Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1
- Thông tin
- GRETIL — Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
02601 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अचोवत्/ कथं भगवन् 02602 बोधिसत्त्वेन महासत्त्वेन दानं ददता दानपारमिता परिपूरिता 02603 भवति/ कथं {दानं ददता} शील{पारमिता परिपूरिता भवति}/ कथं {दानं ददता} क्षान्ति{पारमिता परिपूरिता भवति}/ कथं {दानं ददता} वीर्य- 02604 {पारमिता परिपूरिता भवति}/ कथं {दानं ददता} ध्यान{पारमिता परिपूरिता भवति}/ कथं भगवन् बोधिसत्त्वेन दानं ददता 02605 प्रज्ञा{पारमिता परिपूरिता भवति}/ 02606 भगवान् आह/ अनुपलम्भेन देयस्य दायकस्य ग्राहकस्य च दानपार- 02607 मिता परिपूरिता भवति/ आपत्त्यनापत्त्यनध्यापत्तितः शील{पारमिता परिपूरिता भवति}/ 02608 अक्षोभानभिक्षोभणतः क्षान्ति{पारमिता परिपूरिता भवति}/ कायिकचैतसिकवीर्यास्रंसनतो 02609 वीर्य{पारमिता परिपूरिता भवति}/ अविक्षेपासंकल्पनताम् उपादाय ध्यान{पारमिता परिपूरिता भवति}/ सर्वधर्म- 02610 प्रजाननानुपलम्भयोगेन प्रज्ञा{पारमिता परिपूरिता भवति}/ एवं बोधिसत्त्वेन महासत्त्वेन 02611 दानं ददता षट् पारमिताः परिपूरिता भवन्ति/ एवं शीलपारमितायां 02612 सर्वाः षट् पारमिताः परिपूर्यन्ते/ एवं क्षान्तिपारमितायां सर्वाः
02701 षट् पारमिताः परिपूर्यन्ते एवं वीर्यपारमितायां सर्वाः {षट् पारमिताः परिपूर्यन्ते} एवं ध्यान- 02702 पारमितायां सर्वाः {षट् पारमिताः परिपूर्यन्ते} एवं प्रज्ञापारमितायां सर्वाः {षट् पारमिताः परिपूर्यन्ते}// [इति ज्ञान- 02703 सहगतो मधुरसङ्गीतिभाषोपमः//] 02704 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादेन पूर्वस्यां 02705 दिशि गङ्गानदीवालुकोपमान् लोकधातून् समतिक्रमितुकामेन एवं 02706 दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिग्भागे गङ्गानदीवालु- 02707 कोपमान् लोकधातून् समतिक्रमितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं 02708 शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ यो महासमुद्रेष्व् अप्य् अप्स्कन्धो 02709 महानदीषु कुनदीषूत्ससरस्तडागेषु पल्वलेषु तं सर्वं शतधा भिन्नया 02710 बालाग्रकोट्याभ्युत्क्षेप्तुकामेन च तन् निश्रितान् प्राणिनो विहेठयितु- 02711 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ 02712 पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्रं लोकधातुं कल्पोद्दाहाग्नि- 02713 प्रदीप्तम् एकेन मुखवातेन प्रशमयितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अ- 02714 परं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन या विक्षोभणा वातमण्डली- 02715 वातसंवर्त्तन्यां वर्त्तमानायां यावत् सुमेरुमहासुमेरुचक्रवाडमहाचक्र- 02716 वाडानुपादाय सर्वपर्वतान् सर्वमहापृथिवीं विधुनोति विकिरति 02717 निर्मषीकरोति तां विक्षोभणावातमण्डलीम् एकेनाङ्गुलिपर्वाग्रेणा- 02718 च्छादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/
02801 पुनर् अप्रं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} त्रिसाहस्रमहासाहस्रे लोकधातौ यावान् आकाशधातुस् तं 02802 सर्वम् एकेन पर्यङ्केन स्फारितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} त्रिसाहस्र- 02803 महासाहस्रे लोकधातौ ये सुमेरुमहासुमेरुचक्रवाडमहाचक्रवाडादयः 02804 पर्वतास् तान् एकेन बालेन बद्ध्वा असंख्येयान् अप्रमाणान् लोकधातून् समति- 02805 क्रामयेयं क्षिपेयम् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ 02806 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दशसु दिक्षु प्रत्येकं सर्वबुद्धक्षेत्रेषु बुद्धान् भगवतो 02807 दिव्येन चक्षुषा द्रष्टुकामेन तेषाञ् च धर्मदेशनां दिव्येन श्रोत्रेण श्रोतुकामेन 02808 सर्वसत्त्वचित्तचरितानि च ज्ञातुकामेन तेषां पूर्वनिवासम् अनुस्मर्तुकामेन 02809 आस्रवक्षयज्ञानाभिज्ञाम् अभिनिर्हर्तुकामेन च भूतकोटिं साक्षात्कर्तु- 02810 कामेन {प्रज्ञापारमितायां शिक्षितव्यम्}// [इति अभिज्ञासहगतो महाराजोपमः//] 02811 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दशसु दिक्षु प्रत्येकं यावन्तो गङ्गानदीवालुकोपमेषु 02812 लोकधातुषु बुद्धा भगवन्तः सश्रावकबोधिसत्त्वसंघास् तान् एकेन पिण्ड- 02813 पात्रेण प्रतिपादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ एवं पुष्पधूपगन्धमाल्यविलेपन- 02814 चूर्णचीवरच्छत्रध्वजपताकामेघैस् तांस् तथागतान् अर्हतः सम्यक्संबुद्धान् सत्- 02815 कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यं}
02816 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लकधातुषु ये 02817 सत्त्वास् तान् शीलस्खन्धे {प्रतिष्ठापयितुकामेन} समाधिस्कन्धे {प्रतिष्ठापयितुकामेन} विमुक्तिज्ञान- 02818 दर्शनस्कन्धे {प्रतिष्ठापयितुकामेन} स्रोतआपत्तिफले {प्रतिष्ठापयितुकामेन} सकृदागामिफले {प्रतिष्ठापयितुकामेन} अना- 02819 गामिफले {प्रतिष्ठापयितुकामेन} अर्हत्त्वे {प्रतिष्ठापयितुकामेन} प्रत्येकबोधौ {प्रतिष्ठापयितुकामेन} यावद् अनुपधिशेष- 02820 निर्वाणधातौ {प्रतिष्ठापयितुकामेन} प्रज्ञापारमितायां शिक्षितव्यम्/ यथा पूर्वस्यां दिशि 02821 एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां वदिक्ष्व् अध ऊर्ध्वं प्रत्येकं गङ्गानदी-
02901 वालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् यावद् अनुपधिशेषनिर्वाणधाअतौ 02902 {प्रतिष्ठापयितुकामेन} बोधिसत्त्वेन माहासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्//
02903 [इति पुण्यज्ञानसहगतः कोष्ठागारोपमः//] 02904 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बुद्धगुणा- 02905 न् अनुप्राप्तुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} संस्कृतासंस्कृतानां धर्माणां पारं 02906 गन्तुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वधर्माणाम् अतीतानागतप्रत्युत्पन्नानां 02907 तथागतानाम् अवबोद्धुकामेन धर्माणाम् अनुत्पादकोटिम् अनुप्राप्तुकामेन 02908 {प्रज्ञापारमितायां शिक्षितव्यम्/}// [इति बोधिपक्षसहगतो महामार्गोपमः//] 02909 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वश्रावकप्रत्येकबुद्धानां पूर्वङ्गमेन भवितुकामेन 02910 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} बुद्धानां भगवताम् उपस्थापकेन भवितुकामेन 02911 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} बुद्धानां भगवताम् अभ्यन्तरपरिवारेण भवितुकामेन 02912 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} महापरिवारेण भवितुकामेन बोधिसत्त्वपरिवारं 02913 प्रतिलब्धुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दक्षिणां परिशोधयितुकाअमेन
