Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 30/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

परिपूरयति, अध्यात्मशून्यतां बहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां परिपूरयति, शून्यतासमाधिम् आनिमित्तसमाधिम् अप्रणिहितसमाधिं परिपूरयति, अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञाः परिपूरयति, पञ्चधारणीमुखशतानि परिपूरयति, चतस्रः प्रतिसंविदश् चत्वार्य् आर्यसत्यानि परिपूरयति, दशतथागतबलानि चत्वारि वैशारद्यान्य् अष्टादशावेणिकबुद्धधर्मान् परिपूरयति, इह विपाकजेष्व् आर्येष्व् अनास्रवेषु स्थित्वा दशसु दिक्षु ये लोकधातवस् तान् ऋद्ध्या गत्वा बुद्धांश् च भगवतः पर्युपास्ते तांश् चोपतिष्ठति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यसर्वोपकरणपरिष्कारैर् यावद् उपभोगपरिभोगैः सत्त्वानाम् अर्थं करोति, ये दानेन संग्रहीतव्यास् तान् दानेन संगृह्णाति ये शीलेण संग्रहीतव्या ये क्षान्त्या संग्रहीतव्या ये वीर्येण संग्रहीतव्या ये ध्यानेन संग्रहीतव्या ये प्रज्ञया संग्रहीतव्यास् तान् प्रज्ञया संगृह्णाति, यावद् ये सर्वैः कुशलैर् धर्मैः संग्रहीतव्यास् तान् सर्वान् कुशलैर् धर्मैः संगृह्णाति कुशलैर् धर्मैः समन्वागतः संसारं चोपाददाति न च संसारावचरैर् दुष्खैर् लिप्यते सत्त्वानां कृतशो देवमानुषिकीञ् च संपत्तिम् उत्पादयति, यया संपत्त्या सत्त्वान् संगृह्णाति, सो ऽलक्षणान् सर्वसत्त्वां ज्ञात्वा स्रोतआपत्तिफलं च जानाति न च तत्र तिष्ठति, सकृदागामिफलं च जानाति न च तत्र (psp_6-8:31) तिष्ठति, अनागामिफलं च जानाति न च तत्र तिष्ठति, अर्हत्त्वञ् च जानाति न च तत्र तिष्ठति, प्रत्येकबोधिं च जानाति न च तत्र तिष्ठति. तत् कस्य हेतोः? तथा हि तेन सर्वाकारज्ञतानुप्राप्तव्या यो ऽसाधारणा

सर्वश्रावकप्रत्येकबुद्धैः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणान् सर्वधर्मान् ज्ञात्वा षट्पारमिता अलक्षणा जानाति, यावत् सर्वधर्मान् अलक्षणानि जानाति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा शीलपारमितां परिपूरयति, स खलु पुनः स्वप्नोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चोपादानस्कन्धान् ज्ञात्वालक्षणां शीलपारमितां परिपूरयति, अखण्डाम् अच्छिद्राम् अशबलाम् अकल्माषाम् अपरामृष्टाम् अभुजिष्यां विज्ञप्रशस्तां सुसमात्ताम् आर्याम् अनास्रवां मार्गाङ्गपर्यापन्नां यत्र स्थित्वा समताभिसंस्कारिकं शीलं रक्षति धर्मताप्रतिलंभिकं च विज्ञप्तिशीलं च समुदाचारशीलं च सो ऽनेनैवंरूपेण शीलेन समन्वागतो न परामृशति, अनेनाहं शीलेन क्षत्रियमहाशालकुलानां सहव्रतायोपपद्येयाहं ब्राह्मणमहाशालकुलानां वा सहव्रतायोपपद्येयाहं राजा वा भवेयं चक्रवर्ती कोट्टराजा वा चातुर्महाराजकायिकानां वा देवानां सहव्रतायोपपद्येयाहं त्रयस्त्रिंशानां वा यामानां वा तुषितानां वा निर्मानरतीनां वा परनिर्मितवशवर्तिनां वा देवानां सहव्रतायोपपद्येयाहं ब्रह्मपार्षद्यानां वा ब्रह्मप्रोहितानां वा महाब्रह्माणां वा परीत्ताभानां वाप्रमाणाभानां वाभास्वराणां वा परीत्तशुभानां वाप्रमाणशुभानां वा शुभकृत्स्नानां वानभ्रकानां वा पुण्यप्रसवानां वा बृहत्फलानां वासंज्ञिसत्त्वानां वा शुद्धावासानां वा (psp_6-8:32) अस्पृहाणां वा अप्तपानां वा सुदृशानां वा सुदर्शनानां वा अकनिष्ठानां वा देवानां सहव्रतायोपपद्येयाहम्

आकाशानन्त्यायतनानां वा विज्ञानानन्त्यायतनानां वाकिञ्चन्यायतनानां वा नैवसंज्ञानासंज्ञायतनानां वा सहव्रत्यायोपपद्येयाहं स्रोतआपत्तिफलं वानुप्राप्नुयां सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वानुप्राप्नुयाम्. तत् कस्य हेतोः? तथा हि सुभूते ऽलक्षणाः सर्वधर्मा एकलक्षणां यद् उताभावस्वभावलक्षणाः, न ह्य् अलक्षणो धर्मो ऽलक्षणं धर्मं परिपूरयति, नापि विलक्षणो धर्मो विलक्षणं धर्मं परिपूरयति, नाप्य् अविलक्षणो धर्मो ऽविलक्षणं धर्मं प्रापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अलक्षणां शीलपारमितां परिपूरयति, शीलपारमितां परिपूर्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रान्तो ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभ्य मार्गाकारज्ञतायां चरन् पञ्चाभिज्ञा विपाकजाः प्रतिलभते, पञ्चसु धारणीमुखशतेषु स्थित्वा चतस्रः प्रतिसंविदः प्रतिलभते, चतस्रः प्रतिसंविदः प्रतिलभ्य बुद्धक्षेत्रेण बुध्हक्षेत्रं संक्रामति बुद्धांश् च भगवतः पर्युपास्ते सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, स पञ्चगतिके संसारे संसरति न च संसारावचरेण कर्मणा विपाकजेन लिप्यते, तद्यथापि नाम निर्मितश् चंक्रमति च तिष्ठति च निषीदति च शय्यां च परिकल्पयति, न चास्यागमनं दृश्यते, न गमनं न स्थानं न निषद्यां न शय्यां नासनं न चंक्रमः स सत्त्वानां चार्थं करोति, न च सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं, तद्यथापि नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य

धर्मचक्रं प्रवर्तयति, अपरिमाणान् सत्त्वान् विनीय त्रिभिर् यानैर् न कश्चित् सत्त्वम् उपलभते, यम् अनुत्तरायां सम्यक्संबोधौ व्याकुर्यात् स आयुः संस्कारान् अवसृज्य निर्मितम् अभिनिर्मायानुपधिशेषे निर्वाणधातौ परिनिर्यायात्. स खलु पुनः सुभूते निर्मितः कल्पस्यात्ययेन बोधिसत्त्वं महासत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठाप्य परिनिर्वृतस् तस्य च परिनिर्वृतस्य न कंचिद् (psp_6-8:33) वस्तूपलभ्यते, रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शीलपारमितां परिपूरयति, यत् परिपूराव् अन्तर्गताः सर्वधर्मा भवन्ति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु क्षान्तिपारमितां परिपूरयति.

सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा क्षान्तिपारमितां परिपूरयति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वश् चतसृभिः क्षान्तिभिः क्षान्तिपारमितां परिपूरयति, कतमाभिश् चतसृभिः प्रथमचित्तोत्पादम् उपादाय, यावद् बोधिमण्डनिषण्णस्यात्रान्तरे सर्वसत्त्वा आक्रोशेयुर् वा परिभाषेरन् वासत्यया वाचा परुषया वा समुदाचरेयुर् लोष्टदण्डशस्त्रप्रहारान् वा दद्युस् तत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितां परिपूरयितुकामेनैकचित्तोत्पादो ऽपि क्षोभसहगतो नोत्पादयितव्यः, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति, तत् कस्य हेतोः? तथा हि सुभूते ऽस्यालक्षणाः, सर्वधर्माः क्षमन्ति तत् किं अस्यैवं भवति, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति स एवम् उपपरीक्षमाणः क्षान्तिपारमितां परिपूरयति, सो ऽनया क्षान्तिपारमितया परिपूर्णयानुत्पत्तिकैर् धर्मैः क्षान्तिं प्रतिलभते.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कैषा भगवन्न् अनुत्पत्तिकेषु धर्मेषु क्षान्तिः किं वा एतस्याः प्रमाणं किं वा ज्ञानम्?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अणवो ऽपि सुभूते ऽकुशला धर्मा नोत्पद्यन्ते तेनोच्यन्ते ऽनुत्पत्तिका इति, तत्र या क्षान्तिस् तद् उच्यते ज्ञानं येन ज्ञानेनानुत्पत्तिकेषु धर्मेषु क्षान्तिं (psp_6-8:34) प्रतिलब्धते.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: या च भगवन् श्रावकानां वा प्रत्येकबुद्धानां वानुत्पत्तिकेषु धर्मेषु क्षान्तिर् या च बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर् आसां क्षान्तीनां किं नानाकरणं कः प्रतिविशेषः.

भगवान् आह: यच् च सुभूते स्रोतआपन्नस्य ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् च सकृदागामिनो ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् चानागामिनां ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् चार्हतो ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् च प्रत्येकबुद्धस्य ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. इदं सुभूते नानाकरणं श्रावकप्रत्येकबुद्धानां क्षान्तेर् बोधिसत्त्वक्षान्तेश् च, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः इहैवं रूपया क्षान्त्या समन्वागतः सर्वश्रावकप्रत्येकबुद्धान् अभिभवति विपाकजायाम् अनुत्पत्तिकायां क्षान्त्यां स्थित्वा बोधिमार्गे चरन् मार्गज्ञतां परिपूरयति, यया परिपूर्णयाविरहितो भवति सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैः शून्यतानिमित्ताप्रणिहितैश् च समाधिभिः, स इह पञ्चभिर् अभिज्ञाभिर् अविरहितो भवति सो ऽविरहितत्वाद् आभिः पञ्चभिर् अभिज्ञाभिः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाच्य बुद्धक्षेत्रं च परिशोध्य सर्वाकारज्ञताम् अनुप्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणां क्षान्तिपारमितां परिपूरयति.

पुनर् अपरं सुभूत्र् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु वीर्यपारमितां परिपूरयति.

