Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 25/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: असारे बतायं चरत्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्रासारा प्रज्ञापारमिता, असारा ध्यानपारमिता, असारा वीर्यपारमिता, असारा क्षान्तिपारमिता, असारा शीलपारमिता, असारा दानपारमिता, एवं यावद् असारा सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् असारम् एव नोपलभते न समनुपश्यति, कुतः पुनः सारम् उपलप्स्यते, एवं यावद् असारां सर्वाकारज्ञतां, कुतः पुनः सारम् उपलप्स्यते.

अथ खलु संबहुलानां कामावचराणां रूपावचराणाञ् च देवपुत्राणाम् एतद् अभवत्: नमस्कर्तव्यास् ते कुलपुत्राः कुलदुहितरश् च यैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, ये चेह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति, अत्र चार्थे चरन्तो न च भूतकोटिं साक्षात्कुर्वन्ति, असाक्षात्कुर्वतः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा न तिष्ठेयुर्, अनेन भगवन् पर्यायेण नमस्कर्तव्यास् ते भगवन् बोधिसत्त्वा महासत्त्वा य इमां धर्मसमतां न साक्षात्कुर्वन्ति.

अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: नेदं (psp_5:40) देवपुत्रा दुष्करं बोधिसत्त्वानां महासत्त्वानां य इमं धर्मसमतां न साक्षात्कुर्वन्ति, यस्याः साक्षात्कृतायाः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा तिष्ठेयुः. इदं तेषां देवपुत्रा दुष्करं यद् असंख्येयान् अप्रमेयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति संनाहं संनह्यन्ते, ते च सत्त्वा अत्यन्ततया नोपलभ्यन्ते ये विनयितव्या इति. एवञ् चरन्तो बोधिसत्त्वा महासत्त्वाः संप्रस्थिता अनुत्तरायां सम्यक्संबोधौ सर्वसत्त्वान् विनयिष्याम इति, आकाशं स विनयितव्यं मन्येत यः सत्त्वान् विनयितव्यान् मन्येत. तत् कस्य हेतोः? आकाशविविक्ततया सत्त्वविविक्तता द्रष्टव्या, आकाशशून्यतया सत्त्वशून्यता द्रष्टव्या, आकाशासारतया सत्त्वासारता द्रष्टव्या, आकाशतुच्छतया सत्त्वतुच्छता द्रष्टव्या इति. अनेनापि देवपुत्राः पर्यायेण दुष्करकारको बोधिसत्त्वो महासत्त्वो यो ऽसंविद्यमानानां सत्त्वानां कृतशः संनाहं संनह्यते आकाशेन सार्धं स विवदितव्यं मन्येत यः सत्त्वानां कृतशः संनाहं संनद्धव्यं मन्येत, स च संनाहः संनद्धो बोधिसत्त्वेन महासत्त्वेन सत्त्वाश् च नोपलभ्यन्ते येषाम् अर्थाय संनाहः संनद्धः. तत् कस्य हेतोः? सत्त्वविविक्ततया संनाहविविक्तता द्रष्टव्या. सचेद् एवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? रूपविविक्ततया सत्त्वविविक्तता, वेदनासंज्ञासंस्कारविज्ञानविविक्ततया सत्त्वविविक्तता, प्रज्ञापारमिताविविक्ततया रूपविविक्तता यावद् विस्तरेण सर्वाकारज्ञताविविक्तता. सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मविविक्ततायां भाष्यमाणायां चित्तं नावलीयते न संलीयते न संत्रासम् आपद्यते, चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्. इति द्रव्यसत्पृथग्जनपुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पः

भगवान् आह: केन कारणेन सुभूते बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमिताया?

सुभूतिर् आह: असत्त्वाद् भगवन् न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां, विविक्तत्वाच् छान्तत्वाद् अनुत्पादत्वाद् भगवन् न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्, अनेन भगवन् कारणेन बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि भगवन् स नोपलभ्यते यः संसीदते, येन (psp_5:41) वा संसीदते यत्र वा संसीदते सर्व एते धर्मा नोपलभ्यन्ते. सचेद् भगवन्न् एवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति न विषीदति नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि भगवन् सर्व एते धर्मा नोपलभ्यन्ते यो वा संसीदेत् येन वा संसीदेत् यत्र वा संसीदेत्, एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतयो देवा नमस्यन्ति यः प्रज्ञापारमितायां चरति. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न केवलं सुभूते सेन्द्रकैर् देवैः सब्रह्मकैः सप्रजापतिकैर् देवैर् नमस्यनीयो बोधिसत्त्वो महासत्त्वो य एवं प्रज्ञापारमितायां चरति, ये ऽपि ते ऽतिक्रान्तवर्णा देवपुत्राः शुभकृत्स्ना वृहत्फला यावच् छुद्धावासका देवपुत्रास् ते ऽपि सुभूते नमस्यन्ति बोधिसत्त्वं महासत्त्वं य एवं प्रज्ञापारमितायां चरति.

ये ऽपि ते सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धास् तं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन् तं समन्वाहरन्ति. अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितां परिपूरयिष्यति, वीर्यपारमितां परिपूरयिष्यति, क्षान्तिपारमितां परिपूरयिष्यति, शीलपारमितां परिपूरयिष्यति, दानपारमितां परिपूरयिष्यति, अध्यात्मशून्यतां परिपूरयिष्यति यावद् अभावस्वभावशून्यतां परिपूरयिष्यति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् परिपूरयिष्यति, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् परिपूरयिष्यति यावत् सर्वाकारज्ञतां परिपूरयिष्यति, यावत् पुनः सुभूते बोधिसत्त्वान् महासत्त्वान् बुद्धा भगवन्तः प्रज्ञापारमितायां चरतः समन्वाहरन्ति, ते बोधिसत्त्वा महासत्त्वा बुद्धप्रतिपन्ना धारयितव्याः, यावन्तः सुभूते गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्वे माराः पापीयांसो भवेयुर् एकैकश् च मारः पापीयांस् तावत एव मारान् पापीयासो ऽभिनिर्मिमीते, ते सर्वे ऽप्रतिबलास् तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽन्तरायं कर्तुम्.

द्वाभ्यां सुभूते धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो (psp_5:42) दुर्धर्षो भवति मारैः पापीयोभिः. कतमाभ्यां द्वाभ्यां? सर्वधर्माश् च शून्यतातो व्यवलोकिता भवन्ति, सर्वसत्त्वाश् चापरित्यक्ता भवन्ति. आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्धर्षो भवति मारैः पापीयाभिः. अपराभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभिः. कतमाभ्यां द्वाभ्याम्? यथावादी तथाकारी च भवति बुद्धांश् च भगवतः समन्वाहरति. आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभिः. एवञ् चरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य ते देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते पर्युपास्यन्ते परिप्रश्नयन्ति, उत्साहञ् च ददाति: क्षिप्रं त्वं कुलपुत्र बुद्धबोधिं समनुप्राप्स्यसि तस्मात् तर्हि त्वं कुलपुत्र एतेनैव विहारेण विहर यद् उत शून्यताविहारेणानिमित्तविहारेणाप्रणिहितविहारेण. तत् कस्य हेतोः? एतेन त्वं कुलपुत्र विहारेण विहरन्न् अनाथानां सत्त्वानां नाथो भविष्यसि, असरणानां शरणं भविष्यसि, अत्राणानां सत्त्वानां त्राणं भविष्यसि, अपरायणानां सत्त्वानां परायणं भविष्यसि, अलयनानां सत्त्वानां लयनं भविष्यसि, अद्वीपानां सत्त्वानां द्वीपो भविष्यसि, अन्धभूतानां सत्त्वानाम् आलोको भविष्यसि. तत् कस्य हेतोः? एतेन हि प्रज्ञापारमिताविहारेणाविरहितस्य बोधिसत्त्वस्य महासत्त्वस्यामी गुणा भवन्ति.

ये ऽपि ते ऽसंख्येयेष्व् अप्रमेयेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि भिक्षुसंघपरिवृता बुद्धा भगवन्तो बोधिसत्त्वगणपुरस्कृता, यो ऽसौ प्रज्ञापारमितायां चरत्य् एतैर् एव गुणैः समन्वागतो यद् उत प्रज्ञापारमितागुणैस् तस्य ते बुद्धा भगवन्तो नामं च गोत्रं च परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.

तस्य बोधिसत्त्वस्य महासत्त्वस्य तद्यथापि नामाहम् एतर्हि रत्नकेतोर् बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि, शिखिनश् च बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि. (psp_5:43)

ये ऽपि ते बोधिसत्त्वा महासत्त्त्वा अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरन्ति, अनया च प्रज्ञापारमितयाविरहितास् तेषाम् अहं बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि.

ये ऽपि ते पूर्वस्यां दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, तत्र ये बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनया प्रज्ञापारमितयाविरहितास् तेषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयत्य् उदानं चोदानयन्ति. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्ध्वम् अत्र विदिक्षु लोकधातुषु, ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, तत्र ये बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनया प्रज्ञापारमितयाविरहितास् तेषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.

