Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भगवान् आह: एतान्य् आनन्द त्रीणि भिक्षुणीशतानि एकषष्टितमे कल्पे महाकेतुनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पत्स्यन्ते, तारकोपमे कल्पे इतश् च्युतानि सन्ति अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यते, षष्टिश् च देवपुत्रसहस्राणि (psp1-1: 104) यानि यान्य् अनया धर्मदेशनया परिपाचितानि तानि तानि मैत्रेयस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके परिनिर्वास्यन्ति.
अथ खलु भगवतो ऽनुभावेन तस्यां वेलायां पूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति स्म, चतस्रः परिषदो भगवतः शाक्यमुनेः पर्षन्मण्डलाद्, एवं दक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति, पश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति, उत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति, उत्तरपूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति, पूर्वदक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति, दक्षिणपश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति, पश्चिमोत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति, अध ऊर्ध्वम् एकैकस्यां दिशि बुद्धसहस्रं पश्यन्ति, महतो बुद्धक्षेत्रगुणव्यूहां पश्यन्ति, न चेह सहायां लोकधातौ तान् बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति यान् दशसु दिक्षु तेषां बुद्धानां भगवतां बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति स्म.
अथ खलु भगवतः शाक्यमुनेः पर्षन्मण्डलाद् दशभिः प्राणिसहस्रैः प्रणिधानानि कृतानि वयं तानि पुण्यानि करिष्यामो यैः पुण्यैर् एतेषु बुद्धक्षेत्रेषूपपत्स्यामह इति.
अथ खलु भगवांस् तेषां कुलपुत्राणाम् आशयं विदित्वा तस्यां वेलायां स्मितम् अकरोत्.
आनन्द आह: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुर्भावाय?
भगवान् आह: पश्यसि त्वम् आनन्देमानि दशप्राणिसहस्राणि.
आनन्द आह: पश्यामि भगवन्.
भगवान् आह: एतान्य् आनन्द दशप्राणिसहस्राणि इतश् च्युतानि तेषु दशसु दिक्षु बुद्धक्षेत्रसहस्रेषूपपत्स्यन्ते, न च कदाचित् तथागतविरहितानि भविष्यन्ति, ततः पश्चाद् व्यूहराजनामानस् तथागता लोके उत्पत्स्यन्ते.
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च सुभूतिर् आयुष्मांश् च महाकाश्यपः, एते चान्ये च संबहुला अभिज्ञाता अभिज्ञाता भिक्षवो बोधिसत्त्वाश् च भिक्षुभिक्षुण्य् उपासकोपासिकाश् च भगवन्तम् एतद् अवोचन्: महापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अग्रपारमितेयं (psp1-1: 105) विशिष्टपारमितेयं प्रवरपारमितेयम् अनुत्तरपारमितेयं निरुत्तरपारमितेयं असमपारमितेयं आकाशपारमितेयं स्वलक्षणशून्यतापारमितेयं सर्वगुणसमन्वागतपारमितेयं, अनवमर्दनीयपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
अत्र हि भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमं दानं दत्तं तैर् असमसमा दानपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः.
तैर् असमसमं शीलं रक्षितं, तैर् असमसमा शीलपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः.
तैर् असमसमा क्षान्तिर् भाविता, तैर् असमसमा क्षान्तिपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः,
तैर् असमसमं वीर्यम् आरब्धं, तैर् असमसमा वीर्यपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः.
तैर् असमसमं ध्यानम् उत्पादितं, तैर् असमसमा ध्यानपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः,
तैर् असमसमा प्रज्ञा भाविता, तैर् असमसमा प्रज्ञापारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः.
अत्रैव च त्वं भगवन् प्रज्ञापारमितायां चरन्न् असमसमस्य रूपस्य लाभी जातो ऽसमसमाया वेदनायाः संज्ञायाः संस्काराणाम् असमसमस्य विज्ञानस्य लाभी जातो ऽसमसमां बोधिम् अभिसंबुद्धो ऽसमसमं धर्मचक्रं प्रवर्तितम्.
एवम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायां चरन्तो ऽनुत्तरां सम्यक्संबोधिं सम्यक्संबुद्धा अभिसंभोत्स्यन्ते च अभिसंबुध्यन्ते च, तस्मात् तर्हि भगवन् सर्वधर्माणां (psp1-1: 106) पारं गन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः, नमस्करणीयास् ते भगवन् बोधिसत्त्वा महासत्त्वा ये ऽस्यां प्रज्ञापारमितायां चरन्ति सदेवमानुषासुरेण लोकेन.
एवम् उक्ते भगवांस् तान् संबहुलान् श्रावकांस् तांश् च बोधिसत्त्वान् एतद् अवोचत्: एवम् एतत् कुलपुत्र एवम् एतत्, नमस्करणीयास् ते बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन ये ऽस्यां प्रज्ञापारमितायां चरन्ति. तत् कस्य हेतोः? बोधिसत्त्वं हि शारिपुत्रागम्य लोकस्य लोके प्रादुर्भावो भवति, मनुष्यलोकस्य देवलोकस्य क्षत्रियमहाशालकुलानां ब्राह्मणमहाशालकुलानां गृहपतिमहाशालकुलानां राज्ञां चक्रवर्तिनां चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां महाब्रह्माणां देवानां परीत्ताभानां देवानाम् अप्रमाणाभानां देवानाम् आभास्वराणां देवानां परीत्तशुभानां देवानाम् अप्रमाणशुभानां देवानां शुभकृत्स्नानां देवानाम् अनभ्रकानां देवानां पुण्यप्रसवानां देवानां बृहत्फलानां देवानाम् असंज्ञिसत्त्वानां देवानां शुद्धाभासानां देवानाम् अस्पृहाणां देवानाम् अतपानां देवानां सुदृशानां देवानां सुदर्शनानां देवानाम् अकनिष्ठानां देवानाम् आकाशानन्त्यायतनोपगानां देवानां विज्ञानानन्त्यायतनोपगानां देवानाम् आकिञ्चान्यायतनोपगानां देवानां नैवसंज्ञानासंज्ञायतनोपगानां देवानां लोके प्रादुर्भावो भवति, स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावो भवति, बोधिसत्त्वं हि शारिपुत्रागम्य त्रयाणां रत्नानां लोके प्रादुर्भावो भवति, लौकिकानां च सर्वजीवितोपकरणानाम् अन्नपानवस्त्रशय्यासनग्लानप्रत्ययभैषज्यपरिस्काराणां
मणिमुक्तावैडूर्यशंखशिलाप्रवालजातरूपरजतानां लोके प्रादुर्भावो भवति, यावच् छारिपुत्र सर्वसुखोपधानां दिव्यानां मानुष्यकाणां च भवसुखानां च निर्वाणसुखानां च (psp1-1: 107) लोके प्रादुर्भावो भवति, सर्वशः शारिपुत्र बोधिसत्त्वम् आगम्य. तत् कस्य हेतोः? बोधिसत्त्वो हि शारिपुत्र चर्याञ् चरन् षट्सु पारमितासु सत्त्वान् नियोजयति, दानं दापयति शीलं समादापयति क्षान्त्यां प्रतिष्ठापयति वीर्यं नियोजयति ध्याने प्रतिष्ठापयति प्रज्ञायां नियोजयति, सर्वे च सत्त्वा बोधिसत्त्वम् आगम्य प्रज्ञापारमितायां चरन्ति, तस्माच् छारिपुत्र बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानां हितसुखाय प्रतिपन्नो भवति.
अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्नामयित्वा इमं त्रिसाहस्रं महासाहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास.
अथ खलु ततो जिह्वेन्द्रियाद् अनेकवर्णा नानावर्णा अर्चिषो निश्चेरुः, निःसृत्य पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः. एवं दक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, पश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, उत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, अधस्ताद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, ऊर्ध्वं दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः,
अथ खलु पूर्वस्यां यावद् ऊर्ध्वं दिशि गङ्गानदीबालुकोपमेभ्यो बुद्धक्षेत्रेभ्यो ऽप्रमेयासंख्येया बोधिसत्त्वास् तान् प्रभाव्यूहान् दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म: कस्यायं भगवन्न् अनुभावो येनायम् एव प्रभावभासः संदृश्यते?
ते बुद्धा भगवन्तस् तान् बोधिसत्त्वान् महासत्त्वान् एवम् आहुः: एष कुलपुत्राः पश्चिमे यावद् अधो दिग्भागे सहायां लोकधातौ शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्द्ःस् तिष्ठति ध्रियते यापयति, तेन जिह्वेन्द्रियं निर्णमय्य पूर्वस्यां दिशि गङ्गानदीबालुकोपमा इओकधातवो (psp1-1: 108) ऽवभासेन स्फुटीकृता यावद् ऊर्ध्वं दिशि, एवं दशसु दिक्षु गङ्गानदीबालुकोपमा लोकधातवो ऽवभासेन स्फुटीकृता यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां देशनाय संप्रकाशनाय.
ते बोधिसत्त्वास् तांस् तथागतान् एवम् आहुः: गमिष्यामो वयं भगवंस् तां सहालोकधातुं तं भगवन्तं शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय, तांश् च दशदिक्संनिपतितान् बोधिसत्त्वान् महासत्त्वांस् तां च प्रज्ञापारमितां श्रवणाय.
ते बुद्धा भगवन्त आहुः: गच्छत कुलपुत्रा यस्येदानीं कालं मन्यध्वम्.
अथ खलु ते बोधिसत्त्वा महासत्त्वा दशभ्यो दिग्भ्यः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीर् गृहीत्वा नानारत्नसुवर्णरूप्यपुष्पपुटानि च गृहीत्वा महत्या तूर्यताडावचरसंगीत्या भगवन्तं शाक्यमुनिम् उपसंक्रान्ता अभूवन्.
अथ खलु चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मपुरोहिता देवा महाब्रह्माणो देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा अनभ्रका देवाः पुण्यप्रसवा देवा बृहत्फला देवा असंज्ञिसत्त्वा देवाः शुद्धाभासा देवा अस्पृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठाश् च देवा दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताका उत्पलकुमुदपुण्डरीकमान्दारवकेसरतमालपत्राणि गृहीत्वा येन भगवांस् तेनोपसंक्रामन्.
अथ खलु ते बोधिसत्त्वास् ते च देवास् तैः पुष्पधूपगन्धमाल्यविलेपनैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरन्ति स्म.
अथ खलु तानि पुष्पाणि वैहायसम् अभ्युद्गम्यास्य त्रिसाहस्रमहासाहस्रस्य लोकधातोर् उपरिष्टात् पुष्पकूटागारः संस्थितो ऽभूत् चतुस्थूणश् चतुरस्रो भागतः सुविभक्तो रमणीयो मनोरमः.
अथ खलु ततः पर्षदः प्राणिकोटीनियुतशतसहस्रम् उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां (psp1-1: 109) प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: वयं भगवन्न् अनागते ऽध्वनि एवंरूपाणां धर्माणां लाभिनो भवेम यथा तथागतो ऽर्हन् सम्यक्संबुद्धः, एवं च श्रावकगणं परिकर्षेम एवं च पर्षदि धर्मं देशयेम यच् चैतर्हि तथागतो भगवान् धर्मं देशयति.
अथ खलु भगवांस् तेषां कुलपुत्राणाम् आसयं विदित्वा सर्वधर्माणां चानुत्पादायानिरोधायानभिसंस्कारायाप्रादुर्भावाय क्षान्तिं विदित्वा स्मितम् अकरोत्. अथ ततो ऽनेकवर्णा रश्मयो भगवतो मुखद्वारान् निश्चरितास् ते सर्वावन्तं लोकं प्रदक्षिणीकृत्य पुनर् एवागता भगवतो मूर्धन्य् अन्तर्धीयन्ते स्म.
अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जनुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रदुर्भावाय?
अथ खलु भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: एतद् आनन्द प्राणिकोटीनियुतशतसहस्रम् अष्टषष्ट्या कल्पकोटीभिर् बोध्यङ्गपुष्पनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पत्स्यन्ते पुष्पाकरे कल्पे.
इति षडभिज्ञाववादः
अथ खलु भगवांस् तस्यां वेलायाम् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: प्रतिभातु ते सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् आरभ्य यथा बोधिसत्त्वाः महासत्त्वाः प्रज्ञापारमितायां निर्यायुर् इति.
अथ खलु तेषां बोधिसत्त्वानां महासत्त्वानां तेषां च महाश्रावकाणां तेषां च देवपुत्राणाम् एतद् अभवत्, किं नु खल्व् आयुष्मान् सुभूतिः स्वकेन प्रज्ञाप्रतिभानबलाधानेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदेक्ष्यत्य् उताहो बुद्धानुभावेन?
अथ खल्व् आयुष्मान् सुभूतिर् बुद्धानुभावेन तेषां बोधिसत्त्वानां महासत्त्वानां तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यत् किञ्चिद् (psp1-1: 110) आयुष्मन् शारिपुत्र भगवतः श्रावका भाषन्ते देशयन्त्य् उपदिशन्ति सर्वः स तथागतस्य पुरुषकारो वेदितव्यः. तत् कस्य हेतोः? यो हि तथागतेन धर्मो देशितस् तस्यां धर्मदेशनायां शिक्षमाणास् तां धर्मतां साक्षात्कुर्वन्ति तां धर्मतां साक्षात्कृत्वा यद् यद् एव भाषन्ते देशयन्त्य् उपदिशन्ति सर्वं तद् धर्मतया न विरुध्यते, तथागत एवैष शारिपुत्र उपाययोगेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदेक्ष्यति, अविषयो ऽत्र शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदेष्टुम्.
इति दर्शनमार्गाववादोपक्षेपः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बोधिसत्त्व इति भगवन्न् उच्यते, कतमस्यैतद् भगवन् धर्मस्याधिवचनं यद् उत बोधिसत्त्व इति? नाहं भगवन् धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति, सो ऽहं भगवन् बोधिसत्त्वम् असमनुपश्यन् प्रज्ञापारमिताम् अप्य् अनुपलभमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायां वदिष्यामि?