सुभूतिर् आह: कथञ् च भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा वीर्यपारमितां परिपूरयति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः कायिकं च चैतसिकं च वीर्यम् आरभते स कायिकेन वीर्येण ऋद्धिम् अभिनिर्हरति, (psp_6-8:35) दशदिग्लोकधातुं गत्वा बुद्धान् भगवतः पर्युपास्ते सत्त्वानां चार्थं करोति, स तेन कायिकेन वीर्येण सत्त्वान् पारिपाचयति त्रिषु यानेषु निवेशयति विनयति प्रतिष्ठापयति श्रावकयाने प्रत्येकबुद्धयाने ऽनुत्तरे बुद्धयाने. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अलक्षणां वीर्यपारमितां परिपूरयति, स चैतसिकेन वीर्येणानास्रवेण मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयति, यत्र पर्यापन्नाः सर्वकुशला धर्मास् तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियानि पञ्चबलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गमार्गं त्रीणि विमोक्षमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयश् चत्वारि सत्यानि पञ्चाभिज्ञाः समाधिः धारणीमुखानि दश बोधिसत्त्वभूमयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, यत्र बोधिसत्त्वेन महासत्त्वेन चरता सर्वाकारज्ञता परिपूरयितव्या यस्यां परिपूर्णायां सर्ववासनानुसंधिं प्रहास्यति सर्ववासनानुसंधिं प्रहाय लक्षणपरिनिष्पत्तिं परिपूरयिष्यति, लक्षणपरिनिष्पत्तिं परिपूर्य प्रज्ञापारमितायां चरन् समन्तप्रभताम् आरागयिष्यति समन्तप्रभताम् आराग्य धर्मचक्रं च प्रवर्तयिष्यति द्वादशाकारन् त्रिपरिवर्तस्य प्रवर्ततेन त्रिसाहस्रो लोकधातुः षड्विकारं प्रकम्पिष्यते संप्रकम्पिष्यते प्रवेधिष्यते संप्रवेधिष्यते,

प्रचलिष्यति संप्रचलिष्यति, सर्वे च त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फारिष्यति, तस्य पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य शब्दो निश्चरिष्यति तत्र ये त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तं शब्दं श्रोष्यन्ति ते सर्वे नियता भविष्यन्त्य् अनुत्तरेषु त्रिषु यानेषु, एवं बहुप्रकारा सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता यस्यां वीर्यपारमितां स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धधर्मान् परिपूर्य सर्वाकारज्ञताम् अनुप्राप्तव्याः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणां वीर्यपारमितां परिपूरयति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेसु मायोपमेषु (psp_6-8:36) निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपदानस्कन्धेषु स्थित्वालक्षणेषु ध्यानपारमितां परिपूरयति.

सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा ध्यानपारमितां परिपूरयति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमं ध्यानम् उपसंपद्य विहरति द्वितीयं तृतीयं चतुर्थं ध्यानम् उपसंपद्य विहरति मैत्रीकरुणां मुदिताम् उपेक्षाम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनन् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति शून्यतानिमित्ताप्रणिहितसमाधीं भावयति विद्युतोपमञ् च समाधिं भावयति वज्रोपमञ् च समाधिं भावयति यत्र समाधौ स्थित्वा ये केचित् समाधयः, श्रावकसमाधिर् वा प्रत्येकबुद्धसमाधिर् वा ये ऽप्य् अन्ये समाधिगणास् तान् सर्वान् कायेन संस्पृश्योपसंपद्य विहरति, न च तान् समाधीन् आस्वादयति, न च समापत्तिफलम्. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वस् तान् समाधीन् अलक्षणान् जानात्य् अभावस्वभावत्वात् तत् किम् अलक्षणो धर्मो ऽलक्षणं धर्मम् आस्वादयिष्यति, अभावस्वभावो धर्मो ऽभावस्वभावं धर्मम् आस्वादयिष्यति, सो ऽनास्वादयन् न कस्यचित् समापत्तेर् वशेनोपपत्स्यते कामधातौ वा रूपधातौ वारूप्यधातौ वा. तत् कस्य हेतोः? तथा हि स तान् धातून् नोपलभते यो ऽपि समापद्येत येन वा समापद्यते, तम् अपि नोपलभते ऽनुपलंभमानो ऽलक्षणां ध्यानपारमितां परिपूरयति स तया ध्यानपारमितया श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितया श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति.

भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितो बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सुशिक्षितो न चेह शून्यतासु कश्चिद् धर्म उपलभ्यते यत्रावतिष्ठेत्, स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वार्हत्त्वे वा प्रत्येकबुद्धत्वे वा यावत् सर्वाकारज्ञतायां वा सापि शून्या शून्यतया, स आभिः शून्यताभिर् बोधिसत्त्वो (psp_6-8:37) महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति.

सुभूतिर् आह: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्यामः? कतमो नियामः?

भगवान् आह: सर्वः सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभ आत्मः सर्वानुपलंभो नियामः.

सुभूतिर् आह: कतमो भगवन्न् उपलंभः? कतमो ऽनुपलंभः?

भगवान् आह: रूपं सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभः, वेदना संज्ञा संस्कारा विज्ञानम् उपलंभः, चक्षुर् उपलंभः श्रोत्रं घ्राणं जिह्वा कायो मन उपलंभो, रूपशब्दगन्धरसस्प्रष्टव्यधर्मा उपलंभः, चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्ययवेदनोपलंभः, एवं श्रोत्रघ्राणजिह्वाकायो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्ययवेदनोपलंभः, पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् उपलंभः, प्रतीत्यसमुत्पाद उपलंभः, अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भावो जातिर् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा उपलंभः, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखान्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा उपलंभः, सर्वाकारज्ञताः सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभः, अयम् उच्यते आमः, नियामः पुनः सुभूते यत्रैषां धर्माणां प्रव्याहारो नोपलभते, रूपस्य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा सर्वपारमितानां सर्वशून्यतानां सर्वबोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखानां शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां सर्वाकारज्ञतायाः. तत् कस्य हेतोः? तथा हि सुभूते रूपस्य यः स्वभावः सो ऽप्रव्याहारो वेदनायाः संज्ञायाः

संस्काराणां विज्ञानस्य यः स्वभावः सो ऽप्रव्याहारः, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा यः स्वभावः सो ऽप्रव्याहारः (psp_6-8:38) सर्वपारमितानां सर्वशून्यतानां सर्वबोधिपक्ष्याणां धर्माणां यः स्वभावः सो ऽप्रव्याहारः, आर्यसत्यानाम् अप्रमाणानां ध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां यः स्वभावः सो ऽप्रव्याहारः शून्यतानिमित्ताप्रणिहिताभिज्ञानां यः स्वभावः सो ऽप्रव्याहारो दशानां बोधिसत्त्वभूमीनां यः स्वभावः सो ऽप्रव्याहारः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां यः स्वभावः सो ऽप्रव्याहारः, सर्वाकारज्ञताया यः स्वभावः सो ऽप्रव्याहारः, अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नियामः, नियामम् अक्रान्तो बोधिसत्त्वो महासत्त्वः समाधिपरिपूर्णो न समापत्तिवशेनोपपद्यते, प्राग् एव रागं वा दोषं वा मोहं वोत्पादयेद् यत्र स्थित्वा तत् कर्माभिसंस्कुर्याद् येन कर्माभिसंस्कारेण चतुर्णां ध्यानानाम् अन्यतमेनोपपद्येत नेदं स्थानं विद्यते ऽन्यत्र मायोपमेषु स्थित्वा सर्वसत्त्वानाम् अर्थं करोति न च सत्त्वानुपलभमानः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितां परिपूर्य यावद् धर्मचक्रं प्रवर्तयति, यद् उतानुपलंभशून्यतानिमित्ताप्रणिहितचक्रम्.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमान् धर्मान् परिजानाति प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमान् सर्वधर्मान् परिजानाति. इत्य् अलक्षणसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयस् तृतीयः

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः स्वप्नोपमान् सर्वधर्मान् परिजानाति? प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च सर्वधर्मान् परिजानाति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न स्वप्नं न स्वप्नदर्शिनं पश्यति, न प्रतिश्रुत्कान् न प्रतिश्रुत्कादर्शिनं, न प्रतिभासं न प्रतिभासदर्शिनं, न प्रतिबिंबं न प्रतिबिंबदर्शिनं, न मरीचिं न मरीचिदर्शिनं, न मायां न (psp_6-8:39) मायादर्शिनं, न निर्मितकं न निर्मितकदर्शिनं, न गन्धर्वनगरं न गन्धर्वनगरदर्शिनं च पश्यति. तत् कस्य हेतोः? तथा हि विपर्यासः स्वप्नो विपर्यासः, प्रतिश्रुत्का विपर्यासः प्रतिभासो विपर्यासः प्रतिबिंबं विपर्यासो मरीचिर् विपर्यासो माया विपर्यासो निर्मितको विपर्यासो गन्धर्वनगरं विपर्यास एष बालपृथग्जनानां पुनर् नापि स्वप्नदर्शनं नापि स्वप्नदर्शी न प्रतिश्रुत्कादर्शनं नापि प्रतिश्रुत्कादर्शी न प्रतिभासदर्शनं नापि प्रतिभासअदर्शी, न प्रतिबिंबदर्शनं नापि प्रतिबिंबदर्शी, न मरीचिदर्शनं न मरीचिदर्शी, न मायादर्शनं न मायादर्शी, न निर्मितकदर्शनं न निर्मितकदर्शी, न गन्धर्वनगरदर्शनं न गन्धर्वनगरदर्शी, एवं यावन् नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो महासत्त्वो न तथागतो ऽर्हन् सम्यक्संबुद्धः. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावाः सर्वधर्मा अनुत्पन्ना असद्भूता ये ऽभावस्वभावाः सर्वधर्मास् ते परिनिष्पन्नास् तत्र किं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भावसंज्ञी भविष्यति परिनिष्पन्नसंज्ञी वासद्भूतसंज्ञी वा नेदं स्थानं विद्यते. तत् कस्य हेतोः? न सा प्रज्ञापारमिता स्याद् यदि कस्यचिद् धर्मस्य स्वभावो भवेत् परिनिष्पत्तिर् वा सद्भूतता वा, एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न रूपे सज्जति,

न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने सज्जति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सज्जति, न प्रतीत्यसमुत्पादाङ्गेषु सज्जति, न कामधातौ न रूपधातौ नारूप्यधातौ सज्जति, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न सज्जति, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु न सज्जति, शून्यतानिमित्ताप्रणिहितसमाधौ न सज्जति, आर्यसत्येषु न सज्जति, दानपारमितायां न सज्जति, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां न सज्जति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमां भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि तां भूमिं नोपलभते, तत् किं तत्र च्छन्दरागं करिष्यत्य् एवं द्वितीयां भूमिं तृतीयां भूमिञ् चतुर्थां भूमिं पञ्चमीं भूमिं (psp_6-8:40) षष्ठीं भूमिं सप्तमीं भूमिम् अष्टमीं भूमिं नवमीं भूमिं दशमीं भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि स ता भूमीर् नोपलभते, तत् किन् तत्र छन्दरागं करिष्यति, एवं दशम्यां भूमौ चरन् सर्वधर्माश् च तत्र प्रज्ञापारमितायाम् अन्तर्गतान् पश्यति, तांश् च सर्वधर्मान् नोपलभते. तत् कस्य हेतोः? तथा हि ते सर्वधर्माः सा च प्रज्ञापारमिताद्वयाद्वैधीकाराः. तत् कस्य हेतोः? तथा हि सर्वधर्माणां न कश्चिद् भेदो ऽस्ति धर्मधातुनिर्देशेन तथतानिर्देशेन भूतकोटिनिर्देशेनासंभिन्नाः सर्वधर्माः.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवान्न् असंभिन्नता सर्वधर्माणां तत्र कथं कुशलधर्मनिर्देशो भवति सास्रवाणाम् अनास्रवाणाञ् च धर्माणां निर्देशो भवति, लौकिकलोकोत्तराणां वा संस्कृतासंस्कृतानां धर्माणां निर्देशो भवति.

