Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा न प्रतिक्रोक्ष्यति न प्रतिवहिष्यति प्रसादं प्रतिलप्स्यते, पूर्वजिनकृताधिकारः स आनन्द कुलपुत्रो वा कुलदुहिता वा वेदितव्यः, अवरोपितकुशलमूलः, कल्याणमित्रपरिगृहीतः, किं चाप्य् आनन्द येन कुलपुत्रेण वा कुलदुहित्रा वा तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके कुशलमूलम् अवरोपितं स न तद् विसंवादयिष्यति श्रावकत्वाय वा प्रत्येकबुद्धत्वाय वा. अपि तु खलु पुनर् आनन्द सुप्रतिसंविदितेन बोधिसत्त्वेन महासत्त्वेन भवितव्यं, दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता, सर्वशून्यतासु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेष्व् आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेष्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकबुद्धधर्मेषु चरता, सर्वाकारज्ञतायां चरता. सुप्रतिसंविदितो ह्य् (psp_5:71) आनन्द बोधिसत्त्वो महासत्त्वो दानपारमितायाञ् चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन् न श्रावकत्वाय वा न प्रत्येकबुद्धत्वाय वा स्थास्यति. तस्मात् तर्ह्य् आनन्दानुपरीन्दामि त इमां गम्भीरां प्रज्ञापारमितां, सचेत् पुनस् त्वं आनन्द यो मया धर्मो देशितः स्थापित्वा प्रज्ञापारमितां सर्वान्तां धर्मदेशनाम् उद्गृह्य पर्यवाप्य पुनर् एव नाशयेः पुनर् एवोत्सृजेर् न मे त्वम् आनन्द तावता अपराद्धः स्याः, सचेत् त्वम् आनन्देमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य एकपदम् अपि नाशयेर् उत्सृजेस् तावता मे त्वं आनन्दापराद्धः स्याः, सचेत् त्वं आनन्देमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य द्वे पदम् अपि पुनर् एव नाशयेः पुनर् एवोत्सृजेस् तावता मे त्वं आनन्दापराद्धः स्याः. तस्मात् तर्ह्य् आनन्दानुपरीन्दामि ते तथेमां गम्भीरां प्रज्ञापारमितां पठेयम् उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या योनिशश् च मनसिकर्तव्या भवेत्, त्वया च सुव्यक्तेन सुपरिगृहीतेनाक्षरपदव्यञ्जनेन सुनिरुक्ता च सुपरिगृहीता च कर्तव्या.
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशश् च मनसिकरिष्यति तेन कुलपुत्रेण वा कुलदुहित्रा वातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिर् अनुपरिगृहीता भविष्यति, यो ह्य् आनन्द तर्हि मां संमुखीभूतः कुलपुत्रो वा कुलदुहिता वा सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तेनेयं गम्भीरा प्रज्ञापारमिता उद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या योनिशश् च मनसिकर्तव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः प्रज्ञापारमितां सत्कुर्वन् तु गुरुकुर्वन् मानयन् पूजयन् तेन पूजितो भवामि, अतीतानागतप्रत्युत्पन्नाश् च बुद्धा भगवन्तः पूजिता भवन्ति.
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा, इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा गौरवं च प्रेम च प्रसादं (psp_5:72) चोत्पादयिष्यति अतीतानागतप्रत्युत्पन्ननां बुद्धानां भगवताम् अन्तिके तेन गौरवञ् च प्रेम च प्रसादश् चोत्पादितो भविष्यति यथा ते ऽहम् आनन्द प्रियश् च मनआपश् चापरित्यक्तश् च तथेयं गम्भीरा प्रज्ञापारमिता प्रिया मनआपापरित्यक्ता भवतु यथा एकपदम् अपि त इतो गम्भीराया प्रज्ञापारमिताया न नाशयितव्यं, बह्व् अपि ते ऽहम् आनन्द भाषे प्रज्ञापारमिताया परीन्दनाम् आरभ्य संक्षिप्तेनानन्द यादृशस् ते ऽहं शास्ता तादृशी ते प्रज्ञापारमिता शास्ता, तस्मात् तर्ह्य् आनन्द प्रज्ञापारमिता या अप्रमाणानि परीन्दनानि, अहं च ते आनन्देमां गम्भीरां प्रज्ञापारमिताम् अनुपरीन्दामि, तस्मात् तर्ह्य् आनन्द सदेवमानुषासुरस्य लोकस्यारोचयामि यस्यापरित्यक्तो बुद्धो ऽपरित्यक्तो धर्मो ऽपरित्यक्तः संघो ऽपरित्यक्ता अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽपरित्यक्तानुत्तरा सम्यक्संबोधिस् तस्येयं गम्भीरा प्रज्ञापारमितापरित्यक्ता भवतु, इयम् अस्माकम् अनुशासनी.
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशश् च मनसिकरिष्यति, परेषाञ् चेमां गम्भीरां प्रज्ञापारमिताम् अनेकपर्यायेण विस्तरेणाख्यास्यति देशयिष्यति प्रज्ञापयिष्यति प्रस्थापयिष्यति विवरिष्यति विभजिष्यत्य् उत्तानीकरिष्यति संप्रकाशयिष्यति, स खलु पुनर् आनन्द कुलपुत्रो वा कुलदुहिता वा क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, अभ्यासन्नश् च भविष्यति सर्वाकारज्ञतायाः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्जाता ह्य् आनन्द बुद्धानां भगवताम् अनुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्दाभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अप्य् आनन्द बुद्धानां भगवतां प्रज्ञापारमिता निर्जातैवानुत्तरा सम्यक्संबोधिः. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अप्य् आनन्द बुद्धानां भगवतां प्रज्ञापारमिता निर्जातैवानुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्दैतर्हि पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्ध्वं विदिक्षु दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अप्य् आनन्द बुद्धानां भगवतां प्रज्ञापारमिता निर्जातैवानुत्तरा सम्यक्संबोधिः. तस्मात् तर्ह्य् आनन्द (psp_5:73) बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेन इह प्रज्ञापारमितायां शिक्षितव्यम्. तत् कस्य हेतोः? एषा ह्य् आनन्द बोधिसत्त्वानां महासत्त्वानां माताजनयित्री यद् उत प्रज्ञापारमिता, ये केचिद् आनन्द बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां
शिक्षिष्यन्ते सर्वे ते निर्यास्यन्त्य् अनुत्तरायां सम्यक्संबोधौ. तस्मात् तर्ह्य् आनन्देमां प्रज्ञापारमितां भूयस्या मात्रयानुपरीन्दामि. तत् कस्य हेतोः? एषा ह्य् आनन्द तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मकोशः, अक्षयो ह्य् एष कोशो यद् उत प्रज्ञापारमिताकोशः. ये ऽपि ते आनन्द पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्ध्वं विदिक्षु दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति ते ऽप्य् आनन्द बुद्धा भगवन्त इत एव प्रज्ञापारमिताकोशाद् देशयन्ति. ये ऽपि ते आनन्दातीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अभूवंस् ते ऽप्य् अस्याम् एव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा धर्मन् देशितवन्तः. ये ऽपि ते आनन्द भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अस्याम् एव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते धर्मञ् च देशयिष्यन्ति. ये ऽपि ते आनन्दातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां श्रावकाः सर्वे ते इहैव प्रज्ञापारमितायां शिक्षित्वा परिनिर्वृताश् च परिनिर्वान्ति च परिनिर्वास्यन्ति च. इति महाबोधिहेतोः प्रज्ञापारमितापरीन्दनाद्वितीयं कारणम्
सचेत् त्वम् आनन्द श्रावकयानिकानां पुद्गलानां श्रावकभूमिम् आरभ्य धर्मन् देशयेस् तया च धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽर्हत्त्वं साक्षात्कुर्युर् अद्यापि त्वया मम श्रावकेण श्रावककृत्यन् न कृतं स्यात्. सचेत् मे त्वम् आनन्द बोधिसत्त्वस्य महासत्त्वस्य एकम् अपि प्रज्ञापारमिता प्रतिसंयुक्तं पदं देशयेः प्रकाशयेर्, एवम् अहं त्वया श्रावकेनाभिराधितो भवेयं, श्रावकेण श्रावककृत्यं कृतं स्यात्, तया च पूर्विकया धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरमं मानुष्यकम् आत्मभावं प्रतिलभेरन् मानुष्यकम् आत्मभावं प्रतिलभ्यार्हत्त्वं साक्षात्कुर्युस् तेषाञ् चार्हतां यद् दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु. (psp_5:74) तत् किं मन्यसे? त्वम् आनन्दापि नु तत् पुण्यक्रियावस्तु बहु.
