Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं भवतीति योजयति न रूपं विभवतीति योजयति, न वेदना भवतीति योजयति न वेदना विभवतीति योजयति, न संज्ञा भवतीति योजयति न संज्ञा विभवतीति योजयति, न संस्कारा भवतीति (psp1-1: 70) योजयति न संस्कारा विभवतीति योजयति, न विज्ञानं भवतीति योजयति न विज्ञानं विभवतीति योजयति, न रूपं नित्यम् इति योजयति न रूपम् अनित्यम् इति योजयति, न रूपं सुखम् इति योजयति न रूपं दुःखम् इति योजयति, न रूपम् आत्मेति योजयति न रूपम् अनात्मेति योजयति, न रूपं शान्तम् इति योजयति, न रूपम् अशान्तम् इति योजयति, न वेदना नित्येति योजयति न वेदना अनित्येति योजयति, न वेदना सुखेति योजयति न वेदना दुःखेति योजयति, न वेदना आत्मेति योजयति न वेदना अनात्मेति योजयति, न वेदना शान्तेति योजयति न वेदना अशान्तेति योजयति, न संज्ञा नित्येति योजयति न संज्ञा अनित्येति योजयति, न संज्ञा सुखेति योजयति न संज्ञा दुःखेति योजयति, न संज्ञा आत्मेति योजयति न संज्ञा अनात्मेति योजयति, न संज्ञा शान्तेति योजयति न संज्ञा अशान्तेति योजयति, न संस्कारा नित्या इति योजयति न संस्कारा अनित्या इति योजयति, न संस्काराः सुखा इति योजयति न संस्कारा दुःखा इति योजयति, न संस्कारा आत्मान इति योजयति न संस्कारा अनात्मान इति योजयति, न संस्काराः शान्ता इति योजयति न संस्कारा अशान्ता इति योजयति, न विज्ञानं नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति, न विज्ञानं सुखम् इति योजयति न विज्ञानं दुःखम् इति योजयति, न विज्ञानम् आत्मेति योजयति न
विज्ञानम् अनात्मेति योजयति, न विज्ञानं शान्तम् इति योजयति न विज्ञानम् अशान्तम् इति योजयति, न रूपं शून्यम् इति योजयति न रूपम् अशून्यम् इति योजयति, न रूपं सनिमित्तम् इति वा चरति न रुपम् अनिमित्तम् इति वा चरति, न रूपं सप्रणिहितम् इति वा चरति न रूपम् अप्रणिहितम् इति वा चरति, न वेदना शून्या इति वा चरति न वेदना अशून्या इति वा चरति, न वेदना सनिमित्ता इति वा चरति न वेदना अनिमित्ता इति वा चरति, न वेदना सप्रणिहिता इति वा चरति न वेदना अप्रणिहिता इति वा चरति, न संज्ञा शून्या इति वा चरति न संज्ञा अशून्या इति वा चरति, न संज्ञा सनिमित्ता इति वा चरति न संज्ञा अनिमित्ता इति वा चरति, न संज्ञा सप्रणिहिता इति वा चरति न संज्ञा अप्रणिहिता इति वा चरति, न संस्काराः शून्या इति वा चरति न संस्कारा अशून्या इति वा चरति, न संस्काराः सनिमित्ता इति वा चरति न संस्कारा अनिमित्ता इति (psp1-1: 71) वा चरति, न संस्काराः सप्रणिहिता इति वा चरति न संस्कारा अप्रणिहिता इति वा चरति, न विज्ञानं शून्यम् इति वा चरति न विज्ञानम् अशून्यम् इति वा चरति, न विज्ञानं सनिमित्तम् इति वा चरति न विज्ञानम् अनिमित्तम् इति वा चरति, न विज्ञानं सप्रणिहितम् इति वा चरति न विज्ञानम् अप्रणिहितम् इति वा चरति, य एवं चरति स प्रज्ञापारमितायां चरतीति नोपैति न चरतीति नोपैति, चरति च न चरति चेति नोपैति, नैव चरति न चरतीति नोपैति, एवं चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न शीलपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न क्षान्तिपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न वीर्यपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न ध्यानपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न प्रज्ञापारमितायाः कृतशः प्रज्ञापारमितायां चरति, नाविनिवर्तनीयभूमेः कृतशः प्रज्ञापारमितायां चरति, न सत्त्वपरिपाकहेतोः कृतशः प्रज्ञापारमितायां चरति, न बुद्धक्षेत्रपरिशुद्धिहेतोः कृतशः प्रज्ञापारमितायां चरति, न दशानां तथागतबलानां कृतशः प्रज्ञापारमितायां चरति, न चतुर्णां वैशारद्यानां कृतशः प्रज्ञापारमितायां चरति, न चतसृणां प्रतिसंविदां कृतशः प्रज्ञापारमितायां चरति, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां कृतशः प्रज्ञापारमितायां चरति, नाध्यात्मशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न बहिर्धाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाध्यात्मबहिर्धाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न शून्यताशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न महाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न परमार्थशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न संस्कृतशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नासंस्कृतशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नात्यन्तशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानवराग्रशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानवकारशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न प्रकृतिशून्यतायाः कृतशः (psp1-1: 72)
प्रज्ञापारमितायां चरति, न सर्वधर्मशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न स्वलक्षणशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानुपलम्भशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाभावस्वभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न भावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न स्वभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न परभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न तथतायाः कृतशः प्रज्ञापारमितायां चरति, न धर्मधातोः कृतशः प्रज्ञापारमितायां चरति, न भूतकोटेः कृतशः प्रज्ञापारमितायां चरति, तत् कस्य हेतोः? न हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य संभेदं समनुपश्यति. एवं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दिव्यस्य चक्षुषः कृतशः प्रज्ञापारमितायां चरति, न दिव्यस्य श्रोत्रस्य कृतशः प्रज्ञापारमितायां चरति, न परचित्तज्ञानस्य कृतशः प्रज्ञापारमितायां चरति, न पूर्वनिवासानुस्मृतेः कृतशः प्रज्ञापारमितायां चरति, न ऋद्धिविधेः कृतशः प्रज्ञापारमितायां चरति, तत् कस्य हेतोः? तथा हि प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् एव न समनुपश्यति, कुत एव बोधिसत्त्वं कुत एव सर्वाकारं सर्वाभिज्ञाः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, अहं दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं (psp1-1: 73) दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दां श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दां श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा पूर्वदक्षिनस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु (psp1-1: 74) सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयन् युक्त इति वक्तव्यः.
एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मारः पापीयान् अवतारं न लभते, सर्वे चास्यान्ये ऽपि लौकिका ये केचित् क्लेशास् ते सर्वे दलिता भवन्ति.
ये ऽपि ते शारिपुत्र पूर्वस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
ये ऽपि ते शारिपुत्र दक्षिणस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका, ये च प्रत्येकबुद्धा, ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
ये ऽपि ते शारिपुत्र पश्चिमायां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः (psp1-1: 75) परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
ये ऽपि ते शारिपुत्र उत्तरस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं (psp1-1: 76) बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
ये ऽपि ते शारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
ये ऽपि ते शारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
ये ऽपि ते शारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिश्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
ये ऽपि ते शारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिश्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
ये ऽपि ते शारिपुत्र अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च (psp1-1: 77) देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति,
ये ऽपि ते शारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति,
ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, अल्पकृच्छ्रेण धारणीमुखानि समाधिमुखानि चामुखीभवन्ति सर्वोपपत्त्यायतनेषु च तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति ननु कदाचिद् बुद्धैर् भगवद्भिर् विरहितो भवति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य इति, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, अस्ति स कश्चिद् धर्मो यो धर्मैः सह संयुज्यते वा विसंयुज्यते वा.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, कञ्चिद् अहं क्षिप्रतरं धर्मधातुम् अभिसंबुध्येयं वा न चाभिसंबुध्येयं, तत् कस्य हेतोः? न हि धर्मधातुर् धर्मधातुनाभिसंबुध्यते, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न किञ्चिद् धर्मधातोर् व्यतिरिक्तं समनुपश्यति, नापि धर्मधातोर् धर्मनानाकरणं करोति, नाप्य् अस्यैवं भवति, अयं धर्मधातुर् एवं प्रतिविध्यते न वा प्रतिविध्यत इति, तथा हि न स कञ्चिद् धर्मं समनुपश्यति येन धर्मेण तां धर्मतां प्रतिविध्येद् इति, तथा हि स न धर्मधातुं शून्यम् इति योजयति नाशून्यम् इति योजयति, एवं हि (psp1-1: 78) शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षुर्धातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयन्ति, न रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति, न चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना योजयति.