भगवान् आह: तत् किं मन्यसे? सुभूते या धर्माणां धर्मता सा कस्यचिद् धर्मस्य प्रव्याहारः संस्कृतस्य वासंस्कृतस्य वा स्रोतआपत्तिफलस्य वा सकृदागामिफलस्य वानागामिफलस्य वार्हत्त्वस्य वा प्रत्येकबोधेर् वा बोधिसत्त्वताया वा सम्यक्संबोधेर् वा.

सुभूतिर् आह: नो भगवन्.

भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, असंभिन्नाः सर्वधर्मा अलक्षणा अनुत्पन्ना अविनिर्भोगाः सर्वधर्मा न मया सुभूते सर्वां बोधिसत्त्वचर्यां चरता, कश्चिद् धर्मोपलब्धो रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कारा इति वा विज्ञानम् इति वा स्कन्धधात्वायतनानीति वा प्रतीत्यसमुत्पन्ना इति वा, प्रतीत्यसमुत्पादाङ्गानीति वा कामधातुर् वा रूपधातुर् वारूप्यधातुर् वा, कुशलाकुशला वा धर्माः सास्रवा वानास्रवा वा सावद्या वानवद्या वा संस्कृतम् इति वासंस्कृतम् इति वा यावच् छ्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा बोधिसत्त्वता वा सम्यक्संबोधिर् वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोत्स्यते ऽनुपलंभयोगेन, एवं चरता (psp_6-8:41) सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणां स्वभावे कुशलेन भवितव्यं, सर्वधर्माणां स्वभावकुशलो बोधिमार्गञ् च परिशोधयिष्यति, सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, यत्र स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् विनयिष्यति, ये विनीतत्वास् त्रिषु भवेषु न दृश्यन्ते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् अलक्षणयोगेन. इत्य् अद्वयलक्षणसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयश् चतुर्थः इत्य् उक्त एकक्षणाभिसमयः

आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् एकक्षणाभिसमयाधिकारः शिक्षापरिसमाप्तिपरिवर्तः सप्तमः (psp_6-8:42): एम्प्त्य् (psp_6-8:43)

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता विइइ

पुनर् अपरं सुभूते तेषाम् एव स्वप्नोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां सर्वाकारपरिशुद्धानाम् अनाश्रवाणां या प्रकृतिर् एकलक्षणा यद् उतालक्षणा स तथागतो ऽर्हन् सम्यक्संबुद्धो वेदितव्यः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.

सुभूतिर् आह: कतमे पुनस् ते भगवन्न् अनास्रवाः सर्वधर्माः.

भगवान् आह: सप्तत्रिंशद् बोधिपक्ष्या धर्माश् चत्वार्य् अप्रमाणान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दश कृत्स्नायतनानि अष्टाव् अभिन्नायतनानि अरणसमाधिः प्रणिधिज्ञानम् षड् अभिज्ञाश् चतस्रः प्रतिसंविदः सर्वाकाराश् चतस्रः परिशुद्धयो दश पारमिआ दशबलानि चत्वारि वैशारद्यानि त्रीण्य् अक्षराणि त्रीणि स्मृत्युपस्थानानि असंप्रमोषधर्मता वासनासमुद्घातो महाकरुणा सर्वाकारज्ञता मार्गाकारज्ञता सर्वज्ञता च इमे उच्यन्ते सुभूते अनास्रवाः सर्वधर्मा इति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाइप् शिक्षितव्यम्. इति स्वभाविकः कायः

पुनर् अपरं सुभूते प्रज्ञापारमितायां शिक्षित्वा तेषाम् एव धर्माणाम् अधिगमाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वेण सर्वं सर्वथा सर्वं द्वात्रिंशन्महापुरुषलक्षणैर् अशीत्या चानुव्यञ्जनैर् अलंकृतकायस् तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वानां महासत्त्वानां परमं महायानधर्मम् अनुत्तररतिप्रीतिप्रामोद्यसुखोपभोगाय देशयति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति सांभोगिकः कायः

पुनर् अपरं सुभूते प्रज्ञापारमितायां शिक्षित्वा तेषाम् एव सर्वधर्माणाम् अविगमेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्ष्व् अनन्तापर्यन्तेषु सर्वलोकधतुषु (psp_6-8:44) सर्वकालन् नानानिर्माणमेघेन सर्वसत्त्वानाम् अर्थं करोति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति नैर्माणिकः कायः

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् स्वप्नोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानं भवति, इमे कुशला इमे ऽकुशला इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे ऽनास्रवा इमे संस्कृता इमे ऽसंस्कृता इमे स्रोत्रआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते, इमे सकृदागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽनागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽर्हत्त्वफलसाक्षात्क्रियायै संवर्तन्ते, इमे प्रत्येकबोधये संवर्तन्ते, इमे ऽनुत्तरायै सम्यक्संबोधये संवर्तन्ते, प्रतिश्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिंबोपमानां मरीच्युपमानां मायोपमानां निर्मितकोपमानां गन्धर्वनगरोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानम् इमे कुशला इमे ऽकुशला इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे ऽनास्रवा इमे संस्कृता इमे ऽसंस्कृता इमे स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते, इमे सकृदागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽनागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽर्हत्त्वफलसाक्षात्क्रियायै संवर्तन्ते, इमे प्रत्येकबोधये संवर्तन्ते, इमे ऽनुत्तरायै सम्यक्संबोधये संवर्तन्ते?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बालो ऽश्रुतवान् पृथग्जनः स्वप्नम् उपलभते स्वप्नदर्शिनम् उपलभते, प्रतिश्रुत्काम् उपलभते प्रतिश्रुत्कादर्शिनम् उपलभते, प्रतिभासम् उपलभते प्रतिभासदर्शिनम् उपलभते, प्रतिबिंबम् उपलभते प्रतिबिंबदर्शिनम् उपलभते, मरीचिम् उपलभते मरीचिदर्शिनम् उपलभते, मायाम् उपलभते मायादर्शिनम् उपलभते, निर्मितकम् उपलभते निर्मितकदर्शिनम् उपलभते, गन्धर्वनगरम् उपलभते गन्धर्वनगरदर्शिनम् उपलभते, स्वप्नम् उपलभ्य स्वप्नदर्शिनम् उपलभ्य, यावद् गन्धर्वनगरम् उपलभ्य गन्धर्वनगरदर्शिनम् (psp_6-8:45) उपलभ्य, कुशलान् अभिसंस्कारान् अभिसंस्करोति, कायेन वाचा मनसाकुशलान् वाभिसंस्कारान् अभिसंस्करोति, कायेन वाचा मनसा पुण्यापुण्यानेञ्ज्यान् अभिसंस्कारान् अभिसंस्करोति. कायेन वाचा मनसा तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् द्वयोः शून्यतयोः स्थित्वात्यन्तशुन्यतायाम् अनवराग्रशून्यतायाञ् च सत्त्वानां धर्मन् देशयति, शून्यम् इदं त्रैधातुकं नास्त्य् अत्र रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्कन्धा वा धातवो वायतनानि वा प्रतिश्रुत्कैषा प्रतिभास एष मरीचिर् एषा निर्मितक एष गन्धर्वनगरम् एतन् नास्त्य् अत्र रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्कन्धधातवो वायतनानि वा नास्त्य् अत्र स्वप्नो न स्वप्नस्य द्रष्टा, न प्रतिश्रुत्का न प्रतिश्रुत्काया द्रष्टा, न प्रतिभासो न प्रतिभासस्य द्रष्टा, न प्रतिबिंबं न प्रतिबिंबस्य द्रष्टा, न मरीचिर् न मरीच्या द्रष्टा, न मायां न मायाया द्रष्टा, न निर्मितको न निर्मितकस्य

द्रष्टा, न गन्धर्वनगरं न गन्धर्वनगरस्य द्रष्टा, ऽपि तु सर्व एते धर्मा अवस्तुका अभावस्वभावास् तत्र भवन्तो ऽस्कन्धे स्कन्धसंज्ञिनः, अधातुषु धातुसंज्ञिनो ऽनायतनेष्व् आयतनसंज्ञिनः, अपि तु खलु पुनः प्रतीत्यसमुत्पन्ना एते सर्वधर्मा विपर्याससमुत्थिताः कर्मविपाकपरिगृहीताः, किं पुनर् यूयम् अवस्तुकेषु धर्मेषु वस्तुसंज्ञाम् उत्पादयथैवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ये मत्सरिणः सत्त्वास् तान् मात्सर्यान् निवर्तयति, दानपारमितायां च नियोजयति, तेषाञ् च स दानपरित्यागो महाभोगतायै संवर्तते, स तांस् तत उच्चाल्य शीले नियोजयति, तेषां स शीलसमादानजः पुण्यस्कन्धः स्वर्गोपपत्तये भवति, स तांस् तत उच्चाल्य समाधौ नियोजयति स तेषां समापत्तिजः पुण्यस्कन्धो ब्रह्मलोकोपपात्तये भवति, एवं प्रथमाद् ध्यानाद् द्वितीये ध्याने द्वितीयाद् ध्यानात् तृतीये ध्याने तृतीयाद् ध्यानाच् चतुर्थे ध्याने चतुर्थाद् ध्यानाद् ऊर्ध्वम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिञ्चन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ च नियोजयति, स तस्माद् अपि दानाद् दानफलाच् चानेकपर्यायं (psp_6-8:46) विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, स तस्माच् छीलाच् छीलफलाच् चानेकपर्यायं विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, स तेभ्यो ध्यानेभ्यो ध्यानफलेभ्यश् च समापत्तिभ्यः समापत्तिफलेभ्यश् चानेकपर्यायं विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, एवं चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु

पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गिकमार्गे त्रिषु विमोक्षमुखेष्व् अष्टसु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु निवेशयति विनयति प्रतिष्ठापयति, स एभिर् अनास्रवैर् धर्मैर् अरूपिभिर् अनिदर्शनैर् अप्रतिघैर् ये स्रोत्रआपत्तिफले स्थास्यन्ति तान् स्रोतआपत्तिफले प्रतिष्ठापयति, ये सकृदागामिफले स्थास्यन्ति तान् सकृदागामिफले प्रतिष्ठापयति, ये ऽनागामिफले स्थास्यन्ति तान् अनागामिफले प्रतिष्ठापयति, ये ऽर्हत्त्वे स्थास्यन्ति तान् अर्हत्त्वे प्रतिष्ठापयति, ये प्रत्येकबोधौ स्थास्यन्ति तान् प्रत्येकबोधौ प्रतिष्ठापयति, ये ऽनुत्तरायां सम्यक्संबोधौ स्थास्यन्ति, तेषां सत्पुरुषाणां बोधिमार्गम् आख्याति उपदिशति समुत्तेजयति, संप्रकाशयति संप्रहर्षयति, प्रतिष्ठापयति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवनतम् एतद् अवोचत्: आश्चर्यम् एतत् भगवन्न् अद्भुतो धर्मो यत्र हि नाम बोधिसत्त्वो महासत्त्वः, इह गम्भीरायां प्रज्ञापारमितायां चरन्न् अभावस्वभावानां धर्माणाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायां स्थित्वा धर्माणां व्यवस्थानं करोति, इमे कुशला धर्मा इमे ऽकुशला धर्मा इमे लौकिका धर्मा इमे लोकोत्तरा धर्मा इमे सास्रवा धर्मा इमे ऽनास्रवा धर्मा इमे सावद्या धर्मा इमे ऽनवद्या धर्मा इमे संस्कृता धर्मा इमे ऽसंस्कृता धर्माः

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् आश्चर्यम् इदं सुभूते परमाश्चर्यम् इदं बोधिसत्त्वस्य महासत्त्वस्याद्भुतो धर्मो यद् इह गम्भीरायां प्रज्ञापारमितायां चरन् धर्माणां व्यवस्थानं करोति, सचेत् त्वं सुभूते जानीया यो बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भुतो धर्मस् (psp_6-8:47) तं सर्वश्रावकप्रत्येकबुद्धा अपि च एवम् अपि बोधिसत्त्वस्य महासत्त्वस्य न सुकरः प्रतिकारः कर्तुं तद् युष्माभिः सर्वैर् बोधिसत्त्वस्य महासत्त्वस्य न शक्यः सर्वधर्मा भावयितुं स्यात्.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भूतो धर्मो यो न श्रावकप्रत्येकबुद्धानां संविद्यते?

भगवान् आह: तेन हि सुभूते शृणु साधु च सुष्ठुश् च मनसिकुरु भाषिष्ये ऽहं ते, एवं भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीद्, भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपाकजासु षट्सु पारमितासु स्थित्वा पञ्चस्व् अभिज्ञासु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु धारणीमुखेषु चतसृषु प्रतिसंवित्सु स्थित्वा दशदिग्लोकधातुषु ये सत्त्वा दानेनानुग्रहीतव्यास् तान् दानेनानुगृह्णाति, ये शीलेन ये क्षान्त्या ये वीर्येण ये ध्यानेन ये प्रज्ञया ये प्रथमेन ध्यानेन ये द्वितीयेन ध्यानेन ये तृतीयेन ध्यानेन ये चतुर्थेन ध्यानेन, ये आकाशानन्त्यायतनसमापत्त्या ये विज्ञानानन्त्यायतनसमापत्त्या ये आकिञ्चन्यायतनसमापत्त्या ये नैवसंज्ञानासंज्ञायतनसमापत्त्यानुग्रहीतव्यास् तान् अनुगृह्णाति, ये मैत्र्यानुग्रहीतव्या ये करुणया ये मुदितया ये उपेक्षया ये चतुर्भिः स्मृत्युपस्थानैः, ये चतुर्भिः सम्यक्प्रहाणैः, ये चतुर्भिः ऋद्धिपादैः, ये पञ्चभिर् इन्द्रियैः, ये पञ्चभिर् बलैः, ये सप्तभिर् बोध्यङ्गैर् ये आर्याष्टाङ्गिकेन मार्गेण, ये शून्यतया ये आनिमित्तेन ये ऽप्रणिहितेन समाधिनानुग्रहीतव्यास् तान् शून्यतानिमित्ताप्रणिहितसमाधिभिर् अनुगृह्णाति.

सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददात्य् अन्नम् अन्नार्थिकेभ्यो ददाति, पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्यः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाशयनासनं यावद् अन्यतरान्यतरं मानुष्योपकरणपरिष्कारं ददाति, यथैव (psp_6-8:48) तथागतयार्हते सम्यक्संबुद्धाय ददाति तथाइव प्रत्येकबुद्धेभ्यो ऽर्हद्भ्यो ऽनागामिभ्यः सकृदागामिभ्यः स्रोतआपन्नेभ्यः सम्यग्गतेभ्यः सम्यक्प्रतिपन्नेभ्यस् तथाइव तिर्यग्योनिगतेभ्यः सर्वेभ्यो ऽनानात्वेन दानन् ददाति. तत् कस्य हेतोः? तथा ह्य् अनानात्वं सर्वधर्मं ज्ञात्वा अनानात्वं दानं ददाति, अनानात्वं दानं दत्वा अनानात्वस्य धर्मस्य लाभी भवति यद् उत सर्वाकारज्ञतायाः, सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य याचनकं दृष्ट्वा एवं चित्तम् उत्पद्यते, सम्यक्संबुद्धा मे दक्षिणीया न तिर्यग्योनिगता इति, न बोधिसत्त्वधर्मो भवेत्. तत् कस्य हेतोः? न हि सुभूते बोधिसत्त्वो महासत्त्वो बोधाय चित्तम् उत्पाद्यैवम् अनुत्तरायां सम्यक्संबोधौ संप्रस्थित इमे मया सत्त्वा दानेनानुग्रहीतव्या इमे मया सत्त्वा दानेनानुग्रहीतव्या इति चिन्तयति, ते दानेनानुगृहीताः क्षत्रियमहाशालकुलेषूपपत्स्यन्ते, ब्राह्मणमहाशालकुलेषूपपत्स्यन्ते, गृहपतिमहासालकुलेषूपपत्स्यन्ते, तेनैव च दानानुग्रहेण त्रिभिर् यानैर् अनुपरिशेषे निर्वाणधातौ परिनिर्वास्यन्ति, सचेद् एते बोधिसत्त्वं महासत्त्वं जनपदबलकाया अवध्यायेरन् तेन नान्यथाचित्तम् उत्पादयितव्यं दास्यामि वा न वा, अपि तु अकोपितमानसेन जनपदबलकायेभ्यो दानं दातव्यः. तत् कस्य हेतोः? तथा हि तस्य जनपदबलकायस्यार्थायानुत्तरायां सम्यक्संबोधौ संप्रस्थितः. एवं च पुनर् विकल्पयेद् गर्ह्यो भवेयं तेषां बुद्धानां भगवतां तेषां बोधिसत्त्वानां महासत्त्वानां प्रत्येकबुद्धानाम् अर्हतां शैक्षाणां सदेवमानुषासुरस्य च लोकस्य केनायम् अधीष्टः सर्वसत्त्वानाम् अहं त्राणं भविष्यामि परायणं लयनं शरणम् इति.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता मनुष्यभूता वामनुष्यभूता वागत्याङ्गप्रत्यङ्गानि याचेरन्, तेन न द्विधा चित्तम् उत्पादयितव्यं, दास्यामि वा न दास्यामि वा. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सत्त्वानाम् अर्थाय सञ्चिन्त्य आश्रयः परिगृहीतो ऽनेन मयात्मभावेन सत्त्वानाम् अर्थः करणीयः, तेनैवं चित्तम् उत्पादयितव्यं येषाम् अर्थे मयात्मभाव उपात्तस् ते ऽयाचितकम् एव गृहीत्वा गच्छन्तु. एवं खलु (psp_6-8:49) सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शिक्षितव्यम्. तत् कस्य हेतोः? तथा ह्य् एते धर्मा अत्यन्तशून्यतया शून्या न हि शून्यता कस्मैचिद् ददाति वा च्छिनत्ति वा, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शिक्षितव्यं, यद् उताध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां स्थित्वा दानं दातव्यं सततसमितम्. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन याचनकं दृष्ट्वा, एवं चित्तम् उत्पादयितव्यं, को वेह दानन् ददाति, कस्मै वादीयते, किं वादीयते, तस्यैवं ददतो दानपारमितायां परिपूरिर् भविष्यति, सो ऽनया दानपारमितया परिपूर्या वा ह्य् अध्यात्मिकेषु धर्मेषु च्छिद्यमानेषु एवं चित्तम् उत्पादयिष्यति को मे च्छिनत्ति वा भिनत्ति वा. इति सामान्येन निर्माणकायद्वारेण धर्मकायस्य कर्म