आनन्द आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स आनन्द बहुतरं पुण्यं प्रसवेत्, यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तन् धर्मन् देशयेद् अन्तश एकदिवसम् अपि, तिष्ठत्व् आनन्द एकदिवसं सचेद् यावद् अर्धदिवसम् अपि, तिष्ठत्व् अर्धदिवसं यावत् पुरोभक्तम् अपि, तिष्ठत्व् आनन्द पुरोभक्तं सचेद् यावन् नालिकान्तरं, सचेद् यावत् क्षणं वा यावल् लवं वा, तिष्ठत्व् आनन्द लवम् अन्तशो निमेषमात्रम् अपि, अयं आनन्द ततो बहुतरं पुण्यं प्रसवेत्. यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तन् धर्मन् देशयेत्, स सर्वश्रावकयानिकानां सर्वप्रत्येकबुद्धयानिकानां पुद्गलानां कुशलमूलम् अभिभवति. सचेद् आनन्द बोधिसत्त्वो महासत्त्वो बोधिसत्त्वयानिकानां पुद्गलानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेद् अन्तश एकदिवसम् अप्य् अर्धदिवसम् अपि पुरोभक्तम् अपि नालिकान्तरं वा क्षणं वा लवं वा निमेषमात्रम् अपि, अयम् आनन्द बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितृणां कुशलमूलम् अभिभवति. तत् कस्य हेतोः? तथा हि स आत्मना चानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः परांश् चानुत्तरायै सम्यक्संबोधये संप्रहर्षयति समुत्तेजयति समादापयति निवेशयति प्रतिष्ठापयति. एवं आनन्द बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरञ् चतुर्षु स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्न् अप्रमाणध्यानारूप्यसमापत्तिषु चरन्न् आर्यसत्येषु चरन् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् शून्यतानिमित्ताप्रणिहितेषु चरन्न् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् सर्वाकारज्ञतायां चरन् कुशलमूलैर् विवर्धमानो ऽस्थानम् अनवकाशो यद् अनुत्तरायाः सम्यक्संबोधेः परिहास्यते नेदं स्थानं विद्यते. अस्यां खलु पुनः प्रज्ञापारमितायां भाष्यमाणायां चतस्रः परिषदो देवमनुष्ययक्सगन्धर्वासुरगरुडकिंनरमहोरगाश् च संनिपतिताः संनिषन्णा अभूवन्. (psp_5:75)
अथ खलु भगवांश् चतसृणां पर्षदां पुरतस् तथारूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्कृतवान् यथारूपेणर्द्ध्यभिसंस्कारेणाभि संस्कृतेनाक्षोभ्यं तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्यन्ति स्म, भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं धर्मं देशयन्तं सागरोपमायां पर्षद्य् अक्षोभ्यायां सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिप्राप्तैर् बोधिसत्त्वयानिकैश् च पुद्गलैः.
अथ खलु भगवान् पुनर् एव तम् ऋद्ध्यभिसंस्कारं प्रतिसंहरति स्म, येनर्द्ध्यभिसंस्कारेण प्रतिसंहृतेन ताश् चतस्रः परिषदो न भूयः पश्यन्ति स्म. तम् अक्सोभ्यं तथागतम् अर्हन्तां सम्यक्संबुद्धं श्रावकयानिका वा प्रत्येकबुद्धयानिका वा बोधिसत्त्वयानिका वा पुद्गलास् तञ् च बुद्धक्षेत्रम् अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य न भूयः पश्यन्ति स्म. स बुद्धप्रमुखो भिक्षुसंघो न भूयश् चक्षुरिन्द्रियस्यावभासम् आगच्छति. तत् कस्य हेतोः? प्रतिसंहृतो हि भगवता तथागतेन स ऋद्ध्यभिसंस्कारस् तेन भूयो न पश्यति स्म.
अथ खलु भगवान् आयुष्मन्तं आनन्दम् आमन्त्रयते स्म: एवं ह्य् आनन्द सर्वधर्माश् चक्षुषो नाभासम् आगच्छन्ति, न धर्मो धर्मस्याभासम् आगच्छति, न धर्मो धर्मं पश्यति, न धर्मो धर्मं जानाति. यथा पुनर् एव सो ऽक्सोभ्यस् तथागतो ऽर्हन् सम्यक्संबुद्धस् ते च श्रावकास् ते च बोधिसत्त्वयानिकाः कुलपुत्रास् तच् च बुद्धक्षेत्रं चक्षुषो नाभासम् आगच्छन्ति, एवं ह्य् आनन्द सर्वधर्माश् चक्षुषो नाभासम् आगच्छन्ति, न धर्मो धर्मस्याभासम् आगच्छति, न धर्मो धर्मं पश्यति, न धर्मो धर्मं जानाति. सर्वधर्मा ह्य् आनन्दाजानका अपश्यका अक्रियासमर्थाः. तत् कस्य हेतोः? निरीहका अग्राह्या आनन्द सर्वधर्मा अग्राह्या निरीहकतया, अचिन्त्याः सर्वधर्मा मायापुरुषोपमा, अवेदका ह्य् आनन्द सर्वधर्मा असारताम् उपादाय. एवञ् चरन्न् आनन्द बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायान् न कंचिद् धर्मम् अभिनिविशते, एवं शिक्षमाण आनन्द बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायान् न कंचिद् धर्मम् अभिनिविशते, एवं (psp_5:76) शिक्षमाण आनन्द बोधिसत्त्वो महासत्त्वः शिक्षते प्रज्ञापारमितयां सर्वपारमितानुप्राप्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. एषा हि शिक्षा याग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते ऽनुत्तमाख्यायते निरुत्तमाख्यायते, सर्वलोकहिता सर्वलोकसुखा अनाथानां नाथकरी बुद्धानुज्ञाता बुद्धप्रशस्ता, यत्र स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमं त्रिसाहस्रमहासाहस्रलोकधातुं दक्षिणेन पाणिनोत्क्षिप्य पुनर् एव निक्षिपेयुर् न च तेषाम् एवं भवति उत्क्षिप्तो
वायं त्रिसाहस्रमहासाहस्रलोकधातुः निक्षिप्तो वेति. तत् कस्य हेतोः? इयं सानन्द प्रज्ञापारमिताशिक्षा यत्र शिक्षित्वा बुद्धानां भगवताम् अतीतानागतप्रत्युत्पन्नेषु धर्मेषु असङ्गज्ञानदर्शनम् उत्पन्नं यावत्य आनन्द शिक्षाः सर्वासाम् आनन्द शिक्षानाम् इयं प्रज्ञापारमिताशिक्षाग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते ऽनुत्तमाख्यायते निरुत्तमाख्यायते, आकाशस्य आनन्द प्रमाणं वा पर्यन्तं वा उद्गृहीतव्यं मन्येत यः प्रज्ञापारमितायाः प्रमाणं वा पर्यन्तं वा ग्रहीतव्यं मन्येत. तत् कस्य हेतोः? अप्रमाणा ह्य् आनन्द प्रज्ञापारमिता, न मयानन्द प्रज्ञापारमितायाः प्रमाणम् आख्यातं, नामकायपदकायव्यञ्जनकाया ह्य् आनन्द प्रमाणबद्धा, न प्रज्ञापारमिता प्रमाणबद्धा. इति महाबोधिप्राप्तये पुण्यबाहुल्यलक्षणं तृतीयं कारणम् इत्य् उक्तानि कारणानि
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् प्रज्ञापारमिताप्रमाणबद्धा?