ये ऽपि ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वमार्गं परिपूरयमाणा यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, तेषाम् अपि ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति. तत् कस्य हेतोः? एवं दुष्करकारका हि सुभूते बोधिसत्त्वा महासत्त्वा भवन्ति, ये बुद्धनेत्र्यव्यवच्छेदाय प्रतिपन्नाः.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमेषां भगवन् बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपास् ते बुद्धा भगवन्तो धर्मं देशयन्त्य् उदानं चोदानयन्ति विनिवर्तनीयानां वा अविनिवर्तनीयानां वा?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सन्ति सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया ये प्रज्ञापारमितायां चरन्ति, सन्ति विनिवर्तनीया बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्ति, येषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति. ये ऽपि ते रत्नकेतोर् बोधिसत्त्वस्य महासत्त्वस्यानुशिक्षमाणरूपा बोधिसत्त्वचारिकां चरन्ति तेषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.

पुनर् अपरं सुभूते ये ऽपि ते बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्ति, सर्वधर्मा अनुत्पत्तिका इत्य् अधिमुक्ता न चानुत्पत्तिकैर् (psp_5:44) धर्मैः क्षान्तिः प्रतिलब्धा, सर्वधर्माः शून्या इत्य् अधिमुक्ता न चानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, सर्वधर्माः शान्ता इत्य् अधिमुक्ताः सर्वधर्मा विगता इति तुच्छका इति वशिका इत्य् असारका इत्य् अधिमुक्ता न चानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, एषां सुभूते बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.

येषां ते सुभूते बोधिसत्त्वानां महासत्त्वानां बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूउपा धर्मं देशयन्त्य् उदानं चोदानयन्ति, तेषाम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रहीणा श्रावकभूमिश् च प्रत्येकबुद्धभूमिश् च प्रतिकाङ्क्षितव्या, व्याक्रियन्ते च ते ऽनुत्तरायां सम्यक्संबोधौ.

यस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति, स बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयतायां स्थास्यति यत्र स्थित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति. पुनर् अपरं सुभूते बोधिसत्त्वा महासत्त्वा गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां श्रुत्वा न काङ्क्षिष्यन्ति न विचिकित्सिष्यन्ति न धन्धायिष्यन्ति. एवम् एतद् यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषितेत्य् अधिमोक्ष्यन्ते बोधिम् अभिसंभोत्स्यते, कस् तत्र स्थित्वा धर्मं देशयिष्यति? नेदं स्थानं विद्यते.

अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामाः. तत् कस्य हेतोः? न च नाम भगवन् कश्चित् तथतायां तिष्ठति नापि कश्चिद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते नापि कश्चिद् धर्मं देशयति. अथ च नावलीयते न चास्य काङ्क्षायितत्वं वा धन्धायितत्वं वा भवति. इति प्रज्ञप्तिसहार्यपुद्गलाधिष्ठानो द्वितियो ग्राहकविकल्पः

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् मायोपमं चित्तम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तं मायोपमं चित्तम्.

सुभूतिर् आह: न भगवन्, नाहं भगवन् मायोपमं चित्तं समनुपश्यामि. (psp_5:45)

भगवान् आह: तत् किं मन्यसे? सुभूते यत्र न माया, न मायोपमं चित्तं तत्र समनुपश्यसि त्वं चित्तम्. सुभूतिर् आह: न भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यत्र मायाया मायोपमाद् वा चित्तात् तं धर्मं समनुपश्यसि यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.

सुभूतिर् आह: न भगवन्, नाहं भगवन् अन्यत्र मायाया मायोपमाद् वा चित्तात् तं धर्मं समनुपश्यामि यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सो ऽहं भगवन्न् अन्यं धर्मं न समनुपश्यन् तत्कतमं धर्मम् उपदेक्ष्याम्य् अस्ति वा नास्ति वेति? यो धर्मो ऽत्यन्ततया विविक्तो न सो ऽस्तितां वा नास्तितां वोपैति, यो धर्मो ऽत्यन्ततया विविक्तो न सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, न चासंविद्यमानो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोहोत्स्यते. तत् कस्य हेतोः? तथा हि भगवंस् ते धर्मा न संविद्यन्ते ये संक्लिश्येयुर् व्यवदायेयुर् वा. तत् कस्य हेतोः? तथा हि भगवन् प्रज्ञापारमितात्यन्तविविक्ता, ध्यानपारमितात्यन्तविविक्ता वीर्यपारमितात्यन्तविविक्ता, क्षान्तिपारमितात्यन्तविविक्ता, शीलपारमितात्यन्तविविक्ता, दानपारमितात्यन्तविविक्ता, एवम् अध्यात्मशून्यतात्र्यन्तविविक्ता यावद् अभावस्वभावशून्यतात्यन्तविविक्ता, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा अत्यन्तविविक्ताः, अप्रमाणध्यानारूप्यसमापत्त्यार्यसत्यान्य् अत्यन्तविविक्तानि, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अत्यन्तविविक्तानि, पञ्चाभिज्ञा अत्यन्तविविक्ता, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा अत्यन्तविविक्ताः, अनुत्तरां सम्यक्संबोधिर् अप्य् अत्यन्तविविक्ता.

यश् चात्यन्तविविक्तो धर्मो न स भावयितव्यो वा विभावयितव्यो वा, नापि कस्यचिद् धर्मस्याहारिका प्रज्ञापारमितात्यन्तविविक्तत्वाद्, यद्य् अत्यन्तविविक्ता प्रज्ञापारमिता तत् कथं भगवन् प्रज्ञापारमितम् आगम्य बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? अनुत्तरापि सम्यक्संबोधिर् अत्यन्तविविक्ता, कथं विविक्तेन विविक्तस्यानुबोधौ भवति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु (psp_5:46) सुभूते एवम् एतत्, अत्यन्तविविक्ता हि सुभूते प्रज्ञपारमिता, ऽत्यन्तविविक्ता ध्यानपारमिता, ऽत्यन्तविविक्ता वीर्यपारमिता, ऽत्यन्तविविक्ता क्षान्तिपारमिता, ऽत्यन्तविविक्ता शीलपारमिता, ऽत्यन्तविविक्ता दानपारमिता, अत्यन्तविविक्ताः सर्वशून्यताः, सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अत्यन्तविविक्ता, अनुत्तरा समयक्संबोधिर् अत्यन्तविविक्ता यावत् सर्वाकारज्ञता अत्यन्तविविक्ता. यथा सुभूते ऽत्यन्तविविक्ता प्रज्ञापारमिता यावत् सर्वाकारज्ञता तथात्यन्तविविक्ताम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.

सचेत् सुभूते न प्रज्ञापारमितात्यन्तविविक्ताभविष्यद् यावत् सर्वाकारज्ञतात्यन्तविविक्ता भविष्यन् न प्रज्ञापारमिताभविष्यद् यावन् न सर्वाकारज्ञताभविष्यद् एवं न प्रज्ञपारमिता. ये च पुनर् एवं श्रोष्यन्ति अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके गम्भीरां प्रज्ञापारमितां तेषां च बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चान्तिकाद्, अयम् अपि बोधिसत्त्वयानिकः पुद्गल इमां प्रज्ञापारमिताम् अधिमोक्ष्यते, इमां प्रज्ञापारमितां यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषिता तथाधिमुच्यमानो ऽविनिवर्तनीयतायां स्थास्यति, एवं बहुकरं सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायाः श्रवणं वदामि, कः पुनर् वादो ये ऽधिमोक्ष्यन्ते ऽधिमुच्य तथत्वाय स्थास्यन्ति तथत्वाय प्रतिपत्स्यन्ते तथत्वाय स्थित्वा तथत्वाय प्रतिपद्यमानास् तिष्ठन्ति सर्वाकारज्ञतायाम्.

सुभूतिर् आह: यत् पुनर् भगवंस् तथतायां स्थित्वा तथतायां प्रतिपद्यमानो न कश्चिद् धर्मम् उपलभते तदा कथं तिष्ठति सर्वाकारज्ञतायाम्?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यथा सुभूते तथागतनिर्मितस् तिष्ठति तथा तिष्ठति सर्वाकारज्ञतायाम्.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यत् पुनर् भगवंस् तथागतनिर्मितो न कश्चिद् धर्मम् उपलभते, को ऽयं तथतायां तिष्ठति? को वा तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? को वा तथतायां स्थित्वा धर्मं देशयिष्यति? तथतैव तावन् नोपलभ्यते, कः पुनर् वादो यस् तथतायां स्थास्यति (psp_5:47) तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तथतायां स्थित्वा धर्मं देशयिष्यति.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदायुष्मान् सुभूतिर् एवम् आह, तथागतनिर्मितो न कश्चिद् धर्मम् उपलभते को ऽयं तथतायां तिष्ठति, को वा तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, को या तथतायां स्थित्वा धर्मन् देशयिष्यति, तथतैव तावन् नोपलभ्यते, कः पुनर् वादो यस् तथतायां स्थास्यति तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तथतायां स्थित्वा धर्मं देशयिष्यति. एवम् एतत् सुभूते एवम् एतत्, तथा यथा वदसि, न सुभूते तथागतनिर्मितः कश्चिद् धर्मम् उपलभते यस् तथतायां स्थास्यति यस् तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यस् तथतायां स्थित्वा धर्मं देशयिष्यति तथतैव तावन् नोपलभ्यते, कः पुनर् वादो यस् तथतायां स्थास्यति तथतायां स्थित्वानुत्तरां सम्य्सक्संबोधिम् अभिसंभोत्स्यते तथतायां स्थित्वा धर्मं देशयिष्यन्तिति, नेदं स्थानं विद्यते. तत् कस्य हेतोः? उत्पादाद् वा सुभूते तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिर्, नेह सुभूते तथतायां कश्चित् तिष्ठति न तथतायां कश्चिद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते न तथतायां कश्चिद् धर्मं देशयति. तत् कस्य हेतोः? न ह्य् अत्र तथतायां धर्म उपलभ्यते, यो वा तथतायां तिष्ठेत्, यो वा तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यो वा तथताया स्थित्वा धर्मं देशयिष्यति. तत् कस्य हेतोः? तथतैव तावन् नोपलभ्यते, नैवास्योत्पाद उपलभ्यते न व्ययो न स्थितिर्

