Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 24/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पुनर् अपरं सुभूते विवेकगुणेन बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् ह्य् उपसंक्रमिष्यत्य् उपसंक्रम्यैवं वक्ष्यति: विवेकस्य तथागतो वर्णवादी. नाहं सुभूते एवं विवेकं वदामि बोधिसत्त्वस्य महासत्त्वस्य यद् उतारण्यानि वनप्रस्थानि प्रान्तानि शयनासनानि.

सुभूतिर् आह: कतरः पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्यान्यो विवेको यदि नारण्यानि वनप्रस्थानि प्रान्तानि शयनासनानि? कथंरूपो भगवन्न् अन्यो विवेको बोधिसत्त्वस्य महासत्त्वस्य? भगवान् आह: सचेत् सुभूते बोधिसत्त्वो महासत्त्वः श्रावकप्रतिसंयुक्तैर् मनसिकारैर् विविक्तो भवति, प्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विविक्तो भवति, बोधिसत्त्वो महासत्त्वो नारण्यवनप्रस्थप्रान्तशयनासनैर् विहरति, विविक्तश् चैव विहरति बोधिसत्त्वो महासत्त्वः, यो ऽयं मया सुभूते विवेको ऽनुज्ञातो बोधिसत्त्वस्य महासत्त्वस्य. अनेन च विवेकेन रात्रिंदिवं विहरति विविक्तश् चैव विहरति बोधिसत्त्वो महासत्वो यद् उत बोधिसत्त्वविवेकेन नारण्यवनप्रस्थप्रान्तशयनासनैर् विहरति विविक्त एव विहरति बोधिसत्त्वो महासत्त्वो, ग्रामान्ते ऽपि वा विहरन्न् अनेन विवेकेन विविक्तश् चैव विहरति बोधिसत्त्वो महासत्त्वः, यश् च मया सुभूते विवेको ऽनुज्ञातो बोधिसत्त्वस्य महासत्त्वस्य.

यञ् च पुनः स मारः पापीयान् विवेकम् उपदेक्ष्यत्य् अरण्यवनप्रस्थप्रान्तशयनासनैर् विहरति, स तेन विवेकेन संकीर्णश् चैव समानः श्रावकप्रतिसंयुक्तैर् मनसिकारैः विहरति प्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विहरति प्रज्ञापारमितायाम् अनभियुक्तः सर्वाकारज्ञतां न परिपूरयति. एवं सो ऽनेन विहारेण विहरन्न् अपरिशुद्धधर्ममनसिकारश् चैव समानस् तदन्यान् अपि बोधिसत्त्वान् महासत्त्वान् अवमंस्यते ये ते ग्रामान्ते विहरन्ति परिशुद्धधर्ममनसिकाराः श्रावकचित्तैर् असंकीर्णाः प्रत्येकबुद्धचित्तैर् असंकीर्णा (psp_5:9) इहान्यैः पापकैश् चित्तोत्पादैर् असंकिर्णा ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखसत्याभिज्ञापरिपूरिं गताः.

अथ च पुनः सो ऽनुपायकुशलो बोधिसत्त्वो महासत्त्वः, किं चापि योजनशतिकेष्व् अटवीकान्तारेष्व् अपगतव्यादमृगपक्षिष्व् अपगतचौरकान्तारेष्व् अपगतभृशपर्णराक्षसानुविचरितेषु तत्र मध्ये वा संकल्पयेद् वर्षं वा वर्षशतं वा वर्षसहस्रं वा वर्षशतसहस्रं वा वर्षकोटीशतं वा वर्षकोटीसहस्रं वा वर्षकोटीशतसहस्रं वा ततो वा उत्तरि, इमं च विवेकन् न जानाति येन विवेकेन बोधिसत्त्वो महासत्त्वो ऽध्याशयसंप्रस्थितो विहरति, संकीर्णश् चैव विहरति बोधिसत्त्वो महासत्त्वः संक्लिष्टश् चैव तत्र विवेके निश्रित आलीनो ऽध्यवसितो न मे स तावन्मात्रकेण चित्तम् अभिराधयति, यश् च मया विवेक आख्यातस् तस्मिन् विवेके न संदृश्यते.

तम् एनं मारः पापीयान् उपसंक्रम्योपर्य् अन्तरीक्षे स्थित्वैवं वदति: साधु साधु कुलपुत्र एष विवेकस् तथागतेनाख्यातो येन विहरस्य् एवं त्वं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. स ततो विवेकात् पुनर् अन्यान् विवेकान् अवमन्यमानस् तदन्यान् बोधिसत्त्वयानिकान् भिक्षून् पेशलान् कल्याणधर्मनो ऽवमंस्यते संकीर्णविहारेण बतेमे विहरन्त्य् आयुष्मन्त इति. ये च विविक्तविहारेण विहरन्ति बोधिसत्त्वा महासत्त्वास् तान् संकीर्णविहारेण चोदयिष्यति स्मारयिष्यति अवमंस्यते, ये च संकीर्णविहारेण विहरन्ति तान् विविक्तविहारेण समुदाचरिष्यति तत्र च गौरवम् उत्पादयिष्यति, यत्र च गौरवम् उत्पादयितव्यं तत्र मानम् उत्पादयिष्यति. तत् कस्य हेतोः? अहम् अमनुष्यैश् चोद्ये, अहम् अमनुष्यैः स्मार्ये, एष विहारो येन विहारेणाहं विहरामि, कं ग्रामान्तविहारिणम् अमनुष्याः स्मारयिष्यन्ति? अयं बोधिसत्त्वस् तदन्यान् बोधिसत्त्वयानिकान् कुलपुत्रान् पंसयिष्यत्य् अवमंस्यते उल्लापयिष्यति कुत्सयिष्यति.

अयं सुभूते बोधिसत्त्वचण्डालो वेदितव्यः, बोधिसत्त्वदूषी वेदितव्यः, बोधिसत्त्वप्रतिवर्णिको वेदितव्यः, चौरः सदेवमानुषासुरस्य लोकस्य, चौरः श्रमणवेषेण, चौरो बोधिसत्त्वयानिकारां कुलपुत्राणां, तज्जातिकः पुद्गलो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः. तत् कस्य हेतोः? आधिमानिका हि सुभूते तथारूपाः पुद्गला वेदितव्याः. इत्य् अष्टमम् (psp_5:10)

यस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्यापरित्यक्ता सर्वाकारज्ञता, अपरित्यक्ता अनुत्तरा सम्यक्संबोधिस् तेन बोधिसत्त्वेन महासत्त्वेनाध्याशयेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन, सर्वसत्त्वानाम् अर्थं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन तज्जातीयः पुद्गलो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः. अपि तु खलु स्वकार्ययोगम् अनुयुक्तेन विहर्तव्यं नित्योद्विग्नमानसेन संसार उत्त्रस्तमानसेनासंसृष्टेन त्रैधातुकेन. तत्र चैव मैत्र्य् उत्पादयितव्या तत्र चैवानुकम्पाकरुणोत्पादयितव्या मुदितोत्पादयितव्या उपेक्षोत्पादयितव्या, तथा च करिष्यामि यथैते मम दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति नोत्पत्स्यन्ते, सचेद् उत्पत्स्यन्ते क्षिप्रम् एव प्रहास्यामीति शिक्षा करणीया. अयं सुभूते बोधिसत्त्वानां महासत्त्वानां स्वयमभिज्ञाय पराक्रमो वेदितव्यः.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाध्याशयेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कानि पुनर् भगवन् बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: बुद्धा भगवन्तः सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, बोधिसत्त्वा महासत्त्वाश् च सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, श्रावका अपि सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि.

ये च षट् पारमिता आख्यास्यन्ति देशयिष्यन्ति प्रज्ञपयिष्यन्ति प्रस्थापयिष्यन्ति विवरिष्यन्ति विभजिष्यन्ति उत्तानीकरिष्यन्ति संप्रकाशयिष्यन्ति, इमे ऽपि सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. षट् पारमिताः सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः सर्वशून्यता आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. तथताभूतकोटिधर्मधातु बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. षट् पारमिताः शास्तारो वेदितव्याः षट् पारमिता मार्गः षट् पारमिता आलोकः षट् पारमिता (psp_5:11) उल्का षट् पारमिता अवभासः षट् पारमिता भूमिः षट् पारमिताः शरणं षट् पारमिता लयनं षट् पारमिताः परायणं षट् पारमिता माता षट् पारमिताः पिता. चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञतायै यावत् सर्ववासनानुसंधिक्लेशप्रहाणाय संवर्तन्ते. तत् कस्य हेतोः? तथा हि सुभूते ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवताम् इमे चैव सप्तत्रिंशद् बोधिपक्ष्या

धर्मा मातापितराव् अभूताम्. ये ऽपि ते सुभूते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवताम् इमे चैव सप्तत्रिंशद् बोधिपक्ष्या धर्मा मातापितरौ भविष्यतः. ये ऽपि ते सुभूते एतर्हि दश दिशि लोके बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति तेषाम् अपि सुभूते बुद्धानां भगवताम् इमे चैव सप्तत्रिंशद् बोधिपक्ष्या धर्मा मातापितरौ भवतः. तत् कस्य हेतोः? तथा हि सुभूते ऽतो निर्जाता ह्य् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेनापरप्रणेयतां गन्तुकामेनापरप्रणेयतायां स्थातुकामेन सर्वसत्त्वानां संशयांश् छ्रोतुकामेन बुद्धक्षेत्रं परिशोधयितुकामेन सर्वसत्त्वान् परिपाचयितुकामेन चतुर्भिः संग्रहवस्तुभिः सत्त्वाः संग्रहीतव्याः. कतमैश् चतुर्भिर्? दानेन प्रियवद्यतयार्थक्रियया समानार्थतया. इदम् अप्य् अहं सुभूते ऽर्थवशं पश्यन्न् एवं वदामि: एते बोधिसत्त्वानां महासत्त्वानां शास्तारो मातापितरौ लयनं त्राणं द्वीपः शरणं यद् उतेम एव सप्तत्रिंशद् बोधिपक्ष्या धर्माः. इति नवमम्

तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनापरप्रणेयतां गन्तुकामेनापरप्रणेयतायां स्थातुकामेन सर्वसत्त्वानां संशयांश् छ्रोतुकामेन बुद्धक्षेत्रं परिशोधयितुकामेन सर्वसत्त्वान् परिपाचयितुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां सर्वधर्मा विस्तरेणोपदिष्टा यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्. इति दशमम्

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किंलक्षणा (psp_5:12) भगवन् प्रज्ञापारमिता?

