Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिसाहस्रमहासाहस्रे लोकधातौ यावान् आकाशधातुस् तं सर्वम् एकेन पर्यङ्केन स्फारितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिसाहस्रमहासाहस्रे लोकधातौ ये सुमेरुमहासुमेरुचक्रवाडमहाचक्रवाडादयः पर्वतास् तान् एकेन वालेन बद्धा असंख्येयान् अप्रमानान् लोकधातून् समतिक्रामयेयं क्षिपेयम् इति प्रज्ञापारमितायां शिक्षितव्यम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दशसु दिक्षु प्रत्येकं सर्वबुद्धक्षेत्रेषु बुद्धान् भगवतो दिव्येन चक्षुषा द्रष्टुकामेन तेषाञ् च धर्मदेशनां दिव्येन श्रोत्रेन श्रोतुकामेण सर्वसत्त्वचित्तचरितानि च ज्ञातुकामेन तेषां पूर्वनिवासम् अनुस्मर्तुकामेन आस्रवक्षयज्ञानाभिज्ञाम् अभिनिर्हर्तुकामेन च भूतकोटिं साक्षात्कर्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति अभिज्ञासहगतो महाराजोपमः
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दशसु दिक्षु प्रत्येकं यावन्तो गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धा (psp1-1: 37) भगवन्तः सश्रावकबोधिसत्त्वसंघास् तान् एकेन पिण्डपात्रेण प्रतिपादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपटाकामेघैस् तांस् तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन प्रज्ञापारमितायां शिक्ष्टव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन स्रोतआपत्तिफले प्रतिष्ठापयितुकामेन, सकृदागामिफले प्रतिष्ठापयितुकामेन, अनागामिफले प्रतिष्ठापयितुकामेन, अर्हत्त्वे प्रतिष्ठापयितुकामेन, प्रत्येकबोधौ प्रतिष्ठापयितुकामेन यावद् अनुपधिशेषनिर्वाणधातौ प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यथा पूर्वस्यां दिशि एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं प्रत्येकं गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् यावद् अनुपधिशेषनिर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति पुण्यज्ञानसहगतः कोष्ठागारोपमः
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेनातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बुद्धगुणान् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन संस्कृतासंस्कृतानां धर्माणां पारं गन्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अवबोधुकामेन धर्माणाम् अनुत्पादकोटिम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति बोधिपक्षसहगतो महामार्गोपमः
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वश्रावकप्रत्येकबुद्धानां पूर्वङ्गमेन भवितुकामेन प्रज्नापारमितायां (psp1-1: 38) शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धानां भगवताम् उपस्थायकेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धानां भगवताम् अभ्यन्तरपरिवारेण भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन महापरिवारेण भवितुकामेन बोधिसत्त्वं परिवारं प्रतिलब्धुकामेन च प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दक्षिणां परिशोधयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन मात्सर्यचित्तं निग्रहीतुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दौःशील्यचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन व्यापादचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन कौशीद्यचित्तम् उत्स्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन विक्षिप्तचित्तं रिञ्चितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दौष्प्रज्ञचित्तम् अप्रपञ्चितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् दानमयपुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन, शीलमयपुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन, भावनामयपुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन, वैयावृत्यसहगते चौपधिके पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पञ्च चक्षूंष्य् उप्त्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. कतमानि पञ्च? यद् (psp1-1: 39) उत मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
एवं दक्षिणस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पश्चिमायां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
उत्तरस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
उत्तरपूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पूर्वदक्षिणस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
दक्षिणपश्चिमायां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पश्चिमोत्तरस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
अधस्ताद् दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
उपरिष्टाद् दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यांश् च ते बुद्धा भगवन्तो धर्मान् भाषन्ते तान् धर्मान् दिव्येन श्रोत्रेण श्रोतुकामेन, तेषाञ् च बुद्धानां भगवतां चेतसैव चित्तं यथाभूतं परिज्ञातुकामेन, तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वताम् अनुस्मर्तुकामेन, तेषाञ् च बुद्धानाम् ऋद्धिविकुर्वितं द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यांस् ते बुद्धा भगवन्तः समन्ताद् दशसु दिक्षु सर्वलोकधातुषु धर्मान् भाषन्ते (psp1-1: 40) ताञ् छ्रुत्वा अनाच्छेद्येन स्मृतिबलाधानेन सर्वान् संधारयितुकामेन यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अतीतानां बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन, अनागतानाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये चैतर्हि समन्ताद् दश दिशि लोके बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तेषाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति शमथविपश्यनासहगतो यानोपमः
