Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 28/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु वीतरागभूमौ प्रतिष्ठापिताः सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे कृताविभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु कृताविभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे प्रत्येकबुद्धभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोतीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु प्रत्येकबुद्धभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिसत्त्वनियामावक्रान्तौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तद् बोधिसत्त्वप्रतिपन्नकस्य पुण्यस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ट्ःअन्तु बोधिसत्त्वनियामावक्रान्तौ प्रतिष्ठापिताः, सचेत् सुभूते ये (psp_5:135) त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिसत्त्वप्रतिपन्नका भवेयुस्, तेषां यत् पुण्यं तत् तथागतस्यार्हतः सम्यक्संबुद्धस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. इत्य् आनन्तर्यसमाधिः

सुभूतिर् आह: प्रथमचित्तोत्पादिकेन भगवन् बोधिसत्त्वेन महासत्त्वेन किं मनसिकर्तव्यम्?

भगवान् आह: प्रथमचित्तोत्पादिकेन सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता मनसिकर्तव्या. इति सर्वाकारज्ञतालक्षणबुद्धत्वम्

सुभूतिर् आह: सर्वाकारज्ञता किं भगवन्न् अभावस्वभावा? सर्वाकारज्ञतायाश् च भगवन् किम् आरम्बणम्? किम् आधिपतेयं? किम् आकारं? किं लक्षणम्?

भगवान् आह: सर्वाकारज्ञता सुभूते अभावस्वभावालक्षणानिमित्तानाभोगानाभासानुत्पादा, यत् पुनः सुभूतिर् एवम् आह, सर्वाकारज्ञतायाः किम् आरम्बणं, किम् आधिपतेयं, किम् आकारं, किं लक्षणम् इति. सर्वाकारज्ञतायाः सुभूते अभाव आरम्बणं, स्मृतिर् अधिपतिः, शान्त आकारो, ऽलक्षणं लक्षणं, सर्वाकारज्ञतायाः सुभूते इदम् आरम्बणम् अयम् अधिपतिर् अयम् आकार इदं लक्षणम्. इति सर्वाकारज्ञतायाम् आलम्बनाधिपत्याकारा इत्य् उक्त आनन्तर्यसमाधिः

किं पुनर् भगवन् सर्वाकारज्ञतैवाभावः? उताहो रूपम् अप्य् अभावः, वेदना संज्ञा संस्कारा, विज्ञानम् अप्य् अभावः? स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वाभावः? एवम् अध्यात्मिका वा बाह्या धर्मा अभावः? चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः शून्यतासमाधिः, अनिमित्तसमाधिः, अप्रणिहितसमाधिः, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः महामैत्री महाकरुणा महामुदिता महोपेक्षा प्रथमा अभिज्ञा द्वितीया अभिज्ञा तृतीया अभिज्ञा चतुर्थ्य् अभिज्ञा पञ्चम्य् अभिज्ञा षष्ठ्य् अभिज्ञा संस्कृतो धातुर् असंस्कृतो धातुर् अभावः? (psp_5:136)

भगवान् आह: सर्वाकारज्ञतापि सुभूते अभावो, रूपं वेदना संज्ञा संस्कारा, विज्ञानम् अपि सुभूते अभावः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादा प्रतीत्यसमुत्पादाङ्गानि वा अभावः, एवम् अध्यात्मिका बाह्याश् च धर्माः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गल्मार्गा अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञाः सर्वपारमिताः, सर्वशून्यता दशबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मा अपि सुभूते अभावः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अभावः, संस्कृतो धातुर् असंस्कृतो धातुर् अभावः. तत् कस्य हेतोः? तथा हि सुभूते तस्याः सर्वाकारज्ञतायाः स्वभावो नास्ति, यस्य खलु पुनः सुभूते स्वभावो नास्ति सो ऽभावः.

सुभूतिर् आह: केन कारणेन भगवन् सर्वाकारज्ञतायाः स्वभावो नास्ति?

भगवान् आह: नास्ति सुभूते सांयोगिकः स्वभावः, यस्य सुभूते सांयोगिकः स्वभावो नास्ति सो ऽभावः. अनेन सुभूते पर्यायेणाभावस्वभावाः सर्वधर्माः. इत्य् आलम्बनोपपत्तौ विप्रतिपत्तिः

अपि तु खलु पुनः सुभूते तथतावितथतानन्यतथताभूतकोटिस्वभावाः सर्वधर्माः, धर्मताधर्मधातुधर्मस्थितिताधर्मनियामतास्वभावाः सर्वधर्माः, अनेनापि सुभूते पर्यायेण एवं वेदितव्यम् अभावस्वभावाः सर्वधर्माः.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः, कतमेनोपायकौशल्येन समन्वागतः प्रथमचित्तोत्पादिको बोधिसत्त्वो मह्हासत्त्वो दानपारमितायां चरति, बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति? शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, प्रथमे ध्याने चरति, द्वितीये ध्याने चरति, तृतीये ध्याने चरति, चतुर्थे ध्याने चरति, मैत्र्यां करुणायां मुदितायाम् उपेक्षायाम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिंचन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ चरत्य्, अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशूउन्यतायां यावद् अभावस्वभावशून्यतायां चरति, स्मृत्युपस्थान सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरति, आर्यसत्येषु शून्यतासमाधाव् अनिमित्तसमाधाव् अप्रणिहितसमाधाव् (psp_5:137) अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु धारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकबुद्धधर्मेषु सर्वाकारज्ञतायां चरति, बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति?

भगवान् आह: एतद् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं वेदितव्यं यद् अभावस्वभावेषु सर्वधर्मेषु परिजयं करोति, बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति, तच् च बुद्धक्षेत्रं तांश् च सत्त्वान् अभावस्वभावान् जानाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् बोधिमार्गे परिजयं करोति, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् बोधिमार्गे परिजयं करोति, अध्यात्मशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन् बोधिमार्गे परिजयं करोत्य्, आर्यसत्येषु चरन् शून्यतानिमित्ताप्रणिहितसमाधौ चरन् मैत्रीकरणामुदितोपेक्षासु चरन् बोधिमार्गे परिजयं करोति, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरन् बोधिमार्गे परिजयं करोति, तं च बोधिमार्गम् अभावस्वभावं जानाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गे परिजयं कुर्वन्, यावद् दशभिस् तथागतबलैः समन्वागतो भवति, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया सर्वाकारज्ञताज्ञानेन च समन्वागतो भवति, इमे सुभूते बोधये मार्गाः, स एभिर् बोधिमार्गैः पारमिताः परिपूरयति, पारमिताः परिपूर्य सर्वन् तद् एकलक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्स्यति, तस्य तत्रावस्थायां सर्ववासनानुसंधिक्लेशाः प्रहास्यन्ते, अनुत्पत्तिकप्रहाणाः. इत्य् आलम्बनस्वभावाधारणविप्रतिपत्तिः

स बुद्धचक्षुषा त्रिसाहस्रमहासाहस्रं लोकधातुं व्यवलोक्य भावम् अपि नोपलभते प्राग् एवाभावम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अभावस्वभावैः सर्वधर्मैर् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं, यद् भाव इति नोपलभ्यते प्राग् एवाभाव इति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् दानं ददाति, स तद् दानम् अभाव इति संजानीते, प्रतिग्राहकम् अप्य् अभाव इति संजानीते, तम् अपि बोधिसत्त्वम् (psp_5:138) अभाव इति संजनीते. एवं शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन्, प्रज्ञापारमितायां चरंस् ताम् अपि प्रज्ञापारमिताम् अभाव इति संजानीते, येषां प्रज्ञा भाव्यते तान् अप्य् अभाव इति संजानीते, यो ऽपि भावयति तम् अप्य् अभाव इति संजानीते. एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्, शून्यतानिमित्ताप्रणिहितेषु चरन्न् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन्, सर्वाकारज्ञतायां चरंस् ताम् अप्य् अभाव इति संजानीते, यो ऽप्य् अभिसंबुध्यते तम् अप्य् अभाव इति संजानीते, येनाप्य् अभिसंबुध्यते तम् अप्य् अभाव इति संजानीते. तत् कस्य हेतोः? यथैव हीयम् अभावस्वभावा तथैव सर्वध्र्मा अभावस्वभावास्, ते च बुद्धैर् अकृताः श्रावकैर् अकारकाः, सर्वधर्माः कारकरहिताः.

सुभूतिर् आह: ननु भगवन् धर्मैर् एव धर्मा विरहिताः?

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, धर्मैर् एव सुभूते धर्मा विरहिताः.

सुभूतिर् आह: यदि भगवन् धर्मैर् एव धर्मा विरहिताः, कथं भगवन् विरहितो धर्मो विरहितं धर्मं संजानीते भावं वा अभावं वा? न हि भावो धर्मो भावं धर्मं संजानीते, न ह्य् अभावो धर्मो ऽभावं धर्मं संजानीते, न हि भावो धर्मो ऽभावं धर्मं संजानीते, न ह्य् अभावो धर्मो भावं धर्मं संजानीते. एवम् असंजानानेषु धर्मेषु कुत एवं भवति? बोधिसत्त्वस्य महासत्त्वस्य भाव इति वाभाव इति वा लोकसंवृतिम् उपादाय बोधिसत्त्वो महासत्त्वो भाव इति वाभाव इति वा निर्दिशति, न पुनः परमार्थेन. इति सर्वाकारज्ञताज्ञाने विप्रतिपत्तिः

सुभूतिर् आह: किं पुनर् भगवन्न् अन्या लोकसंवृतिर् अन्यः परमार्थः? भगवान् आह: न सुभूते ऽन्या लोकसंवृतिर् अन्यः परमार्थः, यैव लोकसंवृतेस् तथता सैव परमार्थस्य तथता, तान् ते सत्त्वा एवंतथतान् न जानन्ति न पश्यन्ति, तेषाम् अर्थाय लोकसंवृत्या निर्दिश्यते भाव इति वाभाव इति वा. अपि तु खलु पुनः सुभूते य एते सत्त्वाः पञ्चभिः स्कन्धैर् भावसंज्ञिनो अभाव इति न जानन्ति, (psp_5:139) अभावसंज्ञिनो भाव इति न जानन्ति, तेषाम् अर्थायैवं निर्दिश्यते धर्माणां प्रभेदताम् उपादाय कथम् अपि भावम् अभावं वा ज्ञास्यन्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्. इति सत्यद्वये विप्रतिपत्तिः

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बोधिसत्त्वचर्या बोधिसत्त्वचर्येति भगवन्न् उच्यते कस्यैतद् अधिवचनम्?