भगवान् आह: नाममात्रम् इदं सुभूते यद् उत प्रज्ञापारमिता इति बोधिसत्त्व इति च, तद् अपि च बोधिसत्त्वनाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, तद्यथापि नाम सुभूते सत्त्वः सत्त्व इति चोच्यते, न च काचित् सत्त्वोपलब्धिः, यच् च तन्नाम तत् प्रज्ञप्तिमात्रं प्रज्ञप्तिधर्मः प्रज्ञप्तिसत्.
इति दुःखे धर्मज्ञानक्षान्तिः
तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, एवम् आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकाः सर्व एते प्रज्ञप्तिधर्माः सर्व एते अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियन्ते.
एवम् एव सुभूते या च प्रज्ञापारमिता, यश् च बोधिसत्त्वो महासत्त्वो, यच् च बोधिसत्त्वनाम सर्व एते प्रज्ञप्तिधर्माः, सर्व एते अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियते.
तद्यथापि नाम सुभूते इदम् अध्यात्मिकं रूपम् इति धर्मप्रज्ञप्तिमात्रं (psp1-1: 111) तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
वेदनेति धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
संज्ञेति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
संस्कारा इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
विज्ञानम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
एवम् एव सुभूते प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च सर्व एते प्रज्ञप्तिधर्मास् तेषाञ् च प्रज्ञप्तिधर्माणां नोत्पादोन निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
चक्षुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत चक्षुर् इति, तच् च चक्षुर् नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
श्रोत्रम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत श्रोत्रम् इति, तच् च श्रोत्रं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
घ्राणम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्यास् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत घ्राणम् इति, तच् च घ्राणं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
जिह्वेति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत जिह्वेति, सा च जिह्वा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
काय इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् (psp1-1: 112) नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत काय इति, स च कायो नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
मन इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत मन इति, तच् च मनो नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
रूपम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते रूपम् इति.
शब्द इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते शब्द इति.
गन्ध इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते गन्ध इति.
रस इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते रस इति.
स्पर्श इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, स्पर्श इति.
धर्म इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, धर्म इति.
चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो निरोधो ऽन्यत्र (psp1-1: 113) नामसंकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते,
घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्यास् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
मनोधातुर् धर्मधातुर् मनोविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति, बोधिसत्त्व इति, बोधिसत्त्वनामेति च धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
तद्यथापि नाम सुभूते यद् एतद् आध्यात्मिकं शरीरं शरीरम् इति व्यवह्रियते, शिरो ग्रीवा उदरम् अंसौ स्कन्धौ बाहू पृष्ठं पार्श्वकाः कठ्यूरू जङ्घे पादाव् अस्थीनीति व्यवह्रियन्ते, ते च प्रज्ञप्तिधर्मास् तेषां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् तेषां च नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
तद्यथापि नाम सुभूते बाह्यं तृणकाष्ठं शाखापर्णपलाशं सर्वं तं नानानामधेयैर् व्यपदिश्यते, तेषाञ् च नाम्नां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् ते च नानानामधेयैर् व्यपदिश्यन्ते, तेषां च नाम्नां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं सुभूते तद्यथापि नाम स्वप्नप्रतिश्रुत्कामरीचिप्रतिभासमायोपमास् तथागतनिर्मिताः सर्वे ते धर्मप्रज्ञप्तिमात्रास् तेषाञ् च नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्वम् एतद् धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसंकेतप्रज्ञप्त्याम् अववादप्रज्ञप्त्यां धर्मप्रज्ञप्त्यां च शिक्षितव्यम्.
इति दुःखे धर्मज्ञानम्
एवं हि सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो न रूपं नित्यम् इति समनुपश्यति, न रूपम् अनित्यम् इति समनुपश्यति, न रूपं सुखम् इति समनुपश्यति, न रूपं दुःखम् इति समनुपश्यति, न रूपम् आत्मेति समनुपश्यति, न रूपम् अनात्मेति समनुपश्यति, न रूपं शान्तम् इति समनुपश्यति, न रूपम् अशान्तम् इति समनुपश्यति, न रूपं शून्यम् इति समनुपश्यति, न रूपम् अशून्यम् इति समनुपश्यति, न रूपं निमित्तम् इति समनुपश्यति, न रूपम् अनिमित्तम् इति समनुपश्यति, न रूपं प्रणिहितम् इति समनुपश्यति, न रूपम् अप्रणिहितम् इति (psp1-1: 115) समनुपश्यति, न रूपं संस्कृतम् इति समनुपश्यति, न रूपम् असंस्कृतम् इति समनुपश्यति, न रूपम् उत्पन्नम् इति समनुपश्यति, न रूपम् अनुत्पन्नम् इति समनुपश्यति, न रूपं निरुद्धम् इति समनुपश्यति, न रूपम् अनिरुद्धम् इति समनुपश्यति, न रूपं विविक्तम् इति समनुपश्यति, न रूपम् अविविक्तम् इति समनुपश्यति, न रूपं कुशलम् इति समनुपश्यति, न रूपम् अकुशलम् इति समनुपश्यति, न रूपं सावद्यम् इति समनुपश्यति, न रूपम् अनवद्यम् इति समनुपश्यति, न रूपं सास्रवम् इति समनुपश्यति, न रूपम् अनास्रवम् इति समनुपश्यति, न रूपं संक्लेशम् इति समनुपश्यति, न रूपं निःक्लेशम् इति समनुपश्यति, न रूपं लौकिकम् इति समनुपश्यति, न रूपं लोकोत्तरम् इति समनुपश्यति, न रूपं संक्लेशम् इति समनुपश्यति, न रूपं व्यवदानम् इति समनुपश्यति, न रूपं संसार इति समनुपश्यति, न रूपं निर्वाणम् इति समनुपश्यति.
न वेदना नित्येति समनुपश्यति, न वेदनानित्येति समनुपश्यति, न सुखेति समनुपश्यति, न दुःखेति समनुपश्यति, नात्मेति नानात्मेति न शान्तेति नाशान्तेति, न शून्येति नाशून्येति, न निमित्तेति नानिमित्तेति, न प्रणिहितेति नाप्रणिहितेति वेदनां समनुपश्यति, न संस्कृतेति नासंस्कृतेति, नोत्पन्नेति नानुत्पन्नेति, न निरुद्धेति नानिरुद्धेति, न विविक्तेति नाविविक्तेति न कुशलेति नाकुशलेति, न सावद्येति नानवद्येति, न सास्रवेति नानास्रवेति, न संक्लेशेति न निःक्लेशेति, न लौकिकेति न लोकोत्तरेति, न संक्लेशेति न व्यवदानम् इति, न संसार इति न निर्वाणम् इति, वेदनां समनुपश्यति.