भगवान् आह: अक्षयत्वाद् आनन्द प्रज्ञापारमिताप्रमाणबद्धा विविक्ताद् आनन्द प्रज्ञापारमिता प्रमाणबद्धा, ये ऽपि ते आनन्दाभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाविता न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, ये ऽपि ते आनन्द भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाविष्यन्ते न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, ये ऽपि ते आनन्द एतर्हि दशदिशि लोके तथागता अर्हन्तः (psp_5:77) सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मन् देशयन्ति ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाव्यन्ते न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते. तत् कस्य हेतोः? आकाशं स आनन्द क्षयितुं मन्येत यः प्रज्ञापारमितायाः क्षयं मन्येत न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, न ध्यानपारमिता क्षीयते न वीर्यपारमिता क्षीयते न क्षान्तिपारमिता क्षीयते न शीलपारमिता क्षीयते न दानपारमिता क्षीणा क्षीयते क्षष्यते, अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न क्षीणा न क्षीयते न क्षेष्यते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, शून्यतानिमित्ताप्रणिहिताभिज्ञा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न क्षीणा न क्षीयन्ते न क्षेष्यन्ते दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकाबुद्धधर्मा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, सर्वाकारज्ञता न क्षीणा न क्षीयते न क्षेष्यते. न हि तेषां धर्माणाम् उत्पादो ऽस्ति येषाम् उत्पादो नास्ति, कुतस् तेषां क्षयः प्रज्ञास्यते? इत्य् उक्ता क्षयानुत्पादज्ञानात्मिका महाबोधिः
अथ खलु भगवाञ् जिह्वेन्द्रियं निर्णाम्य सर्वावन्तं मुखमण्डलं जिह्वेन्द्रियेणाच्छादयित्वायुष्मन्तं आनन्दम् एतद् अवोचत्: तत् किं मन्यसे? आनन्दापि नु ईदृशं जिह्वेन्द्रियं वितथवादि अन्यथावादि स्यात्.
आनन्द आह: न भगवन् न सुगत.
भगवान् आह: तस्मात् तर्ह्य् आनन्द इमां प्रज्ञापारमितां चतसृणां पर्षदां विस्तरेणाख्याहि देशय प्रज्ञापय प्रस्थापय विभज विभावयोत्तानीकुरु संप्रकाशय, इहैवानन्द गम्भीरायां प्रज्ञापारमितायां सर्वधर्मा विस्तरेणोपदिष्टा यत्र श्रावकयानिकैश् च प्रत्येकबुद्धयानिकैश् च बोधिसत्त्वयानिकैश् च पुद्गलैः शिक्षितव्यं, यत्र यथानुशिक्षमाणाः स्वकस्वकासु भूमिषु स्थास्यन्ते, (psp_5:78) इयं पुनर् आनन्द गम्भीरा प्रज्ञापारमिता सर्वाक्षरप्रवेश सर्वानक्षरप्रवेशा, इयम् आनन्द गम्भीरा प्रज्ञापारमिता सर्वधारणीनां मुखं, यैर् धारणीमुखैर् बोधिसत्त्वैर् महासत्त्वैः शिक्षितव्यं, धारणीं धारयतां बोधिसत्त्वानां महासत्त्वानां सर्वाः प्रतिभानप्रतिसंविदो भविष्यन्तियम् आनन्द गम्भीरा प्रज्ञापारमिता, ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वधर्म उक्तो मया, तस्मात् तर्ह्य् आनन्दारोचयामि ते प्रतिवेदयामि ते, य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिं धारयिष्यति, इयं सानन्द प्रज्ञापारमिता धारण्य् उक्ता मया, तां त्वं प्रज्ञापारमिताधारणीं धारयन् सर्वधर्मान् धारयसि. इत्य् उक्तं महाबोधौ संप्रत्ययकारणम्
अथ खल्व् आयुष्मतः सुभूतेर् एतद् अभवत्: गम्भीरा बतेयं तथागतानां बोधिः, यन् नूनम् अहं तथागतं परिपृच्छेयम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अक्षया हि भगवन् प्रज्ञापारमिता.
भगवान् आह: आकाशाक्षयत्वात् सुभूते अक्षया प्रज्ञापारमिता.
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमिताभिनिर्हर्तव्या?
भगवान् आह: रूपाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, वेदनासंज्ञासंस्कारविज्ञानाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर् हर्तव्या. एवं स्कन्धधात्वायतनाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, प्रतीत्यसमुत्पादाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, प्रतीत्यसमुत्पादाङ्गाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, दानपारमिताक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, एवं शीलपारमिताक्षयत्वात् क्षान्तिपारमिताक्षयत्वाद् वीर्यपारमिताक्षयत्वाद् ध्यानपारमिताक्षयत्वात् प्रज्ञापारमिताक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, स्मृत्युपस्थानाक्षयत्वेन सम्यक्प्रहाणाक्षयत्वेन ऋद्धिपादाक्षयत्वेन इन्द्रियाक्षयत्वेन बलाक्षयत्वेन बोध्यङ्गाक्षयत्वेनार्याष्टाङ्गमार्गाक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, अध्यात्मशून्यताक्षयत्वेन बहिर्धाशून्यताक्स्यत्वेनाध्यात्मबहिर्धाशून्यताक्षयत्वेन यावद् अभावस्वभावशून्यताक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, आर्यसत्याक्षयत्वेनाप्रमाणध्यानारूप्यसमापत्त्यक्षयत्वेन (psp_5:79) सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या शून्यतानिमित्ताप्रणिहिताक्षयत्वेन पञ्चाभिज्ञाक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, दशबलाक्षयत्वेन चतुर्वैशारद्याक्षयत्वेन प्रतिसंविदक्षयत्वेनाष्टादशावेणिकाबुद्ध धर्माक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, सर्वाकारज्ञताक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या.