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यत् किञ्चिद् दशसु दिक्षु बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च, यद् इदं सूत्रं गेयं व्याकरणं गाथा उदानं निदानम् इतिवृत्तकं जातकं वैपुल्याद्भुता धर्मा अवदानम् उपदेशाः, यच् च श्रावकैर् न श्रुतं तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन, परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यत् किञ्चित् पूर्वस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यत् किञ्चिद् दक्षिणस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यत् किञ्चित् पश्चिमायां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते (psp1-1: 41) भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यत् किञ्चिद् उत्तरस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यत् किञ्चिद् उत्तरपूर्वस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यत् किञ्चित् पूर्वदक्षिणस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यत् किञ्चिद् दक्षिणपश्चिमायां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यत् किञ्चित् पश्चिमोत्तरस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यत् किञ्चिद् अधो दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन (psp1-1: 42) तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यत् किञ्चिद् ऊर्ध्वं दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति धारणीप्रतिभानसहगतः प्रस्रवणोपमः
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यानि पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यानि दक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यानि पश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यान्य् उत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यान्य् उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यानि दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् (psp1-1: 43) अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यानि अधस्ताद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
यान्य् उपरिष्टाद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन ये पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये दक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये पश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये उत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये अधस्ताद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये उपरिष्टाद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति धर्मोद्दानसहगत आनन्दशब्दोपमः
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु ये सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिता विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते, मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, (psp1-1: 45) अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले प्रतिष्ठापयिष्यामीति, अनागामिफले प्रतिष्ठापयिष्यामीति, अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये दक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते, मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये पश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्नगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, (psp1-1: 46) अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये उत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, (psp1-1: 47) सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु (psp1-1: 48) सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
ये ऽधो दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति, प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्,
ये ऊर्ध्वं दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा (psp1-1: 49) भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति एकायनमार्गसहगतो नदीस्रोतोपमः
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन तथागतेर्यापथे शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्, कदा न्व् अहं नागावलोकितम् अवलोकयिष्यामीति, किम् इत्य् अहं पृथीवीं चतुरङ्गुलम् अस्पृशन् पद्भ्यां गच्छेयम् इति प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इत्य् अहं चातुर्महाराजकायिकैस् त्रयस्त्रिंशैर् यामैस् तुषितैर् निर्माणरतिभिः परनिर्मितवशवर्तिभिर् ब्रह्मकायिकैर् ब्रह्मपुरोहितैर् ब्रह्मपारिषद्यैः परीत्ताभैर् अप्रमाणाभैर् आभास्वरैः परीत्तशुभैर् अप्रमाणशुभैः शुभकृत्स्नैर् अनभ्रकैः पुण्यप्रसवैर् बृहत्फलैर् असंज्ञिसत्त्वैः शुद्धावासैर् अस्पृहैर् अतपैः सुदृशैः सुदर्शनैर् अकनिष्ठैश् च परिवृतः पुरस्कृतो ऽनेकदेवपुत्रकोटीनियुतशतसहस्रैर् बोधिमण्डद्रुममूलम् उपसंक्रामेयम् इति प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति ये चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपारिषद्यः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः (psp1-1: 50) सुदृशाः सुदर्शना अकनिष्ठाश् च देवाः, बोधिमण्डद्रुममूलं प्रतिसंस्तरेयुर् इति प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य गच्छतो वा तिष्ठतो वा निषण्णस्य वा शयानस्य वा स पृथिवीप्रदेशो वज्रमयः संतिष्ठेतेति प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इत्य् अहं यत्रैव दिवसे निष्कामेयं तत्रैव दिवसे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येयम् इति, तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयम् इति, धर्मचक्रं च मे प्रवर्तयमानस्यासंख्येयानाम् अप्रमेयाणां सत्त्वानां विरजोविगतमलं धर्मेषु धर्मचक्षुर् विशुध्येद् इति, असंख्येयानाम् अप्रमेयाणां सत्त्वानाम् अनुपादायास्र्वेभ्यश् चित्तानि विमुच्येयुर् इति, असंख्येया अप्रमेया सत्त्वा अविनिवर्तनीया भवेयुर् अनुत्तरायाः सम्यक्संबोधिर् इति प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽप्रमेयो ऽसंख्येयः श्रावकसंघः स्याद् इति, अप्रमेयाः असंख्येयाः सत्त्वा एकधर्मदेशनाया एकासनिका बोधिसत्त्वा भवेयुर् अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर् इति, असंख्येयश् चाप्रमेयश् च बोधिसत्त्वसंघो भवेद् इति, अपरिमितं चायुःप्रमाणं भवेद् इति, अपरिमिता च प्रभासंपद् भवेद् इति प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तस्मिन् बुद्धक्षेत्रे रागद्वेषमोहायतनानि सर्वेण सर्वं सर्वथा सर्वं न भवेयुर् इति प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य एवंरूपया प्रज्ञया सत्त्वाः समन्वागता (psp1-1: 51) भवेयुर्, यद् अन्यबुद्धक्षेत्रस्था बुद्धा भगवन्तः एवम् उदानम् उदानयेयुः. साधु शमः साधु दमः साधु संयमः साधु चीर्णब्रह्मचर्यवासः साध्व् अविहिंसा सर्वप्राणिभूतेष्व् इति प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे परिनिर्वृतस्य सद्धर्मान्तर्धानम् अपि न स्यात्, सहश्रवणेन च मे नामधेयस्य ये दशसु दिक्षु गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वास् ते नियता भवेयुर् अनुत्तरायाः सम्यक्संबोधेर् इति प्रज्ञापारमितायां शिक्षितव्यम्.
यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् गुणान् उत्पादयति, तदा ये त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानस् त एवं चिन्तयन्ति, वयम् अस्मै बोधिसत्त्वाय चत्वारि पात्राणि दास्यामः, यथा दत्तानि पूर्वकैर् महाराजैः पूर्वकाणां तथागतानां त्रयस्त्रिंशाश् च देवा आत्तमनस्का भवन्ति यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा उत्सुका भविष्यन्ति, वयम् अस्य बोधिसत्त्वस्य महासत्त्वस्योपस्थानपरिचर्याः करिष्याम इति, एवम् आसुराः कायाः परिहास्यन्ते दिव्याः कायाः अभिवर्धिष्यन्ते.
आत्तमनस्काश् च त्रिसाहस्रमहासाहस्रे लोकधातौ भवन्ति ब्रह्मपारिषद्या ब्रह्मपुरोहिता महाब्रह्माणः, आत्तमनस्का भवन्ति परीत्ताभा अप्रमाणाभाश् च आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धाभासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश् च देवास् तेषाम् एवं भवति, वयम् एनम् अभिसंबुद्धम् अध्येषिष्यामो धर्मचक्रप्रवर्तनाय, यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते षड्भिः पारमिताभिः, तस्मिन् समय आत्तमनस्का भवन्ति बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च वयम् अस्य मातापितरौ भविष्यामो भार्यापुत्रज्ञातिसालोहिता इति.
आत्तमनस्का भवन्ति चत्वारो महाराजानो देवास् त्रयस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मपार्षद्या देवा ब्रह्मपुरोहिता देवा महाब्रह्माणो (psp1-1: 52) देवाः परीत्तशुभा देवा अप्रमाणशुभा देवा आभास्वरा देवाः शुभकृत्स्ना देवा अनभ्रका देवाः पुण्यप्रसवा देवा बृहत्फला देवा असंज्ञिसत्त्वा देवाः शुद्धावासा देवा अस्पृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठाश् च देवा बोधिसत्त्वस्य महासत्त्वस्य मैथुनधर्मपरिवर्जनेन, अथ यः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वो महासत्त्वो ब्रह्मचारी भवति, न संयोजनीयैर् धर्मैः संयुज्यते, तस्यैवं भवति अब्रह्मचारिणः स खलु पुनः कामान् प्रतिसेवमाणस्य ब्रह्मलोकोपपत्तेर् अप्य् अन्तरायो भवति, कः पुनर् वादो ऽनुत्तरायाः सम्यक्संबोधेः, तस्मात् तर्हि बोधिसत्त्वेन महासत्त्वेन ब्रह्मचारिणैव गृहाद् अभिनिष्क्रम्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या नाब्रह्मचारिणा.
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अवश्यं बोधिसत्त्वस्य मातापितृभ्यां भवितव्यं भार्यापुत्रज्ञातिसालोहितैर् भवितव्यम्?
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: केषांचिच् छारिपुत्र बोधिसत्त्वानां महासत्त्वानां मातापितरौ भवतः भार्यापुत्रज्ञातिसालोहिता वा, केषाञ्चिद् बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादम् उपादाय ब्रह्मचर्यसमादानन् ते कुमारभूता एव बोधिसत्त्वचारिकां चरन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, केचिद् बोधिसत्त्वा महासत्त्वा उपायकौशल्येन च पञ्च कामगुणान् परिभुज्याभिनिष्क्रम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, तद्यथापि नाम शारिपुत्र दक्षो मायाकारो वा मायाकारान्तेवासी वा सुशिक्षितो भवेन् मायायां, स पञ्च कामगुणान् अभिनिर्माय तैः पञ्चभिः कामगुणै रमेत् क्रीडेत् परिचरेत्, तत् किं मन्यसे? शारिपुत्र अपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा पञ्च कामगुणा आस्वादिताः परिभुक्ता भवेयुः.
शारिपुत्र आह: नो हीदं भगवन्,
भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन च पञ्च कामगुणान् परिभुङ्क्ते सत्त्वानां परिपाकहेतोः, न पुनर् बोधिसत्त्वो महासत्त्वः कामगुणैर् लिप्यते, अनेन पर्यायेण बोधिसत्त्वो महासत्त्वः कामानाम् अवर्णं भाषते, आदीप्ताः कामा जुगुप्सिताः कामा बधकाः कामाः प्रत्यर्थिकाः कामाः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः सत्त्वपरिपाकहेतोः पञ्च कामगुणान् उपाददाति.
इति धर्मकामसहगतो महामेघोपमः
इति उक्तश् चित्तोत्पादः
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्?
