Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां न भावतो नाभावतो (psp_6-8:167) गृह्णाति यं गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, स्वप्नोपमान् प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिम्बोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् सर्वधर्मान् ज्ञात्वा न भावतो गृह्णाति नाभावतो गृह्णाति यां गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, अग्राह्या प्रज्ञापारमिता, अग्राह्या ध्यानपारमिता, अग्राह्या वीर्यपारमिता, अग्राह्या क्षान्तिपारमिता, अग्राह्या शीलपारमिता, अग्राह्या दानपारमिता, अग्राह्या स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा, अग्राह्या अध्यात्मशून्यता, अग्राह्या बहिर्धाशून्यता, अग्राह्या अध्यात्मबहिर्धाशून्यता, अग्राह्या यावद् अभावस्वभावशून्यता, अग्राह्याण्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाण्य् अग्राह्याणि शून्यतानिमित्ताप्रणिहितान्य् अग्राह्या अभिज्ञा अग्राह्या दशबलवैशारद्यप्रतिसंविदो ऽग्राह्या अष्टादशावेणिका बुद्धधर्मा, अग्राह्याः सर्वधर्मास् तद् बोधिसत्त्वो महासत्त्वो ऽग्राह्यान् सर्वधर्मान् विदित्वा अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठते. तत् कस्य हेतोः? तथा ह्य् अग्राह्याः सर्वधर्मा अवस्तुकाः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निमितकोपमाः. न चाग्राह्याणां धर्माणाम् अग्राह्यता शक्ताभिलपितुं, अन्यत्र सत्त्वा इमान् धर्मान् न जानन्ति न पश्यन्ति, तद् बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानाम् अर्थायानुत्तरायां सम्यक्संबोधौ प्रतिष्ठते.
स च प्रथमचित्तोत्पादम् उपादाय यद् दानं ददाति तत् सर्वसत्त्वानां कृतशः, यच् छीलं रक्षति, यां क्षान्तिं संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तत् सर्वसत्त्वानां कृतशो न पुनर् आत्मार्थम्.
न च बोधिसत्त्वो महासत्त्वो ऽन्यस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठते ऽन्यत्र सर्वसत्त्वानां कृतशः स प्रज्ञापारमितायां चरन् सत्त्वो न सत्त्वे सत्त्वसंज्ञायां स्थिता नात्मन्य् (psp_6-8:168) आत्मसंज्ञायां स्थिता, न जीवे जीवसंज्ञायां स्थिता, न जन्तौ जन्तुसंज्ञायां स्थिता, न पोषे पोषसंज्ञायां स्थिता, न पुरुषे पुरुषसंज्ञायां स्थिता, न पुद्गले पुद्गलसंज्ञायां स्थिता, न मनुजे मनुजसंज्ञायां स्थिता, न मानवे मानवसंज्ञायां स्थिता, न कारके कारकसंज्ञायां स्थिता, न वेदके वेदकसंज्ञायां स्थिता, न जानके जानकसंज्ञायां स्थिता, न पश्यके पश्यकसंज्ञायां स्थिता, बोधिसत्त्वो महासत्त्वो विपर्यासाद् विवेचयति, विपर्यासाद् विवेच्यामृते धातौ प्रतिष्ठापयति, यत्र प्रतिष्ठितानाम् एते समुदाचारो न प्रवर्तन्ते, आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा पोषसंज्ञा पुरुषसंज्ञा पुद्गलसंज्ञा मनुजसंज्ञा मानवसंज्ञा कारकसंज्ञा वेदकसंज्ञा जानकसंज्ञा पश्यकसंज्ञा, स सर्वान् इमान् निमिञ्जितसंमिञ्जितविस्पन्दितप्रपञ्चितान् विवेच्यान्यतमान्यतमेन चेतसा बहुलम् उपसंपद्य विहरति, अनेन सुभूते उपायेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् आत्मना न केषुचिद् धर्मेष्व् अभिनिविशते सर्वसत्त्वांश् चानभिनिवेशे प्रतिष्ठापयति लोकव्यवहारेण न पुनः परमार्थेन. इति व्यवदाननिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवंस् तथागतेन धर्मो ऽभिसंबुद्धः किं पुनः स धर्मो लोकव्यवहारेणाभिसंबुद्धो ऽर्थपरमार्थेन?