02914 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} मात्सर्यचित्तं निग्रहीतुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} 02915 दौःशील्यचित्तम् अनुत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} व्यापादचित्त- 02916 म् अनुत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} कौशीद्यचित्तम् उत्स्रष्टकामेन 02917 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिप्तुर बोधिसत्त्वेन महासत्त्वेन} विक्षिप्तचित्तं निश्चितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} 02918 दौष्प्रज्ञचित्तम् अप्रपञ्चितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वान् दानमय- 02919 पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन शीलमयपुण्यक्रियावस्तुनि
03001 {प्रतिष्ठापयितुकामेन} भावनामयपुण्यक्रियावस्तुनि {प्रतिष्ठापयितुकामेन} वैयावृत्यसहगते चौपधिके 03002 पुण्यक्रियावस्तुनि {प्रतिष्ठापयितुकामेन} {प्रज्ञापारमितायां शिक्षितव्यम्}/ 03003 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पञ्च चक्षूंष्य् उत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ कतमानि पञ्च 03004 यद् उत मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयितुकामेन 03005 {प्रज्ञापारमितायां शिक्षितव्यम्}/ 03006 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् 03007 भगवतो द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ एवं दक्षीणस्यां दिशि दिव्येन चक्षुषा 03008 गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यं}
03009 {{एवं पश्चिमायाम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवम् उत्तरस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवम् उत्तरपूर्वस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवं पूर्वदक्षिणस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवं दक्षिणपश्चिमायाम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवं पश्चिमोत्तरस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवम् अधस्ताद् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवम् उपरिष्टाद् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं}}/ 03010 यांश् च ते बुद्धानां बह्गवन्तो धर्मान् भाषन्ते तान् धर्मान् दिव्येन 03011 श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतं चेतसैव चित्तं यथाभूतं 03012 परिज्ञातुकामेन तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वता- 03013 म् अनुस्मर्तुकामेन तेषाञ् च बुद्धानाम् ऋद्धिविकुर्वितं द्रष्टुकामेन {प्रज्ञापारमितायाम् शिक्षितव्यम्}/ 03014 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यांस् ते बुद्धा भगवन्तः समन्ताद् दशसु दिक्षु सर्वलोकधातुषु
03015 धर्मान् भाषन्ते ताञ् श्रुत्वा अनाच्छेद्येन स्मृतिबलाधानेन सर्वान् 03016 सन्धारयितुकामेन यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ 03017 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} अतीतानां बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्तुकामेन 03018 अनागतानाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ ये
03101 चैतर्हि समन्ताद् दशदिशि लोके बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते 03102 यापयन्ति तेषाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}//
03103 [इति शमथविपश्यनासहगतो यानोपमः//] 03104 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यत् किञ्चिद् दशसु दिक्षु बुद्धैर् भगवद्भिर् भाषितं भाष्यते 03105 भाषिष्यते च यद् इदं सूत्रं गेयं व्याकरणं गाथा उदानं निदानम् इतिवृत्तकं 03106 जातकं वैपुल्याद्भुता धर्मा अवदानम् उपदेशाः यच् च श्रावकैर् न श्रुतं तत् सर्व- 03107 म् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तु- 03108 कामेन परेभ्यश् च विस्तरेण सम्प्रकाशयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} 03109 यत् किञ्चित् पूर्वस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च 03110 तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय 03111 प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ यत्
03112 किञ्चिद् दक्षिणस्यां दिशि {{बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् पश्चिमायां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् उत्तरस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् उत्तरपूर्वस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् पूर्वदक्षिणस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् दक्षिणपश्चिमायां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद्
पश्चिमोत्तरस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् अधस्ताद् दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/}}
03113 {{यत् किञ्चिद् ऊर्ध्वं दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्}}// [इति धारणीप्रतिभानसहगतः 03114 प्रस्नवणोपमः//] 03115 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यानि पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोक- 03116 धातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति 03117 तानि सर्वाण्य् अवभासयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ यानि दक्षिणस्यां दिशि
03118 {{गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/}}
03119 {{यानि उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्}}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} ये पूर्वस्यां दिशि गङ्गानदीवालुको- 03120 पमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं 03121 धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां
03201 प्रतिष्ठापयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ ये दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन
प्रज्ञापारमितायां शिक्षितव्यम्/ ये पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/}}
03202 {{ये उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम् }}//