न श्रोत्रधातुं शून्यतया योजयति न शून्यतां श्रोत्रधातुना योजयति, न शब्दधातुं शून्यतया योजयति न शून्यतां शब्दधातुना योजयन्ति, न श्रोत्रविज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयति.
न घ्राणधातुं शून्यतया योजयति न शून्यतां घ्राणधातुना योजयन्ति, न गन्धधातुं शून्यतया योजयति न शून्यतां गन्धधातुना योजयति, न घ्राणविज्ञानधातुं शून्यतया योजयति न शून्यतां घ्राणविज्ञानधातुना योजयति.
न जिह्वाधातुं शून्यतया योजयति न शून्यतां जिह्वाधातुना योजयन्ति, न रसधातुं शून्यतया योजयति न शून्यतां रसधातुना योजयति, न जिह्वाविज्ञानधातुं शून्यतया योजयति न शून्यतां जिह्वाविज्ञानधातुना योजयति.
न कायधातुं शून्यतया योजयति न शून्यतां कायधातुना योजयति, न स्प्रष्टव्यधातुं शून्यतया योजयति न शून्यतां स्प्रष्टव्यधातुना योजयति, न कायविज्ञानधातुं शून्यतया योजयति न शून्यतां कायविज्ञानधातुना योजयति.
न मनोधातुं शून्यतया योजयति न शून्यतां मनोधातुना योजयन्ति, न धर्मधातुं शून्यतया योजयति न शून्यतां धर्मधातुना योजयति, न मनोविज्ञानधातुं शून्यतया योजयति न शून्यतां मनोविज्ञानधातुना योजयति. तत् कस्य हेतोः? एष हि शारिपुत्र परमो योगो बोधिसत्त्वस्य महासत्त्वस्य यद् उत शून्यतायोगः, शून्यतायां शारिपुत्र चरन् बोधिसत्त्वो महासत्त्वो न श्रावकप्रत्येकबुद्धभूमौ पतति बुद्धक्षेत्रं परिशोधयति सत्त्वान् परिपाचयति क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
ये केचिच् छारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य योगास् तेषां प्रज्ञापारमितायोगो (psp1-1: 79) ऽग्र आख्यायते श्रेष्ठ आख्यायते ज्येष्ठ आख्यायते वरः प्रवर उत्तमो ऽनुत्तमो निरुत्तमो ऽसमो ऽसमसमः प्रणीत आख्यायते. तत् कस्य हेतोः? निरुत्तमो ह्य् एषः शारिपुत्र योगो यद् उत प्रज्ञापारमितायोगः शून्यतायोग आनिमित्तयोगो ऽप्रणिहितयोगः, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वो व्याकृत इति धारयितव्यः, आसन्नीभूतो व्याकरणस्य.
एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं करिष्यति, न चास्यैवं भविष्यति, मां बुद्धा भगवन्तो व्याकरिष्यन्तीति, अहम् आसन्नीभूतो व्याकरणस्येति, अहं बुद्धक्षेत्रं परिशोधयिष्यामीति, अहं सत्त्वान् परिपाचयिष्यामीति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यामीति. तत् कस्य हेतोः? तथा हि स धर्मधातुं न विविक्तीकरोति, न च धर्मधातोर् अन्यधर्मं समनुपश्यति, यः प्रज्ञापारमितायां चरेत्, यो वा बुद्धैर् भगवद्भिर् व्याक्रियेत अनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न सत्त्वसंज्ञोत्पद्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सत्त्वो नोत्पद्यते न निरूध्यते, अनुत्पादानिरोधधर्मत्वात्, यस्य च नोत्पादो न निरोधः स कथं प्रज्ञापारमितायां चरिष्यति. एवं चरन् बोधिसत्त्वो महासत्त्वः सत्त्वानुत्पादतया प्रज्ञापारमितायां चरति, सत्त्वशून्यतया प्रज्ञापारमितायां चरति, सत्त्वानुपलब्ध्या प्रज्ञापारमितायां चरति, सत्त्वविविक्ततया प्रज्ञापारमितायां चरति.
एवं हि शारिपुत्र बोधिसत्त्वानां महासत्त्वानां परमो योगो यद् उत शून्यतायोगः सर्वान् अन्यान् योगान् अभिभूयावतिष्ठते, अत्र हि शारिपुत्र योगे चरन् बोधिसत्त्वो महासत्त्वो महाकरुणाम् अभिनिर्हरति, महामैत्रीम् अभिनिर्हरति, न च मात्सर्यचित्तम् उत्पादयति, न दौःशील्यचित्तम् उत्पादयति, न व्यापादचित्तम् उत्पादयति, न कुशीदचित्तम् उत्पादयति, न विक्षिप्तचित्तम् उत्पादयति, न दौष्प्रज्ञाचित्तम् उत्पादयति.
इति धर्मरत्नाववादः
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स कुतश् च्युत इहोपपद्यते, इतो वा च्युतः कुत्रोपपत्स्यते?
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स इतश् च्युत इहैव बुद्धक्षेत्रे उपपद्यते, अन्येभ्यो वा बुद्धक्षेत्रेभ्यश् च्युतस् तुषितेभ्यो वा देवेभ्यश् च्युत इहोपपद्यते.
इति बोधिसत्त्वो ऽष्टमकः
तत्र शारिपुत्र यो ऽयं बोधिसत्त्वो महासत्त्वो मनुष्येभ्य एव च्युत्वा मनुष्याणाम् एव सभागतायाम् उपपद्यते, तस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा धन्वानीन्द्रियाणि भवन्ति, न च क्षिप्रं प्रज्ञापारमितायोगं समापद्यते, न चास्य धारणीमुखम् अभिमुखीभवति न च समाधिमुखम्,
यत् पुनः शारिपुत्र एवं वदसि, यो भगवन् बोधिसत्त्वो महासत्त्वैमं प्रज्ञापारमितायोगं समापद्यते स इतश् च्युतः कुत्रोपपद्यत इति, यः शारिपुत्र बोधिसत्त्वो महासत्त्व इमं प्रज्ञापारमितायोगं समापद्यते, स इतो बुद्धक्षेत्राच् च्युतः बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, तत्र बुद्धक्षेत्रे बुद्धान् भगवत आरागयिष्यति, न कदाचिद् बुद्धविरहितो भविष्यति.
इति बोधिसत्त्वश्रद्धानुसारी
यः पुनः शारिपुत्रायं बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश् च्युत इहोपपद्यते तस्य तीक्ष्णानीन्द्रियाणि भवन्ति, स क्षिप्रम् इमं योगम् आपद्यते, यद् उत प्रज्ञापारमितायोगम्, तस्य जातिव्यतिवृत्तस्याप्य् अमी गम्भीरगम्भीरा धर्मा अभिमुखीभवन्ति, स पश्चात् प्रज्ञापारमितायोगं समापद्यते, यत्र यत्र बुद्धक्षेत्रे उपपद्यते तत्र तत्र तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यति.