इहाहं सुभूते पश्यामि बुद्धचक्षुषा लोकं व्यवलोकयन् पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् संचिन्त्य महानिरयं पतित्वा तानि महानिरयदुःखान्य् उपशाम्य त्रिभिः प्रातिहार्यैस् तेषां नैरयिकानां सत्त्वानां धर्मं देशयतो यद् उत ऋद्धिप्रातिहार्येण वादेशनाप्रातिहार्येण वानुशासनीप्रातिहार्येण वा, ऋद्धिप्रातिहार्येण च तानि महानिरयदुःखान्य् उपशाम्य, आदेशनाप्रातिहार्येण धर्मं देशयन्ति, अनुशासनीप्रातिहार्येण च ते बोधिसत्त्वा महासत्त्वा महामैत्र्या महाकरुणया महामुदितया महोपेक्षया च धर्मं देशयन्ति. ततस् ते नैरयिकाः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके चित्तम् अतिप्रसाद्य तेभ्यो निरयेभ्यो व्युत्तिष्ठन्ति, तेभ्यो निरयेभ्यो व्युत्थायानुपूर्वेण त्रिभिर् यानैर् दुःखस्यान्तं करिष्यन्ति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु लोकधतुषु बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् सञ्चिन्त्य महानिरये पतित्वा तानि महानिरयदुःखान्य् उपशाम्य त्रिभिः प्रातिहार्यैस् तेषां नैरयिकानां सत्त्वानां धर्मं देशयतो यद् उत ऋद्धिप्रातिहार्येण वादेशनाप्रातिहार्येण वानुशासनीप्रातिहार्येण (psp_6-8:50) वा ऋद्धिप्रातिहार्येण च तानि महानिरयदुःखान्य् उपशाम्य आदेशनाप्रातिहार्येण धर्मं देशयन्ति, अनुशासनीप्रातिहार्येण च ते बोधिसत्त्वा महासत्त्वा महामैत्र्या महाकरुणया महामुदितया महोपेक्षया च धर्मं देशयन्ति, ततस् ते नैरयिकाः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके चित्तम् अभिप्रसाद्य तेभ्यो निरयेभ्यो व्युत्तिष्ठन्ति तेभ्यो निरयेभ्यो व्युत्थायानुपूर्वेण त्रिभिर् यानैर् दुःखस्यान्तं करिष्यन्ति. इति नरकगतिप्रशमनकर्म

इहाहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् बुद्धानां भगवताम् उपस्थायकांस् तत् ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत उपतिष्ठन्ति मनआपनप्रियेण नाप्रियेण गौरवेण नागौरवेण यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते, तत् ते बोधिसत्त्वा महासत्त्वा उद्गृह्णन्त्य् उद्गृह्य धारयन्ति, न च जातु विप्रणाशयति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसात्त्वान् महासत्त्वान् बुद्धानां भगवताम् उपस्थायकांस्, तत् ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत उपतिष्ठन्ति मनआपेनप्रियेण नाप्रियेण गौरवेण नागौरवेण, यं च ते बुध्हा भगवन्तो धर्मं भाषन्ते, तत् ते बोधिसत्त्वा महासत्त्वा उद्गृह्णन्त्य् उद्गृह्य धारयन्ति, न च जातु विप्रणाशयन्ति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.

पुनर् अपरं सुभूते लोकं व्यवलोकयन् बुद्धचक्षुषा दशसु दिक्षु बोधिसत्त्वान् महासत्त्वान् पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनिगतानां सत्त्वानाम् अर्थायात्मपरित्यागं कुर्वतस्, तत् ते बोधिसत्त्वा महासत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा दशसु दिक्षु क्षिपन्ति, ये तिर्यग्योनिगताः सत्त्वास् तेसां बोधिसत्त्वानां महासत्त्वानां मांसानि भक्षयन्ति ते तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रीं प्रतिलभन्ते, ते तेन मैत्रीप्रतिलाभेन ततस् तिर्यग्योनेर् व्युत्तिष्ठन्ति तिर्यग्योनेर् व्युत्थाय बुद्धां भगवत (psp_6-8:51) आरागयन्ति, ते तान् बुद्धान् भगवत उपतिष्ठन्ति, ते तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोन्ति, तन् धर्मं श्रुत्वा तथत्वाय प्रतिपद्यन्ते, ते ऽनुपूर्वेणानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. एवं बहुकराः सुभूते बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति चित्तम् उत्पाद्य तथत्वाय प्रतिपद्यन्ते, ते ऽनुपूर्वेण त्रिभिर् यानैर् अनुपधिशेषे निर्वाणधातौ परिनिर्वान्ति, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा. इति तिर्यग्योनिप्रशमनकर्म

इहाहं सुभूते लोकं व्यवलोकयन् बुद्धचक्षुषा पश्यामि, दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये प्रेतविषयिकानां सत्त्वानां प्रेतविषयं दुःखं तत् सर्वं प्रतिप्रस्रं भयन्ति, ये प्रेतविषयेषु सत्त्वास् ते दुःखवेदना प्रस्रब्धकायास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रीचित्तम् उत्पाद्यते न कुशलमूलेन ततः प्रेतयानेर् व्युत्तिष्ठन्ति व्युत्थिताश् च तेन कुशलमूलेन ततः प्रेतयाने बुद्धैर् भगवद्भिर् न जातु विरहिता भवन्ति, बुद्धां भगवत आरागयन्ति, ते तान् बुद्धान् भगवत उपतिष्ठन्ति तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रुत्वा तथत्वाय प्रतिपद्यन्ते ऽनुपूर्वेणानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा. एवं करुणा विहारिणः सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वानाम् अर्थाय प्रत्युपस्थिता यद् उत परिनिर्वाणाय. इति यमलोकप्रशमनकर्म

इहाहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन् बोधिसत्त्वान् महासत्त्वान् पश्यामि दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु ये चातुर्महाराजकायिकानां देवानां धर्मं देशयन्ति, त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां धर्मं देशयन्ति ते च देवपुत्रास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिकाद् धर्मं श्रुत्वानुपूर्वेण त्रिषु यानेषु परिनिवृताश् च परिनिर्वान्ति च (psp_6-8:52) परिनिर्वास्यन्ति च, तत्र सुभूते ये देवपुत्रा औदारिकैः पञ्चभिः कामगुणैर् मूर्छितास् तेषां तानि विमानान्य् आदीप्य धर्मं देशयन्त्य् अनित्याः खलु मार्षाः सर्वसंस्काराः कः संस्कारेषु विश्वस्तमानसो विहरेत्?

इहाहं सुभूते ऽनावरणेन बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये ब्रह्मदृष्टिम् अभिनिविष्टास् तान् दृष्टिभ्यो विवेचयन्ति, कथं भो मार्षाः शून्येषु सर्वधर्मेषु दृष्टिम् उत्पादयथ, एवं रिक्तेषु तुच्छेषु सर्वधर्मेषु दृष्टिम् उत्पादयथ. एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा करुणायां स्थित्वा सत्त्वानां धर्मं देशयन्ति. आश्चर्यम् इदं सुभूते बोधिसत्त्वानां महासत्त्वानाम् अद्भुतो धर्मः. इति देवगतिप्रशमनकर्म

इहाहं सुभूते पश्यामि बुद्धचक्षुषा लोकं व्यवलोकयन् पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये मनुष्यांश् चतुर्भिः संग्रहवस्तुभिः संगृह्णन्ति, दानेन प्रियवद्यतया, अर्थक्रियया समानार्थतया, कथं सुभूते बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वो द्वाभ्यां दानाभ्यां सत्त्वान् अनुगृह्णाति, कतमाभ्यां द्वाभ्याम्? यद् उतामिषप्रदानेन च धर्मदानेन च. कथं सुभूते बोधिसत्त्वो महासत्त्व आमिषप्रदानेन सत्त्वान् अनुगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्वः सुवर्णं वा रूप्यं वा मणिं वा मुक्तां वा वैडूर्यं वा शङ्खशिलां वा प्रवाडं वा रजतं वा जातरूपं वान्नं वा पानं वा यानं वा वस्तुं वा गन्धं वा माल्यं वा विलेपनं वा शयनं वा आसनं वा प्रतिश्रयं वा प्रदीपं वा स्त्रियं वा पुरुषं वा दारकं वा दारिकां वाश्वं वा गां वा अनड्वाहं वा हस्तिनं वा अजाविकं वा धान्यादीनि वा आत्ममांसं वा दातुशब्दम् अनुश्रावयति, आगच्छध्वं भोः पुरुषाः, येन येन युष्माकं कार्यं तत् तत् ममान्तिकान् निर्विशङ्का गृहीत्वा गच्छत. येन येन कृत्यं (psp_6-8:53) युष्मदीयम् एवेदं तद् दानं दत्वा बुद्धशरणं गमयति, धर्मशरणं गमयति, संघशरणं गमयति, कांश्चित् पञ्च शिक्षापदानि ग्राहयति, कांश्चिद् अष्टाङ्गिकं पोषधम् उपोषधयति, कांश्चिद् दश कुशलां कर्मपथां ग्राहयति, कांश्चित् प्रथमे ध्याने, कांश्चिद् द्वितीये, कांश्चित् तृतीये, कांश्चिच् चतुर्थे ध्याने, कांश्चिद् आकाशानन्त्यायतने, कांश्चिद् विज्ञानानन्त्यायतने, कांश्चिद् आकिञ्चन्यायतने, कांश्चिन् नैवसंज्ञानासंज्ञायतने, कांश्चिद् मैत्र्यां,

कांश्चित् करुणायां, कांश्चिद् मुदितायां, कांश्चिद् उपेक्षायां समादापयति, कांश्चिद् बुद्धानुस्मृत्यां, कांश्चिद् धर्मानुस्मृत्यां, कांश्चित् संघानुस्मृत्यां, कांश्चिच् छीलानुस्मृत्यां, कांश्चित् त्यागानुस्मृत्यां, कांश्चिद् देवानुस्मृत्यां, कांश्चिद् अशुभपरिवर्तेषु समुच्छ्रयेषु, कांश्चिद् आकारेषु, कांश्चिच् चतुर्षु संग्रहवस्तुषु, कांश्चिच् चतुर्षु स्मृत्युपस्थानेषु, कांश्चिच् चतुर्षु सम्यक्प्रहाणेषु, कांश्चिच् चतुर्ष्व् ऋद्धिपादेषु, कांश्चित् पञ्चस्व् इन्द्रियेषु, कांश्चित् पञ्चसु बलेषु, कांश्चित् सप्तसु बोध्यङ्गेषु, कांश्चिद् आर्याष्टाङ्गिकमार्गे समादापयति, कांश्चिच् छून्यतानिमित्ताप्रणिहितेषु, कांश्चित् समाधिसमापत्तिविमोक्षधारणीमुखेषु, कांश्चिद् अष्टषु विमोक्षेषु, कांचिन् नवसु अनुपूर्वविहारसमापत्तिषु, कांश्चिच् चतुर्ष्व् आर्यसत्येषु, कांश्चिद् दशेषु बोधिसत्त्वभूमिषु समादापयति, कांश्चिद् दशसु तथागतबलेषु, कांश्चिच् चतुर्षु वैशारद्येषु, कांश्चिच् चतसृषु प्रतिसंवित्सु, कांश्चिद् अष्टादशावेणिकेषु बुद्धधर्मेषु समादापयति, कांश्चिद् महाकरुणायां कांश्चिद् अशीत्य् अनुव्यञ्जनेषु, कांश्चिद् द्वात्रिंशद् महापुरुषलक्षणेषु, कांश्चिच् छ्रोतआपत्तिफले, कांश्चित् सकृदागामिफले, कांश्चिद् अनागामिफले, कांश्चिद् अर्हत्त्वे, कांश्चित् प्रत्येकबोद्धौ प्रतिष्ठापयति, कांश्चिद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, कांश्चिद् दानपारमितायां, कांश्चिच् छीलपारमितायां, कांश्चित् क्षान्तिपारमितायां, कांश्चिद् वीर्यपारमितायां, कांश्चिद् ध्यानपारमितायां, कांश्चित् प्रज्ञापारमितायां प्रतिष्ठापयति, कांश्चिद् उपायपारमितायां प्रतिष्ठापयति, कांश्चित् प्रणिधानपारमितायां, कांश्चिद् बलपारमितायां, कांश्चिद् ज्ञानपारमितायां प्रतिष्ठापयति, कांश्चिद्

अध्यात्मशून्यतायां, कांश्चिद् बहिर्धाशून्यतायां, कांश्चिद् अध्यात्मबहिर्धाशून्यतायाम्, एवं यावत् (psp_6-8:54) कांश्चिद् अभावस्वभावशून्यतायां प्रतिष्टाअपयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येण सत्त्वानाम् आमिषदानं दत्वा दाने योगक्षेमे मार्गे प्रतिष्ठापयति. अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भुतो धर्मः.

कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् धर्मदानेनानुगृह्णाति? इमे सुभूते धर्मदाने कतमे द्वे लौकिकं च लोकोत्तरं च? कतमच् च सुभूते लौकिकं धर्मदानं या लौकिकानां धर्माणां सर्वे क्षणा देशना प्रकाशना विवरणोत्तानीकरणता, तद् यथाशुभपरिवर्तकस्य चतुर्णां ध्यानानां चतुर्णां ब्रह्मविहाराणां चतसृणाम् आरूप्यसमापत्तीनां, ये ऽप्य् अन्ये केचिद् लौकिकाधर्माः सा धारणा बालपृथग्जनैर् इदम् उच्यते लौकिकां धर्मदानम्. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः, इदं लौकिकं धर्मदानं दत्वा अनेकपर्यायेणानेकविधेनोपायेन ततः समादानाद् विवेचयति स विवेच्योपायकौशल्येनार्येषु धर्मेषु प्रतिष्ठापयति, आर्यधर्माणाञ् च फले, कतमे च ते आर्यधर्माः? कतमद् आर्यधर्माणां फलं? आर्यधर्मा उच्यन्ते सुभूते सप्तत्रिंशद् बोधिपक्ष्या धर्माः, त्रीणि विमोक्षमुखानि, चत्वार्य् आर्यसत्यान्य्, आर्यधर्माणां फलं स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् इति.

अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्मा यत् स्रोतआपत्तिफले ज्ञानं, यत् सकृदागामिफले ज्ञानं, यद् अनागामिफले ज्ञानं, यद् अर्हत्त्वे ज्ञानं, यत् प्रत्येकबोधौ ज्ञानं, यत् सप्तत्रिंशद् बोधिपक्ष्येषु धर्मेषु ज्ञानं, यद् आर्यसत्येषु ज्ञानं, यद् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु ज्ञानं, याच् छून्यतानिमित्ताप्रणिहितेषु ज्ञानं, यद् अभिज्ञासु ज्ञानं, यद् दशबलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु ज्ञानं, यद् महामैत्र्यां महाकरुणायां महामुदितायां महोपेक्षायां ज्ञानं, यत् सर्वपारमितासु ज्ञानं, यत् सर्वशून्यतासु ज्ञानम्, इमे उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्माः, ये ऽपि चान्ये लौकिका वा लोकोत्तरा वा धर्माः, सास्रवा वा अनास्रवा वा संस्कृता वासंस्कृता वा, अन्यत्र (psp_6-8:55) सर्वाकारज्ञताज्ञानादय उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्माः.

अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्वस्यार्यधर्माणां फलं, यच् छ्रोतआपत्तिफलं सत्त्वान् प्रापयति, यावत् सर्वाकारज्ञतां सत्त्वान् प्रापयति, इदम् उच्यते आर्यधर्माणां फलम्.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति?

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति.

सुभूतिर् आह: नास्ति तर्हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य तथागतस्य च नानाकरणम्?

भगवान् आह: नास्ति नानाकरणम्.

सुभूतिर् आह: कथं नास्ति नानाकरणम्?

भगवान् आह: बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति, तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वाकारज्ञताम् अनुप्रापयति. तत् कस्य हेतोः? न ह्य् अन्यद् बोधिसत्त्वानां महासत्त्वानां चित्तम् उपलभते, नान्यत् तथागतस्यार्हतः सम्यक्संबुद्धस्य यत्र स्थित्वा सर्वधर्माणाम् अनानाकरणताम् अनुप्राप्ताः, इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य लौकिकं धर्मदानं यद् उपनिश्रयो भवति लोकोत्तरस्य धर्मदानस्य. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वाल् लोकोत्तरधर्मदाने नियोज्योपायकौशल्येन यावत् सर्वाकारज्ञतायां प्रतिष्ठापयति. इति मनुष्यगतिप्रशमनकर्म

कतमच् च सुभूते बोधिसत्त्वानां महासत्त्वानां लोकोत्तरधर्मदानम्? यद् असाधारणं सर्वबालपृथग्जनैस् तद्यथा चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियानि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गश्, चत्वार्य् अप्रमाणानि, त्रयः समाधयश्, चत्वार्य् आर्यसत्यान्य्, अष्टौ विमोक्षा, नवानुपूर्वविहारसमापत्तयो, दश कृत्स्नान्य्, अष्टाव् अभिभ्वायतनान्य्, अरणा, प्रणिधिज्ञानं, षड् अभिज्ञाश्, चतस्रः प्रतिसंविदः, सर्वाकाराश्, (psp_6-8:56) चतस्रः परिशुद्धयः, दश वशिता, दश बलानि, चत्वरि वैशारद्यानि, त्रीणि रक्षाणि, त्रीणि स्मृत्युपस्थानानि, असंमोषधर्मता, वासनासमुद्घातो, महाकरुणा, ऽष्टादशावेणिका बुद्धधर्मा, द्वात्रिंशन् महापुरुषलक्षणान्य्, अशीत्य् अनुव्यञ्जनानि, इदम् उच्यते लोकोत्तरधर्मदानं न लौकिकम्.

कतमानि च सुभूते चत्वारि स्मृत्युपस्थानानि? अध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन्न् अध्यात्मबहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये समुदयानुपश्यी च कायस्य विहरति, व्ययानुपश्यी च कायस्य विहरति, कायानुपश्यी च विहरति, अनिश्चितश् च विहरति, न च कञ्चिल् लोके उपादत्ते, एवं वेदनायां चित्ते ऽध्यात्मधर्मे धर्मानुपश्यी विहरति बहिर्धाधर्मे धर्मानुपश्यी विहरति, अध्यात्मबहिर्धाधर्मे धर्मानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये समुदयानुपश्यी च धर्माणां विहरति, व्ययानुपश्यी च धर्माणां विहरति, धर्मे धर्मानुपश्यी विहरति, अनिश्चितश् च विहरति, न च कञ्चिल् लोके उपादत्ते, इमान्य् उच्यन्ते चत्वारि स्मृत्युपस्थानानि.

कतमानि च सुभूते चत्वारि सम्यक्प्रहाणानि? अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय छन्दञ् जनयति, उत्पन्नानां प्रहाणाय छन्दञ् जनयति, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दञ् जनयति, उत्पन्नानां कुशलानां धर्माणां भूयोभावाय छन्दञ् जनयति, इमान्य् उच्यन्ते चत्वारि सम्यक्प्रहाणानि.

कतमे च सुभूते चत्वार ऋद्धिपादाः? छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादश् चित्तवीर्यमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः, इम उच्यते चत्वार ऋद्धिपादाः.

कमानि च सुभूते पञ्चेन्द्रियानि? श्रद्धेन्द्रियं वीर्येन्द्रियं, स्मृतीन्द्रियं समाधीन्द्रिय्ं प्रज्ञेन्द्रियं, इमान्य् उच्यन्ते पञ्चेन्द्रियानि.

कतमानि च सुभूते पञ्च बलानि? श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम्, इमान्य् उच्यन्ते पञ्च बलानि. (psp_6-8:57)

कतमानि च सुभूते सप्त बोध्यङ्गानि? स्मृतिसंबोध्यङ्गं धर्मप्रविचयसंबोध्यङ्गं वीर्यसंबोध्यङ्गं प्रीतिसंबोध्यङ्गं प्रस्रब्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गम् उपेक्षासंबोध्यङ्गम्, इमान्य् उच्यन्ते सप्त संबोध्यङ्गानि.

कतमश् च सुभूते आर्याष्टाङ्गमार्गः? सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः, अयम् उच्यते आर्याष्टाङ्गो मार्गः.

कतमानि च सुभूते चत्वार्य् अप्रमाणानि? मैत्रीकरुणामुदितोपेक्षाः, इमान्य् उच्यन्ते चत्वार्य् अप्रमाणानि.

कतमे च सुभूते त्रयस् समाधयः? शून्यतानिमित्ताप्रणिहितास् समाधयः, कतमश् च शून्यतासमाधिर् या शून्यताकारेण विविक्ताकारेण तुच्छाकारेण रिक्ताकारेण निःस्वभावसंस्कारेण च चित्तस्यैकाग्रतायम् उच्यते शून्यतासमाधिः, कतमश् चानिमित्तः समाधिर् या शान्ताकारेण विविक्ताकारेण च चित्तस्यैकाग्रता, अयम् उच्यते आनिमित्तसमाधिः, कतमश् चाप्रणिहितः समाधिर् यानित्याकारेण दुःखाकारेण विपर्यासाकारेण च चित्तस्यैकाग्रता, अयम् उच्यते ऽप्रणिहितः समाधिर्, इम उच्यन्ते त्रयः शून्यतानिमित्ताप्रणिहितसमाधयः.

कतमानि च सुभूते चत्वार्य् आर्यसत्यानि? दुष्खं समुदयो निरोधो मार्ग इमान्य् उच्यन्ते चत्वार्य् आर्यसत्यानि.