भगवान् आह: बोधिसत्त्वचर्येति सुभूते बोधये चर्यैषा बोधिचारिका तस्माद् बोधिसत्त्वचर्येत्य् उच्यते.

सुभूतिर् आह: क्व सा भगवन् बोधिसत्त्वस्य महासवस्य बोधिसत्त्वचर्या?

भगवान् आह: रूपं शून्यम् इति चरति, वेदना संज्ञा संस्कारा, विज्ञानं शून्यम् इति चरति, एवं स्कन्धधात्वायतनानि शून्यानीति चरति, प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च शून्यानीति चरति, एवम् आध्यात्मिकबाह्यैर् आयतनैर् दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, अध्यात्मशून्यतायां चरति, बहिर्धासून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, यावद् अभावस्वभावशून्यतायां चरति, प्रथमे ध्याने चरति, द्वितीये ध्याने चरति, तृतीये ध्याने चरति, चतुर्थे ध्याने चरति, मैत्रीकरुणामुदितोपेक्षायां चरति, आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिंचन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ चरति, चतुर्षु स्मृत्युपस्थानेषु चरति, चतुर्षु सम्यक्प्रहानेषु चरति, चतुर्ष्व् ऋद्धिपादेषु चरति, पञ्चस्व् इन्द्रियेषु चरति, पञ्चसु बलेषु चरति, सप्तसु बोध्यङ्गेषु चरति, आर्याष्टाङ्गमार्गेषु चरति, शून्यतानिमित्ताप्रणिहितसमाधौ चरत्य्, अष्टसु विमोक्षेषु चरति, नवानुपूर्वविहारसमापत्तिषु चरति, चतुर्ष्व् आर्यसत्येषु चरति, दशसु तथागतबलेषु चरति, चतुर्षु वैशारद्येषु चरति, चतसृषु प्रतिसंवित्सु चरति, अष्टादशस्व् आवेणिकाबुद्धधर्मेषु चरति, पञ्चस्व् अभिज्ञासु चरति, सर्वसमाधिषु चरति, सर्वधारणीमुखेषु चरति, बुद्धक्षेत्रं परिशोधनाय चरति, सत्त्वपरिपाचनाय चरति, प्रतिभानेषु चरति, अक्षराभिनिर्हारः शून्य इति चरति, अक्षरप्रवेशः शून्य इति चरति, अनक्षरप्रवेशः शून्य इति चरति, शूक्ष्मप्रवेशेषु चरति, धारण्यां चरति, संस्कृतधातौ चरति, असंस्कृतधातौ (psp_5:140) चरति, एवम् अत्र चरति यथा बोधिम् अद्वयी करोति न द्वैधी करोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधये चरति. इति प्रयोगे विप्रतिपत्तिः

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बुद्धो बुद्ध इति भगवन्न् उच्यते, कस्यैतद् अधिवचनं बुद्ध इति?

भगवान् आह: भूतार्थो बुद्ध इत्य् उच्यते. अपि तु खलु पुनः सुभूते भूता अस्य धर्मा अभिसंबुद्धास् तस्माद् बुद्ध इत्य् उच्यते, भूतो ऽस्यार्थः प्रतिविद्धस् तस्माद् बुद्ध इत्य् उच्यते. अपि तु खलु पुनः सुभूते सर्वधर्मा यथावदभिसंबुद्धास् तस्माद् बुद्ध इत्य् उच्यते. इति बुद्धरत्ने विप्रतिपत्तिः

सुभूतिर् आह: बोधिर् इति भगवन् कस्यैतद् अधिवचनम्?

भगवान् आह: बोधिर् इति सुभूते शून्यताया एतद् अधिवचनं, तथताया एतद् अधिवचनं, धर्मताया एतद् अधिवचनं, भूतकोटेर् एतद् अधिवचनं, धर्मधातोर् एतद् अधिवचनम्. अपि तु खलु पुनः सुभूते नामधेयमात्रम् एतद् बोधिर् इति. अपि तु खलु पुनः सुभूते अभेदार्थो बोध्यर्थः. अपि तु खलु पुनः सुभूते बोधिस् तथतावितथतानन्यतथतानन्यथीभावस् तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु पुनः सुभूते नामनिमित्तमात्रम् एतद् बोधिर् इति तस्माद् बोधिर् उच्यते. अपि तु खलु पुनः सुभूते बुद्धानाम् एव भगवताम् एषा बोधिस् तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु पुनः सुभूते बुद्धैर् एषा भगवद्भिर् अभिसंबुद्धास् तस्माद् बोधिर् इत्य् उच्यते. इति धर्मरत्ने विप्रतिपत्तिः

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो महासत्त्व इमा यैर् बोधये चरति, स किं षट्सु पारमितासु चरति, सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चरति, सर्वशून्यतार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, शून्यतानिमित्ताप्रणिहितेषु चरत्य्, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, सर्वाकारज्ञतायां चरति, कस्य धर्मस्यागमे वा चरत्य् अपगमे वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय व्यवदानाय वा?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यः सुभूते बोधिसत्त्वो महासत्त्व इमा यैर् बोधये चरति, स न षट्सु पारमितासु चरति, न सप्तत्रिंशत्सु बोधिपक्षेषु धर्मेषु चरति, न सर्वशून्यतार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु (psp_5:141) चरति, न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, न सर्वाकारज्ञतायां चरति, न कस्यचिद् धर्मस्यागमे वा चरत्य् अपगमे वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय व्यवदानाय वा. न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिः प्रज्ञापारमितायां चरत आरम्बणयोगेन प्रत्युपस्थिता आचये वा अपचये वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय वा व्यवदानाय वा प्रत्युपस्थिता.

सुभूतिर् आह: यदि भगवन् बोधिसत्त्वस्य मह्यासत्त्वस्य बोधिर् न कस्यचिद् धर्मस्यारम्बणयोगेन प्रत्युपस्थिता, तत् कथम् इदानीं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिगृह्णाति, शीलपारमितां परिगृह्णाति, क्षान्तिपारमितां परिगृह्णाति, वीर्यपारमितां परिगृह्णाति, ध्यानपारमितां परिगृह्णाति, प्रज्ञापारमितां परिगृह्णाति, अध्यात्मशून्यतायां चरति, यावद् अभावस्वभावशून्यतायां चरति, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरत्य्, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, महाकरुणायां चरति, दशसु बोधिसत्त्वभूमिषु चरति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य द्वयेन बोधिसत्त्वचरिर्, न हि बोधिसत्त्वो महासत्त्वो द्वयेन दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, न द्वयेन प्रज्ञापारमितायां चरति, न द्वयेनाध्यात्मशून्यतायां चरति, बहिर्धाशून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, यावद् अभावस्वभावशून्यतायां चरति, न द्वयेन स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरति, न द्वयेनार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, न द्वयेन शून्यतानिमित्ताप्रणिहितेषु चरति, न द्वयेनाभ्ज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, न द्वयेन सर्वाकारज्ञतायां चरति.

सुभूतिर् आह: यदि भगवन् दानपारमितायां न द्वयेन चरत्य्, एवं शीलक्षान्तिवीर्यध्यानपारमितायां प्रज्ञापारमितायां न द्वयेन चरति, सर्वशून्यता बोधिपक्ष्यधर्मार्यसत्याप्रमाण ध्यानारूप्य विमोक्षसमाधिसमापत्तिधारणिमुखेषु (psp_5:142) न द्वयेन चरति, शून्यतानिमित्ताप्रणिहिताब्भिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न द्वयेन चरति, सर्वाकारज्ञतायां न द्वयेन चरति, तत् कथम् इदानीं बोधिसत्त्वो महासत्त्वः कुशलमूलैर् विवर्धते प्रथमचित्तोत्पादम् उपादाय यावत् पश्चिमकश् चित्तोत्पादः कुशलमूलैर् विवर्धते?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: ये सुभूते द्वयेन चरन्ति न ते विवर्धन्ते कुशलमूलैर् धर्मैः. तत् कस्य हेतोः? द्वये निश्रित्य हि सुभूते सर्वबालपृथग्जनास् ते न विवर्धते कुशलमूलैर् धर्मैर्, बोधिसत्त्वो महासत्त्वः पुनर् अद्वयेन चरति तेन प्रथमचित्तोत्पादम् उपादाय कुशलमूलैर् धर्मैर् विवर्धते, यावत् पश्चिमकश् चित्तोत्पादः कुशलमूलैर् धर्मैर् विवर्धते. तेनानवमर्दनीयो भवति सदेवमानुषासुरेण लोकेन, यैर् अकुशलैर् धर्मैर् अवमर्दितः समानः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वापतेद् इत्य् एभिश् चान्यैश् चाकुशलैर् धर्मैः संह्रियमाणो दानपारमितायां चरन् न कुशलैर् धर्मैर् विवर्धते, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, प्रज्ञापारमितायां चरन् न कुशलैर् धर्मैर् विवर्धते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् न कुशलैर् धर्मैर् विवर्धते, अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरन् न कुशलैर् धर्मैर् विवर्धते, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् न कुशलैर् धर्मैर् विवर्धते, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् न कुशलैर् धर्मैर् विवर्धते, सर्वाकारज्ञतायां चरन् न कुशलैर् धर्मैर् विवर्धते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्. सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः कुशलमूलानां कृतशः प्रज्ञापारमितायां चरति?

भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः कुशलमूलानां कृतशः प्रज्ञापारमितायां चरति, नाप्य् अकुशलमूलानां कृतशः प्रज्ञापारमितायां चरति, नापर्युपास्य बुद्द्धान् भगवतः, नापरिपूर्य कुशलमूलानि, कल्याणमित्रैर् अपरिगृहीतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्तुम्.

सुभूतिर् आह: कथं भगवन् पर्युपास्य बुद्धान् भगवतः कुशलमुलानि (psp_5:143) परिपूर्य कल्याणमित्रपरिगृहीतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय तथागतान् अर्हतः सम्यक्संबुद्धान् पर्युपास्ते, यं च ते बुद्धा भगवन्तो धर्मं भाषन्ते सूत्रं गेयं व्याकरणम् इतिवृत्तकं जातकं संग्रहवैपुल्याद्भुतधर्मावदानोपदेशांस् तान् सर्वान् उद्गृह्णात्य् उद्गृह्य कायेन वाचा सुपरिजितान् कृत्वा मनसा तत्प्रेक्षितान् करोति, दृष्ट्या सुप्रतिविद्धान् करोति, धारणीं प्रतिलभते, धारण्यां प्रतिलब्धायां प्रतिसंविद् उत्पादयति, प्रतिसंविद्भिर् उत्पादिताभिस् तस्य जातिव्यतिवृत्तस्यापि ते धर्मा न जातु विप्रणस्यन्ति यावत् सर्वाकारज्ञताम् अनुप्राप्नोति, तत्र तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कुषलमूलान्य् अवरोपयति, तैश् च कुशलमूलैः परिगृहीतो न जात्व् अपायैर् वाक्षणैर् वोत्पद्यते, तैश् च कुशलैर् आशयपरिशुद्धिं परिगृह्णाति, यया आशयपरिशुद्ध्या बुद्धक्षेत्रं परिशोधयति, सत्त्वांश् च परिपाचयति, तैश् च कुशलमूलैः परिगृहीतः कल्याणमित्रैश् च न जातु विरहितो भवति बुद्धैर् भगवद्भिर् बोधिसत्त्वैर् महासत्त्वैः श्रावकैश् च ये बुद्धयानस्य वर्णं भाषन्ते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धा भगवन्तः पर्युपासितव्याः, कुशलमूलं च परिगृहीतव्यं, कल्याणमित्राणि च सेवितव्यानि.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यः पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नापि बुद्धान् भगवतः पर्युपास्ते, नापि कुशलमूलानि परिपूरयेत्, नापि कल्याणमित्रपरिगृहीतो भवेत्, मा हैव बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नुयात्.

भगवान् आह: न खलु सुभूते बुद्धान् भगवतो ऽपर्युपास्यानवरोपितकुशलमूलः कल्याणमित्रैर् अपरिगृहीतः सर्वाकारज्ञताम् अनुप्राप्नुयात्. तत् कस्य हेतोः? बुद्धान् एव तावद् भगवतः पर्युपास्य कुशलमूलान्य् अवरोप्य कल्याणमित्राणि च सेवित्वा भजित्वा पर्युपास्यैवं कुशलमूलसमन्वागतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्तुम् असमर्थः प्राग् एव बुद्धान् भगवतो ऽपर्युपास्य कुशलमूलान्य् अनवरोप्य कल्याणमित्रैर् अपरिगृहीतः सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति नेदं स्थानं विद्यते, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन (psp_5:144) बुद्धा भगवन्तः पर्युपासितव्याः, कुशलमुलानि चावरोपितव्यानि कल्याणमित्राणि च सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि.

सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वो महासत्त्वो बुद्धांश् च भगवतः पर्युपास्य कुशलमूलानि चावरोप्य कल्याणमित्राणि च सेवित्वा भक्त्वा पर्युपास्य सर्वाकारज्ञताम् अनुप्राप्नुयात्?

भगवान् आह: उपायकौशल्यविरहितत्वात्, ये नोपायेन श्रुतो भवति तेषां बुद्धानां भगवताम् अन्तिकात् सधर्मस् तानि च कुशलमूलानि नावरोपितानि तानि च कल्याणमित्राणि सेवितानि भक्तितानि पर्युपासितानि यान्य् अस्योपायम् उपदिशन्ति तेन विरहितत्वात्. इति संघरत्ने विप्रतिपत्तिः

सुभूतिर् आह: कतमद् भगवन्न् उपायकौशल्यं, येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यो वा, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः समन्वागतो न चास्य दानसंज्ञा भवति, न प्रतिग्राहकसंज्ञा, न दानपतिसंज्ञा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानो दानपारमितायां चरति, दानपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च दानफलम् उपजीवति यद् दानफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया दानपारमितायां चरति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलं रक्षति, तस्य नैव रागे चित्तं पतति न दोषे न मोहे नानुशये न पर्युत्थाने पतति, नान्येष्व् अकुशलेषु धर्मेषु पतति, ये बोधये परिपन्थकास् तद्यथा मात्सर्यचित्तं वा दौःशील्यचित्तं वा क्षुब्धचित्तं वा कौशीद्यचित्तं वा हीनचित्तं वा भ्रान्तचित्तं (psp_5:145) वा दौष्प्रज्ञचित्तं वा मानातिमानो ऽधिमानो ऽस्मिमानः श्रावकप्रत्येकबुद्धचित्तं वा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणाञ् च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानः शीलपारमितायां चरति, स शीलपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च शीलफलम् उपजीवति यच् छीलफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया शीलपारमितायां चरति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तां क्षान्तिं भावयति, स स्वकेष्व् अपि प्राणेषु व्यवरोप्यमानेषु न प्रतिदह्यते, न प्रतिक्रुष्यति न व्यापादोपनाहम् उपनह्यति, स जीविताद् व्यपरोप्यमानो ऽपि सर्वस्वे वापह्रियमाणे दारे वाकृष्यमाणे मृषावाद उच्यमानः पिशुनं परुषं संभिन्नं वोच्यमान आक्रुष्यमाणो वा ताड्यमानो वा च्छिद्यमानो वा न क्षुभ्यति सत्त्वानाम् एव हितम् उत्पादयति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, स धर्माणां च धर्मलक्षणम् अवतरति, अकिञ्चित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते स कुशलैर् धर्मैर् विवर्धमानः क्षान्तिपारमितायां चरति, स क्षान्तिपारमितायां चरन् सर्वसत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च क्षान्तिफलम् उपजीवति यत् क्षान्तिफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया क्षान्तिपारमितायां चरति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्यम् आरभते, दृढसंनाहो दृढपराक्रमो न कौशीद्यं वा अलसचित्तं वोत्पादयति, स बोधेर् अर्थाय दुःखम् अपि न गणपतिदक्षो ऽनलसो ऽपि शक्तिभिर् वार्यमाणो मनुष्यदुष्खम् असुरदुःखं तिर्यग्योनिदुःखं नरकदुष्खम् अपि न गणपतिर् अपि शक्तिभिर् वार्यमाणः. तत् (psp_5:146) कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो वीर्यपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च वीर्यफलम् उपजीवति यद् वीर्यफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया वीर्यपारमितायां चरति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानं समापद्यते, चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही भवति, यथाविकरणम् एवं चक्षुरिन्द्रियेणासंवरसंवृतं विहरन्तम् अभिध्या दौर्मनस्याः पापका अकुशला धर्माश् चित्तम् अनुश्रवेयुः, तेषां संवराय प्रतिपद्यते रक्षति चक्षुरिन्द्रियम् एवं श्रोत्रेण शब्दान् श्रुत्वा, घ्राणेन गन्धान् आघ्राय, जिह्वया रसान् आस्वाद्य, कायेन स्प्रष्टव्यं स्पृष्ट्वा, मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यञ्जनग्राही भवति, यथाविकरणम् एवं मनैन्द्रियेनासंवरसंवृतं विहरन्तम् अभिध्या दौर्मनस्याः पापका अकुशला धर्माश् चित्तम् अनुश्रवेयुः, तेषां संवराय प्रतिपद्यते, रक्षति मनैन्द्रियं, स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो ऽपि शयानो ऽपि भाषमानो ऽपि तूष्णीभूतो ऽपि समाहितावस्थां न जहाति न विजहाति, स भवत्य् अहस्तलोलो ऽपादलोलो ऽमुखरो ऽप्रकीर्णवाग् अविक्षिप्तचक्षुर् अविक्षिप्तेन्द्रियो ऽनुद्धतो ऽचपलो ऽरभसो ऽभ्रान्तकायो ऽभ्रान्तचित्तः, शान्तकायः शान्तवाक् शान्तचित्तो रहस्यरहसि वाविकल्पितेर्यापथो यैः केचिद् अप्य् अन्नपानशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः संतुष्टः सुरभः सुपोष्यः कल्याणाचारगोचरः संगणिकाया अपि विवेकगोचरः लाभे ऽलाभे च स निर्विकारो ऽनुन्नतावनतः सुखे दुष्खे स्तुतौ निन्दायां यशस्ययशसि जीविते च मरणे च समो निर्विकारो ऽनुन्नतावनतः, शत्रौ च मित्रे च साधौ चासाधौ च मनआपवर्तिन्य् अमनआपवर्तिन्य् आर्येषु शब्देस्व् अनार्येषु (psp_5:147) शब्देषु