03203 [इति धर्मोद्दानसहगत आनन्दशब्दोपमः/] 03204 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} ये पूर्वस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु 03205 सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति 03206 {प्रज्ञापारमितायां शिक्षितव्यम्}/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं 03207 प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः 03208 सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो 03209 विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे 03210 प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे {प्रतिष्ठापयिष्यामीति} दुष्- 03211 प्रज्ञान् प्रज्ञास्कन्धे {प्रतिष्ठापयिष्यामीति} अविमुक्तान् विमुतिस्कन्धे {प्रतिष्ठापयिष्यामीति} अवि- 03212 मुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे {प्रतिष्ठापयिष्यामीति} अट्टष्टसत्यान् स्रोत- 03213 आपत्तिफले {प्रतिष्ठापयिष्यामीति} सकृदागामिफले अनागामिफले अर्हत्त्वे {प्रतिष्ठापयिष्यामीति} 03214 प्रत्येकबोधौ {प्रतिष्ठापयिष्यामीति} अनुत्तरायां सम्यक्संबोधौ {प्रतिष्ठापयिष्यामीति} बोधिसत्त्वेन
03215 प्रज्ञापारमितायां शिक्षितव्यम्/ ये दक्षिणस्यां दिशि {{गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पश्चिमायां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान्
विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये उत्तरस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये उत्तरपूर्वस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि
प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पूर्वदक्षिणस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति
बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये दक्षिणपश्चिमायां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पश्चिमोत्तरस्याम् दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति
अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये अधस्ताद् दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/}}
03216 {{ये ऊर्ध्वं दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/}} 03217 [इति एकायनमार्गसहगतो नदीस्रोतोपमः//] 03218 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} तथागतेर्यापथे शिक्षितुमामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं 03219 {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्/ कदा न्व् अहं नागा-
03301 वलोकितम् अवलोकयिष्यामीति किम् इत्य् अहं पृथिवीं चतुरङ्गुलम् अस्पृशन् 03302 पद्भ्यां गच्छेयम् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन 03303 प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्/ किम् इत्य् अहं चातु- 03304 र्महाराजकायिकैस् त्रयस्त्रिंशैर् यामैर्स् तुषितैर् निर्माणरतिभिः परनिर्मितवश- 03305 वर्तिभिर् ब्रह्मकायिकैर् ब्रह्मपुरोहितैर् ब्रह्मपारिषद्यैः परीत्ताभैः अप्रमाणाभै- 03306 र् आभास्वरैः परीत्तशुभैर् अप्रमाणशुभैः शुभकृत्स्नैर् अनभ्रकैः पुण्यप्रसवै- 03307 र् बृहत्फलैर् असंज्ञिसत्त्वैः शुद्धावासैर् अस्पृहैर् अतपैः सदृशैः सुदर्शनैर् अक- 03308 निष्ठैश् च परिवृतः पुरस्कृतो ऽनेकदेवपुत्रकोटीनियुतशतसहस्रैर् बोधिमण्ड- 03309 द्रुममूलम् उपसंक्रमेयम् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्}/ किम् इति ये चातु- 03310 र्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता {{निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपारिषद्याः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सदृशाः सुदर्शना }} 03311 अकनिष्ठाश् च देवाः बोधिमण्डद्रुममूलं प्रतिसंस्तरेयुर् इति 03312 {प्रज्ञापारमितायाम् शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्}/ किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभि- 03313 संबुद्धस्य गच्छतो वा तिष्ठतो वा निषणस्य शयानस्य वा स पृथिवीप्रदेशो 03314 वज्रमयः सन्तिष्ठते इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्}/ किम् इत्य् अहं यत्रैव दिवसे 03315 निष्क्रामेयं तत्रैव दिवसे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् इति/
03401 तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयम् इति/ धर्मचक्रं च मे प्रवर्तयमानस्या- 03402 संख्येयानाम् अप्रमेयाणां सत्त्वानां चिरजो विगतमलं धर्मेषु धर्मचक्षु- 03403 र् विमुच्येद् इति/ असंख्येयानाम् अप्रमेयाणां सत्त्वानाम् अनुपादायास्रवेभ्य- 03404 श् चित्तानि विमुच्येयुर् इति/ असंख्येया अप्रमेयाः सत्त्वा अविनिवर्तनीया 03405 भवेयुर् अनुत्तरायाः सम्यक्संबोधेर् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}/ किम् इति 03406 मे ऽप्रमेयो ऽसंख्येयः श्रावकसंङ्हः स्याद् इत्य् अप्रमेयाः असंख्येयाः सत्त्वा एकधर्म- 03407 देशनाया एकासनिका बोधिसत्त्वा भवेयुर् अविनिवर्तनीया अनुत्तरायाः 03408 सम्यक्संबोधेर् इति/ असंख्येयश् चाप्रमेयश् च बोधिसत्त्वसंघो भवेद् इति/ 03409 अपरिमितं चायुःप्रमाणं भवेद् इति/ अपरिमिता च प्रभासम्पद् भवेद् इति/ 03410 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}/ किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य 03411 तस्मिन् बुद्धक्षेत्रे रागद्वेषमोहायतनानि सर्वेण सर्वं सर्वथा सर्वं न 03412 भवेयुर् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}/ किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभि- 03413 संबुद्धस्य एवंरूपया प्रज्ञया सत्त्वाः समन्वागता भवेयुर् यद् अन्यबुद्धक्षेत्रस्था 03414 बुद्धा भगवन्तः एवम् उदानम् उदानयेयुः/ साधु शमः साधु दमः साधु संयमः 03415 साधु चीर्णब्रह्मचर्यावासः साध्व् अविहिंसा सर्वप्राणिभूतेष्व् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ 03416 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}/ किम् इति मे परिनिर्वृतस्य सद्धर्मान्तर्धानम् अपि न स्यात् सह 03417 श्रवनेन च मे नामधेयस्य ये दशसु दिक्शु गङ्गानदीवालुकोपमेषु लोकधातुषु 03418 सत्त्वास् ते नियता भवेयुर् अनुत्तरायाः सम्यक्संबोधेर् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/
