Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/12

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1

Thông tin
GRETIL — Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता 00101 नमो भगवद्यै आर्यप्रज्ञापारमितायै//

00102 निर्विकल्पे नमस् तुभ्यं प्रज्ञापारमिते ऽमिते/ 00103 या त्वं सर्वान् अवद्याङ्गि निरवद्यैर् निरीक्ष्यसे//

00104 आकाशम् इव निर्लेपां निष्प्रपञ्चां निरक्षराम्//

00105 यस् त्वां पश्यति भावेन स पश्यति तथागतम्//

00106 तव चार्यगुणाद्याया बुद्धस्य च जगद्गुरोः/ 00107 न पश्यन्त्य् अन्तरं सन्तश् चन्द्रचन्द्रिकयोर् इव//

00108 कृपात्मकाः प्रपद्य त्वां बुद्धधर्मपुरःसराम्/ 00109 सुखेनायान्ति माहात्माम् अतुलं भक्तिवत्सले//

00110 सकृद् अप्य् आशये शुद्धे यस् त्वां विधिवद् ईक्षते/ 00111 तेनापि नियतं सिद्धिः प्राप्यते ऽमोघदर्शने//

00201 सर्वेषाम् अपि वीराणां परार्थे नियतात्मनाम्/ 00202 पोषिका जनयित्री च माता त्वम् असि वत्सला//

00203 यद् बुद्धा लोकगुरवः पुत्रास् तव कृपालवः/ 00204 तेन त्वम् असि कल्याणि सर्वसत्त्वपितामही//

00205 सर्वपारमिताभिस् त्वं निर्मलाभिर् अनिन्दिते/ 00206 चन्द्रलेखेव ताराभिर् अनुयातासि सर्वदा//

00207 विनेयं जनमासाद्य तत्र तत्र तथागथैः/ 00208 बहुरूपा त्वम् एवैका नानानामभिर् ईड्यसे//

00209 प्रभां प्राप्येव दीप्तांशोर् अवश्यायोदबिन्दवः/ 00210 त्वां प्राप्य प्रलयं यान्ति दोषा वादाश् च वादिनाम्//

00211 त्वम् एव त्रासजननी बालानां भीमदर्शना/ 00212 आश्वासजननी चासि विदुषां सौम्यदर्शना//

00213 यस्य त्वय्य् अप्य् अभिष्वङ्गस् त्वन्नाथस्य न विद्यते/ 00214 तस्यांब कथम् अन्यत्र रागद्वेषौ भविष्यतः//

00215 नागच्छसि कुतश् चित्तं न च क्वचन गच्छसि/ 00216 स्थानेष्व् अपि च सर्वेषु विद्वद्भिर् नोपलभ्यसे//

00217 ये त्वाम् एवं न पश्यन्ति प्रपद्यन्ते च भावतः/ 00218 प्रपद्य च विमुच्यन्ते तद् इदं महद् अद्भुतम्//

00301 त्वाम् एव बध्यते पश्यन्न् अपश्यन्न् अपि बध्यते/ 00302 त्वाम् एव मुच्यते पश्यन्न् अपश्यन्न् अपि मुच्यते//

00303 अहो विस्मयनीयासि गम्भीरासि यशस्विनी/ 00304 सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे//

00305 बुद्धैः प्रयेकबुद्धैश् च श्रावकैश् च निषेविता/ 00306 मार्गस् त्वम् एको मोक्षस्य नास्त्य् अन्य इति निश्चयः//

00307 व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थं शरीरिणाम्/ 00308 कृपया लोकनाथैस् त्वम् उच्यसे च न चोच्यसे//

00309 शक्तः कस् त्वाम् इह स्तोतुं निर्निमित्तां निरञ्जनाम्/ 00310 सर्ववाग्विसयातीता या त्वं क्वचिद् अनिःश्रिता//

00311 सत्य् एवम् अपि संवृत्या वाक्पथैर् वयम् ईदृशैः/ 00312 त्वाम् अस्तुत्याम् अपि स्तुत्वा तुष्टूषन्तः सुनिर्वृताअः/ 00313 प्रज्ञापारमितां स्तुत्वा यन् मयोपचितं शुभम्/ 00314 तेनास् त्व् आशु जगत् कृत्स्नं प्रज्ञापारपरायणम्//

00401 एवं मया श्रुतम्/ एकस्मिन् समये भगवान् राजगृहे विहरति स्म 00402 गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं पञ्चमात्रैर् भिक्षुसहस्रैः सर्वैर् अर्हद्भिः 00403 क्षीणास्रवैर् निष्क्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयै- 00404 र् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्रस्वकार्थैः परिक्षीण- 00405 भवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैः, 00406 पञ्चमात्रैर् भिक्षुणीशतैर् उपासकैर् उपासिकाभिश् च सार्धं सर्वैर् दृष्टधर्मैर् अपरि- 00407 माणैर्श् च बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं सर्वैर् धारणीप्रतिलब्धैः 00408 शून्यताविहारिभिर् अनिमित्तगोचरैः प्रणिधानाकल्पितैः क्षान्तिसमताप्रति- 00409 लब्धैर् असङ्गधारणीप्रतिलब्धैर् अच्युताभिज्ञैर् आदेयवचनैर् अकुहकैर् अलपकैर् अरपगत- 00410 ज्ञात्रलाभचित्तैर् निरामिषधर्मदेशकैर् गंभीरधर्मक्षान्तिपारंगतैर् वैशारद्य- 00411 प्राप्तैर् मारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैर् धर्मप्रविचयविभक्ति- 00412 निर्देशकुशलैर् असंख्येयकल्पप्रणिधानसुसमारब्धैः स्मितमुखैः पूर्वालापिभि- 00413 र् विगतभृकुटीमुखैर् गाथाभिर् गीतालपनकुशलैर् अपगतलीनचित्तैर् अनाच्छेद्यप्रति- 00414 भानैर् अनन्तपर्षदभिभवनवैशारद्यसमन्वागैर् अनन्तकल्पकोटीनिःसरणकुशलै- 00415 र् मायामरीचिदकचन्द्रस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बनिर्माणोपमधर्मा-

