Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं भाव इति न भावयति, वेदना संज्ञा संस्कारा, विज्ञानं भाव इति न भावयति. तत् कस्य हेतोः? नास्ति सुभूते भावसंज्ञिनः प्रज्ञापारमिताभावना, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यता बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः सर्वाकारज्ञता भाव इति न भावयति, रागदोषमोहा भाव इति न भावयति, अनुशयपर्युत्थानानि भाव इति न भावयति. तत् कस्य हेतोः? नास्ति सुभूते भावसंज्ञिनः प्रज्ञापारमिताभावना, नास्ति सुभूते भावसंज्ञिनो दानपारमिताभावना, शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताभावना. तत् कस्य हेतोः? तथा हि सुभूते भावे एषो ऽहम् इति संज्ञा, दाने शीले क्षान्तौ वीर्ये ध्याने, प्रज्ञायाम् एषो ऽहम् इति संज्ञा, यो द्वाभ्याम् अन्ताभ्यां सक्तस् तस्य नास्ति विमोक्षो, नास्ति सुभूते भावसंज्ञिनः स्मृत्युपस्थानभावना न सम्यक्प्रहाणभावना नर्द्धिपादभावना नेन्द्रियभावना न बलभावना न बोध्यङ्गभावना नार्याष्टाङ्गमार्गभावना न दुःखार्यसत्यभावना न समुदयार्यसत्यभावना न निरोधार्यसत्यभावना न मार्गार्यसत्यभावना न शून्यताभावना नानिमित्तभावना नाप्रणिहितभावना नाप्रमाणध्यानारूप्यसमापत्तिभावना नाष्टविमोक्षभावना न नवानुपूर्वविहारसमापत्तिभावना न सर्वशून्यताभावना न समाधिधारणीमुखभावना नाभिज्ञाभावना न दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मभावना न महाकरुणाभावना न सर्वाकारज्ञताभावना. तत् कस्य हेतोः? तथा हि स भावे सक्तः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: तत् किम् इति भगवन् भावः? किम् इत्य् अभावः?
भगवान् आह: द्वयं सुभूते भावः, अद्वयम् अभावः.
सुभूतिर् आह: किम् इति भगवन् द्वयं? किम् इत्य् अद्वयम्?
भगवान् आह: रूपसंज्ञिनः सुभूते द्वयं, वेदनासंज्ञासंस्कारविज्ञानसंज्ञिनो द्वयं, चक्षुःसंज्ञिनः, एवं श्रोत्रघ्राणजिह्वाकायमनःसंज्ञिनः, रूपसंज्ञिनः, एवं शब्दगन्धरसस्प्रष्टव्यधर्मसंज्ञिनः, (psp_5:166) चक्षुर्विज्ञानसंज्ञिनश् चक्षुःसंस्पर्शसंज्ञिनश् चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञिनः, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानसंज्ञिनो मनःसंस्पर्शसंज्ञिनो मनःसंस्पर्शप्रत्ययवेदनासंज्ञिनः, पृथिवीधातुसंज्ञिनः, एवम् अब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुसंज्ञिनः प्रतीत्यसमुत्पादसंज्ञिनः अविद्यासंज्ञिनः, एवं संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायाससंज्ञिनः, पारमितासंज्ञिनः, सर्वशून्यतासंज्ञिनः, बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखसंज्ञिनः, शून्यतानिमित्ताप्रणिहितसंज्ञिनः, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसंज्ञिनः, स्रोतआपन्नसंज्ञिनः, सकृदागाम्यनागाम्यर्हत्संज्ञिनः, प्रत्येकबुद्धसंज्ञिनो बोधिसत्त्वसंज्ञिनो ऽनुत्तरसम्यक्संबुद्धसंज्ञिनः, संस्कृतधातुसंज्ञिनो ऽसंस्कृतधातुसंज्ञिनो, यावत् सुभूते सर्वसंज्ञिनो द्वयं, यावद् असर्वसंज्ञिनो ऽद्वयं, यावद् द्वयं तावद् भावो, यावद् भावं तावत् संस्कारा, यावत् संस्कारास् तावत् सत्त्वा न परिमुच्यन्ते जात्या जरया व्याधिना मरणेन शोकपरिदेवदुःखदौर्मनस्योपायासैः. तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, नास्ति द्वयसंज्ञिनो दानं, नास्ति शीलं नास्ति क्षान्तिर् नास्ति वीर्यं नास्ति ध्यानं नास्ति प्रज्ञा नास्ति मार्गो नास्ति ज्ञानं नास्त्य् अभिसमयो
नास्त्य् अन्तशो ऽनुलोमिकी क्षान्तिः. कुतः पुना रूपस्य परिज्ञा, वेदनायाः संज्ञायाः संस्काराणां, कुतो विज्ञानस्य परिज्ञा, कुतः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां परिज्ञा, कुतः पारमितानां परिज्ञा, कुतः शून्यतामुखानां परिज्ञा, कुतः सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां परिज्ञा, कुतः आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां परिज्ञा, कुतः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां परिज्ञा, कुतः सर्वाकारज्ञतायाः परिज्ञा यस्य नास्ति मार्गभावना, कुतस् तस्य स्रोतआपत्तिफलं, कुतस् तस्य सकृदागामिफलं, कुतस् तस्यानागामिफलं, कुतस् तस्यार्हत्वफलं, कुतस् तस्य प्रत्येकबुद्धत्वं, कुतस् तस्य सर्ववासनानुसंधिक्लेशप्रहाणम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भावसंज्ञिन आनुलोमिकी क्षान्तिर् नास्ति कुतः पुनः प्राप्तिः कुतो ऽभिसमयः? किं पुनर् भगवन्न् अभावसंज्ञिन आनुलोमिकी क्षान्तिः? (psp_5:167) शुक्लविदर्शनाभूमिर् वा गोत्रभूमिर् वा अष्टमकभूमिर् वा दर्शनभूमिर् वा तनूभूमिर् वा वीतरागभूमिर् वा कृतावीभूमिर् वा प्रत्येकबुद्धभूमिर् वा बोधिसत्त्वभूमिर् वा, या च मार्गभावनाम् आगम्य क्लेशान् प्रजहीत श्रावकभूमिप्रतिसंयुक्तान् वा प्रत्येकबुद्धभूमिप्रतिसंयुक्तान् वा, यैः क्लेशैर् आवृतो बोधिसत्त्वनियामम् अवक्रामेत्, बोधिसत्त्वनियामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयात्, सर्वाकारज्ञताम् अनुप्राप्नुवन् सर्ववासनानुसंधिक्लेशान् प्रजहीत. पुनर् भगवन् नाभावसंज्ञिनः कस्यचिद् धर्मस्य स्थानं वा निरोधो वा उत्पादो वा भवति, न चानुत्पाद्यैनान् धर्मान् सर्वाकारज्ञतानुप्राप्तुम्.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतन्, नाभावसंज्ञिन आनुलोमिकी क्षान्तिर्, न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृतावीभूमिर् न प्रत्येकबुद्धभूमिर् न बोधिसत्त्वभूमिर्, न सा मार्गभावनायां मार्गभावनाम् आगम्य क्लेशान् प्रजहीत श्रावकभूमिप्रतिसंयुक्तान् वा प्रत्येकबुद्धभूमिप्रतिसंयुक्तान् वा, यैः क्लेशैर् आवृतो बोधिसत्त्वनियामम् अवक्रामेत्, बोधिसत्त्वनियामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयात्, सर्वाकारज्ञताम् अनुप्राप्नुवन् सर्ववासनानुसंधिक्लेशान् प्रजहीत.