03501 यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां 03502 चरन् इमान् गुणान् उत्पादयति तदा ये त्रिसाहस्रमहासाहस्रे लोकधातौ 03503 महाराजानस् ते एवं चिन्तयन्ति वयम् अस्मै बोधिसत्त्वाय चत्वारि पात्राणि 03504 दास्यामः/ यथा दत्तानि पूर्वकैर् महाराजैः पूर्वकाणां तथागतानां 03505 त्रयस्त्रिंशाश् च देवा आत्तमनस्का भवन्ति यामास् तुषिता निमाणरतयः 03506 परनिर्मितवशवर्तिनो देवा उत्सुका भविष्यन्ति/ वयम् अस्य बोधि- 03507 सत्त्वस्य महासत्त्वस्योपस्थानपरिचर्याः करिष्याम इति/ एवम् आसुराः 03508 कायाः परिहास्यन्ते/ दिव्याः कायाः अभिवर्धिष्यन्ते आत्तमनस्काश् च 03509 त्रिसाहस्रमहासाहस्रे लोकधातौ भवन्ति/ ब्रह्मपारिषद्या ब्रह्मपुरोहिता 03510 महाब्रह्माणः आत्तमनस्का भवन्ति/ परीत्ताभा अप्रमाणाभाश् च 03511 आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्य- 03512 प्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सदृशाः 03513 सुदर्शना अकनिष्ठाश् च देशास् तेषाम् एवं भवति/ वयम् एनम् अभिसंबुद्धम् अध्ये- 03514 षिष्यामो धर्मचक्रप्रवर्तनाय/ 03515 यस्मिन् समये शारिप्तुर बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां 03516 चरन् विवर्धते षड्भिः पारमिताभिः तस्मिन् समये आत्तमनस्का 03517 भवन्ति बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च वयम् अस्य माता- 03518 पितरौ भ्विष्यामो भार्यापुत्रज्ञातिसालोहिता इति/ 03519 आत्तमनस्का भवन्ति चत्वारो महाराजानो देवास् त्रयस्त्रिंशा देवा
03601 यामास् तुषिता देवा {{निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणा ब्रह्मपारिषद्याः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सदृशाः सुदर्शना }} अकनिष्ठाश् च देवा 03602 बोधिसत्त्वस्य महासत्त्वस्य मैथुनधर्मपरिवर्जनेन/ 03603 अथ यः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वो महासत्त्वो ब्रन्मचारी 03604 भवति/ न संयोजनीयैर् धर्मैः संप्रयुज्यते/ तस्यैवं भवति अब्रह्मचारिणः 03605 स खलु पुनः कामान् प्रतिसेवमानस्य ब्रह्मलोकोपपत्तेर् अप्य् अन्तरायो 03606 भवति कः पुनर् वादो ऽनुत्तरायाः सम्यक्संबोधेः/ तस्मात् तर्हि 03607 बोधिसत्त्वेन महासत्त्वेन ब्रह्मचारिणैव गृहाद् अभिनिष्क्रम्यानुत्तरा सम्यक्- 03608 संबोधिर् अभिसंबोद्धव्या नाब्रह्मचारिणा// एवम् उक्ते आयुष्मान् शारिपुत्रो 03609 भगवन्तम् एतद् अवोचत्// किं पुनर् भगवन् अवश्यं बोधिसत्त्वस्य माता- 03610 पितृभ्यां भवितव्यं भार्यापुत्रज्ञातिसालोहितैर् भवितव्यम्/ एवम् उक्ते 03611 भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ केषांचिच् छारिपुत्र बोधिसत्त्वानां 03612 महासत्त्वानां मातापित्रौ भवतः भार्यापुत्रज्ञातिसालोहिता वा 03613 केषाञ्चिद् बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादम् उपादाय ब्रह्म- 03614 चर्यासमादानन्ते कुमारभूता एव बोधिसत्त्व चारिकां चरन्तो ऽनुत्तरां 03615 सम्य्कसंबोधिम् अभिसंबुध्यन्ते/ केचिद् बोधिसत्त्वा महासत्त्वा उपाय- 03616 कौशल्येन च पञ्च कामगुणान् परिभुज्याभिनिष्क्रम्यानुत्तरायां सम्यक्-
03701 संबोधिम् अभिसंबुध्यन्ते/ तद् यथापि नाम शारिपुत्र दक्षो मायाकारो 03702 वा मायाकारान्तेवासी वा सुशिक्षितो भवेत् मायायाम्/ स पञ्च काम- 03703 गुणान् अभिनिर्माय तैः पञ्चभिः कामगुणै रमेत क्रीडेत् परिचरेत्/ तत् 03704 किं मन्यसे शारिपुत्र अपि नु तेन मायाकारेण वा मायाकारान्ते- 03705 वासिना वा पञ्च कामगुणा आस्वादिताः परिभुक्ता भवेयुः/ 03706 शारिपुत्र आह/ नो हीदं भगवन्/ भगवान् आह/ एवम् एव शारिपुत्र 03707 बोधिसत्त्वो महासत्त्व उपायकौशल्येन च पञ्च कामगुणान् परिभुंक्ते 03708 सत्त्वानां परिपाकहेतोः/ न पुनर् बोधिसत्त्वो महासत्त्वः कामगुणै- 03709 र् लिप्यते/ अनेन पर्यायेन बोधिसत्त्वो महासत्त्वः कामानाम् अवर्णं 03710 भाषते आदीप्ताः कामाः जुगुप्सिताः कामाः बधकाः कामाः 03711 प्रत्यर्थिकाः कामाः/ एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः सत्त्व- 03712 परिपाकहेतोः पञ्च कामगुणान् उपाददाति// [इति धर्मकामसहगतो 03713 महामेघोपमः//] [इति उक्तश् चित्तोत्पादः//] 03714 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ कथं भगवन् 03715 बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्/ एवम् उक्ते भग- 03716 वान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ इह शारिपुत्र बोधिसत्त्वो महासत्त्वः 03717 प्रज्ञापारमितायां चरन् बोधिसत्त्व एव समानो बोधिसत्त्वं न समनुपश्यति 03718 बोधिसत्त्वनामापि न समनुपश्यति/ बोधिसत्त्वचर्याम् अपि न समनु- 03719 पश्यति/ प्रज्ञापारमिताम् अपि न समनुपश्यति/ रूपम् अपि न समनु- 03720 पश्यति/ एवं वेदनां संज्ञां संस्कारान् विज्ञानम् अपि न समनुपश्यति/
03801 तत् कस्य हेतोः/ तथा हि बोधिसत्त्वो महासत्त्वो बोधिसत्त्वस्वभावेन 03802 शून्यः प्रज्ञापारमितास्वभावेन शून्यः/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ 03803 तथा हि शून्यतया न रूपं शून्यं न वेदना न संज्ञा न संस्कारा न विज्ञानं 03804 शून्यतया शून्यं नान्यत्र रूपाच् छून्यता नाप्य् अत्र वेदनायाः शून्यता नान्यत्र 03805 संज्ञायाः शून्यता नान्यत्र संस्कारेभ्यः शून्यता नान्यत्र विज्ञानाच् छून्यता/ 03806 तत् कस्य हेतोः/ रूपम् एव शून्यता वेदनैव शून्यता संज्ञैव शून्यता 03807 संस्कारा एव शून्यता विज्ञानम् एव शून्यता शून्यतैव रूपं शून्यतैव वेदना 03808 शून्यतैव संज्ञा शून्यतैव संस्काराः शून्यतैव विज्ञानम्/ तत् कस्य हेतोः/ 03809 तथा हि नाममात्रम् इदं यद् इदं बोधिसत्त्व इति/ नाममात्रम् इदं यद् इदं 03810 प्रज्ञापारमितेति नाममात्रम् इदं रूपं वेदना संज्ञा संस्काराः विज्ञानम्/ 03811 तथा हि मायोपं रूपं वेदना संज्ञा संस्कारा विज्ञानं माया च नाममात्रं 03812 न देशस्था न प्रदेशस्था असहसम्भूतं वितथदर्शनम्/ मायादर्शन- 03813 स्वभावस्य हि नोत्पादो न निरोधः/ न संक्लेशो न व्यवदानम्/ एवं 03814 प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्व उत्पादम् अपि न समनुपश्यति 03815 निरोधम् अपि न समनुपश्यति/ संक्लेशम् अपि न समनुपश्यति/ व्यव- 03816 दानम् अपि न समनुपश्यति/ तत् कस्य हेतोः/ तथा हि कृत्रिमं नाम 03817 प्रतिधर्मम्/ ते च कल्पिताः/ आगन्तुकेन नामधेयेन व्यवह्रियन्ते/ 03818 तानि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वनामानि न समनुपश्यति 03819 असमनुपश्यन् नाभिनिविशते/ पुनर् अपरं शारिपुत्र बोधिसत्त्वः प्रज्ञापार- 03820 मितायां चरन् नैवम् उपपरीक्षते नाममात्रम् इदं यद् इदं बोधिसत्त्व इति/ 03821 नाममात्रम् इदं यद् उत बोधिर् इति/ नाम{मात्रम् इदं यद् उत} प्रज्ञा-
