Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
कतमानि च सुभूते तथागतस्याशीत्य् अनुव्यञ्जनानि? ताम्रनखाश् च बुद्धा भगवन्तो भवन्ति सर्वसंस्कारविरक्तचित्ताः, स्निग्धनखाश् च बुद्धा भगवन्तो भवन्ति स्निग्धस्वजनवत् सर्वसत्त्वहितसुखाध्याशयचित्ताः, तुङ्गनखाश् च बुद्धा भगवन्तो भवन्ति तुङ्गकुशलवंशप्रसूताः, वृत्ताङ्गुलयश् च बुद्धा भगवन्तो भवन्ति वृत्ततो ऽनवद्याः, चिताङ्गुलयश् च बुद्धा भगवन्तो भवन्त्य् उपचितविपुलकुशलमूलाः, अनुपूर्वाङ्गुलयश् च बुद्धा भगवन्तो भवन्ति अनुपूर्वसमुपार्जितकुशलमूलाः, गूढशिराश् च बुद्धा भगवन्तो भवन्ति सुनिगूढकायवाग्मनस्कर्मान्ताजीवाः, निर्ग्रन्थिशिराश् च बुद्धा भगवन्तो भवन्ति क्लेशग्रन्थिभेदकराः, गूढगुल्फाश् च बुद्धा भगवन्तो भवन्ति सुनिगूढधर्ममतयः, अविषमपादाश् (psp_6-8:65) च बुद्धा भगवन्तो भवन्ति सर्वविषमनिस्तारयितारः, 10 सिंहविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति नरसिंहाः, नागविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति नरनागाः, हंसविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति राजहंससदृशवैहायसगामिनः, वृषभविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति पुरुषर्षभाः, प्रदक्षिणावर्तगामिनश् च बुद्धा भगवन्तो भवन्ति प्रदक्षिणमार्गाः, चारुगामिनश् च बुद्धा भगवन्तो भवन्ति चारुदर्शनाः, अवक्रगात्राश् च बुद्धा भगवन्तो भवन्ति नित्यम् अवक्रचित्ताः, वृत्तगात्राश् च बुद्धा भगवन्तो भवन्ति विशुद्धगुणख्यापयितारः, मृष्टगात्राश् च बुद्धा भगवन्तो भवन्ति प्रमृष्टपापधर्माणाः, अनुपूर्वगात्राश् च बुद्धा भगवन्तो भवन्त्य् अनुपूर्वधर्मदेशिकाः. 20 शुचिगात्राश् च बुद्धा
भगवन्तो भवन्ति कायवाग्मनःशौचसमन्वागताः, मृदुगात्राश् च बुद्धा भगवन्तो भवन्ति स्वभावमृदुचित्ताः, विशुद्धगात्राश् च बुद्धा भगवन्तो भवन्ति स्वभावविशुद्धचित्ताः, परिपूर्णव्यञ्जनाश् च बुद्धा भगवन्तो भवन्ति सुपरिपूर्णधर्मविनयाः, पृथुचारुमण्डलगात्राश् च बुद्धा भगवन्तो भवन्ति पृथुचारुगुणाख्यातारः, समक्रमाश् च बुद्धा भगवन्तो भवन्ति सर्वसत्त्वसमचित्ताः, विशुद्धनेत्राश् च बुद्धा भगवन्तो भवन्ति सुविशुद्धदर्शनाः, सुकुमारगात्राश् च बुद्धा भगवन्तो भवन्ति सुकुमारधर्मदेशिकाः, अदीनगात्राश् च बुद्धा भगवन्तो भवन्ति नित्यम् अदीनचित्ताः, उत्सदगात्राश् च बुद्धा भगवन्तो भवन्त्य् उत्सन्नाकुशलमूलाः. 30 सुसंहतनाश् च बुद्धा भगवन्तो भवन्ति क्षीणपुनर्भवसहगताः, सुविभक्ताङ्गप्रत्यङ्गाश् च बुद्धा भगवन्तो भवन्ति सुदेशितप्रतीत्यसमुत्पादाङ्गप्रत्यङ्गाः, वितिमिरशुद्धालोकाश् च बुद्धा भगवन्तो भवन्ति सुविशुद्धदर्शनाः, वृत्तकुक्षयश् च बुद्धा भगवन्तो भवन्ति वृत्तसंपन्नशिष्याः, मृष्टकुक्षयश् च बुद्धा भगवन्तो भवन्ति प्रमृष्टसंसारदोषाः, अभुग्नकुक्षयश् च बुद्धा भगवन्तो भवन्ति भग्नमानशृङ्गाः, क्षामोदराश् च बुद्धा भगवन्तो भवन्ति धर्मक्षयविनिवर्तयितारः, गम्भीरनाभयश् (psp_6-8:66) च बुद्धा भगवन्तो भवन्ति प्रतिविद्धपरमगम्भीरधर्माणः, प्रदक्षिणावर्तनाभयश् च बुद्धा भगवन्तो भवन्ति प्रदक्षिणग्राह्युपपन्नशिष्याः, समन्तप्रासादिकाश् च बुद्धा भगवन्तो भवन्ति समन्तप्रासादिकशिष्यसंघाः. 40 शुचिसमाचाराश् च बुद्धा भगवन्तो भवन्ति परमशुचिचित्ताः,
व्यपगततिलकगात्राश् च बुद्धा भगवन्तो भवन्ति व्यपगताकालोपदेशधर्मविनयाः, तूलसदृशसुकुमारपाणयश् च बुद्धा भगवन्तो भवन्ति तूलसदृशकायलाघवप्रतिलाभधर्मदेशिकाः, स्निग्धपाणिलेखाश् च बुद्धा भगवन्तो भवन्ति स्निग्धस्वजनभावप्रतिलब्धमहाश्रमणभावाः, गम्भीरपाणिलेखाश् च बुद्धा भगवन्तो भवन्ति परमगम्भीरधीरावस्थानाः, आयतपाणिलेखाश् च बुद्धा भगवन्तो भवन्त्य् आयतिक्षमधर्माख्यातारः, नात्यायतवचनाश् च बुद्धा भगवन्तो भवन्ति नात्यायतशिक्षापदप्रज्ञापयितारः, बिंबप्रतिबिंबदर्शनवदनाश् च बुद्धा भगवन्तो भवन्ति प्रतिबिंबवद्विसर्जितसर्वलोकाः, मृदुजिह्वाश् च बुद्धा भगवन्तो भवन्ति मृदुपूर्वविनेतारः, तनुजिह्वाश् च बुद्धा भगवन्तो भवन्त्य् अतनुगुणोपपन्नाः. 50 रक्तजिह्वाश् च बुद्धा भगवन्तो भवन्ति रक्तबालजनदुरवगाहधर्मविनयाः, गजगर्जितजीमूतघोषा बुद्धा भगवन्तो भवन्ति गजगर्जितजीमूतघोषेस्व् अपरित्रासाः, मधुरचारुमञ्जुस्वराश् च बुद्धा भगवन्तो भवन्ति मधुरचारुमञ्जुस्वरप्रलापशिष्याः, वृत्तदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति वृत्तभवसंयोजनाः, तीक्ष्णदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति तीक्ष्णजनविनयनकुशलाः, शुक्लदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति परमशुक्लधर्मविनयाः, समदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति समभूमिभागप्रतिष्ठिताः, अनुपूर्वदंष्ट्राश् च बुद्धा भगवन्तो भवन्त्य् अनुपूर्वाभिसमयदेशयितारः, उत्तुङ्गनासाश् च बुद्धा भगवन्तो भवन्ति प्रज्ञातुङ्गपर्वतस्थाः, शुचिनासाश् च बुद्धा भगवन्तो भवन्ति शुचिविनयजनसंप्रतिपन्नाः. 60
विशालनयनाश् च बुद्धा भगवन्तो भवन्ति परविशालक्षणबुद्धधर्माणः, चितपक्ष्माणश् च बुद्धा भगवन्तो भवन्ति चितसत्त्वकायाः, सितासितकमलनयनाश् च बुद्धा भगवन्तो भवन्ति (psp_6-8:67) सितासितकमलदलनयनाभिः प्रबलसुरासुरवरयुवतिभिर् अभिनन्दिताः, आयतभ्रुवश् च बुद्धा भगवन्तो भवन्ति नित्यम् आयतिदर्शिनः, श्लक्ष्णभ्रुवश् च बुद्धा भगवन्तो भवन्ति शुक्लविनयकुशलाः, समरोमभ्रुवश् च बुद्धा भगवन्तो भवन्ति समन्तदाषज्ञाः, स्निग्धभ्रुवश् च बुद्धा भगवन्तो भवन्ति कुशलमूलोपस्नेहस्निग्धसंतानजनविनयाः, पीनायतभुजाश् च बुद्धा भगवन्तो भवन्ति परपीनायतवाहवः, समकर्णाश् च बुद्धा भगवन्तो भवन्ति जितसमराः, अनुपहतकर्णेन्द्रियाश् च बुद्धा भगवन्तो भवन्त्य् अनुपहतसत्त्वविनायकाः. सुपरिणामितललाटाश् च बुद्धा भगवन्तो भवन्ति सर्वदृष्टिकृतविपरिणताः, पृथुललाटाश् च बुद्धा भगवन्तो भवन्ति श्रमणब्राह्मणपरवादिप्रमथनाः, सुपरिपूर्णोत्तमाङ्गाश् च बुद्धा भगवन्तो भवन्ति सुपरिपूर्णोत्तमप्रणिधानाः, भ्रमरसदृशकेशाश् च बुद्धा भगवन्तो भवन्ति विषयभ्रमररतिव्यावर्तिकाः, चितकेशाश् च बुद्धा भगवन्तो भवन्त्य् अपचितदर्शनाभावनाप्रहातव्यानुशयः, श्लक्ष्णकेशाश् च बुद्धा भगवन्तो भवन्ति श्लक्ष्णबुद्धिभिर् ज्ञातशासनसाराः, असंलुडितकेशाश् च बुद्धा भगवन्तो भवन्ति नित्यासंलुडितचेतनाः, अपरुषकेशाश् च बुद्धा भगवन्तो भवन्ति नित्यम् अपरुषवचनाः, सुरभिकेशाश् च बुद्धा भगवन्तो भवन्ति सुरभिबोध्यङ्गकुसुमप्रदक्षिणावर्तितजनाः,
श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादतलाश् च बुद्धा भगवन्तो भवन्ति श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादशोभाः.
