्त्वो न शक्नोति सर्वाकारज्ञताम् अनुप्राप्तुम्.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षिष्यते? न तु भगवन्न् अप्रपञ्चन् न प्रपञ्चयति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रावो वा अनास्रवो (psp_6-8:120) वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वा.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् सर्वधर्माः शून्या, यदि पुनः सुभूते सर्वधर्माः शून्या नाभविष्यन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यस्मात् सुभूते सर्वधर्माः शून्यास् तद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, अपि तु खलु सुभूते यद् एवं वदसि, यदि सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वो धर्मनानात्वं करोति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रवो वा अनास्रवो वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वेति. किं पुनः सुभूते एते सत्त्वा एवं जानन्ति सर्वधर्माः शून्या इति यदि जानीयुर् नैमां बोधिसत्त्वा महासत्त्वाः सर्वधर्मेषु शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, यस्मात् तर्हि सुभूते न जानन्ति सर्वधर्माः शून्या इति, तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वधर्माणां व्यवस्थानं कृत्वा सत्त्वानां धर्मं देशयति. इति बोधिसत्त्वमार्गनिवेशनकर्म

तत्र बोधिसत्त्वेन महासत्त्वेन बोधिमार्गे चरता प्रथमम् एवम् उपपरीक्षितव्यं, नात्र कश्चिद् धर्मो यः स्वेन भावेनोपलभ्यते ऽन्यत्राभिसंस्कारेण, तत्र खलु धर्माणां स्वभावम् उपपरीक्षेयम् अहम् उपपरीक्षमाणो न क्वचिद् धर्मे ऽभिनिवेशेय यदि वा पारमितासु यदि वा शून्यतासु यदि वा सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु यदि वा स्रोताअपत्तिफले यदि वा सकृदागामिफले यदि वानागामिफले यदि वार्हत्त्वे यदि वा प्रत्येकबोधौ यदि वानुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि स्वभावेन सर्वधर्माः शून्या न हि शून्यता शून्यतायाम् अभिनिविशते, शून्यतैव तावन् नोपलभ्यते प्राग् एव (psp_6-8:121) शून्यतायाम् अभिनिवेक्ष्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनभिनिविष्टः सर्वधर्मेषु विहरति, अत्र शिक्षायां स्थित्वा सत्त्वान् अवलोकयति, कुत्रेमे सत्त्वाश् चरन्त्य् असंग्रहे तद् बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, सुमोचना बतेमे सत्त्वा असंग्रहात्, तत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां स्थित्वा एवम् अववदति, एते यूयं भोः सत्त्वा दानं ददत ततो युष्माकम् अवैकल्यं भविष्यति भोगेषु, तेषु च भोगेषु मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं शीले ऽववदति तेन च शीलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं क्षान्तिसौरत्ये ऽववदति तया च क्षान्त्या मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं वीर्ये ऽववदति मा च तेन वीर्येण मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं ध्याने ऽववदति तेन च ध्यानेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रज्ञापारमितायाम् अववदति तया च प्रज्ञया मा

मंस्याध्वं न तत्र किंचित् सारम् अस्ति. एवं स्रोतआपत्तिफले ऽववदति तेन च स्रोतआपत्तिफलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं सकृदागामिफले ऽनागामिफले, एवम् अर्हत्त्वे ऽववदति तेन चार्हत्त्वेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रत्येकबोधाव् अववदति तया च प्रत्येकबोध्या मा मंस्यध्वम्. एवं बुद्धधर्मेष्व् अववदति तैश् च बुद्धधर्मैर् मा मंस्यध्वं न तेषु किंचित् सारम् अस्ति. स एवम् अववदन् बोधिमार्गे चरति, न क्वचिद् धर्मे ऽभिनिविशते. तत् कस्य हेतोः? अनभिनिविष्टाश् च सर्वधर्मास् तथा ह्य् एषां स्वभावो नास्ति ये नाभिनिविशेत शून्यतास्वभावताम् उपादाय. तत् सुभूते बोधिसत्त्वो महासत्त्वो मार्गे चरन् न क्वचित् प्रतिष्ठते सो ऽप्रतिष्ठानयोगेन दानपारमितायां चरति तत्र च न प्रतिष्ठते, शीलपारमितायां चरति तत्र च न प्रतिष्ठते, क्षान्तिपारमितायां चरति तत्र च न प्रतिष्ठते, वीर्यपारमितायां चरति तत्र च न प्रतिष्ठते, ध्यानपारमितायां चरति तत्र च न प्रतिष्ठते, प्रज्ञापारमितायां चरति तत्र च न प्रतिष्ठते, स प्रथमं ध्यानं समापद्यते तत्र च न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि ध्यानं स्वभावेन शून्यं यद् अपि समापद्यते तद् अपि शून्यं यैर् आकारैः समापद्यते ते ऽप्य् आकाराः शून्याः, एवं (psp_6-8:122) द्वितीयं ध्यानं समापद्यते, एवं तृतीयं ध्यानं समपद्यते, एवं चतुर्थं ध्यानं समापद्यते, एवं मैत्रीकरुणामुदितोपेक्षा एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिंचन्यायतनं नैवसंज्ञानासंज्ञायतनं समापद्यते, एवम् अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीर्, एवं