विविक्तेषु व्यवकीर्णेषु च समो निर्विकारो ऽनुन्नतावनतः प्रियाप्रियेषु रूपेष्व् अनुरोधविरोधापगः. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो ध्यानपारमितायां चरति, स ध्यानपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न ध्यानफलम् उपजीवति यद् ध्यानफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया ध्यानपारमितायां चरति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न दुष्प्रज्ञो भवति न परप्रणेयो ऽहंकारममकारविगतः, आत्मसत्त्व जीवजन्तु पोषपुरुष पुद्गलमनुजमानवकारकवेदकजानकपश्यकविगतश् च भवति सर्वदृष्टिविगतः सर्वशून्यताविगतो निर्विकल्पो निर्विकारः. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानः प्रज्ञापारमितायां चरति, स प्रज्ञापारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च प्रज्ञाफलम् उपजीवति यत् प्रज्ञाफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया प्रज्ञापारमितायां चरति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते, द्वितीयं ध्यानं समापद्यते, तृतीयं ध्यानं समापद्यते, चतुर्थं ध्यानं समापद्यते, चतुरप्रमाणारूप्यसमापत्तीः समापद्यते, प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न च तेषां विपाकं परिगृह्णाति. तत् कस्य हेतोः? तथा हि स तेनोपायकौशल्येन समन्वागतो भवति, येनोपायकौशल्येन समन्वागतस् तानि च ध्यानान्य् अप्रमाणारूप्यसमापत्तीः समापद्यमानः स (psp_5:148) स्वलक्षणशून्यान् धर्मान् जानाति, असद्भुतान् अपरिनिष्पन्नन् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणाञ् च धर्मलक्षणम् अवतरति, अकिंचित्समर्थताञ् च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो ध्यानाप्रमाणारूप्यसमापत्तीश् च समापद्यते.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दर्शनभावनाप्रहातव्ये ऽस्मिन् मार्गे चरति, न स्रोतआपत्तिफलम् अनुप्राप्नोति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् सर्वधर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानः सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु चरति, बोधिपक्ष्येषु धर्मेषु चरन् श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमतीयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुत्पत्तिकैर् धर्मैः क्षान्तिः.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अष्टविमोक्षान् समापद्यते, स नवानुपूर्वविहारसमापत्तीश् चत्वार्य् आर्यसत्यानि भावयति, शून्यतानिमित्ताप्रणिहितानि च समापद्यते, न च स्रोतआपत्तिफलम् अनुप्राप्नोति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, स धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समथतां सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो विमोक्षसमाधिसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहितेषु चरति, स विमोक्षसमाधिसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहितेषु चरन् श्रावकप्रत्येकबुद्धभूमिम् अवक्रामतीयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुत्पत्तिकधर्मव्याकरणक्षान्तिः.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दशसु तथागतबलेषु परिजयं करोति, चतुर्षु वैशारद्येषु (psp_5:149) चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायां च, न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति, यावद् बुद्धक्षेत्रं न परिशोधितं भवति, सर्वसत्त्वाश् च न परिपाचिता भवन्ति. तत् कस्य हेतोः? तथा हि स स्वलक्षणं शून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारं लक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु महामैत्र्यां महाकरुणायां चरन् बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: परमबुद्धिमन्तो भगवन् बोधिसत्त्वा महासत्त्वा भवन्ति, य एवं गम्भीरेषु धर्मेषु चरन्ति, विपाकं च न प्रतिगृह्णन्ति.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, परमबुद्धिमन्तः सुभूते बोधिसत्त्वा महासत्त्वा य एवं गम्भीरेषु धर्मेषु चरन्ति, विपाकं च न प्रतिगृह्णन्ति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वा महासत्त्वाः स्वभावतो न चलन्ति.

सुभूतिर् आह: कस्मात् स्वभावान् न चलन्ति?

भगवान् आह: अभावतो न चलन्ति, यत् पुनर् आयुष्मान् सुबूतिर् एवम् आह कतमस्मात् स्वभावान् न चलन्ति, रूपस्य स्वभावतो न चलन्ति, न वेदनाया न संज्ञाया न संस्काराणां, विज्ञानस्य स्वभावतो न चलन्ति, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्वभावान् न चलन्ति, प्रतीत्य समुत्पादाङ्गस्वभावान् न चलन्ति, दानपारमितायाः स्वभावान् न चलन्ति, शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स्वभावान् न चलन्ति, अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यतायाः स्वभावान् न चलन्ति, अप्रमाणस्वभावाद् ध्यानारूप्यसमापत्तिस्वभावात् स्मृत्युपस्थानस्वभावात् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गस्वभावाद् आर्याष्टाङ्गमार्गस्वभावान् न चलन्ति, शून्यतानिमित्ताप्रणिहितस्वभावान् न चलन्ति, आर्यसत्यस्वभावाद् अभिज्ञास्वभावाद् (psp_5:150) विमोक्षसमाधिसमापत्तिधरणीमुखस्वभावान् न चलन्ति, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मस्वभावान् न चलन्ति महामैत्रीमहाकरुणास्वभावान् न चलन्ति. तत् कस्य हेतोः? तथा हि सुभूते य एष धर्मो निःस्वभावः सो ऽभावः. इत्य् उपायकौशले विप्रतिपत्तिः

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: तत् किं पुनर् भगवन्न् अभावेनाभावः शक्यो ऽभिसंबोद्धुम्?

भगवान् आह: न सुभूते.

सुभूतिर् आह: तत् किं पुनर् भगवन् भावेन भावः शक्यो ऽभिसंबोद्धुम्?

भगवान् आह: न सुभूते.

सुभूतिर् आह: तत् किं भगवन्न् अभावेन भावः शक्यो ऽभिसंबोद्धुम्?

भगवान् आह: न सुभूते.

सुभूतिर् आह: तत् किं भगवन् भावेनाभावः शक्यो ऽभिसंबोद्धुम्?

भगवान् आह: न सुभूते.

सुभूतिर् आह: तन् मा हैव भगवन् न प्राप्तिर् नाभिसमयो भविष्यति? यदि नाभावेनाभावस्याभिसमयो, न भावेन भावस्याभिसमयो, नाभावेन भावस्याभिसमयो, न भावेनाभावस्याभिसमयः.

भगवान् आह: अस्याभिसमयो न पुनर् अनेन चतुःप्रकाराभिनिहारेण.

सुभूतिर् आह: कथम् इदानीं भगवन्न् अभिसमयः?

भगवान् आह: नैवाभावो न भावः, स तादृशो ऽभिसमयो यत्रैते प्रपञ्चा न संविद्यन्ते, अप्रपञ्चो निष्प्रपञ्चाभिसमयः. इत्य् अभिसमये विप्रतिपत्तिः

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्चः?

भगवान् आह: रूपन् नित्यम् अनित्यम् इति वा बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्चः, वेदना संज्ञा संस्कारा, विज्ञानं नित्यम् अनित्यम् इति वा प्रपञ्चः, रूपं सुखं दुःखम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं सुखं दुःखम् इति वा प्रपञ्चः, रूपम् आत्मानात्मेति, वेदना संज्ञा संस्कारा, विज्ञानम् आत्मानात्मेति प्रपञ्चः, रूपं शान्तम् अशान्तम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं शान्तम् अशान्तम् इति वा प्रपञ्चः, रूपं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्चः, वेदना संज्ञा (psp_5:151) संस्कारा, विज्ञानं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्चः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानि च नित्यानित्यसुखदुष्खात्मानात्मशान्ताशान्तपरिज्ञेयापरिज्ञेयम् इति वा प्रपञ्चः. दुष्खम् आर्यसत्यं परिज्ञेयम् इति प्रपञ्चः, समुदयः प्रहातव्य इति प्रपञ्चः, निरोधः साक्षात्कर्तव्य इति प्रपञ्चः, मार्गे भावयितव्य इति प्रपञ्चः, चत्वारि ध्यानानि भावयितव्यानीति प्रपञ्चः, चत्वार्य् अप्रमाणानि भावयितव्यानीति प्रपञ्चः, चतस्र आरूप्यसमापत्तयो भावयितव्या इति प्रपञ्चः, चत्वारि स्मृत्युपस्थानानि भावयितव्यानीति प्रपञ्चः, चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि भावयितव्यानीति प्रपञ्चः, आर्याष्टाङ्गमार्गो भावयितव्य इति प्रपञ्चः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयितव्यानीति प्रपञ्चः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयो भावयितव्या इति प्रपञ्चः, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् अतिक्रमिष्यामीति प्रपञ्चः, प्रत्येकां बोधिम् अतिक्रमिष्यामीति प्रपञ्चः, दशबोधिसत्त्वभूमिः