भगवान् आह: लोकव्यवहारेण सुभूते व्यवह्रियते ऽयं तथागतेन धर्मो ऽभिसंबुद्धो ऽनेन धर्मेणायं धर्मो ऽसंबुद्धो ऽयं तथागतेन धर्मो देशित इति, न पुनस् तत्र कश्चिद् उपलभ्यते, तत् कस्य हेतोः? उपलंभो ह्य् एषो ऽनेन धर्मेणायं धर्मो ऽभिसंबुद्ध इति, न च द्वयेन काचित् प्राप्तिर् नाभिसमयः.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न द्वयेनाभिसमयः किं पुनर् अद्वयेनाभिसमयः?
भगवान् आह: न द्वयेनाभिसमयो नाद्वयेनाभिसमयः, एष एवात्राभिसमयो यत्र न द्वयं नाद्वयं, तत् कस्य हेतोः? प्रपञ्च एष यो ऽयम् एषाम् अभिसमयो न च धर्मसमतायां प्रपञ्चो ऽस्ति (psp_6-8:169) निष्प्रपञ्चा धर्मसमता.
सुभूतिर् आह: अभावस्वभावानां भगवन् सर्वधर्माणां का समता?
भगवान् आह: एषैवात्र समता यत्र न भावो ऽभावो वा कीर्तितो, न च धर्मसमता परिकीर्त्य तेन चान्यो ऽपि धर्म उपलभ्यते धर्मसमतायां, सर्वधर्मविनिर्वृत्ता हि धर्मसमता, अगतिर् अविषयो धर्मसमता यस्य कस्यचिद् बालपृथग्जनस्य वार्यस्य वा.
सुभूतिर् आह: किं पुनर् भगवन् धर्मसमता तथागतस्याप्य् अविषयः?
भगवान् आह: अविषयः सुभूते सर्वार्याणां श्रद्धानुसारिणां वा धर्मानुसारिणां वाष्टमकानां वा स्रोतआपन्नानां वा सकृदागामिनां वानागामिनां वार्हतां वा श्रावकाणां वा प्रत्येकबुद्धानां वा बोधिसत्त्वानां महासत्त्वानां वा तथागतस्याप्य् अविषयः सर्वधर्मसमता.
सुभूतिर् आह: न पुनर् भगवन् सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः?
भगवान् आह: स्यात् सुभूते सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः, यद्य् अन्या धर्मसमता स्याद् अन्यस् तथागतो ऽर्हन् सम्यक्संबुद्धो, या च सुभूते पृथग्जनानां धर्मसमता या च श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाणां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां, या च तथागतस्यार्हतः सम्यक्संबुद्धस्य समता समतैव समता, या च बालपृथग्जनसमता, या चार्यसमता, एकैवैषा समता, एकसमतायां न द्वयम् अस्ति, अयं बालपृथग्जनो ऽयं श्रद्धानुसार्य् अयं धर्मानुसार्य् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, सर्व एते सुभूते धर्माः समतायां नोपलभ्यन्ते, इमे बालपृथग्जनाः, अयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोताअपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. (psp_6-8:170)
सुभूतिर् आह: यदि भगवन् सर्वधर्मसमतायां सर्व एते धर्मा नोपलभ्यन्ते, ऽयं बालपृथग्जनो ऽयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, अविशेषो वा भगवन् भविष्यति बालपृथग्जनानाञ् च श्रद्धानुसारिणां च धर्मानुसारिणां चाष्टमकानाञ् च स्रोतआपन्नानां च सकृदागामिनाञ् चानागामिनाञ् चार्हतां च प्रत्येकबुद्धानाञ् च बोधिसत्त्वानां महासत्त्वानाञ् च तथागतस्यार्हतः सम्यक्संबुद्धस्य च.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अविशेषो धर्मसमतायां बालपृथग्जनानां श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम्.