नान्यथात्वम्. यत्रास्य धर्मस्य नोत्पाद उपलभ्यते न व्ययो न स्थितिर् नान्यथात्वं, कस् तत्र स्थास्यति? को वा तत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? तस्मात् तर्हि सुभूते प्रज्ञापारमितात्यन्तविविक्ता यावत् सर्वाकारज्ञतात्यन्तविविक्ता, तस्मात् सुभूते प्रज्ञपारमिताम् आगम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, न च विवेकेन विवेको ऽभिसंभोत्स्यते, अभिसंभोत्स्यते च, न च ताम् अनागम्य प्रज्ञापारमिताम् अभिसंभोत्स्यते. (psp_5:48)

सुभूतिर् आह: गम्भीरे भगवन्न् अर्थे चरति बोधिसत्त्वो महासत्त्वः.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, गम्भीरे ऽर्थे चरति बोधिसत्त्वो महासत्त्वो, दुष्करकारकः सुभूते बोधिसत्त्वो महासत्त्वो, यो गम्भीरे ऽर्थे चरति, तञ् चार्थं न साक्षात्करोति यद् उत श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा.

सुभूतिर् आह: यथाहं भगवतो भाषितस्यार्थम् आजानामि तथा न कश्चिद् दुष्करकारको बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? तथा हि भगवन् सो ऽर्थो नोपलभ्यते यं साक्षात्कुर्यात्. सापि प्रज्ञापारमिता नोपलभ्यते यया साक्षात्कुर्यात्, सो ऽपि धर्मो नोपलभ्यते यः साक्षात्कुर्याद्, अनुपलभमानो भगवन् सर्वधर्मांस् तत् कतमम् अर्थं साक्षात्करिष्यति? कतमां प्रज्ञापारमितां साक्षात्करिष्यति? कतमं धर्मं साक्षात्करिष्यति यं साक्षात्कृत्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? इयं भगवन्न् अनुपलम्भचरिर् बोधिसत्त्वचरिर् यत्र चरन् बोधिसत्त्वो महासत्त्वः सर्वधर्मैर् अनन्धकारताम् अनुप्राप्नोति.

सचेद् भगवन्न् एवं भाष्यमाणे बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, एवञ् चरं भगवन् बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायां, स चरन् निमित्तम् अपि न समनुपश्यति, प्रज्ञापारमिताम् अपि न समनुपश्यति, अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति न समनुपश्यति.

तस्य खलु पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, दूरीकरिष्यामि श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वासन्नो ऽस्मि सर्वाकारज्ञतायाः. इति स्वभावविकल्पः

तद्यथापि नाम भगवन् नाकाशस्यैवं भवति कस्यचिद्, अहं दूरे वाभ्यासे वा. तत् कस्य हेतोः? अभेदत्वाद् भगवन्न् आकाशस्य. एवम् एव भगवन् न प्रज्ञापारमिताया एवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे, अनुत्तरा सम्यक्संबोधिर् अभ्यासे वा. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः. इति गोत्रविकल्पः (psp_5:49)

तद्यथापि नाम भगवन् मायापुरुषस्य नैवं भवति, मायाकारो वा न मम दूरे मायाकारो ममाभ्यासे, यः पुनर् एवं जनकायः संनिपतितः स मम दूरे नाभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् मायापुरुषस्य. एवम् एव भगवन् न प्रज्ञापारमिताया एवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् ममाभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः इति समुदागमविकल्पः

तद्यथापि नाम भगवन् प्रतिभासस्य नैवं भवति, येनारम्बणेन प्रतिभास उत्पन्नस् तन् ममाभ्यासे, ये पुनर् अत्र नोपसंक्रान्ता आदर्शे वा उदकपात्रे वा ते मम दूरे. तत् कस्य हेतोः? अविद्यमानत्वाद् भगवन् प्रतिभासस्य, एवम् एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् अभ्यासे. तत् कस्य हेतोः? अविद्यमानत्वाद् भगवन् प्रज्ञापारमितायाः. इत्य् आलम्बनविकल्पः

तद्यथापि नाम भगवंस् तथागतस्यार्हतः सम्यक्संबुद्धस्य न कश्चित् प्रियो वाप्रियो वा संविद्यते. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नोपलभ्यते, एवम् एव भगवन् प्रज्ञापारमिताया न कश्चित् प्रियो वाप्रियो वा संविद्यते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नोपलभ्यते. इति प्रतिपक्षविकल्पः

तद्यथापि नाम भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वविकल्पप्रहीण एवम् एव भगवन् प्रज्ञापारमिता सर्वविकल्पप्रहीणा अविकल्पताम् उपादाय. इति स्वाधिगमविकल्पः

तद्यथापि नाम भगवंस् तथागतनिर्मितस्य नैवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् ममाभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवंस् तथागतनिर्मितस्य, एवम् एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, स्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् अभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः. इति कर्तृविकल्पः

तद्यथापि नाम भगवंस् तथागतेन यो निर्मितः स यस्य कृत्यस्य कृतेन कृतस् तच् च कृत्यं करोति स च निर्मिनो ऽविकल्पो (psp_5:50) निर्विकल्पः. एवम् एव भगवन् यस्य कृत्यस्य कृतेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां भावयति तच् च कृत्यं करोति सा च प्रज्ञापारमिताविकल्पा निर्विकल्पा. इति कारित्रविकल्पः

तद्यथापि नाम भगवन् दक्षेण पलगण्डेन पलगण्डान्तेवासिना वा यन्त्रयुक्तः कृतः स्यात् स्त्रीविग्रहो वा पुरुषविग्रहो वा हस्तिविग्रहो वा बलीवर्दविग्रहो वा, स च यन्त्रयुक्तो यस्य कृत्यस्य कृतेन कृतस् तच् च कृत्यं करोति स च यन्त्रयुक्तो ऽविकल्पो निर्विकल्पः. एवम् एव भगवन् यस्य कृत्यस्य कृतेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता भाव्यते तच् च कृत्यं करोति सा प्रज्ञापारमिता अविकल्पा निर्विकल्पा. इति क्रियासाफल्यविकल्पः इत्य् उक्तो नवविधः प्रथमो ग्राह्यविकल्पः

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कियच्चिरं संप्रस्थिता बोधिसत्त्वा महासत्त्वा ये ऽनेनोपायकौशल्येन समन्वागताः?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एत्द् अवोचत्: असंख्येयकल्पकोटीनियुतशतसहस्रसंप्रस्थिताः सुभूते ऽमी बोधिसत्त्वा महासत्त्वा ये ऽनेनोपायकौशल्येन समन्वागताः.

सुभूतिर् आह: कियन्तो बुद्धा भगवतः पर्युपासिता भगवंस् तैर् बोधिसत्त्वैर् महासत्त्वैर् ये ऽनेनोपायकौशल्येन समन्वागताः?

भगवान् आह: गङ्गानदीवालुकोपमा बुद्धा भगवन्तः पर्युपासितास् तैः कुलपुत्रैर् वा कुलदुहितृभिर् वा भवितव्या ये ऽनेनोपायकौशल्येन समन्वागताः.

सुभूतिर् आह: कियत् तैर् भगवन् कुशलमूलं कृतं बोधिसत्त्वैर् महासत्त्वैर् ये ऽनेनोपायकौशल्येन समन्वागताः?

भगवान् आह: प्रथमचित्तोत्पादम् उपादाय सुभूते न सा काचिद् दानपारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता, न सा काचिच् छीलपारमिता, न सा काचित् क्षान्तिपारमिता, न सा काचिद् वीर्यपारमिता, न सा काचिद् ध्यानपारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता, न सा काचित् प्रज्ञापारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता ये ऽनेनोपायकौशल्येन समन्वागताः.