पुनर् अपरं सुभूते रूपाकाशाक्षयत्वेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, वेदनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, संज्ञाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, संस्काराकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, विज्ञानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, स्कन्धाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, धात्वाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, आयतनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, प्रतीत्यसमुत्पादाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, अविद्याकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, संस्काराकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, विज्ञानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, नामरूपाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासवेन प्रज्ञापारमिताभिनिर्हर्तव्या, षडायतनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, स्पर्शाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, वेदनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, तृष्णाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या,
उपादानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, भवाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, जात्याकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन (psp_5:80) महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्य, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादव्यवलोकना आद्यन्तविवर्जिता, आवेणिको ऽयं बोधिसत्त्वस्य महासत्त्वस्य धर्मो बोधिमण्डनिषण्णस्य यद् एवं प्रतीत्यसमुत्पादं व्यवलोकयत्य्, एवं व्यवलोकयन् प्रतीत्यसमुत्पादं सर्वज्ञज्ञानं प्रतिलप्स्यते. यः कश्चित् सुभूते बोधिसत्त्वो महासत्त्वो ऽनेनाकाशाक्षयाभिनिर्हारेण प्रज्ञापारमितायां चरन् प्रतीत्यसमुत्पादं व्यवलोकयिष्यति, न स श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति, सो ऽनुत्तरायां सम्यक्संबोधौ स्थास्यति. यः कश्चित् सुभूते बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा विवर्तिष्यत्य् अनुत्तरायाः सम्यक्संबोधेः, स सर्व इमं प्रज्ञापारमितामनसिकारम् अनागम्य विवर्तिष्यति, न संज्ञास्यते कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाकाशाक्षयाभिनिर्हारेण प्रतीत्यसमुत्पादो व्यवलोकयितव्यः? कथम् अभिनिर्हर्तव्य? इति. ये केचित् सुभूते बोधिसत्त्वयानिकाः पुद्गला विवर्तन्ते सर्वे त इदम् उपायकौशल्यम् अनागम्य विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. ये केचित् सुभूते बोधिसत्त्वा महासत्त्वा न विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः सर्वे त इमां प्रज्ञापारमिताम् आगम्य न विवर्तन्ते
ऽनुत्तरायाः सम्यक्संबोधेर् उपायकौशल्येन. एवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन् आकाशाक्षयाभिनिर्हारेण प्रज्ञापारमिता व्यवलोकयितव्या अभिनिर्हर्तव्या.
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन् न कंचिद् धर्मं समनुपश्यति, अहेतुकम् उत्पद्यमानन् न कंचिद् धर्मं समनुपश्यति, निरुध्यमानन् न कंचिद् धर्मम् आत्मतः समनुपश्यति न सत्त्वतो न जीवतो न जन्तुतो न पोषतो न पुरुषतो न पुद्गलतो न मनुजतो न मानवतो न कारकतो नोत्थापकतो न समुत्थापकतो न वेदकतो न वेदापकतो न जानकतो न जानापकतो न पश्यकतो न पश्यापकतो, न नित्यतो नानित्यतः समनुपश्यति न सुखतो न दुष्खतो नात्मकतो नानात्मकतो न शान्ततो नाशान्ततः.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रतीत्यसमुत्पादो (psp_5:81) व्यवलोकयितव्यः प्रज्ञापारमितायाञ् चरता, यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरति तस्मिन् समये रूपं न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा, वेदना संज्ञा संस्कारा, विज्ञानं न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. एवं व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वा न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. एवं सर्वपारमितान् न समनुपश्यति, सर्वशून्यतान् न समनुपश्यति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् न समनुपश्यति, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितान् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. सर्वाकारज्ञतान् न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति तस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितान् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण प्रज्ञापारमितां न समनुपश्यति, ध्यानपारमितान् न
समनुपश्यति, वीर्यपारमितान् न समनुपश्यति, क्षान्तिपारमितान् न समनुपश्यति, शीलपारमितान् न समनुपश्यति, दानपारमितान् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण यावद् दानपारमितां समनुपश्येत्. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्यास्ताङ्गमार्गन् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणार्याष्टाङ्गमार्गं समनुपश्येत्. अध्यात्मशून्यतां बहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण यावद् अभावस्वभावशून्यतां समनुपश्येद् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तीर् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तीः (psp_5:82) समनुपश्येत्. शून्यतानिमित्ताप्रणिहितां न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति, येन धर्मेण शून्यतानिमित्ताप्रणिहितान् समनुपश्येत्. सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न समनुपश्यति, तम् अपि धर्मन्1 न समनुपश्यति येन धर्मेण सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि समनुपश्येत्. अभिज्ञादशबलवैशारद्यप्रतिसंविदो न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणाभिज्ञदशबलवैशारद्यप्रतिसंविदः समनुपश्येत्. अष्टादशावेणिकान् बुद्धधर्मान् न समनुपश्यति, तम् अपि धर्मान् न समनुपश्यति येन धर्मेणाष्टादशावेणिकान् बुद्धधर्मान् समनुपश्येत्. अनुत्तरां सम्यक्संबोधिन् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणानुत्तरां सम्यक्संबोधिं समनुपश्येत्.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं सर्वधर्मान् अनुपलभमानेन. यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मान् अनुपलभमानः प्रज्ञापारमितायां चरति तस्मिन् समये मारः पापीयां शोकशल्यसमर्पितो भवति, तद्यथापि नाम सुभूते पुरुषस्य मातापितरौ कालगतौ भवतः स तेन दुष्खेन शोकशल्यसमर्पितो भवति परमेण शोकशल्येन समन्वागतः, एवम् एव सुभूते मारः पापीयां बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्मान् अनुपलभमानस्य शोकसल्यसमर्पितो भवति परमेण शोकशल्येन समन्वागतः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: एक एव भगवन् मारः पापीयान् परमशोकशल्येन समन्वागतो भवति, उताहो ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसस् ते सर्वे परमेण शोकशल्येन समन्वागता भवन्ति, स्वकस्वकेष्व् आसनेषु न रमन्ते? भगवान् आह: सर्व एव सुभूते माराः पापीयांसः परमेण शोकशल्येन समन्वागता भवन्ति, स्वकस्वकेष्व् आसनेषु न रमन्ते, यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेणाविरहितो भवति, एवं विहरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरलोको ऽवतारन् न लभते यत्र गृहीत्वा विहेठयेत्, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमिताविहारेण विहर्तव्यम्. इत्य् उक्तम् अक्षयाकारं क्षयज्ञानम् अनुत्पादाकारम् अनुत्पादज्ञानम् (psp_5:83)