इमान्य् उच्यन्ते ऽशीत्यनुव्यञ्जनान्य् एभिः सुभूते ऽशीत्यनुव्यञ्जनैस् तथागतस्ये कायः समन्वागतो भवति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य धर्मदानं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् एवम् अववदत्य् अनुशास्त्य् एते यूयं कुलपुत्रा अक्षरनिर्हारकुशला भवत, एकाक्षरकुशला भवथ, द्व्यक्षरं यावद् द्वाचत्वारिंशद् अक्षरैः कुशला भवत, एकेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, द्वितीयेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, (psp_6-8:68) तृतीयेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, यवद् द्वाचत्वारिंशदक्षरैः सर्वव्ययोपगतानुपगच्छत. एकस्मिन्न् अक्षरे द्वाचत्वारिंशद् अक्षराण्य् अन्तर्गतानि भावयत. द्वाचत्वारिंशदक्षरेष्व् एकाक्षरम् अन्तर्गतं भावयत. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो द्वाचत्वारिंशदक्षराण्य् एकस्मिन्न् अक्षरे कुशलो भावयति, एकाक्षरं द्वाचत्वारिंशदक्षरेषु कुशलो भावयति, अक्षराभिनिर्हारकौशलं भावयित्वाक्षराभिनिर्हारकुशलो भवति. तद्यथापि नाम सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो धर्मकुशलो ऽक्षरकुशलश् च सत्त्वानां धर्मं देशयति, साक्षरन् धर्मं देशयति नानक्षरं, ते च सत्त्वा नोपलभ्यन्ते, तत् कस्य हेतोः? आकाशनिर्मिता हि सुभूते सत्त्वा धर्माश् च वेदितव्याः.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अत्यन्ततया सत्त्वा नोपलभ्यन्ते, धर्मा नोपलभ्यन्ते, स्वभावश् च नोपलभ्यते, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितायां चरन् वीर्यपारमितायां चरन् क्षान्तिपारमितायां चरन् शीलपारमितायां चरन् दानपारमितायां चरन् सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चतुर्ष्व् आर्यसत्येषु सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेष्व् अष्टसु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु, चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु द्वात्रिंशन्महापुरुषलक्षणेष्व् अशीत्यनुव्यञ्जनेषु षट्स्व् अभिज्ञासु विपाकजासु चरन् सत्त्वानां धर्मं देशयति, न चात्र सत्त्व उपलभ्यते, न सत्त्वप्रज्ञप्तिः सत्त्वानुपलब्ध्या रूपानुपलब्धिः, वेदनासंज्ञासंस्कारविज्ञानानुपलब्धिः, षट्पारमितानुपलब्धिः, यावद् अशीत्यनुव्यञ्जनानुपलब्धिः, न चानुपलब्ध्या सत्त्वप्रज्ञप्तिर् न च सत्त्वाप्रज्ञप्त्या रूपं प्रज्ञायते, वेदनासंज्ञासंस्कारविज्ञानं प्रज्ञायते, यावद् अशीत्यनुव्यञ्जनानि प्रज्ञायन्ते, अशीत्यनुव्यञ्जनैर् अप्रज्ञायमानैः.
कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति? मा खलु भगवन् बोधिसत्त्वो महासत्त्वो (psp_6-8:69) ऽसंविद्यमानेषु सर्वधर्मेषु सत्त्वान् समादापयेद् विपर्यासे विनियोजयेत्. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वम् एव तावन् नोपलभते प्राग् एव बोधिपाक्षिकान् धर्मान्.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि सत्त्वानुपलब्धेनाध्यात्मशून्यता वेदितव्या, बहिर्धाशून्यता वेदितव्या, अध्यात्मबहिर्धाशून्यता वेदितव्या यावद् अभावस्वभावशून्यता वेदितव्या, स्कन्धशून्यता वेदितव्या, धातुशून्यता वेदितव्या, आयतनशून्यता वेदितव्या, प्रतीत्यसमुत्पादशून्यता वेदितव्या, प्रतीत्यसमुत्पादाङ्गशून्यता वेदितव्या, आत्मशून्यता सत्त्वशून्यता जीवशून्यता जन्तुशून्यता पोषशून्यता पुरुषशून्यता पुद्गलशून्यता मनुजशून्यता मानवशून्यता कारकशून्यता वेदकशून्यता जानकशून्यता पश्यकशून्यता वेदित्व्या. अप्रमाणध्यानारूप्यसमाधिसमापत्तिशून्यता वेदितव्या, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यता वेदितव्या. शून्यतानिमित्ताप्रणिहितशून्यता वेदितव्या, अष्टविमोक्षमुखशून्यता वेदितव्या, नवानुपूर्वविहारसमापत्तिशून्यता वेदितव्या, दशतथागतबलशून्यता वेदितव्या, वैशारद्यप्रतिसंविदावेणिका बुद्धधर्मशून्यता वेदितव्या, स्रोतआपत्तिफलसकृदागामिफलानागामिफलार्हत्त्वप्रत्येकबोधिशून्यता वेदितव्या, दशबोधिसत्त्वभूमिशून्यता वेदितव्या, बुद्धक्षेत्रशून्यता वेदितव्या, सम्यक्संबोधिशून्यता वेदितव्या, तद् बोधिसत्त्वो महासत्त्व इमान् सर्वधर्मान् शून्या इति दृष्ट्वा सत्त्वानां धर्मं देशयति यथा चैतेषु शून्येषु सर्वधर्मेषु समादापयेद् विपर्यासे न नियोजयेत्. स एवं सर्वधर्मान् अनावरणतो ज्ञात्वा न कंचिद् धर्मं विकोपयति न ऽद्वैधीकरोति, यथाभूतं च धर्मं देशयति. तद्यथापि नाम सुभूते तथागतनिर्मितो ऽनेकानि निर्मितकोटीनियुतशतसहस्राण्य् अभिनिर्माय कांश्चिद् दाने
नियोजयति, कांश्चिच् छीले कांश्चित् क्षान्तौ कांश्चिद् वीर्ये कांश्चिद् ध्याने कांश्चित् प्रज्ञायां कांश्चिद् ध्यानेषु कांश्चिद् अप्रमाणेषु कांश्चिद् आरूप्यसमापत्तिषु कांश्चित् सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयति, कांश्चिद् आर्यसत्येषु कांश्चिच् छून्यतानिमित्ताप्रणिहितेषु (psp_6-8:70) कांश्चिद् अध्यात्मशून्यतायां कांश्चिद् यावद् अभावस्वभावशून्यतायां कांश्चिद् अभिज्ञासु कांश्चिद् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु नियोजयति, सर्वाकारज्ञतायां नियोजयति, कांश्चिच् छ्रोतआपत्तिफले कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले, कांश्चिद् अर्हत्त्वे, कांश्चित् प्रत्येकबोधौ कांश्चिद् अनुत्तरायां सम्यक्संबोधौ नियोजयति. तत् किं मन्यसे? अपि नु तेन निर्मितकेन कस्यचिद् धर्मस्य प्रभेदः कृतः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यम्, एवम् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तांश् च भूमौ प्रतिष्ठापयति तांश् च सत्त्वान् विपर्यासात् परिमोचयति, अबद्धामुक्तयोगेन, तत् कस्य हेतोः? तथा हि सुभूते रूपम् अबद्धम् अमुक्तं, वेदना संज्ञा संस्कारा विज्ञानम् अबद्धम् अमुक्तं, या रूपस्याबद्धतामुक्तता न तद् रूपं या वेदनायाः संज्ञायाः संस्काराणां या विज्ञानस्याबद्धतामुक्तता न तद् विज्ञानम्. तत् कस्य हेतोः? तथा ह्य् अत्यन्तविशुद्धं रूपं, वेदना संज्ञा संस्कारा विज्ञानम् अत्यन्तविशुद्धम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च यावत् सर्वधर्मा लौकिका लोकोत्तराः, सास्रावा अनास्रवाः संस्कृता असंस्कृता धर्माः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति, न च सत्त्वान् उपलभते, अनुपलंभे सर्वधर्माणां स्थितो बोधिसत्त्वो महासत्त्वो ऽस्थानयोगेन रूपं शून्यम् इत्य् अस्थानयोगेन, वेदना संज्ञा संस्कारा विज्ञानं शून्यम् इत्य् अस्थानयोगेन, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च शून्यानीत्य् अस्थानयोगेन यावत् सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा संस्कृता वा असंस्कृता वा धर्मा शून्या इति अस्थानयोगेन, न हि संस्कृता वा असंस्कृता वा धर्माः क्वचित् स्थिताः? तस्मात् तेषां स्वभावो नोपलभ्यते, यत्र तिष्ठेरन् न ह्य् अभावो ऽभावे तिष्ठति, न हि स्वभावः स्वभावे तिष्ठति, न हि परभावः परभावे तिष्ठति, तत् कस्य हेतोः? तथा हि ते सर्वेण सर्वं सर्वथा सर्वन् नोपलभ्यन्ते, यस्य चानुपलब्धिः स
कुत्र तिष्ठेद्? एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः (psp_6-8:71) प्रज्ञापारमितायां चरन्न् अनपराधी भवति, बुद्धानां भगवतां बोधिसत्त्वानां च प्रत्येकबुद्धानाञ् च श्रावकानां च सर्वार्याणां च. तत् कस्य हेतोः? तथा हि बुद्धैर् भगवद्भिर् बोधिसत्त्वैश् च प्रत्येकबुद्धैश् च श्रावकैश् च सर्वार्यैश् च एषैव धर्मतानुबद्धानुबध्य च सत्त्वानां धर्मं देशयन्ति, तान् ते धर्माणां धर्मतान् न व्यतिवर्तन्ते. तत् कस्य हेतोः? तथा हि धर्मधातुर् न विनिवर्तते न भूतकोटिर् विनिवर्तते. तत् कस्य हेतोः? तथा हि तेषां स स्वभावो न संविद्यते यो विनिवर्तते.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् धर्मधातुर् न विनिवर्तते न तथता न भूतकोटिर् विनिवर्तते, किं पुनर् भगवन्न् अन्यद् रूपम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये वेदनासंज्ञासंस्कारा अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर्, एवं यावद् अन्ये सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा, संस्कृता वा असंस्कृता वा धर्माः, अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः?