यः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः तुषितेभ्यो देवेभ्यश् च्युत्वा इहोपपन्नो भवति तस्यापि पटुतराणीन्द्रियाणि भवन्ति, अविप्रमुषिताः षट् पारमिताः सर्वधारणीसमाधिमुखानि चाभिमुखीभवन्ति.
इति बोधिसत्त्वधर्मानुसारी
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो घटमाना व्यायच्छन्तः सत्त्वपरिपाकायोपायकौशल्यबलेन स्रोतआपत्तिफलं साक्षात्कुर्वन्ति, न च तेन मन्यन्ते.
इति स्रोतआपन्नः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा अनुपायकुशला ये चत्वारि ध्यानानि निष्पादयन्ति पारमितासु च चरन्ति, तेन च ध्यानलाभेन दीर्घायुष्केषु देवेषूपपद्यन्ते, सचेत् ततश् च्युत्वा मनुष्येषु देवेषु चोपपद्यन्ते, बुद्धांश् च भगवत आरागयिष्यन्ति, तेषाम् अपि धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ध्यानानि च समापद्यन्ते प्रज्ञापारमितायां च चरन्ति, ते चानुपायकौशल्येन ध्यानान्य् उत्सृज्य कामधाताव् उपपद्यन्ते, तेषाम् अपि शारिपुत्र बोधिसत्त्वानां महासत्त्वानां धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि.
इति द्वितीयतृतीयफलप्रतिपन्नकः श्रद्धाधिमुक्तः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानान्य् उत्पाद्य चत्वार्य् अप्रमाणानि समापद्यन्ते, चतस्र आरूप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यन्ते, महाकारुणिका उपायकौशल्येन चोपपद्यन्ते, न ध्यानवशेन नाप्रमाणवशेन नारूप्यसमापत्तिवशेन तत्र चोपपद्यन्ते यत्र तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यन्ति, ते पुनः प्रज्ञापारमिताविहारेणाविरहिता इहैव भद्रकल्पे अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
इति द्वितीयतृतीयफलप्रतिपन्नको दृष्टिप्राप्तः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा एकजातिप्रतिबद्धा ये प्रज्ञापारमितायां चरन्त उपायकौशल्येन चत्वारि ध्यानानि समापद्यन्ते, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति, शून्यतासमाधिं समापद्यन्ते, आनिमित्तसमाधिं समापद्यन्ते, अप्रणिहितसमाधिं समापद्यन्ते, न च तेषां वशेन गच्छन्ति संमुखीभूतांश् (psp1-1: 82) च बुद्धान् भगवत आरागयित्वा तत्र ब्रह्मचर्यं चरित्वा पुनर् एव तुषितानां सभागतायै उपपद्यन्ते, ते तत्र यावद् आयुस् तिष्ठन्ति, ते तत्र यावद् आयुः स्थित्वा अहीनेन्द्रियाः स्मृतिमन्तः संप्रजानाना अनेकैर् देवकोटीनियुतशतसहस्रैः परिवृताः पुरस्कृता इहोपपत्तिं दर्शयित्वा नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इति सकृदागामी
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनो ये न कामधातौ न रूपधातौ नारूप्यधाताव् उपपद्यन्ते, अपि तु बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तः.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति येषु बुद्धक्षेत्रेषु न श्रावकप्रत्येकबुद्धयानस्य प्रज्ञप्तिर् अप्य् अस्ति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति येषु बुद्धक्षेत्रेष्व् अमितम् आयुः.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनः ये लोकधातोर् लोकधातुं संक्रामन्ति, ते तत्रोपसंक्रम्य यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दस् तत्रावस्थिताः बुद्धशब्दं च धर्मशब्दं संघशब्दं च सत्त्वानां संश्रावयन्ति, त्रयाणां च रत्नानां वर्णं भाषन्ते, ते तेन बुद्धशब्देन धर्मशब्देन संघशब्देन ततश् च्युता यत्र यत्र बुद्धा भगवन्तो भवन्ति ते तत्र तत्रोपपद्यन्ते.
इत्य् अनागामी
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानान्य् उत्पद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः, ते चोपायकौशल्येन समन्वागताः समाधिसमापत्तिभ्यो निवृत्य कामधाताव् उपपद्यन्ते, क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु (psp1-1: 83) वोपपद्यन्ते सत्त्वपरिपाकाय.
इत्य् अयं मनुष्यकुलंकुलः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानानि समापद्यन्ते चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः समापद्यन्ते, ते ऽप्य् उपायकौशल्यबलेन ध्यानसमाधिसमापत्तिवशेन वा चातुर्महाराजकायिकानाम् अपि देवानां सभागतायै उपपद्यन्ते, त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां सभागतायै उपपद्यन्ते, ते तत्र स्थित्वा सत्त्वान् परिपाचयन्ति, बुद्धक्षेत्रं च परिशोधयन्ति, बुद्धांश् च भगवत आरागयन्ति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानानि उत्पद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः, ते ततश् च्युताः सन्त उपायकौशल्येन ब्रह्मलोके यावद् अकनिष्ठे उपपद्यन्ते, ते तत्र भवन्ति ब्रह्माणो महाब्रह्माणस् तेषु ब्रह्मभवनेषु तिष्ठन्ति, ते तत्र स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, ये च तेषु बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तांस् तथागतान् धर्मचक्रप्रवर्तनायाध्येषयन्ति.
इति देवकुलंकुलः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये चतुर्णां ध्यानानां लाभिनो यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लाभिनस् तेषां चानुबोधाय चरन्ति, चतुर्णाम् आर्यसत्यानां लाभिनो न च तानि प्रतिविध्यन्ति, ते पुनर् बोधिसत्त्वा महासत्त्वा एकजातिप्रतिबद्धा वेदितव्याः.
इत्य् एकवीचिकः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादाय चतुर्णां ध्यानानां लाभिनो भवन्ति, चतुर्णाम् अप्रमाणानां लाभिनो भवन्ति, चतसृणाम् आरूप्यसमापत्तीनां लाभिनो भवन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति, बलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् प्रतिलभन्ते, उपायकौशल्येन ब्रह्मकायिकेषु देवेषु यावद् अकनिष्ठेषु देवेषूपपद्यन्ते, तत्र चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अर्थं कुर्वन्ति.
इत्य् अन्तरा परिनिर्वायी
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादेनैवानुत्तरां (psp1-1: 84) सम्यक्संबोधिम् अभिसंबुध्यन्ते, धर्मचक्रं प्रवर्तयन्त्य् अप्रमेयाणाम् असंख्येयानां सत्त्वानां चार्थं कृत्वा निरूपधिशेषे निर्वाणधातौ परिनिर्वान्ति, तेषां परिनिर्वृतानां कल्पं वा कल्पावशेषं वा सद्धर्मस् तिष्ठति.