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्व एव समानो बोधिसत्त्वं न समनुपश्यति, बोधिसत्त्वनामापि न समनुपश्यति, बोधिसत्त्वचर्याम् अपि न समनुपश्यति, प्रज्ञापारमिताम् अपि न समनुपश्यति, रूपम् अपि न समनुपश्यति, एवं वेदनां संज्ञां संस्कारान् विज्ञानम् अपि न समनुपश्यति, तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वो बोधिसत्त्वस्वभावेन शून्यः प्रज्ञापारमिता प्रज्ञापारमितास्वभावेन शून्यः. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, तथा हि शून्यतया न रूपं शून्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शून्यतया शून्यं, नान्यत्र रूपाच् छून्यता, नान्यत्र वेदनायाः शून्यता, नान्यत्र संज्ञायाः शून्यता, नान्यत्र संस्कारेभ्यः शून्यता, नान्यत्र विज्ञानाच् छून्यता. तत् कस्य हेतोः? रूपम् एव शून्यता, वेदनैव शून्यता, संज्ञैव शून्यता, संस्कारा एव शून्यता, विज्ञानम् एव शून्यता, शून्यतैव रूपं, शून्यतैव वेदना, शून्यतैव संज्ञा, शून्यतैव संस्काराः, शून्यतैव विज्ञानम्. तत् कस्य हेतोः? तथा हि नाममात्रम् इदं यद् इदं बोधिसत्त्व इति, नाममात्रम् इदं यद् इदं प्रज्ञापारमितेति, नाममात्रम् इदं यद् इदं रूपं वेदना संज्ञा संस्कारा विज्ञानं, तथा हि मायोपमं रूपं वेदना संज्ञा संस्कारा विज्ञानं, माया च नाममात्रं न देशस्था न प्रदेशस्था असदसंभूतं वितथदर्शनसमं, मायादर्शनस्वभावस्य हि (psp1-1: 54) नोत्पादो न निरोधो न संक्लेशो न व्यवदानम्, एवं प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्व उत्पादम् अपि न समनुपश्यति, निरोधम् अपि न समनुपश्यति, संक्लेशम् अपि न समनुपश्यति, व्यवदानम् अपि न समनुपश्यति. तत् कस्य हेतोः? तथा हि कृत्रिमं नाम प्रतिधर्मं, ते च कल्पिताः, आगन्तुकेन नामधेयेन व्यवह्रियन्ते, तानि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वनामानि न समनुपश्यति असमनुपश्यन् नाभिनिविशते.
पुनर् अपरं शारिपुत्र बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैवम् उपपरीक्षते नाममात्रम् इदं यद् इदं बोधिसत्त्व इति, नाममात्रम् इदं यद् उत बोधिर् इति, नाममात्रम् इदं यद् उत बुद्ध इति, नाममात्रम् इदं यद् उत प्र्ज्ञापारमितेति, नाममात्रम् इदं यद् उत प्रज्ञापारमितायां चर्येति, नाममात्रम् इदं यद् उत रूपम् इति, नाममात्रम् इदं यद् उत वेदनेति, नाममात्रम् इदं यद् उत संज्ञेति, नाममात्रम् इदं यद् उत संस्कारा इति, नाममात्रम् इदं यद् उत विज्ञानम् इति, तद्यथापि नाम शारिपुत्र आत्मेति चोच्यते, न चात्मा उपलभ्यते, न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो ऽप्य् उपलभ्यते, अनुपलम्भशून्यताम् उपादाय. तत् कस्य हेतोः? तथा हि बोधिसत्त्वस् तम् अपि न समनुपश्यति येनाभिनिविशेत, एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति.
स चेच् छारिपुत्रायञ् जम्बुद्वीपः परिपूर्णो भवेच् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् अपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति, एवं शारिपुत्र प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभाविता या प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् अभिभवति. तत् कस्य हेतोः? तथा हि शारिपुत्र या बोधिसत्त्वस्य प्रज्ञा सा सर्वसत्त्वानां निर्वाणाय प्रत्युपस्थिता, तिष्ठतु शारिपुत्रायञ् जम्बुद्वीपः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् (psp1-1: 55) भिक्षुभिः.
स चेच् छारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेच् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. तिष्ठतु शारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः.
स चेच् छारिपुत्र पूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
स चेच् छारिपुत्र दक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
स चेच् छारिपुत्र पश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां (psp1-1: 56) चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
स चेच् छारिपुत्र उत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनंवा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
स चेच् छारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
स चेच् छारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् (psp1-1: 57) उपनिशाम् अपि नोपैति.
स चेच् छारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदिबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य्, उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
स चेच् छारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा, तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
स चेच् छारिपुत्राधस्ताद् दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
स चेच् छारिपुत्र ऊर्ध्वं दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं (psp1-1: 58) वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: येयं भगवन् स्रोतआपन्नस्य प्रज्ञा सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धस्य प्रज्ञा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञा तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रज्ञा सर्वा एताः प्रज्ञा अभिन्ना विविक्ता अनुत्पन्ना अस्वभावाः शून्याः, न च भगवन्न् अभिन्नस्य विविक्तस्य अनुत्पन्नस्यास्वभावस्य शून्यस्य नानाकरणम् उपलभ्यते विशेषो वा, तत् कथं पुनर् भगवन् या बोधिसत्त्वस्यैकदिवसभाविता प्रज्ञा सा प्रज्ञापारमितायां चरतः प्रज्ञा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् अभिभवति?
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र येन कार्येण बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एकदिवसभाविता प्रज्ञा प्रत्युपस्थिता सर्वाकारवरोपेता सर्वज्ञतायां चरतः सर्वसत्त्वानाम् अर्थं कुर्वतः सर्वाकारं सर्वधर्मान् बुद्धा सर्वसत्त्वाः परिनिर्वापयितव्या इति, अपि नु शारिपुत्र तेन कृत्येन सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा प्रत्युपस्थिता.