भगवान् आह: न सुभूते ऽन्यद् रूपं अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये वेदनासंज्ञासंस्कारा अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर्, नान्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, च नान्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिर्, एवं यावन् नान्ये लौकिका लोकोत्तराः सास्रवा अनास्रवाः संस्कृता असंस्कृता धर्मा अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् नान्यद् रूपं नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् नान्ये वेदनासंज्ञासंस्कारा नान्यद् विज्ञानं नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् नान्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् यावन् नान्ये सर्वधर्मा लौकिका लोकोत्तराः सास्रवा अनास्रवाः (psp_6-8:72) संस्कृता असंस्कृता धर्माः नन्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिस् तत् कथं भगवन् फलव्यवस्थानं भवति? कृष्णानां धर्माणां कृष्णो विपाको नरका वा तिर्यग्योनिर् वा यमलोको वा, शुक्लानां धर्माणां शुक्लो विपाको देवा मनुष्याश् च, कृष्णशुक्लानां धर्माणां कृष्णशुक्लो विपाकः सुखदुःखव्यतिकरः, अकृष्णशुक्लानां धर्माणाम् अकृष्णशुक्लो विपाकः, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा यावत् सम्यक्संबोधिर् वा.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: संवृत्तिसत्यं सुभूते प्रमाणीकृत्य फलव्यवस्थानं निर्दिश्यते न पुनः परमार्थसत्येन फलव्यवस्थानं शक्यन् निर्दृष्टुम्. तत् कस्य हेतोः? अविकल्पा हि सुभूते सर्वधर्मा अप्रव्याहारा यद् उत अनात्मस्वरूपाः, येषाम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानं यद् उत स्वभावशून्यताम् उपादाय.
एवम् उक्ते आयुष्मान् सुभूइर् भगवन्तम् एतद् अवोचत्: यदि भगवन् संवृत्तिसत्यम् उपादाय फलव्यवस्थानं भवति, न भगवन् परमार्थेन तदा सर्वबालपृथग्जनानां स्रोतआपत्तिफलं भविष्यति, सकृदागामिफलं भविष्यति, अनागामिफलं भविष्यति, अर्हत्त्वं भविष्यति, प्रत्येकबोधिर् भविष्यति, अनुत्तरा सम्यक्संबोधिर् भविष्यति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनः सुभूते सर्वबालपृथग्जनाः संवृत्तिसत्यं वा परमार्थसत्यं वा प्रजानन्ति यत् तेषाम् अपि फलव्यवस्थानं भविष्यति यदि प्रजानीयुः संवृत्तिसत्यं परमार्थसत्यम् इति नैव बालपृथग्जना इति संख्याताः स्युर् यस्मात् तु तेषां नास्ति परिज्ञानं तस्मान् नास्ति तेषां फलव्यवस्थानम्. स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा सम्यक्संबोधिर् वा यत् सुभूते बालपृथग्जनानां न मार्गो न मार्गव्यवस्थानं न मार्गफलं तत् कुतो बालपृथग्जनानां फलव्यवस्थानं भविष्यति? यद् आर्यपुद्गलानां पुनः सुभूते मार्गो मार्गभावना च तस्माद् आर्यपुद्गलानां फलव्यवस्थानं भवति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् (psp_6-8:73) भगवन् मार्गभावनायं फलप्रादुर्भावो भवति, फलं वा प्रापयति?
भगवान् आह: न सुभूते, न हि मार्गं भावयतः सुभूते फलप्राप्तिर् भवति, न च मार्गभावनाफलं प्रापयति, न च सुभूते भावितमार्गस्य फलप्राप्तिर्, न च मार्गेण फलं प्राप्यते, न च पुनर् अमार्गे स्थित्वा फलं प्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां फलव्यवस्थानं करोति, न च भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानम्.
सुभूतिर् आह: यदि भगवन् न भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानं भवति, कथं निर्दिष्टं पुनर् भगवता इदं स्रोतआपत्तिफलं त्रयाणां संयोजनानां प्रहाणं, सकृदागामिफलं कामरागव्यापादतनुत्वम्, अनागामिफलं पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणम्, अर्हत्त्वं पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणं, प्रत्येकबोधिर् यत् किञ्चित् समुदयधर्मि सर्वन्तं निरोधधर्मि, अनुत्तरा सम्यक्संबोधिः सर्ववासनानुसंधिक्लेशप्रहाणम्. स्याद् यथाहं भगवतो भाषितस्यार्थम् आजाने तथा संस्कृतासंस्कृतानां धर्माणां भागच्छेदेन फलव्यवस्थानं भवति.
भगवान् आह: किं पुनः सुभूते स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वानुत्तरा सम्यक्संबोधिर् वा संस्कृता एते उतासंस्कृताः.
सुभूतिर् आह: असंस्कृता भगवन्न् असंस्कृताः सुगत.
भगवान् आह: किं पुनः सुभूते असंस्कृतस्य धर्मस्य भागच्छेदो ऽस्ति?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: किं पुनः सुभूते यस्मिन् समये कुलपुत्रो वा कुलदुहिता वा संस्कृतासंस्कृतान् धर्मान् एकलक्षणान् प्रतिविध्यति यद् उतालक्षणास् तस्मिन् समये कस्यचिद् धर्मस्य भागच्छेदं करोति संस्कृता वासंस्कृता वा धर्मा इति? (psp_6-8:74)
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, अभागच्छेदताम् उपादाय. यद् उताध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, आत्मना च न क्वचिद् अभिनिविशते, परञ् च न क्वचिद् अभिनिवेशयति, दानपारमितायां वा शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा प्रथमे वा ध्याने द्वितीये वा ध्याने तृतीये वा ध्याने चतुर्थे वा ध्याने, मैत्र्यां वा करुणायां वा मुदितायां वा उपेक्षायां वा, आकाशानन्त्यायतनसमापत्तौ वा विज्ञानानन्त्यायतनसमापत्तौ वा आकिञ्चन्यायतनसमापत्तौ वा नैवसंज्ञानासंज्ञायतनसमापत्तौ वा, स्मृत्युपस्थानेषु वा सम्यक्प्रहाणेषु वा ऋद्धिपादेषु वा इन्द्रियेषु वा बलेषु वा बोध्यङ्गेषु वा आर्याष्टाङ्गेषु मार्गेषु वा आर्यसत्येषु वा अष्टविमोक्षमुखेषु वा नवानुपूर्वविहारसमापत्तिषु वा शून्यतानिमित्ताप्रणिहितेषु वाभिज्ञासु वाध्यात्मशून्यतायां वा बहिर्धाशून्यतायां वाध्यात्मबहिर्धाशून्यतायां वा यावद् अभावस्वभावशून्यतायां वा समाधिषु वा धारणीमुखेषु वा दशबलवैशारद्येषु प्रतिसंविदावेणिकबुद्धधर्मेषु वा, महाकरुणायां वा सर्वाकारज्ञतायां वा, सो नाभिनिविष्टो न क्वचित् सज्जति. तद्यथापि नाम सुभूते तथागतनिर्मितो दानं ददाति न च दानफलेषु सज्जति न च दानफलं प्रत्यनुभवत्य् अन्यत्र सत्त्वानां परित्राणाय यावत् सास्रवानास्रवेषु धर्मेषु लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु धर्मेषु न क्वचित् तिष्ठति. तत् कस्य हेतोः? तथा ह्य् अस्य सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति?
भगवान् आह: यथा सुभूते निर्मितस्यासमुदाचारो रागदोषमोहेष्व् असमुदाचारो रूपे वेदनायां संज्ञायां संस्कारेषु विज्ञाने ऽसमुदाचारः स्कन्धधात्वायतनेष्व् असमुदाचारः प्रतीत्यसमुत्पादेष्व् (psp_6-8:75) असमुदाचारः प्रतीत्यसमुत्पादाङ्गेष्व् असमुदाचारो बाह्याध्यात्मिकेषु धर्मेष्व् असमुदाचारो ऽनुनयपर्युत्थानेष्व् असमुदाचारः सास्रवानास्रवेषु धर्मेष्व् असमुदाचारो लौकिकलोकोत्तरेषु धर्मेषु असमुदाचारो मार्गेष्व् असमुदाचारो मार्गफलेष्व् असमुदाचारः. एवं खलु सुभूते सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति.
सुभूतिर् आह: कथं पुनर् भगवन् निर्मितस्य मार्गभावना?
भगवान् आह: यां मार्गभावनाम् आगम्य सुभूते नैव संक्लिश्येत नैव व्यवदायेत नैव पञ्चगतिके संसारे दृश्येत.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽवस्तुकान् धर्मान् प्रतिविध्यति?
भगवान् आह: तत् किं मन्यसे? सुभूते ऽपि नु तथागतनिर्मितस्य किंचिद् वस्तु संविद्यते, यद् वस्त्व् आगम्य नैव संक्लिश्येत, नैव व्यवदायेत, नैव पञ्चगतिके संसारे दृश्येत.
सुभूतिर् आह: नो भगवन् न हि भगवन् तथागतनिर्मितस्य किंचिद् वस्तु संविद्यते यद् वस्त्व् आगम्य नैव संक्लिश्येत नैव व्यवदायेत नैव पञ्चगतिके संसारे दृश्येत.
भगवान् आह: एवं खलु सुभूते सर्वधर्माणां धर्मैअक्षणं सुप्रतिविद्धं भवति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वरूपं निर्मितोपमं भवति, सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं भवति?
भगवान् आह: सर्वं सुभूते रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं भवति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो भवति, यदि सर्वं रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं निर्मितस्य च न भवति, रूपं वेदना संज्ञा संस्कारा विज्ञानं न संक्लेशो न व्यवदानं न पञ्चगतिकः संसारो यतः संसारात् सत्त्वान् परिमोचयेत्.
भगवान् आह: तत् किं मन्यसे? सुभूते ऽपि नु बोधिसत्त्वेन (psp_6-8:76) महासत्त्वेन पूर्वं बोओधिस्त्त्वचर्यां चरता कश्चित् सत्त्व उपलब्धो यं नरकाद् वा मोचयेत् तिर्यग्योनेर् वा यमलोकाद् वा मनुष्येभ्यो वा देवेभ्यो वा.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वेन महासत्त्वेन न कश्चित् सत्त्व उपलब्धो यं त्रैधातुकात् परिमोचयेत्. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिता भवन्तीत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो वेदितव्यः.