इत्य् उपपद्यपरिनिर्वायी
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्पारमितासु चरन्तो लोकधातोर् लोकधातुं संक्रामन्ति, तत्र च सत्त्वान् बोधये प्रतिष्ठापयिष्यन्ति, ते नित्यम् उद्युक्ताः सत्त्वानां कृतशो न कदाचिद् अनर्थसंहितां वाचं भाषन्ते, सत्त्वानां कृतशो नित्यम् उद्युक्ता बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, ते ऽपि बोधिसत्त्वा महासत्त्वाः सत्त्वानां कृतशो ऽसंख्येयैर् अप्रमेयैः कल्पैर् नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इत्य् अभिसंस्कारपरिनिर्वायी
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादेनैव बोधिसत्त्वन्यामम् अवक्रामन्ति, अविनिवर्तनीयभूमौ वावतिष्ठन्ते, सर्वबुद्धधर्मान् वा समुदानयन्ति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादेनैव प्रज्ञापारमितायां योगम् आपद्यन्ते, ते ऽनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं बुद्धक्षेत्रेण बुद्धक्षेत्रं स्वबुद्धक्षेत्रपरिशोधनाय संक्रामन्ति, नानाबुद्धक्षेत्रेषु चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इत्य् अनभिसंस्कारपरिनिर्वायी
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु चरन्तश् चक्रवर्तिनो भूत्वा दानपारमितां पुरस्कृत्य सर्वसत्त्वानां सर्वसुखोपधानान्य् उपसंहरिष्यन्ति, अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यः, एवं गन्धमाल्यविलेपनचूर्णधूपशयनासनोपाश्रयगृहधनधान्यमणिमुक्तासुवर्णरूप्यप्रवाडाभरणानि जीवितोपकरणानि उपसंहरिष्यन्ति, यावद् दशकुशलकर्मपथेषु सत्त्वान् प्रतिष्ठाप्य ब्रह्मकायिकेषु यावद् अकनिष्ठेषु देवेषूपपद्यमाना नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इत्य् अकनिष्ठपरमः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये चत्वारि ध्यानानि निष्पाद्य ध्यानेभ्यः परिहीणाः प्रथमं ध्यानम् आसाद्य ब्रह्मकायिकेषु देवेषूपपद्यन्ते, ते पुनर् ध्यानानि निष्पाद्याकनिष्ठेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इति प्लुतः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ब्रह्मलोकाच् च्युत्वा शुद्धावासेषूपपद्यन्ते, ते शुद्धावासानाम् एकं वा द्वे वा स्थाने विलङ्घ्याकनिष्ठेषु देवेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इत्य् अर्धप्लुतः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये तथागतसदृशम् आत्मभावम् अभिनिर्माय तुषितभवनं परिशोध्य ब्रह्मकायिकेषु देवेषु यावद् अकनिष्ठेषु देवेषूपपद्योपायकौशल्येन नैरयिकाणां सत्त्वानां धर्मं देशयन्ति, तिर्यग्योनिगतानां सत्त्वानां धर्मं देशयन्ति, यामलौकिकानां सत्त्वानां धर्मं देशयन्ति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा यादृशस् तथागतकायस् तादृशम् आत्मभावम् अभिनिर्माय गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वानां धर्मं देशयन्ति, तथागतांश् च पर्युपासते, बुद्धक्षेत्रं च निष्पादयन्ति, धर्मं च शृण्वन्ति, एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् ऊर्ध्वम् अधः सर्वासु दशसु दिक्ष्व् एकैकस्यां अदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति, बुद्धक्षेत्राणि च निष्पादयन्ति, बुद्धांश् च पर्युपासते, धर्मं च शृण्वन्ति, ते तेभ्यो बुद्धक्षेत्रेभ्यो निर्मितानि निर्माय श्रेष्ठानि विशिष्टान्य् अनुत्तराणि बुद्धक्षेत्राणि निष्पादयन्ति, एकजातिप्रतिबद्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र तत्र बुद्धक्षेत्रेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इति सर्वस्थानच्युतः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ध्यानारूप्यसमापत्तीर् आसादयन्तो ब्रह्मकायिकेषु यावच् छुभकृत्स्नेषु देवेषूपपद्यन्ते, तत्र आकाशानन्त्यायतने यावद् भवाग्रे उपपद्यन्ते, ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते.
इति भवाग्रपरमः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ध्यानारूप्यसमापत्तीनां लाभिनस् त आकाशानन्त्यायतने यावद् भवाग्रे उपपद्यन्ते, ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते.
इति रूपवीतरागः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्पारमितासु चरन्तो द्वात्रिंशन् महापुरुषलक्षणालंकृतमूर्तयो निरुत्तरैः परिशुद्धैर् इन्द्रियैः समन्वागता भवन्ति, ते तैः परिशुद्धैर् इन्द्रियैः समन्वागता बहुजनस्य प्रियाश् च भवन्ति, मनआपाश् च ये पुनः सत्त्वास् तान् बोधिसत्त्वान् महासत्त्वान् पश्यन्ति, ते तेनैव चित्तप्रसादेनानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति, एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन कायपरिशुद्धये शिक्षितव्यं वाक्परिशुद्धये शिक्षितव्यं मनःपरिशुद्धये शिक्षितव्यम्.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु चरन्त उत्तप्तानीन्द्रियाणि प्रतिलभन्ते, ते तैर् उत्तप्तैर् इन्द्रियैर् नात्मानम् उत्कर्षयन्ति न परान् पंसयन्ति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय दानपारमितायां शीलपारमितायां स्थित्वा नैवं कदाचिद् अपायदुर्गतिविनिपातेषूपपद्यन्ते यावद् अविनिवर्तनीयभूमिम् अनुप्राप्नुवन्ति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय न जातु दशकुशलान् कर्मपथान् उत्सृजन्ति, यावद् अविनिवर्तनीयां भूमिम् अनुप्राप्नुवन्ति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये दानपारमितायां शीलपारमितायां स्थित्वा राजानश् चक्रवर्तिनो भूत्वा दानं सत्त्वेभ्यो दत्त्वा तान् एव दशकुशलकर्मपथेषु प्रतिष्ठापयन्ति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये दानपारमितायां शीलपारमितायां स्थित्वा अनेकानि चक्रवर्तिराज्यशतानि परिगृह्णन्ति, (psp1-1: 87) अनेकानि चक्रवर्तिराज्यशतसहस्राणि परिगृह्णन्ति, तत्र स्थित्वा अनेकानि च बुद्धकोटीनियुतशतसहस्राणि आरागयन्ति, तांश् च बुद्धान् भगवतः सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति, ततो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इति दृष्टधर्मपरिनिर्वायी
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्तश् चतुर्णां ध्यानानां लाभिनश् चतसृणाम् आरूप्यसमापत्तीनां लाभिनस् ते ताभिर् विक्रीडन्तः प्रथमं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय द्वितीयं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय तृतीयं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय चतुर्थं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय आकाशानन्त्यायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय विज्ञानानन्त्यायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय आकिञ्चन्यायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते.
एवं हि शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपायकौशल्येनावस्कन्दकेन समाधिं समापद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इति कायसाक्षी
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा सत्त्वानां बुद्धधर्मावभासं कुर्वन्ति, आत्मनापि बुद्धधर्मावभासेनाविरहिता भवन्ति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इत्य् अर्हत्त्वप्रतिपन्नकः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ऽबुद्धकेषु लोकधातुषु अपगतश्रावकेषु प्रत्येकां बोधिम् अभिसंबुध्यन्ते, त उपायकौशल्येन (psp1-1: 88) बहूनि प्राणिकोटीनियुतशतसहस्राणि त्रिषु यानेषु परिपाच्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इति प्रत्येकबुद्धः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां लाभिनो दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्माणां लाभिनः, न च स्रोतआपत्तिफलं प्राप्नुवन्ति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वं प्राप्नुवन्ति, न प्रत्येकबुद्धत्वं प्राप्नुवन्ति, ते प्रज्ञापारमितायां चरन्त उपायकौशल्येन सर्वसत्त्वान् मार्गे ऽवतार्य विशोध्य स्रोतआपत्तिफलं प्रापयन्ति, सकृदागामिफलं प्रापयन्ति, अनागामिफलं प्रापयन्ति, अर्हत्त्वं प्रापयन्ति, प्रत्येकां बोधिं प्रापयन्ति, स्वयम् असाक्षात्कुर्वन्तः परांस् तत्र प्रतिष्ठापयन्ति.
इति श्रावकप्रत्येकबुद्धमार्गलभ्यानि फलानि
यच् छारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां ज्ञानं च प्रहाणं च सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः.