प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति, शीलपारमिता भावनापरिपूरिं गच्छति, क्षान्तिपारमिता भावनापरिपूरिं गच्छति, वीर्यपारमिता भावनापरिपूरिं गच्छति, ध्यानपारमिता भावनापरिपूरिं गच्छति, प्रज्ञापारमिता भावनापरिपूरिं गच्छति. प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य सर्वाः पारमिता भावनापरिपूरिं गच्छन्ति
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता भावनापरिपूरिं गच्छति, शीलपारमिता भावनापरिपूरिं गच्छति, क्षान्तिपारमिता भावनापरिपूरिं गच्छति, वीर्यपारमिता भावनापरिपूरिं गच्छति, ध्यानपारमिता भावनापरिपूरिं गच्छति, प्रज्ञापारमिता भावनापरिपूरिं गच्छति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् दानन् ददाति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् शीलं रक्षति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् क्षान्त्या संपादयति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् वीर्यम् आरभते, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् ध्यानं समापद्यते, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् प्रज्ञां भावयति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता भावनापरिपूरिं गच्छति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति? (psp_5:84)
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतः सर्वाकारज्ञतायां परिणामयतः सत्त्वेषु मैत्रं कायकर्म मैत्रं वाक्कर्म मैत्रं मनःकर्म प्रत्युपस्थितं भवति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो यद् इदं प्रतिग्राहका आक्रोशन्ति वा परिभाषन्ते वा, असत्याभिश् च परुषाभिर् वाग्भिः समुदाचरन्ति, न च तेषाम् अन्तिके चित्तम् आघातयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोद्धिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दनन् ददतस् ते प्रतिग्राहका यद्य् आक्रोशन्ति वा परिभाषन्ते वा असत्यां वा परुषां वा वाचं समुदाचरन्ति तस्याक्रुष्यमाणस्य वा परिभाष्यमाणस्य वा, असत्यया वा परुषया वा वाचा समुदाचर्यमाणस्य दानबुद्धिर् एव भवति, परित्यागबुद्धिर् एव भवति, दातव्यञ् चैव मया दानन्, न मया न दातव्यं स कायिकञ् च चैतसिकञ् च वीर्यं स व्यञ्जनयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो दानं परित्यजतः सर्वाकारज्ञतायां परिणामयते, न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा चित्तं परिणामयत्य्, अन्यत्र सर्वाकारज्ञतारम्बणम् एव चित्तं प्रवर्तते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति. (psp_5:85)
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो दानं परित्यजतः, तस्य मायाबुद्धिर् एव दाने प्रत्युपस्थिता भवति, तेन च दानेन न कस्यचित् सत्त्वस्योपकारं वापकारं वा पश्यत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा प्प्रज्ञापारमितां परिगृह्णाति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो यः कायिकश् च वाचिकश् च चैतसिकश् च संवरस् तेन संवरेन न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा परामृषति, तत्र च शीलपारमितायां स्थितो न सत्त्वान् जीविताद् व्यपरोपयति, नादत्तम् आददाति, न कामेषु मिथ्या चरति, न मृषावाग् भवति, न परुषवाग् भवति न पिशुनां वाचं भाषते, न संभिन्नप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, स तत्र शीलपारमितायां स्थितो यद् दानन् ददात्य् अन्नम् अन्नार्थिकानां पानं पानार्थिकानां यानं यानार्थिकानां वस्त्रं वस्त्रार्थिकानां माल्यं माल्यार्थिकानां विलेपनं विलेपनार्थिकानां शयनं शयनार्थिकानाम् उपाश्रयम् उपाश्रयार्थिकानां प्रदीपं प्रदीपार्थिकानां उपकरणम् उपकरणार्थिकानाम् अन्यतरान्यतराणि मानुष्यकाणि सर्वपरिष्कारोपकरणानि ददाति, तच् च दानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथा न श्रावकप्रत्येकबुद्धभूमौ वा परिणामयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्त्वस्य शीलपारमितायां स्थितस्य सर्वसत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा गच्छेयुस् तत्र बोधिसत्त्वस्य महासत्त्वस्य एकचित्तोत्पादो ऽपि न क्षुभ्यते न व्यापद्यते ऽन्यत्र चास्यैवं भवति, सुलब्धा मे लाभा (psp_5:86) यत्र हि नाम मम सत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा गच्छेयुर्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो न कायेन न चित्तेन वीर्यं स्रसयति, सर्वसत्त्वा मयोत्तारयितव्याः संसारतः अमृते धातौ प्रतिष्ठापयितव्याः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते द्वितीयं ध्यानं समापद्यते तृतीयं ध्यानं समापद्यते चतुर्थं ध्यानं समापद्यते, न च श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वाध्यालम्बते ऽन्यत्र चास्यैवं भवति, इह मया ध्यानपारमितायां स्थित्वा सर्वसत्त्वाः संसाराद् उत्तारयितव्याः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो न कञ्चिद् धर्मं संस्कृतं वासंस्कृतं वा पश्यति, न निमित्तन् नानिमित्तं पश्यति, न कस्यचिद् धर्मस्यास्ति त्वं वा नास्ति त्वं वा पश्यत्य् अन्यत्र सर्वधर्मतथतान् न व्यतिवर्तन्ते, तया च प्रज्ञापारमितयोपायकौशल्येन न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा दानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य (psp_5:87) प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य सर्वसत्त्वा यद्य् आक्रोशयेयुः परिभाषेरन्न् अङ्गप्रत्यङ्गानि चाच्छिद्युस् तत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां स्थितस्यैवं भवति, दातव्यं मयैतेषां सत्त्वानां दानं, न मयैतेषां सत्त्वानां दानं न दातव्यं, स तेषां सत्त्वानाम् अन्नम् अन्नार्थिकानां ददाति, पानं पानार्थिकानां ददाति, यानं यानार्थिकानां ददाति, शयनासनवस्त्रहिरण्यसुवर्णमणिमुक्तावैडूर्यमरकतशंखशिलाप्रवालवज्रेन्द्रनीलसर्वरत्नग्लानप्रत्ययभैषज्यपरिष्कारादीनि ददाति यावद् अन्यतरान्यतराणि मानुष्यकाणि परिष्कारोपकरणानि ददाति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा सर्वाकारज्ञतायां परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो न्महासत्त्वः क्षान्तिपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषन्णो ऽत्रान्तरे न कश्चित् सत्त्वो जीविताद् व्यपरोपितो न दैहिकी बोध्यङ्गताघातदोषक्रिया वा उत्पादिता, नादत्तम् आददाति, न काममिथ्याचारी भवति, न मृषावाग् भवति, न परुषवाग् भवति, न पिशुनवाग् भवति, नाबद्धप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, न चास्य स्रावकप्रत्येकबुद्धभूमौ चित्तं क्रामति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, क एष परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां (psp_5:88) स्थित्वा वीर्यं स व्यञ्जनयति, नाहं योजनं वा