00501 धिमुक्तैः सत्त्वगतिचरितसूक्ष्मनानाधिमुक्त्यवतारकुशलैर् अप्रतिहतचित्तै- 00502 र् अधिमात्रक्सान्तिसमन्वागतैर् याथात्मावतारणकुशलैः सर्वबुद्धक्षेत्रआनन्तव्यूह- 00503 प्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुबुद्धानुस्मृतिसमाहित- 00504 सततसमिताभिमुखीभूतैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्ट्यनुशयपर्यव- 00505 स्थानक्लेशप्रशमनकुशलैः समाधिविक्रीडितशतसहस्रनिर्हारकुशलैः तद् यथा 00506 भद्रपालेन च बोधिसत्त्वेन महासत्त्वेन रत्नाकरेण च सार्थवाहेन च नर- 00507 दत्तेन च वरुणदत्तेन च शुभगुप्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेष- 00508 मतिना च वर्धमानमतिना च अमोघदर्शिना च सुसम्प्रस्थितेन च सुवि- 00509 क्रान्तविक्रमिणा च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च सूर्यगर्भेण च 00510 अनुपमचिन्तिना च अवलोकितेश्वरेण च महास्थामप्राप्तेन च मञ्जु- 00511 श्रिया च वज्रमतिना च रत्नमुद्राहस्तेन च नित्योक्षिप्तहस्तेन च मैत्रे- 00512 येण च बोधिसत्त्वेन महासत्त्वेन एवम् प्रमुखैर् अनेकैर् बोधिसत्त्वकोटीनियुत- 00513 शतसहस्रैः सार्धम्/ 00514 अथ खलु भगवान् स्वयम् एव सिंहासनं प्रज्ञप्य न्यषीदत् पर्यङ्कं बद्ध्वा 00515 ऋजुकायं प्रणिधाय अभिमुखीं स्मृतिम् उपस्थाप्य समाधिराजं नाम 00516 समाधिं समापद्यते स्म यत्र सर्वसमाधयो ऽन्तर्गमान् संग्रहं समव- 00517 सरणं गच्छन्ति/ 00518 अथ खलु भगवान् स्मृतिमान् सम्प्रजानंस् तस्मात् समाधेर् व्युत्थाय

00601 दिव्येन चक्षुषा सर्वलोकधातुं व्यवलोक्य सर्वकायात् स्मितम् अकरोत्/ 00602 तस्याधस्तात् पादतलयोः सहस्राराभ्यां चक्राभ्यां षष्टिषष्टीरश्मिकोटी- 00603 नियुतशतसहस्राणि निश्चेरुः दशभ्यः पादाङ्गुलिभ्यः षष्टिषष्टीरश्मिकोटी- 00604 नियुतशतसहस्राणि निश्चेरुः/ एवं षष्टिषष्टिगुल्फाभ्यां षष्टिषष्टिर् जंघाभ्यां 00605 षष्टिषष्टिर् जानुमण्डलाभ्याम् एवं द्वाभ्याम् ऊरुभ्यां कटिनाभिमण्डलाभ्यां द्वाभ्यां 00606 पार्श्वाभ्यां हृदयश्रीवत्सात् महापुरुषलक्षणात्/ एवं षष्टिषष्टिर् दशभ्यो 00607 हस्ताङ्गुलिभ्यः षष्टिषष्टिर् द्वाभ्यां बाहुभ्यां षष्टिषष्टिर् द्वाभ्याम् अंशाभ्याम् एवं ग्रीवा- 00608 याश् चत्वारिंशद्भ्यो दन्तेभ्यो द्वाभ्यां घ्राणाभ्यां द्वाभ्यां श्रोत्राभ्यां द्वाभ्यां 00609 चक्षुर्भ्यां मध्यादूर्णाया उपरिष्टाद् उष्णीषात् षष्टिषष्टी रश्मिकोटीनियुत- 00610 शतसहस्राणि निश्चेरुः यै रश्मिभिर् अयं त्रिसाहस्रमहासाहस्रो लोकधाउर् अ- 00611 वभासितो ऽभूत् परिस्फुटः/ पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोक- 00612 धातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्/ एवं दक्षि- 00613 णस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां 00614 पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातव- 00615 स् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्/ ये च सत्त्वास् तेन 00616 महता रश्म्यवभासेन स्फुटा अवभासितास् ते सर्वे नियता अभूवन् अनु- 00617 त्तरायां सम्यक्सम्बोधौ/

00701 अथ खलु भगवान् पुनर् एव सर्वरोमकूपेभ्यः स्मितम् अकरोत्/ एवकिकतश् च 00702 रोमकूपात् षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः/ यैर् अयं 00703 त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितः स्फुटो ऽभूत्/ तैश् च पूर्वस्यां 00704 दिशि गङ्गानदीवालुकोपमाः सर्वलोकधातवो ऽवभासेनावभासिताः स्फुटा- 00705 श् चाभूवन्/ एवं दक्षिणस्यां {{दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्/ ये च सत्त्वास् तेन महता रश्म्यवभासेन स्फुटा अवभासितास् ते सर्वे नियता अभूवन् अनुत्तरायां}} सम्यक्- 00706 सम्बोधौ/ 00707 अथ खलु भगवान् पुनर् एव या सा बुद्धानां भगवतां प्रकृतिप्रभा तया 00708 प्रभया त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासयामास/ यावत् सर्वासु 00709 दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवयस् ता 00710 प्रभया अवभासिता अभूवन्/ ये च सत्त्वास् तया प्रभया स्पृष्टास् ते सर्वे 00711 नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ//