इति स्वयम् अप्राप्ते धर्मे परप्रतिष्ठापनम्
अमी शारिपुत्र बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया वेदितव्याः, ये ऽनया प्रज्ञापारमितया विहरन्ति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा तुषितभवनं विशोधयन्ति, ते खलु पुनर् बोधिसत्त्वा महासत्त्वा भद्रकल्पिका वेदितव्याः, अमी शारिपुत्रावैवर्तिका बोधिसत्त्वा महासत्त्वा येषाम् अयम् उदयो बुद्धधर्मेषु तस्मात् तर्हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सावद्यस्य कायवाङ्मनस्कर्मणो ऽवकाशो न दातव्यः कायवाङ्मनस्कर्मपरिशुद्धये च शिक्षितव्यम्.
इतीदम् अवैवर्तिकबोधिसत्त्वसंघपरिदीपनम्
इति संघरत्नाववादः
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमद् भगवन् सावद्यं कायकर्म सावद्यं वाक्कर्म सावद्यं मनस्कर्म?
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, कतमः स कायः, येन कायेन कायकर्म समारभेय, कतमा सा वाग्, यया वाक्कर्म समारभेय, कतमत् तन् मनः, येन मनस्कर्म समारभेय? एवम् उपपरीक्षमाणः कायम् उपलभते, वाचम् उपलभते, मन उपलभते, अयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य कायवाङ्मनस्कर्मसमारम्भः सावद्यः.
न खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते, येन कायेन वाचा मनसा मात्सर्यदौःशील्यव्यापादकौसीद्यविक्षेपदौष्प्रज्ञचित्तम् उत्पादयेत्. अस्थानम् एतच् छारिपुत्रानवकाशो यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायवाङ्मनोदौष्ठुल्यम् उत्पादयेत्, नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् कायदौष्ठुल्यं शोधयति, वाग्दौष्ठुल्यं शोधयति, मनोदौष्ठुल्यं शोधयति.
शारिपुत्र आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति?
भगवान् आह: यतः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति, सचेत् पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय दश कुशलाः कर्मपथा अनुवर्तन्ते, न च श्रावकचित्तं प्रत्येकबुद्धचित्तं चोत्पादयति, सततसमितं चास्य सर्वसत्त्वेषु महाकारुणाचित्तं प्रत्युपस्थितं भवति. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य कायवाङ्मनोदौष्ठुल्यं शुद्धम् इति वदामि.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्तो बोधिमार्गं परिशोधयन्तो दानपारमितायां चरन्ति, शीलपारमितायां चरन्ति, क्षान्तिपारमितायां चरन्ति, वीर्यपारमितायां चरन्ति, ध्यानपारमितायां चरन्ति, प्रज्ञापारमितायां चरन्ति.
शारिपुत्र आह: कतमो भगवन् बोधिसत्त्वानां महासत्त्वानां (psp1-1: 90) बोधिमार्गः?
भगवान् आह: यदा शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते, न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् उपलभते, न प्रज्ञापारमिताम् उपलभते, न श्रावकम् उपलभते, न प्रत्येकबुद्धम् उपलभते, न बोधिसत्त्वम् उपलभते, न बुद्धम् उपलभते. अयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यद् उत सर्वधर्मानुपलम्भो ऽनेन मार्गेण गच्छन् बोधिसत्त्वो महसत्त्वः षट्सु पारमितासु चरन् न शक्यो ऽवमर्दितुम्.
इत्य् अशक्त्यववादः
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् न रूपं मन्यते, न वेदनां मन्यते, न संज्ञां मन्यते, न संस्कारान् मन्यते, न विज्ञनं मन्यते, न पृथिवीधातुं मन्यते, नाब्धातुं मन्यते, न तेजोधतुं मन्यते, न वायुधातुं मन्यते, नाकाशधातुं मन्यते, न विज्ञानधतुं मन्यते, न चक्षुर्धातुं मन्यते, न रूपधातुं मन्यते, न चक्षुर्विज्ञानधातुं मन्यते, न श्रोत्रधातुं मन्यते, न शब्दधातुं मन्यते, न श्रोत्रविज्ञानधातुं मन्यते, न घ्राणधातुं मन्यते, न गन्धधातुं मन्यते, न घ्राणविज्ञानधातुं मन्यते, न जिह्वाधातुं मन्यते, न रसधातुं मन्यते, न जिह्वाविज्ञानधातुं मन्यते, न कायधातुं मन्यते, न स्प्रष्टव्यधातुं मन्यते, न कायविज्ञानधातुं मन्यते, न मनोधातुं मन्यते, न धर्मधातुं मन्यते, न मनोविज्ञानधातुं मन्यते, न स्मृत्युपस्थानानि मन्यते, न सम्यक्प्रहाणानि मन्यते, नर्द्धिपादान् मन्यते, नेन्द्रियाणि मन्यते, न बलानि मन्यते, न बोध्यङ्गानि मन्यते, न मार्गं मन्यते, न दानपारमितां मन्यते, न शीलपारमितां मन्यते, न क्षान्तिपारमितां मन्यते, न वीर्यपारमितां मन्यते, न ध्यानपारमितां मन्यते, न प्रज्ञापारमितां मन्यते, न वैशारद्यानि मन्यते, न प्रतिसंविदो मन्यते, न दशतथागतबलानि मन्यते, नाष्टादशावेणिकान् बुद्धधर्मान् मन्यते, न स्रोतआपत्तिफलं मन्यते, न सकृदागमिफलं मन्यते, नानागामिफलं मन्यते, नार्हत्त्वं मन्यते, न प्रत्येकबोधिं मन्यते, न (psp1-1: 91) बोधिसत्त्वं महासत्त्वं मन्यते, नानुत्तरां सम्यक्संबोधिं मन्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् वर्धते, न च केनचिद् अवमृद्यते.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां स्थित्वा सर्वज्ञज्ञानं परिपूरयन्ति, येन ज्ञानेन समन्वागतानां सर्वाण्य् अपायद्वाराणि पिथितानि भवन्ति, नापि मनुष्यदारिद्र्यविपत्तिम् अनुभवन्ति, नापि तादृशम् आत्मभावं परिगृह्णन्ति, येन निन्द्या भवन्ति सदेवकस्य लोकस्य.
इत्य् अपरिश्रान्त्यववादः
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञज्ञानम्?
भगवान् आह: येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां च धर्मदेशनां शृणोति, संघं च पर्युपास्ते, बुद्धक्षेत्रविशुद्धिं च पश्यति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिशि गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति, तेषां च धर्मदेशनां शृणोति, संघं च पर्युपास्ते, बुद्धक्षेत्रविशुद्धिं च पश्यति,
येन ज्ञानेन समन्वागतानां बोधिसत्त्वानां महासत्त्वानां न बुद्धसंज्ञा भवति, न बोधिसंज्ञा भवति, न श्रावकसंज्ञा भवति, न प्रत्येकबुद्धसंज्ञा भवति, नात्मसंज्ञा भवति, न परसंज्ञा भवति, न बुद्धक्षेत्रसंज्ञा भवति, येन ज्ञानेन समन्वागतो बोधिसत्त्वो महसत्त्वो दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, न च पारमितामुपलभते,
येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः स्मृत्युपस्थानानि भावयति, न च स्मृत्युपस्थानान्य् उपलभते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति, न च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् उपलभते, बलवैशारद्यावेणिकान् (psp1-1: 92) बुद्धधर्मान् समुदानयति, न च बलवैशारद्यावेणिकान् बुद्धधर्मान् उपलभते. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य ज्ञानं, येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मांश् च परिपूरयति, न च सर्वबुद्धधर्मांश् च मन्यते.
इति प्रतिपत्संपरिग्रहाववादः
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये पञ्चचक्षूंषि प्रतिलभन्ते परिशोधयन्ति, कतमानि पञ्च यद् उत मांसचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुः.
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं मांसचक्षुः?