शारिपुत्र आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे? शारिपुत्र अपि नु सर्वश्रावकप्रत्येकबुद्धानाम् एवं भवति, अस्माभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वा निरुपधिशेषनिर्वाणधातौ परिनिर्वापयितव्या इति.
शारिपुत्र आह: नो हीदं भगवन्.
भगवान् आह: तद् अनेनापि ते शारिपुत्र पर्यायेणैवं वेदितव्यं, येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा सा बोधिसत्त्वस्य प्रज्ञा या एकदिवसभावितायाः शततमीम् अपि कालं नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् (psp1-1: 59) उपनिषदम् अप्य् उपनिशाम् अपि नोपैति, तत् किं मन्यसे? शारिपुत्रापि नु सर्वश्रावकप्रत्येकबुद्धानाम् एवं भवति, वयं षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति.
शारिपुत्र आह: नो हीदं भगवन्.
भगवान् आह: बोधिसत्त्वस्य महासत्त्वस्य पुनः शारिपुत्रैवं भवति, अहं षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्यामीति, तद्यथापि नाम शारिपुत्र न भवति खद्योतकस्य प्राणकजातस्य ममाभया जम्बुद्वीपो ऽवभास्यतेति, ममाभया जम्बुद्वीपः स्फुटो भवेद् इति, एवम् एव शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैवं भवति, एकस्याप्य् अहं षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्यामीति, तद्यथापि नाम शारिपुत्र सूर्यमण्डलम् उदयन् सर्वं जम्बुद्वीपम् अवभासेन स्फुटीकरोति, एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयति.
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धभूमिं चातिक्रम्य अविनिवर्तनीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति.
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् शून्यतानिमित्ताप्रणिहितेषु सर्वेषु स्थित्वा श्रावकप्रत्येकबुद्धभूमिं चातिक्रामति, अविनिवर्तनीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति.
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमस्यां भगवन् भूमौ स्थित्वा बोधिसत्त्वो महासत्त्वः सततसमितं सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति.
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: प्रथमचित्तोत्पादम् उपादाय शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् यावदा बोधिमण्डाद् अत्रान्तरे सततसमितं सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति, तत् कस्य हेतोः? तथा हि शारिपुत्र बोधिसत्त्वं महासत्त्वम् आगम्य सर्वेषां कुशलानां धर्माणां लोके प्रादुर्भावो भवति, यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां शिक्षापदानाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, षण्णां पारमितानां दशानां तथागतबलानाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति, एतेषां च कुशलानां धर्माणां लोके प्रादुर्भावात् क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रयस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, (psp1-1: 61) अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः
प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, अनभ्रका देवाः प्रज्ञायन्ते, पुण्यप्रसवा देवाः प्रज्ञायन्ते, वृहत्फला देवाः प्रज्ञायन्ते, असंज्ञिसत्त्वा देवाः प्रज्ञायन्ते, शुद्धावासा देवाः प्रज्ञायन्ते, अस्पृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानानन्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतनादेवाः प्रज्ञायन्ते, स्रोतआपन्ना लोके उत्पद्यन्ते, सकृदागामिनो लोके उत्पद्यन्ते, अनागामिनो लोके उत्पद्यन्ते, अर्हन्तो लोके उत्पद्यन्ते, प्रत्येकबुद्धा लोके उत्पद्यन्ते, बोधिसत्त्वा लोके उत्पद्यन्ते, तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते.
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति उत नेति.
भगवान् आह: न हि शारिपुत्र बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति, तत् कस्य हेतोः? आत्यन्तशुद्धैव दक्षिणा बोधिसत्त्वस्य महासत्त्वस्य, तत् कस्य हेतोः? दायकः शारिपुत्र बोधिसत्त्वो महासत्त्वः. कस्य दायकः? कुशलानां धर्माणां दायकः. कतमेषां कुशलानां धर्माणां दायकः? यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां शिक्षापदाणाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतस्माम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां षण्णां पारमितानां दशानां तथागतबलानाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां दायकः.