भगवान् आह: असङ्गलक्षणा सुभूते प्रज्ञापारमिता न सुभूते प्रज्ञापारमिता लक्षणन् न प्रज्ञापारमितायाः किञ्चिल् लक्षणम्.

सुभूतिर् आह: स्याद् भगवन् पर्यायो येन लक्षणेन प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्येरन्.

भगवान् आह: एवम् एतद् येन लक्षणेन सुभूते प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्यन्ते. तत् कस्य हेतोः? सर्वधर्मा हि सुभूते विविक्ता अस्वभावाः स्वभावशून्याः, अनेन सुभूते पर्यायेण येन लक्षणेन प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्यन्ते यद् उत विविक्तलक्षणेन शून्यतालक्षणेन.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः सर्वधर्मविविक्ताः सर्वधर्माः सर्वधर्मैः शून्यास्, तत् कथं भगवन् सत्त्वानां संक्लेशं व्यवदानं प्रज्ञायते? न भगवन् विविक्तं वा शून्यता वा संक्लिश्यते वा व्यवदायते वा, न विविक्तं वा शून्यता वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न विविक्ते वा शून्यतायां वा कश्चिद् धर्म उपलभ्यते, यो बोधिम् अभिसंबुध्येतास्य चैवं भगवन् भगवतो भाषितस्य कथम् अर्थं जानीयाम्? इति.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते, अपि नु दीर्घरात्रम् इमे सत्त्वा अहंकारममकारे चरन्ति.

सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, दीर्घरात्रम् इमे सत्त्वा अहंकारममकारे चरन्ति.

भगवान् आह: तत् किं मन्यसे? सुभूते, अपि त्व् अहंकारममकारौ विविक्ताव् अपि त्व् अहंकारममकारौ शून्यौ. सुभूतिर् आह: विविक्तो भगवन् शून्यः सुगत.

भगवान् आह: तत् किं मन्यसे? सुभूते, अहंकारममकारेण सत्त्वाः संसारे संधावन्ति संसरन्ति.

सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, अहंकारममकारेण भगवन् सत्त्वाः संसारे संधावन्ति संसरन्ति.

भगवान् आह: एवं खलु सुभूते सत्त्वानां संक्लेशः प्रज्ञायते संसारे संधावतां संसरतां, यत्र सुभूते नाहंकारो न ममकारस् तत्र नोद्ग्रहो ऽनेन ते सत्त्वाः संसारे न संधावन्ति न संसरन्ति. (psp_5:13)

एवं खलु सुभूते सत्त्वानां व्यवदानं प्रज्ञायते संसारे न संधावतां न संसरताम्, अपि तु खलु पुनर् न कश्चित् तत्र संक्लिश्यते वा व्यवदायते वा, एवं खलु सुभूते संक्लेशो व्यवदानञ् च प्रज्ञायते. इत्य् एकादशम्

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति, न स्कन्धेषु चरति न धातुषु चरति नायतनेषु चरति न प्रतीत्यसमुत्पादे चरति न प्रतीत्यसमुत्पादाङ्गेसु चरति न स्मृत्युपस्थानेषु चरति न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु न मार्गेषु चरति नार्यसत्येषु नाप्रमाणध्यानारूप्यसमापत्तिषु चरति न सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति न शून्यतानिमित्ताप्रणिहितेषु चरति न पञ्चस्व् अभिज्ञासु चरति न बलवैशारद्येषु चरति न प्रतिसंवित्सु चरति नावेणिकेषु बुद्धधर्मेषु चरति न सर्वाकारज्ञतायां चरति. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते यो वा चरेत येन वा चरेत यत्र वा चरेत, एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वो ऽनभिभवनीयो भवति सदेवमानुषासुरेण लोकेन. एवञ् चरन् पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धैर् न शक्यो ऽभिभवितुम्. तत् कस्य हेतोः? तथा हि सो ऽनभिभूते स्थाने स्थितो यद् उत बोधिसत्त्वनियामे ऽनभिभूतो हि भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतामनसिकारैर् विहरन्न्, एवञ् चरन् पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया अभ्याशीभवति. इति द्वादशम् इत्य् उक्तं लिङ्गम्

भगवान् आह: कत् किं मन्यसे? सुभूते ये जाम्बूद्वीपकाः सत्त्वास् ते सर्वमानुष्यकम् आत्मभावं प्रतिलभेरन् प्रतिलभ्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येरंस् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत्, तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिनामयेत्. तत् किं मन्यसे? सुभूते, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.

सुभूतिर् आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं (psp_5:14) पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां परेषाम् आख्यायेद् देशयेत् प्रज्ञपयेत् प्रस्थापयेद् विवृणुयाद् विभजेद् विभावयेत उत्तानीकुर्यात् संप्रकाशयेत् प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् विहरेद्, एवं यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरमं मानुष्यकम् आत्मभावं प्रतिलभेरंस्, तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेच्, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले अनागामिफले ऽर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ प्रतिष्ठापयेद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेत् तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयेत्. तत् किं मन्यसे? सुभूते, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.

सुभूतिर् आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां परेषाम् आख्यायेद् देशयेत् प्रज्ञपयेत् प्रस्थापयेद् विवृणुयाद् विभजेद् विभावयेत उत्तानीकुर्यात् संप्रकाशयेत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरेद्, एवं बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां दक्षिणीयतां गच्छति. तत् कस्य हेतोः? तथा हि न कस्यचित् सत्त्वस्य तादृशो विहारो यथा बोधिसत्त्वस्य महासत्त्वस्य स्थापयित्वा तथागतम् अर्हन्तं सम्यक्संबुद्धम्. तत् कस्य हेतोः? तथा हि ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमितायां चरन्तो महामैत्रीम् अभिनिर्हरन्ति, ते प्रज्ञापारमितायाञ् चरन्तः सर्वसत्त्वान् वध्यगतान् समनुपश्यन्ति ते महाकरुणां प्रतिलभन्ते, ते तेन विहारेण विहरन्तो मुदितया प्रमोदन्ते ते महामुदिताम् अभिनिर्हरन्ति, ते तेन निमित्तेन सार्धं न संवसन्ति ते महोपेक्षां प्रतिलभन्ते, अयं सुभूते बोधिसत्त्वानां महासत्त्वानां महान् प्रज्ञालोको यद् उत प्रज्ञापारमिता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमितालोकः. अनभिसंबुद्धा अपि ते कुलपुत्रा बोधिसत्त्वानां महासत्त्वानां दक्षिणीयतां गच्छन्ति, न च विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेर् येषाञ् च परिभुञ्जते (psp_5:15) चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् प्रज्ञापारमिता प्रतिसंयुक्तैर् मनसिकारैर् विहरन्तो दायकदानपतीनां दक्षिणां शोधयन्ति सर्वाकारज्ञतायाश् चाभ्याशीभवन्ति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनामोघराष्ट्रपिण्डं परिभोक्तुकामेन, सर्वसत्त्वानां पन्थानम् उपदेष्टुकामेन, विपुलम् एव भासं कर्तुकामेन, बन्धनगतान् सत्त्वान् परिमोचयितुकामेन, सर्वसत्त्वानाम् अनुत्तरं प्रज्ञाचक्षुर् विशोधयितुकामेन प्रज्ञापारमिता प्रतिसंयुक्तैर् मनसिकारैर् विहर्तव्यम्. सचेद् बोधिसत्त्वो महासत्त्व एतान् प्रज्ञापारमिताप्रतिसंयुक्तान् मनसिकारान् मनसिकुर्याद् इति, तेन प्रज्ञापारमिताप्रतिसंयुक्ता चैव कथा कथयितव्या. इति प्रथमा विवृद्धिः

तेन प्रज्ञापारमिताप्रतिसंयुक्तां कथां कथयित्वा प्रज्ञापारमिताप्रतिसंयुक्ताश् चैव मनसिकारा मनसिकर्तव्यास्, तेन प्रज्ञापारमिताप्रतिसंयुक्तैर् मानसिकारैर् विहरतान्येषां मनसिकाराणाम् अवकाशो न दातव्यस्, तथा च कर्तव्यं यथा तैः प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् अनिक्षिप्तधुरो रात्रिंदिवं विहरेत्, तद्यथापि नाम सुभूते पुरुषेण मणिरत्नम् अप्रतिलब्धपूर्वं स्यात् सो ऽपरेण समयेन प्रतिलभेत्, स तत् मणिरत्नं प्रतिलभ्योदारेण प्रीतिप्रामोद्येन समन्वागतो भवेत्, तस्य सह प्रतिलब्धन्तं मणिरत्नं पुनर् एव नश्येत् स ततोनिदानं महता दुःखदौर्मनस्येन संयुक्तो भवेत्, तस्य सततसमितं मणिरत्नं प्रतिसंयुक्ता एव मनसिकाराः प्रवर्तेरन्, अहो बताहं तेन मणिरत्नेन वियुक्त इति. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन रत्नम् इदम् इति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितेन भवितव्यम्.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा पुनर् भगवन् सर्वमनसिकाराः स्वभावेन विरहिताः, सर्वमनसिकाराः स्वभावेन शून्यास्, तदा कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति? न ह्य् अविरहितो ऽपि बोधिसत्त्वो महासत्त्व उपलभ्यते मनसिकारा वा सर्वाकारज्ञता वा.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते बोधिसत्त्वो महासत्त्व एवं जानाति, विरहिताः सर्वधर्माः स्वभावेन ते न श्रावकैर् न प्रत्येकबुद्धैर् न बुद्धैर् भगवद्भिः कृताः, स्थिताश् चैवैतेषां धर्माणां धर्मस्थितिता धर्मनियामता धर्मता धर्मधातुस् (psp_5:16) तथता अवितथता अनन्यतथता भूतकोटिर्, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया भवति. तत् कस्य हेतोः? तथा हि सुभूते प्रज्ञापारमिता स्वभावेन विविक्ता स्वभावेन शून्या, सा नापि विवर्धते नापि परिहीयते. इति द्वितीया

सुभूतिर् आह: सचेद् भगवन् प्रज्ञापारमिता स्वभावेन विविक्ता स्वभावेन सून्या, तत् कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?

भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते वा परिहीयते वा, न भूतकोटी विवर्धते वा परिहीयते वा, न धर्मधातुर् विवर्धते वा परिहीयते वा. तत् कस्य हेतोः? न हि प्रज्ञापारमिता एका वा द्वे वा. सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भाष्यमाणे चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, निष्ठा तत्र गन्तव्या, स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयधातौ, चरत्य् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् या प्रज्ञापारमितायाः शून्यता रिक्तता तुच्छता वशिकता असारकता सा प्रज्ञापारमितायां चरति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन्न् अन्यत्र प्रज्ञापारमितायाः कश्चिद् धर्म उपलभ्यते यः प्रज्ञापारमितायां चरति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमिता प्रज्ञापारमितायां चरति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन् शून्यता प्रज्ञपारमितायां चरति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन्न् अन्यत्र शून्यतायाः कश्चिद् धर्म उपलभ्यते यः प्रज्ञापारमितायां चरति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन् रूपं प्रज्ञापारमितायां चरति, वेदना संज्ञा संस्कारा, विज्ञानं प्रज्ञापारमितायां चरति?

भगवान् आह: न सुभूते. (psp_5:17)

सुभूतिर् आह: किं पुनर् भगवन् स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च प्रज्ञापारमितायां चरन्ति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन् षट् पारमिताः प्रज्ञापारमितायां चरन्ति? एवं सर्वशून्यताः सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टदशावेणिका बुद्धधर्माः प्रज्ञापारमितायां चरन्ति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन् या रूपस्य शून्यता रिक्तता तुच्छता वशिकता असारकता, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटी सा प्रज्ञापारमितायां चरन्ति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: वेदनायाः संज्ञायाः संस्काराणां, किं पुनर् भगवन् या विज्ञानस्य शून्यता रिक्तता तुच्छता वशिकता असारकता, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः सा प्रज्ञापारमितायां चरति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन् या स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च शून्यता रिक्तता तुच्छता वशिकता असारकता तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटी सा प्रज्ञापारमितायां चरति? भगवान् आह: न सुभूते.

सुभूतिर् आह: किं पुनर् भगवन्न् अन्या षण्णां पारमितानां शून्यता सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां शून्यतानिमित्ताप्रणिहितानां पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां (psp_5:18) बुद्धधर्माणां च शून्यता रिक्तता तुच्छता वशिकता असारकता, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः सा प्रज्ञापारमितायां चरति?

भगवान् आह: न सुभूते.

सुभूतिर् आह: सचेत् पुनर् भगवन्न् एते धर्मा न चरन्ति प्रज्ञापारमितायां, कथं चरन्तः पुनर् भगवन् बोधिसत्त्वा महासत्त्वाश् चरन्ति प्रज्ञापारमितायाम्?

भगवान् आह: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तं धर्मं यो धर्मः प्रज्ञापारमितायाञ् चरति.

सुभूतिर् आह: न भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तां प्रज्ञापारमितां यत्र बोधिसत्त्वा महासत्त्वाश् चरन्ति.

सुभूतिर् आह: न भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते यत् त्वं धर्मं न समनुपश्यसि कश्चित् स धर्म उपलभ्यते.

सुभूतिर् आह: न भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते यो धर्मो नोपलभ्यते, अपि नु स उत्पद्यते वा निरुध्यते वा.

सुभूतिर् आह: न भगवन्.

भगवान् आह: इयं सुभूते बोधिसत्त्वानां महासत्त्वानाम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिर्, एवंरूपया सुभूते क्षान्त्या समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ, इयं सुभूते तथागतस्य वैशारद्यप्रतिसंवित् यां प्रतिसंविद्यमानो बोधिसत्त्वो महासत्त्व एवं चरन् घटमानो व्यायच्छमानो ऽनुत्तरं सम्यक्संबोधिज्ञानं महाज्ञानं सर्वाकारज्ञताज्ञानं नानुप्राप्नुयाद् इति नेदं स्थानं विद्यते. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेनानुत्पत्तिकैर् धर्मैः क्षान्तिः प्रतिलब्धा तथा हि तन् निम्नो भविष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति तृतीया

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वधर्माणाम् अनुत्पत्तये व्याकरिष्यते बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ?

भगवान् आह: नो हिदं सुभूते. (psp_5:19)

सुभूतिर् आह: किं पुनर् भगवन्न् उत्पत्तये बोधिसत्त्वो महासत्त्वो व्याकरिष्यते अनुत्तरायां सम्यक्संबोधौ?

भगवान् आह: न सुभूते.

सुभूतिर् आह: सचेद् भगवन् नानुत्पत्तये नैवोत्पत्तये बोधिसत्त्वो महासत्त्वो व्याकरिष्यते ऽनुत्तरायां सम्यक्संबोधौ, तत् कथं भगवन् व्याकरणं भवति बोधिसत्त्वानां महासत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तं धर्मं यो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. सुभूतिर् आह: न भगवन्. नाहं भगवंस् तं धर्मं समनुपश्यामि यो धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, तम् अप्य् अहं धर्मन् न समनुपश्यामि यो धर्मो ऽभिसंबुध्येत येन वाभिसंबुध्यते.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्मान् अनुपलभमानस्य बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहम् अभिसंभोत्स्य इदम् अभिसंभोत्स्ये. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वा एते विकल्पा न भवन्ति. तत् कस्य हेतोः? अविकल्पा हि सुभूते प्रज्ञापारमिता. इति चतुर्थी

अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधातर्कावचना यावत् सूक्ष्ंआ निपुणा भगवन् प्रज्ञापारमितात्यन्तविविक्तत्वाद्, न ते भगवन् सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तथत्वाय च प्रतिपत्स्यन्ते, न चान्येषां चित्तचैतसिकानां धर्माणाम् अवकाशं दास्यन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.

भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, न ते कौशिक सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तहत्वाय च प्रतिपत्स्यन्ते, न चान्येषां चित्तचैतसिकानां धर्माणाम् अवकाशं दास्यन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. तत् किं मन्यसे? कौशिक यावन्तो जांबुद्वीपकाः सत्त्वास् ते सर्वे दशभिः (psp_5:20) कुशलैः कर्मपथैः समन्वागता भवेयुश् चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः पञ्चभिर् अभिज्ञाभिर्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् तथत्वाय प्रतिपद्येत, अस्य कौशिक कुशलमूलस्य एष पूर्वकः कुशलमूलाभिसंस्कारः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियतशतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् औपम्यम् अप्य् उपनिषाम् अप्य् उपनिषदम् अपि नोपैति.

अथ खल्व् अन्यतरो भिक्षुः शक्रं देवानाम् इन्द्रं एतद् अवोचत्: अभिभूतस् त्वं कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा ते च जांबूद्वीपकाः सत्त्वाः दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानसमन्वागताश् चतुरप्रमाणसमन्वागताश् चतुरारूप्यसमापत्तिसमन्वागताः पञ्चाभिज्ञासमन्वागताः, य इमां प्रज्ञापारमिताम् अनिक्षिप्तचित्तेनोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति तथत्वाय च प्रतिपत्स्यते अन्येषाञ् च चित्तचैतसिकानां धर्माणाम् अवकाशं न दास्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.