03901 पारमितेति/ नाम{मात्रम् इदं यद् उत} प्रज्ञापारमितायां चर्येति/ नाम{मात्रम् इदं यद् उत} रूपम् इति/ नाम{मात्रम् इदं यद् उत} 03902 वेदनेति/ नाम{मात्रम् इदं यद् उत} संज्ञेति/ नाम{मात्रम् इदं यद् उत} संस्कारा इति/ नाम {मात्रम् इदं यद् उत} विज्ञानम् इति/ 03903 तद् यथापि नाम शारिपुत्र आत्मेति चोच्यते/ न चात्मा उपलभ्यते/ 03904 न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो ऽप्य् उपलभ्यन्ते/ 03905 अनुपलम्भशून्यताम् उपादाय/ तत् कस्य हेतोस् तथा हि बोधिसत्त्वस् तम् अपि 03906 न समनुपश्यति येनाभिनिविशेत/ एवं चरन् बोधिसत्त्वो महासत्त्वः 03907 प्रज्ञापारमितायां चरति/ सचेच् छारिपुत्रायं जम्बुद्वीपः परिपूर्णो भवे- 03908 च् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणु- 03909 वनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा 03910 सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां 03911 नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गण- 03912 नाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ एवं शारिपुत्र प्रज्ञा- 03913 पारमितायां चर्तो बोधिसत्त्वस्यैकदिवसभाविता या प्रज्ञा सा सर्वश्रावक- 03914 प्रत्येकबुद्धानां प्रज्ञाम् अभिभवति/ तत् कस्य हेतोः/ तथा हि शारिप्तुर 03915 या बोधिसत्त्वस्य प्रज्ञा सा सर्वसत्त्वानां निर्वाणाय प्रत्युपस्थिता/ तिष्ठतु 03916 शारिपुत्रायं जम्बुद्वीपः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः/ 03917 सचेच् छारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेच् छारि-
03918 पुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः {{तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}} तिष्ठतु शारिपुत्र 03919 त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशै- 03920 र् भिक्षुभिः/ सचेच् छारिपुत्र पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोक- 03921 धातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः {{तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}} {{सचेच् छारिपुत्र दक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}} स-
03922 चेच् छारिपुत्र पश्चिमायां दिशि {{गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र उत्तरस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा
वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र अधस्ताद् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति
सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}}
03923 {{सचेच् छारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}} 03924 अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ येयं भगवन्
04001 स्रोतआपन्नस्य प्रज्ञा सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धस्य प्रज्ञा 04002 बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञा तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रज्ञा 04003 सर्वा एताः प्रज्ञाञ् अभिन्ना विविक्ता अनुत्पन्ना अस्वभावाः शून्याः/ न 04004 च भगवन्न् अभिन्नस्य विविक्तस्य अनुत्पन्नस्यास्वभावस्य शून्यस्य नानाकरण- 04005 म् उपलभ्यते विशेषो वा/ तत् कथं पुनर् भगवन् या बोधिसत्त्वस्यैकदिवस- 04006 भाविता प्रज्ञा सा प्रज्ञापारमितायां चरतः प्रज्ञा सर्वश्रावकप्रत्येकबुद्धानां 04007 प्रज्ञाम् अभिभवति/ एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ तत् 04008 किं मन्यसे शारिपुत्र येन कार्येण बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापार- 04009 मितायां चरतः एकदिवसभाविता प्रज्ञा प्रत्युपस्थिता सर्वाकारवरोपेता 04010 सवज्ञतायां चरतः सर्वसत्त्वानां अर्थं कुर्वतः सर्वाकारं सर्वधर्मान् बुद्ध्वा 04011 सर्वसत्त्वाः परिनिर्वापयितव्या इति/ अपि नु शारिपुत्र तेन कृत्येन 04012 सर्वश्रावकप्रत्येकबुद्धानां प्रत्युपस्थिता/ शारिपुत्र आह/ नो हीदं 04013 भगवन्/ भगवान् आह/ तत् किं मन्यसे शारिपुत्र अपि नु सर्वश्रावक- 04014 प्रत्येकबुद्धानाम् एवं भवति/ अस्माभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य 04015 सर्वसत्त्वनिरुपधिशेषनिर्वाणधातौ परिनिर्वापयितव्या इति/ शारिपुत्र 04016 आह/ नो हीदं भगवन्/ भगवान् आह/ तद् अनेनापि ते शारिपुत्र 04017 पर्यायेणैवं वेदितव्यम्/ येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा सा बोधि- 04018 सत्त्वस्य प्रज्ञाया एकदिवसभावितायाः शततमीम् अपि कलां {{नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि}} 04019 नोपैति/ 04020 तत् किं मन्यसे शारिपुत्र अपि नु सस्र्वश्रावकप्रत्येकबुद्धानाम् एवं 04021 भवति/ षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य 04022 दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टा- 04023 दशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य
04101 अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति/ शारि- 04102 पुत्र आह/ नो हीदं भगवन्/ भवगान् आह/ बोधिसत्त्वस्य महा- 04103 सत्त्वस्य पुनः शारिपुत्रैवं भवत्य् अहं षट्सु पारमितासु चरित्वा सत्त्वान् 04104 परिपाच्य {{बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान्}} सत्त्वान् परिनिर्वापयिष्यामीति/ तद् यथापि 04105 नाम शारिपुत्र न भवति खद्योतकस्य प्राणकजातस्य ममाभया जंबु- 04106 द्वीपो ऽवभास्येतेति ममाभया जम्बुद्वीपः स्फुटो भवेद् इति/ एवम् एव 04107 शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैवं भवति एकस्याप्य् अहं षट्सु पार- 04108 मितासु चरित्वा सत्त्वान् परिपाच्य {{बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान्}} सत्त्वान् परिनिर्वापयि- 04109 ष्यामीति/ तद् यथापि नाम शारिपुत्र सूर्यमण्डलम् उदयत् सर्वजम्बुद्वीप- 04110 म् अवभासेन स्फुटीकरोति/ एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः 04111 षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य {{बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान्}} सत्त्वान् 04112 परिनिर्वापयति/
04113 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ कथं भगवन् 04114 बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धभूमिं चातिक्रम्य अविनिवर्त- 04115 नीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति/ एवम् उक्ते भगवान् आ- 04116 युष्मन्तं शारिपुत्रम् एतद् अवोचत्/ इह शारिपुत्र बोधिसत्त्वो महासत्त्वः 04117 प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् शून्यतानिमित्ता- 04118 प्रणिहितेषु धर्मेषु स्थित्वा श्रावकप्रत्येकबुद्धभूमिं चातिक्रामति अविनि- 04119 वर्तनीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति/ 04120 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ कतमस्यां भग- 04121 वन् भूमौ स्थित्वा बोधिसत्त्वो महासत्त्वः सततसमितं सर्वश्रावकप्रत्येक-