इति प्रतिपत्त्यववादः
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं (psp1-1: 62) युज्यमानो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वो रूपशून्यतायां युक्तो युक्त इति वक्तव्यः. वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः, संज्ञाशून्यतायां युक्तो युक्त इति वक्तव्यः, संस्कारशून्यतायां युक्तो युक्त इति वक्तव्यः, विज्ञानशून्यतायां युक्तो युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वश् चक्षुःशून्यतायां युक्तो युक्त इति वक्तव्यः, श्रोत्रशून्यतायां युक्तो युक्त इति वक्तव्यः, घ्राणशून्यतायां युक्तो युक्त इति वक्तव्यः, जिह्वाशून्यतायां युक्तो युक्त इति वक्तव्यः, कायशून्यतायां युक्तो युक्त इति वक्तव्यः, मनःशून्यतायां युक्तो युक्त इति वक्तव्यः, रूपशून्यतायां युक्तो युक्त इति वक्तव्यः, शब्दशून्यतायां युक्तो युक्त इति वक्तव्यः, गन्धशून्यतायां युक्तो युक्त इति वक्तव्यः, रसशून्यतायां युक्तो युक्त इति वक्तव्यः, स्प्रष्टव्यशून्यतायां युक्तो युक्त इति वक्तव्यः, धर्मशून्यतायां युक्तो युक्त इति वक्तव्यः, चक्षुर्विज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, श्रोत्रविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, घ्राणविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तब्व्यः, जिह्वाविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, कायविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, मनोविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, दुःखशून्यतायां युक्तो युक्त इति वक्तव्यः, समुदयशून्यतायां युक्तो युक्त इति वक्तव्यः, निरोधशून्यतायां युक्तो युक्त इति वक्तव्यः, मार्गशून्यतायां युक्तो युक्त इति वक्तव्यः, अविद्याशून्यतायां युक्तो युक्त इति वक्तव्यः, संस्कारशून्यतायां युक्तो युक्त इति वक्तव्यः, विज्ञानशून्यतायां युक्तो युक्त इति वक्तव्यः, नामरूपशून्यतायां युक्तो युक्त इति वक्तव्यः, षडायतनशून्यतायां युक्तो युक्त इति वक्तव्यः, स्पर्शशून्यतायां युक्तो युक्त इति वक्तव्यः, वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः, तृष्णाशून्यतायां युक्तो युक्त इति वक्तव्यः, उपादानशून्यतायां युक्तो युक्त इति वक्तव्यः, भवशून्यतायां युक्तो युक्त इति वक्तव्यः, जातिशून्यतायां युक्तो युक्त इति वक्तव्यः, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासशून्यतायां (psp1-1: 63) युक्तो युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां युक्तो युक्त इति वक्तव्यः, बहिर्धाशून्यतायां युक्तो युक्त इति वक्तव्यः, अध्यात्मबहिर्धाशून्यतायां युक्तो युक्त इति वक्तव्यः, यावत् परभावशून्यतायां युक्तो युक्त इति वक्तव्यः,
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आसु सर्वासु शून्यतासु युक्तो युक्त इति वक्तव्यः, स आभिः शून्यताभिः प्रज्ञापारमितायां चरन् न तावद् बोधिसत्त्वो महासत्त्वो युक्तो युक्त इति वक्तव्यो ऽयुक्त इति. तत् कस्य हेतोः? तथा हि न स रूपं न वेदनां न संज्ञां न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति.
इति दुःखसत्याववादः
स न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति, न वेदनाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति न संज्ञाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति, न संस्कारान् उत्पादधर्मिणो वा निरोधधर्मिणो वा समनुपश्यति, न विज्ञानाम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति, न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति, न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति, न संज्ञां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति, न संस्कारान् संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति, न विज्ञानं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपं वेदनायां समवसरतीति समनुपश्यति, न वेदना संज्ञायां समवसरतीति समनुपश्यति, न संज्ञा संस्कारेषु समवसरतीति समनुपश्यति, न संस्कारा विज्ञाने समवसरन्तीति समनुपश्यति, न विज्ञानं धर्मे समवसरतीति समनुपश्यति, न धर्मः क्वचिद् धर्मे समवसरतीति समनुपश्यति, तत् कस्य हेतोः? न हि कश्चिद् धर्मः क्वचिद् धर्मे समवसरति प्रकृतिशून्यताम् उपादाय, तत् कस्य हेतोः? तथा हि शारिपुत्र या रूपस्य शून्यता न तद् रूपम्, या वेदनायाः शून्यता न सा वेदना, या (psp1-1: 64) संज्ञायाः शून्यता न सा संज्ञा, या संस्काराणां शून्यता न ते संस्काराः, या विज्ञानस्य शून्यता न तद् विज्ञानम्. तत् कस्य हेतोः? तथा हि या रूपशून्यता न सा रूपयति, या वेदनाशून्यता न सा वेदयति, या संज्ञाशून्यता न सा संजानीते, या संस्कारशून्यता न साभिसंस्कारोति, या विज्ञानशून्यता न सा विजानाति, तत् कस्य हेतोः? तथा हि शारिपुत्र नान्यद् रूपम् अन्या शून्यता, नान्या शून्यता अन्यद् रूपं, रूपम् एव शून्यता शून्यतैव रूपम्, नान्या वेदना अन्या शून्यता, नान्या शून्यता अन्या वेदना, वेदनैव शून्यता शून्यतैव वेदना, नान्या संज्ञा अन्याशून्यता, नान्या शून्यता अन्या संज्ञा, संज्ञैव शून्यता शून्यतैवसंज्ञा, नान्ये संस्कारा अन्या शून्यता, नान्या शून्यता अन्ये संस्काराः, संस्कारा एव शून्यता शून्यतैव संस्काराः, नान्यद् विज्ञानम् अन्या शूयता, नान्या शून्यता अन्यद् विज्ञानं, विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
इति समुदयसत्याववादः
शून्यता शारिपुत्र नोत्पद्यते न निरुध्यते, न संक्लिश्यते न व्यवदायते, न हीयते न वर्धते, नातीता नानागता न प्रत्युत्पन्ना, या च ईदृशी न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न चक्षुरायायतनं न रूपायतनं न श्रोत्रायतनंन शब्दायतनं न घ्राणायतनं न गन्धायतनं न जिह्वायतनं रसायतनं न कायायतनं स्प्रष्टव्यायतनं न मनआयतनं धर्मायतनम्, न चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञानधातुः, न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः, न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः, न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः, न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः, नाविद्योत्पादो नाविद्यानिरोधः, न संस्कारोत्पादो न संस्कारनिरोधः, न विज्ञानोत्पादो न विज्ञाननिरोधः, न नामरूपोत्पादो न नामरूपनिरोधः, न षडायतनोत्पादो न षडायतननिरोधः, न स्पर्शोत्पादो न स्पर्शनिरोधः, न वेदनोत्पादो न वेदनानिरोधः, न तृष्णोत्पादो न तृष्णानिरोधः, न उपादानोत्पादो नोपादाननिरोधः, न भवोत्पादो न (psp1-1: 65) भवनिरोधः, न जात्युत्पादो न जातिनिरोधः न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासोत्पादो न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासनिरोधः, न दुःखं न समुदयो न निरोधो न मार्गो न प्राप्तिर् नाभिसमयो न स्रोतआपन्नो न स्रोतआपत्तिफलं, न सकृदागामी न सकृदागामिफलं, नानागामीनानागामिफलं, नार्हत्त्वं नार्हत्त्वफलं, न प्रत्येकबुद्धो न प्रत्येकबोधिः, न बुद्धो न बोधिः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्तो युक्त इति वक्तव्यः.