एवम् उक्ते शक्रो देवानाम् इन्द्रस् तं भिक्षुम् एतद् अवोचत्: एकचित्तोत्पादेनैवाहं भिक्षो तेन बोधिसत्त्वेन महासत्त्वेन ते च जाम्बूद्वीपकाः सत्त्वा दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानसमन्वागताश् चतुरप्रमाणसमन्वागताश् चतुरारूप्यसमापत्तिसमन्वागताः पञ्चाभिज्ञासमन्वागता अभिभूताः, कः पुनर् वादो य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तथत्वाय प्रतिपत्स्यन्ते, ते सदेवमानुषासुरलोकम् अभिभूय निर्यास्यन्ति सदेवमानुषासुरलोकम् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. न केवलं सदेवमानुषासुरलोकम् अभिभवन्तो गच्छन्ति बोधिसत्त्वा माहासत्त्वाः, ये ऽपि ते स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धास् तान् अपि सर्वान् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. न केवलं स्रोतआपन्नान् सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धान्, ये ऽपि ते बोधिसत्त्वा महासत्त्वा दानपारमितायाञ् चरन्ति उपायकौशल्यविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. (psp_5:21) न केवलं ये दानपारमितायां चरन्ति, ये ऽपि ते शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायाञ् चरन्ति उपायकौशल्यविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. न केवलं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां चरन्ति, ये ऽपि ते प्रज्ञापारमितायां चरन्त्य् उपायकौशल्यविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवन्तो गच्छन्ति बोधिअसत्त्वा महासत्त्वाः. ये बोधिसत्त्वा महासत्त्वा

यथोपदिष्टायां प्रज्ञापारमितायां चरन्ति ते सदेवमानुषासुरेण लोकेन न शक्या अभिभवितुं प्रज्ञापारमितायां, यश् चरति बोधिसत्त्वो महासत्त्वो यथानुशिष्टं प्रज्ञापारमिताम् अनुवर्तते, ऽयं बोधिसत्त्वो महासत्त्वस् तथागतवंशस्यानुपच्छेदाय स्थितो, ऽयं बोधिसत्त्वो महासत्त्वस् तथागतानां न दूरीकरोत्य्, अयं बोधिसत्त्वो महासत्त्व एवं प्रतिपद्यमानो न विरागयति बोधिमण्डम्, अयं बोधिसत्त्वो महासत्त्वः सत्त्वान् संसीदयमानान् उद्धर्तुकामो, ऽयं बोधिसत्त्वो महासत्त्व एवं शिक्षमाणो बोधिसत्त्वशिक्षायां शिक्षते न श्रावकशिक्षायां शिक्षते न प्रत्येकबुद्धशिक्षायां शिक्षते. इति पङ्चमी

एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं चत्वारो महाराजास् तम् उपसंक्रमितव्यं मंस्यन्ते, उपसंक्रम्यैवं वक्ष्यन्ति: शीघ्रं शिक्षस्व इमानि तानि चत्वारि पात्राणि यानि त्वया प्रतिग्रहीतव्यानि बोधिमण्डनिषण्णेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेन यानि परिगृहीतानि पूर्वकैस् तथागतेऐर् अर्हद्भिः सम्यक्संबुद्धैः.

एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां तम् उपसंक्रमितव्यं मंस्यन्ते, सार्धं देवैस् त्रयस्त्रिंशैः सुयामश् च देवपुत्र उपसंक्रम्यमितव्यं मंस्यते, सार्धं सुयामैर् देवपुत्रैः संतुषितो ऽपि देवपुत्र उपसंक्रमितव्यं मंस्यते, सार्धं संतुषितैर् देवपुत्रैर् निर्माणरतिश् च देवपुत्र उपसंक्रमितव्यं मंस्यते, सार्धं निर्माणरतिभिर् देवपुत्रैः परनिर्मितवशवर्त्य् अपि देवपुत्र उपसंक्रमितव्यं मंस्यते सार्धं परनिर्मितवशवर्तिभिर् देवपुत्रैर् उपसंक्रमितव्यं मंस्यते, एवं ब्रह्मापि सहांपतिर् उपसंक्रमितव्यं मंस्यते, सार्धं ब्रह्मपार्षद्यैर् देवपुत्रैर् ब्रह्मपुरोहितैर् (psp_5:22) महाब्रह्मैः आभास्वरो ऽपि देवपुत्र उपसंक्रमितव्यं मंस्यते सार्धं आभास्वरैर् देवपुत्रैर् उपसंक्रमितव्यं मंस्यते, एवं परीत्ताभा अप्रमाणाभा आभास्वराः, परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना, अनभ्रकाः पुण्यप्रसवा बृहत्फला, असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सुदृशाः सुदर्शना यावद् अकनिष्ठा देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते.

यो बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरिष्यति, तथागतैर् अपि सो ऽर्हद्भिः सम्यक्संबुद्धैर् बोधिसत्त्वो महासत्त्वो नित्यं समन्वाहृतो भविष्यति, य इह गम्भीरायां प्रज्ञापारमितायां चरत्य्, एवं यश् चरति बोधिसत्त्वो महासत्त्वो इह गम्भीरायां प्रज्ञापारमितायां यानि तानि लौकिकानि दुःखानि परोपक्रमिकानि काये उत्पत्स्यन्ते तानि तस्य सर्वेण सर्वं सर्वथा सर्वं काये नोत्पत्स्यन्ते न निपतिष्यन्ति. अयं सुभूते दृष्टधार्मिको गुणो भविष्यति बोधिसत्त्वस्य महासत्त्वस्य इह गम्भीरायां प्रज्ञापारमितायां चरतो यानि वा तानि सांनिपातिकानि ग्लान्यानि, तद्यथापि नाम चक्षुरोगः श्रोत्ररोगो घ्राणरोगो जिह्वारोगो दन्तरोगः कायशूलं चित्तसूलम्, एवम् अशीतिरोगशतानि चतुरधिकानि सर्वेण सर्वं सर्वथा सर्वं काये नोत्पत्स्यन्ते न निपतिष्यन्ति. अयं तस्य बोधिसत्त्वस्य महासत्त्वस्य दृष्टधार्मिको गुणः प्रतिकाङ्क्षितव्य इह गम्भीरायां प्रज्ञापारमितायां चरतः. इति षष्ठी

अथ खल्व् आयुष्मत आनन्दस्यैतद् अभवत्: किम् अयं शक्रो देवानाम् इन्द्रः स्वकेन प्रतिभानेन प्रज्ञापारमिताम् उपदिशति उताहो बुद्धानुभावेनेति?

अथ खलु शक्रो देवानाम् इन्द्र आयुष्मत आनन्दस्य चेतसैव चेतःपरिवितर्कम् आज्ञायायुष्मन्तम् आनन्दम् एतद् अवोचत्: बुद्धानुभाव एष भदन्तानन्द वेदितव्यो यद् अहं प्रज्ञापारमिताम् उपदिशामि.

अथ खलु भगवान् आयुष्मन्तं आनन्दम् आमन्त्रयते स्म: एवम् एतद् आनन्दैवम् एतत्, तथागतस्यैषो ऽनुभावस् तथागतस्यैतद् अधिष्ठानं यच् छक्रो देवानाम् इन्द्रः प्रज्ञापारमिताम् उपदिशति. यस्मिन्न् आनन्द समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते प्रज्ञापारमितायां योगम् आपद्यते प्रज्ञापारमितां भावयति, तस्मिन् समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसस् ते सर्वे संशयप्राप्ता भवन्ति: किम् अयं बोधिसत्त्वो भूतकोटिं साक्षात्करिष्यति (psp_5:23) भूतकोटिं साक्षात्कृत्वा स्रोतआपत्तिफलं वा साक्षात्करिष्यति सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा साक्षात्करिष्यति प्रत्येकां बोधिं प्राप्स्यति, उताहो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते?

पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति तस्मिन् समये मारः पापीयाञ् छोकशल्यविद्धो भवति.

पुनर् अपरम् आनन्द बोधिसत्त्वस्य मारः पापीयान् उल्कापातान् उत्प्रेक्ष्यति भयं जनयिष्यत्य्, अप्य् एव नामास्य बोधिसत्त्वस्य महासत्त्वस्यावलीनता वा भवेद् रोमहर्षो वा भवेद् अवलीनचित्तता वा भवेद् एकचित्तोत्पादस्यापि विक्षोभनं भविष्यति सर्वाकारज्ञतां मनसिकुर्वतः.

अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः?

भगवान् आह: न खल्व् आनन्द सर्वेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः, केषांचिद् आनन्द बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः केषांचिन् नोपसंक्रमिष्यति.

आनन्द आह: कियद्रूपाणां भगवन् बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः कियद्रूपाणां नोपसंक्रमिष्यति?

भगवान् आह: यैर् आनन्द बोधिसत्त्वैः पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता भाष्यमाणा प्रतिक्षिप्ता चित्तेन नाधिमुक्ता तेषां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः.

पुनर् अपरम् आनन्द य इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा बोधिसत्त्वः संशयप्राप्तो ऽभूत्, स्याद् वेयं प्रज्ञापारमिता न वा स्याद् इत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः.

पुनर् अपरम् आनन्द यो बोधिसत्त्वः कल्याणमित्रविरहितो भवति सो ऽसंपश्यमानः कल्याणमित्रानीमां गम्भीरां प्रज्ञापाररैतां न शृणोत्य् अशृण्वन् न जानात्य् अजानानस् तथतायै न प्रतिपत्स्यते, कथं प्रज्ञापारमिता भावयितव्येत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः. (psp_5:24)

पुनर् अपरम् आनन्द प्रज्ञापारमिताविरहितो यो बोधिसत्त्वो ऽसद्धर्मपरिग्रहं करोत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् उपसंक्रमिष्यति अवतारं च लप्स्यते. पुनर् अपरं आनन्द प्रज्ञापारमिताविरहितो यो बोधिसत्त्वो ऽसद्धर्मस्य वर्णं भाषिष्यते तत्र मारस्य पापीयस एवं भविष्यति, सहाय एषो मम यो ऽसद्धर्मस्य वर्णं भाषिष्यते, बहूनाम् अप्य् एष बोधिसत्त्वयानिकानां पुद्गलानां सहायो लब्धो यो ऽसद्धर्मस्य वर्णं भाषिष्यते, अयं ममाभिप्रायं परिपूरयिष्यत्य्, अयं बोधिसत्त्वयानिकः पुद्गलो ऽप्य् आभ्यां द्वाभ्यां भूमिभ्याम् अन्यतरस्यां भूमौ स्थास्यति यद् उत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा.

पुनर् अपरम् आनन्द एवंरूपस्य बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते यो बोधिसत्त्व इह गम्भीरायां प्रज्ञपारमितायां भाष्यमाणायाम् एवं वक्ष्यति: गम्भीरेयं प्रज्ञापारमिता, किं ते एतया गम्भीरया प्रज्ञापारमितया श्रुतया भाषितया वाचितया पर्यवाप्तया धारितया? अहम् अपि तावद् अस्याम् आगाधं न लभे कुतः पुनस् त्वं लप्स्यसे, अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते.

पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो ऽन्यतरं बोधिसत्त्वम् अवमंस्यते: अहं दानपारमितायां चरामि न त्वं दानपारमितायाञ् चरसि, अहं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां चरामि न त्वं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां चरसि, अहं प्रज्ञापारमितायां चरामि न त्वं प्रज्ञापारमितायां चरसि, अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते.

पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो आत्मानम् उत्कृष्टं मन्यते तस्मिन्न् आनन्द समये मारः पापीयांस् तुष्टो भवत्य् उदग्रो भवत्य् आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति, अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते.

पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो नामग्रहणतो वा गोत्रग्रहणतो वा परिकीर्तितो भवति स तेन नामग्रहणेन वा गोत्रग्रहणेन वा तदन्यान् बोधिसत्त्वान् पेशलान् कल्याणधर्मणो ऽवमंस्यते, आत्मानम् उत्कर्षयति परान् पंशयति, ते चास्य गुणा न संविद्यन्ते ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम् आकारा लिङ्गानि निमित्तानि. (psp_5:25) स तैर् अकारैर् लिङ्गैर् निमित्तैर् असंविद्यमानैः क्लेशम् उत्पादयति, आत्मानम् उत्कर्षयति परान् पंशयति: न त्वम् अत्र बोधिसत्त्वयाने संदृश्यसे यथाहम् अत्र बोधिसत्त्वयाने बोधिसत्त्वगोत्रे संदृश्ये. स तेनाधिमानेन बोधिसत्त्वयानिकान् पुद्गलान् कुत्सयिष्यति पंशयिष्यति. तत्र मारस्य पापीयस एवं भविष्यति, अशून्यं मे भवनं भविष्यत्य् उत्सदा भविष्यन्ति महानरकास्, तिर्यग्योनिर् यमलोकः प्रेतविषयः. तथातथा च मारः पापीयांस् तान् बोधिसत्त्वान् अधिष्ठास्यति यथादेयवचना भविष्यन्ति तेषां तयादेयवचनतया बहुजनः श्रोतव्यं मंस्यन्ते, तेषां श्रुत्वा दृष्ट्वानुकृतिम् आपत्स्यन्ते, ते श्रुत्वा दृष्ट्वानुकृतिम् आपद्यमानास् तथतायै न शिक्षिष्यन्ते, ते तथतायै न शिक्षमाणास् ते तथतायै न प्रतिपद्यमानाः क्लेशं विवर्धयिष्यन्ति, ते विपर्यस्तया चित्तसंतत्या यद्यद् एव कर्मारप्स्यन्ते कायेन वा वाचा वा मनसा वा, सर्वं तद् अनिष्टत्वायाकान्तत्वायामनआपत्वाय संवर्तिष्यति. एवं ते महानरका उत्सदा भविष्यन्ति, तिर्यग्योनिर् यमलोकः प्रेतविषय उत्सदो भविष्यति, मारभवनान्य् उत्सदानि भविष्यन्ति. इमं आनन्दार्थवशं संपश्यमानो मारः पापीयान् आत्तमना भवति प्रमुदितः प्रीतिसौमनस्यजातः.

पुनर् अपरं आनन्द सचेद् बोधिसत्त्वयानिकः पुद्गलः श्रावकयानिकेन पुद्गलेन सार्धं विवदति, तत्र मारस्य पापीयस एवं भवति, दूरीकरिष्यति बतायं कुलपुत्रः सर्वाकारज्ञतां नायम् अभ्यासी भविष्यति सर्वाकारज्ञतायाः. तत् कस्य हेतोः? नैते कलहभण्डनविग्रहविवादा मार्गः सर्वाकारज्ञ्ताया नरकमार्ग एष तिर्यग्योनिमार्ग एष यमलोकमार्ग एष नैष मार्गः सर्वाकारज्ञतायाः.

पुनर् अपरं आनन्द सचेद् बोधिसत्त्वयानिकः पुद्गलो ऽपरेण बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहभण्डनविग्रहविवादान् करोति, तत्र मारस्य पापीयस एवं भवति, उभाव् अप्य् एतौ दूरीभविष्यतः, सर्वाकारज्ञताया उभाव् अप्य् एतौ नाभिसंभोत्स्येते ऽनुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि नैष मार्गः सर्वाकारज्ञताया य एतैः कुलपुत्रैर् आरब्धो, नरकमार्ग एष तिर्यग्योनिमार्ग एष यमलोकमार्ग एष य एतैः कुलपुत्रैर् आरब्धः.

पुनर् अपरं आनन्दाव्याकृतो बोधिसत्त्वो व्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिके चित्तम् आघातयिष्यति, कलहं वा भण्डनम् (psp_5:26) वा विग्रहं वा विवादं वा करिष्यति, तेन पुनस् तावत एव कल्पान् संनाहः संनद्धव्यः यावन्ति तस्य तानि चित्तान्य् उत्पन्नानि कलहं वा भण्डनं वा विग्रहं वा विवादं वा कुर्वतः, सचेद् अस्य सर्वाकारज्ञतापरिभ्यक्ता भवति.

एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: अस्ति भगवन्न् एतेषां चित्तोत्पादानां निःसरणम् उताहो तावत एव कल्पान् संनाहः संनद्धव्यः.

एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: अनिःसरणो मयानन्द धर्मो देशितः श्रावकयानिकानाञ् च पुद्गलानां प्रत्येकबुद्धयानिकानाञ् च पुद्गलानां, तत्रानन्द यो ऽयं बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहं वा भण्डनं वा विग्रहं वा कुर्याद् यावद् विवदेद् वा आक्रोशेद् वा परिभाषेद् वा कलहयित्वा वा भण्डयित्वा वा विग्रहयित्वा वा विवादयित्वा वा आक्रोशयित्वा वा परिभाषयित्वा वा न प्रतिदेशयत्य् अनुशयं वहति अनुशयबद्धो विहरति, नाहम् आनन्द तस्य पुद्गलस्य निःसरणं वदामि, अवश्यं तेन तावत एव कल्पान् संनाहः संनद्धव्यः, सचेद् अस्यापरित्यक्ता सर्वाकारज्ञता.

पुनर् अपरम् आनन्द बोधिसत्त्वो महासत्त्वः कलहयित्वा भण्डित्वा विग्रहयित्वा विवदित्वा आक्रोषित्वा परिभाषित्वा प्रतिदेशयति: मानुशयं वहत्य् आयत्यां संवरम् आपद्यते दुर्लब्धा मे लाभा, यन् मया सर्वसत्त्वानां भार आहर्तव्यस् तद् अहं मन्त्रिते प्रतिमन्त्रयामि, यन् मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यं सो ऽहं परस्याप्रियं मन्त्रयामि प्रतिवचनं च ददामि. एवम् अपि मया न वक्तव्यं जडैडकमूकसदृशेन मया भवितव्यं, अध्याशयश् च मे न विकोपयितव्यो यन् मयैते सत्त्वाः परिनिर्वापयितव्या अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तद् अहम् अत्र व्यापद्ये तद् अहम् अत्र क्षुभ्यामि न मयात्र व्यापत्तव्यं न मया क्षोभचित्तम् उत्पादयितव्यम्. अस्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् अवतारं न लभते.

पुनर् अपरम् आनन्द बोधिसत्त्वेन महासत्त्वेन श्रावकयानिकैः पुद्गलैः सार्धं न स्थातव्यं सचेत् तिष्ठति तेन न कस्यचिद् अन्तिके व्यापत्तव्यं. तत् कस्य हेतोः? तथा हि नैतन् मम प्रतिरूपं स्यात्, (psp_5:27) यद् अहम् एतेषाम् अन्तिके व्यापद्ये वा क्षुभ्येयं वा. तत् कस्य हेतोः? तथा हि ते मयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वदुःखेभ्यः परिमोचयितव्याः. इति सप्तमी

अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकानां पुद्गलानाम् अन्तिके स्थातव्यम्?

भगवान् आह: तद्यथापि नामानन्द शास्तरि, एवं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकानां पुद्गलानाम् अन्तिके स्थातव्यम्. तत् कस्य हेतोः? एष हि मम सहायक एकयानसमारूढो, यथा चैवैतेन शिक्षितव्यं तथा चैव मया शिक्षितव्यं यत्र चैतेन शिक्षितव्यं तत्र चैव मया शिक्षितव्यं यद् उत दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां सर्वशून्यतासु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिस्व् आर्यसत्येषु सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु पञ्चस्व् अभिज्ञासु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वाकारज्ञतायाम् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न मयात्र शिक्षितव्यम्. सचेत् पुनर् एष बोधिसत्त्वो महासत्त्वो ऽविरहितो भवति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् मयाप्य् एवम् एव शिक्षितव्यम्. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः समशिक्षो भवति.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा भगवन् बोधिसत्त्वानां महासत्त्वानां समता यत्र समतायां बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्?