शून्यतानिमित्ताप्रणिहितानि समापद्यते, स्रोतआपत्तिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, सकृदागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, अनागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, ऽर्हत्त्वं च प्रतिलभते न च तत्र प्रतिष्ठते, प्रत्येकबुद्धभूमिञ् च प्रतिलभते न च तत्र प्रतिष्ठते.

सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वो महासत्त्वो न प्रतिष्ठते?

भगवान् आह: द्वाभ्यां कारणाभ्यां सुभूते न प्रतिष्ठते. कतमाभ्यां द्वाभ्याम्? स्वभावश् च तेषां फलं नास्ति यत्र प्रतिष्ठेत येन वा प्रतिष्ठेत यो वा प्रतिष्ठेत, न च तावन्मात्रकेन तुष्टिम् आपद्यते, न च मया स्रोतआपत्तिफलं न प्राप्तव्यं प्राप्तव्यं मया स्रोतआपत्तिफलं न च तत्र स्थातव्यम्, एवं सकृदागामिफलम् अनागामिफलं, न च मयार्हत्त्वं न प्राप्तव्यं प्राप्तव्यं मयार्हत्त्वं न च तत्र स्थातव्यं, न च मया प्रत्येकबुद्धभूमिं न प्राप्तव्या प्राप्तव्या मया प्रत्येकबुद्धभूमिर् न च तत्र स्थातव्यं, यद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यति, द्वाभ्यां कारणाभ्यां न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय नान्यत्र चित्तं प्रतिलब्धम् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रथमाम् अपि भूमिम् उपादाय वर्तमानो ऽन्यत्र न किंचिच् चित्तम् उत्पादयत्य् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. एवं यावद् दशमीं भूमिम् उपादाय वर्तमानो नान्यत्र किंचिच् चित्तम् उत्पादयत्य् अनुत्तरायाः सम्यक्संबोधेः, यावद् बोधिसत्त्वन्यामम् अवक्रान्तेर् नान्यत्र किंचिच् चित्तम् उत्पादितम् अन्यत्रानुत्तरायाः सम्यक्संबोधेर् अतृप्तमानसः. स सुभूते बोधिसत्त्वो महासत्त्वो यावद् एव कायेन (psp_6-8:123) वा पराक्रमते वाचा वा मनसा वा पराक्रमते, नान्यत्र बोधिचित्तात् तद् बोधिसत्त्वो महासत्त्वो बोधिचित्ते स्थित्वाविक्षिप्तमानसो बोधिमार्गम् उत्पादयति.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा अनुत्पन्नाः कथं बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्मा अनुत्पन्नास् तत् पुनः कथं येनाभिसंस्कुर्वन्ति, तेषां सर्वधर्मा अनुत्पन्नाः?

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न पुनर् भगवन्न् अनुत्पादाद् वा तथागतानाम् उत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता, ये पुनर् इमां धर्मस्थितितान् न जानन्ति तेषाम् अर्थाय बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति येन मार्गेण सत्त्वान् मोचयति संसारात्. इति सर्वाभिनिवेशप्रहाणनिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अनुत्पन्नेन मार्गेण बोधिः प्राप्यते उताहो उत्पन्नेन?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन् नानुत्पन्नेन चोत्पन्नेन मार्गेण बोधिः प्राप्यते?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन् नैव नानुत्पन्नेन नैव नोत्पन्नेन मार्गेण बोधिः प्राप्यते? भगवान् आह: न सुभूते.