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भावसंज्ञा वा भावत्य् अभवसंज्ञा वा, रूपसंज्ञा वा वेदनासंज्ञा वा संज्ञासंज्ञा वा संस्कारसंज्ञा वा विज्ञानसंज्ञा वा, स्कन्धधात्वायतनप्रतीत्यसमुत्पादसंज्ञा वा प्रतीत्यसमुत्पादाङ्गसंज्ञा वा पारमितासंज्ञा वा सर्वशून्यतासंज्ञा वा बोधिपक्ष्यधर्मार्यसत्यसंज्ञा वा प्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिसंज्ञा वा धारणीमुखसंज्ञा वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मसंज्ञा वा, रागसंज्ञा वा रागप्रहाणसंज्ञा वा दोषसंज्ञा वा दोषप्रहाणसंज्ञा वा मोहसंज्ञा वा मोहप्रहाणसंज्ञा वा, अविद्यासंज्ञा वाविद्याप्रहाणसंज्ञा वा संस्कारसंज्ञा वा संस्कारप्रहाणसंज्ञा वा विज्ञानसंज्ञा वा विज्ञानप्रहाणसंज्ञा वा नामरूपसंज्ञा वा नामरूपप्रहाणसंज्ञा वा षडायतनसंज्ञा वा षडायतनप्रहाणसंज्ञा वा स्पर्शसंज्ञा वा स्पर्शप्रहाणसंज्ञा वा वेदनासंज्ञा वा वेदनाप्रहाणसंज्ञा वा (psp_5:168) तृष्णासंज्ञा वा तृष्णाप्रहाणसंज्ञा वोपादानसंज्ञा वोपादानप्रहाणसंज्ञा वा भवसंज्ञा वा भवप्रहाणसंज्ञा वा जातिसंज्ञा वा जातिप्रहाणसंज्ञा वा जरामरणसंज्ञा वा जरामरणप्रहाणसंज्ञा वा, शोकपरिदेवसंज्ञा वा शोकपरिदेवप्रहाणसंज्ञा वा दुष्खसंज्ञा वा दुष्खप्रहाणसंज्ञा वा दौर्मनस्योपायाससंज्ञा वा दौर्मनस्योपायासप्रहाणसंज्ञा वा, दुःखसंज्ञा वा दुःखप्रहाणसंज्ञा वा समुदयसंज्ञा वा समुदयप्रहाणसंज्ञा वा निरोधसंज्ञा वा निरोधप्रहाणसंज्ञा वा मार्गसंज्ञा वा मार्गप्रहाणसंज्ञा वा, सर्वाकारज्ञतासंज्ञा वा सर्वाकारज्ञताप्रहाणसंज्ञा वा सर्ववासनानुसंधिक्लेशसंज्ञा वा सर्ववासनानुसंधिक्लेशप्रहाणसंज्ञा वा.
भगवान् आह: न सुभूते, नैतत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः क्वचिद् धर्मे भावसंज्ञा वाभावसंज्ञा वा, एषैव सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी क्षान्तिर् यत्र नास्ति भावसंज्ञा वाभावसंज्ञा वा, एषैवास्य मार्गभावना यत्र नास्ति भावसंज्ञा नाभावसंज्ञा, एतद् एवास्य फलं यत्र नास्ति भावसंज्ञा नाभावसंज्ञा. अभावः खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गः, अभावश् चैवाभिसमयस्, तद् अनेनापि सुभूते पर्यायेणैवं वेदितव्यम्, अभावस्वभावाः सर्वधर्माः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः, कथं भगवन्न् अभावस्वभावाः सर्वधर्मास् तथागतेनाभिसंबुद्धाः, येषाम् अभिसंबोधाय सर्वधर्मेषु च वशवर्तिता विसयवर्तिता चानुप्राप्ता?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इहाहं सुभूते पूर्वं बोधिसत्त्वचर्यां चरन् षट्सु पारमितासु चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य व्यहार्षं, यावच् चतुर्थं ध्यानम् उपसंपद्य व्यहार्षं, तेषाञ् च ध्यानानां ध्यानाङ्गानां च निमित्तम् अनुद्गृह्णंस् तैश् च ध्यानैर् ध्यानाङ्गैश् च न मन्ये, ध्यानानि ध्यानाङ्गानि च नास्वादयामि, ध्यानानि ध्यानाङ्गानि च नोपलभे. सो ऽहन् तानि चत्वारि ध्यानान्य् आकारविशुद्धान्य् उपसंपद्योत्साहं ध्यानं विपाकं कृत्वा वाभिज्ञाज्ञानसाक्षात्क्रियायै चित्तम् अभिनिर्णामयामि, दिव्यश्रोत्रज्ञानसाक्षात्क्रियायै, चेतःपर्यायज्ञानसाक्षात्क्रियायै, पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायै, दिव्यचक्षुर्ज्ञानसाक्षात्क्रियायै (psp_5:169) चित्तम् अभिनिर्णामयामि, सो ऽहन् तासां साक्षात्क्रियानां निमित्तम् अनुद्गृह्णंस् ताभिर् अभिज्ञाभिर् न मन्ये, ताश् च पंचाभिज्ञा नास्वादयामि नोपलभे, सो ऽहन् ताः पञ्चाभिज्ञा आकाशसमाः पश्यामि समापद्ये, सो ऽहं पुनः सुभूते एकलक्षणसमायुक्तया प्रज्ञयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य यावद् इदं दुष्खं, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपद् इति, दशभिस् तथागतबलैः समन्वागतश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः समन्वागतः सत्त्वांस् त्रिषु राशिषु व्याकरोमि.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवंस् तथागतेनार्हता सम्यक्संबुद्धेनाभावस्वभावानि चत्वारि ध्यानान्य् उत्पादितानि षड् अभिज्ञा उत्पादिताः सत्त्वासत्तया च सत्त्वास् त्रिषु राशिषु व्याकृताः?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते कामानां वा पापकानाम् अकुशलानां धर्माणां स्वभावो वा भावो वाभावो वा भविष्यन्, नाहं सुभूते पूर्वं बोधिसत्त्वचर्यां चरन् नाभावस्वभावान् पापकान् अकुशलान् धर्मान् विदित्वा प्रथमं ध्यानम् उपसंपद्य व्यहार्षं, यस्मात् तर्हि सुभूते कामानां स्वभावो वाभावो वा भावो वा नास्ति, पापकानाम् अकुशलानां धर्माणां स्वभावो वाभावो वा भावो वा नास्त्य् अन्यत्राभावस्वभावात्, तस्माद् अहं पूर्वं बोधिसत्त्वचर्यां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य व्यहार्षं, एवं यावच् चतुर्थं ध्यानम् उपसंपद्य व्यहार्षम्. सचेत् सुभूते अभिज्ञानां स्वभावो वाभावो वा भावो वा अभविष्यन्, नाहं सुभूते सर्वाभिज्ञा अभावस्वभावा इति विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये यावत् सत्त्वांस् त्रिभ्यो राशिभ्यो न व्युपशमयिष्ये, यस्मात् तर्हि सुभूते सर्वाभिज्ञानां स्वभावो वाभावो वा भावो वा नास्त्य् अन्यत्राभावस्वभावात्, तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वाभिज्ञा अभावस्वभावा इति विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्यां, सत्त्वाश् च त्रिषु राशिषु व्याकृताः. इति भावनायां विप्रतिपत्तिः (psp_5:170) इत्य् उक्ता विप्रतिपत्तयः इत्य् उक्तो मूर्धाभिसमयः
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां मूर्धाभिसमयाधिकारः शिक्षापरिशुद्धिपरिवर्तः पञ्चमः
(psp_6-8:1) पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता वि
एवम् उक्ते आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वो ऽभावस्वभावैः सर्वधर्मैः पञ्चभिर् अभिज्ञाभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तत् कथं भगवन्न् अभावस्वभावेषु सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते ययानुपूर्वक्रिययानुपूर्वशिक्षयानुपूर्वप्रतिपदानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमम् एवैवं श्रुतं भवति. बुद्धानां भगवताम् अन्तिके बोधिसत्त्वानां महासत्त्वानां बुद्धधर्मपर्युपासितानां प्रत्येकबुद्धानाम् वार्हतां वानागामिनां वा सकृदागामिनां वा स्रोतआपन्नानां वाभावत्वाद् बुद्धानां भगवताम् अभावत्वात् प्रत्येकबुद्धानाम् अभावत्वाद् अर्हताम् अभावत्वाद् अनागामिनाम् अभावत्वात् सकृदागामिनाम् अभावत्वात् स्रोतआपन्नानाम् अभावत्वात् सर्वार्याणां नस्ति सर्वसंस्काराणां स्वभावः, अन्तशो वालाग्रकोटीस्थानमात्रकम् अपीति तस्य बोधिसत्त्वस्य महासत्त्वस्यैवं भवति: अभावा एव बुद्धा भगवन्तो बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धा अर्हन्तो ऽनागामिनः सकृदागामिनः स्रोतआपन्नाः सर्वार्या यद्य् अहं बोधिम् अभिसंभोत्स्ये यदि वा नाभिसंभोत्स्ये ऽभावा एव सर्वधर्माः यन् नूनम् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयं याम् अभिसंबुध्य सर्वसत्त्वान् भावसंज्ञायां चरतो ऽभावे ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामि. स खलु पुनर् बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ संप्रतिष्ठेत् सर्वसत्त्वानां परिनिर्वाणार्थाय सो ऽनुपूर्वक्रियाम् आरभेतानुपूर्वशिक्षाम् (psp_6-8:2) अनुपूर्वप्रतिपदम् आरभेत. अत्र शिक्षित्वा पूर्वका बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुम्, प्रथमम् एव षट्सु पारमितासु शिक्षन्ते यद् उत दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्. इति सामान्येनानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्न् आत्मना च दानं ददाति परांश् च दानपारमितायां प्रतिष्ठापयति, दानस्य च वर्णं भाषते, ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तेन दानेन महान्तं भोगस्कन्धं प्रतिलभ्य दानं ददाति विगतमत्सरेण चित्तेन, अन्नम् अन्नार्थिकानां पानं पानार्थिकानां वस्त्रं वस्त्रार्थिकानां विलेपनं विलेपनार्थिकानां शयनं शयनार्थिकानाम् उपाश्रयम् उपाश्रयार्थिकानां प्रदीपं प्रदीपार्थिकानाम् अन्यतरम् अपि मानुष्यकं परिष्कारोपकरणं ददाति स तेन दानेन सत्त्वान् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति. श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य (psp_6-8:3) हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति दानपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च शीलपारमितायां चरन् दानं ददाति, परांश् च शीलपारमितायां प्रतिष्ठापयति दाने प्रतिष्ठापयति शीलपारमितायाश् च वर्णं भाषते ये चान्ये शीलपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तेन शीलेन सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागतह्. श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति शीलपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च क्षान्तिपारमितायां चरन् दानं ददाति, शीलं च रक्षति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयति दाने शीले च प्रतिष्ठापयति क्षान्तिपारमितायाश् च वर्णं भाषते. ये चान्ये क्षान्तिपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तया क्षान्त्या सत्त्वाञ् शीले प्रतिष्ठापयति समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेन च शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन (psp_6-8:4) च समन्वागतः, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं च परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्त्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति क्षान्तिपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च वीर्यपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति, परांश् च वीर्यपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ च प्रतिष्ठापयति, वीर्यपारमितायाश् च वर्णं भाषते, ये चान्ये वीर्यपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञह्. स तेन वीर्येण सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्येणानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. (psp_6-8:5) इति