न संज्ञा नित्येति समनुपश्यति, न संज्ञानित्येति समनुपश्यति, न सुखेति न दुःखेति नात्मेति नानात्मेति, न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति, न प्रणिहितेति नाप्रणिहितेति संज्ञां समनुपश्यति, न संस्कृतेति नासंस्कृतेति नोत्पन्नेति नानुत्पन्नेति, न निरुद्धेति नानिरुद्धेति न विविक्तेति नाविविक्तेति, न कुशलेति नाकुशलेति न सावद्येति नानवद्येति न सास्रवेति नानास्रवेति, न संक्लेशेति न निःक्लेशेति न लौकिकेति न लोकोत्तरेति न संक्लेशम् इति न व्यवदानम् इति न संसार इति न निर्वाणम् इति संज्ञां समनुपश्यति.
न संस्कारा नित्या इति समनुपश्यति, न संस्कारा अनित्या इति समनुपश्यति, न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इति संस्कारान् समनुपश्यति, न संस्कृता इति नासंस्कृता इति नोत्पन्ना इति नानुत्पन्ना इति न निरुद्धा इति नानिरुद्धा इति न विविक्ता इति नाविविक्ता इति, न कुशला इति नाकुशला इति, न सावद्या इति नानवद्या इति, न सास्रवा इति नानास्रवा इति, न संक्लेशा इति न निःक्लेशा इति, न लौकिका इति न लोकोत्तरा इति न संक्लेशा इति न व्यवदानम् इति न संसार इति न निर्वाणम् इति संस्कारान् समनुपश्यति.
न विज्ञानं नित्यम् इति समनुपश्यति, न विज्ञानम् अनित्यम् इति समनुपश्यति, न सुखम् इति न दुःखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति विज्ञानं समनुपश्यति, न संस्कृतम् इति नासंस्कृतम् इति नोत्पन्नम् इति नानुत्पन्नम् इति, न निरुद्धम् इति नानिरुद्धम् इति न विविक्तम् इति नाविविक्तम् इति न कुशलमिति नाकुशलम् इति, न सावद्यम् इति नानवद्यम् इति न सास्रवम् इति नानस्रवम् इति न संक्लेशम् इति न निःक्लेशम् इति, न लौकिकम् इति न लोकोत्तरम् इति, न संक्लेशम् इति न व्यवदानम् इति, न संसर इति न निर्वाणम् इति विज्ञानं समनुपश्यति.
एवं न चक्षुर्धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति, न रूपधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
न चक्षुर्धातुः सुख इति वा दुःख इति वा समनुपश्यति, न रूपधातुः सुख इति वा दुःख इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
न चक्षुर्धातुर् आत्मेति वा अनात्मेति वा समनुपश्यति, न रूपधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
न चक्षुर्धातुः शान्त इति वा अशान्त इति वा समनुपश्यति, न रूपधातुः शान्त इति वा अशान्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
न चक्षुर्धातुः शून्य इति वा अशून्य इति वा समनुपश्यति, न रूपधातुः शून्य इति वा अशून्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
न चक्षुर्धातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति, न रूपधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
न चक्षुर्धातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति, न रूपधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
न चक्षुर्धातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति, न रूपधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
न चक्षुर्धातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति, न रूपधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
न चक्षुर्धातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति, न रूपधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
न चक्षुर्धातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति, न रूपधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
न चक्षुर्धातुः कुशल इति वा अकुशल इति वा समनुपश्यति, न रूपधातुः कुशल इति वा अकुशल इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
न चक्षुर्धातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति, न रूपधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
न चक्षुर्धातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति, न रूपधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
न चक्षुर्धातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति, न रूपधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः (psp1-1: 118) संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
न चक्षुर्धातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति, न रूपधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
न चक्षुर्धातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति, न रूपधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
न चक्षुर्धातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति, न रूपधातुः संसर इति वा निर्वाणम् इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
एवं न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
नमनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
एवं न सुखम् इति वा न दुःखम् इति वा समनुपश्यति,
नात्मेति वा नानात्मेति वा समनुपश्यति,
न शान्तम् इति वा नाशान्तं वा समनुपश्यति,
न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति,
न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति,
न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति,
न संस्कृत इति वा नासंस्कृत इति वा समनुपश्यति,
नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति,
न निरुद्धम् इति वा नानिरुद्धं वा समनुपश्यति,
न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति,
न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति,
न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति,
न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति,
न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति,
न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति,
न संक्लेशम् इति वा न व्यवदानानम् इति वा समनुपश्यति.
यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसार इति वा न निर्वाणम् इति वा समनुपश्यति.
यद् अपि श्रोत्रशब्दश्रोत्रविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
एवं न सुखम् इति वा न दुःखम् इति वा,
नात्मेति वा नानात्मेति वा,
न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति,
न शून्यम् इति वा नाशून्यम् इति वा,
न निमित्तम् इति वा नानिमित्तम् इति वा,
न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति,
न संस्कृतम् इति वा नासंस्कृतम् इति वा,
नोत्पन्नम् इति वा नानुत्पन्नम् इति वा,
न निरुद्धम् इति वा नानिरुद्धम् इति वा,
न विविक्तम् इति वा नाविविक्तम् इति वा,
न कुशलम् इति वा नाकुशलम् इति वा,
न सावद्यम् इति वा नानवद्यम् इति वा,
न सास्रवम् इति वा नानास्रवम् इति वा,
न संक्लेशम् इति वा न निःक्लेशम् इति वा,
न लौकिकम् इति वा न लोकोत्तरम् इति वा,
न संक्लेशम् इति वा न व्यवदानम् इति वा समनुपश्यति.
यद् अपि श्रोत्रशब्दश्रोत्रविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति.
यद् अपि घ्राणगन्धघ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
न सुखम् इति वा न दुःखम् इति वा,
नात्मेति नानात्मेति,
न शान्तम् इति नाशान्तम् इति समनुपश्यति,
न शून्यम् इति नाशून्यम् इति,
न निमित्तम् इति नानिमित्तम् इति,
न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति,
न संस्कृतम् इति नासंस्कृतम् इति,
नोत्पन्नम् इति नानुत्पन्नम् इति,
न निरुद्धम् इति नानिरुद्धम् इति,
न विविक्तम् इति नाविविक्तम् इति,
न कुशलम् इति नाकुशलम् इति,
न सावद्यम् इति नानवद्यम् इति,
न सास्रवम् इति नानास्रवम् इति,
न संक्लेशम् इति न निःक्लेशम् इति,
न लौकिकम् इति न लोकोत्तरम् इति,
न संक्लेशम् इति वा न व्यवदानम् इति वा समनुपश्यति,
यद् अपि घ्राणगन्धघ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा निर्वाणम् इति वा समनुपश्यति.
यद् अपि जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
न सुखम् इति न दुःखम् इति,
नात्मेति नानात्मेति,
न शान्तम् इति नाशान्तम् इति समनुपश्यति,
न शून्यम् इति नाशून्यम् इति,
न निमित्तम् इति नानिमित्तम् इति,
न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति,
न संस्कृतम् इति नासंस्कृतम् इति, नोत्पन्नम् इति नानुत्पन्नम् इति,
न निरुद्धम् इति नानिरुद्धम् इति,
न विविक्तम् इति नाविविक्तम् इति,
न कुशलम् इति नाकुशलम् इति,
न सावद्यम् इति नानवद्यम् इति,
न सास्रवम् इति नानास्रवम् इति,
न संक्लेशम् इति न निःक्लेशम् इति,
न लौकिकम् इति न लोकोत्तरम् इति,
न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति.