सुभूतिर् आह: यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिताः कस्यार्थाय बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरति चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु बोधिमार्गे च बुद्धक्षेत्रञ् च परिशोधयति सत्त्वांश् च परिपाचयति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् जानीयुर् न बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरेद् यस्मात् तर्हि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् न जानन्ति. तस्माद् बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् षट्सु पारमितासु चरति सत्त्वांश् च परिपाचयति बुद्धक्षेत्रञ् च परिशोधयति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा निर्मितोपमाः कुत्र भगवन् प्रतिष्ठिताः सत्त्वाः यतो बोधिसत्त्वो महासत्त्वः षट्पारमितायां चरन्न् उच्चालयति?
भगवान् आह: नामनिमित्ते सुभूते सत्त्वाः प्रतिष्ठिता असत्परिकल्पितताम् उपादाय, ततो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नामनिमित्ताद् उच्चालयति.
अथ खल्व् आयुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् नाम कतमन् निमित्तम्?
भगवान् आह: आगन्तुकम् एतन् नामधेयं यद् उत नामनिमित्तम् इति कृत्रिमम् एतन् नामधेयं यद् उत नामनिमित्तम् इति, यद् उत रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्त्री वा पुरुषो (psp_6-8:77) वा दारको वा दारिका वा नैरयिको वा तैर्यग्योनिको वा यमलौकिको वा देवो वा मनुष्यो वा संस्कृतो वा धर्मो वासंस्कृतो वा धर्मः स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबुद्धो वानुत्तरसम्यक्संबुद्धो वा. अपि तु खलु पुनः सुभूते प्रकृतिधर्मः सर्वन् नामार्थेन शून्यं नाममात्रम् एतत् सर्वसंस्कृतं तत्र बालपृथग्जनाः सक्तास् तान्, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् उपायकौशल्येन सत्त्वान् विवेचयति परिकल्पयति परिकल्पसमुत्थितम् एतन् नामधेयं मा यूयम् असत्परिकल्पे सज्जते, असति वस्तूनि स्वभावशून्ये न हि शून्येषु धर्मेषु पण्डिता अभिनिविशन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति. कतमत् सुभूते निमित्तं द्व इमे सुभूते यत्र बालपृथग्जनाः सक्ताः? कतमे द्वे? रूपनिमित्तञ् चारूपनिमित्तञ् च. कतमच् च सुभूते रूपनिमित्तं? यत् किञ्चित् सुभूते रूपम् औदारिकं वा सूक्ष्मं वा प्रणीतं वा मध्यं वाधिमात्रं वा तत्र क्षणिकेषु धर्मेषु यत् परिकल्पग्रहणम् इदम् उच्यते रूपनिमित्त. कतमच् चारूपनिमित्त्तं? यानि कानिचिद् रूपाणि धर्मा वानिमित्तग्राहिणः परिकल्पाः क्लेशञ् जनयन्तीदम् उच्यते, अरूपनिमित्तं यत्र बालपृथग्जनान् सक्तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् निमित्ततो विवेच्यानिमित्ते धातौ निवेशयति प्रतिष्ठापयति तथा च निवेशयति प्रतिष्ठापयति, यथा न द्वयं पतन्तीदं निमित्तम् इदम् अनिमित्तम्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् निमित्ततो विवेच्यानिमित्ते धातौ निवेशयति प्रतिष्ठापयति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् एतत्परमा एते सर्वधर्मा यद् उत नामनिमित्तपरमाः, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आत्मना च विशेषं गच्छति, कुशलेषु धर्मेषु परांश् च विशेषाधिगमे निवेशयति कुशलेषु धर्मेषु यैः कुशलैर् धर्मैर् भूमेर् भूमिं परिपूरयति, (psp_6-8:78) सत्त्वांश् च तांश् चैव नियोजयति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते वस्त्व् अभविष्यन् नावस्तुनिमित्तन् न सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो विशेषम् अध्यगमिष्यन् न च परांश् च विशेषे न्ययोक्ष्यद् यतः खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितां परिपूरयत्य् आनिमित्तयोगेन, वीर्यपारमितां परिपूरयत्य् आनिमित्तयोगेन, क्षान्तिपारमितां परिपूरयत्य् आनिमित्तयोगेन, शीलपारमितां परिपूरयत्य् आनिमित्तयोगेन, दानपारमितां परिपूरयत्य् आनिमित्तयोगेन, ध्यानानि परिपूरयत्य् आनिमित्तयोगनाप्रमाणानि परिपूरयत्य् आनिमित्तयोगेनारूप्यसमापत्तीः परिपूरयत्य् आनिमित्तयोगेन, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् परिपूरयत्य् आनिमित्तयोगेनार्यसत्यानि परिपूरयत्य् आनिमित्तयोगेनाष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीर् अभिज्ञाः परिपूरयत्य् आनिमित्तयोगेन, समाधिधारणीमुखानि परिपूरयत्य् आनिमित्तयोगेन, दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयत्य् आनिमित्तयोगेन, स इमान् कुशलान् धर्मान् परिपूर्य परान् अपि कुशलेषु धर्मेषु नियोजयत्य् आनिमित्तयोगेन, सचेत् सुभूते धर्मनिमित्तम् अभविष्यद् अनास्रवेषु सर्वधर्मेषु नैव बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थम् अकरिष्यद् यतः सुभूते अनास्रवाः सर्वधर्माः, आनिमित्ता अस्मृतयो ऽमनसिकारास् तस्मात् खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थं करोति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा आनिमित्ता अस्मृतयो ऽमनसिकारास् तत् कुतो भगवान् गणनां करोति? इमे सास्रवा धर्मा इमे अनाश्रवा धर्मा इमे साधारणा धर्मा इमे ऽसाधारणा धर्मा इमे लौकिका धर्मा इमे लोकोत्तरा धर्मा इमे सावद्या धर्मा इमे ऽनवद्या धर्मा इमे संस्कृता धर्मा इमे ऽसंस्कृता धर्मा इमे श्रावकधर्मा इमे प्रत्येकबुद्धधर्मा इमे बोधिसत्त्वधर्मा इमे बुद्धधर्माः. (psp_6-8:79)
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते अन्यद् आनिमित्तम् अन्ये श्रावकधर्माः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये प्रत्येकबुद्धधर्माः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये बोधिसत्त्वधर्माः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये बुद्धधर्माः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तद् अनेनापि ते सुभूते पर्यायेणैवं वेदितव्यम् आनिमित्ता अस्मृतयो ऽमनसिकाराः सर्वधर्मा इत्य् अत्र हि सुभूते शिक्षमाणो बोधिसत्त्वो महासत्त्वः कुशलैर् धर्मैर् विवर्धते यद् उत षड्भिः पारमिताभिश् चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिश् चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भि ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गमार्गेणाध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया आर्यसत्यैर् अभिज्ञाभिर् अष्टभिर् विमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः सर्वसमाधिभिः सर्वधारणीमुखैर् दशबलवैशारद्यप्रतिसंविदावेणिकैर् बुद्धधर्मैर् महाकरुणया यावत् सर्वबुद्धधर्मैर् विवर्धते, शून्यताविमोक्षमुखं स्वलक्षणशून्यतानिमित्तविमोक्षमुखं स्वलक्षणशून्यम् अप्रणिहितविमोक्षमुखं स्वलक्षणशून्यं स एषु त्रिषु विमोक्षमुखेषु शिक्षमाणो बोधिसत्त्वो महासत्त्वः पञ्चसूपादानस्कन्धेषु शिक्षते द्वादशस्व् आयतनेषु शिक्षते, अष्टादशसु धातुषु शिक्षते, चतुर्ष्व् आर्यसत्येषु शिक्षते, द्वादशाङ्गे प्रतीत्यसमुत्पादे शिक्षते, अध्यात्मशून्यतायां शिक्षते, बहिर्धाशून्यतायां शिक्षते, अध्यात्मबहिर्धाशून्यतायां शिक्षते, यावद् अभावस्वभावशून्यतायां (psp_6-8:80) शिक्षते, दशसु पारमितासु शिक्षते, दशसु बोधिसत्त्वभूमिषु शिक्षते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षते, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षते, पञ्चस्व् अभिज्ञासु शिक्षते, दशसु तथागतबलेषु शिक्षते, चतुर्षु वैशारद्येषु शिक्षते, चतसृषु प्रतिसंवित्सु शिक्षते, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षते.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चसूपादानस्कन्धेषु शिक्षते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं जानाति, यथा रूपम् उत्पद्यते, यथा रूपं निरुध्यते, या च रूपस्य तथता.
कथं रूपं प्रजानाति? अत्यन्तच्छिद्रतश् चात्यन्तानृततश् च तद्यथापि नाम फेनपिण्डो ऽसारः, एवं रूपं प्रजानाति. कथं रूपस्योत्पादव्ययौ प्रजानाति? नापि रूपं कुतश्चिद् आगच्छति नापि रूपं क्वचिद् गच्छति कुतश्चिद् आगमनतो न क्वचिद् गमनतः, एवं खलु सुभूते रूपस्योत्पादव्ययौ प्रजानाति. कथं रूपस्य तथतां प्रजानाति? न तथतोत्पद्यते न निरुध्यते नागच्छति न गच्छति, न संक्लिश्यते न व्यवदायते, न हानिर् न वृद्धिर् एवं तथतां प्रजानाति, अपि तु खलु सुभूते तथतैव सा यस्मात् तथतेत्य् उच्यते, नैव सावितथता न तथतेत्य् उच्यते, एवं रूपस्य तथतां प्रजानाति.
कथं वेदनां प्रजानाति? तद्यथापि नामोदकबुद्बुदा रिक्तका उत्पद्यन्ते वा निरुध्यन्ते वा, एवं वेदनां प्रजानाति. कथं वेदनाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं वेदनाया उत्पादव्ययौ प्रजानाति. कथं वेदनायास् तथतां प्रजानाति? सापि तथता अवितथतानन्यतथता, एवं वेदनायास् तथतां प्रजानाति.