वीर्यपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च ध्यानपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते, परांश् च ध्यानपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये च प्रतिष्ठापयति, ध्यानपारमितायाश् च वर्णं भाषते, ये चान्ये ध्यानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तेन ध्यानेन सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति ध्यानपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च प्रज्ञापारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानञ् च समापद्यते, परांश् च प्रज्ञापारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये ध्याने च प्रतिष्ठापयति, प्रज्ञापारमितायाश् च वर्णं भाषते, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तया प्रज्ञया सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन (psp_6-8:6) प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञयानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा प्रज्ञायते ऽनुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति प्रज्ञापारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपूर्वक्रियायां शिक्षते ऽनुपूर्वशिक्षायाम् अनुपूर्वप्रतिपदि स प्रथमचित्तोत्पादम् उपादाय, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावस्वभावान् सर्वधर्मान् अधिमुच्य बुद्धानुस्मृतिं भावयति, धर्मानुस्मृतिं भावयति संघानुस्मृतिं भावयति, शीलानुस्मृतिम् भावयति, त्यागानुस्मृतिं भावयति, देवतानुस्मृतिं भावयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो बुद्धानुस्मृतिं भावयति? इह सुभूते बोधिसत्त्वो महासत्त्वः तथागतम् अर्हन्तं सम्यक्संबुद्धं न रूपतो मनसिकरोति, न वेदनातो न संज्ञातो न संस्कारतो न विज्ञानतो मनसिकरोति. तत् कस्य हेतोः? तथा हि रूपस्वभावो नास्ति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः रूपाद्यमनसिकारेण बुद्धानुस्मृत्या. पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न द्वात्रिंशन्महापुरुषलक्षणैर् मनसिकर्तव्यो न सुवर्णकायो मनसिकर्तव्यो (psp_6-8:7) न व्याममात्रया प्रभया मनसिकर्तव्यो नाशीत्यनुव्यञ्जनैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् लक्षणाद्यमनसिकारेण बुद्धानुस्मृत्या.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न शीलस्कन्धतो मनसिकर्तव्यो न समाधिस्कन्धतो न प्रज्ञास्कन्धतो न विमुक्तिस्कन्धतो न विमुक्तिज्ञानदर्शनस्कन्धतो मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः शीलादिस्कन्धामनसिकारेण बुद्धानुस्मृत्या.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न दशभिस् तथागतबलैर् मनसिकर्तव्यो न चतुर्भिर् वैशारद्यैर् न चतसृभिः प्रतिसंविद्भिर् मनसिकर्तव्यो न महाकरुणया न महामैत्र्या नाष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् दशबलाद्यमनसिकारेण बुद्धानुस्मृत्या.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न प्रतीत्यसमुत्पादतो मनसिकर्तव्यः. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः प्रतीत्यसमुत्पादामनसिकारेण बुद्धानुस्मृत्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर् मनसिकर्तव्याः. एवं खल्व् अस्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते. स इहानुपूर्वक्रियायाम् अनुपूर्वशिक्षायाम् अनुपूर्वप्रतिपदि शिक्षमाणो ऽनुपूर्वप्रस्थानैश् चत्वारि स्मृत्युपस्थानानि परिपूरयति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं शून्यतासमाधिम् आनिमित्तसमाधिम् (psp_6-8:8) अप्रणिहितसमाधिं परिपूरयति, अप्रमाणध्यनारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयति, सर्वपारमिताः सर्वशून्यता अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, महाकरुणां परिपूरयति, महामैत्रीं परिपूरयति, सर्वाकारज्ञतां परिपूरयति, अभावस्वभावयोगेन सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. इति बुद्धानुस्मृतिः
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न कुशला धर्मा मनसिकर्तव्या नाकुशला धर्मा मनसिकर्तव्या न व्याकृता धर्मा मनसिकर्तव्या नाव्याकृता धर्मा मनसिकर्तव्या न लौकिका न लोकोत्तरा न सामिषा न निरामिषा नार्या नानार्या न सास्रवा नानास्रवा न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना नारूप्यधातुपर्यापन्ना न संस्कृता नासंस्कृता धर्मा मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां धर्माणां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावाः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा धर्मानुस्मृतिः. स इह धर्मानुस्मृत्यां शिक्षित्वाभावस्वभावयोगेन यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. इति धर्मानुस्मृतिः
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संघो ऽभावस्वभावतो ऽनुस्मर्तव्यो यो सो भगवतः श्रावकसंघश् चत्वारः पुरुषयुगाः, अष्टौ महापुरुषपुद्गलाः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावा अभावस्वभावप्रतिभाविताश् चैवोच्यन्ते चत्वारः पुरुषयुगा अष्टौ महापुरुषपुद्गलाः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा संघानुस्मृतिः. स इह संघानुस्मृत्यां शिक्षित्वाभावस्वभावयोगेन यावत् (psp_6-8:9) सर्वाकारज्ञताम् अनुप्राप्स्यति. सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. इति संघानुस्मृतिः
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन शीलानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अखण्डे ऽच्छिद्रे ऽशबले ऽकल्माषे ऽपरामृष्टे ऽभुजिष्ये विज्ञप्रशस्ते सुसमात्ते समाधिसंवर्तनीये शीले प्रतिष्ठिते नाभावस्वभावतो मनसिकर्तव्यम् तच् छीलं यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति यस्य स्वभावो नास्ति सो ऽभावः. एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा शीलानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन शीलानुस्मृतिर् मनसिकर्तव्या, यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः. इति शीलानुस्मृतिः
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता त्यागानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेनाभावस्वभावयोगेन त्यागो ऽनुस्मर्तव्यो यदि वामिषत्यागो यदि वा धर्मत्यागः. तत् कस्य हेतोः? चित्तम् एवं नोत्पद्यते ददामि वा न ददामि वा परित्यजामि वा न परित्यजामि वाङ्गप्रत्यङ्गानि त्यजता नैवं चित्तम् उत्पादयितव्यं यत्राण्व् अपि स्मृतिकर्म नास्ति कः पुनर् वादः स्मृतिविगमः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावाः. एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा त्यागानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता त्यागानुस्मृतिर् मनसिकर्तव्या यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः. इति त्यागानुस्मृतिः (psp_6-8:10)
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता देवतानुस्मृतिर् मनसिकर्तव्याः. इह सुभूते बोधिसत्त्वेन महासत्त्वेन ये देवाः स्रोतआपन्नाश् चातुर्महाराजकायिकेषु देवेषूपपन्नास् त्रय्स्त्रिंशेषु यामेषु तुसितेषु निर्मानरतिषु परनिर्मितवशवर्तिषु देवेषूपपन्नास् ते ऽभावस्वभावतो मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावा एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा देवतानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन देवतानुस्मृतिर् मनसिकर्तव्या यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः. इति देवतानुस्मृतिः
एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य षडनुस्मृतीर् मनसिकुर्वतो ऽनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते. इति षडनुस्मृतयः
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतानुपूर्वक्रियां परिपूरयितुकामेनानुपूर्वशिक्षाम् अनुपूर्वप्रतिपदं परिपूरयितुकामेनाभावस्वभावयोगेनाध्यात्मशून्यतायां शिक्षितव्यम्, बहिर्धाशून्यतायां शिक्षितव्यम्, अध्यात्मबहिर्धा शून्यतायां शिक्षितव्यम्, यावद् अभावस्वभावशून्यतायां शिक्षितव्यम्. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यम्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षितव्यम्, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षितव्यम् अभावस्वभावयोगेन. दशसु पारमितासु दशसु बोधिसत्त्वभूमिषु शिक्षितव्यम्, महाकरुणायां शिक्षितव्यम्, स एवं बोधिमार्गे शिक्षमाणो ऽभावस्वभावान् सर्वधर्मान् अभिसंभोत्स्यते, यत्राण्व् अपि स्मृतिकर्म नास्ति कुतः पुना रूपं वा वेदनासंज्ञासंस्कारा विज्ञानं वा, एवं (psp_6-8:11) स्कन्धधत्वायतनप्रतीत्यसमुत्पाद वा प्रतीत्यसमुत्पादाङ्गानि वा पारमिता वा शून्यता वा, बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो वा विमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा सर्वाकारज्ञता वा नेदं स्थानं विद्यते. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता अनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा प्रज्ञायते ऽनुपूर्वप्रतिपत् प्रज्ञायते, यत्र क्रियायं चित्तं चर्या प्रतिपच् छिक्षा च प्रवर्तते.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् तन् नास्ति रूपं वेदनासंज्ञासंस्काराः, नास्ति विज्ञानं नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादा नास्ति प्रतीत्यसमुत्पादाङ्गानि नास्ति पारमिता नास्ति शून्यता नास्ति स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नास्ति आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि नास्ति शून्यतानिमित्ताप्रणिहिताभिज्ञा नास्ति दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा नास्ति सर्वाकारज्ञता नास्ति बुद्धो नास्ति धर्मो नास्ति संघो नास्ति मार्गो नास्ति फलं नास्ति संक्लेशो नास्ति व्यवदानं नास्ति प्राप्तिर् नास्त्य् अभिसमयो यावन् नास्ति सर्वधर्माः.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अपि नु सुभूते ऽभावस्वभावेषु सर्वधर्मेष्व् अस्तिता वा नास्तिता वोपलभते.