00712 अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्णामयामास/ येनेमं 00713 त्रिसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास/ त्रिसाहस्र- 00714 महासाहस्रं लोकधातुं जिह्वेन्द्रियेण स्फुरित्वा तस्माज् जिह्वेन्द्रियात् स्मित- 00715 म् अकरोत्/ यतो ऽनेकानि रश्मिकोटीनियुतशतसहस्राणि निश्चेरुः/ 00716 रश्मिमुखे चैकैकस्मिन्न् उत्तमरत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि 00717 पद्मान्य् उत्पन्नान्य् अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहा निषणाः संस्थिता- 00718 श् चाभूवन् धर्मं देशयन्तो यद् उत इमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्म- 00719 देशनाम्/ ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमव्यतिवृत्तासंख्येषु लोक- 00720 धातुषु गत्वा सत्त्वानां धर्मं देशयन्ति स्म/ एवं दक्षिणस्यां पश्चिमाया-

00801 म् उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु/ एवकिकस्यां च दिशि दशसु दिक्षु गङ्गा- 00802 नदीवालुकोपमेषु अपरिमाणेषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति 00803 स्म यद् उत इमाम् एव च षट्पारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ ये च सत्त्वा- 00804 स् तां धर्मदेशनां शृण्वन्ति ते नियता भवन्त्य् अनुत्तरायां सम्यक्सम्बोधौ/ 00805 अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषणः सिंहविक्रीडितं 00806 नाम समाधिं समापेदे/ तथारुपं चर्द्ध्यभिसंस्कारम् अभिसंस्करोति स्म 00807 यथारूपेणर्द्ध्यभिसंस्कारेणाभिसंस्कृतेनायं त्रिसाहस्रमहासाहस्रो लोक- 00808 धातुः षड्विकारम् अकम्पत प्राकम्पत संप्राकम्पत/ अचलत् प्राचलत् 00809 संप्राचलत्/ अवेधत् प्रावेधत् संप्रावेधत्/ अरणत् प्रारणत् 00810 संप्रारणत्/ अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्/ अगर्जत् प्रागर्जत् 00811 संप्रागर्जत्/ अन्ते उन्नमति मध्ये अवनमति, मध्ये उन्नमति अन्ते 00812 अवनमति/ मृदुकः स्निग्धः सर्वसत्त्वमुखजननो ऽभूत्/ 00813 अथ खलु तेन क्षणलवमुह्वर्तेन ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोक- 00814 धातौ निरया वा तिर्यग्योनयो वा यमलोका वा ते सर्वे समुच्छिन्नाः 00815 शून्या अभूवन्/ सर्वाक्षणाश् चास्तमिता अभूवन्/ ये च सत्त्वास् ताभ्यो 00816 निरयतिर्यग्योनियमलोकगतिभ्यश् च्यूतास् ते सर्वए तेनैव प्रीतिप्रामोद्येन 00817 मनुष्याणां सभागतायाम् उपपन्नाश् चाभूवन्/ एवं चातुर्महाराअजिकानां 00818 देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मित- 00819 वशवर्तिनां देवानां सभागतायाम् उपपन्नाश् चाभूवन्/

00901 अथ खलु ते मनुष्यास् ते च देवा भगवत एवानुभावेन पूर्वजन्मान्य् अनु- 00902 स्मरन्ति स्म/ अनुस्मृत्य च तेनैव प्रीतिप्रामोद्येन येन भगवांस् तेनोप- 00903 संक्रान्ताः/ उपसंक्रम्य भगवतः पादौ शिरोभिर् अभिवन्द्य भगवन्तं 00904 प्राञ्जलयो भूत्वा नमस्यन्ति स्म/ एवं पूर्वस्य्ं दिशि गङ्गानदीवालुकोप- 00905 मेषु लोकधातुषु दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधः समन्ता- 00906 द् दशसु दिक्ष्वैकस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वे 00907 निरयाः सर्वास् तिर्यग्योनयः सर्वे यमलोकाः समुच्छिन्नाः शून्या अभूवन्/ 00908 सर्वाक्षणाश् चास्तमिता अभूवन्/ ये च सत्त्वास् ताभ्यो निरयतिर्यग्योनि- 00909 यमलोकगतिभ्यश् च्युतास् ते सर्वे देवमनुष्येषूपपद्यन्ते स्म/ ते च देवम् अनु- 00910 ष्येषूपपन्ना भगवत एवानुभावेन पूर्वनिवासम् अनुस्मरन्ति स्म/ अनुस्मृत्य च 00911 तेनैव प्रीतिप्रामोद्येन स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र बुद्धा भगवन्त उत्पन्ना- 00912 स् तेषाम् अन्तिकम् उपसंक्रान्ताः/ उपसंक्रम्य तेषां बुद्धानां भगवतां पाद- 00913 वन्दनां कृत्वा सर्वे प्राञ्जलयो भूत्वा भगवतो नमस्यन्ति स्म/ 00914 अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ जात्यन्धाः 00915 सत्त्वास् ते चक्षुषा रूपाणि पश्यन्ति स्म/ वधिराः सत्त्वाः श्रोत्रेण शब्दान् 00916 शृण्वन्ति स्म/ उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म/ विक्षिप्तचित्ता 00917 एकाग्रचित्ता भवन्ति स्म/ जिघत्सिताः पूर्णपात्रा भवन्ति स्म/ 00918 तृषिता विगतपिपासा भवन्ति स्म/ रोगस्पृष्टा विअगतरोगा भवन्ति 00919 स्म/ हीनेन्द्रियाः परिपूर्णेन्द्रिया भवन्ति स्म/ अविरहिताकुशल- 00920 कायवाङ्मनस्कर्मान्ताजीवाविरहिताकुशलकायवाङ्मनस्कर्मान्ताजीवाश् च