परिपूरयिष्यामीति प्रपञ्चः, बोधिसत्त्वनियामम् अवक्रमिष्यामीति प्रपञ्चः, बुद्धक्षेत्रं परिशोधयिष्यामीति प्रपञ्चः, सत्त्वान् परिपाचयिष्यामीति प्रपञ्चः, दानपारमितायाञ् चरिष्यामीति प्रपञ्चः, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, प्रज्ञापारमितायां चरिष्यामीति प्रपञ्चः, अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां भावयिष्यामीति प्रपञ्चः, चत्वारि वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् उत्पादयिष्यामीति प्रपञ्चः, सर्वाकारज्ञताम् अनुप्राप्स्यामीति प्रपञ्चः, सर्ववासनानुसंधिक्लेशान् प्रहास्यामीति प्रपञ्चः. तस्माद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं नित्यम् अनित्यम् इत्य् अप्रपञ्चन् न प्रपञ्चयति, सुखं दुःखम् इति, आत्मानात्मेति, शान्तम् अशान्तम् इति, परिज्ञेयम् अपरिज्ञेयम् इत्य् अप्रपञ्चन् न प्रपञ्चयति, वेदना संज्ञा संस्कारा, विज्ञानं नित्यम् अनित्यम् अप्रपञ्चन् न प्रपञ्चयति, सुखं दुःखम् इत्य्, आत्मानात्मेति, शान्तम् अशान्तम् इति, परिज्ञेयम् अपरिज्ञेयम् इत्य् अप्रपञ्चन् न प्रपञ्चयति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि च नित्यम् अनित्यम् इति, सुखं दुःखम् (psp_5:152) इति, आत्मानत्मेति, शान्तम् अशान्तम् इति, परिज्ञेयम् अपरिज्ञेयम् इति वाप्रपञ्चन् न प्रपञ्चयति. एवं सर्वपारमिताः सर्वशून्यता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानित्मित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् सर्वान् अप्रपञ्चान् न प्रपञ्चयति,

स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्त्वप्रत्येकबुद्धबोधिम् अतिक्रमिष्यामित्य् अप्रपञ्चन् न प्रपञ्चयति. सर्वाकारज्ञताम् अतिक्रमिष्यामित्य् अप्रपञ्चन् न प्रपञ्चयति. तत् कस्य हेतोः? न हि स्वभावः स्वभावं प्रपञ्चयति, अभावो वाभावं प्रपञ्चयति, न हि स्वभावो ऽभावं वा स्थापयित्वा अन्यत् किञ्चिद् उपलभते, यं वा प्रपञ्चयेत्, यत्र वा प्रपञ्चयेत्, येन वा प्रपञ्चयेत्. तस्मात् तर्हि सुभूते निष्प्रपञ्चं रूपं, वेदना संज्ञा संस्कारा, निष्प्रपञ्चं विज्ञानं, निष्प्रपञ्चाः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, प्रतीत्यसमुत्पादाङ्गानि च निष्प्रपञ्चानि, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखान्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षानवानुपूर्वविहारसमापत्तयो निष्प्रपञ्चाः, शून्यता निमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो निष्प्रपञ्चाः, अष्टादशावेणिका बुद्धधर्मा निष्प्रपञ्चाः, दशबोधिसत्त्वभूमयो निष्प्रपञ्चाः, अनुत्तरा सम्यक्संबोधिर् निष्प्रपञ्चा. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन निष्प्रपञ्चेन प्रज्ञापारमितायां चरितव्यम्.

सुभूतिर् आह: कथं भगवन् रूपं निष्प्रपञ्चं यावद् विज्ञानं निःप्रपञ्चं पेयालं यावद् बोधिर् निष्प्रपञ्चा?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: नास्ति सुभूते रूपस्य स्वभावो, नास्ति वेदनाया नास्ति संज्ञाया नास्ति संस्काराणां नास्ति विज्ञानस्य स्वभावो, नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां स्वभावो नास्ति पारमितानां स्वभावो नास्ति शून्यतामुखानां स्वभावः. एवं नास्ति बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां स्वभावो नास्ति सर्वाकारज्ञतायाः स्वभावो, यस्य स्वभावं नास्ति सो ऽप्रपञ्चो ऽनेन सुभूते कारणेन निष्प्रपञ्चं रूपं, वेदना संज्ञा संस्काराः, निष्प्रपञ्चं विज्ञानं, निष्प्रपञ्चाः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, (psp_5:153) प्रतीत्यसमुत्पादाङ्गानि च निष्प्रपञ्चानि, सर्वाः पारमिताः सर्वशून्यता बोधिपक्ष्या धर्मा निष्प्रपञ्चाः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो विमोक्षसमाधिसमापत्तिधारणीमुखानि निष्प्रपञ्चानि, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा निष्प्रपञ्चाः, दशबोधिसत्त्वभूमयो निष्प्रपञ्चाः, सर्वाकारज्ञता निष्प्रपञ्चा. एवं खलु सुभूते बोधि सत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वनियामम् अवक्रामति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न कस्यचिद् धर्मस्य स्वभाव उपलभते, तत् कतमेन मार्गेण बोधिसत्त्वो महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति? किं श्रावकमार्गेण वा प्रत्येकबुद्धमार्गेण वा बुद्धमार्गेण वा?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते श्रावकमार्गेण वा बोधिसत्त्वो महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति न प्रत्येकबुद्धमार्गेण वा न बुद्धमार्गेण वा. अपि तु खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गेषु शिक्षित्वा बोधिसत्त्वनियामम् अवक्रामति, तद्यथापि नाम सुभूते अर्हन् सर्वमार्गेषु शिक्षित्वा सम्यक्त्वनियामम् अवक्रामति, न च तावत् फलं प्राप्नोति, यावन् न फलमार्गम् उत्पादयति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् उत्पाद्य बोधिसत्त्वनियामम् अवक्रामति, न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति, यावन् न वज्रोपमः समाधिः प्रतिलब्धो भवति, ततः स एकलक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति. इति विपर्यासे विप्रतिपत्तिः एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य बोधिसत्त्वनियामम् अवक्रामति, ननु भगवन्न् अन्यो ऽष्टमकस्य मार्गः, अन्यः स्रोतआपन्नस्यान्यः सकृदागामितायाः प्रतिपन्नकस्यान्यः सकृदागामिनो ऽन्यो ऽनागामितायाः प्रतिपन्नकस्यान्यो ऽनागामिनो ऽन्यो ऽर्हत्त्वप्रतिपन्नकस्यान्यो ऽर्हतो मार्गः, अन्यः प्रत्येकबुद्धस्यान्यस् तथागतस्यार्हतः सम्यक्संबुद्धस्य मार्गः? यदि भगवन्न् अन्य एव मार्गः, तत् कथं बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य बोधिसत्त्वनियामम् अवक्रामति? (psp_5:154) यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाः परिपुरयितव्याः, मा खलु भगवन् बोधिसत्त्वो महासत्त्वो ऽष्टमकमार्गम् उत्पाद्याष्टमको भविष्यति, दर्शनमार्गम् उत्पाद्य स्रोतआपन्नो भविष्यति, भावनामार्गम् उत्पाद्य

सकृदागामितायै प्रतिपन्नकः सकृदागामी भविष्यत्य्, अनागामितायै प्रतिपन्नको अनागामी भविष्यति, अर्हत्त्वप्रतिपन्नको ऽर्हन् भविष्यति, प्रत्येकबुद्धमार्गम् उत्पाद्य प्रत्येकबुद्धो भविष्यत्य्, अस्थानं भगवन्न् अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमकमार्गम् उत्पाद्याष्टमकः, स्याद् अष्टमको भूत्वा बोधिसत्त्वनियामम् अवक्रामेद् इति, नेदं स्थानं विद्यते, बोधिसत्त्वनियामम् अवक्राम्य सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति, नेदं स्थानं विद्यते, एवं स्रोतआपत्तिफलं प्राप्य सकृदागामिफलं प्राप्यानागामिफलं प्राप्यार्हत्त्वं प्राप्य प्रत्येकां बोधिं प्राप्य बोधिसत्त्वनियामम् अवक्रामेद् इति, नेदं स्थानं विद्यते, बोधिसत्त्वनियामम् अवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति, नेदं स्थानं विद्यते. तत् कथं भगवन् जानीयाम वयं बोधिसत्त्वो महासत्त्वः सर्वमार्गान् उत्पाद्य बोधिसत्त्वनियामम् अवक्रामतिति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अस्थानं सुभूते अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमको भूत्वा स्रोतआपत्तिफलं प्राप्य सकृदागामिफलं प्राप्यानागामिफलं प्राप्यार्हत्त्वं प्राप्य प्रत्येकां बोधिं प्राप्य बोधिसत्त्वनियामम् अवक्रामेद् इति, नेदं स्थानं विद्यते, बोधिसत्त्वनियामम् अवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति, नेदं स्थानं विद्यते.

सुभूतिर् आह: कथं भगवन्न् एतान् मार्गान् प्राप्य बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन्न् अष्टौ भूमीर् ज्ञानेन च दर्शनेन चातिक्रामति. कतमा अष्ट? यद् उत शुक्लविदर्शनाभूमिर् गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिर् वीतरागभूमिः कृतावीभूमिः प्रत्येकबुद्धभूमिर्, अयं भूमिनिर्देशः. स इमा अष्टौ भूमीर् ज्ञानेन दर्शनेन चातिक्रम्य मार्गज्ञतया बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य (psp_5:155) सर्वाकारज्ञताज्ञानेन सर्ववासनानुसंधिक्लेशान् प्रजहाति. तत् कस्य हेतोः? तथा हि सुभूते यद् अष्टमकस्य ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यं स्रोतआपन्नस्य ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यत् सकृदागामिनो ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यद् अनागामिनो ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यद् अर्हतो ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यत् प्रत्येकबुद्धस्य ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् सर्वश्रावकप्रत्येकबुद्धानां परिपूर्य मार्गज्ञतया बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य सर्वाकारज्ञताज्ञानेन च सर्ववासनानुसंधिक्लेशान् प्रजहाति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वमार्गान् परिपूर्यानुत्तरा सम्यक्संबोधिर् अभिसंबोधव्या अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां फलोपभोगेन भवितव्यम्.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: य इमे भगवन् मार्गा आख्याताः श्रावकमार्गः प्रत्येकबुद्धमार्गो बुद्धमार्गः, एषां कतमो ऽयं भगवन् मार्गज्ञतामार्गः?

भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाकारज्ञताविशुद्धिर् उत्पादयितव्या, तत्रेयं सुभूते सर्वधर्मा मार्गाकारज्ञताविशुद्धिः. यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः सर्वमार्गाकारज्ञता विसुद्धिर् भवति, ते आकारास् तानि लिङ्गानि तानि निमित्तानि बोधिसत्त्वेन महासत्त्वेनाभिसंबोद्धव्यानि, अभिसंबुध्य परेषाम् आख्यातव्यानि निर्देशयितव्यानि प्रकाशयितव्यानि प्रज्ञेपयितव्यानि प्रस्थापयितव्यानि, विवरितव्यानि परेभ्यो विनयार्थाय यथा परे जानीयुर् इति. तत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वरुतसंकेतघोषाः समुदानयितव्या उच्चारयितव्याश् च, यै रुतसंकेतघोषैः त्रिसाहस्रे महासाहस्रे लोकधातौ विज्ञापयति यदिदं प्रतिश्रुत्कोपमा ज्ञानेन. तद् अनेन सुभूते पर्यायेण बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाकारज्ञता परिपूरयितव्या, सर्वमार्गाकारज्ञतां परिपूर्य सत्त्वानाम् आशयो ज्ञातव्यः, नैरयिकानां सत्त्वानां नैरयिको मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं ततश् च नैरयिकमार्गान् निवारयितव्याः, हेतुतो निवारयितव्याः, फलतो निवारयितव्याः, तिर्यग्योनिगतानां (psp_5:156) सत्त्वानां तिर्यग्मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यो फलं ज्ञातव्यं ततश् च तिर्यग्मार्गान् निवारयितव्याः, हेतुतो निवारयितव्याः, फलतो निवारयितव्याः. एवं किंनराणां महोरगानां नागानां यक्षाणां राक्षसानां गन्धर्वाणाम् असुराणां गरुडानां गुह्यकानां चारणानां विद्याधराणां सिद्धानां साध्यानां मनुष्याणां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं, चातुर्महाराजकानां देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां मार्गो

ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं, ब्रह्मपारिषद्यानां देवानां ब्रह्मपुरोहितानां महाब्रह्माणो मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यम्, आभास्वराणां परीत्ताभानाम् अप्रमाणाभानां परीत्तशुभानां अप्रमाणशुभानां शुभकृत्स्नानाम् अनुभ्रकानां पुण्यप्रसवानां बृहत्फलानाम् असंज्ञिसत्त्वानां शुद्धावासानाम् अस्पृहाणाम् अतपानां सुदृशानां सुदर्शनानां अकनिष्ठानां देवानां, आकाशानन्त्यायतनानां देवानां विज्ञानानन्त्यायतनानाम् आकिंचन्यायतनानां नैवसंज्ञानासंज्ञायतनानां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यम्. चत्वारि स्मृत्युपस्थानानि भावयितव्यानि, चत्वारि सम्यक्प्रहाणानि ज्ञातव्यानि, चत्वार ऋद्धिपादाः ज्ञातव्याः, पञ्चेन्द्रियाणि ज्ञातव्यानि, पञ्चबलानि ज्ञातव्यानि, सप्तबोध्यङ्गानि ज्ञातव्यानि, आर्याष्टाङ्गमार्गो ज्ञातव्यः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि ज्ञातव्यानि, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ज्ञातव्याः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयो ज्ञातव्याः, सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि ज्ञातव्यानि, पञ्चाभिज्ञा ज्ञातव्याः, दशबोधिसत्त्वभूमयो ज्ञातव्याः, दशतथागतबलानि ज्ञातव्यानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा ज्ञातव्याः, महामैत्री महाकरुणा ज्ञातव्या. यैश् च मार्गैर् ये सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितव्याः तान् स्रोतआपत्तिफले प्रतिष्ठापयति, ये सकृदागामिफले प्रतिष्ठापयितव्याः तान् सकृदागामिफले प्रतिष्ठापयति, ये अनागामिफले प्रतिष्ठापयितव्याः तान् अनागामिफले प्रतिष्ठापयति, ये ऽर्हत्त्वे प्रतिष्ठापयितव्यास् तान् अर्हत्त्वे प्रतिष्ठापयति, ये

प्रत्येकायां बोधौ प्रतिष्ठापयितव्या तान् प्रत्येकायां बोधौ प्रतिष्ठापयति, ये ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्यास् तान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, इयं सुभूते सर्वमार्गाकारज्ञता (psp_5:157) बोधिसत्त्वस्य महासत्त्वस्य यत्र बोधिसत्त्वो महासत्त्वः शिक्षित्वा सत्त्वानाम् आशयम् अवतरति, सत्त्वानाम् आशयम् अवतीर्य तथा धर्मं देशयति यथास्य सा धर्मदेशनामोघाक्षणा भवति. तत् कस्य हेतोः? तथा ह्य् अस्य पुरुषेन्द्रिये परापरज्ञानं सुविभक्तं सुविज्ञातं च भवति, सत्त्वानां गतिं च्युतिम् उपपत्तिं च प्रजानाति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्, अत्र हि प्रज्ञापारमितायां चरितव्यं सर्वधर्मा अन्तर्गता, ये केचिद् बोधिपक्ष्या धर्मा, यत्र बोधिसत्त्वैर् महासत्त्वैश् चरितव्यं श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा चरितव्यम्.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् ये बोधिपक्ष्या धर्मा यावद् या बोधिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ताः, अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः, तत् कथं भगवन् बोधिपक्ष्या धर्मा बोधेर् आहारिका भवन्ति? एवं भगवन् न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा धर्मा न कस्यचिद् धर्मस्याहारिका वापहारिका वा, तद्यथापि नाम भगवन्न् आकाशन् न कस्यचिद् धर्मस्याहारकं वापहारकं वा. एवम् एव भगवन् स्वलक्षणशून्या धर्मा न कस्यचिद् धर्मस्याहारका वापहारका वा.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न सुभूते स्वलक्षणशून्या धर्माः कस्यचिद् धर्मस्याहारका वापहारका वा, ये वा सुभूते सत्त्वाः स्वलक्षणशून्यान् धर्मान् न जानन्ति, तेषाम् अर्थायैवं निर्दिश्यते, इमे बोधिपक्ष्या धर्मा बोधेर् आहारका भवन्ति. इति मार्गे विप्रतिपत्तिः

अपि तु खलु सुभूते यञ् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं ये च स्कन्धा ये च धातवो यानि चायतनानि यश् च प्रतीत्यसमुत्पादो यानि च प्रतीत्यसमुत्पादाङ्गानि या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभाव शून्यता यच् च प्रथमं ध्यानं यच् च द्वितीयं ध्यानं यच् च तृतीयं ध्यानं यच् च चतुर्थं ध्यानं, यच् चाकाशानन्त्यायतनं यच् च विज्ञानानन्त्यायतनं यच् चाकिंचन्यायतनं यच् च नैवसंज्ञाना संज्ञायतनं या च महामैत्री या च महाकरुणा या च महामुदिता या च (psp_5:158) महोपेक्षा ये च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा या च शून्यता यच् चानिमित्तं यच् चाप्रणिहितं ये चाष्टविमोक्षा याश् च नवानुपूर्वविहारसमापत्तयो यानि चार्यसात्यानि याश् चाभिज्ञा ये च समाधयो यानि च धारणीमुखानि याश् च दशबोधिसत्त्वभूमयो यानि च दशतथागतबलानि यानि च चत्वारि वैशारद्यानि याश् च चतस्रः प्रतिसंविदो ये चाष्टादशावेणिका बुद्धधर्मा या च महाकरुणा या च यावत् सर्वाकारज्ञता, आर्ये ऽस्मिन् धर्मविनये सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. ते च खलु पुनः सुभूते तथागतेन सत्त्वानाम् अवतारणार्थाय लोकव्यवहारेण व्यवकृतास् ते धर्मा प्रज्ञापयितव्याः, न पुनः परमार्थेन. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वत्र शिक्षितव्यं ज्ञानेन च दर्शनेन च शिक्षित्वा केचिद् धर्माः प्रतिबोधव्याः केचिन् न प्रतिबोधव्याः

सुभूतिर् आह: कतमे धर्मा बोधिसत्त्वेन महासत्त्वेन ज्ञानेन च दर्शनेन च शिक्षित्वा न प्रतिबोधव्याः? कतमे धर्माः प्रतिबोधव्याः?