गत्वा योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा योजनकोटी नियुतशतसहस्रं वा, लोकधातुं वा लोकधातुशतं वा लोकधातुसहस्रं वा लोकधातुशतसहस्रं वा लोकधातुनियुतशतसहस्रं वा लोकधातुकोटीं वा लोकधातुकोटीशतं वा लोकधातुकोटीसहस्रं वा लोकधातुकोटीशतसहस्रं वा लोकधातुकोटीनियुतशतसहस्रं वा गत्वा तत्रान्तश एकसत्त्वम् अपि शरणगमनशिक्षापदेषु न प्रतिष्ठापयेयं स्रोतआपत्तिफले वा सकृदागामिफले वा अनागामिफले वा अर्हत्त्वफले वा न प्रतिष्ठापयेयं प्रत्येकबोधौ वा न प्रतिष्ठापयेयम् अनुत्तरायां वा सम्यक्संबोधौ न प्रतिष्ठापयेयं, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षानतिपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रथमं ध्यानम् उपसंपद्य विहरति, द्वितीयं ध्यानम् उपसंपद्य विहरति, तृतीयं ध्यानम् उपसंपद्य विहरति, चतुर्थं ध्यानम् उपसंपद्य विहरति, उत्पन्नोत्पन्नांश् चित्तचेतसिकान् धर्मान् कुशलमूलोपसंहितान् सर्वसत्त्वेषु साधारणान् कृत्वा सर्वाकारज्ञतायां परिणामयति, तथा च परिणामयति, यथा ध्यानानि च ध्यानाङ्गानि च तस्मिन् समये नोपलभते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा तस्मिन् समये धर्मे धर्मानुपश्यी विहरति, विविक्तविहारेण वा शान्ताकारेण वाक्षयाकारेण वा न च तां धर्मतां साक्षात्करोति, यावच् च न बोधिमण्डे निषण्णो भवति, तत्र च निषद्य (psp_5:89) सर्वाकारज्ञताम् अनुप्राप्स्यति, उत्थाय धर्मचक्रं प्रवर्तयिष्यति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति, तथा च परिगृह्णाति यथा नोद्गृह्णाति तावन् नोत्सृजति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा दानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा कायेन चित्तेन चरन् न निक्षिपति, अवश्यञ् चैव मयानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या, न मया नाभिसंबोद्धव्यानुत्तरा सम्यक्संबोधिः, सत्त्वानां च कृतेन योजनं वा योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा योजनकोटीनियुतशतसहस्रं वा लोकधातुं वा लोकधातुशतं वा लोकधातुसहस्रं वा लोकधातुशतसहस्रं वा लोकधातुकोटीनियुतशतसहस्रं वा गत्वा वीर्यपारमितायां स्थित्वान्तश एकसत्त्वम् अप्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, सचेद् बोधिसत्त्वयानिकं पुद्गलं लभेत तं बोधिचर्यासु प्रतिष्ठापयति. श्रावकयानिकं पुद्गलं श्रावकत्वाय प्रतिष्ठापयति, प्रत्येकबुद्धयानिकं पुद्गलं प्रत्येकबोधौ प्रतिष्ठापयत्य्, अन्तश एकसत्त्वम् अपि दशकुशलेषु कर्मपथेषु समादापयति, स तद् धर्मदानं दत्त्वा आमिषदानेन सत्त्वान् संतर्पयति. स तत् कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति? (psp_5:90) भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय, यावद् बोधिमण्ड एतस्मिन्न् अन्तरे, आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातप्रतिविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना चादत्तादानात् प्रतिविरतो भवति, परांश् चादत्तादानप्रतिविरतौ समादापयति, अदत्तादानविरतेश् च वर्णं भाषते, ये चान्ये ऽदत्तादानात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च काममिथ्याचारात् प्रतिविरतो भवति, परांश् च काममिथ्याचारप्रतिविरतौ समादापयति, काममिथ्याचारविरतेश् च वर्णं भाषते, ये चान्ये काममिथ्याचारात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च मृषावादात् प्रतिविरतो भवति, परांश् च मृषावादविरतौ समादापयति, मृषावादविरतेश् च वर्णं भाषते, ये चान्ये मृषावादात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च परुषवचनात् प्रतिविरतो भवति, परांश् च परुषवचनविरतौ समादापयति, परुषवचनविरतेश् च वर्णं भाषते, ये चान्ये परुषवचनात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च पिशुनवचनात् प्रतिविरतो भवति, परांश् च पिशुनवचनविरतौ समादापयति, पिशुनवचनविरतेश् च वर्णं भासते, ये चान्ये पिशुनवचनात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः.
आत्मना चाबद्धप्रलापात् प्रतिविरतो भवति, परांश् चाबद्धप्रलापविरतौ समादापयति, अबद्धप्रलापविरतेश् च वर्णं भाषते, ये ऽपि चान्ये ऽबद्धप्रलापात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना चाभिध्यायाः प्रतिविरतो भवति, परांश् चाभिध्याविरतौ समादापयति, अभिध्याविरतेश् च वर्णं भाषते, ये ऽपि चान्ये ऽभिध्यायाः प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च व्यापादात् प्रतिविरतो भवति, परांश् च व्यापादविरतौ समादापयति, व्यापादविरतेश् च वर्णं भाषते, ये ऽपि चान्ये व्यापादात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भाषते, (psp_5:91) ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. स तया शीलपारमितया न कामधातुं प्रार्थयति, न रूपधातुं प्रार्थयति, नारूप्यधातुं प्रार्थयति, न श्रावकभूमिं प्रार्थयति, न प्रत्येकबुद्धभूमिं प्रार्थयति, अन्यत्र तत् कुशलमूलं सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य मनुष्यभूतो वामनुष्यभूतो वा चित्तविक्षेपं वा कुर्याद् अङ्गप्रत्यङ्गानि च्छित्वा आदाय गच्छेत्, तत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां स्थितस्य नैवं भवति, को मे च्छिनत्ति वा भिनत्ति वा हरति वा, ऽन्यत्र चास्यैवं भवति, सुलब्धा मे लाभा येषाम् एवाहम् अर्थाय कायं परिहरामि, ते चैवागम्याङ्गप्रत्यङ्गानि च्छित्वा गच्छन्ति, धर्मता चास्य प्रकृत्या सुमनसिकृता भवति, तानि च कुशलमूलानि न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्व सत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखं च काये न (psp_5:92) प्रतिसंवेदयति यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धञ् चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वसत्त्वेषु सुखसंज्ञामनसिकाराद् मैत्रीम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु दुष्खसंज्ञामनसिकारात् करुणाम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु प्रमुदितासंज्ञामनसिकाराद् मुदिताम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु सुखदुःखसंज्ञामनसिकाराद् उपेक्षाम् अप्रमाणाम् उपसंपद्य विहरति. स रूपे औदारिकसंज्ञायाः प्रहाणाद् आकाशसंज्ञायाश् च मनसिकाराद् आकाशानन्त्यायतनम् उपसंपद्य विहरति, स विज्ञाने शान्तसंज्ञाया मनसिकाराद् विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, स आकिंचन्यायतनेषु शान्तसंज्ञामनसिकाराद् आकिंचन्यायतनम् उपसंपद्य विहरति, स नैवसंज्ञानासंज्ञायाः शान्तसंज्ञाया मनसिकाराद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स तेषाम् अप्रमाणानाञ् चारूप्यसमापत्तीनां च विपाकन् न प्रतिगृह्णात्य्, अन्यत्र यत्र सर्वसत्त्वानाम्