सुभूतिर् आह: यदि भगवन्न् अविशेषो बालपृथग्जनानां श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां, कुत एषां भगवंस् त्रयाणां रत्नानां लोके प्रादुर्भावो भवति, बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य?
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् बुद्धरत्नम् अन्यद् धर्मरत्नम् अन्यत् संघरत्नम् अन्या धर्माणां धर्मसमता.
सुभूतिर् आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, नान्यद् बुद्धरत्नं नान्यद् धर्मरत्नं नान्यत् संघरत्नं नान्या धर्माणां धर्मसमता, सचेद् भगवन् बुद्धरत्नं धर्मरत्नं संघरत्नं या च धर्माणां धर्मसमता, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अग्राह्या अप्रतिघा एकलक्षणा यद् उतालक्षणास् तत् कथं भगवन्न् एषाम् अलक्षणानां धर्माणां फलव्यवस्थानं करोति, अयं बालपृथग्जनो ऽयं श्रद्धानुसार्य् अयं धर्मानुसार्य् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् (psp_6-8:171) अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति?
भगवान् आह: यदि तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तदाभिसंबुध्य धर्माणां व्यवस्थानं नाकरिष्यद् अपि नरको वा न प्रज्ञायते, तिर्यग्योनिर् वा यमलोको वा देवो वा मनुष्यो वा चातुर्महाराजिका वा देवास् त्रयस्त्रिंशा वा यामा वा तुषिता वा निर्माणरतयो वा परनिर्मितवशवर्तिनो वा ब्रह्मपार्षद्यो वा ब्रह्मपुरोहिता वा महाब्रह्माणो वा परीत्ताभा वा अप्रमाणाभा वा आभास्वरा वा परीत्तशुभा वा अप्रमाणशुभा वा शुभकृत्स्ना वा अनभ्रका वा पुण्यप्रसवा वा बृहत्फला वा असंज्ञिसत्त्वा वा अस्पृहा वा अतपा वा सुदृशा वा सुदर्शना वा अकनिष्ठा वा देवाः, आकाशानन्त्यायतनसमापत्तयो वा विज्ञानानन्त्यायतनसमापत्तयो वा आकिञ्चन्यायतनसमापत्तयो वा नैवसंज्ञानासंज्ञायतनसमापत्तयो वा, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गा वा, अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा, यावद् अभावस्वभावशून्यता वा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा शून्यतानिमित्ताप्रणिहितानि वा, अभिज्ञा वा दशबलवैशारद्यप्रतिसंविदो वावेणिकबुद्धधर्मा वा महामैत्री महाकरुणा द्वात्रिंशन्महापुरुषलक्षणानि वाशीत्यनुव्यञ्जनानि वा, दशबोधिसत्त्वभूमयो वा, दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा, उपायपारमिता वा प्रणिधानपारमिता वा बलपारमिता वा ज्ञानपारमिता वा, एवं त्रीणि रत्नानि, बुद्धरत्नं धर्मरत्नं संघरत्नं, श्रावकयानं प्रत्येकबुद्धयानम् अनुत्तरं महायानम्, एवं श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाः स्रोताअपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वास् तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वाकारवरोपेतञ् च ज्ञानं न प्रज्ञायन्ते?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तस्मात् तर्हि सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् (psp_6-8:172) अयं पुरुषकारो यद् धर्मसमतायाश् च न चलन्ति, धर्माणां च व्यवस्थानं कुर्वन्ति.
सुभूतिर् आह: किं भगवन् यथा चैव तथागतो धर्मतायाश् च न चलति, तथाइव बालपृथग्जनापि न चलति श्रद्धानुसारी धर्मानुसारी अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वस् तथाइव सर्वधर्मा न चलन्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते धर्मताया न चलन्ति न विवर्तन्ते, यैव सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सैव बालपृथग्जनानां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सैव श्रद्धानुसारिणां धर्मानौसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सर्व एते धर्मा धर्मतां न व्यतिवर्तन्ते, तत् कस्य हेतोः? तथा ह्य् एषैव धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता नान्या काचिद् अनुधर्मता.