कतमे च सुभूते अष्टौ विमोक्षा? रूपी रूपाणि पश्यत्य् अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञां बहिर्द्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरत्य् अयं तृतीयो विमोक्षः. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमां नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किं चनेत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति. आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, नैवसंज्ञानासंज्ञायतनसमापत्तिसमतिक्रमात् संज्ञावेदयितनिरोधम् (psp_6-8:58) उपसंपद्य विहरति, इमे उच्यन्ते अष्टौ विमोक्षाः.

कतमाश् च सुभूते नवानुपूर्वविहारसमापत्तयः? इहैकेभ्यो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चैतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्ष्यको विहरति, स्मृतिमान् संप्रजानं सुखञ् च कायेन प्रतिवेदयते, यत् तदार्य आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वाम् एव च सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धञ् चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इति, आकाशानन्त्यायतनम् उपसंपद्य विहरति. आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति, विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किं चनेत्य्, आकिञ्चन्यायतनम् उपसंपद्य विहरति. आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति. नैवसंज्ञानासंज्ञायतनसमापत्तिसमतिक्रमात् संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति, इमा उच्यन्ते नवानुपूर्वविहारसमापत्तयः.

कतमानि च सुभूते दश कृत्स्नानि? पृथिवीकृत्स्नम् अप्कृत्स्नन् तेजःकृत्स्नं वायुकृत्स्नं नीलकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नम् अवदातकृत्स्नं विज्ञानकृत्स्नम् आकाशकृत्स्नम्, इमान्य् उच्यन्ते दश कृत्स्नानि.

कतमानि च सुभूते अष्टाव् अभिभ्वायतनानि? अध्यात्मरूपसंज्ञी बहिर्धारूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि, तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति तथा संज्ञी भवति. अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यति महद्गतानि सुवर्णदुर्वर्णानि, तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति. अध्यात्मम् अरूपसंज्ञी च बहिर्धारूपाणि पश्यति, नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि, पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि, लोहितानि (psp_6-8:59) लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, अवदातान्य् अवदातवर्णान्य् अवदातनिदर्शनान्य् अवदातनिर्भासानि, तद्यथा उमकपुस्पं संपन्नं वाराणसेयकं वस्त्रं, कर्णिकारपुष्पं संपन्नं वाराणसेयकं वस्त्रं, बन्धूकपुष्यं संपन्नं वराणसेयकं वस्त्रम्, उषसि तारकाया वर्णैः संपन्नं वाराणसेयकं वस्त्रम्. इमान्य् उच्यन्ते अष्टाव् अभिभ्वायतनानि.

कतमा च सुभूते अरणा? ध्यानं निश्रित्य परक्लेशानुत्पत्तेर् अनुरक्षाविहारसुसमृद्धो यः समाधिः प्रज्ञा तत् संप्रमुक्ताश् च चित्तचैतसिका धर्माः, इयम् उच्यन्ते अरणा.

कतमच् च सुभूते प्रणिधिज्ञानम्? ध्यानं निश्रित्य इदं जानीयाम् इति प्रणिधानसमृद्धो यः समाधिः प्रज्ञा तत् संप्रयुक्ताश् च चित्तचैतसिका धर्माः, इदम् उच्यते प्रणिधिज्ञानम्.

कतमाश् च सुभूते षड् अभिज्ञा? ऋद्ध्यभिज्ञा, दिव्यं चक्सुर्, दिव्यं श्रोत्रं, परचित्तज्ञानं, पूर्वनिवासानुस्मृतिः, आस्रवक्षयज्ञानं, साक्षात्क्रियाभिज्ञा च, इमा उच्यन्ते षड् अभिज्ञाः.

कतमाश् च सुभूते चतस्रः प्रतिसंविदः? ध्यानं निश्रित्य पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदेष्व् अव्याघातसमृद्धो यः समाधिः प्रज्ञा तत् संप्रयुक्ताश् च चित्तचैतसिका धर्मा, इमा उच्यन्ते चतस्रः प्रतिसंविदः.

कतमाश् च सुभूते सर्वाकाराश् चतस्रः परिशुद्धयः? आशयपरिशुद्धिर् आलम्बनपरिशुद्धिश् चित्तपरिशुद्धिर् ज्ञानपरिशुद्धिश् चेमा उच्यन्ते सर्वाकाराश् चतस्रः परिशुद्धयः.

कतमाश् च सुभूते दश वशिताः? आयुर्वशिता, चित्तवशिता, परिष्कारवशिता, कर्मवशिता, उपपत्तिवशिता, अधिमुक्तिवशिता, प्रणिधानवशिता, ऋद्धिवशिता, ज्ञानवशिता, धर्मवशिता, इमा उच्यन्ते दश वशिताः.

कतमानि च सुभूते दश तथागतबलानि? स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति, अतीतानागतप्रत्युत्पन्नानां कर्मणां कर्मस्वकतां यथाभूतं प्रजानाति, ध्यानविमोक्षसमाधिसमापत्तीन्द्रियबलबोध्यङ्गमार्गान् यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानाम् इन्द्रियवरावरज्ञानतां यथाभूतम् (psp_6-8:60) प्रजानाति, परसत्त्वानां परपुद्गलानां नानाधिमुक्तिकतां यथाभूतां प्रजानाति, अनेकधातुं नानाधातुकं लोकसंनिवेशं यथाभूतं प्रजानाति, सर्वत्रगामिनीं च प्रतिपदं यथाभूतं प्रजानाति, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन यावत् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते ये सत्त्वास् तान् यथाभूतं प्रजानाति, अनेकविधं पूर्वनिवासम् अनुस्मरति, एकां वा जातिं जातिशतं वा जातिसहस्रं वा जातिशतसहस्रं वा जातिकोटीनियुतशतसहस्रं वा यावत् पूर्वान्तकोटिशो यावत् साकारं सोद्देशं सनिदानं यथाभूतं प्रजानाति, आस्रवक्षयेणानास्रवां चेतोविमुक्तिं यथाभूतं प्रजानाति, इमान्य् उच्यन्ते दश तथागतबलानि.

कतमानि च सुभूते चत्वारि वैशारद्यानि? सम्यक्संबुद्धस्य च मे प्रतिजानत इमे धर्मा नाभिसंबुद्धा इत्य् अत्र मे कश्चित् सदेवके लोके समारके, सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां वा धर्मा कोपयेद् इति निमित्तम् एवं न समनुपश्यामि, एवं वाहन् निमित्तम् असमनुपश्यं क्षमप्राप्तो ऽभयप्राप्तो विहरामि, यावद् अप्रवर्तिकं धर्मचक्रं प्रवर्तयामि, श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वान्येन केनचिद् वा पुनर् लोके ऽस्मिन् सहधर्मेण, क्षीणास्रवस्य च मे प्रतिजानत इमे ऽनास्रवा धर्मा अपरिक्षीणा इत्य् अत्र मे कश्चिद् यावद् धर्मचक्रं प्रवर्तयामि या मया श्रावकानां प्रतिपद् आख्याता आर्या नैर्याणिकी सम्यग् दुःखक्षयाय तां प्रतिषेधमानो न निर्यायात्, सम्यग् दुःखक्षयायेति, स्थानम् एतन् न समनुपश्यामि यावद् धर्मचक्रं प्रवर्तयामि, ये वा मया श्रावकेभ्य आन्तरायिका धर्मा आख्यातास् ते प्रतिषेधमाणा नालम् अन्तेरायायेति मे कश्चिद् यावद् धर्मचक्रं प्रवर्तयामीमान्य् उच्यन्ते चत्वारि वैशारद्यानि.

कतमानि च सुभूते त्रीण्य् आरक्षाणि? परिशुद्धं कायकर्म परिशुद्धं वाक्कर्म परिशुद्धं मनस्कर्मेतीमान्य् उच्यन्ते त्रीण्य् आरक्षाणि.

कतमानि च सुभूते त्रीणि स्मृत्युपस्थानानि? श्रोतुकामेष्व् अश्रोतुकामेष्व् उभयकामेषु तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुनयप्रतिघविविक्त एवोपेक्षको विहरति स्मृतिमान् संप्रजानन्न् इमान्य् उच्यन्ते त्रीणि (psp_6-8:61) स्मृत्युपस्थानानि.

कतमा च सुभूते ऽसंमोषधर्मता? सर्वकृत्येषु सर्वदेशेषु सर्वोपायेषु सर्वकालेषु सदोपस्थितस्मृतिता, इयम् उच्यते असंमोषधर्मता.

कतमश् च सुभूते वासनासमुद्घातः? सर्वेण सर्वं सर्वथा सर्वं क्लेशसंगाव् असदृशचेष्टो ऽसमुदाचारो ऽयम् उच्यते वासनासमुद्घातः.

कतमा च सुभूते महाकरुणा? या सर्वकालं सर्वसत्त्वेषु निरुत्तरा हितसुखाध्याशयतेयम् उच्यते महाकरुणा.

कतमे सुभूते अष्टादशावेणिकबुद्धधर्माः? यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽत्रान्तरे तथागतस्य नास्ति स्खलितं, नास्ति रवितं, नास्ति मुषिता स्मृतिर्, नास्ति असमाहितं चित्तं, नास्ति नानात्वसंज्ञा, नास्त्य् अप्रतिसंख्यायोपेक्षा, नास्ति च्छन्दस्य हानिर्, नास्ति वीर्यस्य हानिर्, नास्ति स्मृतेर् हानिर्, नास्ति समाधेर् हानिर्, नास्ति प्रज्ञाया हानिर्, नास्ति विमुक्तेर् हानिर्, अतीते ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, अनागते ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, प्रत्युत्पन्ने ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, सर्वकायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, सर्ववाक्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, सर्वमनस्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्तीमे उच्यन्ते ऽष्टादशावेणिका बुद्धधर्माः.