04201 बुद्धानां दक्षिणीयो भवति/ एवम् उक्ते भगवान् आयुष्मन्तं शारिप्तुरम् एतद् अ- 04202 वोचत्/ प्रथमचित्तोत्पादम् उपादाय शारिपुत्र बोधिसत्त्वो महासत्त्वः 04203 षट्सु पारमितासु चरन् यावदा बोधिमण्डाद् अत्रान्तरे सततसमितं सर्व- 04204 श्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति/ तत् कस्य हेतोः/ तथा हि 04205 शारिप्तुर बोधिसत्त्वं महासत्त्वम् आगम्य सर्वेषां कुशलानां धर्माणां लोके 04206 प्रादुर्भावो भवति/ यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां 04207 शिक्षाणाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमा- 04208 णानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां 04209 चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां 04210 पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य 04211 मार्गस्य लोके प्रादुर्भावो भवति/ चतुर्णां वैशारद्यानां लोके प्रादुर्भावो 04212 भवति/ चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति/ षण्णां पार- 04213 मितानां दशानां तथागतबलानां अष्टादशानाम् आवेणिकानां बुद्धधर्माणां 04214 लोके प्रादुर्भावो भवति/ एतेषां च कुशलानां धर्माणां लोके प्रादुर्भावात् 04215 क्षत्रियमहाशालकुलानि प्रज्ञायन्ते ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते 04216 गृहपतिमहाशालकुलानि प्रज्ञायन्ते चातुर्महाराजकायिका देवाः प्रज्ञा-
04217 यन्ते/ त्रयस्त्रिंशा देवाः प्रज्ञायन्ते/ यामा देवाः प्रज्ञायन्ते/ {{निर्माणरतयो देवाः प्रज्ञायन्ते/ परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते/ ब्रह्मकायिका देवाः प्रज्ञायन्ते/ ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते/ महाब्रह्माणा देवाः प्रज्ञायन्ते/ ब्रह्मपारिषद्या देवाः प्रज्ञायन्ते/ परीत्ताभा देवाः प्रज्ञायन्ते/ अप्रमाणाभा देवाः प्रज्ञायन्ते/ आभास्वरा देवाः प्रज्ञायन्ते/ परीत्तशुभा देवाः प्रज्ञायन्ते/ अप्रमाणशुभा देवाः प्रज्ञायन्ते/ शुभकृत्स्ना देवाः प्रज्ञायन्ते/ अनभ्रका देवाः प्रज्ञायन्ते/ पुण्यप्रसवा देवाः प्रज्ञायन्ते/ बृहत्फला देवाः प्रज्ञायन्ते/ असंज्ञिसत्त्वा देवाः प्रज्ञायन्ते/ शुद्धावासा देवाः प्रज्ञायन्ते/ अस्पृहा देवाः प्रज्ञायन्ते/ अतपाः देवाः प्रज्ञायन्ते/ सदृशा देवाः प्रज्ञायन्ते/ सुदर्शना देवाः प्रज्ञायन्ते/}} 04218 अकनिष्ठा देवाः 04219 प्रज्ञायन्ते/ आकाशानन्त्यायतना देवाः प्रज्ञायन्ते/ विज्ञानानन्त्या-
04301 यतना {देवाः प्रज्ञायन्ते/} आकिञ्चन्यायतना {देवाः प्रज्ञायन्ते/} नैवसंज्ञानासंज्ञायतना {देवाः प्रज्ञायन्ते/} 04302 स्रोतआपन्ना लोके उत्पद्यन्ते/ सकृदागामिनो {लोके उत्पद्यन्ते/} अनागमिनो 04303 {लोके उत्पद्यन्ते/} अर्हन्तो {लोके उत्पद्यन्ते/} प्रत्येकबुद्धा {लोके उत्पद्यन्ते/} बोधिसत्त्वा {लोके उत्पद्यन्ते/} तथा- 04304 गता अर्हन्तः सम्यक्संबुद्धा {लोके उत्पद्यन्ते/} 04305 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ किं पुनर् भगवन् 04306 बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति उत नेति/ भगवान् आह/ न हि 04307 शारिपुत्र बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति/ तत् कस्य हेतोः/ 04308 अत्यन्तशुद्धैव दक्षिणा बोधिसत्त्वस्य महासत्त्वस्य/ तत् कस्य हेतोः/ दायकः 04309 शारिपुत्र बोधिसत्त्वो महासत्त्वः/ कस्य दायकः/ कुशलानां धर्माणां 04310 दायकः/ कतमेषां कुशलानां धर्माणां दायकः/ यद् उत दशानां कुश- 04311 लानां कर्मपथानां {{पञ्चानां शिक्षाणाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य}} मार्गस्य चतुर्णां वैशारद्यानां चतसृणां 04312 प्रतिसंविदां षण्णां पारमितानां दशानां तथागतबलानाम् अष्टादशाना- 04313 म् आवेणिकानां बुद्धधर्माणां दायकः// [इति प्रतिपत्त्यववादः//] 04314 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ कथं युज्य- 04315 मानो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति 04316 वक्तव्यः/ एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ इह शारि- 04317 पुत्र बोधिसत्त्वो महासत्त्वो रूपशून्यतायां युक्तो युक्त इति वक्तव्यः/
04401 वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः/ संज्ञा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} संस्कार{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04402 विज्ञान{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04403 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वश् चक्षुः{शून्यतायां युक्तो युक्त इति वक्तव्यः/} श्रोत्र{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04404 घ्राण{शून्यतायां युक्तो युक्त इति वक्तव्यः/} जिह्वा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} काय{शून्यतायां युक्तो युक्त इति वक्तव्यः/} मनः{शून्यतायां युक्तो युक्त इति वक्तव्यः/} रूप{शून्यतायां युक्तो युक्त इति वक्तव्यः/} शब्द{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04405 गन्ध{शून्यतायां युक्तो युक्त इति वक्तव्यः/} रस{शून्यतायां युक्तो युक्त इति वक्तव्यः/} स्प्रष्टव्य{शून्यतायां युक्तो युक्त इति वक्तव्यः/} धर्म{शून्यतायां युक्तो युक्त इति वक्तव्यः/} चक्षुर्विज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04406 श्रोत्रविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} घ्राणविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} जिह्वाविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04407 कायविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} मनोविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} दुःख{शून्यतायां युक्तो युक्त इति वक्तव्यः/} समुदय{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04408 निरोध{शून्यतायां युक्तो युक्त इति वक्तव्यः/} मार्ग{शून्यतायां युक्तो युक्त इति वक्तव्यः/} अविद्या{शून्यतायां युक्तो युक्त इति वक्तव्यः/} संस्कार{शून्यतायां युक्तो युक्त इति वक्तव्यः/} विज्ञान{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04409 नामरूप{शून्यतायां युक्तो युक्त इति वक्तव्यः/} षडायतन{शून्यतायां युक्तो युक्त इति वक्तव्यः/} स्पर्श{शून्यतायां युक्तो युक्त इति वक्तव्यः/} वेदना{शून्यतायां युक्तो युक्त इति वक्तव्यः/} तृष्णा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04410 उपादान{शून्यतायां युक्तो युक्त इति वक्तव्यः/} भव{शून्यतायां युक्तो युक्त इति वक्तव्यः/} जाति{शून्यतायां युक्तो युक्त इति वक्तव्यः/} जरामरणशोकपरिदेवदुःख- 04411 दौर्मनस्योपायास{शून्यतायां युक्तो युक्त इति वक्तव्यः}//