भगवान् आह: अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुः, यद् योजनशतं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यद् योजनशतद्वयं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यज् जंबुद्वीपं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यच् चातुर्द्वीपकं लोकधातुं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत् साहस्रं लोकधातुं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यद् द्विसाहस्रं लोकधातुं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत् त्रिसाहस्रं महासाहस्रं लोकधातुं पश्यति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं मांसचक्षुः.
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं दिव्यचक्षुः?
भगवान् आह: यच् छारिपुत्र चातुर्महाराजकायिकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् त्रयस्त्रिंशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् यामानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् तुषितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यन् निर्माणरतीनां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् परनिर्मितवशवर्तिनां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् ब्रह्मपार्षद्यानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् ब्रह्मपुरोहितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यन् महाब्रह्मणां देवानां (psp1-1: 93) दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् परीत्ताभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अप्रमाणाभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् आभास्वराणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यच् छुभकृत्स्नानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अनब्रकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् पुण्यप्रसवानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् बृहत्फलानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् असंज्ञिसत्त्वानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यच् छुद्धाभासानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अस्पृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अतपानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् सुदृशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् सुदर्शानानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अकनिष्ठानां देवानां दिव्यं चक्षुस् तद्बोधिसत्त्वः प्रजानीते.
यत् पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तच् चातुर्महाराजकायिका देवा न प्रजानन्ति, न त्रयस्त्रिंशा देवाः प्रजानन्ति, न यामा देवाः प्रजानन्ति, न तुषिता देवाः प्रजानन्ति, न निर्माणरतयो देवाः प्रजानन्ति, न परनिर्मितवशवर्तिनो देवाः प्रजानन्ति, न ब्रह्मपार्षद्या देवाः प्रजानन्ति, न ब्रह्मपुरोहिता देवाः प्रजानन्ति, न महाब्रह्मणो देवाः प्रजानन्ति, न परीत्तभा देवाः प्रजानन्ति, नाप्रमाणाभा देवाः प्रजानन्ति, नाभास्वरा देवाः प्रजानन्ति, न परीत्तशुभा देवाः प्रजानन्ति, नाप्रमाणशुभा देवाः प्रजानन्ति, न शुभकृत्स्ना देवाः प्रजानन्ति, नानभ्रका देवाः प्रजानन्ति, न पुण्यप्रसवा देवाः प्रजानन्ति, न बृहत्फला देवाः प्रजानन्ति, नासंज्ञिसत्त्वा देवाः प्रजानन्ति, न शुद्धावासा देवाः प्रजानन्ति, नास्पृहादेवाः प्रजानन्ति, नातपा देवाः प्रजानन्ति, न सुदृशा देवाः प्रजानन्ति, न सुदर्शना देवाः प्रजानन्ति, यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अकनिष्ठा देवा न प्रजानन्ति.
तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु (psp1-1: 94) लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, तेनैव परिशुद्धेन दिव्येन चक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, अधो दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं दिव्यं चक्षुः.
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः?
भगवान् आह: येन शारिपुत्र प्रज्ञाचक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो न कञ्चिद् धर्मं प्रजानाति, संस्कृतं वा असंस्कृतं वा कुशलं वा अकुशलं वा सावद्यं वा अनवद्यं वा सास्रवं वा अनास्रवं वा संक्लेशं वा निष्क्लेशं वा लौकिकं वा लोकोत्तरं वा संक्लिष्टं वा व्यवदानं वा, येन प्रज्ञाचक्षुषा बोधिसत्त्वेन महासत्त्वेन कश्चिद् धर्मो न दृष्टो न श्रुतो न मतो न विज्ञातः. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः,
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः?
भगवान् आह: इह शारिपुत्र बोधिसत्त्वो महासत्त्वो धर्मचक्षुषैवं जानाति, अयं पुद्गलः श्रद्धानुसारी, अयं पुद्गलो धर्मानुसारी, (psp1-1: 95) अयं पुद्गलः शून्यताविहारी, अयं पुद्गलो ऽनिमित्तविहारी, अयं पुद्गलो ऽप्रणिहितविहारी.
अयं पुद्गलः शून्यताविहारी, अस्य पुद्गलस्य शून्यताविमोक्षमुखेण पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते, पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यति, आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति, विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति, सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति, अयम् उच्यते पुद्गलः स्रोतआपन्नः, स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणाद् अयम् उच्यते पुद्गलो ऽनागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानम् औद्धत्यं च प्रहायायम् उच्यते पुद्गलो ऽर्हन्.
अयं पुद्गलो ऽनिमित्तविहारी, अस्य पुद्गलस्यानिमित्तविमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते, पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यति आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति, विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति, सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति, अयम् उच्यते पुद्गलः स्रोतआपन्नः, स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणाद् अयम् उच्यते पुद्गलो ऽनागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानम् औद्धत्यं च प्रहायायम् उच्यते पुद्गलो ऽर्हन्.
अयं पुद्गलो ऽप्रणिहितविहारी, अस्य पुद्गलस्याप्रणिहितविमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते, पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यति, आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति, विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति, सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति, अयम् उच्यते पुद्गलः स्रोतआपन्नः, स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वादयम् उच्यते पुद्गलः सकृदागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणाद् अयम् उच्यते पुद्गलो ऽनागामी, स (psp1-1: 96) तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानम् औद्धत्यं च प्रहायायम् उच्यते पुद्गलो ऽर्हन्. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति, यत् किञ्चित् समुदयधर्मी सर्वं तन् निरोधधर्मीति प्रजानाति, प्रज्ञापारमितायां चरन् पञ्चेन्द्रियाणि प्राप्नोति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति, अयं बोधिसत्त्वः प्रथमचित्तोत्पादिको यो दानपारमितायां वा चरति, शीलपारमितायां वा चरति, स ततः शुद्धेन्द्रियं प्रतिलभते, वीर्येन्द्रियं च, स उपायकौशल्येन समन्वागतः संचिन्त्यात्मभावं परिगृह्णाति, कुशलमूलोपलम्भश् च भवति, अयं बोधिसत्त्वो ब्राह्मणमहाशालकुलेषूपपत्स्यते, अयं क्षत्रियमहाशालकुलेषूपपत्स्यते, अयं गृहपतिमहाशालकुलेषूपपत्स्यते, अयं चातुर्महाराजकायिकेषु देवेषूपपत्स्यते, अयं त्रयस्त्रिंशेषु देवेषूपपत्स्यते, अयं यामेषु देवेषूपपत्स्यते, अयन् तुषितेषु देवेषूपपत्स्यते, अयं निर्माणरतिषु देवेषूपपत्स्यते, अयं परनिर्मितवशवर्तिषु देवेषूपपत्स्यते, अयं यावद् अकनिष्ठेषु देवेषूपपत्स्यते, स तत्र स्थित्वा सत्त्वान् परिपाचयिष्यति, सर्वसुखोपधानेन च सत्त्वान् प्रत्युपस्थास्यति, बुद्धक्षेत्रं च परिशोधयिश्यति, तथागतांश् चार्हतः सम्यक्संबुद्धान् आरागयिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति, अयं बोधिसत्त्वो महासत्त्वो न निवर्तते यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति, अमी बोधिसत्त्वा महासत्त्वा व्याकृता अनुत्तरायां सम्यक्संबोधौ, अमी बोधिसत्त्वा न व्याकृता, अमी बोधिसत्त्वा अविनिवर्तनीयाः, अमी बोधिसत्त्वा नाविनिवर्तनीयाः, एषां बोधिसत्त्वानाम् अभिज्ञाः परिपूर्णाः, एषां बोधिसत्त्वानां न परिपूर्णाः, अयं बोधिसत्त्वो ऽभिज्ञापरिपूर्णः पूर्वस्यां दिशि यावद् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करोति गुरुकरोति मानयति (psp1-1: 97) पूजयति, अयं बोधिसत्त्वो नाभिज्ञापरिपूर्णो यावन् न पूजयति, अयं बोधिसत्त्वो ऽभिज्ञानां लाभी भविष्यति, अयं बोधिसत्त्वो नाभिज्ञानां लाभी भविष्यति, अस्य बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धक्षेत्रं भविष्यति, अस्य बोधिसत्त्वस्य महासत्त्वस्यापरिशुद्धं बुद्धक्षेत्रं भविष्यति, अनेन बोधिसत्त्वेन सत्त्वाः परिशोधिताः, अनेन बोधिसत्त्वेन सत्त्वा न परिशोधिताः, अस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धा भगवन्तो वर्णं भाषन्ते, अस्य बोधिसत्त्वस्य महासत्त्वस्य न भाषन्ते, अमी बोधिसत्त्वा बुद्धानां भगवताम् आसन्नस्थायिनो भविष्यन्ति, अमी बोधिसत्त्वा महासत्त्वा नासन्नस्थायिनो भविष्यन्ति, अस्य बोधिसत्त्वस्य परिमितम् आयुर् भविष्यति, अस्य बोधिसत्त्वस्यापरिमितम् आयुर् भविष्यति, अस्य बोधिसत्त्वस्य परिमितः संघो भविष्यति, अस्य बोधिसत्त्वस्यापरिमितः संघो भविष्यति, अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य बोधिसत्त्वसंघो भविष्यति, अस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य न बोधिसत्त्वसंघो भविष्यति, अयं बोधिसत्त्वो महासत्त्वो दुष्करचर्यां चरिष्यति, अयं बोधिसत्त्वो महासत्त्वो न दुष्करचर्यां चरिष्यति, अयं बोधिसत्त्वश् चरमभविकः, अयं बोधिसत्त्वो न चरमभविकः, अयं बोधिसत्त्वो बोधिमण्डे निषत्स्यते, अयं बोधिसत्त्वो बोधिमण्डे न निषत्स्यते, अस्य बोधिसत्त्वस्य मारो भविष्यति, अस्य बोधिसत्त्वस्य न मारो भविष्यति. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः.