यद् अपि जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा निर्वाणम् इति वा समनुपश्यति.
यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति,
न सुखम् इति न दुःखम् इति,
नात्मेति नानात्मेति,
न शान्तम् इति नाशान्तम् इति,
न शून्यम् इति नाशून्यम् इति,
न निमित्तम् इति नानिमित्तम् इति,
न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति,
न संस्कृतम् इति नासंस्कृतम् इति,
नोत्पन्नम् इति नानुत्पन्नम् इति,
न निरुद्धम् इति नानिरुद्धम् इति,
न विविक्तम् इति नाविविक्तम् इति,
न कुशलम् इति नाकुशलम् इति,
न सावद्यम् इति नानवद्यम् इति,
न सास्रवम् इति नानास्रवम् इति,
न संक्लेशम् इति न निःक्लेशम् इति,
न लौकिकम् इति न लोकोत्तरम् इति,
न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति.
यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति.
यद् अपि मनोधर्ममनोविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं (psp1-1: 128) सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
न सुखम् इति न दुःखम् इति,
नात्मेति वा नानात्मेति,
न शान्तम् इति नाशान्तम् इति समनुपश्यति,
न शून्यम् इति नाशून्यम् इति,
न निमित्तम् इति नानिमित्तम् इति,
न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति,
न संस्कृतम् इति नासंस्कृतम् इति,
नोत्पन्नम् इति नानुत्पन्नम् इति,
न निरुद्धम् इति नानिरुद्धम् इति,
न विविक्तम् इति नाविविक्तम् इति,
न कुशलम् इति नाकुशलम् इति,
न सावद्यम् इति नानवद्यम् इति,
न सास्रवम् इति नानास्रवम् इति,
न संक्लेशम् इति न निःक्लेशम् इति,
न लौकिकम् इति न लोकोत्तरम् इति,
न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति.
यद् अपि मनोधर्ममनोविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति.
इति दुःखे ऽन्वयज्ञानक्षान्तिः
तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां प्रज्ञापारमितानाम तं च बोधिसत्त्वं तच् च बोधिसत्त्वनाम न समनुपश्यति, संस्कृते वा धाताव् असंस्कृते वा धातौ तथा हि सुभूते बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैतान् सर्वधर्मान् कल्पयति न विकल्पयति, सो ऽविकल्पे धर्मे स्थित्वा स्मृत्युपस्थानानि भावयति, प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम समनुपश्यति, न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनुपश्यति.
एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमितातथागतबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् भावयति, प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम, न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनुपश्यति, अन्यत्र सर्वाकारज्ञता मनसिकारात्.
इति दुःखे ऽन्वयज्ञानम्
तथा हि तेन प्रज्ञापारमितायां चरता धर्मलक्षणं प्रतिविद्धं भवति, यच् च धर्माणां लक्षणं तन् न संक्लिश्यते न व्यवदायते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनुबोद्धव्या.
इति समुदये धर्मज्ञानक्षान्तिः
स नामसांकेतिक्या धर्मप्रज्ञप्त्या अवबुद्धया न रूपम् अभिनिवेक्ष्यते, न वेदनाम् अभिनिवेक्ष्यते, न संज्ञाम् अभिनिवेक्ष्यते, न संस्कारान् अभिनिवेक्ष्यते, न विज्ञानम् अभिनिवेक्ष्यते.
न चक्षुर् अभिनिवेक्ष्यते, न रूपम् अभिनिवेक्ष्यते, न चक्षुर्विज्ञानम् अभिनिवेक्ष्यते, न चक्षुःसंस्पर्शम् अभिनिवेक्ष्यते, यद् अपि चक्षुःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
न श्रोत्रम् अभिनिवेक्ष्यते न शब्दं न श्रोत्रविज्ञानं न श्रोत्रसंस्पर्शं, यद् अपि श्रोत्रसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
न घ्राणम् अभिनिवेक्ष्यते न गन्धं न घ्राणविज्ञानं न घ्राणसंस्पर्शम्, यद् अपि घ्राणसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
न जिह्वाम् अभिनिवेक्ष्यते न रसं न जिह्वाविज्ञानं न जिह्वासंस्पर्शं, यद् अपि जिह्वासंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
न कायम् अभिनिवेक्ष्यते न स्प्रष्टव्यं न कायविज्ञानं न कायसंस्पर्शं, यद् अपि कायःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं (psp1-1: 130) सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
न मनो ऽभिनिवेक्ष्यते न धर्मान् न मनोविज्ञानं न मनःसंस्पर्शं, यद् अपि मनःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते, नापि संस्कृतधातुम् अभिनिवेक्ष्यते, नाप्य् असंस्कृतधातुम् अभिनिवेक्ष्यते.
इति समुदये धर्मज्ञानम्
स न दानपारमिताम् अभिनिवेक्ष्यते, न शीलपारमिताम् अभिनिवेक्ष्यते, न क्षान्तिपारमिताम् अभिनिवेक्ष्यते, न वीर्यपारमिताम् अभिनिवेक्ष्यते, न ध्यानपारमिताम् अभिनिवेक्ष्यते, न प्रज्ञापारमिताम् अभिनिवेक्ष्यते, न नामापि न लक्षणम् अपि तासाम् अभिनिवेक्ष्यते, न काये ऽभिनिवेक्ष्यते.
न मांसचक्षुष्य् अभिनिवेक्ष्यते, न दिव्यचक्षुष्य् अभिनिवेक्ष्यते, न प्रज्ञाचक्षुष्य् अभिनिवेक्ष्यते, न धर्मचक्षुष्य् अभिनिवेक्ष्यते, न बुद्धचक्षुष्य् अभिनिवेक्ष्यते, नाभिज्ञास्व् अभिनिवेक्ष्यते.
नाध्यात्मशून्यतायाम् अभिनिवेक्ष्यते, न बहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, नाध्यात्मबहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, न शून्यताशून्यतायां न महाशून्यतायां न परमार्थशून्यतायां न संस्कृतशून्यतायां नासंस्कृतशून्यतायां नात्यन्तशून्यतायां नानवराग्रशून्यतायां नानवकारशून्यतायां न प्रकृतिशून्यतायां न सर्वधर्मशून्यतायां न स्वलक्षणशून्यतायां नानुपलम्भशून्यतायां नाभावस्वभावशून्यतायां न भावशून्यतायां नाभावशून्यतायां न स्वभावशून्यतायां न परभावशून्यतायाम् अभिनिवेक्ष्यते.
न तथतायां न भूतकोट्यां न धर्मधातौ न सत्त्वपरिपाके न बुद्धक्षेत्रपरिशुद्धौ नोपायकौशल्ये ऽभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा न संविद्यन्ते यस् चाभिनिविशेत येन चाभिनिविशेत यत्र चाभिनिविशेत.