सुभूतिर् आह: तत् कथं पुनर् भगवन् बोधिः प्राप्यते?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते मार्गेण बोधिः प्राप्यते नामार्गेण, बोधिर् एव सुभूते मार्गः, मार्ग एव बोधिः. (psp_6-8:124)

एवम् उक्ते आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिर् एव मार्गो मार्ग एव बोधिर् अनुप्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिस्, तत् कथं तथागतो ऽर्हन् सम्यक्संबुद्धो निर्दिश्यते? द्वात्रिंशन्महापुरुषलक्षणैर् अशीत्यनुव्यञ्जनैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिश् चतुर्भिर् अप्रमाणैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैश् चतुर्भिर् आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैः पञ्चभिर् अभिज्ञाभिर् अष्टविमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः सर्वधारणीमुखैर् दशभिर् बोधिसत्त्वभूमिभिर् दशभिः पारमिताभिर् विंशतिभिः शून्यताभिर् अष्टादशभिर् आवेणिकबुद्धधर्मैः.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते बुद्धो बोधिं प्राप्यति बुद्ध एव बोधिर् एव बुद्धः.

सुभूतिर् आह: न भगवन्.

भगवान् आह: यत् पुनः सुभूतिर् एवं वदत्य्, अनुप्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिर् इति. इह सुभूते यदा बोधिसत्त्वो महासत्त्वः षट्पारमिताः परिपूर्य सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् सर्वशून्यताश् चत्वार्य् आर्यसत्यानि शून्यतानिमित्ताप्रणिहितानि, अप्रमाणध्यानारूप्यसमाधिसमापत्तीर् अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञाः सर्वसमाधिधारणीमुखानि दशबोधिसत्त्वभूमीर् दशतथागतबलां वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य वज्रोपमे समाधौ स्थित्वैकचित्तक्सणसमायुक्तया प्रज्ञयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते तदा तथागत इति निर्दिश्यते सर्वधर्मान् जानीत इत्य् अतः सर्वदर्शिं सर्वज्ञ इत्य् अभिधीयते. इति सम्यक्संबोधिप्राप्तिनिर्वेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय कायदौःशील्यं (psp_6-8:125) वाग्दौःशील्यं मनोदौःसील्यम् आत्मनश् च परस्य च विशोधयति यैः परिशुधैः बुद्धक्षेत्रं परिशोधयति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् कायदौःशील्यं बोधिसत्त्वस्य महासत्त्वस्य वाग्दौःशील्यं मनोदौःशील्यम्?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् कायकर्माकुशली प्राणातिपाते वर्तते, अदत्तादाने वर्तते, काममिथ्याचारे वर्तते, इदम् उच्यते कायदौःशील्यं, यद् वाक्कर्माकुशलं मृषावादे वर्तते, पिशुनवचने वर्तते, पारुष्ये वर्तते, अबद्धप्रलापे वर्तते, इदम् उच्यते वाग्दौःशील्यं, यन् मनस्कर्माकुशलम् अभिध्यायां वर्तते, व्यापादे च वर्तते, मिथ्यादृष्टौ वर्तते, इदम् उच्यते मनोदौःशील्यम्.

पुनर् अपरं सुभूते यत् मात्सर्यचित्तम् इदं मनोदौःशील्यं बोधिसत्त्वस्य महासत्त्वस्य यद् दौःशील्यचित्तं क्षोभचित्तं कौशीद्यचित्तं विक्षेपचित्तम् असमाहितचित्तं दौष्प्रज्ञचित्तम् इदम् अपि दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य.

पुनर् अपरं सुभूते यच् छीलम् अपरिशुद्धम् इदम् अप्य् अपरिशुद्धं दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य.

पुनर् अपरं सुभूते चतुर्भिः स्मृत्युपस्थानैर् विरहितश् चतुर्भिः सम्यक्प्रहाणैः चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतासमाधिनानिमित्तसमाधिनाप्रणिहितसमाधिना विरहित इदम् अपि दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य.