सुभूतिर् आह: नो भगवन्न् अभावेषु सर्वधर्मेष्व् अस्तिता वा नास्तिता वोपलभते.
भगवान् आह: तत् कथम् इदं सुभूते एवं भवति, यद्य् अभावस्वभावाः सर्वधर्मास् तन् नास्ति रूपं वेदनासंज्ञासंस्कारा, नास्ति विज्ञानम्, नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादा नास्ति प्रतीत्यसमुत्पादाङ्गानि नास्ति पारमिताशून्यताबोधिपक्ष्यधर्मर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा नास्ति सर्वाकारज्ञता नास्ति बुद्धधर्मसंघफलं (psp_6-8:12) मार्गसंक्लेशव्यवदानप्राप्ताभिसमया यवन् नास्ति सर्वधर्मा इति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: नाहं भगवन्न् अत्र धर्मेषु काङ्क्षामि न विचिकित्सामि, अपि तु खलु भगवन् भविष्यन्त्य् अनागते ऽध्वनि भिक्षवः श्रावकयानिकाश् च प्रत्येकबुद्धयानिकाश् च बोधिसत्त्वयानिकाश् च त एवं वक्ष्यन्ति, अभावस्वभावाः सर्वधर्माः को ऽत्र संक्लिश्यते वा व्यवदायते वा न संक्लेशो न व्यवदानं ते जानन्तः शीलविपन्नाश् च भविष्यन्ति दृष्टिविपन्नाश् च भविष्यन्ति, आचारविपन्नाश् च तेषां शीलविपन्नानां दृष्टिविपन्नानाम् आचारविपन्नानां त्रयाणाम् गतीनाम् अन्यतरा गतिः प्रतिकाङ्क्षितव्या, नरकगतिर् वा तिर्यग्योनिगतिर् वा यमलोकगतिर् वा, इदम् अप्य् अहं भगवन्न् अनागतं भयं संपश्यमानस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अर्थं प्र्च्छामि. अपि तु खलु पुनर् भगवन्न् अहम् एतेषु धर्मेषु न काङ्क्षामि न विचिकित्सामि.
भगवान् आह: साधु साधु सुभूते एवम् एतद् यथा वदस्य् एवम् एतत्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः कम् अर्थवशं संपश्यमाना बोधिसत्त्वा महासत्त्वाः सत्त्वानाम् अर्थायानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थिताः.
भगवान् आह: यत एव सुभूते ऽभावस्वभावाः सर्वधर्मास् तत एव बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थिताः. तत् कस्य हेतोः? तथा हि दुःखाक्षयश् च सुभूते उपलंभो नोपलंभसंज्ञिनः प्राप्तिर् नाभिसमयो नानुत्तरा च सम्यक्संबोधिः.
सुभूतिर् आह: किं पुनर् भगवन्न् अनुपलंभस्य प्राप्तिर् वाभिसमयो वानुत्तरा वा सम्यक्संबोधिः.
भगवान् आह: अनुपलंभ एव सुभूते प्राप्तिर् अनुपलंभ एवाभिसमयः, अनुपलंभ एवानुत्तरा सम्यक्संबोधिः, धर्मधातोर् अविकोपितताम् उपादाय धर्मधातुं स इच्छेद् विकोपयितुं यो ऽनुपलंभप्राप्तिं (psp_6-8:13) वा ऽभिसमयं वानुत्तरां वा सम्यक्संबोधिम् इच्छेत्.
सुभूतिर् आह: यदि भगवन्न् अनुपलंभस्य न प्राप्तिर् नाभिसमयो नानुत्तरा सम्यक्संबोधिः, अनुपलंभ एव प्राप्तिर् अनुपलंभ एवाभिसमयो ऽनुपलंभ एवानुत्तरा सम्यक्संबोधिः, तत् कुतः पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रथमा भूमिः, कुतो द्वितीया कुतस् तृतीया यावत् कुतो दशमी भूमिः, कुतो ऽनुत्तरा सम्यक्संबोधिः, कुतो ऽनुत्पत्तिधर्मक्षान्तिः कुतो विपाकजा अभिज्ञा, कुतो विपाकजन् दानं, कुतो विपाकजं शीलं, कुतो विपाकजा क्षान्तिः, कुतो विपाकजं वीर्यं, कुतो विपाकजः समाधिः, कुतो विपाकजा प्रज्ञा यत्र विपाके स्थित्वा विपाकजैर् धर्मैः सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिगृह्णाति, बुद्धांश् च भगवत उपतिष्ठति, अन्नेन च पानेन च यानैश् च वस्त्रवस्तुगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिः शयनासनोपाश्रयेण प्रदीपेनान्यतरान्यतराभिर् वा मानुष्यकीभिः संपत्तिभिस् ताश् चास्य नोच्छेद्यन्ते यावत् परिनिर्वृतस्य शरीरे श्रावकेषु च विपच्यते तच् च न क्षीयते.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत एव सुभूते ऽनुपलंभस् तत एव प्रथमा भूमिर् द्वितीया भूमिस् तृतीया भूमिर् यावद् दशमी भूमिस् तस्यैव विपाकजाः पञ्चाभिज्ञास् ततश् चैवैं विपाकजं दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञा च ततश् चैव कुशलमूलानि विपाकजानि यैः कुशलमूलैः सर्वसत्त्वानाम् अर्थं करोति बुद्धक्षेत्रञ् च परिगृह्णाति, बुद्धांश् च भगवत उपतिष्ठति. अन्नपानयानशयनासनवस्त्रगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिरूपाश्रयेण प्रादीपेनान्यतरान्यतराभिर् वा मानुष्योपकरणसंपत्तिभिस् ताश् चास्य नोपच्छिद्यन्ते, यावत् परिनिर्वृतस्य चैव पूजाः प्रवर्तन्ते शरीरे श्रावकेषु च विपच्यन्ते.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अनुपलंभस्य च भगवन् दानस्य च शीलस्य च क्षान्तेश् च वीर्यस्य च ध्यानस्य च प्रज्ञायाश् चाभिज्ञानां च को विशेषः? किन् नानाकरणम्? (psp_6-8:14)
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अनुपलंभस्य च सुभूते दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभिज्ञानां च न किञ्चिन् नानाकरणं येषां खलु पुनः सुभूते ऽनुपलिप्तं दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञाभिज्ञा च तेषां नानाकरणं निर्दिष्टम्.