इति समुदये ऽन्वयज्ञानक्षान्तिः
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनभिनिविष्टः सर्वधर्मेषु दानपारमितया विवर्धते, शीलपारमितया (psp1-1: 131) विवर्धते, क्षान्तिपारमितया विवर्धते, वीर्यपारमितया विवर्धते, ध्यानपारमितया विवर्धते, प्रज्ञापारमितया विवर्धते, बोधिसत्त्वनियामम् अवक्रामति.
इति समुदये ऽन्वयज्ञानम्
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अविनिवर्तनीयां भूमिम् अवक्रामति.
इति निरोधे धर्मज्ञानक्षान्तिः
एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो ऽभिज्ञाः परिपूरयति, अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, सत्त्वांश् च परिपाचयति, बुद्धांश् च भगवतः सत्करोति गुरुकरोति मानयति पूजयति तेनैव कुशलमूलेन तेषां बुद्धानां भगवतां चान्तिक उपपद्यते, धर्मं च शृणोति श्रुताश् चास्य धर्मा न जातूच्छेत्स्यन्ते यावदा बोधिमण्डाद् इति धारणीमुखानि प्रतिलप्स्यते समाधिमुखानि प्रतिलप्स्यते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनुबोद्धव्या.
इति निरोधे धर्मज्ञानम्
तत् किं मन्यसे सुभूते यद् उच्यते बोधिसत्त्वो महासत्त्व इत्य् अपि तु रूपं बोधिसत्त्व इति, वेदना बोधिसत्त्व इति, संज्ञा बोधिसत्त्व इति, संस्कारा बोधिसत्त्व इति, विज्ञानं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधिसत्त्व इति, अन्यत्र वेदनाया बोधिसत्त्व इति, अन्यत्र संज्ञाया बोधिसत्त्व इति, अन्यत्र संस्कारेभ्यो बोधिसत्त्व इति, अन्यत्र विज्ञानाद् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते रूपे बोधिसत्त्व इति, वेदनायां बोधिसत्त्व इति, संज्ञायां बोधिसत्त्व इति, संस्कारेषु बोधिसत्त्व इति, विज्ञाने बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते बोअधिसत्त्वे रूपम् इति, बोधिसत्त्वे वेदनेति, बोधिसत्त्वे संज्ञेति, बोधिसत्त्वे संस्कारा इति, बोधिसत्त्वे विज्ञानम् इति?
तत् किं मन्यसे सुभूते अरूपो बोधिसत्त्व इति, अवेदनो बोधिसत्त्व (psp1-1: 132) इति, असंज्ञो बोधिसत्त्व इति, असंस्करो बोधिसत्त्व इति, अविज्ञनो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते चक्षुर् बोधिसत्त्वो ऽन्यत्र चक्षुषश् चक्षुषि बोधिसत्त्वो बोधिसत्त्वे चक्षुर् अचक्षुष्को बोधिसत्त्व इति,
श्रोत्रं बोधिसत्त्वो ऽन्यत्र श्रोत्राच् छ्रोत्रे बोधिसत्त्वो बोधिसत्त्वे श्रोत्रम् अश्रोत्रो बोधिसत्त्व इति,
घ्राणं बोधिसत्त्वो ऽन्यत्र घ्राणाद् घ्राणे बोधिसत्त्वो बोधिसत्त्वे घ्राणम् अघ्राणो बोधिसत्त्व इति,
जिह्वा बोधिसत्त्वो ऽन्यत्र जिह्वाया जिह्वायां बोधिसत्त्वो बोधिसत्त्वे जिह्वाजिह्वो बोधिसत्त्व इति,
कायो बोधिसत्त्वो ऽन्यत्र कायात् काये बोधिसत्त्वो बोधिसत्त्वे कायो ऽकायो बोधिसत्त्व इति,
मनो बोधिसत्त्वो ऽन्यत्र मनसो मनसि बोधिसत्त्वो बोधिसत्त्वे मनो ऽमनस्को बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते रूपं बोधिसत्त्वो ऽन्यत्र रूपाद् रूपे बोधिसत्त्वो बोधिसत्त्वे रूपम् अरूपो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते शब्दो बोधिसत्त्वो ऽन्यत्र शब्दाच् छब्दे बोधिसत्त्वो बोधिसत्त्वे शब्दो ऽशब्दो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते गन्धो बोधिसत्त्वो ऽन्यत्र गन्धाद् गन्धे बोधिसत्त्वो बोधिसत्त्वे गन्धो ऽगन्धो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते रसो बोधिसत्त्वो ऽन्यत्र रसाद् रसे बोधिसत्त्वो बोधिसत्त्वे रसो ऽरसो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते स्प्रष्टव्यं बोधिसत्त्वो ऽन्यत्र स्प्रष्टव्यात् स्प्रष्टव्ये बोधिसत्त्वो बोधिसत्त्वे स्प्रष्टव्यम् अस्प्रष्टव्यो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते धर्मो बोधिसत्त्वो ऽन्यत्र धर्माद् धर्मे बोधिसत्त्वो बोधिसत्त्वे धर्मो ऽधर्मो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो (psp1-1: 133) ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना चक्षूरूपचक्षुर्विज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते श्रोत्रशब्दश्रोत्रविज्ञानानिबोधिसत्त्वो ऽन्यत्र एभ्य एषु ऽ; सः, एतानि तस्मिन् विना श्रोत्रशब्दश्रोत्रविज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते घ्राणगन्धघ्राणविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना घ्राणगन्धघ्राणविज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते जिह्वारसजिह्वाविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना जिह्वारसजिह्वाविज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते कायस्प्रष्टव्यकायविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना कायस्प्रष्टव्यकायविज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते मनोधर्ममनोविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना मनोधर्ममनोविज्ञानैर् बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते पृथिवीधातुर् बोधिसत्त्वो ऽन्यत्र पृब्थिवीधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुर् अपृथिवीधातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते ऽब्धातुर् बोधिसत्त्वो ऽन्यत्राब्धातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे ऽब्धातुर् अनब्धातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते तेजोधातुर् बोधिसत्त्वो ऽन्यत्र तेजोधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे तेजोधातुर् अतेजोधातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते वायुधातुर् बोधिसत्त्वो ऽन्यत्र वायुधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे वायुधातुर् अवायुधातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते आकाशधातुर् बोधिसत्त्वो ऽन्यत्राकाशधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे आकाशधातुर् अनाकाशधातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते विज्ञानधातुर् बोधिसत्त्वो ऽन्यत्र विज्ञानधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुर् अविज्ञानधातुको बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते अविद्या बोधिसत्त्वो ऽन्यत्राविद्याया अविद्यायां बोधिसत्त्वो बोधिसत्त्वे ऽविद्यानविद्यो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते संस्कारा बोधिसत्त्वो ऽन्यत्र संस्कारेभ्यः संस्कारेषु बोधिसत्त्वो बोधिसत्त्वे संस्कारा असंस्कारो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्वो ऽन्यत्र विज्ञानाद् विज्ञाने