सुभूतिर् आह: यदि भगवन् या धर्माणां धर्मता सैव धर्मता बालपृथग्जनानां सैव श्रद्धानुसारिणां सैव धर्मानुसारिणां सैवाष्टमकानां सैव स्रोतआपन्नानां सैव सकृदागामिनां सैवानागामिनां सैवार्हतां सैव प्रत्येकबुद्धानां सैव बोधिसत्त्वानां महासत्त्वानां सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां, य इमे भगवन् विलक्षणा धर्मास् ते कथम् एकलक्षणास्? तद्यथा रूपं वेदना संज्ञा संस्कारा विज्ञानं, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, अन्यैव च भगवन् रूपस्य धर्मता, अन्या वेदनायाः अन्या संज्ञाया अन्या संस्काराणाम् अन्या विज्ञानस्य धर्मता, अन्या चक्षुषः श्रोत्रघ्राणजिह्वाकायानां धर्मता, अन्या मनसो धर्मता, अन्या रूपशब्दगन्धरसस्प्र्ष्टव्यानां (psp_6-8:173) धर्मता अन्या धर्माणां धर्मता, अन्या चक्षुर्विज्ञानधर्मता, अन्या चक्षुःसंस्पर्शधर्मता, अन्या चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता, एवं श्रोत्रघ्राणजिह्वाकायाः, अन्या मनोविज्ञानधर्मता, अन्या मनःसंस्पर्शधर्मता, अन्या मनःसंस्पर्शप्रत्ययवेदनाधर्मता, अन्या पृथिवीधातुधर्मता, अन्याब्धातुधर्मता, अन्या तेजोधातुधर्मता, अन्या वायुधातुधर्मता, अन्या आकाशधातुधर्मता, अन्या विज्ञानधातुधर्मता, अन्या स्कन्धधर्मता, अन्या धातुधर्मता, अन्या आयतनधर्मता, अन्या प्रतीत्यसमुत्पादधर्मता, अन्या प्रतीत्यसमुत्पन्नधर्मता, अन्याविद्याधर्मता, अन्या संस्कारधर्मता, अन्या विज्ञानधर्मता, अन्या नामरूपधर्मता, अन्या षडायतनधर्मता, अन्या स्पर्शधर्मता, अन्या वेदनाधर्मता, अन्या तृष्नाधर्मता, अन्योपादानधर्मता, अन्या भवधर्मता, अन्या जातिधर्मता, अन्या
जरामरणधर्मता, अन्या शोकपरिदेवदुष्खदौर्मनस्योपायासधर्मता, अन्या रागधर्मता, अन्या द्वेषधर्मता, अन्या मोहधर्मता, अन्या दृष्टिधर्मता, अन्या ध्यानानां धर्मता, अन्या अप्रमाणानां धर्मता, अन्या आरूप्यसमापत्तीनां धर्मता, अन्या स्मृत्युपस्थानानां धर्मता, अन्या सम्यक्प्रहाणानां धर्मता, अन्या ऋद्धिपादानां धर्मता, अन्या इन्द्रियाणां धर्मता, अन्या बलानां धर्मता, अन्या बोध्यङ्गानां धर्मता, अन्या आर्याष्टाङ्गस्य मार्गस्य धर्मता, अन्या शून्यताया धर्मता, अन्या आनिमित्तस्य धर्मता, अन्या अप्रणिहितस्य धर्मता, अन्या अध्यात्मशून्यताया धर्मता, अन्या बहिर्धाशून्यताया धर्मता, अन्या अध्यात्मबहिर्धाशून्यताया धर्मता, अन्या यावद् अभावस्वभावशून्यताया धर्मता, अन्या अष्टविमोक्षधर्मता, अन्या नवानुपूर्वविहारसमापत्तिधर्मता, अन्या आर्यसत्यधर्मता, अन्या अभिज्ञाधर्मता, अन्या दानपारमिताधर्मता, अन्या शीलपारमिताधर्मता, अन्या क्षान्तिपारमिताधर्मता, अन्या वीर्यपारमिताधर्मता, अन्या ध्यानपारमिताधर्मता, अन्या प्रज्ञापारमिताधर्मता, अन्या उपायपारमिताधर्मता, अन्या प्रणिधानपारमिताधर्मता, अन्या बलपारमिताधर्मता, अन्या ज्ञानपारमिताधर्मता, अन्या प्रथमाया बोधिसत्त्वभूमेर् (psp_6-8:174) धर्मता, अन्या यावद् दशभूम्या बोधिसत्त्वभूमेर् धर्मता, अन्या दशानां तथागतबलानां धर्मता, अन्या चतुर्णां वैशारद्यानां धर्मता, अन्या चतसृणां प्रतिसंविदां धर्मता, अन्या अष्टादशानाम् आवेणिकानां बुद्धधर्माणां धर्मता, अन्या महामैत्र्या धर्मता, अन्या महाकरुणायां धर्मता, अन्या द्वात्रिंशन्महापुरुषलक्षणानां धर्मता अन्या अशीत्यनुव्यञ्जनानां धर्मता, अन्या