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धचक्षुः?
भगवान् आह: यच् छारिपुत्र बोधिसत्त्वो महासत्त्वो बोधिचित्तानन्तरं वज्रोपमं समाधिं समापद्य एकचित्तक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति, दशभिस् तथागतबलैः समन्वागतः, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च समन्वागतः, येन च चक्षुषा बोधिसत्त्वेन महासत्त्वेन नास्ति किञ्चिद् अदृष्टं वाश्रुतं (psp1-1: 98) वामतं वाविज्ञातं वा सर्वैर् आकारैः. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धचक्षुः.
एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पञ्चचक्षूंषि शोधयितुकामेन षट्सु पारमितासु योगः करणीयः. तत् कस्य हेतोः? तथा हि शारिपुत्र षट्सु पारमितासु सर्वे कुशला धर्मा अन्तर्गताः सर्वश्रावकधर्माश् च सर्वप्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च, यत् खलु शारिपुत्र सम्यग् वदन्तो वदेयुः सर्वकुशलधर्मसंग्रह इति प्रज्ञापारमितां खलु सम्यग् वदन्तोवदेयुः. तत् कस्य हेतोः? तथा हि शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वासां पारमितानाम्, एषां च पञ्चानां बोधिसत्त्वचक्षुषाम्, एषु च शारिपुत्र पञ्चसु बोधिसत्त्वचक्षुःषु शिक्षित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इति पञ्चचक्षुर् अववादः
अत्र शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञापारमितां भावयति, सो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, पृथिवीम् अपि कम्पयति, एको ऽपि भूत्वा बहुधा भवति, बहुधापि भूत्वा एको भवति, आविर्भावं तिरोभावम् अपि प्रत्यनुभवति, तिरःकुड्यं तिरःप्राकारं तिरःपर्वतम् अप्य् असक्तो गच्छति तद्यथापि नामाकाशे ऽपि क्रामति तद्यथापि नाम पक्षी शकुनिः, पृथिव्याम् अप्य् उन्मज्जनिमज्जं करोति तद्यथापि नामोदके, उदके ऽभिद्यमानो गच्छति तद्यथापि नाम पृथिव्याम्, धूमायत्य् अपि प्रज्जलत्य् अपि तद्यथापि नाम महान् अग्निस्कन्धः, उदकम् अपि कायात् प्रमुञ्चति तद्यथापि नाम महामेघः, इमाव् अपि सूर्याचन्द्रमसाव् एवं महर्द्धिकौ महानुभावौ पाणिना परामृशति परिमार्ष्टि यावद् ब्रह्मलोकाद् अपि कायं वशेन वर्तयति, तया च ऋद्ध्या न मन्यते, तथा हि सताम् ऋद्धिं नोपलभते यया मन्यते तद् अपि न मन्यते येनापि मन्यते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय, स्वभावानुपलब्धिताम् उपादाय, स न ऋद्धिचेतनाम् अप्य् उत्पादयति न ऋद्ध्यभिनिर्हारचेतनां वा अन्यत्र सर्वज्ञता मनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिविध्यभिज्ञासाक्षात्क्रियाज्ञानम् (psp1-1: 99) अभिनिर्हरति.
स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेण शब्दान् शृणोति दिव्यान् मानुष्यकांश् च, न च तेन दिव्येन श्रोत्रेण मन्यते, अहं शब्दान् शृणोमि, तथा हि स तर्न् अपि शब्दं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, स न दिव्यश्रोत्रचेतनाम् अप्य् उत्पादयति, न दिव्यश्रोत्राभिनिर्हारचेतनां वान्यत्र सर्वाकारज्ञतामनस्कारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्राभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
स परसत्त्वानां परपुद्गलानां चेतसैव यथाभूतं प्रजानाति, सरागचित्तं सरागचित्तम् इति यथाभूतं प्रजानाति, विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति, वीतदोषं चित्तं वीतदोषं चित्तम् इति यथाभूतं प्रजानाति, समोहं चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति, वीतमोहं चित्तं वीतमोहं चित्तम् इति यथाभूतं प्रजानाति, सतृष्णं चित्तं सतृष्णं चित्तम् इति यथाभूतं प्रजानाति, वीअततृष्णं चित्तं वीततृष्णं चित्तम् इति यथाभूतं प्रजानाति, सोपादानं चित्तं सोपादानं चित्तम् इति यथाभूतं प्रजानाति, निरूपादानं चित्तं निरूपादानं चित्तम् इति यथाभूतं प्रजानाति, संक्षिप्तं चित्तं संक्षिप्तं चित्तम् इति यथाभूतं प्रजानाति, विक्षिप्तं चित्तं विक्षिप्तं चित्तम् इति यथाभूतं प्रजानाति, परीत्तं चित्तं परीत्तं चित्तम् इति यथाभूतं प्रजानाति, विपुलं चित्तं विपुलं चित्तम् इति यथाभूतं प्रजानाति, महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति, समाहितं चित्तं समाहितं चित्तम् इति यथाभूतं प्रजानाति, असमाहितं चित्तम् असमाहितं चित्तम् इति यथाभूतं प्रजानाति, विविक्तं चित्तं विविक्तं चित्तम् इति यथाभूतं प्रजानाति, अविविक्तं चित्तम् अविविक्तं चित्तम् इति यथाभूतं प्रजानाति, सास्रवं चित्तं सास्रवं चित्तम् इति यथाभूतं प्रजानाति, अनास्रवं चित्तम् अनास्रवं चित्तम् इति यथाभूतं प्रजानाति, साङ्गणं चित्तं साङ्गणं चित्तम् इति यथाभूतं प्रजानाति, अनङ्गणं चित्तम् अनङ्गणं चित्तम् इति यथाभूतं प्रजानाति, सोत्तरं (psp1-1: 100) चित्तं सोत्तरं
चित्तम् इति यथाभूतं प्रजानाति, अनुत्तरं चित्तम् अनुत्तरं चित्तम् इति यथाभूतं प्रजानाति, तेन च न मन्यते, तथा हि तच् चित्तम् अचित्तम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, तद् एव चित्तं नोपलभते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स परचित्तचेतनाम् अप्य् उत्पादयति, न परचित्ताभिनिर्हारचेतनां वान्यत्रसर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वचित्तचरिताभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
पूर्वनिवासानुस्मृतिज्ञानेन स एकाम् अपि जातिम् अनुस्मरति, द्वे तिस्रो यावज् जातिशतसहस्राण्य् अप्य् अनुस्मरति, स एकम् अपि चित्तम् अनुस्मरति यावच् चित्तशतम् अपि, एकम् अपि दिवसं दिवसशतम् अपि, एकम् अपि मासं मासशतम् अपि, एकम् अपि वर्षं वर्षशतम् अपि, एकम् अपि कल्पं कल्पशतम् अपि, अनेकानि अपि कल्पशतान्य् अनेकान्य् अपि कल्पसहस्राण्य् अनेकान्य् अपि कल्पशतसहस्राण्य् अनेकान्य् अपि कल्पकोटिनियुतशतसहस्राणि अनुस्मरति यावत् पूर्वान्तकोटीम् अप्य् अनुस्मरति, अमुत्राहम् आसम् एवंनामा एवंगोत्र एवंजातिर् एवमाहार एवंचिरस्थितिकः, एवमायुष्पर्यन्तः, स ततश् च्युतो ऽमुत्रोपपन्नः, ततश् च्युत इहास्म्य् उपपन्न इति, स एवं साकारं सादृशं सनिर्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति, तेन च पूर्वनिवासानुस्मृत्यभिज्ञानेन न मन्यते, तथा हि तज्ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, स तद् एव ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स पूर्वनिवासानुस्मृतिचेतनाम् अप्य् उत्पादयति, न पूर्वनिवासानुस्मृत्यभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पूर्वनिवासानुस्मृतिसाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्यवमानान् उत्पद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति, अमी भवन्तः सत्त्वाः (psp1-1: 101) कायसुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुचरितेन समन्वागताः, आर्याणाम् अनपवादकाः सम्यग्दृष्टयः तेन कायवाङ्मनःसुचरितेन हेतुना सुगतौ स्वर्गलोक उपपद्यन्ते.