सुभूतिर् आह: आश्चर्यम् एतद् भगवन् बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशल्येन समन्वागताः. (psp_5:51)

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, आश्चर्यम् एतत् सुभूते बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशल्येन समन्वागताः. तद्यथापि नाम सूर्याचन्द्रमसौ मण्डले चतुर्षु द्वीपेषु कार्यं कुर्वाते चतुरो द्वीपान् अनुगच्छतः, एवम् एव सुभूते प्रज्ञापारमिता पञ्चसु पारमितासु कर्म करोति पञ्च पारमिता अनुगच्छन्ति, प्रज्ञापारमिताविरहितत्वात् पञ्च पारमिताः पारमितानामधेयं लभन्ते, प्रज्ञापारमिताविरहितत्वाद् न पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते यथा राजा चक्रवर्ती विरहितः सप्तभी रत्नैर् न राजा चक्रवर्तीति नामधेयं लभते, एवम् एव सुभूते पञ्च पारमिता विरहितत्वात् प्रज्ञापारमितया न पारमितानामधेयं लभन्ते. इति न्यूनाधिगमविकल्पः

तद्यथापि नाम सुभूते अपुरुषा स्त्री सुधर्षणा भवति धूर्तकानाम्, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमिताविरहितत्वात् सुधर्षणा भवन्ति मारेण पापीयसा मारकायिकाभिर् वा देवताभिः. इति संपरिग्रहो ऽभावविकल्पः

तद्यथापि नाम सुभूते संग्रामावचरः पुरुषः संनाहसंनद्धः संग्रामे वर्तमाने दुर्धर्षो भवति राजन्यैर् वा प्रत्यर्थिकैर् वा प्रत्यमित्रैर् वा, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमिताविरहितत्वाद् दुर्धर्षा भवन्ति मारेण वा मारकायिकाभिर् वा देवताभिर् आधिमानिकैर् वा पुद्गलैर् यावद् एवं बोधिसत्त्वचण्डालैर् वा पञ्च पारमिता दुर्धर्षा भवन्ति. इति प्रतिपत्तिवैकल्यविकल्पः

तद्यथापि नाम सुभूते कोट्टराजानो राज्ञश् चक्रवर्तिनो ऽनुविधेया भवन्ति सो ऽयं प्रातरुपस्थानो यो गच्छन्ति, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेनानुगच्छन्ति. इति परप्रत्ययमायित्वविकल्पः

तद्यथापि नाम सुभूते याः काचित् कुनद्यः सर्वास् ता येन गङ्गानदी तेनानुगच्छन्ति ता गङ्गानद्या सार्धं महासमुद्रम् उपयान्ति, एवम् एव पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेनानुगच्छन्ति. इत्य् उद्देशनिवृत्तिविकल्पः

तद्यथापि नाम सुभूते पुरुषस्य दक्षिणो हस्तः सर्वकृत्यानि करोत्य्, एवम् एव सुभूते प्रज्ञापारमिता द्रष्टव्या, यथा च वामहस्त (psp_5:52) एवं पञ्च पारमिता द्रष्टव्याः. इति प्रादेशिककारित्रविकल्पः तद्यथापि नाम सुभूते यच् च कुनदीनां यच् च महानदीनाम् उदकं सर्वं तं महासमुद्रप्रविष्टम् एकरसं भवत्य्, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता अनुप्रविष्टाः पारमिता नामधेयं लभन्ते. इत्य् अधिगमनानात्वविकल्पः

तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चतुरङ्गस्य बलकायस्य चक्ररत्नम् अग्रतो गच्छति, तिष्ठति च यत्र राज्ञश् चक्रवर्तिनश् चक्ररत्नं तिष्ठति तत्र राजा चक्रवर्ती बलकायम् अर्पयति न च चक्ररत्नं स्थानतश् चलति, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता परिणायिका येन सर्वाकारज्ञता तेनानुगच्छन्ति, तत्र स्थास्यन्ति तत्र स्थित्वा स्थानतो नातिक्रामन्ति. इति स्थानप्रस्थानास्थानविकल्पः.

तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चक्ररत्नं सपरिणायकरत्नं सगृहपतिरत्नं चतुरङ्गस्य बलकायस्याग्रतो गच्छत्य्, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिताग्रतो गच्छत्य् अग्रतो गत्वा येन सर्वाकारज्ञता तेन तिष्ठति. न च प्रज्ञापारमिताया एवं भवति, दानपारमिता ममानुगच्छेच्, छीलपारमिता ममानुगच्छेत्, क्षान्तिपारमिता ममानुगच्छेद्, वीर्यपारमिता ममानुगच्छेद् ध्यानपारमिता ममानुगच्छेत्, नैवं दानपारमिताया एवं भवत्य्, अहं प्रज्ञापारमिताम् अनुगच्छेयम् इति, न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया एवं भवत्य्, अहं प्रज्ञापारमिताम् अनुगच्छेयम् इति. तत् कस्य हेतोः? स्वभाव आसाम् अकिंचित्समर्थः स्वभावः शून्यस् तुच्छो मरीचिसमः.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा भगवन् सर्वधर्माः स्वभावशून्यास् तत् कथं बोधिसत्त्वो महासत्त्वः दानपारमितायां चरन् शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञपारमितायां चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?

भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितासु चरत एवं भवति, विपर्यस्तचित्तो ऽयं लोकसंनिवेशः, स न शक्यो ऽनुपायकौशल्येन संसारतः परिमोक्तुं, तेषां सत्त्वानाम् अर्थाय दानपारमितायां चरिष्यामि, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिष्यामीति, स तेषां सत्त्वानाम् (psp_5:53) अर्थायाध्यात्मबहिर्धावस्तु परित्यजति तस्य च परित्यजत एवं भवति, न किंचित् परित्यक्तम्. तत् कस्य हेतोः? तथा ह्य् एतद् वस्तु स्वभावशून्यं, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणो दानपारमितां परिपूरयति. तेषाञ् च सत्त्वानाम् अर्थाय दौःशील्यस्यावकाशं न ददाति. तत् कस्य हेतोः? न ह्य् एतन् मम प्रतिरूपं स्याद् यो ऽहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थितः प्राणातिपातं कुर्याम्, एवम् अदत्तादानं काममिथ्याचारं मृषावादं पिशुनवचनं परुषवचनम् अबद्धप्रलापम् अभिध्यां व्यापादं मिथ्यादृष्टिं कुर्यां, श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा प्रार्थयेयं, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणः शीलपारमितायां चरति. तेषाम् एव सत्त्वानाम् अर्थायैकचित्तोत्पादम् अपि न क्षोभयति, एवं खलु सुभूते बोधिसत्त्त्वो महासत्त्वो व्युपपरीक्षमाणः क्षान्तिपारमितायाञ् चरति. तेषाम् एव सत्त्वानाम् अर्थाय कौशीद्यचित्तं नोत्पादयति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणो वीर्यपारमितायां चरति. स तेषाम् एव सत्त्वानाम् अर्थाय विक्षिप्तचित्तो न भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणो ध्यानपारमितायां चरति. स तेषाम् एव सत्त्वानाम् अर्थाय न जातु प्रज्ञापारमिताविरहितो भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवति. तत् कस्य हेतोः? न ह्य् अन्यथा शक्याः सत्त्वाः परिपाचयितुम् अन्यत्र प्रज्ञयेत्य् अर्थवशेनैवम् अर्थं प्रज्ञापारमितायां चरति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा भगवन् पारमितानां नास्ति नानात्वं, कथम् इयं प्रज्ञापारमिता पञ्चानां पारमितानाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते ऽनुत्तराख्यायते?

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न सुभूते पारमितानां किञ्चित् नानात्वं, यदि पुनः प्रज्ञापारमिता न भाव्येत, नेमाः पञ्च पारमितानामधेयं लभेरन् प्रज्ञापारमितां पुनः सुभूते आगम्य इमाः पञ्च पारमिताः पारमितानामधेयं लभन्ते तद्यथापि नाम सुभूते नानाप्रकारा आत्मभावाः सुमेरुं पर्वतराजम् उपसंक्रान्ता एकवर्णा (psp_5:54) भवन्ति यद् उत तद्वर्णाः, एवम् एव सुभूते प्रज्ञापारमिताम् आगम्य पञ्च पारमिताः पारमितानामधेयं लभन्ते, ताः सर्वाकारज्ञताम् अनुप्रविष्टा एकवर्णा भवन्ति, न विशेषः कश्चित् प्रज्ञायते, इयं दानपारमिता, इयं शीलपारमिता, इयं क्षान्तिपारमिता, इयं वीर्यपारमिता, इयं ध्यानपारमिता, इयं प्रज्ञापारमिता. तत् कस्य हेतोः? तथा ह्य् आसां स्वभावो नास्त्य् अनेन कारणेन स्वभावो न प्रज्ञायते.

सुभूतिर् आह: यदि भगवन्न् अर्थानुप्रतिपन्नस्य कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा न प्रज्ञायते, कथम् इयं प्रज्ञापारमिता आसां पञ्चानां पारमितानाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तामाख्यायते अनुत्तराख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते?

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अर्थानुप्रतिपन्नस्य कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा न प्रज्ञायते. अपि तु खलु पुनर् लोकव्यवहारसंकेतम् उपादाय दानपारमिता प्रज्ञप्ता, शीलपारमिता प्रज्ञप्ता, क्षान्तिपारमिता प्रज्ञप्ता, वीर्यपारमिता प्रज्ञप्ता, ध्यानपारमिता प्रज्ञप्ता सत्त्वानां संसारतः परिमोचनाय. ते च सत्त्वा न जायन्ते न म्रियन्ते न च्यवन्ते नोपपद्यन्ते, सत्त्वासत्तया सर्वधर्मासत्ता वेदितव्या. अनेन सुभूते कारणेनासां पञ्चानां पारमितानां प्रज्ञापारमिताग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते अनुत्तमाख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते, तद्यथापि नाम सुभूते याः काश्चन स्त्रियस् तासां स्त्रीरत्नम् अग्रम् आख्यायते ज्येष्ठम् आख्यायते श्रेष्ठम् आख्यायते वरम् आख्यायते प्रवरम् आख्यायते प्रणीतम् आख्यायते उत्तमम् आख्यायते अनुत्तमम् आख्यायते निरुत्तमम् आख्यायते असमम् आख्यायते असमसमम् आख्यायते. एवम् एव सुभूते प्रज्ञापारमिता आसां पञ्चानां पारमितानाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते अनुत्तमाख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते.