संस्कृतस्य धातोर् धर्मता, अन्या असंस्कृतस्य धातोर् धर्मता. तत् कथं भगवन् नैवं विलक्षणानां सर्वधर्माणां धर्मतायां व्यवस्थानं नोपलभ्यते? यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्माणाञ् च नानात्वं करोति, न चाकृत्वा धर्मनानात्वं शक्यं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितुं, कथं च बोधिसत्त्वो महासत्त्वः भूमेर् भूमिं संक्रामति बोधिसत्त्वन्यामम् अवक्रामति, यया नियामावक्रान्त्या श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वातिक्रम्य ऽभिज्ञाः परिपूरयति, याभिर् अभिज्ञाभिर् विक्रीडमानो दानपारमितया परिपूर्णः, शीलपारमितया परिपूर्णः, क्षान्तिपारमितया परिपूर्णः, वीर्यपारमितया परिपूर्णः, ध्यानपारमितया परिपूर्णः, प्रज्ञापारमितया परिपूर्णः, उपायपारमितया परिपूर्णः, प्रणिधानपारमितया परिपूर्णः, बलपारमितया परिपूर्णः, ज्ञानपारमितया परिपूर्णः, विक्रीडमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति बुद्धान् भगवतः पर्युपास्ते तेषु च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति, यैः कुशलैर् मूलैः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रञ् च परिगृह्णाति.
भगवान् आह: यद् आयुष्मान् सुभूतिर् एवम् आह, यदि भगवन् या धर्माणां धर्मता, सैव पृथग्जनानां धर्मता, सैव श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां धर्मता, सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मता, य इमे भगवन् विलक्षणा धर्मास् ते कथम् एकलक्षणा विलक्षणानाञ् च धर्माणां धर्मता कथम् एकलक्षणा युक्तेति.
भगवान् आह: तत् किं मन्यसे? सुभूते या रूपस्य धर्मता, किं (psp_6-8:175) न शून्या सा, य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य धर्मता, किं न शून्या सा, या स्कन्धधात्वायतनानां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पन्नानां धर्माणां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पादाङ्गानां धर्मता, किं न शून्या सा, या लौकिकलोकोत्तराणां धर्माणां धर्मता, किं न शून्या सा, या सास्रवानास्रवाणां धर्माणां धर्मता, किं न शून्या सा, या संस्कृतासंस्कृतां धर्माणां धर्मता, किं न शून्या सा, या बालपृथग्जनानां धर्मता, या श्रद्धानुसारिधर्मता, या धर्मानुसारिधर्मता, या अष्टमकधर्मता या स्रोतआपन्नधर्मता, या सकृदागामिधर्मता, या अनागामिधर्मता, या अर्हद्धर्मता, या प्रत्येकबुद्धधर्मता, या बोधिसत्त्वधर्मता, या तथागतधर्मता, किं न शून्या सा.