इति निरोधसत्याववादः
स प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त इति वा आत्मानं समनुपश्यति, न शीलपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न क्षान्तिपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न वीर्यपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न ध्यानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न प्रज्ञापारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न रूपे युक्त इति वा अयुक्त इति वा समनुपश्यति, न वेदनायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न संज्ञायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न संस्कारेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न विज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति, न चक्षुषि युक्त इति वा अयुक्त इति वा समनुपश्यति, न श्रोत्रे युक्त इति वा अयुक्त इति वा समनुपश्यति, न घ्राणे युक्त इति वा अयुक्त इति वा समनुपश्यति, न जिह्वायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न काये युक्त इति वा अयुक्त इति वा समनुपश्यति, न मनसि युक्त इति वा अयुक्त इति वा समनुपश्यति, न रूपे युक्त इति वा अयुक्त इति वा समनुपश्यति, न शब्दे युक्त इति वा अयुक्त इति वा समनुपश्यति, न गन्धे युक्त इति वा अयुक्त इति वा समनुपश्यति, न रसे युक्त इति वा अयुक्त इति वा समनुपश्यति, न स्प्रष्टव्ये युक्त इति वा अयुक्त इति वा समनुपश्यति, न धर्मे युक्त इति वा अयुक्त इति वा समनुपश्यति, न स्मृत्युपस्थानेषु (psp1-1: 66) युक्त इति वा अयुक्त इति वा समनुपश्यति, न सम्यक्प्रहाणेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न ऋद्धिपादेषु युक्त इति वा अयुक्त इति वा समनुपश्यति,
नेन्द्रियेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न बलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न बोध्यङ्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न मार्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतुर्षु सत्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतुर्षु वैशारद्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतसृषु प्रतिसंवित्सु युक्त इति वा अयुक्त इति वा समनुपश्यति, नाभिज्ञासु युक्त इति वा अयुक्त इति वा समनुपश्यति, न दशसु तथागतबलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, यावन् न सर्वाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न सर्वज्ञज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति, तद् अनेनापि ते शारिपुत्र पर्यायेणैवं वेदितव्यं बोधिसत्त्वो महासत्त्व एवं प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न शून्यतायां शून्यतया योजयति, न शून्यतायोगः, नानिमित्तम् आनिमित्तेन योजयति नानिमित्तयोगं, नाप्रणिहितम् अप्रणिहितेन योजयति नाप्रणिहितयोगम्. तत् कस्य हेतोः? तथा हि शून्यता न योगो नायोगः, एवम् आनिमित्तम् अप्रणिहितं न योगो नायोगः. एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशून्यताम् अवतरति, एवम् एव तरन् न रूपं योजयति न वियोजयति न वेदनां योजयति न वियोजयति, न संज्ञां योजयति न वियोजयति, न संस्कारान् योजयति न वियोजयति, न विज्ञानं योजयति न वियोजयति, न रूपं पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न रूपम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न रूपं प्रत्युत्पन्नेन योजयति न वायोजयति, प्रत्युत्पन्नम् एव न समनुउपश्यति, न वेदनां पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपाश्यति, न (psp1-1: 67) वेदनाम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न संज्ञां पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न संज्ञाम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न संस्कारान् पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न संस्कारान् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न विज्ञानं पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न विज्ञानम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न पूर्वान्तम् अपरान्तेन