सुभूतिर् आह: क एष भगवन्न् अभिप्रायो यत् प्रज्ञापारमिता अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते (psp_5:55) प्रणीताख्यायतेऽ उत्तमाख्यायते अनुत्तमाख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते?

भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता सर्वान् कुशलान् धर्मान् गृहीत्वा येन सर्वाकारज्ञता तेन स्थास्यत्य् अस्थानयोगेन. इति पृष्टतो निर्याणविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राह्यविकल्पः

सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमिता कञ्चिद् धर्मं गृह्णाति वा मुञ्चति वा?

भगवान् आह: न सुभूते प्रज्ञापारमिता कञ्चिद् धर्मं गृह्णाति वा मुञ्चति वा. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा अगृहीता अमुक्ताः.

सुभूतिर् आह: तत् कतमान् भगवन् सर्वधर्मान् प्रज्ञापारमिता न गृह्णाति न मुञ्चति?

भगवान् आह: रूपं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति, न वेदनां न संज्ञां न संस्कारान्, विज्ञानं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. एवं सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् अनुत्तरां सम्यक्संबोधिं सुभूते प्रज्ञपारमिता न गृह्णाति न मुञ्चति. इति ग्रहणमोक्षणविकल्पः

सुभूतिर् आह: कथं भगवन् रूपम् अपरिगृहीतं भवति, कथं वेदना संज्ञा संस्काराः, कथं विज्ञानम् अपरिगृहीतं भवति?

भगवान् आह: यः सुभूते रूपस्यामनसिकारो वेदनाया अमनसिकारः संज्ञाया अमनसिकारः संस्काराणाम् अमनसिकारो विज्ञानस्यामनसिकारः, यः स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानार अमनसिकारो, यः सर्वपारमितानां सर्वशून्यतानां, यः सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् अमनसिकारो, य आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीनाम् अमनसिकारो, यः शून्यतानिमित्ताप्रणिहितानां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानाम् (psp_5:56) अमनसिकारो, यो ऽभिज्ञादशबलवैशारद्यप्रतिसंविदाम् अमनसिकारो, य आवेणिकानां बुद्धधर्माणाम् अमनसिकारः, यावद् यो ऽनुत्तरायाः सम्यक्संबोधेर् अमनसिकारः. एवं ह्य् एतत् सुभूते रूपम् अपरिगृहीतं भवति यावत् सर्वाकारज्ञता परिगृहीता भवति.

सुभूतिर् आह: यदि भगवन् रूपं न मनसिकर्तव्यं, वेदना संज्ञा संस्कारा, विज्ञानं न मनसिकर्तव्यं, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा न मनसिकर्तव्यानि, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा न मनसिकर्तव्याः सर्वाकारज्ञता न मनसिकर्तव्या तत् कथं भगवन् रूपम् अमनसिकृत्वा, वेदनां संज्ञां संस्कारान्, विज्ञानम् अमनसिकृत्वा, स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वामनसिकृत्वा, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् अमनसिकृत्वा सर्वाकारज्ञताम् अमनसिकृत्वा कुशलमूलानि विवर्धन्ते? कुशलमूलैश् चाविवर्धमानैः कथं पारमिताः परिपूर्यन्ते? पारमिता अपरिपूर्य कथं सर्वाकारज्ञताम् अनुप्राप्स्यति?

भगवान् आह: यदा सुभूते रूपं न मनसिकरिष्यति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं न मनसिकरिष्यति, स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वा न मनसिकरिष्यति, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यापरमाणध्यानारूप्यसमापत्तीर् न मनसिकरिष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञा न मनसिकरिष्यति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् न मनसिकरिष्यति, यावद् अनुत्तरां सम्यक्संबोधिं न मनसिकरिष्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलानि विवर्धिष्यन्ते यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अमनसिकृत्वा हि रूपं (psp_5:57) वेदनां संज्ञां संस्कारां विज्ञनम् अमनसिकृत्वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गान्य् अमनसिकृत्वा सर्वपारमिताः सर्वशून्यताः सप्तत्रिंसद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् अमनसिकृत्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति मनसिकारविकल्पः सुभूतिर् आह: किम् अत्र भगवन् कारणं येन रूपम् अमनसिकारं, वेदना संज्ञा संस्कारा, विज्ञानम् अमनसिकारम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा मनसिकाराणि, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अमनसिकारा, अनुत्तरा सम्यक्संबोधिर् अमनसिकारा?

भगवान् आह: अमनसिकारेण हि न श्लिष्यते कामधातौ न श्लिष्यते रूपधातौ न श्लिष्यते आरूप्यधाताव् अमनसिकारेण न क्वचिच् छ्लिष्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न क्वचिद् धर्मे श्लिष्यते. इति त्रैधातुकाश्लेषविकल्पः

सुभूतिर् आह: एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न क्वचित् स्थास्यति.

भगवान् आह: एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो रूपे न तिष्ठति, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने न तिष्ठति, एवं चरन् स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु न तिष्ठति, सर्वपारमितासु सर्वशून्यतासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु न तिष्ठत्य्, एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अपि न तिष्ठति. इति स्थानविकल्पः

सुभूतिर् आह: किम् अत्र भगवन् कारणं येन बोधिसत्त्वो महासत्त्वः तत्रापि न तिष्ठति?

भगवान् आह: अनभिनिवेशेन बोधिसत्त्वो महासत्त्वो न क्वचित् (psp_5:58) तिष्ठति. तत् कस्य हेतोः? तथा हि सर्वधर्मान् न समनुपश्यति यत्राभिनिविशेत वा तिष्ठेद् वा, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरत्य् अनभिनिवेश्यास्थानयोगेन. इति भावाभावविकल्पाभिनिवेशविकल्पः

सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं भावयत्य् एवं चरति स प्रज्ञापारमितायां चरति स प्रज्ञापारमितां भावयति, अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां भावयामि. सचेद् एवं संजानीते दूरीकरोति प्रज्ञापारमितां, स प्रज्ञापारमिताया दूरीभवति, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया दूरीभवति, अध्यात्मशून्यताया यावद् अभावस्वभावशून्यताया दूरीभवति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेभ्यो दूरीभवत्य्, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञाशून्यतानिमित्ताप्रणिहितदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यो दूरीभवति. तत् कस्य हेतोः? न हि प्रज्ञापारमिता क्वचिद् धर्मे ऽभिनिविशते, न च प्रज्ञापारमितायाः कश्चिद् अभिनिवेशो ऽस्ति. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति यत्राभिनिविशतेः.

सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अपि संजानीते च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञपारमिताया यः प्रज्ञापारमितायाञ् चरति सर्वधर्मेषु चरति. सचेद् अस्यैवं भवति, प्रज्ञापारमिता पञ्च पारमिताः परिगृह्णाति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः परिगृह्णाति, शून्यतानिमित्ताप्रणिहितान्य् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां परिगृह्णाति, विमोक्षसमाधिसमापत्तिधारणीमुखानि परिगृह्णाति, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिगृह्णाति, सर्वाकारज्ञतां परिगृह्णाति, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः, न खलु पुनः प्रज्ञापारमिताविरहितेन शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.

सचेत् पुनर् अस्यैवं भवतीह प्रज्ञापारमितायां व्याकरिष्यत्य् अनुत्तरायां सम्यक्संबोधौ च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. सचेत् पुनर् अस्यैवं भवति, य इह प्रज्ञापारमितायां स्थित्वा दानपारमिताम् अभिनिर्हरिष्यति, शीलपारमिताम् अभिनिर्हरिष्यति, क्षान्तिपारमिताम् (psp_5:59) अभिनिर्हरिष्यति, वीर्यपारमिताम् अभिनिर्हरिष्यति, ध्यानपारमिताम् अभिनिर्हरिष्यति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् अभिनिर्हरिष्यति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अभिनिर्हरिष्यत्य्, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिनिर्हरिष्यति, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् अभिनिर्हरिष्यति, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि प्रज्ञापारमिताच्युतस्य, ध्यानपारमितावीर्यपारमिताक्षान्तिपारमिताशीलपारमितादानपारमिताच्युतस्य शक्यम् अभिनिर्हरणाय, न हि स्मृत्य्पस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गच्युतस्य शक्यम् अभिनिर्हरणाय, न ह्य् आध्यात्मशून्यता यावद् अभावस्वभावशून्यताच्युतस्य शक्यम् अभिनिर्हरणाय, न ह्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिविमोक्षसमाधिसमापत्तिधारणीमुखच्युतस्य शक्यम् अभिनिर्हरणाय, न हि शून्यतानिमित्ताप्रणिहिताभिज्ञाच्युतस्य शक्यम् अभिनिर्हरणाय, न हि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मच्युतस्य शक्यम् अभिनिर्हरणाय, न हि सर्वाकारज्ञता च्युतस्य शक्यम् अभिनिर्हरणाय, न हि महामैत्रीमहाकरुणाच्युतस्य शक्यम् अभिनिर्हरणाय.