सुभूतिर् आह: कथं पुनर् भगवन्न् अनुपलिप्तानां दानशीलक्षान्तिवीर्यध्यानप्रज्ञानाम् अभिज्ञानाञ् च न किञ्चिन् नानाकरणं निर्दिश्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपलभ्य दानम् अनुपलभ्य प्रतिग्राहकं दानं ददाति, अनुपलभ्य शीलं रक्षति, अनुपलभ्य क्षान्त्या संपादयति, अनुपलभ्य वीर्यम् आरभते, अनुपलभ्य ध्यानं समापद्यते, अनुपलभ्य प्रज्ञां भावयति, अनुपलभ्याभिज्ञासु चरति, अनुपलभ्य स्मृत्युपस्थानां भावयति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, अनुपलभ्य मार्गं भावयति, अनुपलभ्य त्रीणि विमोक्षमुखानि भावयति, अनुपलभ्यार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखानि भावयति, अनुपलभ्य् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयति, अनुपलभ्य सत्त्वान् परिपाचयति, अनुपलभ्य बुद्धक्षेत्रं परिशोधयति, अनुपलभ्य बुद्धधर्मान् बोधिम् अभिसंबुध्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपलंभयोगेन प्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुराधर्षो भवति, मारैर् वा मारकायिकाभिर् वा देवताभिः. इति सर्वधर्माभावस्वभावज्ञानेनानुपूर्वाभिसमयः इत्य् उक्तो ऽनुपूर्वाभिसमयः आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् अनुपूर्वाभिसमयाधिकारो ऽनुक्रमशिक्षापरिवर्तः षष्ठः
(psp_6-8:15) पञ्चविंशतिसाहस्रिका प्रजापारमिता विइ
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एकचित्तेन षट्प्रज्ञाः परिगृह्णाति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गान् त्रीणि विमोक्षमुखानि चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञा अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणाम् अष्टादशावेणिकान् बुद्धधर्मान् अशीत्यनुव्यञ्जनानि द्वात्रिंशन्महापुरुषलक्षणानि परिगृह्णाति. इत्य् एकचित्तक्षणाभिसमयः समान्येन
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यद् दानं ददाति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतं, यच् छीलं रक्षति, यया क्षान्त्या संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तन् नान्यत्र प्रज्ञापारमितया परिगृहीतं, यद् अप्रमाणं समापद्यते, या आरूप्यसमापत्तीः, यत् स्मृत्युपस्थानं यं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गं भावयति, यद् आर्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञाविमोक्षसमाधिसमापत्तिधारणीमुखं भावयति, याम् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां, यान् दशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् यां महाकरुणां भावयति, यानि द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिगृह्णाति, तन् नान्यत्र प्रज्ञापारमिरया परिगृहीतम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् प्रज्ञापारमितापरिगृहीतो बोधिसत्त्वो महासत्त्व एकचित्तेन षट्पारमिताः परिगृह्णाति? सर्वशून्यतां सर्वबोधिपक्षान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् (psp_6-8:16) महाकरुणां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया परिगृहीतो यद् दानं ददाति तत्र न द्वयसंज्ञी भवति, यच् छीलं रक्षति, यया क्षान्त्या संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति तत्र न द्वयसंज्ञी भवति, यावद् बोधिपक्ष्यान् धर्मान् भावयति, तत्र न द्वयसंज्ञी भवति. एवम् आर्यसत्याप्रमाणध्याणारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान्, यां महाकरुणां, यानि द्वात्रिंशन्महापुरुषलक्षणानि, अशीत्यनुव्यञ्जनानि परिगृह्णाति, तत्र न द्वयसंज्ञी भवति.
सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति न द्वयसंज्ञी भवति? एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां भावयति, न च द्वयसंज्ञी भवति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां भावयति, न च द्वयसंज्ञी भवति, एवं सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अभिनिर्हरति, न च द्वयसंज्ञी भवति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिपूरयति, स तत्र दानपारमितायां सर्वाः षट्पारमिता अन्तर्गताः कृत्वा दानं ददाति, यावत् सर्वबोधिपक्ष्यान् धर्मान् अन्तर्गतां कृत्वा दानं ददाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो यस्मिन् समये प्रज्ञापारमितायां चरन् दानं ददाति स तत्रानास्रवे चित्ते स्थित्वा दानं ददाति स तत्रानास्रवे चित्ते स्थितो निमित्तं न समनुपश्यति. कस्मै वा ददामि? किं वा ददामि? केन वा ददामि? स निमित्तापगतेन चित्तेन दानं ददाति, अनास्रवेण विगततृष्णेन विगतभवेन (psp_6-8:17) स तद् दानं न समनुपश्यति, तच् चित्तं न समनुपश्यति, तं प्रतिग्राहकं न समनुपश्यति, यावत् सर्वधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन शीलं रक्षति, स तच् छीलं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन क्षान्त्या संपादयति, स तां क्षान्तिं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन वीर्यम् आरभते, स तद् वीर्यं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन ध्यानं समापद्यते, स तद् ध्यानं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन प्रज्ञां भावयति, स तां प्रज्ञां भावयन् न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयति, शून्यतानिमित्ताप्रणिहिताभिज्ञा सर्वशून्यता भावयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां भावयति, द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिपूरयति, स तान् धर्मान् न समनुपश्यति, तच् (psp_6-8:18) चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
सुभूतिर् आह: कथं भगवन्न् अनिमित्तान् अभिसंस्काराणां धर्माणां दानपारमितापरिपूरिता भवति? एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितापरिपूरिता भवति, चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य परिपूरिर् भवति, शून्यताया आनिमित्तस्याप्रणिहितस्य परिपूरिर् भवति, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां सर्वशून्यतानां परिपूरिर् भवति, पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिपूरिर् भवति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानं ददाति, अन्नपानवस्त्रयानशयनासनहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडजातरूपरजतपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकोपाश्रयान् यावद् अन्यतरान्यतरान् मानुष्योपकरणपरिष्कारान् आध्यात्मिकां बाह्यां वा भार्यापुत्रदुहितृराज्यं वालंकृत्य दानं ददाति याचनकानान् तस्य कश्चिद् एवागत्यैवं वदेत्: किन् ते ऽनेन ईदृशेन दानेन दत्तेनैवं निरूपकारेण तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, किञ् चापीमे सत्त्वाः परिभाषन्ते, किन् ते ऽनेन वा दानेन वा दत्तेनैवम् आस्फारिकेन दत्तेनार्थस्य च दातव्यम् एवं मया दानं, न च मया न दातव्यम्. स दानं सर्वसत्त्वेषु साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, स तथा परिणामयति यथा परिणामयन् निमित्तं न समनुपश्यति, किं वा ददामि, कस्मै वा ददामि, को वात्र ददाति, किं वा परिणामयति क्व वा परिनामयति, स तद् वस्तु न समनुपश्यति (psp_6-8:19) यत्र दत्त्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तत् कस्य हेतोः? अध्यात्मशून्यतया शून्यं बहिर्धाशून्यतया शून्यं यावद् अभावस्वभावशून्यतया शून्यं, स एवं पश्यति को वा परिणामयिष्यति कुत्र वा परिणामयिष्यति किं वा परिणामयिष्यति, तस्यैवं परिणामयतः परिणामो भवति निर्विषः परिणामो धर्मधातुपरिणामः सर्वसत्त्वांश् च परिपाचयति, बुद्धक्षेत्रञ् च परिगृह्णाति, दानपारमितां च परिपूरयति, शीलपारमितां परिपूरयति,
क्षान्तिपारमितां परिपूरयति, वीर्यपारमितां परिपूरयति, ध्यानपारमितां परिपूरयति, प्रज्ञापारमितां परिपूरयति, सप्तत्रिंशद्बोधिपक्स्यान् धर्मान् परिपूरयति, शून्यतानिमित्ताप्रणिहितसमाधीन् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयत्य् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, तथा चैव दानपारमितां परिपूरयति, यथा चैव विपाकञ् च न परिगृह्णाति, तद्यथापि नाम सुभूते परनिर्मितवशवर्तिनां देवानां मनसैव सर्वोपकरणानि भवन्ति, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य मनसैव सर्वोपकरणं परिपूरयति, स तेन दानेन बुद्धांश् च भगवत उपतिष्ठति, सदेवमानुषासुरञ् च लोकं संतर्पयति स तान् सत्त्वांस् तया दानपारमितया परिगृह्योपायकौशल्येन त्रिषु यानेषु प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानपारमितां परिपूरयति.
सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितां परिपूरयति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तच् छीलम् आर्यम् अनास्रवं मार्गपर्यापन्नं धर्मताप्रातिलंभिकं, शीलं प्रतिलभते, स चास्य शीलस्कन्धो ऽखण्डो भवत्य् अच्छिद्रो ऽशवलो ऽकल्माषो ऽपरामृष्टो ऽभुजिष्यः सुसमात्तो विज्ञप्रशस्तः, तेन च शीलेन कंचिद् धर्मं न परामृशति, रूपं वा वेदनां वा संज्ञां वा संस्कारां वा विज्ञानं वा द्वात्रिंशन्महापुरुषलक्षणानि (psp_6-8:20) वाशीत्यनुव्यञ्जनानि वा क्षत्रियमहाशालकुलं वा ब्राह्मणमहाशालकुलं वा गृहपतिमहाशालकुलं वा चातुर्महाराजकायिकान् वा देवांस् त्रयस्त्रिंशान् वा यामान् वा तुषितान् वा निर्माणरतीन् वा परनिर्मितवशवर्तिनो वा ब्रह्मपारिषद्यान् वा ब्रह्मपुरोहितान् वा महाब्रह्माणो वा परीत्ताभान् वा अप्रमाणाभान् वा आभास्वराभान् वा परीत्तशुभान् वा अप्रमाणशुभान् वा शुभकृत्स्णान् वा अनभ्रकान् वा पुण्यप्रसवान् वा बृहत्फलान् वा असंज्ञिसत्त्वान् वा शुद्धावासान् वा अस्पृहान् वा अतपान् वा सुदृशान् वा सुदर्शनान् वा अकनिष्ठान् वा आकाशानन्त्यायतनान् वा विज्ञानानन्त्यायतनान् वा आकिञ्चन्यायतनान् वा नैवसंज्ञानासंज्ञायतनान् वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबुद्धत्वं वा चक्रवर्तिराज्याधिपत्यं वा न परामृशति, अन्यत्र सर्वसत्त्वेषु साधारणं कृत्वा सर्वाकारज्ञतायां परिणामयति, अनिमित्तानुपलंभेनाद्वयेन परिणामयति, लोकव्यवहारेण न पुनः परमार्थेन, तया च शीलपारमितया परिपूर्णयोपायकौशल्येन चत्वारि ध्यानान्य् उत्पादयत्य् अनास्वादयोगेन दिव्यं चक्षुर् अभिनिर्हरति, येन दिव्यचक्षुषा विपाकजेन ये पूर्वस्यान् दिशि लोकधातुषु बुद्धा भगवन्तस्
तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति, तान् पश्यति तच् चास्य दर्शनं च न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं दक्षिणस्यान् दिशि पश्चिमायान् दिश्य् उत्तरस्यान् दिश्य् ऊर्ध्वम् अधो विदिक्षु लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तान् पश्यति तस्य दर्शनं न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेण तेषां बुद्धानां भगवतां शब्दं शृणोति, तच् चास्य श्रुतं तावन् न नश्यति, यावन् न तेन श्रुतेनात्मनः परस्य चार्थं करोति, स चेतःपर्यायज्ञानेन तेषां बुद्धानां भगवतां चेतसैव चित्तं प्रजानाति तेन चेतःपर्यायज्ञानेन सर्वसत्त्वानाम् अर्थं करोति, स (psp_6-8:21) पूर्वनिवासानुस्मृतिज्ञानेनातीतं कर्म निर्दिशति येन कर्मणाकृतेन तत् कर्म न विप्रणस्यति, स आस्रवक्षयज्ञानेन च सत्त्वान्, स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयति, अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, एवं यत्र यत्र प्रतिबलाः सत्त्वाः कुशलेषु धर्मेषु तत्र तत्र प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन शीलपारमितां परिपूरयति.
सुभूतिर् आह: कथम् अनिमित्तानाम् अनाभोगानाम् अनुपलंभमानानाम् अप्रतिभानाम् अनभिसंस्काराणां धर्माणां क्षान्तिपारमितां परिपूरयति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डे निषण्णस्य सर्वसत्त्वा आगत्य लोष्टदण्डप्रहारान् दह्युस् तत्र बोधिसत्त्वेन महासत्त्वेनैकचित्तस्यापि क्षोभसहगतस्यावकाशो न दातव्यस् तत्र च बोधिसत्त्वेन महासत्त्वेन द्वे क्षान्ती भावयितव्ये. कतमे द्वे यच् च सर्वसत्त्वानां क्षान्तव्यम् आक्रोशदण्डलोष्टप्रहारादिया चास्यानुत्पत्तिकेषु धर्मेषु क्षान्तिर् उत्पादयितव्या तत्र बोधिसत्त्वेन महासत्त्वेनाक्रुश्यमानेन परिभाष्यमाणेन लोष्टदण्डशस्त्रप्रहारान् ददताम् एवं प्रत्यवेक्षितव्यं को मे आक्रोशति वा परिभाषते वा लोष्टदण्डशस्त्रैर् वा प्रहारान् ददाति तेन धर्माणां स्वभावः प्रत्यवेक्षितव्यो धर्माणां स्वभावं प्रत्यवेक्षमाणो धर्मांश् चैव नोपलभते कुतः पुनर् धर्माणां स्वभावम्. तस्यैवं धर्मस्वभावं प्रत्यवेक्षमाणस्यैवं भवति, को मे च्छिनत्ति वा भिनत्ति वा स एवं प्रत्यवेक्षमाणो धर्माणां धर्मस्वभावम् अनुत्पत्तिकैर् धर्मैः क्षान्तिं प्रतिलभते, तत्रानुत्पत्तिकेषु धर्मेषु क्षान्तिः किम् इति क्लेशानुत्पत्तिज्ञानानाच्छेद्यता च स इह द्वाभ्यां क्षान्तिभ्यां युक्तश् चत्वारि ध्यानानि परिपूरयति, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुरर्द्धिपादानि पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि (psp_6-8:22) आर्याष्टाङ्गं मार्गं त्रीणि विमोक्षमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति, स इह धर्मेषु स्थित्वार्येष्व् अनास्रवेषु लोकोत्तरेषु साधारणेषु सर्वश्रावकप्रत्येकबुद्धैर् अभिज्ञाः
परिपूरयति याभिर् अभिज्ञाभिः परिपूरिताभिः षड्भिश् च पारमिताभिः समुदागच्छति, स इहाभिज्ञासु स्थित्वा दिव्येन चक्षुषा पूर्वस्यां दिशि यान् बुद्धान् भगवतः पश्यति तान् दृष्ट्वा बुद्धानुस्मृतिं प्रतिलभते, तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु यान् बुद्धान् भगवतः पश्यति तान् दृष्ट्वा बुद्धानुस्मृतिं प्रतिलभते, तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेण यत् ते बुद्धा भगवन्तो भाषिष्यन्ते तत् सर्वम् उद्ग्रहीष्यत्य् उद्गृह्णं तथत्वाय सत्त्वानां धर्मन् देशयिष्यति तेषां च बुद्धानां भगवतां चेतसैव चेतः परिवितर्कम् आज्ञास्यत्य् एवं सर्वार्याणां सर्वश्रावकप्रत्येकबुद्धानां यावत् सर्वसत्त्वानां चेतसैव चेतः परिवितर्कम् आज्ञास्यति, स तेन चेतः पर्यायज्ञानेन सत्त्वानां चेतसैव चैत्तम् आज्ञाय तथत्वाय धर्मं देशयिष्यति, स पूर्वनिवासानुस्मृतिज्ञानेन तेषां सत्त्वानां कुशलमूलम् आज्ञाय तेन पूर्वेण कुशलमूलेन सत्त्वान् संदर्शयिष्यति समुत्तेजयिष्यति समादापयिष्यति, स आस्रवक्षयज्ञानेन च तान् सत्त्वांस् त्रिषु यानेषु निवेशयिष्यति प्रतिष्ठापयिष्यति, स खलु पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं परिशोधयति सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूरयत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः
प्रज्ञापारमितायां चरन् क्षान्तिपारमितां परिपूरयति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (psp_6-8:23) चरन्न् आनिमित्तेष्व् अनास्रवेष्व् अनाभोगेष्व् अनुपलंभेष्व् अप्रतिभासेषु वीर्यपारमितां परिपूरयति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन वीर्येण समन्वागतः प्रथमं ध्यानम् उपसंपद्य विहरति, द्वितीयं तृतीयं चतुर्थं ध्यानम् उपसंपद्य विहरति, चतुर्थध्यानसमापन्नो ऽनेकविधाम् ऋद्धिं प्रत्यनुभवति, यावच् चन्द्रसूर्यौ पाणिना परामृशति परिमार्ष्टि स तेन कायिकेन वीर्येण समन्वागतो येन दशसु दिक्षु बुद्धा भगवन्तो विहरन्ति सत्त्वानां धर्मं देशयन्ति, अनेकशतसहस्रेषु लोकधातुष्व् ऋद्ध्या गत्वा तान् बुद्धान् भगवत उपतिष्ठति चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस् तस्य ते चीवरपिण्डपात्रास् तावन् न क्षीयन्ते यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते ऽभिसंबुद्धबोधेश् च सदेवमानुषासुरलोकः सुखी भवति, चीवरपिण्डपात्रेण परिनिर्वृतस्य च शरीरे पूजा प्रवर्तते, तेनैव चर्द्ध्यभिसंस्कारेण गत्वा तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति, स न जातु विप्रणस्यति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूरयत्य् अनुत्तरां च सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वश् चैतसिकेन वीर्येण समन्वागत आर्येणानास्रवेण मार्गाङ्गेन मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयतीह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चैतसिकेन वीर्येण समन्वागतो ऽकुशलस्य