भगवान् आह: अध्यात्मशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता, बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, रूपं रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यम्. एवं स्कन्धधात्वायतनानि स्कन्धधात्वायतनैः शून्यानि, प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादैः शून्यः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गैः शून्यानि, पारमिताः पारमिताभिः शून्याः, सप्तत्रिंशद्बोधिपक्ष्या धर्माः सप्तत्रिशद्ब्बोधिपक्ष्यैर् धर्मैः शून्याः, आर्यसत्यान्य् (psp_5:28) आर्यसत्यैः शून्यानि, अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिभिः शून्याः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैः सून्यानि, त्रीणि विमोक्षमुखानि त्रिभिर् विमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्या, दशबलानि दशबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्याः, आवेणिकबुद्धधर्मा आवेणिकाबुद्धधर्मैः शून्याः, बोधिर् यावद् बोध्या शून्या. इयं सुभूते बोधिसत्त्वानां महासत्त्वानां समता, यत्र समतायां स्थित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इत्य् अष्टमी

सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, रूपस्य विरागाय निरोधाय शिक्षते शिक्षते सर्वाकारज्ञतायै, रूपस्यानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, विज्ञानस्य विरागाय निरोधाय शिक्षते शिक्षते सर्वाकारज्ञतायै, विज्ञानस्यानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां च क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. सर्वपारमितानां सर्वशून्यतानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां चतुर्णाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां त्रयाणां विमोक्षमुखानां पञ्चानाम् अभिज्ञनां दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरायाः सम्यक्संबोधेः क्षयाय शिक्षते विरागाय शिक्षते निरोधाय शिक्षते ऽनुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् सुभूतिः स्थविर एवम् आह, यद् रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, यद् रूपस्य विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै, एवं वेदनासंज्ञासंस्काराणां, विज्ञानस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, विज्ञानस्य विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां च क्षयाय विरागाय (psp_5:29) निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. सर्वपारमितानां सर्वशून्यतानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाञ् चतुर्णाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां त्रयाणां विमोक्षमुखानां पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. अनुत्तरायाः सम्यक्संबोधेः क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै इति. तत् किं मन्यसे? सुभूते या रूपस्य तथता या वेदनायास् तथता या संज्ञायास् तथता या संस्काराणां तथता या विज्ञानस्य तथता, एवं या स्कन्धधात्वायतनानां तथता या प्रतीत्यसमुत्पादस्य तथता या प्रतीत्यसमुत्पादाङ्गानां तथता या पारमितानां तथता या सर्वशून्यतानां तथता या सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां तथता या सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता याप्रमाणध्यानारूप्यसमापत्तीनां तथता यार्यसत्यानां तथता या त्रयाणां विमोक्षमुखानां तथता या पञ्चानाम् अभिज्ञानां तथता या दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माणां तथता या सम्यक्संबोधेस् तथता या स्रोतआपन्नस्य तथता या सकृदागामिनस् तथता यानागामिनस् तथता यार्हतस् तथता या प्रत्येकबुद्धस्य तथता या बोधिसत्त्वस्य महासत्त्वस्य तथता, या तथागतस्य तथता, यया तथतया तथागतः प्रज्ञप्यते, अपि नु सा तथता क्षीयते वा विरह्यते वा निरुध्यते वा प्रहीयते वा.

सुभूतिर् आह: न भगवन् न सुगत.

भगवान् आह: एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथतायां शिक्षते शिक्षते सर्वाकारज्ञतायां न च तथता क्षीयते वा विरह्यते वा निरुध्यते वा प्रहीयते वा. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथतायां शिक्षते शिक्षते सर्वाकारज्ञतायाम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथतायां शिक्षते शिक्षते षट्सु पारमितासु, शिक्षते सर्वासु शून्यतासु, शिक्षते स्मृत्युपस्थानेषु, शिक्षते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु, शिक्षते आर्यसत्येषु, शिक्षते ऽप्रमाणध्यानारूप्यसमापत्तिषु, शिक्षते सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु, शिक्षते शून्यतानिमित्ताप्रणिहितेषु, शिक्षते पञ्चस्व् अभिज्ञासु, शिक्षते दशबलवैशारद्यप्रतिसंवित्सु, (psp_5:30) शिक्षते ऽष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, शिक्षते सर्वाकारज्ञतायाम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वशिक्षापरमपारमिताम् अनुप्राप्स्यति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न शक्यते मारेण वा मारकायिकाभिर् वा देवताभिर् अभिमर्दितुम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः क्षिप्रम् अविनिवर्तनीयताम् अनुप्राप्स्यति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः स्वके पैतृके तथागतगोचरे चरति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो नाथकरणीयैर् धर्मैश् चरति बुद्धक्षेत्रपरिशोधनैः. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो महामैत्र्यां शिक्षते महाकरुणायां शिक्षते बुद्धक्षेत्रपरिशोधनाय शिक्षते सत्त्वपरिपाकाय शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् त्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनतायै

शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् परिनिर्वापयिष्यामीति शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथागतवंशस्यानुपच्छेदाय शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो ऽमृतधातुद्वारं विवरिष्यामीति शिक्षते, संस्कृतधातुं संदर्शयिष्यामीति शिक्षते, न हि सुभूते शक्यं हीनसत्त्वैर् इह शिक्षायां शिक्षितुं सर्वसत्त्वान् संसाराद् उद्धर्तुकामः स सत्त्वो यो ऽस्यां शिक्षायां शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न नरकेषूपपद्यते, न तिर्यग्योनौ न यमलोके उपपद्यते, न प्रत्यन्तेषु जनपदेषूपपद्यते न चण्डालकुलेषूपपद्यते, नान्येषु नीचेषु नीचवृत्तिषु कुत्सितेषु कुलेषूपपद्यते, न काणो भवति, न कुण्डो भवति, न लङ्गो भवति, न लल्लो भवति, न वधिरो भवति, न पक्षहतो भवति, न विकलेन्द्रियो भवति, सुपरिपूर्णेन्द्रियो भवति, नापरिपूर्णेन्द्रियो भवति, न प्राणातिपातिको भवति, नादत्तादायी भवति, न काममिथ्याचारी भवति, न मृषावादी भवति, न परुषवाग् भवति, न पिशुनवाग् भवति, नाबद्धप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, न मिथ्याजीवेन जीविकां कल्पयति, नाभूतपरिग्रहं करोति, न दुःशीलपरिग्राहको भवति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेसूवेषूपपद्यते. तत् कस्य हेतोः? तथा (psp_5:31 ) ह्य् अस्ति तस्योपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते, अप्रमाणानि च समापद्यते, आरूप्यसमापत्तीश् च समापद्यते, न च ध्यानानां न

चाप्रमाणानां न चारूप्यसमापत्तीनां वशेनोपपद्यते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां परिशुद्धिम् अधिगच्छति, श्रावकभूमेः प्रत्येकबुद्धभूमेर् अपि परिशुद्धिम् अधिगच्छति.

एवम् उक्ते आयुष्मान् सुभूतिः स्थविरो भगवन्तम् एतद् अवोचत्: यद् भगवन् सर्वधर्माः प्रकृतिपरिशुद्धास्, तत् कतमस्य धर्मस्य बोधिसत्त्वो महासत्त्वः परिशुद्धिम् अधिगच्छति?

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि सर्वधर्माः सुभूते परकृतिपरिशुद्धाः, एवं परिशुद्धेषु सुभूते सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य या तत्रासंसीदनता अनवलीनता, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. तत्सर्वबालपृथग्जना एतान् धर्मान् न जानन्ति न पश्यन्ति, तेषां सत्त्वानां कृतेन बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति शीलपारमितायां चरति क्षान्तिपारमितायां चरति वीर्यपारमितायां चरति ध्यानपारमितायां चरति प्रज्ञापारमितायां चरति, अध्यात्मशून्यतायां चरति यावद् अभावस्वभावशून्यतायां चरति, स्मृत्युपस्थानेषु चरति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरत्य्, आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु चरति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, शून्यतानिमित्ताप्रणिहितेषु चरति, पञ्चस्व् अभिज्ञासु चरति दशबलवैशारद्यप्रतिसंवित्सु चरति, अष्टादशावेणिकेषु बुद्धधर्मेषु चरति सर्वाकारज्ञतायां चरति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु बलवैशारद्यम् अनुप्राप्नोति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वचित्तचरितानां पारं गच्छति. इति नवमी

तद्यथापि नाम सुभूते ऽल्पकास् ते महापृथिवीप्रदेशा यत्र जांबूनदं सुवर्णं जातरूपम् उत्पद्यते, एवम् एव सुभूते ऽल्पकास् ते सत्त्वा य इह शिक्षायां शिक्षण्ते, यद् उत प्रज्ञापारमिताशिक्षायाम् इतो बहुतरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धभूमौ संप्रस्थिताः. इति दशमी

तद्यथापि नाम सुभूते ऽल्पकास् ते सत्त्वा ये चक्रवर्तिराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते, अतः प्रभूततरकास् ते सत्त्वा (psp_5:32) ये कोट्टराज्यं संवर्तनीयं कर्म समदाय वर्तन्ते. एवम् एव सुभूते ऽल्पतरकास् ते सत्त्वा य इमं सर्वाकारज्ञतामार्गं समारुहन्ति, अतः प्रभूततरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धमार्गं समारुहन्ति. ये ऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् ततो ऽल्पकास् ते बोधिसत्त्वा महासत्त्वा ये तथतायै प्रतिपद्यन्ते, अतः प्रभूततरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धत्वाय स्थास्यन्ति. ये ऽपि ते सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरः प्रज्ञापारमितयाविरहिता ये ऽविनिवर्तनीयभूमिम् अवक्रमिष्यन्ति, अतः प्रभूततरकास् ते ये सत्त्वाविनिवर्तनीयभूमिन् नावक्रमिष्यन्ति, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनाविनिवर्तनीयभूमिम् अनुप्राप्तुकामेनाविनिवर्तनीयभूमौ गणनां गन्तुकामेनेहैव गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यम्. इत्य् एकादशी

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न मात्सर्यसहगतं चित्तम् उत्पद्यते, न दौःशील्यसहगतं चित्तम् उत्पद्यते, न क्षोभसहगतं चित्तम् उत्पद्यते, न कौशीद्यसहगतं चित्तम् उत्पद्यते, न विक्षिप्तसहगतं चित्तम् उत्पद्यते, न दौःप्रज्ञासहगतं चित्तम् उत्पद्यते, न रागसहगतं चित्तम् उत्पद्यते, न द्वेषसहगतं चित्तम् उत्पद्यते, न मोहसहगतं चित्तम् उत्पद्यते, न खिलसहगतं चित्तम् उत्पद्यते. इति द्वादशी