अर्थे कर्तव्यः, तत्रोपपद्यते स तान् सत्त्वान् षट्सु पारमितासु परिपाचयति दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते परिपृच्छति परिप्रश्नीकुरुते कुशलमूलावरोपनतया, तानि च कुशलमूलानि सर्वसत्त्वेषु साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा न दानपारमितान् द्रव्यतः समनुपश्यति न भावतो न निमित्ततो न शीलपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न क्षान्तिपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न वीर्यपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न (psp_5:93) ध्यानपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न प्रज्ञापारमितां द्रव्यतः समनुप्सश्यति न भावतो न निमित्ततः. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गं न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, आर्यसत्याप्र्माणध्यानारूप्यसमापत्तीर् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, शून्यतानिमित्ताप्रणिहितानि पञ्चाभिज्ञा न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, दशबलविशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वाकारज्ञतान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वधर्मान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः. स एवं पश्यन् न क्वचिद् धर्मनिकेतं करोति, स यथा वादी तथा कारी च भवति, स तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चैतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखं च काये न प्रतिसंवेदयति यत् तद् आर्या आचक्षते उपेक्सकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धञ् (psp_5:94) चतुर्थं ध्यानम् उपसंपद्य विहरति. एवम् आकाशानन्त्यायतनसमापत्तिं विज्ञानानन्त्यायतनसमापत्तिम् आकिंचन्यायतनसमापत्तिं नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, तत्र ध्यानपारमितायां स्थितो ऽविक्षिप्तमानसस् तेषां सत्त्वानाम् आमिषदानं धर्मदानं च ददाति, परांश् चामिषदाने धर्मदाने च समादापयति, आमिषदानस्य धर्मदानस्य च वर्णं भाषते, ये ऽपि चान्ये आमिषदानं धर्मदानञ् च ददाति, तेषां च वर्णवादी भवति समनुज्ञः. तच् च कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां स्थितस्य न रागसहगतं चित्तम् उत्पद्यते, न दोषसहगतं चित्तम् उत्पद्यते, न मोहसहगतं चित्तम् उत्पद्यते, न विचिकित्सासहगतं चित्तम् उत्पद्यते, अन्यत्र सर्वाकारज्ञता प्रतिसंयुक्तैर् मनसिकारैर् विअहरति तच् च कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति, यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः फेनपिण्डोपमं रूपं प्रत्यवेक्षते, बुद्ब्दोपमां वेदनां प्रत्यवेक्षते, मरीच्युपमां संज्ञां प्रत्यवेक्षते, कदल्युपमान् संस्कारान् प्रत्यवेक्षते, मायोपमं विज्ञानं प्रत्यवेक्षते. तस्यैवं प्रत्यवेक्षमाणस्य पञ्चस्कन्धेष्व् असारकसंज्ञा प्रत्युपस्थिता भवति, तस्यैवं (psp_5:95) प्रत्यवेक्षमाणस्यैवं भवति, कस्य वा रूपं, कस्य वा वेदना, कस्य वा संज्ञा, कस्य वा संस्काराः, कस्य वा विज्ञानं, तस्यैवं प्रत्यवेक्षमाणस्यैवं भवति, को वात्राक्रुष्यते वा परिभाष्यते वा, आक्रुष्यमाणस्य वा परिभाष्यमाणस्य वा न व्यापाद उत्पद्यते. स तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलमूलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखञ् च काये न प्रतिसंवेदयति, यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, स ध्यानानां ध्यानाङ्गानां निमित्तं न गृह्णाति, स एवं समाहितचित्तो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, विस्तरेण कर्तव्यं, यावद् दिव्येन श्रोत्रधातुना उभौ शब्दौ शृणोति दिव्यञ् च मानुष्यकञ् च, स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं प्रजानाति, विस्तरेण यावद् अनुत्तरं चित्तम् इति यथाभूतं प्रजानात्य्, अनेकविधं पूर्वनिवासम् अनुस्मरति, विस्तरेण यावद् दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन यावद् यथाकर्मोपगान् सत्त्वान् पश्यति, स इह पञ्चस्व् अभिज्ञासु प्रतिष्ठाय बुद्धक्षेत्रेण बुद्धक्षेत्रं गच्छति, बुद्धान् भगवतः पर्युपास्ते परिपृच्छति परिप्रश्नीकरोति कुशलमूलान्य् अवरोपयति, बुद्धक्षेत्रञ् च परिशोधयति, तानि (psp_5:96) च कुशलमुलानि न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो रूपं नोपलभते, वेदनां संज्ञां संस्कारान्, विज्ञानं नोपलभते, स्कन्धधात्वायतनानि नोपलभते, प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि नोपलभते, दानपारमितां नोपलभते, शीलपारमितां नोपलभते, क्षान्तिपारमितां नोपलभते, वीर्यपारमितां नोपलभते, ध्यानपारमितां नोपलभते, प्रज्ञापारमितां नोपलभते, स्मृत्युपस्थानानि नोपलभते, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्याष्टाङ्गमार्गान् नोपलभते, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां नोपलभते, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् नोपलभते, संस्कृतधातुन् नोपलभते, असंस्कृतधातुन् नोपलभते, अनुपलभमानो नाभिसंस्करोत्य्, अनभिसंस्कुर्वाणो नोत्पादयत्य्, अनुत्पादयमानो न निरोधयति. तत् कस्य हेतोः? तथा हि सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मस्थितिता धर्मनियामता सा नैवोत्पद्यते न निरुध्यते, सो ऽविक्षिप्तचित्तसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति. तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा दानपारमितां परिपूरयति? (psp_5:97)
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्माः शून्या इति समनुपश्यति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माः शून्या इति समनुपश्यति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यताध्यात्मशून्यतेति नोपलभते, बहिर्धाशून्यता बहिर्धाशून्यतेति नोपलभते अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतेति नोपलभते, यावद् अभावशून्यता यावद् अभावस्वभावशून्यतेति नोपलभते. स आसु शून्यतासु स्थित्वा बोधिसत्त्वो महासत्त्वो रूपन् नोपलभते शून्यम् इति वा अशून्यम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं नोपलभते शून्यम् इति वा अशून्यम् इति वा, स्कन्धधात्वायतनानि नोपलभते शून्यानीति वा अशून्यानीति वा, प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि वा नोपलभते शून्यानीति वा अशून्यानीति वा, सर्वपारमिता नोपलभते शून्या इति वा अशून्या इति वा, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभते शून्या इति वा अशून्या इति वा, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो नोपलभते सून्या इति वा अशून्या इति वा, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि नोपलभते शून्यानीति वा अशून्यानीति वा, शून्यतानिमित्ताप्रणिहितानि नोपलभते शून्यानीति वा अशून्यानीति वा, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा नोपलभते शून्या इति वा अशून्या इति वा, अनुत्तरा सम्यक्संबोधिर् नोपलभते शून्येति वा अशून्येति वा, संस्कृतो वा धातुर् असंस्कृतो वा धातुर् नोपलभते शून्य इति वा अशून्य इति वा. स इह प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो यद्यद् एव दानन् ददात्य् अन्नं वा पानं