भगवान् आह: श्रावकभूमिः प्रत्येकबुद्धभूमिश् च शिक्षित्वा ज्ञानेन च दर्शनेन च न प्रतिबोधव्या, सर्वाकारज्ञता ज्ञानेन च दर्शनेन च प्रतिबोधव्या, सर्वाकारज्ञताज्ञानेन सर्वाकारैः सर्वधर्माश् च प्रतिबोधव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन आर्ये ऽस्मिन् धर्मविनये प्रज्ञापारमितायां शिक्षितव्यम्.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आर्यो धर्मविनयो ऽनार्यो धर्मविनय इति भगवन्न् उच्यते, कतमो भगवन्न् आर्यो धर्मविनयः? कतमो भगवन्न् अनार्यो धर्मविनयः? कियता भगवन्न् आर्यो धर्मविनयः? कियता भगवन्न् अनार्यो धर्मविनय इत्य् उच्यते?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वाश् च महासत्त्वाश् च तथागता अर्हन्तः सम्यक्संबुद्धा रागेन न संयुक्ता न विसंयुक्ता, दोषेण न संयुक्ता न विसंयुक्ता, मोहेन न संयुक्ता न विसंयुक्ता, सत्कायदृष्ट्या न संयुक्ता न विसंयुक्ता, विचिकित्सया न संयुक्ता न विसंयुक्ताः, शीलव्रतपरामर्शेन न संयुक्ता न विसंयुक्ताः, कामरागव्यापादैर् न संयुक्ता न विसंयुक्ता, रूपरागारूप्यरागैर् न संयुक्ता न विसंयुक्ता, अविद्यया न संयुक्ता न विसंयुक्ता, मानेन न संयुक्ता न विसंयुक्ता, (psp_5:159) औद्धत्येन न संयुक्ता न विसंयुक्ताः, प्रथमेन ध्यानेन न संयुक्ता न विसंयुक्ता, द्वितीयेन ध्यानेन तृतीयेन ध्यानेन, चतुर्थेन ध्यानेन न संयुक्ता न विसंयुक्ता, मैत्र्या करुणया मुदितयोपेक्षया न संयुक्ता न विसंयुक्ताः, आकाशानन्त्यायतनेन विज्ञानानन्त्यायतनेनाकिंचन्यायतनेन नैवसंज्ञानासंज्ञायतनेन न संयुक्ता न विसंयुक्ताः, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेण न संयुक्ता न विसंयुक्ता, आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैर् न संयुक्ता न विसंयुक्ताः, अष्टविमोक्षैर् नवानुपूर्वविहारसमापत्तिभिः पञ्चभिर् अभिज्ञाभिर् न संयुक्ता न विसंयुक्ताः, समाधिभिधारणीमुखैर् न संयुक्ता न विसंयुक्ताः, दानपारमितया न संयुक्ता न विसंयुक्ताः, शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया, प्रज्ञापारमितया न संयुक्ता न विसंयुक्ताः, अध्यात्मशून्यतया न संयुक्ता न विसंयुक्ता, बहिर्धाशून्यतया न संयुक्ता न विसंयुक्ता, अध्यात्मबहिर्धाशून्यतया न संयुक्ता न

विसंयुक्ता, यावद् अभावस्वभावशून्यतया न संयुक्ता न विसंयुक्ताः, दशभिस् तथागतबलैर् न संयुक्ता न विसंयुक्ताः, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशाभिर् आवेणिकैर् बुद्धधर्मैर् न संयुक्ता न विसंयुक्ताः, संस्कृतधाताव् असंस्कृतधातौ न संयुक्ता न विसंयुक्ताः. तत् कस्य हेतोः? तथा हि सर्वधर्मा अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः, ते अरूपिणो ऽरूपिभिः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अनिदर्शना निदर्शनैः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अप्रतिघा अप्रतिघैः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अलक्षणा अलक्षणैः सार्धं न संयुक्ता वा न विसंयुक्ता वा. इति विपक्षप्रतिपक्षयोर् विप्रतिपत्तिः

इमा सुभूते ऽरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा पारमिता बोधिसत्त्वानां महासत्त्वानां यत्र बोधिसत्त्वैर् महासत्त्वैः शिक्षितव्यं, यत्र शिक्षित्वा न कस्यचिद् धर्मस्य लक्षणम् उपलभ्यते.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न पुनर् भगवन् रूपलक्षणे शिक्षितव्यं न वेदनालक्षणे न संज्ञालक्षणे न संस्कारलक्षणे न विज्ञानलक्षणे शिक्षितव्यं, न चक्षुःश्रोत्रघ्राणजिह्वाकायमनोलक्षणे शिक्षितव्यं, न रूपशब्दगन्धरसस्प्रष्टव्यधर्मलक्षणे शिक्षितव्यं, न पृथिवीधातुलक्षणे शिक्षितव्यं, नाब्धातुलक्षणे न तेजोधातुलक्षणे न वायुधातुलक्षणे नाकाशधातुलक्षणे (psp_5:160) न विज्ञानधातुलक्षणे शिक्षितव्यं, न दानपरमितालक्षणे शिक्षितव्यं, न शीलपारमितालक्षणे न क्षान्तिपारमितालक्षणे न वीर्यपारमितालक्षणे न ध्यानपारमितालक्षणे न प्रज्ञापारमितालक्षणे शिक्षितव्यं, नाध्यात्मशून्यतालक्षणे न बहिर्धाशून्यतालक्षणे नाध्यात्मबहिर्धाशून्यतालक्षणे न यावद् अभावस्वभावशून्यतालक्षणे शिक्षितव्यं, न प्रथमध्यानलक्षणे शिक्षितव्यं, न द्वितीयध्यानलक्षणे न तृतीयध्यानलक्षणे न चतुर्थध्यानलक्षणे शिक्षितव्यं, न महामैत्रीलक्षणे न महाकरुणालक्षणे न मुदितालक्षणे नोपेक्षालक्षणे शिक्षितव्यं, नाकाशानन्त्यायतनलक्षणे न विज्ञानानन्त्यायतनलक्षणे नाकिंचन्यायतनलक्षणे नैवसंज्ञानासंज्ञायतनलक्षणे शिक्षितव्यं, न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गलक्षणे शिक्षितयं, न शून्यतानिमित्ताप्रणिहितलक्षणे शिक्षितव्यं, नार्यसत्यलक्षणे शिक्षितव्यं, नाष्टविमोक्षलक्षणे शिक्षितव्यं, न नवानुपूर्वविहारसमापत्तिलक्षणे शिक्षितव्यं, नाभिज्ञालक्षणे शिक्षितव्यं, न समाधिलक्षणे शिक्षितव्यं, न धारणीमुखलक्षणे शिक्षितव्यं, न दशतथागतबललक्षणे शिक्षितव्यं, न चतुर्वैशारद्यलक्षणे शिक्षितव्यं, न चतुःप्रतिसंविल्लक्षणे शिक्षितव्यं, न यावद् अष्टादशावेणिकबुद्धधर्मलक्षणे शिक्षितव्यं, न दुःखार्यसत्यलक्षणे शिक्षितव्यं, न समुदयार्यसत्यलक्षणे शिक्षितव्यं, न निरोधार्यसत्यलक्षणे शिक्षितव्यं, न मार्गार्यसत्यलक्षणे शिक्षितव्यं, नार्ये ऽस्मिन् धर्मविनये लक्षणे शिक्षितव्यं, नानुलोमप्रतिलोमप्रतीत्यसमुत्पादलक्षणे शिक्षितव्यं, न संस्कृतधातुलक्षणे शिक्षितव्यं, नासंस्कृतधातुलक्षणे शिक्षितव्यम्.

सुभूतिर् आह: यदि भगवन्न् एतेषां धर्माणां लक्षणे न शिक्षितव्यं, कथं भगवन् न शिक्षित्वा बोधिसत्त्वो महासत्त्वो धर्माणां धर्मलक्षणे श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमिष्यति? श्रावकप्रत्येकबुद्द्धभूमिम् अनतिक्रम्य कथं बोधिसत्त्वनियामम् अवक्रमिष्यति? बोधिसत्त्वनियामम् अनवक्रम्य कथं सर्वाकारज्ञताम् अनुप्राप्स्यति? सर्वाकारज्ञताम् अननुप्राप्य कथं धर्मचक्रं प्रवर्तयिष्यति? धर्मचक्रम् अप्रवर्त्य कथं सत्त्वान् संसारात् परिमोचयिष्यति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा? (psp_5:161)

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते कस्यचिद् धर्मस्य लक्षणं स्यात्, तदा बोधिसत्त्वेन महासत्त्वेन लक्षणे शिक्षितव्यं स्याद्, यस्मात् तर्हि सर्वधर्मा अलक्षणा अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणास् तस्मात् तद् बोधिसत्त्वेन महासत्त्वेन नापि लक्षणे शिक्षितव्यम्. तत् कस्य हेतोः? यदि पूर्वं लक्षणम् अभविष्यत् पश्चाद् अलक्षणं न भवेद्, यस्मात् तर्हि सुभूते पूर्वम् एव ते सर्वधर्मा अलक्षणास् तस्मात् तर्ह्य् अप्य् अलक्षणास्, तस्माद् बोधिसत्त्वेन महासत्त्वेन नापि लक्षणे शिक्षितव्यं, नाप्य् अलक्षणे शिक्षितव्यम्. तत् कस्य हेतोः? उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थित एवैष लक्षणधातुः. इति लक्षणे विप्रतिपत्तिः

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अलक्षणाः सर्वधर्मा न विलक्षणाः, एकलक्षणा यद् उतालक्षणास्, तत् कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भवति? न हि भगवन्न् अविभाव्य प्रज्ञापारमितां बोधिसत्त्वेन महासत्त्वेन शक्या श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा अतिक्रमितुम्, अनतिक्रम्य श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा न शक्यो बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वनियामम् अवक्रमितुं, बोधिसत्त्वनियामम् अनवक्रम्य न शक्यानुत्पत्तिकैर् धर्मैः क्षान्तिर् उत्पादयितुम्, अनुत्पत्तिकैर् धर्मैः क्षान्तिम् अनुत्पाद्य न शक्या बोधिसत्त्वाभिज्ञा उत्पादयितुं, बोधिसत्त्वाभिज्ञानुत्पाद्य न शक्यं बुद्धक्षेत्रं परिशोधयितुं, बुद्धक्षेत्रम् अपरिशोध्य न शक्याः सत्त्वान् परिपाचायितुं, सत्त्वान् अपरिपाच्य न शक्या सर्वाकारज्ञताम् अनुप्राप्तुं, सर्वाकारज्ञताम् अननुप्राप्य न शक्यं धर्मचक्रं प्रवर्तयितुं, धर्मचक्रम् अप्रवर्त्य न शक्याः सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितुं, न सकृदागामिफले नानागामिफले नार्हत्त्वे प्रतिष्ठापयितुं, न प्रत्येकबोधौ प्रतिष्ठापयितुं, नानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुं, नापि शक्याः सत्त्वा दानमये पुण्यक्रियावस्तूनि प्रतिष्ठापयितुं, न शीलमये पुण्यक्रियावस्तूनि प्रतिष्ठापयितुं, न भावनामये पुण्यक्रियावस्तूनि प्रतिष्ठापयितुम्. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अलक्षणाः सुभूते सर्वधर्मा न विलक्षणाः. (psp_5:162)

सुभूतिर् आह: कथम् अलक्षणस्य धर्मस्य प्रज्ञापारमिताभवना भवति?