कायिककर्मणो ऽवकाशं न ददात्य् अकुशलस्य वाक्कर्मणो ऽकुशलस्य मनस्कर्मणो ऽवकाशं न ददाति न परामृशति नित्यम् इति वा अनित्यम् इति वा सुखम् इति वा दुःखम् इति वात्मेति वानात्मेति वा संस्कृतम् इति वासंस्कृतम् इति वा कामधातुम् इति वा रूपधातुम् इति वारूप्यधातुं वा सास्रवधातुं वानास्रवधातुं वा, प्रथमं वा ध्यानं द्वितीयं वा ध्यानं तृतीयं वा ध्यानं चतुर्थं वा ध्यानं मैत्रीं वा करुणां वा मुदितां वोपेक्षां वाकाशानन्त्यायतनं (psp_6-8:24) व विज्ञानानन्त्यायतनं वाकिंचन्यायतनं वा नैवसंज्ञानासंज्ञायतनं वा, स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वर्द्धिपादां वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वार्याष्टाङ्गिकं वा मार्गं शून्यतां वानिमित्तं वाप्रणिहितं वार्यसत्यानि वाभिज्ञा वा विमोक्षान् वा नवानुपूर्वविहारसमापत्तीर् वा समाधीन् वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वावेणिकान् वा बुद्धधर्मान् न परामृशति नित्यानित्यसुखदुःखात्मानात्मशान्ताशान्त इति वा, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकां वा बोधिम् अनुत्तरां सम्यक्संबोधिं स्रोतआपन्नं वा सकृदागामिनं वानागामिनं वार्हत्त्वं वा प्रत्येकबुद्धं वा बोधिसत्त्वं वा बुद्धं वा भगवन्तं न परामृशतीमे सत्त्वा दर्शनभूमिप्रभाविताः, इमे सत्त्वास् तनुभूमिप्रभाविता इमे ऽवरभागिकप्रभाविताः, इमे ऊर्द्धभागिकप्रभाविता इमे सर्वज्ञताप्रभाविता इमे मार्गज्ञताप्रभाविता इमे सर्वाकारज्ञताप्रभाविता इत्य् एवम् अपि न परामृशति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते, येन स्वभावेन प्रभाव्येरन्, स तेन चैतसिकेन वीर्येण
समन्वागतो मरणसुखे ऽपि वर्तमानः सत्त्वानाम् अर्थं करोति तांश् च सत्त्वान् नोपलभते वीर्यपारमितां परिपूरयति, तां च वीर्यपारमितां नोपलभते, बुद्धधर्मांश् च परिपूरयति, तांश् च बुद्धधर्मान् नोपलभते, बुद्धक्सेत्रं च परिशोधयति, तच् च बुद्धक्षेत्रं नोपलभते, स तेन कायिकेन चैतसिकेन वीर्येण समन्वागतस् तान् कुशलान् धर्मान् परिगृह्णाति, तत्र च न सज्जते, सो ऽसज्जमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, लोकधातोर् लोकधातुं संक्रामति सत्त्वानाम् अर्थं करोति, सत्त्वानाम् अर्थं कुर्वन् येन येनर्द्धिप्रातिहार्येणेच्छति विकुर्वितुं तेन तेनर्द्धिप्रातिहार्येण विकुर्वति, यदि वा पुष्पवर्षेण यदि वा गन्धप्रमुञ्चनेन यदि वा गीताभरणेन यदि वा भूचलनेन यदि वा सप्तरत्नमयैर् लोकधातुसंदर्शनेन यदि वा ज्योतिरत्नानां सत्त्वानां कृतश आत्मानम् अवसृजति यदि वा गन्धम् अवसृजति यदि वा महायज्ञम् अवसृजति, यत्र न प्राणातिपातो (psp_6-8:25) वर्तते, यदि वानन्तान् सत्त्वान् मार्गे ऽवतारयति, यावत् प्राणातिपातात् परिमोचयति, अदत्तादानात् काममिथ्याचारान् मृषावादात् पिशुनवचनात् परुषवचनाद् अवद्धप्रलापाद् अभिध्याया व्यापादात् मिथ्यादृष्टेः परिमोचयति, कांश्चिद् दानेनानुगृह्णाति, कांश्चिच् छीलेन केषांचित् कृतशो ऽङ्गप्रत्यङ्गं परित्यजति केषांचित् पुत्रदारकेणानुग्रहं करोति, केषांचिद् आर्येणात्मानम् अवसृजति, एवं येन येनोपायेन सत्त्वानाम् अर्थः कर्तव्यः, तेन तेनोपायेन सत्त्वानाम् अर्थं करोति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु चैतसिकेन वीर्येण समन्वागतो वीर्यपारमितां
परिपूरयति.
सुभूतिर् आह: कथञ् च भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु स्थित्वा ध्यानपारमितां परिपूरयति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थापयित्वा तथागतसमाधिं सर्वसमाधीन् परिपूरयति, स विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः स वितर्कं स विचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति द्वितीयं ध्यानं तृतीयं ध्यानं चतुर्थं ध्यानम् उपसंपद्य विहरति, मैत्रीसहगतेन चित्तेन करुणासहगतेन मुदितासहगतेनोपेक्षासहगतेन चित्तेन यावत् सर्वावन्तम् लोकधातुम् उपसंपद्य विहरति, आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, स तत्र ध्यानपारमितायां स्थित्वाष्टविमोक्षान् अनुलोमप्रतिलोमान् उपसंपद्य विहरति, नवानुपूर्वविहारसमापत्तीर् उपसंपद्य विहरति, शून्यतासमाधिम् उपसंपद्य विहरति, आनिमित्तसमाधिम् अप्रणिहितसमाधिम् उपसंपद्य विहरति, आनन्तर्यान् अपि समाधीन् उपसंपद्य विहरति, विद्युतोपमांश् च समाधिम् उपसंपद्य विहरति, सम्यक्संबोधिं वज्रोपमं च समाधिम् उपसंपद्य विहरति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् उपसंपद्य विहरति, समाधिपारमितायां स्थित्वा सर्वाकारज्ञताम् उपसंपद्य विहरति, यया सर्वाकारज्ञतया सर्वसमाधिगगनगतं (psp_6-8:26) कृत्वा शुक्लविदर्शना भूमिम् अतिक्रम्य गोत्रभूमिम् अष्टमकभूमिं तनुभूमिं दर्शनभूमिं वीतरागभूमिं कृताविभूमिं श्रावकभूमिं प्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति, बुद्धभूमिं परिपूरयति, स आसु च भूमिषु चरति, न चान्तरा समाधिफलं प्राप्नोति, यावन् न सर्वाकारज्ञताम् अनुप्राप्स्यति, सो ऽत्र ध्यानपारमितायां
स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धान् भगवतः पर्युपासमानः स तान् बुद्धान् भगवतः पर्युपास्ते तेषां बुद्धानां भगवताम् अन्तिके कुशलमूलम् अवरोपयति बुद्धक्षेत्रं च परिशोधयति, लोकधातोर् लोकधातुं संक्रामति, सत्त्वानाम् अर्थं करोति, तत्र कांश्चित् सत्त्वान् दानेन संगृह्णाति कांश्चिच् छीलेन संगृह्णाति कांश्चित् क्षान्त्या संगृह्णाति कांश्चिद् वीर्येण संगृह्णाति, कांश्चिद् ध्यानेन संगृह्णाति, कांश्चित् प्रज्ञया संगृह्णाति, कांश्चिद् विमुक्त्या कांश्चिद् विमुक्तिज्ञानदर्शनेन कांश्चित् स्रोताअपत्तिफले प्रतिष्ठापयति, कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले कांश्चिद् अर्हत्त्वे प्रतिष्ठापयति, कांश्चित् प्रत्येकबोधौ कांश्चिद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, यैर् यैः कुशलैर् धर्मैः सत्त्वा उद्गच्छन्ति तत्र तान् सत्त्वान् नियोजयति स इह ध्यानपारमितायां स्थित्वा सर्वसमाधिमुखान्य् अभिनिर्हरति चतस्रश् च प्रतिसंविदः, प्रतिलभते विपाकजानाञ् चाभिज्ञानाम् लाभी भवति स न जातु मातुः कुक्षाव् उपपद्यते, न जातु कामान् प्रतिसेवते न सा काचिद् उपपत्तिर् यां न गृह्णाति न चोत्पत्तिर् दोषैर् लिप्यते. तत् कस्य हेतोः? तथा हि तेन मायोपमा सर्वधर्मा दृष्टाः सुप्रतिबुद्धा भवन्ति स मायोपमं सर्वसंस्कारगतं विदित्वा महाकरुणा प्रतिगृहीतः सर्वसत्त्वानाम् अर्थं करोति, न च तत्र सत्त्वान् सत्त्वप्रज्ञप्तिम् उपलभते, स सत्त्वान् सत्त्वप्रज्ञप्तिम् अनुपलंभमानः सर्वधर्माणाम् अनुपलंभ एव सत्त्वान् प्रतिष्ठापयति लोकव्यवहारम् उपादाय न च पुनः परमार्थेन इह ध्यानपारमितायां स्थित्वा सर्वध्यानविमोक्षसमाधिसमापत्तिषु चरति न जातु