योजयति नापरान्तं पूर्वान्तेन योजयति, न प्रत्युत्पन्नं पूर्वान्तेन वा अपरान्तेन वा योजयति, नापरान्तं पूर्वान्तेन वा प्रत्युत्पन्नेन वा योजयति, न पूर्वान्तम् अपरान्तेन वा प्रत्युत्पन्नेन वा योजयति, अध्वशून्यताम् उपादाय. एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् एवं युज्यते, यथा युज्यमानो न सर्वाकारज्ञताम् अतीतेन योजयति, अतीतम् एव न समनुपश्यति, कथम् अतीतेन सर्वाकारज्ञतां योजयति. न सर्वाकारज्ञताम् अनागतेन योजयति, अनागतम् एव न समनुपश्यति, कथम् अनागतेन सर्वाकारज्ञतां योजयति. न सर्वाकारज्ञतां प्रत्युत्पन्नेन योजयति, प्रत्युत्पन्नम् एव समनुपश्यति, कथं प्रत्युत्पन्नेन सर्वाकारज्ञतां योजयति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
इति मार्गसत्याववादः
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति, न वेदनां सर्वाकारज्ञतया योजयति वेदनाम् एव न समनुपश्यति, न संज्ञां सर्वाकारज्ञतया योजयति संज्ञाम् एव न समनुपश्यति, न संस्कारान् सर्वाकारज्ञतया योजयति संस्कारान् एव न समनुपश्यति, न विज्ञानं सर्वाकारज्ञतया योजयति विज्ञानम् एव न समनुपश्यति, न चक्षुः सर्वाकारज्ञतया योजयति चक्षुर् एव न समनुपश्यति, न श्रोत्रं सर्वाकारज्ञतया योजयति श्रोत्रम् एव न समनुपश्यति, न घ्राणं सर्वाकारज्ञतया योजयति घ्राणम् एव न समनुपश्यति, न जिह्वां सर्वाकारज्ञतया योजयति जिह्वाम् एव न समनुपश्यति, न कायञ् सर्वाकारज्ञतया योजयति कायम् एव न समनुपश्यति, न मनः सर्वाकारज्ञतया योजयति मन एव न समनुपश्यति, न रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति, न शब्दान् सर्वाकारज्ञतयायोजयति शब्दान् एव न समनुपश्यति, न गन्धान् सर्वाकारज्ञतया योजयति गन्धान् एव न समनुपश्यति, न रसान् सर्वाकारज्ञतया योजयति रसान् एव न समनुपश्यति, न स्प्रष्टव्यं सर्वाकारज्ञतया योजयति स्प्रष्टव्यं एव न समनुपश्यति, न धर्मान् सर्वाकारज्ञतया योजयति धर्मान् एव न समनुपश्यति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितां सर्वाकारज्ञतया योजयति दानपारमिताम् एव न समनुपश्यति, न शीलपारमितां सर्वाकारज्ञतया योजयति शीलपारमिताम् एव न समनुपश्यति, न क्षान्तिपारमितां सर्वाकारज्ञतया योजयति क्षान्तिपारमिताम् एव न समनुपश्यति, न वीर्यपारमितां सर्वाकारज्ञतया योजयति वीर्यपारमिताम् एव न समनुपश्यति, न ध्यानपारमितां सर्वाकारज्ञतया योजयति, ध्यानपारमिताम् एव न समनुपश्यति, न प्रज्ञापारमितां सर्वाकारज्ञतया योजयति प्रज्ञापारमिताम् एव न समनुपश्यति, न स्मृत्युपस्थानानि सर्वाकारज्ञतया योजयति स्मृत्युपस्थानान्य् एव न समनुपश्यति, न सम्यक्प्रहाणानि (psp1-1: 69) सर्वाकारज्ञतया योजयति सम्यक्प्रहाणान्य् एव न समनुपश्यति, न ऋद्धिपादान् सर्वाकारज्ञतया योजयति ऋद्धिपादान् एव न समनुपश्यति, नेन्द्रियाणि सर्वाकारज्ञतया योजयति इन्द्रियाण्य् एव न समनुपश्यति, न बलानि सर्वाकारज्ञतया योजयति बलान्य् एव न समनुपश्यति, न बोध्यङ्गानि सर्वाकारज्ञतया योजयति बोध्यङ्गान्य् एव न समनुपश्यति, न मार्गान् सर्वाकारज्ञतया योजयति मार्गान् एव न समनुपश्यति, न प्रतिसंविदेइः सर्वाकारज्ञतया योजयति प्रतिसंविद एव न समनुपश्यति, न वैशारद्यानि सर्वाकारज्ञतया योजयति वैशारद्यान्य् एव न समनुपश्यति, नाभिज्ञाः सर्वाकारज्ञतया योजयत्य् अभिज्ञा एव न समनुपश्यति, न दशतथागतबलानि सर्वाकारज्ञतया योजयति दशतथागतबलान्य् एव न समनुपश्यति, नाष्टादशावेणिकान् बुद्धधर्मान् सर्वाकारज्ञतया योजयत्य् अष्टादशावेणिकान् बुद्धधर्मान् एव न समनुपश्यति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न बुद्धं सर्वाकारज्ञतया योजयति बुद्धम् एव न समनुपश्यति, न सर्वाकारज्ञतां बुद्धेन योजयति सर्वाकारज्ञताम् एव न समनुपश्यति, न बोधिं सर्वाकारज्ञतया योजयति बोधिम् एव न समनुपश्यति, न सर्वाकारज्ञतां बोध्या योजयति सर्वाकारज्ञताम् एव न समनुपश्यति, तत् कस्य हेतोः? बुद्ध एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धः, बोधिर् एव सर्वाकारज्ञता सर्वाकारज्ञतैव बोधिः, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
इति बुद्धरत्नाववादः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