भगवान् आह: न सुभूते प्रज्ञापारमिताभावना बोधिसत्त्वस्य महासात्त्वस्यैकलक्षणा अनेकलक्षणा, अलक्षणा भावना बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भवति.

सुभूतिर् आह: कथं भगवन्न् अलक्षणा भावना प्रज्ञापारमिताभावना भवति?

भगवान् आह: सर्वधर्मभावनाविभावना प्रज्ञापारमिताभावना भवति.

सुभूतिर् आह: कथं भगवन् सर्वधर्मभावनाविभावना प्रज्ञापारमिताभावना भवति?

भगवान् आह: रूपभावनाविभावना प्रज्ञापारमिताभावना, वेदना संज्ञा संस्कारा, विज्ञानभावनाविभावना प्रज्ञापारमिताभावना, चक्षुर्भावनाविभावना प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोभावनाविभावना प्रज्ञापारमिताभावना, रूपभावनाविभावना प्रज्ञापारमिताभावना, एवं शब्दगन्धरसस्प्रष्टव्यधर्मभावनाविभावना प्रज्ञापारमिताभावना, चक्षुर्विज्ञानभावनाविभावना प्रज्ञापारमिताभावना, चक्षुःसंस्पर्शभावनाविभावना प्रज्ञापारमिताभावना, चक्षुःसंस्पर्शप्रत्ययवेदनाभावनाविभावना प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानभावनाविभावना प्रज्ञापारमिताभावना, मनःसंस्पर्शभावनाविभावना प्रज्ञापारमिताभावना, मनःसंस्पर्शप्रत्ययवेदनाभावनाविभावना प्रज्ञापारमिताभावना, पृथिवीधातुभावनाविभावना प्रज्ञापारमिताभावना, अब्धातुभावनाविभावना प्रज्ञापारमिताभावना तेजोधातुभावनाविभावना प्रज्ञापारमिताभावना, वायुधातुभावनाविभावना प्रज्ञापारमिताभावना, आकाशधातुभावनाविभावना प्रज्ञापारमिताभावना, विज्ञानधातुभावनाविभावना प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादभावनाविभावना प्रज्ञापारमिताभावना, अविद्याभावनाविभावना प्रज्ञापारमिताभावना, संस्कारभावनाविभावना, विज्ञानभावनाविभावना, नामरूपभावनाविभावना, षडायतनभावना विभावना, स्पर्शभावना विभावना, वेदनाभावना विभावना, तृष्णाभावनाविभावना, उपादानभावनाविभावना, भवभावनाविभावना, जातिभावनाविभावना, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासभावनाविभावना प्रज्ञापारमिताभावना,

आयूहनिर्यूहभावनाविभावना प्रज्ञापारमिताभावना, प्रथमध्यानभवनाविभावना (psp_5:163) प्रज्ञापारमिताभावना, द्वितीयध्यानभावनाविभावना तृतीयध्यानभावनाविभावना चतुर्थध्यानभावनाविभावना प्रज्ञापारमिताभावना, मैत्रीभावनाविभावना प्रज्ञापारमिताभावना, करुणाभावनाविभावना प्रज्ञापारमिताभावना, मुदिताभावनाविभावना प्रज्ञापारमिताभावना, उपेक्षाभावनाविभावना प्रज्ञापारमिताभावना, आकाशानन्त्यायतनभावनाविभावना प्रज्ञापारमिताभावना, विज्ञानानन्त्यायतनभावनाविभावना प्रज्ञापारमिताभावना, आकिंचन्यायतनभावनाविभावना प्रज्ञापारमिताभावना, नैवसंज्ञानासंज्ञायतनभावनाविभावना प्रज्ञापारमिताभावना, बुद्धानुस्मृतिभावनाविभावना प्रज्ञापारमिताभावना, धर्मानुस्मृतिभावनाविभावना, संघानुस्मृतिभावनाविभावना, शीलानुस्मृतिभावनाविभावना, त्यागानुस्मृतिभावनाविभावना, देवानुस्मृतिभावनाविभावना प्रज्ञापारमिताभावना, उपायानुस्मृतिभावनाविभावना, अनुपायानुस्मृतिभावनाविभावना प्रज्ञापारमिताभावना, अनित्यसंज्ञाभावनाविभावना दुष्खसंज्ञाभावनाविभावना, अनात्मसंज्ञाभावनाविभावना, आत्मसंज्ञाभावनाविभावना, सत्त्वसंज्ञाभावनाविभावना, जीवसंज्ञाभावनाविभावना, जन्तुसंज्ञाभावनाविभावना, पोषसंज्ञाभावनाविभावना, पुरुषसंज्ञाभावनाविभावना, पुद्गलसंज्ञाभावनाविभावना, मनुजसंज्ञाभावनाविभावना, मानवसंज्ञाभावनाविभावना, कारकसंज्ञाभावनाविभावना, वेदकसंज्ञाभावनाविभावना, जानकसंज्ञाभावनाविभावना, पश्यकसंज्ञाभावनाविभावना प्रज्ञापारमिताभावना, नित्यानित्यसंज्ञाभावनाविभावना

प्रज्ञापारमिताभावना, शुभाशुभसंज्ञाभावनाविभावना, दुःखादुःखसंज्ञाभावनाविभावना शान्ताशान्तसंज्ञाभावनाविभावना प्रज्ञापारमिताभावना, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गभावनाविभावना प्रज्ञापारमिताभावना, शून्यतानिमित्ताप्रणिहितभावनाविभावना प्रज्ञापारमिताभावना, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिभावनाविभावना प्रज्ञापारमिताभावना, सवितर्कसविचारसमाध्यवितर्काविचारसमाधिभावनाविभावना प्रज्ञापारमिताभावना, दुष्खार्यसत्यभावनाविभावना प्रज्ञापारमिताभावना, समुदयार्यसत्यभावनाविभावना, निरोधार्यसत्यभावनाविभावना, मार्गार्यसत्यभावनाविभावना प्रज्ञापारमिताभावना, दुष्खार्यसत्यज्ञानभावनाविभावना प्रज्ञापारमिताभावना, समुदयार्यसत्यज्ञानभावनाविभावना, निरोधार्यसत्यज्ञानभावनाविभावना, मार्गार्यसत्यज्ञानभावनाविभावना, क्षयज्ञानभावनाविभावना, अनुत्पादज्ञानभावनाविभावना, (psp_5:164) धर्मज्ञानभावनाविभावना, अन्वयज्ञानभावनाविभवना, आत्मज्ञानभावनाविभावना, संवृतिज्ञानभावनाविभावना, परिजयज्ञानभावनाविभावना, यथारुतज्ञानभावनाविभावना प्रज्ञापारमिताभावना, दानपारमिताभावनाविभावना प्रज्ञापारमिताभावना, शीलपारमिताभावनाविभावना प्रज्ञापारमिताभावना, क्षान्तिपारमिताभावनाविभावना प्रज्ञापारमिताभावना, वीर्यपारमिताभावनाविभावना प्रज्ञापारमिताभावना, ध्यानपारमिताभावनाविभावना प्रज्ञापारमिताभावना, प्रज्ञापारमिताभावनाविभावना प्रज्ञापारमिताभावना, अध्यात्मशून्यताभावनाविभावना प्रज्ञापारमिताभावना,

बहिर्धाशून्यताभावनाविभावना प्रज्ञापारमिताभावना, अध्यात्मबहिर्धाशून्यताभावनाविभावना प्रज्ञापारमिताभावना, यावद् अभावस्वभावशून्यताभावनाविभावना प्रज्ञापारमिताभावना, अभिज्ञाभावनाविभावना प्रज्ञापारमिताभावना, दशतथागतबलभावनाविभावना प्रज्ञापारमिताभावना, चतुर्णां वैशारद्यानां भावनाविभावना, चतसृणां प्रतिसंविदां भावनाविभावना, अष्टादशावेणिकबुद्धधर्माणां भावनाविभावना प्रज्ञापारमिताभावना, समाधिधारणीमुखानां भावनाविभावना प्रज्ञापारमिताभावना, महाकरुणाभावनाविभावना प्रज्ञापारमिताभावना, स्रोतआपत्तिफलभावनाविभावना प्रज्ञापारमिताभावना, सकृदागामिफलभावनाविभावना प्रज्ञापारमिताभावना, अनागामिफलभावनाविभावना प्रज्ञापारमिताभावना, अर्हत्त्वफलभावनाविभावना प्रज्ञापारमिताभावना, प्रत्येकबोधिभावनाविभावना प्रज्ञापारमिताभावना, सर्वाकारज्ञताभावनाविभावना प्रज्ञापारमिताभावना, सर्ववासनानुसंधिक्लेशप्रहाणभावनाविभावना प्रज्ञापारमिताभावना.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् रूपभावनाविभावना प्रज्ञापारमिताभावना? वेदना संज्ञा संस्काराः, कथं विज्ञानभावनाविभावना प्रज्ञापारमिताभावना? एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा महाकरुणा सर्वाकारज्ञता, आत्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकः नित्यानित्यसुखदुष्खशान्ताशान्तशुभाशुभः, स्रोतआपत्तिफलं (psp_5:165) सकृदागामिफलम् अनागामिफलम् अर्हत्त्वफलं प्रत्येकबोधिर् यावत् कथं भगवन् सर्ववासनानुसंधिक्लेशप्रहाणभावनाविभावना प्रज्ञापारमिताभावना?

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.