वा शयनं वा आवसथं वा ग्लानप्रत्ययभैषज्यपरिष्कारं वा वस्त्रं वा सुवर्णं वा रूप्यं वा मणिमुक्ताशङ्खशिलाप्रवालादीनि वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपटाका वा यावद् अन्यतरान्यतराणि मानुष्यकाणि परिष्कारोपकरणानि ददाति. स तद् दानं शून्यम् इत्य् अशून्यम् इति नोपलभते, यो वा ददाति यस्यैवा ददाति तद् अपि शून्यम् इति अशून्यम् इति नोपलभते, तस्य मात्सर्यचित्तस्य चोद्ग्रहचित्तस्य वावकाशो न भवति. तत् कस्य हेतोः? सर्व एते धर्माः प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य (psp_5:98) विकल्पा एव भवन्ति, प्रथमचित्तोत्पदम् उपादाय यावद् बोधिमण्डनिषण्णस्य यथा चैव तथागतस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य न मात्सर्यचित्तं वोद्ग्रहचित्तं वोत्पद्यते, तथैव बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मात्सर्यचित्तं वा उद्ग्रहचित्तं वा नोपपद्यते, एवम् एव सुभूते बोधिसत्त्वानां महासत्त्वानां शास्ता यद् उत प्रज्ञापारमिता, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्त्वः प्रज्ञापारमितायां स्थित्वा न श्रावकप्रत्येकबुद्धभूमिचित्तानाम् अवकाशं ददाति. तत् कस्य हेतोः? तथा हि स श्रावकप्रत्येकबुद्धभूमिन् नोपलभते, तद् अपि चित्तन् नोपलभते, यच् छ्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति, स प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषदनात्, प्राणातिपातप्रहाणाय चित्तम् उत्पादयति, आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये ऽपि चान्ये प्राणातिपातात् प्रतिविरता भवन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् परुषवचनात् पिशुनवचनाद् अबद्धप्रलापाद् अभिध्याया व्यापादात्, मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भासते, ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. तेन च शीलेन न कश्चिद् धर्मं परामृशति श्रावकत्वं वा प्रत्येकबुद्धत्वं वा, प्राग् एवान्यद् वा तानि च कुशलमूलानि सर्वसत्त्वेषु साधारणानि कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा (psp_5:99) परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां स्थितस्यानुलोमिकी क्षान्तिर् उत्पद्यते, तस्यैवं भवति, इह न कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा म्रियते वा आक्रुष्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा तस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य यदि सर्वसत्त्वा आगम्याक्रोषयुर् वा परिभाषेरन् वा लोष्टदण्डशस्त्रप्रहारान् दद्युश् च्छिद्युर् भिद्युर् वा, तत्र चास्यैवं भवति, अहो धर्माणां धर्मता, न इह कश्चिद् धर्म आक्रुष्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा, स तानि कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिनमयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा वीर्यपारमितां परिगर्ह्नाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा चतुर्भिर् ऋद्धिपादैर् उपायकौशल्येन समन्वागतः कायिकञ् च चैतसिकञ् च वीर्यं संजनय्यान्यं लोकधातुम् अपि गत्वा, लोकधातुशतम् अपि गत्वा, लोकधातुसहस्रम् अपि गत्वा लोकधातुशतसहस्रम् अपि गत्वा लोकधातुकोटीनियुतशतसहस्रम् अपि गत्वा सत्त्वानां धर्मं देशयति. दानपारमितायां प्रतिष्ठापयति, शीलपारमितायां प्रतिष्ठापयति, क्षान्तिपारमितायां प्रतिष्ठापयति, वीर्यपारमितायां प्रतिष्ठापयति, ध्यानपारमितायां प्रतिष्ठापयति, प्रज्ञापारमितायां प्रतिष्ठापयति. सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयति, स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयति, अर्हत्त्वे प्रतिष्ठापयति प्रत्येकबोधौ प्रतिष्ठापयति, यावद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, तथा च प्रतिष्ठापयति, यथा न संस्कृते धातौ प्रतिष्ठापयति, नासंस्कृते धातौ प्रतिष्ठापयति तच् च कुशलमूलं सर्वसत्त्वेषु (psp_5:100) सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति, यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा, तथागतसमाधिं स्थापयित्वा, यावन्तः केचित् समाधयः श्रावकसमाधिर् वा प्रत्येकबुद्धसमाधिर् वा तान् सर्वान् समापद्यते च व्युत्तिष्ठते च, समाधौ स्थित्वा अष्टौ विमोक्षान् अनुलोमं प्रतिलोमं समापद्यते च व्युत्तिष्ठते च. कतमान् अष्टौ विमोक्षान्? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मं रूपसंज्ञी बहिर्धारूपाणि पश्यत्य्, अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः. शून्यत्वेनाधिमुक्तः शून्यत्वे चाधिमुक्तो भवत्य् अयं तृतीयो विमोक्षः. सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमाद् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं चतुर्थो विमोक्षः. स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं पञ्चमो विमोक्षः. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमाद् आकिंचन्यायतनम् उपसंपद्य विहरत्य्, अयं षष्ठो विमोक्षः. स सर्वश आकिंचन्यायतनसमतिक्रमाद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरत्य्, अयं सप्तमो विमोक्षः. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरत्य्, अयम् अष्टमो विमोक्षः. इतीमान् अष्टौ विमोक्षान् अनुलोमं प्रतिलोमं समापद्यते च व्युत्तिष्ठते च, तत्र समाधौ स्थित्वा
नवानुपूर्वविहारसमापत्तिईर् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च. कतमा नवानुपूर्वविहारसमापत्तीर्? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं (psp_5:101) सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति, प्रीतेश् च विरागाद् उपेक्षको विहरति स्मृतिमान् संप्रजानन् सुखं काये न प्रतिसंवेदयते, यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धिं चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमाद् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमाद् नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. स सर्वश आकिंचन्यायतनसमतिक्रमाद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रयात् संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति. एवम् इमा नवानुपूर्वविहारसमापत्तीर् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च, इमान् अष्ट विमोक्षान् इमाश् च नवानुपूर्वविहारसमापत्तीर्
विभङ्गं कृत्वा इमं सिंहविजृम्भितं नाम समाधिं समापद्यते, तत्र च समाधौ स्थित्वा द्वादशाङ्गप्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं प्रत्यवेक्षते. कतमानि द्वादशाङ्गानि? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽविद्याप्रत्ययाः संस्कारा इति प्रत्यवेक्षते, एवं संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपम्ब् नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययम् उपादानम्, उपादानप्रत्ययो भवो, भवप्रत्यया जातिः, जातिप्रत्ययं जरामरणं, जरामरणप्रत्ययाः शोकपरिदेवदुःखदौर्मनस्योपायासा इति प्रत्यवेक्षते. एवम् अस्य केवलस्य महतो दुष्खस्कन्धस्य लोके समुदयो भवतीति प्रत्यवेक्षते. जरामरणे तस्मिन्न् असति शोकपरिदेवदुष्खदौर्मनस्योपायासा न भवन्तीति प्रत्यवेक्षते, एवं जाताव् असत्यां जरामरणन् न भवति, भवे ऽसति जातिर् न भवति, उपादाने ऽसति भवो न भवति, तृष्णायाम् असत्याम् उपादानन् (psp_5:102) न भवति, वेदनायम् असत्यां तृष्णा न भवति, स्पर्शे ऽसति वेदना न भवति, षडायतने ऽसति स्पर्शो न भवति, नामरूपे ऽसति षडायतनन् न भवति, विज्ञाने ऽसति नामरूपन् न भवति, संस्कारेष्व् असत्सु विज्ञानन् न भवति, अविद्यायाम् असत्यां संस्कारा न भवन्तीति प्रत्यवेक्षते. एवम् अस्य केवलस्य महता दुष्खस्कन्धस्य लोके निरोधो भवतीति प्रत्यवेक्षते. एवम् इमं द्वादशाङ्गं प्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं प्रत्यवेक्षते, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