बोधिसत्त्वो बोधिसत्त्वे विज्ञानम् अविज्ञानो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते नामरूपं बोधिसत्त्वो ऽन्यत्र नामरूपान् नामरूपे बोधिसत्त्वो बोधिसत्त्वे नामरूपम् अनामरूपो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते षडायतनं बोधिसत्त्वो ऽन्यत्र षडायतनात् षडायतने बोधिसत्त्वो बोधिसत्त्वे षडायतनम् अषडायतनो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्वो ऽन्यत्र स्पर्शात् स्पर्से बोधिसत्त्वो बोधिसत्त्वे स्पर्शो ऽस्पर्शो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते वेदना बोधिसत्त्वो ऽन्यत्र वेदनाया वेदनायां बोधिसत्त्वो बोधिसत्त्वे वेदनावेदनो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते तृष्णा बोधिसत्त्वो ऽन्यत्र तृष्णायाः तृष्णायां बोधिसत्त्वो बोधिसत्त्वे तृष्णातृष्णो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते उपादानं बोधिसत्त्वो ऽन्यत्र उपादानाद् उपादाने बोधिसत्त्वो बोधिसत्त्वे उपादानम् अनुपादानो बोधिसत्त्व इति,
तत् किं मन्यसे सुभूते भवो बोधिसत्त्वो ऽन्यत्र भवाद् भवे बोधिसत्त्वो बोधिसत्त्वे भवो ऽभवो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते जातिर् बोधिसत्त्वो ऽन्यत्र जातेर् जातौ बोधिसत्त्वो बोधिसत्त्वे जातिर् अजातिर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते जरामरणं बोधिसत्त्वो ऽन्यत्र जरामरणाद् जरामरणे बोधिसत्त्वो बोधिसत्त्वे जरामरणम् अजरामरणो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
इति निरोधे ऽन्वयज्ञानक्षान्तिः
भगवान् आह: तत् किं मन्यसे सुभूते ऽपि नु या रूपस्य तथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथतो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते या वेदनातथता सा बोधिसत्त्वो ऽन्यत्र वेदनातथताया वेदनातथतायां बोधिसत्त्वो बोधिसत्त्वे वेदनातथता अवेदनातथतो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते या संज्ञातथता सा बोधिसत्त्वो ऽन्यत्र संज्ञातथतायाः संज्ञातथतायां बोधिसत्त्वो बोधिसत्त्वे संज्ञातथता असंज्ञातथतो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्वो ऽन्यत्र संस्कारतथतायाः संस्कारतथतायां बोधिसत्त्वो बोधिसत्त्वे संस्कारतथता असंस्कारतथतो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानतथताया विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानतथता अविज्ञानतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते यदि व्यस्तेषु स्कन्धेषु न बोधिसत्त्वः समस्तेषु भवतु या स्कन्धतथता सा बोधिसत्त्वो ऽन्यत्र स्कन्धतथतायाः स्कन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे स्कन्धतथता अस्कन्धतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या चक्षूरूपचक्षुर्विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र चक्षूरूपचक्षुर्विज्ञानतथतायाश् चक्षूरूपचक्षुर्विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षूरूपचक्षुर्विज्ञानतथता अचक्षूरूपचक्षुर्विज्ञानतथतो बोधिसत्त्व इति?
एवं श्रोत्रशब्दश्रोत्रविज्ञानतथता घ्राणगन्धघ्राणविज्ञानतथता जिह्वारसजिह्वाविज्ञानतथता कायस्प्रष्टव्यकायविज्ञनतथताया मनोधर्ममनोविज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र मनोधर्ममनोविज्ञानतथताया मनोधर्ममनोविज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे न्मनोधर्ममनोविज्ञानतथता अमनोधर्ममनोविज्ञानतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या पृथिवीधातुतथता सा बोधिसत्त्वो ऽन्यत्र पृथिवीधातुतथतायाः पृथिवीधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुतथता अपृथिवीधातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या अब्धातुतथता सा बोधिसत्त्वो ऽन्यत्राब्धातुतथताया अब्धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे अब्धातुतथता अनब्धातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या तेजोधातुतथता सा बोधिसत्त्वो ऽन्यत्र तेजोधातुतथतायाः तेजोधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे तेजोधातुतथता अतेजोधातुतथतो बोधिसत्त्व इति.
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या वायुधातुतथता सा बोधिसत्त्वो ऽन्यत्र वायुधातुतथतायाः वायुधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे वायुधातुतथता अवायुधातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या आकाशधातुतथता सा बोधिसत्त्वो ऽन्यत्र आकाशधातुतथताया आकाशधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे आकाशधातुतथता अनाकाशधातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह:
तत् किं मन्यसे सुभूते या विज्ञानधातुतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानधातुतथताया विज्ञानधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुतथता अन्विज्ञानधातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते यदि व्यस्तेषु धातुषु न बोधिसत्त्वः समस्तेषु भवतु या धातुतथता सा बोधिसत्त्वो ऽन्यत्र धातुतथताया धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे धातुतथता अधातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते या चक्षुस्तथता सा बोधिसत्त्वो ऽन्यत्र चक्षुस्तथतायाश् चक्षुस्तथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षुस्तथता अचक्षुस्तथतो बोधिसत्त्व इति. एवं या श्रोत्रतथताघ्राणतथताजिह्वातथताकायतथता,
तत् किं मन्यसे सुभूए या मनस्तथता सा बोधिसत्त्वो ऽन्यत्र मनस्तथताया मनस्तथतायां बोधिसत्त्वो बोधिसत्त्वे मनस्तथता अमनस्तथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या रूपतथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथतो बोधिसत्त्व इति? एवं याः शब्दगन्धरसस्प्रष्टव्यधर्मतथताः सा बोधिसत्त्वो ऽन्यत्र शब्दगन्धरसस्प्रष्टव्यधर्मतथताभ्यः शब्दगन्धरसस्प्रष्टव्यधर्मतथतासु बोधिसत्त्वो बोधिसत्त्वे शब्दगन्धरसस्प्रष्टव्यधर्मतथता अशब्दगन्धरसस्प्रष्टव्यधर्मतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: यदि सुभूते व्यस्तेष्व् आयतनेषु न बोधिसत्त्वः समस्तेषु भवतु या सुभूते आयतनतथता सा बोधिसत्त्वो ऽन्यत्रायतनतथताया आयतनतथतायां बोधिसत्त्वो बोधिसत्त्वे आयतनतथता (psp1-1: 138) अनायतनतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या अविद्यातथता सा बोधिसत्त्वो ऽन्यत्राविद्यातथता या अविद्यातथताया अविद्यातथतायां बोधिसत्त्वो बोधिसत्त्वे अविद्यातथता अनविद्यातथतो बोधिसत्त्व इति?