कथं संज्ञां प्रजानाति? तद्यथापि नाम मरीच्याम् उदकम् अत्यन्ततया नोपलभ्यते, एवं संज्ञां प्रजानाति. कथं संज्ञाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं संज्ञाया उत्पादव्ययौ प्रजानाति. कथं संज्ञायास् तथतां (psp_6-8:81) प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संज्ञायास् तथतां प्रजानाति. कथं संस्कारान् प्रजानाति? तद्यथापि नाम कदल्यां सारम् अत्यन्ततया नोपलभ्यते, एवं संस्कारान् प्रजानाति. कथं संस्काराणाम् उत्पादव्ययौ प्रजानाति? न ते कुतश्चिद् आगच्छन्ति न क्वचिच् गच्छन्त्य् एवं संस्काराणाम् उत्पादव्ययौ प्रजानाति. कथं संस्काराणां तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संस्काराणां तथतां प्रजानाति.
कथं विज्ञानं प्रजानाति? तद्यथापि नाम मायाकारनिर्मितश् चतुरङ्गो बलकाय एवं विज्ञानं प्रजानाति.
कथं विज्ञानस्योत्पादव्ययौ प्रजानाति? न तत् कुतश्चिद् आगच्छति न क्वचिद् गच्छति, एवं विज्ञानस्योत्पादव्यतौ प्रजानाति. कथं विज्ञानस्य तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं विज्ञानस्य तथतां प्रजानाति.
कथं रूपायतनं प्रजानाति? रूपायतनं रूपायतनस्वभावेन शून्यम्, एवं शब्दगन्धरसस्प्रष्टव्यायतनानि, धर्मायतनं धर्मायतनस्वभावेन शून्यं, चक्षुरायतनं चक्षुरायतनस्वभावेन शून्यम्, एवं श्रोत्रघ्राणजिह्वाकायायतनानि, मनआयतनं मनआयतनस्वभावेन शून्यम्.
कथं रूपधातुं प्रजानाति? रूपधातू रूपधातुस्वभावेन शून्यः, एवं शब्दगन्धरसस्प्रष्टव्यधातवः, धर्मधातुर् धर्मधातुस्वभावेन शून्यः, चक्षुर्धातुश् चक्षुर्धातुस्वभावेन शून्यः, एवं श्रोत्रघ्राणजिह्वाकायधातवः, मनोधातुर् मनोधातुस्वभावेन शून्यः, चक्षुर्विज्ञानधातुश् चक्षुर्विज्ञानधातुस्वभावेन शून्यः, चक्षुःसंस्पर्शधातुश् चक्षुःसंस्पर्शधातुस्वभावेन शून्यः, चक्षुःसंस्पर्शप्रत्ययवेदनाधातुश् चक्षुःसंस्पर्शप्रत्ययवेदनाधातुस्वभावेन शून्यः, एवं श्रोत्रघ्राणजिह्वाकायो, मनोधातुर् मनोधातुस्वभावेन शून्यः, मनोविज्ञानधातुर् मनोविज्ञानधातुस्वभावेन (psp_6-8:82) शून्यः, मनःसंस्पर्शधातुर् मनःसंस्पर्शधातुस्वभावेन शून्यः, मनःसंस्पर्शप्रत्ययवेदनाधातुर् मनःसंस्पर्शप्रत्ययवेदनाधातुस्वभावेन शून्यः, पृथिवीधातुः पृथिवीधातुस्वभावेन शून्यः, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर्, विज्ञानधातुर् विज्ञानधातुस्वभावेन शून्यः प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादस्वभावेन शून्यः, अविद्याविद्यास्वभावेन शुन्या. एवं संस्कारा विज्ञानं नामरूपम् षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर्, जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासा जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासस्वभावेन शून्याः.
कथम् आयतनानि प्रजानाति? अध्यात्मिका धर्मा अध्यात्मिकैर् धर्मैः शून्याः, बाह्या धर्मा बाह्यैर् धर्मैः शून्याः. कथं सत्यानि प्रजानाति? दुष्खसत्यं प्रजानाति, आर्यसत्यं प्रजानाति, द्वयतो विनिर्मुक्तम् आर्यसत्यं प्रजानाति, अद्वयतो विनिर्मुक्तम् आर्यसत्यं प्रजानाति, एवं समुदयम् एवं निरोधम् एवं दुःखनिरोधगामिनी प्रतिपदम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवं परस्परविभिन्नान् प्रजानाति तदा न नु भगवन् धर्मधातुर् विकोपितो भवति.
भगवान् आह: विकोपितः सुभूते धर्मधातुः स्याद् यदि धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्मः स्यान्, न सुभूते धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलभ्यते, यद्य् उपलभ्येत स्याद् धर्मधातुविकोपना. तत् कस्य हेतोः? न हि सुभूते तथागतेन वा तथागतश्रावकेण वा धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्मा उपलब्धः, अनुपलभ्य न प्रज्ञापयति धातुविनिर्मुक्तो ऽन्यः कश्चिद् धर्म उप्लभ्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ शिक्षितव्यम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: धर्मधातौ भगवन् शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन किं शिक्षितं भवति? (psp_6-8:83)
भगवान् अह: धर्मधातौ शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मेषु शिक्षितं भवति. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा धर्मधातुः.
सुभूतिर् आह: केन कारणेन भगवन् सर्वधर्मा धर्मधातुः?
भगवान् आह: असंस्कृतो धातुर् एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन धर्मधातौ शिक्षितं भवति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा धर्मधातुस् तत् किं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं ध्यानपारमितायां शिक्षितव्यं वीर्यपारमितायां शिक्षितव्यं क्षान्तिपारमितायां शिक्षितव्यं शीलपारमितायां शिक्षितव्यं दानपारमितायां शिक्षितव्यम्? किं बोधिसत्त्वेन महासत्त्वेन प्रथमध्याने शिक्षितव्यं द्वितीयध्याने शिक्षितव्यं तृतीयध्याने शिक्षितव्यं चतुर्थध्याने शिक्षितव्यं मैत्र्यां शिक्षितव्यं करुणायां शिक्षितव्यं मुदितायां शिक्षितव्यम् उपेक्षायां शिक्षितव्यम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्तव् आकिञ्चन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ शिक्षितव्यं, शून्यतानिमित्ताप्रणिहितसमाधौ शिक्षितव्यं? किं सर्वशून्यतासु शिक्षितव्यं विमोक्षमुखसमाधिधारणीमुखेषु शिक्षितव्यं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यं दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षितव्यं महाकरुणायां शिक्षितव्यम् षट्स्व् अभिज्ञासु शिक्षितव्यं द्वात्रिंशन् महापुरुषलक्षणपरिनिष्पत्तये शिक्षितव्यम् अशीत्यनुव्य्ञ्जनपरिनिष्पत्तये शिक्षितव्यम् क्षत्रियमहाशालकुलेषूपपत्तये शिक्षितव्यं ब्राह्मणमहाशालकुलेषूपपत्तये शिक्षितव्यं गृहपतिमहाशालकुलेषूपपत्तये शिक्षितव्यं चातुर्महाराजकायिकानां देवानां सभागतायाम् उपपत्तये शिक्षितव्यं त्रयस्त्रिंशानां यामानां तुषितानान् निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां महाब्रह्माणां परीत्ताभानाम् अप्रमाणाभानाम् आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् (psp_6-8:84)
अनभ्रकानां पुण्यप्रसवानां बृहत्फलानां शुद्धावासानाम् अस्पृहाणाम् अतपानां सुदृशानां सुदर्शनानाम् अकनिष्ठानां देवानां सभागतायाम् उपपत्तये शिक्षितव्यम्. न च तत्रोपपत्तये शिक्षितव्यम् आकाशानन्त्यायतनानां विज्ञानानन्त्यायतनानाम् आकिञ्चन्यायतनानां नैवसंज्ञानासंज्ञायतनानाम् उपपत्तये शिक्षितव्यं, किं प्रथमचित्तोत्पादे शिक्षितव्यं, द्वितीये तृतीये चतुर्थे पञ्चमे षष्टे सप्तमे ऽष्टमे नवमे किं दशमे चित्तोत्पादे शिक्षितव्यं, किं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा सत्त्वपरिपाके वा बुद्धक्षेत्रपरिशोधने वा धारणीमुखेषु वा शिक्षितव्यं, किं प्रतिसंवित्सु शिक्षितव्यं, किं बोधिमार्गे शिक्षितव्यम्, अत्र बोधिमार्गे शिक्षमाणेन सर्वधर्माः सर्वाकारैर् ज्ञातव्याः. न च भगवन् धर्मधाताव् इमे विकल्पास् तस्मात् मा हैव भगवन् बोधिसत्त्वो महासत्त्वो विपर्यासेषु चरन् न प्रपञ्चं प्रपञ्चयेत्. तत् कस्य हेतोः? न हि भगवन् धर्मधाताव् इमे विकल्पा न च धर्मधातौ रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चान्यत्र रूपाद् धर्मधातुर् नान्यत्र वेदनाया नान्यत्र संज्ञाया नान्यत्र संस्कारेभ्यो नान्यत्र विज्ञानाद् धर्मधातुः, रूपम् एव धर्मधातुः धर्मधातुर् एव रूपं, वेदनैव धर्मधातुर् धर्मधातुर् एव वेदना, संज्ञैव धर्मधातुर् धर्मधातुर् एव संज्ञा, संस्कारा एव धर्मधातुर् धर्मधातुर् एव संस्काराः, विज्ञानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं, यथा मध्यमे परिवर्तकृतं तथा सर्वधर्मा ज्ञातव्याः.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, रूपम् एव धर्मधातुर् धर्मधातुर् एव रूपम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं, यदि पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कञ्चिद् धर्मं धर्मधातुव्मिर्मुक्तं पश्येन् नानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं प्रतिष्ठेत प्रज्ञापारमितायाम् एवं बोधिसत्त्वो महासत्त्वश् चरन् सर्वधर्माणां धर्मधातुं यथाभूतं प्रजानाति, अतस् तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् धर्मधातुम् एव ज्ञात्वानामकात् (psp_6-8:85) सर्वधर्मान् नामसंकेतेन देशयतीदं रूपम् इमे वेदनासंज्ञासंस्कारा, इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, इमाः पारमिताः, इमानि शून्यतामुखानि, इमे बोधिपक्ष्या धर्मा, इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखानि, इमानि शून्यतानिमित्ताप्रणिहितानि, इमा अभिज्ञा, इमे दशबलवैशारद्य् अप्रतिसंविदावेणिकबुद्धधर्मा, इयम् अनुत्तरा सम्यक्संबोधिः. इति संक्लेशव्यवदानज्ञाननिवेशनकर्म