सुभूतिर् आह: शून्या सा भगवन् शून्या सा सुगत.
भगवान् आह: तत् किं मन्यसे? सुभूते शून्यतायां विलक्षणा धर्मा उपलभ्यन्ते, रूपलक्षणं वा वेदना संज्ञा संस्कारा विज्ञानलक्षणं वा, स्कन्धधात्वायतनलक्षणं वा, प्रतीत्यसमुत्पादलक्षणं वा, प्रतीत्यसमुत्पन्नधर्मलक्षणं वा प्रतीत्यसमुत्पादाङ्गलक्सणं वा, लौकिकलोकोत्तराणां वा धर्माणां लक्षणं सास्रवानास्रवाणां वा धर्माणां लक्षणं, संस्कृतासंस्कृतानां वा धर्माणां लक्षणं, बालपृथग्जनानां वा लक्षणं श्रद्धानुसारिणां वा लक्षणं, धर्मानुसारिणां वा लक्षणम् अष्टमकानां वा लक्षणं, स्रोतआपन्नानां वा लक्षणं सकृदागामिनां वा लक्षणम् अनागामिनां वा लक्षणम् अर्हतां वा लक्षणं प्रत्येकबुद्धानां वा लक्षणं बोधिसत्त्वानां महासत्त्वानां वा लक्षणं तथागतानां वा लक्षणम्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, या धर्माणां धर्मता न तत्र पृथग्जना नान्यत्र पृथग्जनेभ्यः, न तत्र श्रद्धानुसारी नान्यत्र श्रद्धानुसारिणः, न तत्र धर्मानुसारी नान्यत्र धर्मानुसारिणः, न तत्राष्टमको नान्यत्राष्टमकान्, न तत्र स्रोतआपन्नो नान्यत्र स्रोतआपन्नान्, न तत्र सकृदागामी नान्यत्र सकृदागामिनो, न तत्रानागामी नान्यत्रानागामिनः, न तत्रार्हन् नान्यत्रार्हतः, न तत्र प्रत्येकबुद्धो नान्यत्र प्रत्येकबुद्धान्, न तत्र बोधिसत्त्वो नान्यत्र बोधिसत्त्त्वान्, न तत्र तथागतो नान्यत्र (psp_6-8:176) तथागतात्. इति व्यवदानसंभारनिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् धर्मता संस्कृता उताहो ऽसंस्कृता?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न संस्कृता नासंस्कृता, न च संस्कृतव्यतिरेकेणासंस्कृत उपलभ्यते, न चासंस्कृतव्यतिरेकेण संस्कृत उपलभ्यते. तत् कस्य हेतोः? तथा हि सुभूते यश् च संस्कृतो धातुर् यश् चासंस्कृतो धातुर् द्वाव् अप्य् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणौ यद् उतालक्षणौ, तत् पुनस् तथागतो लोकव्यवहारेण व्यवहरति न पुनः परमार्थेन, न च परमार्थे कश्चित् कायसंस्कारे न वाक्संस्कारे न मनःसंस्कारे नान्यत्र कायसंस्कारान् नान्यत्र वाक्संस्कारान् नान्यत्र मनःसंस्कारात् परमार्थ उपलभ्यते, येषां धर्माणां संस्कृतासंस्कृतानां समता स परमार्थस् तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति, सत्त्वानां च कृत्यं करोति.