01001 भवन्ति स्म/ सर्वसत्त्वाश् च मातापितृसमचित्ता भवन्ति स्म, भ्रातृभगिनी- 01002 समचित्ता मित्रामात्यज्ञातिसालोहितसमचित्ता दशकुशलकर्मपथ- 01003 सेविनश् च भवन्ति स्म/ ब्रह्मचारिणः शुचयो निरामयगन्धाः सर्वसत्त्वाश् च 01004 सर्वसुखसमर्पिता ईदृशं सुखं प्रत्लभन्ते स्म तद् यथापि नाम तृतीयध्यान- 01005 समापन्नस्य भिक्षोः तस्मिन्न् एव च समये एवंरूपया प्रज्ञया ते समन्वागता 01006 भवन्ति स्म/ यद् अन्यबुद्धक्षेत्रस्था बुद्धा भगवन्त एवम् उदानयन्ति स्म 01007 साधु दमः साधु संयमः साधु वीर्णो ब्रह्मचर्य्यावासः साधु प्राणिभूते- 01008 ष्व् अविहिंसेति/ 01009 अथ खलु भगवांस् तस्मिन्न् एव संहासने निषनः इमं त्रिसाहस्रमहा- 01010 साहस्रं लोकधातुम् अभिभूय तथागतस् तिष्ठति भासते तपति विरोचते स्म 01011 आभया वर्णेन श्रिया तेजसा च/ पूर्वस्यां दिशि दक्षिणस्यां पश्चिमाया- 01012 म् उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय 01013 तथागतस् तिष्ठति भासते/ तद् यथापि नाम सुमेरुः पर्वतराजः सर्वपर्वता- 01014 न् अभिभूय तिष्ठति भासते {{तपति विरोचते स्म आभया वर्णेन श्रिया}} तेजसा च/ 01015 एवम् एव भगवान् सर्वलोकधातून् अभिभूय तिष्ठति भासते {{तपति विरोचते स्म आभया वर्णेन श्रिया}} 01016 तेजसा च/ एवम् एव भगवान् सर्वलोकधातून् अभिभूय 01017 तिष्ठति भासते {{तपति विरोचते स्म आभया वर्णेन श्रिया}} तेजसा च/ 01018 अथ खलु भगवान् पुनर् एव यादृक् त्रिसाहस्रमहासाहस्रलोकधातौ 01019 सत्त्वानाम् आत्मभावस् तत्समानम् आत्मभावं प्राकृतम् उपदर्शयामास/ अथ खलु 01020 ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रलोकधातौ शुद्धावासकायिका देवाः शुभ-

01101 कृत्वा आभास्वरा ब्रह्मकायिका देवाः परनिर्मितवशवर्तिनश् च निर्माण- 01102 रतयश् च तुषिताश् च यामाश् च त्रयस्त्रिंशाश् च चातुर्महाराजकायिकाश् च देवास् ते 01103 तं तथागस्यासेचनकम् आत्मभावं दृष्ट्वा दिव्याः पुष्पधूपगन्धमाल्यविले- 01104 पनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीर् गृहीत्वा दिव्यानि उत्पलकुमुद- 01105 सौगन्धिकपुण्डरीकपद्मानि गृहीत्वा दिव्यानि च केशरतमालपत्राणि 01106 गृहीत्वा येन तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः/ ये चेह 01107 त्रिसाहस्रमहासाहस्रलोकधातौ मनुष्यास् ते ऽपि तं तथागतस्यासेचनक- 01108 म् आत्मभावं दृष्ट्वा स्थलजलजानि पुष्पाणि गृहीत्वा येन तथागतस्या- 01109 सेचनक आत्मभावस् तेनोपसंक्रान्ताः/ 01110 अथ खलु ते देवास् ते च मानुषास् ताभिर् दिव्याभिः पुष्पधूपगन्ध- 01111 माल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिस् तैश् च स्थलजलजैः 01112 पुष्पैस् तथागतकायम् अवकिरन्ति स्म अभ्यवकिरन्ति स्म/ 01113 अथ खलु यैस् तैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वज- 01114 पताकावैजयन्तीवर्षैः स्थलजलजैश् च पुष्पैर् भगवान् अवकीर्णस् तानि च सर्वाणि 01115 उपर्य् अन्तरीक्षे भगवतो ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाण- 01116 म् एकं कूटागारं संस्थितम् अभूत्/ ततश् च कूटागारात् तानि दिव्यानि 01117 पुष्पपट्टदामानि लम्बन्ते प्रलम्बन्ते स्म/ तैश् च पुष्पदामभिः पट्टदामभि- 01118 श् चायं त्रिसाहस्रमहासाहस्रो लोकधातुर् अतीवाशोभत/ तेन च सुवर्ण- 01119 वर्णेन भगवतः प्रभावभासेन दशसु दिक्षु प्रसृतेन एकैकस्यां दिशि गङ्गा-

01201 नदीवालुकोपमा लोकधातवः स्फुटावभासिताश् चाभूवन्/ अस्मिंश् च 01202 त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वेषु चातुर्द्वीपकेषु लोकधातुषु तेषां 01203 देवमनुष्याणाञ् च एकैकस्यैतद् अभूत्/ मम पुरतस् तथागतो निषणो 01204 धर्म्मं देशयतीति/ 01205 अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषणः पुनर् एव स्मितम् अकरोत्/ 01206 येन स्मितावभासेनायं त्रिसाहस्रमहासाहस्रलोकधातुः स्फुटो ऽभूत्/ 01207 यावद् दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवः स्फुटा अभूवन्/ ये 01208 च त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वास् ते सर्वे पूर्वस्यां दिशि गङ्गा- 01209 नदीवालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान् 01210 तस्याञ् च पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास् ते 01211 सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिं च तथागतं सार्धं 01212 भिक्षुसंघेन/ एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां 01213 दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वं दिग्भागं गङ्गानदीवालु- 01214 कोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्/ तेषु 01215 च गङानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे इमां सहालोक- 01216 धातुं पश्यन्ति स्म शाक्यमुनिञ् च तथागतं सार्धं भिकुसंघेन/ 01217 अथ खलु पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य 01218 तेभ्यो यः सर्वावसानिको लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम 01219 तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव 01220 प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति/ अथ तत्र लोकधातौ 01221 समन्तरश्मिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च 01222 महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् 01223 रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः 01224 पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः

01301 प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवी- 01302 चालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते 01303 रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद् अवोचत्/ अस्ति कुलपुत्र 01304 इतः पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा 01305 नाम लोकधतुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति 01306 ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्र- 01307 काशयति तस्यायाम् ईदृशो ऽनुभावः/ 01308 अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ 01309 गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्श- 01310 नाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन 01311 कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधि- 01312 वशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं 01313 कालं मन्यसे/ 01314 अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि 01315 सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं 01316 कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो 01317 भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां 01318 बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्ना- 01319 करेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत 01320 इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतो- 01321 र् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/

01401 अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् 01402 तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि 01403 अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिका- 01404 भिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु 01405 लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्प- 01406 धूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा 01407 लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ 01408 उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते 01409 स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्ना- 01410 करो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां 01411 यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता 01412 रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि 01413 पद्मानि प्रेषितानि भगवतः/ 01414 अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा 01415 येन ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन प्राक्षिपत्/ 01416 तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहा- 01417 निषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापार- 01418 मिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता 01419 अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ 01420 अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारका- 01421 स् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन 01422 महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं 01423 सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्/

01501 अथ खलु दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुः 01502 सर्वशोकापगतो नाम तत्राशोकश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ 01503 तत्र लोकधातौ विगतशोको नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति

01504 कुलपुत्र इत उत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः

पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ

01505 खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ 01506 तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01507 अथ खलु पश्चिमायां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वासानिको लोकधातुर् उपशान्ता 01508 नाम तत्र रत्नार्चिर् नाम तह्तागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र लोकधातौ

01509 चारित्रमतिर् नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र इतः पूर्वस्यां

01510 दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु

गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ खलु भगवान्

01511 शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते पश्चिमायां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} 01512 न्यषीदन्/ 01513 अथ खलु उत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वासानिको लोकधातुर् जया 01514 नाम तत्र जयेन्द्रो नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र लोक-

01515 धातौ जयदत्तो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र इतो

01516 दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि

तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ खलु भगवान्

01601 शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते उत्तरस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} 01602 न्यषीदन्/ 01603 अथ खलु उत्तरपूर्वस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुः समा- 01604 ध्यलङ्कृता नाम तत्र समाधिहस्त्युत्तरश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/

01605 अथ तत्र लोकधातौ विजयविक्रामी नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/

01606 अस्ति कुलपुत्र इतो दक्षिणपश्चिमायां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः

पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}}

01607 भगवतः/ अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते उत्तरपूर्वस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} 01608 प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01609 अथ खलु पूर्वदक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुर् बोधि- 01610 मण्डलाकारसुरुचिरा नाम तत्र पद्मोत्तरश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/

01611 अथ तत्र लोकधातौ पद्महस्तो नाम तत्र बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति

01612 कुलपुत्र इतः पश्चिमोत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः

पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/

01613 अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते पूर्वदक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ 01614 तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01615 अथ खलु दक्षिणपश्चिमायां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातु- 01616 र् विगतरजःसञ्चया नाम तत्र सूर्यमण्डलप्रभासोत्तमश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}}

01617 देशयति/ अथ तत्र लोकधातौ सूर्यप्रभासो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/

01618 अस्ति कुलपुत्र इत उत्तरपूर्वस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः

पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}}

01619 भगवतः/ अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते दक्षिणपश्चिमायां 01620 दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01621 अथ खलु पश्चिमोत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुर् वशी- 01622 भुता नाम तत्रैकच्छत्त्रो नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र

01623 लोकधातौ रत्नोत्तमो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र

01701 इतः पूर्वदक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः

पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/

01702 अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते पश्चिमोत्तरस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} 01703 प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01704 अथ खल्व् अधस्ताद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सवावसानिको लोकधातुः पद्मा नाम तत्र 01705 पद्मश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र लोकधातौ पद्मोत्तरो नाम

01706 बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र इत उपरिष्टाद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम

01707 लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन्

गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ कह्लु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते अधस् ता-

01708 द् दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01709 अथ खलु उपरिष्टाद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुर् नन्दा नाम 01710 तत्र नन्दश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र लोकधातौ नन्द-

01711 दत्तो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र इतो ऽधस्ताद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}}

01712 सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः

सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}}

01713 येन ते उपरिष्टाद् दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01714 अथ खलु तेन क्षणलवमुर्ह्वर्तेन अयं त्रिसाहस्रमहासाहस्रो लोक- 01715 धातुः सप्तरत्नमयः संस्थितो ऽभूत् पुष्पाभिकीर्नः/ अवसक्तपट्टदामकलापः 01716 कल्पवृक्षैर् नानालङ्कारफलावनताग्रविटपैः पुष्पवृक्षैः फलवृक्षैर् गन्धवृक्षै- 01717 र् माल्यवृक्षैश् चोपशोभितो ऽभूत्/ तद् यथापि नाम पद्मावती लोकधातुः 01718 समन्तकुसुमस्य तथागतस्य बुद्धक्षेत्रं यत्र मञ्जुश्रीः कुमारभूतः प्रतिवसति 01719 सुस्थितमतिश् च बोधिसत्त्वः अन्ये च महौजस्का बोधिसत्त्वाः/ भगवां- 01720 श् चाद्राक्षीत् सदेवलोकं सन्निपतितं समारकं सब्रह्मकं सश्रमणब्राह्मणिकां 01721 प्रजां सन्निपतितांस् तांश् च बोधिसत्त्वान् कुमारभूतान्// [इति निदानम्]//