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा स किंचिद् एव द्रव्यम् अधिष्ठाय विविधानि रूपगतानि दर्शयेत्, स्त्रीविग्रहं वा पुरुषविग्रहं वा हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वा, उद्यानानि वा नगराणि वा आरामरमणीयानि वा नदीरमणीयकं वा पुष्किरिणीरमणीयकं वा, तत्र विविधान्य् आस्तरणप्रत्यास्तरणानि दर्शयेत्, पुष्पधूपगन्धमाल्यगणांश् च खादनीयं वा भोजनीयं वा दर्शयेत् महता गीतवादितेन जनं रमयेत्, दानं वा ददन् शीलं वा रक्षन् क्षान्तिं वा संपादयमानो वीर्यं वारभमाणो ध्यानं वा समापद्यमानः प्रज्ञां वा भावयेत्. स तत्रैभिर् आकारैः क्षत्रियमहाशालकुलानि वा ब्राह्मणमहाशालकुलानि वा गृहपतिमहाशालकुलानि वा दर्शयेच् चातुर्महाराजाकायिकान् वा देवान् दर्शयेत्, सुमेरुं वा दर्शयेत् त्रयस्त्रिंशान् वा देवान् दर्शयेद् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मपार्षद्यान् ब्रह्मपुरोहितान् महाब्रह्माणः परीत्ताभान् अप्रमाणान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् शुद्धावासान् अस्पृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् दर्शयेद्, आकाशानन्त्यायतनानि वा विज्ञानानन्त्यायतनां वा आकिञ्चन्यायतनां वा नैवसंज्ञानासंज्ञायतनां देवान् वा दर्शयेद्, रूपिणः स्रोतआपन्नान् वा सकृदागामिनो वानागामिनो वार्हतो वा प्रत्येकबुद्धान् वा ये ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्ति, शीलपारमितायां चरन्ति, क्षान्तिपारमितायां चरन्ति, वीर्यपारमितायां चरन्ति, ध्यानपारमितायां (psp_6-8:86) चरन्ति, प्रज्ञापारमितायां चरन्ति, यावद् दशम्यां भूमौ
चरन्ति, बोधिसत्त्वन्यामम् अवक्रामन्ति, ते ऽभिज्ञा अभिनिर्हरन्ति, ताभिश् च विक्रीडन्ति सत्त्वाश् च परिपाचयन्ति, बुद्धक्षेत्रं च परिशोधयन्ति, ध्यानविमोक्षसमाधिसमापत्तिभिश् च विक्रीडन्ति, तह्तागतबलानि निष्पादयन्ति, वैशारद्यानि वा प्रतिसंविदो वा महामैत्रीं वा महाकरुणां वा निष्पादयन्ति, तान् अप्य् आदर्शयेत्, सर्वाङ्गप्रत्यङ्गेसु परिपूर्णं वा बुद्धविग्रहम् आदर्शयेत्. तत्र बालपृथग्जनाः सत्त्वा एवं जानीयुर्, अहो यावत् सुशिक्षितो बतायं मनुष्य इव शोभनं करोति, यद् उतैवं जनं रमेयति विविधञ् च रूपम् आदर्शयति, यावद् बुद्धविग्रहं वा विस्तरशः. ये खलु तत्र मनुष्या भवन्ति पण्डिता मेधाविनो निपुणास् तद्रूपया मीमांसया समन्वागतास् तेषाम् एवं भवति, आश्चर्यम् इदम् अद्भुतो धर्मो, न चात्र कश्चिद् धर्म उपलभ्यते, अयं च मनुष्य इमं जनपदम् एवम् असंविद्यमानेषु धर्मेषु रमयति, तच् चास्य ज्ञानं भवत्य् अद्रव्ये ऽस्मिन्न् एव जनो द्रव्यसंज्ञी. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् न कञ्चिद् धर्मधातुविनिर्मुक्तं समनुपश्यति प्रज्ञापारमितायां चरन्न् उपायकौशल्येन, न च सत्त्वम् उपलभते न च सत्त्वप्रज्ञप्तिः. इति सत्त्वार्थयाथात्म्यनिवेशनकर्म
स आत्मना च दानं ददाति परांश् च दाने नियोजयति, दानस्य च वर्णं भाषते, ये ऽपि चान्ये दानं ददाति तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च शीलं रक्षति परांश् च शीले प्रतिष्ठापयति शीलस्य च वर्णं भाषते, ये ऽपि चान्ये शीलं रक्षन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च क्षान्तिं संपादयति परांश् च क्षान्तौ नियोजयति, क्षान्तेश् च वर्णं भासते, ये ऽपि चान्ये क्षान्तिं संपादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च वीर्यम् आरभते परांश् च वीर्ये नियोजयति, वीर्यस्य च वर्णं भाषते, ये ऽपि चान्ये वीर्यम् आरभन्ते तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च ध्यानं समापद्यते, परांश् च ध्याने प्रतिष्ठापयति, ध्यानस्य च वर्णं भाषते, ये ऽपि चान्ये ध्यानं समापद्यन्ते तेषां (psp_6-8:87) च वर्णवादी भवति समनुज्ञः.
आत्मना च प्रज्ञां भावयति परांश् च प्रज्ञायां नियोजयति, प्रज्ञायाश् च वर्णं भाषते, ये ऽपि चान्ये प्रज्ञां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः. इति षट्पारमितानिवेशनकर्म
आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयति, दशानां च कुशलानां कर्मपथानां वर्णं भाषते, ये ऽपि चान्ये दशकुशलान् कर्मपथान् समादाय वर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च पञ्चशिक्षापदसमादाने वर्तते, परांश् च पञ्चशिक्षापदसमादाने समादापयति, पञ्चानाञ् च शिक्षापदानां वर्णं भाषते, ये ऽपि चान्ये पञ्चशिक्षापदसमादाने वर्तन्ते तेषां वर्णवादी भावति समनुज्ञः.
आत्मना चार्याष्टाङ्गसमन्वागतं पोषधम् उपवसति, परांश् चार्याष्टाङ्गसमन्वागते पोषधे समादापयत्य् आर्याष्टाङ्गसमन्वागतस्य च पोषधस्य वर्णं भाषते, ये ऽपि चान्ये आर्याष्टाङ्गसमन्वागतं पोषधम् उपवसन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः.
आत्मना चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, परांश् चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु नियोजयत्य् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाणां च वर्णं भाषते, ये ऽपि चान्ये ऽप्रमाणध्यानारूप्यविमोक्षसमाधिसमाप्त्तिधारणीमुखानि समापद्यन्ते तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयति, परांश् च सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयति, सप्तत्रिंशद्बोधिपक्ष्याणाञ् च धर्माणां वर्णं भाषते, ये ऽपि चान्ये सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु प्रवर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति, परांश् च शून्यतानिमित्ताप्रणिहितेषु नियोजयति, शून्यतानिमित्ताप्रणिहितानां च वर्णं (psp_6-8:88) भाषते, ये ऽपि चान्ये शून्यतानिमित्ताप्रणिहितानि भावयन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः.
आत्मना च चत्वार्य् आर्यसत्यानि भावयति, परांश् च चतुर्ष्व् आर्यसत्येषु नियोजयति, चतुर्णाञ् चार्यसत्यानां वर्णं भाषते, ये ऽपि चान्ये चत्वार्य् आर्यासत्यानि भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च पञ्चाभिज्ञा निष्पादयति, परांश् च पञ्चस्व् अभिज्ञासु नियोजयति, पञ्चानां चाभिज्ञानां वर्णं भाषते, ये ऽपि चान्ये पञ्चाभिज्ञा निष्पादयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् भावयति, परांश् च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु नियोजयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां वर्णं भासते, ये ऽपि चान्ये दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च महाकरुणां भावयति, परांश् च महाकरुणायां नियोजयति, महाकरुणायाश् च वर्णं भासते, ये ऽपि चान्ये महाकरुणां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि निष्पादयति, परांश् च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनेषु नियोजयति, द्वात्रिंशद्महापुरुषलक्षणाशीत्यनुव्यञ्जनानां च वर्णं भाषते, ये ऽपि चान्ये द्वात्रिंशन्महापुर्षलक्षणाशीत्यनुव्यञ्जनानि निष्पादयन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः. इति बुद्धमार्गनिवेशनकर्म
यदि सुभूते न धर्मधातुर् यथा पूर्वं तथा पश्चात् तथा मध्ये न बोधिसत्त्वो महासत्त्व उपायकौशल्येन धर्मधातुं शोधयेत्, न सत्त्वांश् च परिपाचयेत्. यस्मात् तर्हि सुभूते धर्मधातुर् यथैव पूर्वं तथाइव पश्चात् तथाइव मध्ये तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरति.