04412 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अ- 04413 ध्यात्म{शून्यतायां युक्तो युक्त इति वक्तव्यः/} बहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} अध्यात्मबहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} यावत् परभावशून्य- 04414 तायां युक्तो युक्त इति वक्तव्यः/ एवं हि शारिपुत्र बोधिसत्त्वो महा- 04415 सत्त्वः प्रज्ञापारमितायां चरन्न् आसु सर्वासु शून्यतासु युक्तो युक्त इति 04416 वक्तव्यः/ स आभिः शून्यताभिः प्रज्ञापारमितायां चरन् न तावद् बोधि- 04417 सत्त्वो महासत्त्वो युक्त इति वक्तव्यो ऽयुक्त इति/ तत् कस्य हेतोः/ तथा 04418 हि न स रूपं न वेदनां न संज्ञां न संस्कारान् न विज्ञानं युक्तम् इति वा 04419 अयुक्तम् इति वा समनुपश्यति// [इति दुःखसत्याववादः//] 04420 स न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति/ न
04501 वेदनाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति न संज्ञाम् उत्पाद- 04502 धर्मिणीं {वा निरोधधर्मिणीं वा समनुपश्यति}/ न संस्कारानुत्पादधर्मिणो {वा निरोधधर्मिणिणो वा समनुपश्यति}/ न विज्ञानम् उत्पाद- 04503 धर्मि {वा निरोधधर्मि वा समनुपश्यति}/ न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति/ 04504 न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति/ न 04505 संज्ञां {संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति}/ न संस्कारान् {संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति}/ न विज्ञानम् {संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति}/ 04506 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपं वेदनायां समव- 04507 सरतीति समनुपश्यति/ न वेदना संज्ञायां {समवसरतीति समनुपश्यति}/ न संज्ञा संस्कारेषु 04508 {समवसरतीति समनुपश्यति}/ न संस्कारा विज्ञाने {समवसरन्तीति समनुपश्यति}/ न विज्ञानं धर्मे {समवसरतीति समनुपश्यति}/ न धर्मः 04509 क्वचिद् धर्मे समवसरतीति समनुपश्यति/ तत् कस्य हेतोः/ न हि कश्चि- 04510 द् धर्मः क्वचिद् धर्मे समवसरति प्रकृतिशून्यताम् उपादाय/ तत् कस्य हेतोः/ 04511 तथा हि शारिपुत्र या रूपस्य शून्यता न तद् रूपम्/ या वेदनायाः शून्यता 04512 न सा वेदना/ या संज्ञायाः शून्यता न सा संज्ञा/ या संस्काराणां 04513 शून्यता न ते संस्काराः/ या विज्ञानस्य शून्यता न तद् विज्ञानम्/ तत् कस्य 04514 हेतोः/ तथा हि या रूपशून्यता न सा रूपयति/ या वेदनाशून्यता न 04515 सा वेदयति/ या संज्ञाशून्यता न सा संजानीते/ या संस्कारशून्यता
04601 न साभिसंस्कारोति/ या विज्ञानशून्यता न सा विजानाति/ तत् कस्य 04602 हेतोः/ तथा हि शारिपुत्र नान्यद् रूपम् अन्या शून्यता/ नान्या शून्यता अन्य- 04603 द् रूपम्/ रूपम् एव शून्यता शून्यतैव रूपम्/ नान्या वेदना अन्या शून्यता/ 04604 नान्या शून्यता अन्या वेदना/ वेदनैव शून्यता शून्यतैव वेदना/ नान्या 04605 संज्ञा अन्या शून्यता/ नान्या शून्यता अन्या संज्ञा/ संज्ञैव शून्यता 04606 शून्यतैव संज्ञा/ नान्ये संस्कारा अन्या शून्यता/ नान्या शून्यता 04607 अन्ये संस्काराः/ संस्कारा एव शून्यता शून्यतैव संस्काराः/ नान्यद् 04608 विज्ञानम् अन्या शून्यता/ नान्या शून्यता अन्यद् विज्ञानम्/ विज्ञानम् एव 04609 शून्यता शून्यतैव विज्ञानम्/ [इति समुदयसत्याववादः//] 04610 शून्यता शारिपुत्र नोत्पद्यते न निरुध्यते/ न संक्लिश्यते न व्यव- 04611 दायते/ न हीयते न वर्धते/ नातीता नागता न प्रत्युत्पन्ना/ या च 04612 ईदृशी न तत्र रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानं न पृथिवी- 04613 धातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न चक्षु- 04614 र् आयतनं न रूपायतनं न श्रोत्रायतनं न शब्दायतनं न घ्राणायतनं न 04615 गन्धायतनं न जिह्वायतनं न रसायतनं न कायायतनं न स्प्रष्टव्यायतनं न 04616 मनआयतनं न धर्मायतनम्/ न चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञान- 04617 धातुः/ न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः/ न घ्राणधातुर् न 04618 गन्धधातुर् न घ्राणविज्ञानधातुः/ न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञान- 04619 धातुः/ न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः/ न मनोधातुर् न 04620 धर्मधातुर् न मनोविज्ञानधतुः/ नाविद्योत्पादो नाविद्यानिरोधः/ न 04621 संस्कारोत्पादो न संस्कारनिरोधः/ 04622 {{न विज्ञानोत्पादो न विज्ञाननिरोधः/ न नामरूपोत्पादो न नामरूपनिरोधः/ न षडायतनोत्पादो न षडायतननिरोधः/ न स्पर्शोत्पादो न स्पर्शनिरोधः/ न वेदनोत्पादो न वेदनानिरोधः/ न तृष्णोत्पादो न तृष्णानिरोधः/ नोपादानोत्पादो नोपादाननिरोधः/ न भवोत्पादो न भवनिरोधः/ न जात्युत्पादो न जातिनिरोधः/}}
04701 न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासोत्पादो न जरा- 04702 मरणशोकपरिदेवदुःखदौर्मनस्योपायासनिरोधः न दुःखं न समुदयो 04703 न निरोधो न मार्गो न प्राप्तिर् नाभिसमयो न स्रोतआपन्ना न स्रोत- 04704 आपत्तिफलम् न सकृदागामी न सकृदागामिफलम्/ नानागामी 04705 नानागामिफलं नार्हत्त्वं नार्हत्त्वफलम् न प्रत्येकबुद्धा न प्रत्येकबोधिः 04706 न बुद्धो न बोधिः/ एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापार- 04707 मितायां चरन् युत्को युक्त इति वक्तव्यः/ [इति निरोधसत्याववादः//] 04708 स प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त 04709 इति वा आत्मानं समनुपश्यति/ न शीलपारमितायां युक्त इति वा 04710 अयुक्त इति वा समनुपश्यति/ न क्षान्ति{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न वीर्य{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न 04711 ध्यान{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न प्रज्ञा{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न रूपे युक्त इति वा अयुक्त इति वा 04712 समनुपश्यति/ न वेदनायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न संज्ञायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न 04713 संस्कारेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न विज्ञाने युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चक्षुषि युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न 04714 श्रोत्रे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न घ्राणे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न जिह्वायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न काये