01722 तत्र खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयामास/ सर्वाकारं

01801 शारिप्तुर सर्वधर्मानभिसम्बोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापार- 01802 मितायां योगः करणीयः// [इति समासतः सम्बोधिकामनासहगत- 01803 श् चित्तोत्पादः//] 01804 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अचोवत्/ कथं भगवन् 01805 बोधिसत्त्वेन महासत्त्वेन सर्वाकारं सर्वधर्मानभिसम्बोद्धुकामेन प्रज्ञा- 01806 पारमितायां योगः करणीयः/ 01807 एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एवद् अवोचत्/ इह शारिपुत्र 01808 बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा ऽस्थानयोगेन दान- 01809 पारमिता परिपूरयितव्या अपरित्यागयोगेन देयदायकप्रतिग्राहकानुप- 01810 लब्धिताम् उपादाय/ शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्या- 01811 पत्तिताम् उपादाय/ क्षान्तिपारमिता परिपूरयितव्या अक्षोभणताम् उपादाय/ 01812 वीर्यपारमिता परिपूरयितव्या कायिकचैतसिकवीर्यास्रंसनताम् उपा- 01813 दाय/ ध्यानपारमिता परिपूरयितव्या अनास्वादनताम् उपादाय/ 01814 प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिताम् उपदाय//

01815 [इति व्यासतः सम्बोधिकामनासहगतश् चित्तोत्पादः//] 01816 पुनर् अपरं शारिपुत्र दशदिक्षु प्रत्येकं गङ्गानदीवालुकोपमेषु लोक- 01817 धातुषु ये सत्त्वास् तान् सर्वान् अनुपधिशेषनिर्वाणधातौ परिनिर्वापयितु- 01818 कामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्// [इति 01819 समासतः परार्थालम्बनश् चित्तोत्पादः//] 01820 एवं मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन दुःशीलान् 01821 शीले व्यापादबहुलान् क्षान्तौ कुशीदान् वीर्ये विक्षिप्तचित्तान् ध्याने

01901 दुष्प्रज्ञान् प्रज्ञासम्पदि प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन 01902 प्रज्ञापारमितायां शिक्षितव्यम्// [इति व्यासतः परार्थालम्बनश् चित्तो- 01903 त्पादः//] 01904 पुनर् अपरं शारिपुत्र सर्वाकारं सर्वधर्मान् अभिसम्बोद्धुकामेन बोधिसत्त्वेन 01905 महासत्त्वेन प्रज्ञापारमिताय्ं स्थातव्यम्// [इति च्छन्दसहगतः पृथिव्यु- 01906 पमः//] 01907 एवम् इह शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा- 01908 ऽस्थानयोगेन दानपारमिता परिपूरयितव्या देयदायकप्रतिग्राहकानुप- 01909 लब्धिताम् उपादाय/ एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता 01910 ध्यानपारमिता प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिता- 01911 म् उपादाय// [इत्य् आशयसहगतः कल्याणसुवर्णोपमः//] 01912 एवं प्रज्ञापारमितायां शारिपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन 01913 चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि चत्वारि सम्यक्प्रहाणानि 01914 चत्वारि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्या- 01915 ष्टाङ्गमार्गः परिपूरयितव्यः/ शून्यतासमाधिर् भावयितव्यः/ अनिमित्त- 01916 समाधिर् भावयितव्यः/ अप्रणिहितसमाधिर् भावयितव्यः/ एवं चत्वारि 01917 ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः अष्टौ विमोक्षाः 01918 नवानुपूर्वविहारसमापत्तयः नवाशुभाः संज्ञा भावयितव्याः/ कतमा 01919 नव/ यद् उत आध्मातकसंज्ञा विधूतकसंज्ञा विपूयकसंज्ञा विलो-

02001 हितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा विदग्धक- 02002 संज्ञा अस्थिसंज्ञा/ आहारे प्रतिकूलसंज्ञा भावयितव्या/ बुद्धानुस्मृति- 02003 र् भावयितव्या/ संघानुस्मृतिर् भावयितव्या/ शीलानुस्मृतिर् {भावयितव्या}/ त्यागानु- 02004 स्मृतिर् {भावयितव्या}/ देवतानुस्मृतिर् {भावयितव्या}/ आनापानानुस्मृतिर् {भावयितव्या}/ उद्वेगानु- 02005 स्मृतिर् {भावयितव्या}/ मरणानुस्मृतिर् {भावयितव्या}/ अनित्यसंज्ञा {भावयितव्या}/ दुःखसंज्ञा {भावयितव्या}/ 02006 अनात्मसंज्ञा {भावयितव्या}/ अशुचिसंज्ञा {भावयितव्या}/ मरणसंज्ञा {भावयितव्या}/ सर्वलोके 02007 अनभिरतिसंज्ञा {भावयितव्या}/ सर्वलोके अविश्वाससंज्ञा {भावयितव्या}/ परिजयसंज्ञा- 02008 नम् भावयितव्यम्/ संवृतिसंज्ञानम् भावयितव्यम्/ यथारुतसंज्ञान- 02009 म् भावयितव्यम्/ सवितर्कः सविचारः समाधिर् भावयितव्यः/ अवितर्को- 02010 ऽविचारमात्रः समाधिर् भावयितव्यः/ अवितर्को ऽविचारः समाधिर् भाव- 02011 यितव्यः/ अनाज्ञातम् आज्ञास्यामीन्द्रियम् भावयितव्यम्/ आज्ञेन्द्रियम् भावयि- 02012 तव्यम्/ आज्ञातावीन्द्रियम् भावयितव्यम्/ अभिभ्वायतनम् भावयितव्यम्/ 02013 कृत्स्नायतनम् भावयितव्यम्/ सर्वज्ञज्ञानम् भावयितव्यम्/ शमथविप- 02014 श्यने भावयितव्ये तिस्रो विद्या भावयितव्याः/ चतस्रः प्रतिसंविदो 02015 भावयितव्याः/ चत्वारि चैशारद्यानि भावयितव्यानि/ अच्युताः