सुभूतिर् आह: यदि भगवन्न् अत्यन्ततया सत्त्वो नोपलभ्यते न च सत्त्वप्रज्ञप्तिः. कस्यार्थाय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति? (psp_6-8:89)
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: भूतकोतिं सुभूते ऽप्रमाणीकृत्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, यदि सुभूते अन्या भूतकोटिः स्याद् अन्या सत्त्वकोटिर् न बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, यस्मात् तर्हि सुभूते नान्या भूतकोटिर् नान्या सत्त्वकोटिस् तस्माद् बोधिसत्त्वो महासत्त्वः सत्त्त्वानाम् अर्थाय प्रज्ञापारमितायां चरति, प्रज्ञापारमितायां सुभूते बोधिसत्त्वो महासत्त्वश् चरन् भूतकोट्यविकोपनायै सत्त्वान् भूतकोट्यां प्रतिष्ठापयति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भूतकोटिः सत्त्वकोटिः, किं पुनर् भगवन् भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्? यदि भगवन् भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्, ततः स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, न च भगवन् स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, तत् कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्, न च स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, अपि तु खलु सुभूते बोधिसत्त्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् भूतकोट्यां प्रतिष्ठापयति, न चान्या भूतकोटिर् अन्या सत्त्वकोटिर् इति हि सुभूते भूतकोटिश् च सत्त्वकोटिश् चाद्वयम् एतद् अद्वैधीकारम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् बोधिसत्त्वानां महासत्त्वानाम् उपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति न च भूतकोटिं विकोपयति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सत्त्वान् दाने प्रतिष्ठापयति, दाने प्रतिष्ठाप्य तस्य दानस्य पूर्वान्तापरान्तम् आचष्टे यथैव तद् दानं पूर्वान्ततः शून्यम् अपरान्ततः शून्यं मध्यतः शून्यं तत् तथा तद् दानफलम् अपि शून्यं, देयम् अपि शून्यं, दानपतिर् अपि शून्यो, दायको ऽपि दायकस्वभावेन शून्यः, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः. (psp_6-8:90) एवं कुलपुत्र सर्व एते धर्मा भूतकोट्यां न संविद्यन्ते, मा चान्यद् दानं मन्स्यसे, ऽन्यद् दानपतिं मंस्यसे, ऽन्यद् दानफलं मंस्यसे, ऽन्यं प्रतिग्राहकं मंस्यसे, ऽन्यां भूतकोटिं मंस्यसे, यतस् त्वं कुलपुत्र नान्यद् दानं मंस्यसे, नान्यं दानपतिं मंस्यसे, नान्यं दानफलं मंस्यसे, नान्यं प्रतिग्राहकं मंस्यसे, नान्यां भूतकोटिं मंस्यसे, ततस् त एतद् दानम् अमृतावहं भविष्यत्य् अमृतफलम् अमृतपर्यवसानम्, एतेन च त्वं दानेन मा रूपं प्रतिग्रहीष्यसि, मा वेदनां मा संज्ञां मा संस्कारां, मा विज्ञानं प्रतिग्रहीष्यसि. तत् कस्य हेतोः? तथा हि तवैतद् दानं शून्यं दानस्वभावेन, फलम् अपि फलस्वभावेन शून्यं, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः, न च शून्यतायां दानम् उपलभ्यते, न दानफलम् उपलभ्यते, न प्रतिग्राहक उपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते धर्माः स्वभावेन शून्याः.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् शीले प्रतिष्ठापयति, एहि त्वं कुलपुत्र प्राणातिपातं प्रहाय प्रणातिपातात् प्रतिविरतो भव, एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पैशून्यात् परुषवचनाद् अबद्धप्रलापाद् अभिध्याया व्यापादाद् एहि त्वं कुलपुत्र मिथ्यादृष्टिं प्रहाय मिथ्यादृष्ठेः प्रतिविरतो भव, नैषां कुलपुत्र धर्माणां कश्चित् स्वभावो विद्यते यथा त्वया कल्पितो ऽहं तत् कुलपुत्रोपपरीक्षे स्वभावं, कतम एष धर्मः प्राणो नाम यो जीविताद् व्यपरोप्यते येन वा व्यपरोप्यते? एवम् अदत्तादानं काममिथ्याचारा मृषावादः पैशून्यं परुषवचनम् अबद्धप्रलापो ऽभिध्या व्यापादः, कतम एष धर्मो मिथ्यादृष्टिर् नाम यो वा मिथ्यां पश्यत्य्? अनेन सुभूते उपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् परिपाचयति, तस्य दानस्य च शीलस्य च फलम् आकाङ्क्षते, तद् अपि दानफलं च शीलफलं च स्वभावेन शून्यं, ततः स कुलपुत्रो ऽनुत्त्रस्तस्य दानफलस्य च शीलफलस्य च फलं स्वभावेन शून्यं विदित्वा (psp_6-8:91) तत्र नाभिनिविशते अनभिनिवेशमानो ऽविक्षेपम् उत्पाद्य प्रज्ञाम् उत्पादयति, यया प्रज्ञया सर्वानुशयपर्युत्थानानि च्छित्वानुपधिशेषे निर्वाणधातौ परिनिर्वाति लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोः? न हि शून्यतायां कश्चिद् धर्म उपलभ्यते यः परिनिर्वायाद् येन च पर्मिर्वायाद्, अपि तु खलु पुनर् एतद् एव तत् परिनिर्वाणं यद् उतात्यन्तशून्यता.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः परसत्त्वान् परपुद्गलान्, क्षुधान् व्यापन्नचित्तान् दृष्ट्वा एवम् अववदत्य् अनुशास्ति, एहि त्वं कुलपुत्र क्षान्तिं संपादय क्षमी च भवशूरतो दातचित्तो ऽधिवासनजातीयो यत्र त्वं व्यापद्यसे सर्व एते धर्माः प्रकृतिशून्या हन्तोपपरीक्षस्व भावं, कुलपुत्र कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यायद्यते? सर्व एते धर्माः प्रकृतिशून्या, या च प्रक्र्तिशून्यता न सा जातु न शून्यता, सा च न तथागतैः क्र्ता, न प्रत्येकबुद्धैर् न श्रावकैर् न बोधिसत्त्वैर् न देवैर् न नागैर् न यक्षैर् न गन्धर्वैर् नासुरैर् न गरुडैर् न किंनरैर् न महोरगैर् न चतुर्भिर् महाराजैर् न शक्रेण देवानाम् इन्द्रेण न यामेन देवपुत्रेण न तुषितेन देवपुत्रेण न निर्माणरतिना देवपुत्रैर् न परनिर्मितवशवर्तिना देवपुत्रैर् न ब्रह्मपार्षद्यैर् न ब्रह्मपुरोहितैर् न महाब्रह्मभिर् न परीत्ताभैर् नाप्रमाणाभैर् नाभास्वरैर् न परीत्तशुभैर् नाप्रमाणशुभैर् न शुभकृत्स्नैर् नानभ्रकैर् न पुण्यप्रसवैर् न बृहत्फलैर् न शुद्धावसैर् नातपैर् न सुदृशैर् न सुदर्शनैर् नाकनिष्ठैर् देवपुत्रैर् नाकाशानन्त्यायतनैर् न विज्ञानानन्त्यायतनैर् नाकिञ्चन्यायतनैर् न नैवसंज्ञानासंज्ञायतनैः कृता हन्त कुलपुत्रोपपरीक्षस्व कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यापद्यते? सर्व एते धर्माः प्रकृतिशून्या न च शून्यता कस्यचिद् अन्तिके व्यापद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् प्रकृतिशून्यतायां नियोजयत्य् अयं हेतुर् इदं फलं प्रकृतिशून्यतायां नियोजयन्न् अनुपूर्वेण यावद् अनुत्तरायां सम्यक्संबोधौ संदर्शयति समादापयति निवेशयति प्रतिष्ठापयति, तत् पुनर् लोकव्यवहारेण न (psp_6-8:92) पुनः परमार्थेन. तत् कस्य हेतोः? न हि प्रकृतिशून्यतायां कश्चिद् अस्ति यो वा प्राप्नुयाद् येन वा प्राप्नुयाद् यत्र वा प्राप्नुयाद् इयं सुभूते भूतकोटिर् यद् उत प्रकृतिशून्यता यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति सत्त्वानां कृतशो नात्र सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः. तत् कस्य हेतोह्? सत्त्वविविक्तता हि सर्वधर्माः.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन समन्वागतः सत्त्वान् हीनवीर्यान् दृष्ट्वा कायिके च चैतसिके च वीर्ये समादापयति, न कुलपुत्र प्रकृतिशून्यतायां कस्यचिद् धर्मस्य संसीदना विद्यते यत्र वा संसीदेद् येन वा संसीदेद् यो वा संसीद्येत्, सर्व एते धर्माः प्रकृतिशून्याः शून्यता नातिवर्तते हन्तेदानीं कायिकं च चैतसिकञ् च वीर्यं जनयित्वा कौशीद्यम् अवसृज्य कुशल एव कर्मण्य् उद्यच्छस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु यदि वा शून्यतानिमित्ताप्रणिहितेषु यदि वार्यसत्येषु यदि वाध्यात्मशून्यतायां यदि वा बहिर्धाशून्यतायां यदि वाध्यात्मबहिर्धाशून्यतायां यदि वा यावद् अभावस्वभावशून्यतायां यदि वाभिज्ञासु यदि वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यदि वा यावत् सर्वधर्मेषु सर्वान् एतान् कुलपुत्र धर्मान् अनावरणान् प्रेक्षस्व स्वलक्षणशून्यतया न ह्य् अनावरणेषु धर्मेषु कस्यचित् संसीदना विद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां सत्त्वान् समादापयति निवेशयति प्रतिष्ठापयति, तथा च प्रतिष्ठापयति यथा द्वयन् न संविद्यते. तत् कस्य हेतोः? अद्वया हि प्रकृतिशून्यताद्वैधीकारा, न ह्य् अद्वयो धर्मः क्वचित् कौशीद्यम् आपद्यते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतया वीर्यसत्त्वान् अवतारयत्य् अनुशास्ति, एहि त्वं कुलपुत्र वीर्यम् आरभस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु (psp_6-8:93) यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा दशतथागतबलेषु यदि वा चतुर्षु वैशारद्येषु यदि वा चतसृषु प्रतिसंवित्सु यदि वा महाकरुणायां यदि वाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु मा एतान् धर्मान् द्वयतो मनसिकुरु माद्वयतः. तत् कस्य हेतोः? प्रकृतिशून्या ह्य् एते धर्मा न हि प्रकृतिशून्यता द्वयतो मानसिकर्तव्या नाद्वयतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन बोधिसत्त्वचर्यां चरन् सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्यानुपूर्वेण स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयत्य् अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयत्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थं करोत्य् उपायकौशल्येन ध्यानभावनायाम् एवावतारयति, एहि त्वं कुलपुत्र ध्यानं भावय मा च विक्षेपसंज्ञी भव. तत् कस्य हेतोह्? प्रकृतिशून्या ह्य् एते धर्मा न च प्रकृतिशून्यतायां कश्चिद् धर्म उपलभ्यते यो विक्षेप्यते वा एकाग्री भवति वा, स त्वम् अत्र ध्याने स्थित्वा यद् यद् एवं कुशलं कर्म करिष्यसि कायेन वा वाचा वा मनसा वा, यदि वा दानन् दास्यसि यदि वा शीलं रक्षसि यदि वा क्षान्तिं संपादयिष्यति, यदि वा वीर्यम् आरभसे यदि वा ध्यानम् उत्पादयिष्यसि यदि वा प्रज्ञा भावयिष्यसि, यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गां भावयिष्यसि, यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखानि, यदि वार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तीर् यदि वाभिज्ञा यदि वा दशबलवैशारद्यप्रतिसम्विदो यदि वा महामैत्री यदि वा महाकरुणा यदि वाष्टादशावेणिकान् बुद्धधर्मान् यदि वा द्वात्रिंशन्महापुरुषलक्षणानि यदि वाशीत्यनुव्यञ्जनानि यदि वा श्रावकमार्गं यदि वा प्रत्येकबुद्धमार्गं यदि वा बोधिसत्त्वमार्गं यदि वा बुद्धमार्गं यदि वा स्रोतआपत्तिफलं यदि वा सकृदागामिफलं यदि वानागामिफलं यदि वार्हत्त्वं यदि वा प्रत्येकबोधिं यदि वा (psp_6-8:94) सर्वाकारज्ञतां यदि वा सत्त्वान् परिपाचयिष्यसि यदि वा बुद्धक्षेत्रं परिशोधयिष्यसि, तस्य ते इमे कुशला धर्मा अल्पकृच्छ्रेण प्रादुर्भविष्यन्ति प्रकृतिशून्यतायां चरतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानाम् अर्थं करोति, प्रथमचित्तोत्पादम् उपादाय