एवं या संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्शतथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता,
तत् किं मन्यसे सुभूते या जरामरणतथता सा बोधिसत्त्वो ऽन्यत्र जरामरणतथताया जरामरणतथतायां बोधिसत्त्वो बोधिसत्त्वे जरामरणतथता अजरामरणतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते यदि व्यस्तेषु प्रतीत्यसमुत्पादाङ्गेषु न बोधिसत्त्वः समस्तेषु भवतु या प्रतीत्यसमुत्पादतथता सा बोधिसत्त्वो ऽन्यत्र प्रतीत्यसमुत्पादतथतायाः प्रतीत्यसमुत्पादतथतायां बोधिसत्त्वो बोधिसत्त्वे प्रतीत्यसमुत्पादतथता अप्रतीत्यसमुत्पादतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशम् उपादायैवं वदसि: न रूपं बोधिसत्त्व इति, न वेदना न संज्ञा न संस्कारा न विज्ञानं न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न रूपाणि न शब्दा न गन्धा न रसा न स्प्रष्टव्या न धर्माः, न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा नकायो न मनः, न चक्षूरूपचक्षुर्विज्ञानं न श्रोत्रशब्दश्रोत्रविज्ञानं न घ्राणगन्धघ्राणविज्ञानं न जिह्वारसजिह्वाविज्ञानं न कायस्प्रष्टव्यकायविज्ञानं न मनोधर्ममनोविज्ञानं, नाविद्या एवं न संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्व इति, यावन् न स्कन्धधात्वायतनप्रतीत्यसमुत्पादो बोधिसत्त्व इति, न रूपतथता बोधिसत्त्व इति, न वेदनातथता न संज्ञातथता न संस्कारतथता न (psp1-1: 139) विज्ञानतथता यावन् न पृथिवीधातुतथता नाब्धातुतथता न तेजोधातुतथता न वायुधातुतथतानाकाशधातुतथता न विज्ञानधातुतथता,
न चक्षुस्तथता न श्रोत्रतथता न घ्राणतथता न जिह्वातथतान कायतथता न मनस्तथता,
न रूपतथता न शब्दतथता न गन्धतथता न रसतथतान स्प्रष्टव्यतथता न धर्मतथता,
न चक्षूरूपचक्षुर्विज्ञानतथता न श्रोत्रशब्दश्रोत्रविज्ञानतथता न घ्राणगन्धघ्राणविज्ञानतथता न जिह्वारसजिह्वाविज्ञानतथता न कायस्प्रष्टव्यकायविज्ञानतथता न मनोधर्ममनोविज्ञानतथता,
नाविद्यातथता न संस्कारतथता न विज्ञानतथता न नामरूपतथता न षडायतनतथता न स्पर्शतथता न वेदनातथता न तृष्णातथता नोपादानतथता न भवतथता न जातितथता न जरामरणतथता यावन् न स्कन्धधात्वायतनतथता न प्रतीत्यसमुत्पादतथता बोधिसत्त्व इति. सुभूतिर् आह: अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो रूपं बोधिसत्त्वो भविष्यति, वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते. तत् कुतः पृथिवीधातु बोधिसत्त्वो भविष्यति, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो रूपं बोधिसत्त्वो भविष्यति, एवं शब्दो गन्धो रसः स्पर्शो धर्मो बोधिसत्त्वो भविष्यति, एवं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतश् चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो भविष्यति, एवं श्रोत्रशब्दश्रोत्रविज्ञनानि घ्राणगन्धघ्राणविज्ञानानि जिह्वारसजिह्वाविज्ञानानि (psp1-1: 140) कायस्प्रष्टव्यकायविज्ञानानि, मनोधर्ममनोविज्ञानानि बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्य्ते नोपलभ्यते, तत् कुतो ऽविद्या बोधिसत्त्वो भविष्यति. एवं संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतः पुनर् अस्य रूपतथतोपलप्स्यते, वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथतोपलप्स्यते.
अत्यन्ततय भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य पृथिवीधातुतथतोपलप्स्यते, एवम् अब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुतथतोपलप्स्यते.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य रूपतथतोपलप्स्यते, एवं शब्दगन्धरसस्प्रष्टव्यधर्मतथतोपलप्स्यते, एवं चक्षुस्तथता श्रोत्रतथता घ्राणतथता जिह्वातथता कायतथता मनस्तथतोपलप्स्यते, एवं चक्षूरूपचक्षुर्विज्ञानतथतोपलप्स्यते, एवं श्रोत्रशब्दश्रोत्रविज्ञानतथता घ्राणगन्धघ्राणविज्ञानतथता जिह्वारसजिह्वाविज्ञानतथता कायस्प्रष्टव्यकायविज्ञानतथता मनोधर्ममनोविज्ञानतथतोपलप्स्यते.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्याविद्यातथतोपलप्स्यते, एवं संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्शतथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता जरामरणतथतोपलप्स्यते.
एवम् एकैकशः स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यस्तसमस्तेष्व् अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथतोपलप्स्यते, नैतत् स्थानं विद्यते.
भगवान् आह: साधु साधु सुभूते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वानुपलब्ध्या प्रज्ञापारमितानुपलब्धौ शिक्षितव्यम्.
इति निरोधे ऽन्वयज्ञानम्
भगवान् आह: तत् किं मन्यसे सुभूते रूपस्यैतद् अधिवचनं बोधिसत्त्व इति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यैतद् अधिवचनं बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते रूपनित्यताया रूपानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, रूपसुखताया रूपदुःखताया रूपात्मताया रूपानात्मताया रूपशान्तताया रूपाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते वेदनानित्यताया वेदनानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, वेदनासुखताया वेदनादुःखताया वेदनात्मताया वेदनानात्मताया वेदनाशान्तताया वेदनाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते संज्ञानित्यताया संज्ञानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, संज्ञासुखताया संज्ञादुःखताया संज्ञात्मताया संज्ञानात्मताया संज्ञाशान्तताया संज्ञाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते संस्कारनित्यताया संस्कारानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, संस्कारसुखतायाः संस्कारदुःखतायाः संस्कारात्मतायाः संस्कारानात्मतायाः संस्कारशान्ततायाः संस्काराशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते विज्ञाननित्यताया विज्ञानानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, विज्ञानसुखताया विज्ञानदुःखताया विज्ञानात्मताया विज्ञाननात्मताया विज्ञानशान्तताया विज्ञानाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते रूपशून्यताया रूपाशून्यताया रूपनिमित्तताया रूपानिमित्तताया रूपप्रणिहितताया रूपाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति? एवं वेदना संज्ञा संस्काराः,
तत् किं मन्यसे सुभूते विज्ञानशून्यताया विज्ञानाशून्यताया विज्ञाननिमित्तताया (psp1-1: 142) विज्ञानानिमित्तताया विज्ञानप्रणिहितताया विज्ञानाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशं प्रतीत्य एवं वदसि: न रूपस्य नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न रूपस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
न वेदनाया नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न वेदनायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
न संज्ञाया नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संज्ञायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
न संस्कारानां नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संस्कारानां प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं (psp1-1: 143) बोधिसत्त्व इति,
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