02101 पञ्चाभिज्ञा भावयितव्याः/ षट् पारमिता भावयितव्याः/ सप्त धनानि 02102 भावयितव्यानि/ अष्टौ महापुरुषवितर्का भावयितव्याः/ दश तथा- 02103 गतबलानि भावयितव्यानि/ अष्टादशावेणिका बुद्धधर्मा भावयितव्याः/ 02104 महामैत्री {भावयितव्या}/ महाकरुणा {भावयितव्या}/ महामुदिता {भावयितव्या}/ महोपेक्षा 02105 {भावयितव्या}// [इत्य् अध्याशयसहगतो नवचन्द्रोपमः//] 02106 सर्वज्ञतां ज्ञानेन दर्शनेन चावलोक्यातिक्रमितुकामेन बोधिसत्त्वेन 02107 महासत्त्वेन प्रज्ञापारमिता भावयितव्या/ मार्गज्ञतां परिपूरयितुकामेन 02108 सर्वाकारज्ञताम् अनुप्राप्तुकामेन सर्वसत्त्वचित्तचरितज्ञानाकारतां परि- 02109 पूरयितुकामेन सर्ववासनानुसन्धिक्लेशानुत्पाटयितुकामेन बोधिसत्त्वेन 02110 महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः/ एवं बोधिसत्त्वेन महा- 02111 सत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ बोधिसत्त्वन्यामभवक्रमितुकामेन 02112 श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमितुकामेन अविनिवर्तनीयभूमौ स्थातुकामेन 02113 कुमारभूमिं समतिक्रमितुकामेन षडभिज्ञाः प्राप्तुकामेन सर्वसत्त्वचित्त- 02114 चरितविस्पन्दितानि विज्ञातुकामेन सर्वश्रावकप्रत्येकबुद्धानां ज्ञान- 02115 म् अभिभवितुकामेन धारणीसमाधिसुखं प्रतिलब्धुकामेन// [इति प्रयोग- 02116 सहगतो ज्वलनोपमः//] 02117 मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येक- 02118 बुद्धेभ्यो दानानि दीयमानानि एकेनानुमोदनासहगतेन चित्तोत्पादेना- 02119 भिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्//

02120 [इति दानपारमितासहगतो महानिधानोपमः//]

02201 दुःशीलान् शीले {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} शीलम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}// [इति शीलपारमिता- 02202 सहगतो रत्नाकरोपमः/] 02203 व्यापन्नचित्तान् क्षान्तौ {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} क्षान्तिम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}// [इति क्षान्तिसह- 02204 गतो महार्णवोपमः/] 02205 कुशीदान् वीर्ये {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} वीर्यम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}// [इति वीर्यसहगतो 02206 वज्रोपमः/] 02207 विक्षिप्तचित्तान् ध्याने {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} ध्यानम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}// [इति ध्यानपारमिता- 02208 सहगतः पर्वतोपमः/ 02209 दुष्प्रज्ञान् सत्त्वान् प्रज्ञायां {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} प्रज्ञाम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}// [इति प्रज्ञासहगतो 02210 महाभैषज्योपमः/ 02211 एकम् अपि कुशलचित्तोत्पादं सर्वाकारज्ञतायाम् उपादाय कौशल्येन 02212 परिणामनयाऽप्रमेयम् असंख्येयं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञा- 02213 पारमितायां शिक्षितव्यम्/ अल्पम् अपि दानं ददता अल्पम् अपि शीलं

02214 रक्षता अल्पाम् अपि क्षान्तिं भावयता अल्पम् अपि वीर्यम् आरभमाणेन 02215 अल्पम् अपि ध्यानं समापद्यमानेनाल्पाम् अपि प्रज्ञां भावयता सर्वसत्त्वेभ्यः 02216 सर्वाकारज्ञतायाम् उपादाय कौशल्येन परिणामनयाऽप्रमेयम् असंख्येयं कर्तु- 02217 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन 02218 दानपारमितायां चरता प्रज्ञापारमितायां शिक्षितव्यम्/ एवं शील- 02219 पारमितायाञ् चरता क्षान्तिपारमितायाञ् चरता वीर्यपारमितायाञ् चरता 02220 ध्यानपारमितायाञ् चरता प्रज्ञापारमितायाञ् चरता बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ सर्व-