सुभूतिर् आह: यदि भगवन् सर्वधर्माः शून्यास् तन् न कस्यचिद् धर्मस्य कश्चिद् धर्मः किंचित् करोति, अकिंचित्करेष्व् अकिंचनेषु निष्किंचनेषु चाधर्मेषु कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति सत्त्वानां च कृत्यं करोति दानेन वा प्रियवद्यतया वा अर्थक्रियया वा समानार्थतया वा?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वाचं भाषसे, यच् छून्यता अकिंचना निष्किंचना न कस्यचित् किंचित् करोति कृत्यं वा अकृत्यं वा, यदि सुभूते एते सत्त्वाः स्वयम् एव शून्यतां जानीयुर् नेयं तथागतस्य वृषभिता भवेत्, यच् छून्यतायाश् च न चलति, सत्त्वांश् चात्मसंज्ञाया विवेचयति, आत्मसंज्ञाया विवेच्य शून्यतया मोचयति संसाराद्, एवं सत्त्वसंज्ञाया विवेचयति जीवसंज्ञाया जन्तुसंज्ञायाः पोषसंज्ञायाः पुरुषसंज्ञायाः पुद्गलसंज्ञाया मनुजसंज्ञाया मानवसंज्ञायाः कारकसंज्ञाया वेदकसंज्ञाया जानकसंज्ञायाः पश्यकसंज्ञायाश् च विवेचयति, रूपसंज्ञाया विवेचयति, (psp_6-8:177) वेदनासंज्ञाया विवेचयति, संज्ञासंज्ञाया विवेचयति, संस्कारसंज्ञाया विवेचयति, विज्ञानसंज्ञाया विवेचयति, चक्षुःसंज्ञाया विवेचयति, श्रोत्रसंज्ञाया विवेचयति, घ्राणसंज्ञाया विवेचयति, जिह्वासंज्ञाया विवेचयति, कायसंज्ञाया विवेचयति, मनःसंज्ञाया विवेचयति, चक्षुर्विज्ञानसंज्ञाया विवेचयति, चक्षुःसंस्पर्शसंज्ञाया विवेचयति, चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञाया विवेचयति, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानसंज्ञाया विवेचयति, मनःसंस्पर्शसंज्ञाया विवेचयति, मनःसंस्पर्शप्रत्ययवेदनासंज्ञाया विवेचयति, रूपसंज्ञाया विवेचयति, शब्दसंज्ञाया गन्धसंज्ञाया रससंज्ञायाः स्पर्शसंज्ञाया धर्मसंज्ञाया विवेचयति, पृथिवीधातुसंज्ञाया विवेचयति, अब्धातुसंज्ञाया विवेचयति, तेजोधातुसंज्ञाया विवेचयति, वायुधातुसंज्ञाया विवेचयति, आकाशधातुसंज्ञाया विवेचयति, विज्ञानधातुसंज्ञाया विवेचयति, स्कन्धसंज्ञाया विवेचयति, धातुसंज्ञाया विवेचयति, आयतनसंज्ञाया
विवेचयति, प्रतीत्यसमुत्पादसंज्ञाया विवेचयति, प्रतीत्यसमुत्पन्नधर्मसंज्ञाया विवेचयति, प्रतीत्यसमुत्पादाङ्गसंज्ञाया विवेचयति, अविद्यासंज्ञाया विवेचयति, संस्कारसंज्ञाया विज्ञानसंज्ञाया नामरूपसंज्ञाया षडायतनसंज्ञायाः स्पर्शसंज्ञाया वेदनासंज्ञायास् तृष्णासंज्ञाया उपादानसंज्ञाया भवसंज्ञाया जातिसंज्ञाया जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायाससंज्ञाया विवेचयति, संस्कृतधातुसंज्ञाया विवेचयति, असंस्कृतधातुसंज्ञाया विवेचयति, असंस्कृते च धातौ प्रतिष्ठापयति, स चासंस्कृतो धातुः शून्यः. इति संस्कृतासंस्कृताव्यतिभेदपरिज्ञाननिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन भगवन् न संस्कृतो धातुः शून्यः?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सत्त्वसंज्ञया सुभूते शून्यो यावद् असंस्कृतसंज्ञया, अपि तु खलु सुभूते यन् निर्मितो ऽन्यन् निर्मितं निर्मिणोति, कच्चित् तस्य तद् वस्त्व् अस्ति यन् न शून्यता?
सुभूतिर् आह: नो भगवन् निर्मितस्य हि भगवन् न कच्चिद् वस्त्व् (psp_6-8:178) अस्ति यन् न शून्यता, य च शून्यता यश् च निर्मितः, उभाव् एतौ धर्मौ, न संयुक्तौ न विसंयुक्तौ द्वाव् एतौ शून्यतया शून्यौ, तत् किं विनिगूहितम् इयं शून्यतायं निर्मितः. तत् कस्य हेतोः? तथा हि ताव् उभाव् अपि शून्यतायान् नोपलभ्यते, इयं शून्यतायं निर्मितः.