ध्यानपारमितया विरहितो भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, (psp_6-8:27) स इह सर्वाकारज्ञतायां चरन् सर्वाकारज्ञताम् अभिनिर्हरति, यत्र स्थित्वा सर्ववासनानुसंधिं प्रजहाति, सर्ववासनानुसंधिं प्रहायात्मनो ऽर्थं कृत्वा परस्यार्थं करोति, स आत्मनः परस्य चार्थं कुर्वन् सदेवमानुषासुरलोकस्य दक्षिणीयो भवाति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु ध्यानपारमितां परिपूरयति. इति दानादीनाम् अन्यतमेन सर्वानास्रवैकलक्षणसंग्रहलक्षणो ऽयम् एकचित्तक्षणाभिसमयः प्रथमः
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत आनिमित्तेषु धर्मेषु प्रज्ञापारमिता भावनाप्रिपूरिम् गच्छति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं सद्भूतं वा परिनिष्पन्नं वा समनुपश्यति, स रूपस्यासद्भूतताम् अपरिनिष्पन्नतां समनुपश्यति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यासद्भूतताम् अपरिनिष्पन्नतां समनुपश्यति, रूपस्योत्पादं न समनुपश्यति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं न समनुपश्यति, स रूपस्योत्पादम् असमनुपश्यन् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं न समनुपश्यन् रूपस्यायद्वारं न समनुपश्यति, संनिचयम् अपि न समनुपश्यति, एवं यावत् सर्वसास्रवानां धर्माणाम् अनास्रवाणां धर्माणाम् आयद्वारं न समनुपश्यति, तुच्छकांश् चैव समनुपश्यति, एवं प्रत्यवेक्षमाणो रूपस्य स्वभावन् नोपलभते यावत् सर्वसास्रवाणाम् अनास्रवाणां धर्माणां स्वभावन् नोपलभते, स प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् अधिमुचते, स एवम् अधिमुच्याध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन् न केषु काचिद् धर्मेष्व् अभिनिविशते, रूपे वा वेदनायां वा संज्ञायां वा संस्कारेषु वा विज्ञाने वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु वा प्रतीत्यसमुत्पादाङ्गेषु वा पारमितासु वा शून्यतासु वा बोधिपक्ष्येषु वा धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु (psp_6-8:28) शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु वानुत्तरायां सम्यक्संबोधौ वा नाभिनिविशते, अभावस्वभावायां प्रज्ञापारमितायां चरन् बोधिमार्गं परिपूरयति, यद् उत षट्पारमिता यावत् सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान्
आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिपूरयति, स विपाकजधर्मे बोधिसत्त्वमार्गे स्थित्वा षट्सु पारमितासु परिपूर्णासु यावत् सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु परिपूर्णेसु यावद् विपाकजासु पञ्चस्व् अभिज्ञासु स्थित्वा ये सत्त्वा दानेनानुग्रहीतव्यास् तान् दानेनानुगृह्णाति, ये शीलेन ये समाधिना ये प्रज्ञया ये विमुक्त्या ये विमुक्तिज्ञानदर्शनेनानुग्रहीतव्यास् तांस् तैर् अनुगृह्णाति, ये स्रोतआपत्तिफले प्रतिष्ठापयितव्या ये सकृदागामिफले ये ऽनागामिफले ये ऽर्हत्त्वे ये प्रत्येकबोधौ ये ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्यास् तान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, एवं विस्तरेण कर्तव्यं सो ऽनेकविधाम् ऋद्धिं कुर्वाणो गङ्गानदीवालुकोपमाम् लोकधातून् न गच्छति, स आकाङ्क्षंस् तां लोकधातून् यादृशै रत्नैर् आकांक्षति तादृशै रत्नैर् अभिनिर्मिणोति स सत्त्वाभिप्रायं परिपूरयं लोकधातून् संक्रामति, स तां लोकधातून् दृष्ट्वा बुद्धक्षेत्रं परिगृह्णाति, तद्यथापि नाम परनिर्मितवशवर्तिनां देवानाम् उपभोगपरिभोगाः, ये ऽप्य् अन्ये लोकधातवो ऽपगतपापिष्ठा एवं विधास् तेनोपभोगपरिभोगाः स्युर् इति, स तया विपाकजया दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितया विपाकजाभिर् अभिज्ञाभिर् विपाकजेन बोधिसत्त्वमार्गेण मार्गज्ञतायां चरन् सर्वपारमिताः प्राप्तः सर्वाकारज्ञताम् अनुप्राप्स्यति, यावत् सर्वञ् चैव रूपम् अपरिगृहीतं वेदना संज्ञा
संस्कारा विज्ञानम् अपगृहीतं, यावत् सर्वधर्माः कुशला वाकुशला वा लौकिका वा लोकोत्तरा वा सास्रवा वानास्रवा वा संस्कृता वासंस्कृता वा सावद्या वानवद्या वा (psp_6-8:29) ऽपरिगृहीतं, तस्मात् तर्हि सुभूते तस्यानुत्तरं सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽपरिगृहीतः सर्वोपभोगो भविष्यति. तत् कस्य हेतोः? तथा हि सर्वधर्मा अपरिगृह्ल्ता अनुपलंभयोगेन. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तयोगेन प्रज्ञापारमितां परिपूरयति. इति विपाकधर्मतावस्थानास्रवसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयो द्वितीयः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् एवम् असंभिन्नेषु धर्मेष्व् आनिमित्तेषु लक्षणशून्येषु षट्पारमिताभावनापरिपूरिर् भवति, दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः कथम् एषां सास्रवाणाम् अनास्रवाणां धर्माणां नानाकरणं प्रज्ञप्तं, कथम् एषान् नानाकरणं प्रज्ञायते, कथं दानपारमिता प्रज्ञापारमितायाम् अन्तर्गता भवति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितायाम् अन्तर्गता भवति, कथं भगवन्न् एवम् अलक्षणेषु धर्मेष्व् एकलक्षणेषु यद् उतालक्षणेषु नानाकरणं प्रभाव्यते.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु च पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंभोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानानि समापद्यते प्रज्ञां भावयति स्वप्नोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति. तत् कस्य हेतोः? न हि स्वप्नं तस्य कश्चित् स्वभावो न हि प्रतिश्रुत्काया न हि प्रतिभासस्य न हि प्रतिबिंबस्य न हि मरीच्या न हि मायायाः, न हि निर्मितकस्य न हि गन्धर्वनगरस्य कश्चित् स्वभावो (psp_6-8:30) यस्य स्वभावो नास्ति तस्य नास्ति लक्षणं, यस्य च नास्ति लक्षणं स एकलक्षणो यद् उतालक्षणः, तद् अनेन सुभूते पर्यायेणैवं वेदितव्यम् अलक्षणं दानम् अलक्षणो दायको ऽलक्षणः प्रतिग्राहको ऽलक्षणाः सर्वधर्माः. एवं ज्ञात्वा दानं ददाति स दानपारमितां परिपूरयति, स दानपारमितां परिपूरयन् शीलपारमितायां न विवर्तते, क्षान्तिपारमितायां न विवर्तते, वीर्यपारमितायां न विवर्तते, ध्यानपारमितायां न विवर्तते, प्रज्ञापारमितायां न विवर्तते, स आसु षट्सु पारमितासु स्थित्वा चत्वारि ध्यानानि परिपूरयति चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः परिपूरयति, चत्वारि स्मृत्युपस्थानानि परिपूरयति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गान्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