पुनर् अपरं सुभूते यच् छ्रोतआपत्तिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यत् सकृदागामिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यद् अनागामिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यद् अर्हत्त्वसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. प्रत्येकबोधिसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. (psp_6-8:126)

पुनर् अपरं सुभूते रूपसंज्ञा दौष्ठुल्यं, वेदनासंज्ञा संज्ञासंज्ञा संस्कारसंज्ञा विज्ञानसंज्ञा दौष्ठुल्यं, चक्षुःसंज्ञा दौष्ठुल्यं, श्रोत्रसंज्ञा घ्राणसंज्ञा जिह्वासंज्ञा कायसंज्ञा मनःसंज्ञा दौष्ठुल्यं, रूपसंज्ञा दौष्ठुल्यं, शब्दसंज्ञा गन्धसंज्ञा रससंज्ञा स्प्रष्टव्यसंज्ञा धर्मसंज्ञा दौष्ठुल्यं, चक्षुर्विज्ञानसंज्ञा दौष्ठुल्यं, श्रोत्रविज्ञानसंज्ञा घ्राणविज्ञानसंज्ञा जिह्वाविज्ञानसंज्ञा कायविज्ञानसंज्ञा मनोविज्ञानसंज्ञा दौष्ठुल्यं, चक्षुःसंस्पर्शसंज्ञा दौष्ठुल्यं, श्रोत्रसंस्पर्शसंज्ञा घ्राणसंस्पर्शसंज्ञा जिह्वासंस्पर्शसंज्ञा कायसंस्पर्शसंज्ञा मनःसंस्पर्शसंज्ञा दौष्ठुल्यं, चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञा दौष्ठुल्यं, श्रोत्रसंस्पर्शप्रत्ययवेदनासंज्ञा घ्राणसंस्पर्शप्रत्ययवेदनासंज्ञा जिह्वासंस्पर्शप्रत्ययवेदनासंज्ञा कायसंस्पर्शप्रत्ययवेदनासंज्ञा, मनःसंस्पर्शप्रत्ययवेदनासंज्ञा दौष्ठुल्यं, पृथिवीधातुसंज्ञा दौष्ठुल्यम्, अब्धातुसंज्ञा तेजोधातुसंज्ञा, वायुधातुसंज्ञा, आकाशधातुसंज्ञा विज्ञानधातुसंज्ञा दौष्ठुल्यं, स्कन्धसंज्ञा दौष्ठुलयं, धातुसंज्ञा दौष्ठुल्यम्, आयतनसंज्ञा दौष्ठुल्यं प्रतीत्यसमुत्पादसंज्ञा दौष्ठुल्यं, प्रतीत्यसमुत्पन्नधर्मसंज्ञा दौष्ठुल्यं, प्रतीत्यसमुत्पादाङ्गसंज्ञा दौष्ठुल्यम्, अविद्यासंज्ञा दौष्ठुल्यं, संस्कारसंज्ञा विज्ञानसंज्ञा नामरूपसंज्ञा षडायतनसंज्ञा स्पर्शसंज्ञा वेदनासंज्ञा तृष्णासंज्ञा उपादानसंज्ञा भवसंज्ञा जातिसंज्ञा जरामरणसंज्ञा शोकपरिदेवदुष्खदौर्मनस्योपायाससंज्ञा दौष्ठुल्यं, स्त्रीसंज्ञा पुरुषसंज्ञा कामधातुसंज्ञा रूपधातुसंज्ञा आरूप्यधातुसंज्ञा दौष्ठुल्यं,