भगवान् आह: नास्ति सुभूते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यश् च निर्मितो या च शून्यता उभयम् एतच् छून्यता.
सुभूतिर् आह: यदि भगवन्न् इमे लौकिका धर्मा निर्मिता अपि नु इमे लोकोत्तरा धर्मा निर्मिताः? यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि, पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यानि, शून्यतानिमित्ताप्रणिहितानि, अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता पञ्चाभिज्ञा अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तयः सर्वसमाधयः सर्वधारणीमुखानि दशपारमिता दशबोधिसत्त्वभूमयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महाकरुणा, यच् च तेषां फलं येन ते पुद्गलाः प्रज्ञाप्यन्ते, श्रद्धानुसारी धर्मानुसार्य् अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वः तथागतो ऽर्हन् सम्यक्संबुद्धो ऽपि नु भगवन्न् इमे धर्मा निर्मिताः.
भगवान् आह: यत्र पुनः सर्वधर्मा निर्मितास् तत्र कश्चिच् छ्रावकनिर्मितः, कश्चित् प्रत्येकबुद्धनिर्मितः, कश्चिद् बोधिसत्त्वनिर्मितः कश्चित् तथागतनिर्मितः, कश्चित् क्लेशनिर्मितः, कश्चित् कर्मनिर्मितो ऽनेन सुभूते पर्यायेण सर्वधर्मा निर्मितकोपमा अनानाकरणाः. सुभूतिर् आह: यत् पुनर् इदं भगवन् प्रहाणं स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबुद्धभूमिर् वा निर्मिता सर्ववासनानुसंधिप्रहाणम् अपि निर्मितम्?
भगवान् आह: ये केचित् सुभूते धर्मा उत्पादिता वा निरोधिता वा सर्व एते निर्मिताः.
सुभूतिर् आह: कतमो भगवन् धर्मो यो न निर्मितकः?
भगवान् आह: यस्य नोत्पादो न निरोधः स धर्मो न निमितः. (psp_6-8:179)
सुभूतिर् आह: स पुनः कतमो भगवन्?
भगवान् आह: असंमोषधर्मो न निर्मितः.
सुभूतिर् आह: यत् पुनर् भगवतोक्तं शून्यतायाश् च न चलति, न च द्वये नोपलभ्यते, न च कश्चिद् धर्मो यो न शून्यस् तस्माद् भगवन् संमोषधर्मो निर्मितको भवेत्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते स्वभावेन शून्यास् ते न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न बोधिसत्त्वैर् महासत्त्वैः कृता न तथागतैः कृता, या च स्वभावशून्यता तन् निर्वाणम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आदिकर्मिको भगवन् पुद्गलः कथम् अववदितव्यः? कथम् अनुशासितव्यो यत् स्वभावशून्यतां परिजानीयात्?
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनः सुभूते पूर्वं भावो ऽभविष्यत् पश्चाद् अभावो भविष्यति? नात्र सुभूते भावो नाभावो न स्वभावो न परभावः, कुत एव स्वभावशून्यता भविष्यति? इति निर्वाणनिवेशनकर्म
इत्य् उक्तानि कर्माणीत्य् उक्तो धर्मकायाभिसंबोधः
इदम् अवोचद् भगवान् आत्तमनसो मैत्रेयप्रमुखा बोधिसत्त्वा महासत्त्वाः, आयुष्मांश् च सुभूतिर् आयुष्मांश् च शारिपुत्र आयुष्मांश् चानन्दः, शक्रश् च देवानाम् इन्द्रः सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति.
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यानि प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां धर्मकायाधिकारः शिक्षापरिवर्तो नामाष्टमः समाप्त इति
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत्, तेषाञ् च यो निरोध एवंवादी महाश्रमणः.
ओं गते 2 पारगते पारसंगते बोधि स्वाहा.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