सचेत् पुनर् अस्यैवं भवति, अपरिगृहीतास् तथागतेन सर्वधर्माः स्वयम् अभिसंबुद्धा अभिसंबुध्याख्याता देशिताः प्रकाशिताश्, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि तथागतेन कश्चिद् धर्मो ऽभिसंबुद्धः. तत् कस्य हेतोः? दृष्टं धर्मं न प्रज्ञपयति, कुतः पुनः कञ्चिद् धर्मम् अभिसंभोत्स्यते, नेदं स्थानं विद्यते. इति वस्तुप्रज्ञप्तिविकल्पः

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत इमे दोषा न भवन्ति?

भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवञ् जानाति, अनुक्ताः सर्वधर्मा अपरिगृहीता, न चाशक्तो धर्मो ऽपरिगृहीतः कश्चिद् अभिसंबुध्यते, सचेद् एवञ् चरति चरति प्रज्ञापारमितायां, सचेद् अपरिग्रहधर्मम् अभिनिवशते विरहितः प्रज्ञापारमितया. तत् कस्य हेतोः? न हि प्रज्ञापारमिताभिनिवेशेन वर्तितव्या. इति शक्तिविकल्पः (psp_5:60)

सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमित प्रज्ञापारमितयाविरहिता? ध्यानपारमिता ध्यानपारमितयाविरहिता, वीर्यपारमिता वीर्यपारमितयाविरहिता, क्षान्तिपारमिता क्षान्तिपारमितयाविरहिता, शीलपारमिता शीलपारमितयाविरहिता, दानपारमिता दानपारमितयाविरहिता, अध्यात्मशून्यता अध्यात्मशून्यतयाविरहिता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतयाविरहिता, स्मृत्युपस्थानानि स्मृत्युपस्थानैर् अविरहितानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, मार्गा मार्गैर् अविरहिता, आर्यसत्यान्य् आर्यसत्यैर् अविरहितान्य्, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखैर् अविरहितानि, शून्यतानिमित्ताप्रणिहितानि शून्यतानिमित्ताप्रणिहितैर् अविरहितानि, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मैर् अविरहिताः, सर्वाकारज्ञता सर्वाकारज्ञतयाविरहिता? सचेद् भगवन् प्रज्ञापारमिता प्रज्ञापारमितयाविरहिता, एवं ध्यानं वीर्यं क्षान्तिः शीलं, दानपारमिता दानपारमितयाविरहिता, यावत् सर्वाकारज्ञता सर्वाकारज्ञतयाविरहिता. इति प्रतिपक्षविकल्पः

तत् कथं प्रज्ञापारमिताभिनिर्हर्तव्या? एवं ध्यानं वीर्यं क्षान्तिः शीलं, तत् कथं दानपारमिताभिनिर्हर्तव्या? यावत् तत् कथं सर्वाकारज्ञताभिनिर्हर्तव्या?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् इति नाभिनिविशते, इदं रूपम् अस्य रूपम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् इति नाभिनिविशते, इदं विज्ञानम् अस्य विज्ञानम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा नाभिनिविशते, इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि चेति, एवं यावत् सर्वधर्मान् नाभिनिविशते, इमे सर्वधर्मा अस्य सर्वधर्माः. रूपं नित्यतो वानित्यतो वा दुःखतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, वेदना संज्ञा संस्कारा, विज्ञानं नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः (psp_5:61) प्रतीत्यसमुत्पादाङ्गानि वा नित्यतो वानित्यतो वा दुःखतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, यावत् सर्वाकारज्ञतां नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति. तत् कस्य हेतोः? न हि धर्मो नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा संविद्यते, न हि स्वभावः स्वभावेन शक्यो ऽभिनिर्हरणाय.

स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां यावत् सर्वाकारज्ञतायां स्थास्यति. तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चतुरङ्गबलकायो येन येन स राजा गच्छति तेन तेनानुवर्तते, एवम् एव सुभूते येन येन प्रज्ञापारमिता गच्छति तेन तेनेमाः पञ्च पारमिता अनुवर्तन्ते, येन सर्वाकारज्ञता तेन स्थास्यन्ति. इति यथेच्छगमनव्याघातविकल्पः इत्य् उक्तो नवविधः प्रथमो ग्राहकविकल्पः

तद्यथापि नाम सुभूते सारथिश् चतुरङ्गम् अभिरुह्य सत्मार्गेण गच्छति, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता सारथ्यं करोति सम्यग्मार्गेण येन सर्वाकारज्ञता तेनानुगच्छति. इत्य् उक्ता उद्देशनिर्याणविकल्पाः

सुभूतिर् आह: कतमो भगवन् बोधिसत्त्वानां महासत्त्वानां मार्गः? कतमो ऽमार्गः?

भगवान् आह: श्रावकमार्गो बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, प्रत्येकबुद्धमार्गो बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, सर्वाकारज्ञतामार्गो बोधिसत्त्वानां महासत्त्वानां मार्गः. इमौ सुभूते बोधिसत्त्वानां महासत्त्वानां मार्गामार्गौ. इति मार्गामार्गज्ञानविकल्पः

सुभूतिर् आह: महाकृत्येन भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता प्रत्युपस्थिता. एवं नयति प्रणयति, अयं मार्गो ऽयम् अमार्ग इति.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येनेयं सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता प्रत्युपस्थिता, एवं नयति (psp_5:62) प्रणयति, अयं मार्गो ऽयम् अमार्ग इति. अप्रमेयाणम् असंख्येयानाम् अपरिमाणानां सत्त्वानां कृत्येन प्रत्युपस्थिता प्रज्ञापारमिता, न कश्चित् सुभूते प्रणयति न रूपं परिगृह्णाति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं परिगृह्णाति, न श्रावकभूमेर् वा न प्रत्येकबुद्द्धभूमेर् वा प्रत्युपस्थिता, सा खलु पुनर् इयं प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य परिणायिकानुत्तरायां सम्यक्संबोधौ, श्रावकभूमेश् च प्रत्येकबुद्धभूमेश् च नोपनायिका, सर्वाकारज्ञतायाश् चोपनायिका. एवम् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्योत्पादिका न निरोधिका धर्मस्थितितां प्रमाणीकृत्य.

सुभूतिर् आह: यदि भगवन् प्रज्ञापारमिता न कस्यचिद् धर्मस्योत्पादिका न निरोधिका, तत् कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानं दातव्यं? कथं शीलं रक्षितव्यं, कथं क्षान्तिर् भावयितव्या, कथं वीर्यम् आरब्धव्यं, कथं ध्यानं समापत्तव्यं, कथं प्रज्ञा भावयितव्या?

भगवान् आह: सर्वाकारज्ञताम् आरम्बणीकृत्य दानं दातव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य शीलं रक्षितव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य क्षान्तिर् भावयितव्या, सर्वाकारज्ञताम् आरम्बणीकृत्य वीर्यम् आरब्धव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य ध्यानं समापत्तव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य प्रज्ञा भावयितव्या. तेन बोधिसत्त्वेन महासत्त्वेन तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि. तथा च परिणामयितव्यानि यथास्य त्रिविधा बुद्धिर् न भवति, क एष परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं बोधिसत्त्वस्य महासत्त्वस्य इमान् कुशलान् धर्मान् अनुत्तरायै सम्यक्संबोधये परिणामयतः षट्पारमिताभावना परिपूरिङ् गच्छति यावद् बोधिसत्त्वस्य महासत्त्वस्य मैत्रीभावना परिपूरिङ् गच्छति यावत् सर्वाकारज्ञताभावना परिपूरिङ् गच्छति. यः कश्चिद् बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् अविरहितः सर्वाकारज्ञतयाविरहितो भवति, तस्माद् बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षितव्यं षट्सु पारमितासु चरितव्यम्. षट्सु पारमितासु चरन् बोधिसत्त्वो महासत्त्वः सर्वान् कुशलान् धर्मान् परिपूर्य सर्वाकारज्ञताम् अनुप्राप्स्यति, तस्माद् (psp_5:63) बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः. इत्य् उत्पादनिरोधविकल्पः

सुभूतिर् आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः?

भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेनैवं प्रत्यवेक्षितव्यं, रूपं न संयुक्तं न विसंयुक्तं, वेदना संज्ञा संस्कारा, विज्ञनं न संयुक्तं न विसंयुक्तं, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च न संयुक्तानि न विसंयुक्तानि, एवं सर्वपारमिताः सर्वसून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा न संयुक्ता न विसंयुक्ताः, सर्वाकारज्ञता न संयुक्ता न विसंयुक्ता एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः. इति संयोगविसंयोगविकल्पः

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन न रूपे स्थास्यामीति योगः करणीयः, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने स्थास्यामीति योगः करणीयः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु न स्थास्यामीति योगः करणीयः, न प्रतीत्यसमुत्पादाङ्गेषु न स्थास्यामीति योगः करणीयः, एवं न सर्वपारमितासु स्थास्यामीति योगः करणीयः, न सर्वशून्यतासु न सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु नार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखेषु न शून्यतानिमित्ताप्रणिहितेषु नाभिज्ञादशबलवैशारद्यप्रतिसंवित्सु नावेणिकेषु बुद्धधर्मेषु स्थास्यामीति योगः करणीयः, न सर्वाकारज्ञतायां स्थास्यामीति योगः करणीयः. तत् कस्य हेतोः? न हि रूपं वा क्वचित् स्थितं, न वेदना न संज्ञा न संस्कारा, न विज्ञानं क्वचित् स्थितं, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा क्वचित् स्थितानि, एवं न पारमिता न शून्यता न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि न विमोक्षमुखानि नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः क्वचित् स्थिता, न सर्वाकारज्ञता क्वचित् स्थिता. एवम् अस्थानयोगेन बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् (psp_5:64) अभिसंबोधव्या. इति रूपादिस्थानविकल्पः

तद्यथापि नाम सुभूते पुरुष आम्रफलानि वा पनसफलं वा भक्षयितुकामः स्यात् तेनाम्रफलं पनसफलं वावरोपयितव्यम्, अवरोप्य चोदकं कालानुकालं दातव्यं केलायितव्यं, तस्यानुपूर्वेण संबद्ध्यमानस्य स्तम्बस्य सामग्री लभमानस्य् आम्रफलैर् वा पनसफलैर् वा सामग्री भविष्यति, स तान्य् आम्रफलानि वा परसफलानि वा भक्षिष्यति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामः षट्सु पारमितासु शिक्षित्वा सत्त्वान् दानेनानुग्रहीष्यति शीलेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञयानुग्रहीष्यति सत्त्वान् संसारात् परिमोचयिष्यति. इति गोत्रविप्रणाशविकल्पः

तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनापरप्रणेयतां गन्तुकामेन, बुद्धक्षेत्रं परिशोधयितुकामेन, बोधिमण्डे निसीदितुकामेन, धर्मचक्रं प्रवर्तयितुकामेन षट्सु पारमितासु शिक्षितव्यम्.

सुभूतिर् आह: प्रज्ञापारमितया भगवन् प्रज्ञापारमितायां शिक्षितव्यम् इति वदसि.

भगवान् आह: प्रज्ञापारमितया सुभूते प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि, सर्वधर्मवशिताम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि. इति प्रार्थनाभावविकल्पः

तत् कस्य हेतोः? एषा हि प्रज्ञापारमिता सर्वधर्मवशिताम् अनुप्रापयति, एषा हि प्रज्ञापारमिता सर्वधर्माणां मुखं, तद्यथापि नाम सुभूते महासमुद्रः सर्वरत्नानां सर्वसरितां मुखं, सर्वनदीजलानि समुद्रे प्रविष्टान्य् एकरसानि भवन्त्य्, एवम् एव प्रज्ञापारमिता सर्वधर्माणां मुखं, सर्वधर्मा हि प्रज्ञापारमिता भाविताः प्रज्ञापारमिता भवन्ति, तस्मात् तर्हि श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बोधिसत्त्वयानिकैर् वा पुद्गलैर् इहैव प्रज्ञापारमितायां शिक्षितव्यं, तस्माद् बोधिसत्त्वेन महासत्त्वेन दानपारमितायां शिक्षितव्यं शीलपारमितायां शिक्षितव्यं क्षान्तिपारमितायां शिक्षितव्यं वीर्यपारमितायां शिक्षितव्यं ध्यानपारमितायां शिक्षितव्यं प्रज्ञापारमितायां शिक्षितव्यम्, अध्यात्मशून्यतायां शिक्षितव्यं बहिर्धाशून्यतायां शिक्षितव्यम् अध्यात्मबहिर्धाशून्यतायां शिक्षितव्यं यावद् अभावस्वभावशून्यतायां शिक्षितव्यं, स्मृत्युपस्थानेषु शिक्षितव्यम्, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिधारणीमुखेषु (psp_5:65) शिक्षितव्यं शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यं दशबलवैशारद्यप्रतिसंवित्सु शिक्षितव्यम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षितव्यं सर्वाकारज्ञतायां शिक्षितव्यम्. इति हेत्वभावविकल्पः

तद्यथापि नाम सुभूते इष्वस्त्राचार्यो यथानुरूपं धनुर् गृहीत्वा दुराधर्षो भवति प्रत्यर्थिकानां वा प्रत्यमित्राणां वा, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् दुराधर्षो भवति मारैर् वा मारकायिकाभिर् वा देवताभिस् तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेन प्रज्ञापारमितायां शिक्षितव्यं, तं च प्रज्ञापारमितायां चरन् तम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः समन्वाहरन्ति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बुद्धा भगवन्तो दानपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति? शीलपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, क्षान्तिपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, वीर्यपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, ध्यानपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, प्रज्ञापारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, अध्यात्मशून्यतायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, यावद् अभावस्वभावशून्यतायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् तम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् तम् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेषु चरन् तं दशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकाबुद्धधर्मेषु चरन् तं, कथं सर्वाकारज्ञतायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति?

एवम् उत्क्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन् तं समन्वाहरन्ति, तथा च समन्वाहरन्ति यत्र नैव दानं न शीलन् न क्षान्तिर् न वीर्यन् न ध्यानं न प्रज्ञोपलभ्यते. एवम् अनुपलम्भेन बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, यत्र नाध्यात्मशून्यता यावद् अभावस्वभावशून्यता स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते, यत्र (psp_5:66) नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञाशून्यतानिमित्ताप्रणिहितदशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा नोपलभ्यन्ते, यत्र सर्वाकारज्ञता नोपलभ्यते. एवम् अनुपलम्भयोगेन बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति.

पुनर् अपरं सुभूते बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं न रूपतः समन्वाहरन्ति, न वेदनातो न संज्ञातो न संस्कारतो, न विज्ञानतः समन्वाहरन्ति, न स्कन्धतो न धातुतो नायतनतो न प्रतीत्यसमुत्पादतो न प्रतीत्यसमुत्पादाङ्गतः समन्वाहरन्ति, न दानपारमितातो न शीलपारमितातो न क्षान्तिपारमितातो न वीर्यपारमितातो न ध्यानपारमितातो न प्रज्ञापारमितातः समन्वाहरन्ति, नाध्यात्मशून्यतातो यावन् नाभावस्वभावशून्यतातः समन्वाहरन्ति, न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतः समन्वाहरन्ति, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखतः समन्वाहरन्ति, न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मतः समन्वाहरन्ति, न सर्वाकारज्ञतातः समन्वाहरन्ति. इति प्रत्यर्थिकधर्मोपलम्भविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राहकविकल्पः

अथ खलु सुभूतिः स्थविरः शक्रन् देवानाम् इन्द्रम् एतद् अवोचत्: यत् त्वं कौशिकैवं वदसि गम्भीरेयं भगवन् प्रज्ञापारमिता, दुष्करकारका बोधिसत्त्वा महासत्त्वा येषां गम्भीरेषु धर्मेषु न भवति काङ्क्षायितत्वं वा धन्वायितत्वं वा, शून्येषु कौशिक सर्वधर्मेषु कस्यात्र काङ्क्षायितत्वं वा धन्वायित्वं वा भविष्यति? एवम् उक्ते शक्रो देवानाम् इन्द्रः सुभूतिस्थविरम् एतद् अवोचत्: यद्यद् एव सुभूतिः स्थविरो निर्दिशति सर्वन् तच् छून्यताम् एवारभ्य निर्दिशति न क्वचित् सज्जति, तद्यथापि नामेषुर् अन्तरीक्षे क्षिप्तो न क्वचित् सज्जति, एवम् एव सुभूतेः स्थविरस्य धर्मदेशना न क्वचित् सज्जति.

अथ खलु सक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कच्चिद् अहं भगवन्न् एवं भाषमाण एवम् उपदिशन्न् उक्तवादी च भगवतो धर्मवादी च धर्मस्य चानुधर्मं सम्यग् व्याकुर्वन् व्याकरोमि?

भगवान् आह: सम्यक् खलु त्वं कौशिक एवं भाषमाण एवम् उपदिशंस् तथागतस्योक्तवादी च धर्मवादी च धर्मस्य चानुधर्मं (psp_5:67) व्याकुर्वन् व्याकरोषि.

देवेन्द्र आह: आश्चर्यं भगवन् यावद् एव सुभूतेः स्थविरस्य प्रतिभाति सर्वन् तच् छून्यतां चैवारभ्य प्रतिभाति, आनिमित्तं चैवाप्रणिहितं चैवारभ्य प्रतिभाति, स्मृत्युपस्थानान्य् आरभ्य प्रतिभाति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् आरभ्य प्रतिभाति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् आरभ्य प्रतिभाति, यावद् अनुत्तरां सम्यक्संबोधिम् आरभ्य प्रतिभाति.