04715 युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न मनसि युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न रूपे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न शब्दे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ 04716 न गन्धे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न रसे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न स्प्रष्टव्ये युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न धर्मे 04717 युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न स्मृत्युपस्ह्तानेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न सम्यक्प्रहाणेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न ऋद्धि- 04718 पादेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ नेन्द्रियेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न बलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न बोध्यङ्गे 04719 युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न मार्गेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चस्तुर्षु सत्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चतुर्षु 04720 वैशारद्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चतसृषु प्रतिसंवित्सु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ नाभिज्ञासु 04721 युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न दशसु तथागतबलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ नाष्टादशस्व् आवेणिकेषु
04801 बुद्धधर्मेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ यावन् न सर्वाकारज्ञतायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न सर्वज्ञज्ञाने 04802 युक्त इति वा अयुक्त इति वा समनुपश्यति/ तद् अनेनापि ते शारि- 04803 पुत्र पर्यायेणैवं वेदितव्यं बोधिसत्त्वो महासत्त्व एवं प्रज्ञापारमितायां 04804 युक्तो युक्त इति वक्तव्यः//
04805 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 04806 शून्यतां शून्यतया योजयति न शून्यतायोगम्/ नानिमित्तम् अनि- 04807 मित्तेन योजयति नानिमित्तयोगम्/ नाप्रणिहितम् अप्रणिहितेन 04808 योजयति नाप्रणिहितयोगम्/ तत् कस्य हेतोः/ तथा हि शून्यता न 04809 योगो नायोगः एवम् अनिमित्तम् अप्रणिहितं न योगो नायोगः/ एवं 04810 युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तो युक्त 04811 इति वक्तव्यः/ 04812 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् 04813 धर्माणां स्वलक्षणशून्यताम् अवतरति/ एवम् अवतरन् न रूपं योजयति 04814 न वियोजयति न वेदनां योजयति न वियोजयति/ न संज्ञां {योजयति न वियोजयति}/ 04815 न संस्कारान् {योजयति न वियोजयति}/ न विज्ञानं {योजयति न वियोजयति}/ न रूपं पूर्वान्तेन {योजयति न वियोजयति}/ पूर्वा- 04816 न्तम् एव न समनुपश्यति/ न रूपम् अपरान्तेन {योजयति न वियोजयति}/ अपरान्तम् एव न 04817 समनुपश्यति/ न रूपं प्रत्युत्पन्नेन {योजयति न वियोजयति}/ प्रत्युत्पन्नम् एव न समनुपश्यति/ 04818 न वेदनां पूर्वान्तेन {योजयति न वियोजयति}/ पूर्वान्तम् एव न समनुपश्यति/ न वेदना-
04901 म् अपरान्तेन {योजयति न वियोजयति} अपरान्तम् एव न समनुपश्यति/ न वेदनां प्रत्युत्पन्नेन 04902 योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/ 04903 {{न संज्ञां पूर्वान्तेन योजयति न वियोजयति/ पूर्वान्तम् एव न समनुपश्यति/ न संज्ञां अपरान्तेन योजयति न वियोजयति/ अपरान्तम् एव न समनुपश्यति/ न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/ न संस्कारान् पूर्वान्तेन योजयति न वियोजयति/ पूर्वान्तम् एव न समनुपश्यति/ न संस्कारान् अपरान्तेन योजयति न वियोजयति/ अपरान्तम् एव न समनुपश्यति/ न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/ 04904 न विज्ञानं पूर्वान्तेन योजयति न वियोजयति/ पूर्वान्तम् एव न समनुपश्यति/ न विज्ञानं अपरान्तेन योजयति न वियोजयति/ अपरान्तम् एव न समनुपश्यति/ न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/}} 04905 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 04906 पूर्वान्तम् अपरान्तेन योजयति नापरान्तं पूर्वान्तेन योजयति/ न 04907 प्रत्युत्पन्नं पूर्वान्तेन वा अपरान्तेन वा योजयति/ नापरान्तं पूर्वा- 04908 न्तेन वा प्रत्युत्पन्नेन वा योजयति/ न पूर्वान्तम् अपरान्तेन वा प्रत्युत्प- 04909 न्नेन वा योजयति/ अध्वशून्यताम् उपादाय एवं युज्यमानः शारि- 04910 पुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः/ 04911 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् एवं 04912 युज्यते यथा युज्यमानो न सर्वाकारज्ञताम् अतीतेन योजयति/ 04913 अनीतम् एव न समनुपश्यति कथम् अतीतेन सर्वाकारज्ञतां योजयति/ 04914 न सर्वाकारज्ञताम् अनागतेन योजयति/ अनागतम् एव न समनुपश्यति 04915 कथम् अनागतेन सर्वाकारज्ञतां योजयति/ न सर्वाकारज्ञतां प्रत्युत्पन्नेन 04916 योजयति/ प्रत्युत्पन्नम् एव न समनुपश्यति कथं प्रत्युत्पन्नेन सर्वाकार- 04917 ज्ञतां योजयति/ एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञा- 04918 पारमितायां युक्त इति वक्तव्यः//
04919 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न
05001 रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति/ न वेदनां 05002 सर्वाकारज्ञतया योजयति वेदनाम् एव न समनुपश्यति/ न संज्ञां 05003 {सर्वाकारज्ञतया योजयति संज्ञाम् एव न समनुपश्यति}/ न संस्काराण् {सर्वाकारज्ञतया योजयति संस्काराण् एव न समनुपश्यति}/ न विज्ञानं {सर्वाकारज्ञतया योजयति विज्ञानम् एव न समनुपश्यति}/ न चक्षुः {सर्वाकारज्ञतया योजयति चक्षुर् एव न समनुपश्यति}/ न 05004 श्रोत्रं {सर्वाकारज्ञतया योजयति श्रोत्रम् एव न समनुपश्यति}/ न घ्राणं {सर्वाकारज्ञतया योजयति घ्राणम् एव न समनुपश्यति}/ न जिह्वां {सर्वाकारज्ञतया योजयति जिह्वाम् एव न समनुपश्यति}/ न कायं {सर्वाकारज्ञतया योजयति कायम् एव न समनुपश्यति}/ न मनः {सर्वाकारज्ञतया योजयति मनो एव न समनुपश्यति}/ 05005 न रूपं {सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति}/ न शब्दान् {सर्वाकारज्ञतया योजयति शब्दान् एव न समनुपश्यति}/ न गन्धान् {सर्वाकारज्ञतया योजयति गन्धान् एव न समनुपश्यति}/ न रसान् {सर्वाकारज्ञतया योजयति रसान् एव न समनुपश्यति}/ न स्प्रष्टव्यं 05006 {सर्वाकारज्ञतया योजयति स्प्रष्टव्यम् एव न समनुपश्यति}/ न धर्मान् {सर्वाकारज्ञतया योजयति धर्मान् एव न समनुपश्यति}/ एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः 05007 प्रज्ञापारमितायां युक्त इति वक्तव्यः/ 05008 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 05009 दानपारमितां सर्वाकारज्ञतया योजयति दानपारमिताम् एव न
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