कतमानि च सुभूते तथागतस्य द्वात्रिंशद् महापुरुषलक्षणानि? चक्राङ्कितहस्तपादता, सुप्रतिष्ठितपादता, जालहस्तपादता, मृदुतरुणहस्तपादता, सप्तोच्छ्रयता, दीर्घाङ्गुलिता, आयतपार्ष्णिता, बृहदृजुगात्रता, उच्छङ्खपादता, ऊर्ध्वंगरोमता, एणेयजङ्घता, पटूरुबाहुता, कोशावहितवस्तिगुह्यता, सुवर्णवर्णता, श्लक्स्णच्छविता, एकैकप्रदक्षिणावर्तरोमता, ऊर्णाङ्कितमुखता, सिंहपूर्वार्धकायता, सुसंवृतस्कन्धता, चितान्तरांसता, रसरसज्ञता, न्यग्रोधपरिमण्डलता, उष्णीषशिरस्कता, पृथुतनुजिह्वता, ब्रह्मस्वरता, सिंहहनुता, सशुक्लदन्तता, समदन्तता, अविरलदन्तता, समचत्वारिशद्दन्तता, अभिनीलनेत्रता, गोपक्ष्मनेत्रता चेति, तत्र चक्राङ्कितहस्तपाद इति चक्राणि तथागतस्य हस्तपादतले जातानि भवन्ति, सहस्राराणि (psp_6-8:62) सनेमिकानि सनाभिकानि, सर्वाकारपरिपूर्णानि, तद्यथा अस्थिमयं वा दन्तमयं वा बिंबम् उत्कीर्णं स्यात्, समं पाणितलाभ्यां पृथिवीसंस्पर्शनाद् असंकुचितत्वात् पादयोः सुप्रतिस्थितपाणिपादता, हंसराजस्येव जालपिनद्धाङ्गुलिपाणिपादत्वाज् जालहस्तपादः, तूलपिचूपमतरुणसुकुमारतालकोमलपाणिपादत्वाद् मृदुतरुणहस्तपादः समुच्छ्रितहस्तपादः, शिरोग्रीवाप्रदेशत्वात् सप्तोच्छ्रयः, आयतहस्तपादाङ्गुलित्वाद् दीर्घाङ्गुलिः, दीर्घपार्ष्णित्वाद् आयतपार्ष्णिः, सप्तार् अभ्युच्छ्रितत्वाद् अवक्रगात्रत्वाद् बृहदृजुगात्रः, उच्चैः सुनिगूढजानुगुल्फत्वाद् उच्छङ्खपादः, ऊर्ध्वप्रदक्षिणावर्तकुण्डलरोमत्वाद् ऊर्ध्वाङ्गरोमा, शरभैणेयेयजङ्घत्वाद् अनुपहतत्वाद् अनुपूर्वोपचितवृत्तजङ्घत्वाच् चैणेयजङ्घः, समोरुबाहुत्वाद् अवनतस्य पाणितलाभ्यां

जानुमण्डलस्पर्शनात् पटूरुबाहुः, परमाभिरूपकोशनिगूढमेहनत्वाद् वस्त्यश्वाजानेयवत्कोशावहितवस्तिगुह्यः, उत्तप्तहाटकसुवर्णवर्णत्वात् सुवर्णवर्णः, रजतजातरूपसुपरिकर्मकृतश्लक्ष्णसमानच्छवित्वाद् रजसानुपलिप्तगात्रत्वाच् छ्लक्ष्णच्छविः, सुविभक्तैकैका द्वितीयजातरोमत्वाद् एकैकरोमा, अवदातकुन्देन्दुगोक्षीरतुषारवर्णचन्द्रसूर्यशतातिरेकप्रभया ऊर्णया भ्रुवोर् अन्तरे कृतालंकारत्वाद् आस्यस्योर्णाङ्कितमुखः, उपरिविपुलकायत्वात् सिंहपूर्वार्धकायः, सुश्लिष्टपरिमण्डलग्रीवत्वात् सुसंवृतस्कन्धः, काञ्चनपट्टसुविमृष्टो परितोषस्कन्धत्वाच् चितान्तरांसः, वातपित्तश्लेष्माभिर् अनुपहतसमनत्वाद् रसरसप्रतिभावनत्वात् सदृशविज्ञानत्वाच् च रसरसज्ञः, कायस्य व्यामसमारोहपरिणाहप्रमाणत्वान् न्यग्रोधपरिमण्डलः, वृत्तपरिमण्डलदक्षिणा वर्तोष्णीषसमानसू पहितदर्शनीयशिरस्कत्वाद् उष्णीषशिराः, रक्तोत्पलपत्त्रसमवर्णापतत्वात् पृथुतनुजिह्वः, हिरण्यगर्भकलविङ्कशकुनिसदृशस्वरत्वाद् ब्रह्मस्वरः, आदर्शमण्डलवत्सुपरिवृत्तोपचितदर्शनीयहनुत्वात् सिंहहनुः, कुन्देन्दुशंखाव् अभेदकवत्सितदन्तत्वाच् छुक्लदन्तः, अनुन्नतदन्तत्वात् समदन्तः, निरन्तरत्वाद् अविरलदन्तः, अध ऊर्ध्वं चानतिरिक्तत्वात् समचत्वारिंशद्दन्तः, कृष्णशुभ्रदेशानुपक्लिष्टसुविशुद्धत्वाल् लोहितराजिभिर् अपिनद्धत्वाच् चाभिनीलनेत्रः, अधःस्थितानाम् ऊर्ध्वस्थितानां च सम्य्गवनतत्वाद् (psp_6-8:63) असंलुडितत्वाच् च पक्ष्मणो गोपक्ष्मनेत्रस् तथागतो भवति.

ततः चक्राङ्कहस्तपादो भवति गुरूणाम् अनुगमनप्रत्युद्गमनाभ्यां धर्मश्रवणमाल्योपहारचैत्यानुयानप्रभृतिषु परिवारदानाच् चक्राङ्कहस्तपादो भवति, तत् पुनर् महापरिवारतायाः, पूर्वनिमित्तं, दृढसमादानत्वात् सुप्रतिष्ठितपाणिपादस् तद् अकम्पनीयतायाः पूर्वनिमित्तं, चतुर्णां संग्रहवस्तूनां दानप्रियवद्यार्थचर्यासमानार्थतानाम् आसेवनाज् जालहस्तपादस् तत् क्षिप्रसंग्रहतायाः पूर्वनिमित्तं, प्रणीतानाम् अशितपीतलीढखादितास्वादितान् आदानात् मृदुतरुणहस्तपादः, सप्तोच्छ्रयश् वा तद् उभयं प्रणीतानाम् एवाशितपीतलीढखादितास्वादितानां प्रतिलब्धये पूर्वनिमित्तं, वध्यपरिमोक्षणाज् जीवितानुग्रहकरणात् प्राणातिपाताच् च प्रतिविरतेर् आसेवनाद् दीर्घाङ्गुलिर् आयतपादपार्ष्णिर् बृहदृजुगात्रश् च तद् दीर्घायुष्कतायाः पूर्वनिमित्तं, कुशलस्य धर्मसमादानस्योपात्तस्याभिवर्धनाद् अपरिहाणाच् चोच्छङ्खपादश् चोर्ध्वाङ्गरोमा च तद् अपरिहाणिधर्मताया विनये वा पूर्वमिमित्तं, सत्कृत्यशिल्पविद्याकर्मणाम् उपप्रदानाद् उपादानप्रदानाच् चैणेयजङ्घस् तत् क्षिप्रग्रहणतायाः पूर्वनिमित्तं, स्वतः संविद्यमानस्यार्थस्य याचितेन दानाद् अप्रत्याख्यानाच् च पटूरुबाहुस् तद् वशितायाः प्रदाने विनये वा पूर्वनिमित्तं, मित्रस्वजनसंबन्धिसङ्गतानाम् अन्योन्याविप्रयोजनाद् विप्रयुक्तानां च सत्त्वानां ब्रह्मचर्यसमादानाद् गुह्यमन्त्ररक्षणाच् च कोशावहितमस्तिगुह्यस् तद् बहुपुत्रतायाः पूर्वनिमित्तं, प्रणीतानाम् उपस्तरणप्रावरणनिवासनानां प्रासादविमानभवनानाञ् च दानात् सुवर्णवर्णः श्लक्ष्णच्छविश् च तद् उभयं प्रणीतानाम् एवोपस्तरणप्रावरणनिवासनानां प्रासादविमानभवनानां च प्रतिलब्धये

पूर्वनिमित्तं, संगणिकापरिवर्जनाद् उपाध्यायाचार्यमातापितृभ्रातृप्रभृतीनां च गुरूणां यथानुरूपोपस्थाननिवेशनात् तद् अध्यक्षाप्रदानाच् च विकृतानाम् एकैकप्रदक्षिणावर्तरोमा ऊर्णाङ्कितमुखश् च तद् अप्रतिसमतायाः पूर्वनिमित्तं, अमुखरवचनाद् अनवसादनात् प्रियवादित्वात् सुभाषितानुरोमत्वाच् च सिंहपूर्वार्धकायः, सुसंवृतस्कन्धश् च तद् अप्रतिहततायाः पूर्वनिमित्तं, व्याधितेभ्यो भैषज्यपरिचारकचिकित्सकपथ्यभोजनानां (psp_6-8:64) प्रदानाद् उपस्थानाच् च चितान्तरांसः, रसरसज्ञश् च तद् अल्पाबाधतायाः पूर्वनिमित्तम्, आरामसभाश्रयोदपानदुर्गसंक्रमभक्तमाल्यविहारावसथविहारकरणप्रभृतिषु परेषाम् उत्साहनपूर्वङ्गमत्वात् परेभ्यो ऽभ्यधिकप्रदानाच् च न्यग्रोधपरिमण्डल उष्णीषशिराश् च तद् आधिपत्यप्रतिलंभाय पूर्वनिमित्तं, दीर्घरात्रश्लक्ष्णप्रियमधुरवचनाभिधानात् प्रभूतजिह्वो ब्रह्मस्वरश् च तत् पञ्चाङ्गवाक्यथोपेतस्य स्वरस्य प्रतिलब्धये पूर्वनिमित्तं, पञ्चाङ्गवाक्यथोपेतः पुनः स्वरः, आज्ञेयो विज्ञेयः श्रवनीयो न प्रतिकूलः, गम्भीरो ऽनुनादी, अनेलः कर्णसुखो विदुरवकीर्ण इति, दीर्घरात्रं संभिन्नप्रलापविरतेः कालवादित्वाच् च सिंहहनुस् तद् आदेयवाक्यतायाः पूर्वनिमित्तं, संमाननाधिमाननाभ्यां परिशुद्धाजीवत्वाच् च सुशुक्लदन्तः समदन्तश् च तत् पूर्वोपचितपरिवारतायाः पूर्वनिमित्तं, दीर्घरात्रं सत्यस्यापिशुनस्य समुदाचाराद् अविरलदन्तः समचत्वारिंशद्दन्तश् च तद् अभेद्यपरिवारतायाः पूर्वनिमित्तं, परिपक्वमानस्येवानवसादयमानस्यारक्तेनाद्विष्टेनामूदेन चक्षुषा दर्शनाद् अतिनीलनेत्रो गोपक्ष्मनेत्रश् च तत् समन्तप्रासादिकतायाः

पूर्वनिमित्तम्. इमान्य् उच्यन्ते द्वात्रिंशद् महापुरुषलक्षणान्य् एभिः सुभूते द्वात्रिंशद् महापुरुषलक्षणैस् तथागतस्य कायः समन्वागतो भवति.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.