न रूपसहगतं चित्तम् उत्पद्यते, न वेदनासंज्ञासंस्कारसहगतं चित्तम् उत्पद्यते, न विज्ञानसहगतं चित्तम् उत्पद्यते न स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गसहगतं चित्तम् उत्पद्यते, एवं न सर्वशून्यताः सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसहगतं चित्तम् उत्पद्यते, न सम्यक्संबोधिसघगतं चित्तम् उत्पद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायाञ् चरन् न कञ्चिद् धर्मम् उपलभते, अनुपलम्भमानो न कञ्चिद् धर्मचित्तम् उत्पादयति. एवं खलु सुभूते इह गम्भीरायां प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिताः संगृहीता भवन्ति, सर्वाः पारमिताः समुदानीता भवन्ति, सर्वाः पारमिता (psp_5:33) अनुगता भवन्ति. तत् कस्य हेतोः? तथा हि सुभूते इह गम्भीरायां प्रज्ञापारमितायां सर्वाः पारमिता अन्तर्गता भवन्ति. इति त्रयोदशी

तद्यथापि नाम सुभूते सत्कायदृष्ट्यां द्वाषष्टिदृष्टिगतान्य् अन्तर्गतानि भवन्ति, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्येह गम्भीरायां प्रज्ञापारमितायां चरतः सर्वाः पारमिता अन्तर्गता भवन्ति. तद्यथापि नाम सुभूते पुरुषस्य कालगतस्य जीवितेन्द्रिये निरुद्धे सर्वाणीन्द्रियाणि निरुद्धानि भवन्ति. एवम् एव सुभूते बोधिसत्त्वस्य महासत्वस्येह गम्भीरायां प्रज्ञापारमितायां चरतः सर्वाः पारमिता अन्तर्गता भवन्ति, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वपारमितानां पारं गन्तुकामेन इह गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यम्. इति चतुर्दशी

इह पुनः सुभूते गम्भीरायां प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अग्रतायै शिक्षते. तत् किं मन्यसे? सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा अपि नु ते बहवः.

सुभूतिर् आह: बहवो भगवन् जांबूद्वीपका एव तावत् सत्त्वाः कः पुनर् वादो ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः.

भगवान् आह: यावन्तः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरममानुष्यकम् आत्मभावं प्रतिलभ्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येरंस् तां सर्वान् एकैको बोधिसत्त्वो यावज्जीवं तिष्ठंस् तथागतान् अर्हतः सम्यक्संबुद्धांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.

सुभूतिर् आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां गम्भीरां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. तत् कस्य हेतोः? एवं महर्द्धिका हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता अनुत्तरायाः सम्यक्संबोधेर् आहारिका. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अनुत्तरेन भवितुकामेन सर्वसत्त्वानाम् अनाथानां नाथेन भवितुकामेनाशरणानां शरणेन भवितुकामेनापरायणानां परायणेन भवितुकामेनात्राणानां त्राणेन (psp_5:34) भवितुकामेनालयनानां लयनेन भवितुकमेनाद्वीपनां द्विपेन भवितुकामेन बुद्धत्वम् अनुप्रापुतुकामेन बुद्धविषयम् अनुप्राप्तुकामेन बुद्द्धविक्रीडितं विक्रीडितुकामेन, बुद्धसिंहनादं नदितुकामेन बुद्धशंखं प्रपूरयितुकामेन बुद्धसांकथ्यं कर्तुकामेन इहैव गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यं, प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वो महासत्त्वो न सा काचित् संपत्तिर् यां न प्रतिलभते या तेन न प्रतिलब्धा स्यात्.

सुभूतिर् आह: श्रावकसंपद् अपि तेन प्रतिलब्धव्या प्रत्येकबुद्धसंपद् अपि तेन प्रतिलब्धव्या.

भगवान् आह: श्रावकसंपद् अपि तेन सुभूते प्रतिलब्धव्या, प्रत्येकबुद्धसंपद् अपि तेन सुभूते प्रतिलब्ध्या, तत्र च न स्थातव्यं न प्रतिष्ठातव्यं, ज्ञानेन च दर्शनेन च दृष्ट्वातिक्रमिष्यति बोधिसत्त्वनियामम् अवक्रमिष्यति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया अभ्यासी भवत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरस्य लोकस्य दक्षिणीयतां गच्छति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः ये तदन्ये दक्षिणीयाः श्रावकप्रत्येकबुद्धास् तान् सर्वान् अभिभवित्वा गच्छति, सर्वाकारज्ञतायाश् चाभ्यासी भवति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न रिञ्चति प्रज्ञापारमितां चरति प्रज्ञापारमितायाम् अविरहितः प्रज्ञापारमितया, एवं चरन् सुभूते बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायाम् अपरिहाणधर्मा वेदितव्याः, सर्वाकारज्ञताया दूरीकरोति श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वाभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेः. इति पञ्चदशी

सचेत् पुनस् तस्यैवं भवति, इयं प्रज्ञापारमिता, अमुष्मिन् प्रज्ञापारमिता, इमायै प्रज्ञापारमितायै सर्वाकारज्ञताम् आवहिष्यामीति, सचेद् एवं जानाति न चरति प्रज्ञापारमितायां सचेद् एवं प्रज्ञापारमितां न जानाति, इयं प्रज्ञापारमिता, अमुष्मिन् प्रज्ञापारमिता, इमायै प्रज्ञापारमितायै सर्वाकारज्ञताम् आवहिष्यामीति, तद् अपि न जानाति न पश्यति यस्य वा प्रज्ञापारमिता येन वा प्रज्ञापारमिता यो वा प्रज्ञापारमितया निर्यात्य् एवम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सचेत् पुनर् अस्यैवं भवति, नेयं प्रज्ञापारमिता नामुष्मिन् प्रज्ञापारमिता (psp_5:35) नानया प्रज्ञापारमितया कश्चिद् धर्मो निर्यास्यति स्थितत्वाद् धर्मधातोस् तथताया भूतकोटेर्, एवं चरन् बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायाम् अभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेः. इति षोडशी विवृद्धिर् इत्य् उक्ता विवृद्धिः

अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: चरन्न् अपीह बोधिसत्त्वो महासत्त्वो दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायार, अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेस्व् आर्यसत्येस्व् अप्रमाणध्यानारूप्यसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु पञ्चस्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् सर्वसत्त्वान् अभिभवति, कः पुनर् वादो यदानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति. सुलब्धास् तैर् लाभाः सुजीवितं तेषां सत्त्वानां येषां सर्वाकारज्ञतायां चित्तं क्रमति, कः पुनर् वादो यैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, स्पृहणीयास् ते सत्त्वा ये ऽनुत्तरायाः सम्यक्संबोधेश् चित्तम् उत्पादयिष्यन्ति, स्पृहणीयास् ते सत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति.

अथ खलु शक्रो देवानाम् इन्द्रो मान्दारवाणि पुष्पाणि गृहीत्वा येन भगवांस् तेनोपसंक्रामद् उपसंक्रम्य तैर् मान्दारवैः पुष्पैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरति स्म अभ्यवकिरति स्म प्रकिरति स्म, अवकीर्याभ्यवकीर्य प्रविकीर्यैवं वाचम् अभाषत: ये बोधिसत्त्वयानिकाः पुद्गला अनुत्तरां सम्यक्संबोधिम् अध्यालम्बन्ते तेषाम् अनेन कुशलमूलेनानुत्तराणां बुद्धधर्माणां परिपूरिर् भवतु, त्रिसर्वज्ञतासर्वधर्माणां प्रिपूरिर् भवतु, एषां स्वयंभूधर्माणां परिपूरिर् भवतु, एषाम् अनास्रवधर्माणां परिपूरिर् भवतु. इति त्रिसर्वज्ञत्वधर्मानुत्तरा परिपूरिनिरूढिः

न मे भगवन्न् एकश् चित्तोत्पादो ऽप्य् उत्पद्यते यद् बोधिसत्त्वयानिकः पुद्गलो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो विवर्तेतानुत्तरायाः सम्यक्संबोधेर्, न हि मे भगवन्न् एकश् चित्तोत्पादो ऽप्य् उत्पद्यते यद् बोधिसत्त्वो महासत्त्वो विवर्त्य श्रावको वा प्रत्येकबुद्धो वा भवेद्, अथ तर्हि छन्दं जनयेद् अनुत्तरायां सम्यक्संबोधौ भूयस्या मात्रया (psp_5:36) प्रणिधिं कुर्वीतानुत्तरायां सम्यक्संबोधौ, इमानि संसरावचराणि दुःखानि दृष्ट्वार्थकामः सुखकामः हितकामः स सदेवमानुषासुरस्य लोकस्य य एतैश् चित्तोत्पादैः समन्वागतो बोधिसत्त्वो महासत्त्व एवं चिन्तयति, किम् इति वयं तीर्णा अतीर्णान् सत्त्वांस् तारयेम, किम् इति वयं मुक्ता अमुक्तान् सत्त्वान् मोचयेम, किम् इति वयम् आश्वस्ता अनाश्वस्तान् सत्त्वान् आश्वासयेम, किम् इति वयं परिनिर्वृता अपरिनिर्वृतान् सत्त्वान् परिनिर्वापयेमेति. कियत् स भगवन् कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवति यः प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? चर्याप्रतिपन्नानाञ् च बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? अविनिवर्तनीयानां च बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? एकजातिप्रतिबद्धानां बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? इत्य् अपरित्यक्तसत्त्वार्था निरूढिर् इत्य् उक्ता निरूढिः

एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: स्यात् कौशिक चातुर्महाद्वीपके लोकधातौ पलाग्रेण प्रमाणं न त्व् एव तेषाम् अनुमोदनासहगतानांश् चित्तोत्पादानां पुण्यस्य प्रमाणं, तिष्ठतु कौशिक चातुर्द्वीपको लोकधातुर् एवं साहस्रो लोकधातुर् एवं द्विसाहस्रो मध्यमो लोकधातुः, स्यात् खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ पलाग्रेण प्रमाणं न त्व् एव तेषाम् अनुमोदनासहगतानां चित्तोत्पादानां पुण्यस्य प्रमाणं, स्यात् खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रेषु शतधा भिन्नया वालाग्रकोट्या उदकबिन्दूनाम् उत्क्षिप्यमानानां प्रमाणं न त्व् एव तेषाम् अनुमोदनासहगतानां चित्तोत्पादानां पुण्यस्य प्रमाणम्.

एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: माराधिष्ठितास् ते भगवन् सत्त्वा भविष्यन्ति, य इमांश् चित्तोत्पादान् नानुमोदिष्यन्ते. मारपक्षिकास् ते भगवन् सत्त्वा भविष्यन्ति, मारभवनात् ते भगवन् सत्त्वाश् च्युता भविष्यन्ति, य इमांश् चित्तोत्पादान् नानुमोदिष्यन्ते. मारभवनात् ते भगवन् सत्त्वा इहागता भविष्यन्ति, य इमांश् चित्तोत्पादान् नानुमोदिष्यन्ते. तत् कस्य हेतोः? मारभवनविध्वंसनकरास् ते भगवन् सत्त्वा, यैर् इमे चित्तोत्पादा अभिनिर्हृता, ये ऽनुत्तरायां सम्यक्संबोधौ परिणामयन्ति. अनुमोदितव्यास् ते भगवंश् चित्तोत्पादा, ये ऽनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयन्ति. यैर् अपरित्यक्तो बुद्धो ऽपरित्यक्तो धर्मो ऽपरित्यक्तः संघस्, तैर् इमे चित्तोत्पादा (psp_5:37) अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयितव्या यथा न द्वयः संज्ञी नाद्वयः संज्ञी.

भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यथा त्वं वदसि, य इमान् कौशिक चित्तोत्पादान् अनुमोदिष्यन्ते ते क्षिप्रं तथागतम् अर्हन्तं सम्यक्संबुद्धम् आरागयिष्यन्ति आरागयित्वा न विरागयिष्यन्ति. एवं ते एभिर् अनुमोदनासहगतैश् चित्तोत्पादकुशलमूलैः समन्वागता यत्र यत्रोपपत्स्यन्ते तत्र तत्र सत्कृता भविष्यन्ति, गुरुकृता मानिताः पूजिता अर्चिता अपचायिता भविष्यन्ति. तत्र ते न जात्व् अमनआपानि रूपाणि द्रक्ष्यन्ति, नामनआपान् शब्दान् श्रोष्यन्ति, नामनआपान् गन्धान् घ्रास्यन्ति, नामनआपान् रसान् आस्वादयिष्यन्ति, नामनआपान् स्प्रष्टव्यान् स्प्रक्ष्यन्ति, नामनआपान् धर्मान् विज्ञास्यन्ति. न च ते जातु बुद्धैर् भगवद्भिर् विरहिता भविष्यन्ति, बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रमिष्यन्ति, तांश् च बुद्धान् भगवतः पर्युपासिष्यन्ते, कुशलमूलञ् चावरोपयिष्यन्ति. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चासंख्येयानाम् अप्रमेयाणाम् अपरिमाणानां बोधिसत्त्वानां महासत्त्वानां नवयानसंप्रस्थितानां कुशलमूलान्य् अनुमोदितान्य् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामितानि, प्रथमभूमिस्थितानां कुशलमूलान्य् अनुमोदितानि, द्वितीयभूमिस्थितानां यावद् दशभूमिस्थितानां यावद् एकजातिप्रतिबद्धानां बोधिसत्त्वानां महासत्त्वानां तानि कुशलमूलान्य् अनुमोदितानि, तैश् च कुशलमूलैर् विबद्धमानैर् अनुत्तरायाः सम्यक्संबोधेर् अभ्यासी भवन्ति. ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्याप्रमेयान् असंख्येयान् अपरिमाणसत्त्वान् परिनिर्वापयिष्यन्ति. तद् अनेन कौशिक पर्यायेण तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां महासत्त्वानां तानि कुशलमूलान्य् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि, तथा च परिणामयितव्यानि यथा तच् चित्तम् अन्यत्र चित्तेन चरेन् नान्यत्र चित्तेन. इत्य् उक्ता चित्तसंस्थितिः

अविनिवर्तनीयानाम् एकजातिप्रतिबद्धानां तानि कुशलमूलान्य् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि, तथा च परिणामयितव्यानि यथा न द्वयसंज्ञा नाद्वयसंज्ञा. इति सकलप्रवृत्तिपक्षाधिष्ठानः प्रथमो ग्राह्यविकल्पः (psp_5:38)

अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिं स्थविरम् एतद् अवोचत्: किं पुनर् आयुष्मन् सुभूते प्रज्ञापारमितैवाविकल्पा, उताहो ध्यानपारमिताप्य् अविकल्पा, वीर्यपारमिताप्य् अविकल्पा, क्षान्तिपारमिताप्य् अविकल्पा, शीलपारमिताप्य् अविकल्पा, दानपारमिताप्य् अविकल्पा.

सुभूतिर् आह: अविकल्पा आयुष्मन् शारिपुत्र प्रज्ञापारमिता, अविकल्पा ध्यानपारमिता, अविकल्पा वीर्यपारमिता, अविकल्पा क्षान्तिपारमिता, अविकल्पा शीलपारमिता, अविकल्पा आयुष्मन् शारिपुत्र दानपारमिता.

शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते रूपम् अविकल्पं, वेदना संज्ञा संस्कारा, विज्ञानम् अप्य् अविकल्पं, चक्षुश् चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्यया वेदना अविकल्पा. एवं श्रोत्रं घ्राणं जिह्वा काया, मनो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्यया वेदना अविकल्पा. किं पुनर् आयुष्मन् सुभूते रूपम् अविकल्पं, शब्दो गन्धो रसः स्प्रस्तव्यं, धर्मा अप्य् अविकल्पाः. किं पुनर् आयुष्मन् सुभूते ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वाविकल्पाः स्मृत्युपस्थानानि वा सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा वा अविकल्पाः, शून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा सर्वशून्यता वा सर्वसमाधयो वा दशतथागतबलानि वा चत्वारि वैशारद्यानि वा चतस्रः प्रतिसंविदो वा महामैत्री वा महाकरुणा वाविकल्पा यावद् अष्टादशावेणिका बुद्धधर्मा अविकल्पाः, बुद्धो ऽप्य् अविकल्पः बोधिर् अप्य् अविकल्पा संस्कृतो धातुर् अप्य् अविकल्पो ऽसंस्कृतो धातुर् अप्य् अविकल्पः.

सुभूतिर् आह: सर्वधर्मा अप्य् आयुष्मञ् छारिपुत्राविकल्पाः.

शारिपुत्र आह: यद्य् आयुष्मन् सुभूते सर्वधर्मा अविकल्पाः, तत् कुतो ऽयं पञ्चगतिकस्य संसारस्य संभेदः? कुतो वा नरकतिर्यग्योनियमलोकदेवमनुष्याणां व्यवस्था? कुतो वा प्रभावना स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां बुद्धानां भगवताम्?

एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यद् एते आयुष्मन् शारिपुत्र सत्त्वा विपर्यास समुत्थिताः कर्माभिसंस्कुर्वन्ति कायेन वाचा मनसा वा, अतो निदानं विवर्तन्ते, छन्दमूलकर्मपरिगृहीता नरकतिर्यग्योनियमलोकदेवमनुष्याः, यत् पुनर् आयुष्मान् शारिपुत्र एवम् आह, कुतः स्रोतआपन्नाः प्रभाव्यन्ते, सकृदागामिनः प्रभाव्यन्ते, अनागामिनः प्रभाव्यन्ते, अर्हन्तः प्रभाव्यन्ते प्रत्येकबुद्धाः (psp_5:39) प्रभाव्यन्ते, कतो यावद् बुद्धा भगवन्तः प्रभाव्यन्ते?

सुभूतिर् आह: अविकल्पतया आयुष्मन् शारिपुत्र स्रोतआपन्नो ऽविकल्पः, स्रोतआपत्तिफलम् अविकल्पम्, एवं सकृदागाम्य् अनागाम्य् अर्हत्त्वम्, अविकल्पं प्रत्येकबुद्धत्वं, प्रत्येकबोधिर् अविकल्पा, अतो ऽविकल्पः प्रत्येकबुद्धः. ये ऽपि ते आयुष्मन् शारिपुत्राभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् आयुष्मन् शारिपुत्र बुद्धा भगवन्तो ऽविकल्पो विकल्पप्रहीणास्, तद् अनेनापि ते आयुष्मन् शारिपुत्र पर्यायेणैवं वेदितव्यं, सर्वधर्मा अविकल्पा अविकल्पतथतां प्रमाणीकृत्य भूतकोटिं धर्मधातुम्. एवं खल्व् आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेनाविकल्पायां प्रज्ञापारमितायां चरितव्यम्, अविकल्पायां प्रज्ञापारमितायां चरन्न् अविकल्पं धर्मम् अभिसंबुध्यते. इति समस्तनिवृत्तिपक्षाधिष्ठानो द्वितीयो ग्राह्यविकल्पः

अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सारे बतायम् आयुष्मन् सुभूते चरति बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.