इमे पुनर् भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः, वाग्दुश्चरितेन समन्वागताः, मनोदुश्चरितेन समन्वागताः, आर्याणाम् अपवादकाः मिथ्यादृष्टयस् ते मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते.
इति हि दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण दशदिशि लोके सर्वलोकधातुषु धर्मधातुपरमे आकाशधातुपर्यवसाने षड्गतिकानां सत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति.
तेन च न मन्यते तथा हि तच् चक्षुर् अचक्षुर् अचिन्त्यताम् उपादाय, सो ऽहं पश्यामीति न मन्यते, तद् एव चक्षुर् नोपलभते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय, स्वभावानुपलब्धिताम् उपादाय, न स दिव्यचक्षुश्चेतनाम् अप्य् उत्पादयति, न दिव्यचक्षुरभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यचक्षुरभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति, सो ऽनुत्पादसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति, न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, नाप्य् अन्यं कञ्चिद् धर्मम् आशंसति अन्यत्रानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यमीति, स तया आस्रवक्षय साक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारकुशलतया न मन्यते तथा हि तज् ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, तद् एव च ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स आस्रवक्षयचेतनाम् अप्य् उत्पादयति नास्रवक्षयाभिज्ञाभिनिर्हारचेतनां वान्यत्र सर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आस्रवक्षयाभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
एवं पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः षडभिज्ञाः परिपूर्यन्ते परिशुध्यन्ते च, अभिज्ञाः (psp1-1: 102) शारिपुत्र परिशुद्धाः सर्वाकारज्ञताम् अर्पयन्ति,
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया न च गृहीतताम् उपादाय.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः शीलपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया आपत्त्यनध्यापत्तिताम् उपादाय.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः क्षान्तिपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया अक्षोभणताम् उपादाय.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो वीर्यपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया कायिकचैतसिकवीर्यास्रंसनताम् उपादाय.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो ध्यानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया अविक्षिप्तचित्तताम् उपादाय.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया दौष्प्रज्ञचित्तपरिवर्जनताम् उपादाय.
एवं खलु शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः षट्सु पारमितासु स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यताम् उपादाय, दानं परिग्रहताम् उपादाय प्रज्ञप्यते, शीलं दौःशील्यम् उपादाय प्रज्ञप्यते, क्षान्तिर् अक्षान्तिताम् उपादाय प्रज्ञप्यते, वीर्यं कौशीद्यम् उपादाय प्रज्ञप्यते, समाधिर् असमाहितताम् उपादाय प्रज्ञप्यते, प्रज्ञा दौष्प्रज्ञम् उपादाय प्रज्ञप्यते, स तीर्ण इति न मन्यते, न तीर्ण इति न मन्यते, दानं परिग्रह इति न मन्यते, शीलं दौःशील्यम् इति न मन्यते, क्षान्तिः क्षोभ इति न मन्यते, वीर्यं कौशीद्यम् इति न मन्यते, समाधिर् असमाहितेति न मन्यते, प्रज्ञादौष्प्रज्ञम् इति न मन्यते, आक्रुष्टो ऽहम् इति न मन्यते, वन्दितो ऽहम् इति न मन्यते, सत्कृतो ऽहम् इति न मन्यते, असत्कृतो ऽहम् इति न मन्यते. तत् कस्य हेतोः? न हि शारिपुत्र अनुत्पाद आक्रुष्टो ऽहम् इति मन्यते, (psp1-1: 103) वन्दितो ऽहम् इति मन्यते, सत्कृतो ऽहम् इति मन्यते, असत्कृतो ऽहम् इति मन्यते. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता सर्वमननाः समुच्छिनत्ति, इह शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ये गुणा भवन्ति न ते सर्वे श्रावकप्रत्येकबुद्धानां संविद्यन्ते, स इमान् गुणान् परिपूरयन् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति सर्वाकारज्ञतां चानुप्राप्नोति.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पादयति, सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पाद्य सर्वधर्मसमतां प्रतिलभते, सर्वधर्मसमतां प्रतिलभ्य सर्वसत्त्वान् सर्वधर्मसमतायां प्रतिष्ठापयति, स दृष्ट एव धर्मे बुद्धानां भगवतां प्रियो भवति मनआपश् च, सर्वबोधिसत्त्वानां च सर्वश्रावकानां च प्रत्येकबुद्धानां च प्रियो भवति मनआपश् च, स यत्र यत्रोपपद्यते तत्र तत्र न जातु चक्षुषा अमनआपानि रूपाणि पश्यति, न श्रोत्रेणामनआपान् शब्दान् शृणोति, न घ्राणेनामनआपान् गन्धाञ् जिघ्रति, न जिह्वयामनआपान् रसान् आस्वादयति, न कायेनामनआपान् स्पर्शान् स्पृशति, न मनसामनआपान् धर्मान् विजानाति, न च परिहीयते ऽनुत्तरायाः सम्यक्संबोधेः.
अस्मिन् खलु पुनः प्रज्ञापारमितानिर्देशे निर्दिश्यमाने त्रीणि भिक्षुणीशतानि भगवन्तं यथावृतैश् चीवरैर् अभिच्छादयामासुर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयामासुः. अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्.
अथ खल्व् आयुष्मान् आनन्दः समुत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणञ् जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुर्भावाय, नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः स्मितं प्रादुष्कुर्वन्ति?
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