न जात्व् अकर्मको ऽभूत्, किं कुशलगवेषी सत्त्वानाम् अर्थं कुर्वन् बुद्धक्षेत्रेण बुद्धक्षेत्रं सततसमितं संक्रामति, बुद्धान् भगवतः पर्युपास्ते, यं च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति, स तस्य जातिव्यतिवृत्तस्यापि न जातु विप्रणक्ष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्याद् धारणीप्रतिलब्धश् च सततसमितं भवत्य् अहीणेन्द्रियो यदि वा कायेन्द्रियेण यदि वा वागिन्द्रियेण यदि वा मनैन्द्रियेण. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतां सततसमितं भावयत्य् अनया सर्वाकारज्ञतया सुभावितया सर्वमार्गाः सुभाविता भवन्ति, यदि वा श्रावकमार्गो यदि वा प्रत्येकबुद्धमार्गो यदि वा बोधिसत्त्वमार्गस् तस्याभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य सततसमितम् उपकारीभूता भविष्यन्त्य् अविप्रणाशयोगेण, स तासु वैपाकिकीष्व् अभिज्ञासु स्थित्वा सत्त्वानाम् अर्थं करोति न परिहीयते पञ्चगतिके संसारे संसरन्न्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति, स तया प्रज्ञापारमितया सुभावितया सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, एहि त्वं कुलपुत्र यद् यद् एवं कर्म करोषि कायेन वा वाचा वा मनसा वा तत् सर्वम् अमृताधिगमाय परिणामय तथा ते एते धर्माः सर्व अमृताविगमाय भविष्यन्त्य् अमृतपर्यवसानाय च, न च प्रकृतिशून्यतायां कश्चिद् धर्मो ऽभिनिविशते यः परिहीयते. तत् कस्य हेतोः? न हि शून्यता परिहीयते, न च प्रकृतिशून्यतायाः कश्चित् परिहीयते. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता न भावो नाभावस् तत् किम् अभावो ऽभावे धर्मे परिहास्यत्य्, एवं खलु सुभूते बोधिसत्त्वो (psp_6-8:95) महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, स एवम् अववदन्न् एवम् अनुशासन् न जात्व् अकर्मको ऽभूत्, स आत्मना च सततसमितं दशकुशलेषु कर्मपथेषु वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयत्य् एवं पञ्चसु शिक्षापदेषु आर्याष्टाङ्गे समन्वागत उपोषधे. आत्मना च ध्यानारूप्यसमापत्तीः समापद्यते परांश् च ध्यानारूप्यसमापत्तिषु समादापयति, आत्मना च सततसमितं मैत्रीविहारी भवति परांश् च सततसमितं मैत्रीविहारे समादापयति, आत्मना च सततसमितं करुणाविहारी भवति परांश् च सततसमितं करुणाविहारे समादापयति, आत्मना च सततसमितं मुदिताविहारी भवति, परांश् च सततसमितं मुदिताविहारे समादापयति, आत्मना च सततसमितम् उपेक्षाविहारी भवति परांश् च सततसमितम् उपेक्षाविहारे समादापयति, आत्मना च
स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति परांश् च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु समादापयति, आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति परांश् च शून्यतानिमित्ताप्रणिहितेषु समादापयति, आत्मना च सर्वपारमितासु सर्वशून्यतासु च शिक्षते परांश् च सर्वशून्यतासु सर्वपारमितासु च समादापयति, आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षते परांश् च दशबलवैशारद्यप्रतिसम्विदावेनिकबुद्धधर्मेषु समादापयति, आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि परिपूरयति परांश् च द्वात्रिंसन्महापुरुषलक्षणाशीत्यनुव्यञ्जनपरिनिष्पत्तये समादापयति, आत्मना च स्रोतआपत्तिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च स्रोतआपत्तिफले प्रतिष्ठापयति, आत्मना च सकृदागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च सकृदागामिफले प्रतिष्ठापयति, आत्मना चानागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चानागामिफले प्रतिष्ठापयति, आत्मना चार्हत्त्वे ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चार्हत्त्वे प्रतिष्ठापयति, आत्मना च प्रत्येकबोधौ ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च प्रत्येकबोधौ प्रतिष्ठापयति, आत्मना चानुत्तरायां सम्यक्संबोधौ मार्गम् उत्पादयति परांश् च तत्र मार्गे ऽववदत्य् अनुशास्ति प्रतिष्ठापयति. एवं खलु (psp_6-8:96) सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचर्यां चरन्न् उपायकौशल्येन न जात्व् अकर्मको ऽभूत्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते, न धर्मो नाधर्मः, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अभिसंप्रतिष्ठते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते न धर्मो नाधर्मः, यदि पुनः सुभूते प्रकृतिशून्याः सर्वधर्मा अभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायाम् अभिसंप्रास्थास्यद्, एवं चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य प्रकृतिशून्यं धर्मं देशयेद्, रूपं सुभूते प्रकृतिशून्यं, वेदनासंज्ञासंस्कारा, विज्ञानं प्रकृतिशून्यं तदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चस्कन्धाः प्रकृतिशून्या इति धर्मं देशयति, द्वादशायतनान्य् अष्टादशधातवः प्रकृतिशून्या इति धर्मं देशयति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गमार्गः प्रकृतिशून्य इति धर्मं देशयति, त्रीणि विमोक्षमुखान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्मा द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि प्रकृतिशून्यानीति धर्मं देशयति, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः, सर्वाकारज्ञता सर्ववासनानुसंधिक्लेशप्रहाणं प्रकृतिशून्यम् इति धर्मं देशयति, यदि पुनः सुभूते ऽध्यात्मशून्यता न प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यद्, एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न
प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यन्, न च प्रकृतिशून्यता विनश्यति न च कूटस्था भवति न च सा पुनर् अपक्रामति. तत् कस्य हेतोः? न हि सा देशस्था न प्रदेशस्था न च सा क्वचिद् गच्छति नापि (psp_6-8:97) कुतश्चिद् आगच्छति, एषा सा धर्मस्थितिता, यत्र न कस्यचिद् धर्मस्याचयो वा उपचयो वोपलभ्यते, हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा एषा सा प्रकृतिधर्माणां, यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुं संप्रस्थिता न कस्यचिद् धर्मस्य प्रस्थाने पश्यति, असंप्रस्थिताः सर्वधर्माः, एषा सा धर्माणां धर्मस्थितिता, यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् प्रकृतिशून्यान् दृष्ट्वा न प्रत्युदावर्तते ऽनुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि न कस्यचिद् धर्मस्यावरणं वा समनुपश्यति, अनावरणं वा समनुपश्यति, तत् किं विचिकित्सिष्यत्य् अनुत्तरायां सम्यक्संबोधौ, यत्र प्रकृतिशून्यतायां न सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिर् नात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम् उपलभ्यते यावत् सर्वधर्मा नाध्यात्मा न बहिर्धा नाध्यात्मबहिर्धा नोपलभ्यते, यावद् अशीत्यनुव्यञ्जनानि नोपलभ्यन्ते. इति प्रकृतिशून्यतानिवेशनकर्म
तद्यथापि नाम सुभूते तथागतनिर्मितस्य भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा बोधिसत्त्वो वानुप्रबन्धं कल्पं शतसहस्रं धर्मं देशयेत्, तत् किं मन्यसे? सुभूते अपि नु ते निर्मिता भव्याः स्रोतआपत्तिफलं वा प्रापयितुं, सकृदागामिफलं वा प्रापयितुं, अनागामिफलं वा प्रापयितुम् अर्हत्त्वं वा प्रापयितुम्, प्रत्येकबोधिं प्रापयितुम् अनुत्तरां सम्यक्संबोधिं प्रापयितुम्.
सुभूतिर् आह: नो भगवंस् तत् कस्य हेतोः? तथा हि तेषां भगवन् वस्तु नास्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अवस्तुकानां सर्वधर्माणां कतमः स सत्त्वो यं बोधिसत्त्वो महासत्त्वो निवेशयति प्रतिष्ठापयति स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वा अर्हत्त्वे वा प्रत्येकबोधौ वानुत्तरायां सम्यक्संबोधौ वा (psp_6-8:98) ऽन्यत्र विपच्या सापन्नायाः संज्ञाया अविपर्यासे निवेशयति प्रतिष्ठापयति, यश् चासौ विपर्यासः स एवाविपर्यासः कल्पनाभिष्यन्दम् उपादायाविकल्पश् चाविपर्यासो, यत्राविकल्पस् तत्र विपर्यासो नास्ति न तत्रात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः न प्रतीत्यसमुत्पादाङ्गानि न तत्र पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञा न शून्यतानिमित्ताप्रणिहितानि न तत्र दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न तत्रानुत्तरा सम्यक्संबोधिर्, एषा सा प्रकृतिशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति चरंस् तांश् च विपर्यस्तान् सत्त्वान् सत्त्वसंज्ञाया मोचयत्य्, एवम् आरूप्यरूपसंज्ञाया मोचयति, एवं यावत् सर्वधर्मसंज्ञाया मोचयति, ये ऽपि ते अनास्रवा धर्मास् तद् यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः सो ऽपि न तस्य यथा न परमार्थो यद् उतासंस्कृतम् अनुत्पादो ऽप्रादुर्भावो ऽभावः, एषा सा प्रकृतिशून्यता, एषा सा सर्वबुद्धानां भगवतां बोधिर्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