कुशलसंज्ञा अकुशलसंज्ञा लौकिकसंज्ञा लोकोत्तरसंज्ञा सास्रवसंज्ञा अनास्रवसंज्ञा संस्कृतसंज्ञा असंस्कृतसंज्ञा दौष्ठुल्यम्, इदं कायदौष्ठुल्यं वाग्दौष्ठुल्यं मनोदौष्ठुल्यं, तद् विवर्ज्यात्मना च दानां ददाति, परांश् च दाने समादापयति, अन्नम् अन्नार्थिकानां पानं पानार्थिकानां वस्त्रं वस्त्रार्थिकानां यावद् अन्यतरान्यतरान् मानुष्यकान् सर्वोपकरणपरिष्कारान् ददाति, परांश् चान्यतरान्यतरेषु मानुष्यकेषु (psp_6-8:127) सर्वोपकरणपरिष्कारेषु समादापयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रं परिशुद्धये परिणामयति, आत्मना च शीलं रक्षति परांश् च शीले समादापयति, आत्मना च क्षान्त्या संपादयति परांश् च क्षान्तौ समादापयति, आत्मना च वीर्यम् आरभते परांश् च वीर्ये समादापयति, आत्मना च ध्यानं समापद्यते परांश् च ध्याने समादपयति, आत्मना च प्रज्ञां भावयति, परांश् च प्रज्ञायां समादापयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रपरिशुद्धये परिणामयति, आत्मना च त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णे कृत्वा त्रिषु रत्नेषु दानं ददाति तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे सप्तरत्नम् अयं बुद्धक्षेत्रं भवतु.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यानि वाद्यानि वादयति बुद्धेषु वा बुद्धचैत्येषु वा, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति तस्यैवं भवत्य् अनेन कुशलमूलेन मे दिव्याः शब्दा मनोरमाः श्रोत्रसुखा सततसमितं वाद्या भवन्तु बुद्धक्षेत्रे.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यैर् गन्धैस् त्रिसाहस्रमहासाहस्रं लोकधातुं परिपूरयित्वा बुद्धेषु वा बुद्धचैत्येषु वा ददाति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे दिव्या गन्धा घ्राणसुखा मनोरमा भवन्तु बुद्धक्षेत्रे.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शतरसानि भोजनानि तथागतेषु वा ददाति, तथागतश्रावकेषु वा तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन बुद्धक्षेत्रे मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य श्रावकसंघस्य शतरसानि भोजनानि संपद्येरन्.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यान्य् उपलेपनानि ददाति, तथागतेषु वा तथागतश्रावकेषु वा तथागतचैत्येषु वा, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे बुद्धक्षेत्रे दिव्यानि स्प्रष्टव्यानि कायसुखानि मनोनुकूलानि (psp_6-8:128) संपद्येरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सर्वसत्त्वानाम्.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः संकल्पैर् आत्मना च सर्वसत्त्वैश् च सार्धं पञ्चकामगुणान् बुद्धेषु वा बुद्धश्रावकेषु वा सर्वसत्त्वेषु वोपनामयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य मे सर्वश्रावकसंघस्य सर्वसत्त्वानां च मनोरमाः पञ्चकामगुणाः स्युर् इति. एवं सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, यं नूनम् अहम् आत्मना च प्रथमं ध्यानं समापद्ये सर्वसत्त्वांश् च प्रथमे ध्याने निवेशयेयम्, एवं द्वितीये तृतीये ध्याने, आत्मना च चतुर्थं ध्यानं समापद्ये सर्वसत्त्वांश् च चतुर्थे ध्याने निवेशयेयम्, आत्मना च मैत्रीं भावयेयं, सर्वसत्त्वांश् च मैत्रीभावनायां निवेशयेयम्, एवं करुणामुदिताम् आत्मना चोपेक्षां भावयेयं सर्वसत्त्वां चोपेक्षाभावनायां निवेशयेयम्, आत्मना चाकाशानन्त्यायतनसमापत्तिं समापद्ये सर्वसत्त्वांश् चाकाशानन्त्यायतनसमापत्तौ प्रतिष्ठापयेयं, विज्ञानानन्त्यायतनसमापत्तिम् आकिञ्चन्यायतनसमापत्तिम्, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्ये सर्वसत्त्वांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ प्रतिष्ठापयेयम्, आत्मना च स्मृत्युपस्थानानि भावयेयं सर्वसत्त्वांश् च स्मृत्युपस्थानभावनायां प्रतिष्ठापयेयम्, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य्, आत्मना चार्याष्टाङ्गमार्गं भावयेयं सर्वसत्त्वांश् चार्याष्टाङ्गमार्गभावनायां प्रतिष्ठापयेयम्, आत्मना च शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि भावयेयं सर्वसत्त्वांश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखभावनायां प्रतिष्ठापयेयं, तस्य ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, सर्वसत्त्वा एवं चतुर्भिर् ध्यानैर् अविरहिता भावेयुश् चतसृभिर् आरूप्यसमापत्तिभिर् अविरहिता भावेयुश् चतुर्भिर् ब्राह्मैर् विहारैर् अविरहिता भवेयुः, सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् अविरहिता (psp_6-8:129) भवेयुः, शून्यतानिमित्ताप्रणिहितैर् विमोक्षमुखैर् अविरहिता भवेयुर् इत्य्, एवं खलु

सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, स तावद् बोधौ चरति यावद् इमे सर्वाभिप्रायाः परिपूर्णा भवन्ति, स आत्मना च सर्वकुशलधर्मसमन्वागतो भवति, परांश् च सर्वकुशलधर्मसमन्वागतान् करोति, तस्य स्वभिरूपः प्रासादिको दर्शनीयो महापुरुषलक्षणविभूषित आत्मभावो भवति, ये च तेन बोओधिसत्त्वेन महासत्त्वेन सत्त्वाः परिपाचितास् तेषां च सत्त्वानां स्वभिरूपः प्रासादिको दर्शनीयो महापुरुषलक्षणविभूषित आत्मभावो भवति यद् उत पुण्यपरिग्रहाद्, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन बुद्धक्सेत्रं परिशोधयितव्यं, यथा त्रयाणाम् अपायानां प्रज्ञप्तिर् अपि न भविष्यति, सर्वदृष्टिगतानां प्रज्ञप्तिर् अपि न भविष्यति, रागदोषमोहानां प्रज्ञप्तिर् अपि न भविष्यति, यावद् द्वयस्य नामधेयम् अपि न भविष्यति, अनित्यदुष्खानात्माशुभप्रज्ञप्तिर् अपि न भविष्यति, परिग्राहकप्रज्ञप्तिर् अपि न भविष्यति, अहंकारममकारप्रज्ञप्तिर् अपि न भविष्यति, फलव्यवस्थानप्रज्ञप्तिर् अपि न भविष्यति, अन्यत्र शून्यतानिमित्ताप्रणिहितस्य समाधेर् घोषः प्रचरिष्यति, त्यागेच्छतायाः यावत् प्रज्ञेच्छतायाः सर्वेषां सत्त्वानां छन्दाद् एव वृक्षेभ्यो घोषा निश्चरिष्यन्ति वातेरितेभ्यः एवं सर्वेभ्यो ऽध्यात्मिकबाह्येभ्यो धर्मेभ्यो घोषा निश्चरिष्यन्ति, शून्यम् इति वानिमित्तम् इति वाप्रणिहितैन् इति वा शब्दो निश्चरिष्यति, अनुत्पादानिरोधानां शब्दो निश्चरिष्यति, यथैव सर्वधर्माणां नैःस्वाभाव्यं तथाइव शब्दो निश्चरिष्यति, सर्वधर्माः सर्वधर्मैः शून्या इति, यथैतेषां धर्माणां स्वभावस् तथाइव शब्दो निश्चरिष्यत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद्

वा तथागतानां सर्वधर्माः सर्वधर्मैः शून्याः, यच् छून्यन् न तत्र निमित्तम् अस्ति तद् अप्रणिहितम् एषा सैवं रूपाधर्मदेशना निश्चरिष्यति रात्रौ दिवसे वा स्थिताणां वा निषण्णानां वा शयनानां वा चङ्क्रमतां वा इदृशाः सर्वधर्मदेशना निश्चरिष्यन्ति. तत्र बुद्धक्षेत्रे यदासौ बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्यात्, तस्य खलु पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वस्य महासत्त्वस्यैव सतो ये दशदिग्लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते (psp_6-8:130) सर्वे ऽस्य वर्णं भाषिष्यन्ते, ये च तस्य वर्णं सत्त्वा श्रोष्यन्ति नामधेयं वा ते सर्वे नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोध्यौ. तस्य खलु पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न कस्यचित् सत्त्वस्य संशयो भविष्यति, अयं धर्मो ऽयन् न धर्मः. तत् कस्य हेतोः? या खलु पुनः सर्वधर्माणां धर्मता न तत्र कश्चिद् अधर्मः सर्व एव स धर्मः. तत्र ये सत्त्वा अकुशलमूलग्रस्ता वानवरोपितकुशलमूला वा बुद्धेषु वा बुद्धश्रावकेषु वा कल्याणमित्रापरिगृहीता आत्मदृष्टिम् आलीयन्ते यावत् पश्यकदृष्टिम् आलीयन्ते, अन्तेषु तिष्ठन्ति, उच्छेदे वा शाश्वते वा, आत्मना मिथ्याग्रहेण गृहीता असम्यक्संबुद्धेषु सम्यक्संबुद्धसंज्ञिन्, सम्यक्संबुद्धेषु वासम्यक्संबुद्धसंज्ञिनस् ते ऽधर्मे धर्म इति वदन्ति, ते धर्मं प्रतिक्षिपन्ति ते धर्मं प्रतिक्षिप्य कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते, तांस् ते बुद्धा भगवन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् संसारपर्यापन्नांस् ततः