02301 सत्त्वानाम् अर्थाय नरकतिर्यग्योनियमलोकदुःखान्य् उत्सोढुकामेन कल्प- 02302 शतसहस्रसञ्चितम् अपि शीलं सत्त्वापेक्षया त्यक्तुकामेन बुद्धकुले उपपत्तु- 02303 कामेन अशीत्यनुव्यञ्जनानि द्वात्रिंशत्महापुरुषलक्षणानि च निष्पादयितु- 02304 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}// [इत्य् उपायसहगतो मित्रोपमः//] 02305 पुनर् अपरं शारिपुत्र बुद्धकायं निष्पादयितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ 02306 कुमारभूमिम् आक्रमितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ बुद्धबोधिसत्त्वैर् अविरहितेन 02307 भवितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ 02308 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकेन स्वरेन पूर्वस्यां दिशि 02309 गङ्गानदीवालुकोपमान् लोकधातून् विज्ञापयितुकामेन प्रज्ञापारमितायां 02310 शिक्षितव्यम्/ एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षु अध ऊर्ध्व- 02311 म् एकेन स्वरेण गङ्गानदीवालुकोपमान् लोकधातून् विज्ञापयितुकामेन 02312 प्रज्ञापारमितायां शिक्षितव्यम्/ 02313 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिरत्नवंशस्यानुपच्छेदाय 02314 स्थातुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ 02315 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो यैः यैः कुशलमूलै- 02316 र् आकाङ्क्षति तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कर्तुं गुरूकर्तुं मानयितुं 02317 पूजयितुं तानि तानि मे कुशलमूलानि समृध्यन्ताम् इति बोधिसत्त्वेन 02318 {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}// [इति प्रणिधिसहगतश् चिन्तामणिसदृशः//] 02319 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानां मनोरथान् 02320 परिपूरयितुकामेन अन्नपानवस्त्रगन्धमाल्यपुष्पधूपचूर्णविलेपनशयनासन- 02321 गृहधनधान्यालङ्काररत्नमणिमुक्तावैदुर्यशङ्खशिलाप्रवाडजातरूपरजतो- 02322 द्यानराज्यादिभिर् उपकरणैः प्रज्ञापारमितायां शिक्षितव्यम्/

02401 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन धर्मधातुपरमे लोके 02402 आकाशधातुपर्यवसाने सर्वसत्त्वान् दानपारमितायां प्रतिष्ठापयितुकामेन 02403 शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपार- 02404 मितायां प्रज्ञापारमितायां प्रतिष्ट्ःआपयितुकामेन प्रज्ञापारमितायां 02405 शिक्षितव्यम्/ पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकम् अपि 02406 कुशलचित्तोत्पादम् अक्षयं कर्तुकामेन यावद् बोधिमण्डाभिसंबोधेर् इति 02407 प्रज्ञापारमितायां शिक्षितव्यम्/ पुनर् अपरं शारिपुत्र ये दशसु दिक्षु 02408 बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}// [इति बल- 02409 सहगत आदित्योपमः//] 02410 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अध्यात्मशून्यतायां 02411 शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ एवं बहिर्धाशून्यताया- 02412 म् अध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायाम् महाशून्यतायां परमार्थ- 02413 शून्यतायां संस्कृतशून्यतायाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायां अन- 02414 वकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यताया- 02415 म् अनुपलम्भशून्यतायाम् अभावस्वभावशून्यतायां भावशून्यतायाम् अभावशून्य- 02416 तायां स्वभावशून्यतायां परभावशून्यतायां शिक्ष्तुकामेन बोधि- 02417 सत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ 02418 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्मतथताम् अवबोद्धु- 02419 कामेन प्रज्ञापारमितायां शिक्षितव्यम्/ एवं धर्मधातुतथताम् अवबोद्धु- 02420 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ सर्वभूतकोटीतथताम् अवबोद्धुकामेन बोधि- 02421 सत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/

02501 पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ ये पृथिव्यप्ते- 02502 जोवायुपरमाणवस् तान् ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञा- 02503 पारमितायां शिक्षितव्यम्/ 02504 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां 02505 चरञ् जानाति एवं दानं दत्तं महाफलं भवति/ एवं दानं दत्तं क्षत्रिय- 02506 महाशालकुलेषूपपादयति/ ब्राह्मनमहाशालकुलेषूप{पादयति}/ गृहपति- 02507 महाशालकुलेषूप{पादयति}/ एवं {दानं दत्तं} चातुर्महाराजकायिकेषु देवेषूप{पादयति}/ एवं {दानं दत्तं} 02508 त्रयस्त्रिंशेषु देवेषूप{पादयति}/ एवं {दानं दत्तं} यामेषूप{पादयति}/ एवं {दानं दत्तं} तुषितेषूप{पादयति}/ एवं {दानं दत्तं} 02509 निर्माणरतिषूप{पादयति}/ एवं {दानं दत्तं} परनिर्मितवशवर्तिषु देवेषूप{पादयति}/ एवं {दानं दत्तं} प्रथमध्यान- 02510 प्रतिलम्भाय संवर्तते/ एवं {दानं दत्तं} द्वितीयध्यानप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} तृतीयध्यान- 02511 प्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} चतुर्थध्यानप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} आकाशानन्त्यायतनसमापत्ति- 02512 प्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} विज्ञानानन्त्यायतनसमापत्तिप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} आकिञ्च- 02513 न्यायतनसमापत्तिप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} नैवसंज्ञानासंज्ञायतनसमापत्तिप्रति{लम्भाय संवरत्ते}/ 02514 एवं {दानं दत्तम्} सप्तत्रिंशद्बोधिपक्षाणां धर्माणां प्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} स्रोतआपत्तिफल-

02515 प्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} सकृदागामिफलप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तम्} अनागामिफलप्रति{लम्भाय संवर्तते}/ 02516 एवं {दानं दत्तम्} अर्हत्फलप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} प्रत्येकबुद्धत्वप्रति{लम्भाय संवर्तते}/ एवं सम्यक्सं- 02517 बुद्धत्वप्रति{लम्भाय संवर्तते}/ 02518 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता 02519 ज्ञातव्यम् एवम् उपायकौशलेन दानं दत्तं दानपारमितां परिपूरयति/ एवं 02520 दानं दत्तं शील{पारमितां परिपूरयति}/ एवं {दानं दत्तं} क्षान्ति{पारमितां परिपूरयति}/ एवं {दानं दत्तं} वीर्य{पारमितां परिपूरयति}/ एवं {दानं दत्तं} 02521 ध्यान{पारमितां परिपूरयति}/ एवं {दानं दत्तं} प्रज्ञा{पारमितां परिपूरयति}/

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.