एवम् उक्ते भगवान् शक्रन् देवानाम् इन्द्रम् एतद् अवोचत्: सुभूतिः कौशिक स्थविरः शून्यतायां विहरन् दानपारमिताञ् चैव नोपलभते, कः पुनर् वादो ये दानपारमितायां चरन्ति शीलपारमितायां चरन्ति क्षान्तिपारमितायां चरन्ति वीर्यपारमितायां चरन्ति ध्यानपारमितायां चरन्ति प्रज्ञापारमिताञ् चैव नोपलभते, कः पुनर् वादो ये प्रज्ञापारमितायां चरन्ति. स्मृत्युपस्थानान्य् एव नोपलभते, कः पुनर् वादो ये स्मृत्युपस्थानानि भावयन्ति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गांश् चैव नोपलभते, कः पुनर् वादो ये सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गां भावयन्ति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतान् नोपलभते, कः पुनर् वादो ये ऽध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां भावयन्ति, आर्यसत्यान्य् एव नोपलभते, कः पुनर् वादो य आर्यसत्यानि भावयन्ति, अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभते, कः पुनर् वादो ये ऽप्रमाणध्यानारूप्यसमापत्तीर् भावयन्ति, शून्यतानिमित्ताप्रणिहितान्य् एव नोपलभते, कः पुनर् वादो ये शून्यतानिमित्ताप्रणिहितानि भावयन्ति, ध्यानविमोक्षसमाधिब्समापत्तिधारणीमुखान्य् एव नोपलभते, कः पुनर् वादो ये ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयन्ति, तथागत बलान्य् एव नोपलभते, कः पुनर् वादो ये बलानि भावयन्ति वैशारद्यान्य् एव नोपलभते, कः पुनर् वादो ये वैशारद्यान्य् अभिनिर्हरन्ति, प्रतिसंविद एव नोपलभते, कः पुनर् वादो ये प्रतिसंविदो ऽभिनिर्हरन्ति अभिज्ञा एव नोपलभते, कः पुनर् वादो ये ऽभिज्ञां भावयन्ति, महाकरुणाम् एव नोपलभते, कः पुनर् वादो ये महाकरुणाविहारं भावयन्ति, आवेणिकान्

एव बुद्धधर्मान् नोपलभते, कः पुनर् वादो ये आवेणिकां बुद्धधर्मान् अभिनिर्हरन्ति, अनुत्तराम् एव सम्यक्संबोधिन् नोपलभते, कः पुनर् वादो ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, (psp_5:68) सर्वाकारज्ञतम् एव नोपलभते, कः पुनर् वादो ये सर्वाकारज्ञताम् अनुप्राप्नुवन्ति, तथागतत्वम् एव नोपलभते, कः पुनर् वादो यस् तथागतो भवत्य् अनुत्पादम् एव नोपलभते, कः पुनर् वादो ये ऽनुत्पादं साक्षात् कुर्वन्ति, लक्षणान्य् एव नोपलभते, कः पुनर् वादो येषां लक्षणानि काये भवन्ति, अनुव्यञ्जनान्य् एव नोपलभते, कः पुनर् वादो येषाम् अनुव्यञ्जनानि काये भवन्ति. तत् कस्य हेतोः? सर्वधर्मविविक्तविहारी कौशिक सुभूतिः, अनुपलम्भविहारी शून्यताविहार्य् आनिमित्तविहार्य् अप्रणिहितविहारी कौशिक य एष सुभूतेः स्थविरस्य विहारः स बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहारस्य शततमीम् अपि कलान् नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोतीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् औपम्यम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि नोपैति. तत् कस्य हेतोः? तथा हि तथागतविहारं स्थापयित्वा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो यो विहारः सर्वश्रावकप्रत्येकबुद्धानां च ये विहारास् तेषां विहाराणाम् अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो यो विहारः सो ऽग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तम आख्यायते. तस्मात् तर्हि कौशिक

बोधिसत्त्वेन महासत्त्वेनाग्रतां गन्तुकामेनानेन विहारेण विहर्तव्यं यद् उत प्रज्ञापारमिताविहारेण. तत् कस्य हेतोः? अत्र हि कौशिक प्रज्ञापारमितायाञ् चरन् बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, बोधिसत्त्वनियामम् अवक्रामति, बुद्धधर्मान् परिपूरयति, सर्वाकारज्ञताम् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्य तथागतो ऽर्हन् सम्यक्संबुद्धः सर्ववासनानुसंधिक्लेशप्रहानो भविष्यति.

अथ खलु तस्यां पर्षदि देवास् त्रयस्त्रिंशा मान्दारवाणि पुष्पाणि गृहीत्वा भगवन्तम् अवकिरन्ति स्माभ्यवकिरन्ति स्माभिप्रकिरन्ति स्म. षष्टिञ् च भिक्षूणां शतम् उत्स्थायासनेभ्य एकांशञ् चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणमयाम् आसुः, तेषां च भिक्षूणाम् अञ्जलयः प्रणामिता बुद्धानुभावेन मान्दारवैः पुष्पैः परिपूर्णा अभूवंस् ते च मान्दारवैः पुष्पैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरन्ति स्माभ्यवकिरन्ति स्माभिप्रकिरन्ति (psp_5:69) स्मावकिरन्तो ऽभ्यवकिरन्तो ऽभिप्रकिरन्त एवं च वाचम् उदीरयन्ति स्म: वयं भगवन्न् एतेन कुशलमूलेनैतेनोत्तमेन विहारेण विहरिष्यामो यत्र नागतिः सर्वश्रावकप्रत्येकबुद्धानाम् इति.

अथ खलु भगवांस् तस्या वेलायां तेषां भिक्षूणाम् अध्याशयं विदित्वा स्मितं प्रदुष्करोति स्म. धर्मता खलु पुनर् एषां बुद्धानां भगवतां यदा स्मितं प्रादुष्कुर्वन्ति तदा खल्व् अनेकवर्णा नानावर्णा अर्चिषो भगवतो मुखद्वारान् निश्चरन्ति स्म, तद्यथा नीलाः पीता लोहिता अवदाता माञ्जिष्ठा रजतवर्णास् त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभास्य पुनर् एवागत्य बुद्धान् भगवतस् त्रिः प्रदक्षिणीकृत्य भगवतो मूर्धन्य् अन्तर्हिताः.

अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांशं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययः? स्मितस्य प्रादुष्करणाय नाहेतुकन् नाप्रत्ययन् तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति.

एवम् उक्ते भगवान् आयुष्मन्तं आननदम् एतद् अवोचत्: इमान्य् आनन्द षष्टिर् भिक्षुशतान्य् अनागते ऽध्वनि तारकोपमे कल्पे ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, अवकीर्णकुसुमनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति, तेषां खलु पुनर् आनन्दावकीर्णकुसुमनाम्नां तथागतानाम् अर्हतां सम्यक्संबुद्धानां समसमो भिक्षुसंघो भविष्यति, समसमं बुद्धक्षेत्रं भविष्यति, समसमम् आयुःप्रमाणं भविष्यति, विंशतिवर्षसहस्रं यतो यतो ऽभिनिष्क्रमिष्यन्ति अभिनिष्क्रम्य प्रव्रजिष्यन्ति प्रव्रजित्वा यत्र यत्र विहरिष्यन्ति तत्र तत्र पञ्चवर्णिकानां कुसुमानां कुसुमवर्षाणि प्रवर्षिष्यन्ति. तस्मात् तर्ह्य् आनन्द उत्तमेन विहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं तथागतविहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्. इत्य् अन्येषां महाबोधौ संदर्शनाप्रथमं कारणरो

यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इह गम्भीरायां प्रज्ञापारमितायां चरिष्यति निष्ठा तेनानन्द कुलपुत्रेण वा कुलदुहित्रा वा एवं गन्तव्या मनुष्येभ्यो वाहं च्युत्वेहोपपन्नस् तुषिताद् वा देवनिकाया च्युत्वेहोपपन्न इति, मनुष्येष्व् इयं गम्भीरा प्रज्ञापारमिता विस्तरेण (psp_5:70) श्रुता भविष्यति, तुषितेषु देवेष्व् इयं गम्भीरा प्रज्ञापारमिता विस्तरेण श्रुता भविष्यति, तथागतव्यवलोकयितास् ते आनन्द बोधिसत्त्वा महासत्त्वा भविष्यन्ति य इह गम्भीरायां प्रज्ञापारमितायां चरिष्यन्ति.

यः कश्चिद् आनन्दन् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां श्रोष्यत्य् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, बोधिसत्त्वयानिकानां वा पुद्गलानाम् इमां गम्भीरां प्रज्ञापारमिताम् उपदेक्ष्यत्य् अनुशासिष्यति निष्ठा तेनानन्द कुलपुत्रेण वा कुलदुहित्रा वानुगन्तव्या संमुखं मया तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिकाद् इयं गम्भीरा प्रज्ञापारमिता श्रुताभूत्, उद्ग्रहीता च धारिता च वाचिता च पर्यवाप्ता चाभूत्, तेषु च तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु कुशलमूलम् अवरोपितम् अभूत्, न श्रावकाणाम् अन्तिके कुशलमूलम् अवरोपितं नापि श्रावकाणाम् अन्तिकाद् इयं गम्भीरा प्रज्ञापारमिता श्रुत्वेति.

यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, अर्थतश् च धर्मतश् च विनयतश् चानुगमिष्यति निष्ठानन्द तेन कुलपुत्रेण वा कुलदुहित्रा वानुगन्तव्या संमुखीभूतो ऽहं तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् इति,

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.