पापकदृष्टिगताद् विवेचयन्ति विवेच्य नियते राशौ प्रतिष्ठापयन्ति. ते तत्र प्रतिष्ठापिता न पुनर् अपायेषूपपद्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, यस्य परिशुद्धस्य न किंचित् सत्त्वानां वैकल्यं भविष्यति लौकिकेषु वा धर्मेषु लोकोत्तरेषु वा धर्मेषु सास्रवेषु वा धर्मेष्व् अनास्रवेषु वा धर्मेषु संस्कृतेषु वासंस्कृतेषु वा धर्मेषु यावत् सर्वे नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ. इति बुद्धक्षेत्रविशुद्धिनिवेशनकर्म

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नियतः?

भगवान् आह: नियतः सुभूते बोधिसत्त्वो महासत्त्वो नियतः.

सुभूतिर् आह: कतमे राशौ नियतः श्रावकराशौ वा प्रत्येकबुद्धराशौ वा?

भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः श्रावकराशौ वा नियतः प्रत्येकबुद्धराशौ वा नियतो ऽपि तु बुद्धराशौ सुभूते बोधिसत्त्वो महासत्त्वो नियतः.

सुभूतिर् आह: किं पुनर् बोधिसत्त्वो महासत्त्वो नियतः प्रथमचित्तोत्पादिक (psp_6-8:131) उताहो ऽविनिवर्तनीयो ऽथ चरमभविकः?

भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वा नियतः चरमभविको वा नियतो ऽपि तु प्रथमचित्तोत्पादिको नियतः.

सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नियतो ऽपायेषूपपत्स्यते?

भगवान् आह: न सुभूते नियतः पतितो बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते. तत् किं मन्यसे? सुभूते अपि त्व् अष्टमको वा स्रोतआपन्नो वा सकृदागामि वा अनागामि वार्हन् वा प्रत्येकबुद्धो वा नियतो ऽपायेषूपपत्स्यन्ते.

सुभूतिर् आह: नो भगवन्.

भगवान् आह: एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि यः पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानं ददाति शीलं रक्षति क्षान्तिं संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति, मैत्रीं करुणां मुदिताम् उपेक्षां सत्त्वेषु भावयति, सर्वान् अकुशलान् धर्मान् प्रहाय तिष्ठति, सो ऽपायेषूपपत्स्यते नेदं स्थानं विद्यते, दीर्घायुष्केषु वा देवेषूपपत्स्यते नेदं स्थानं विद्यते, यत्रापचारः कुशलानां धर्माणां प्रत्यन्तेषु वा जनपदेषूपत्स्यते नेदं स्थानं विद्यते, मिथ्यादृष्टिकेषु वा कुलेषूपपद्यते नेदं स्थानं विद्यते, तत्र चोपपत्स्यते यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दः श्रुयते नेदं स्थानं विद्यते, अक्रियादृष्टिकेषु वा कुलेषूपपत्स्यते नेदं स्थानं विद्यते, अपि तु खलु सुभूते प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽध्याशयेन दशाकुशलान् कर्मपथान् अध्यापद्येत नेदं स्थानं विद्यते.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्व एवं कुशलधर्मसमन्वागतो यद् उत नाप्रतिरूपेषु स्थानेषूपपत्स्यते, तत् किं तथागतेनात्मना जातकानि निर्दिष्टानि, इमे पुनः कुशला धर्माः क्वगताः?

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.