Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 23/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भगवान् आह: तत् किं मन्यसे? सुभूते तथैव स्थास्यति यथा तथता भूतकोटिर् भविष्यति.

सुभूतिर् आह: नो हीदं भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते गम्भीरा तथता.

सुभूतिर् आह: गम्भीरा भगवन्. इति तथतागाम्भीर्यम्

भगवान् आह: तत् किं मन्यसे? सुभूते तथैव चित्तं यथा तथता.

सुभूतिर् आह: नो हीदं भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते अन्यत्र तथतायाश् चित्तम्.

सुभूतिर् आह: नो हीदं भगवन्. इति ज्ञेयगाम्भीर्यम्

भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तथता तथतां समनुपश्यति.

सुभूतिर् आह: नो हीदं भगवन्. इति ज्ञानगाम्भीर्यम्

भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स गम्भीरायां प्रज्ञापारमितायां चरति. सुभूतिर् आह: यो भगवैम् एवं चरति, स गम्भीरायां प्रज्ञा पारमितायां चरति.

भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स कुत्र चरति.

सुभूतिर् आह: यो भगव्न्न् एवं चरति, स न कुत्रचिच् चरति. तत् कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एते समुदाचारा न भवन्ति, न समुदाचरन्ति तथतायां स्थितस्य न भगवन् किञ्चित् समुदाचारति, नापि तत्र कश्चित् समुदाचरति. इति चर्यागाम्भीर्यम्

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां चरति स कुत्र चरति?

सुभूतिर् आह: चरति भगवन् परमार्थे यत्र द्वयसमुदाचारो न संविद्यते.

भगवान् आह: तत् किं मन्यसे? सुभूते यः परमार्थे चरति समुदाचारे चरति, स निमित्ते चरति.

सुभूतिर् आह: नो हीदं भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तेन निमित्तसंज्ञा वानिमित्तसंज्ञा वा विभाविता भवति. (psp_4:178)

सुभूतिर् आह: नो हीदं भगवन्. इत्य् अद्वयगाम्भीर्यम्

भगवान् आह: तत् कथं सुभूते बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा वा आनिमित्तसंज्ञा वा न विभाविता भवति?

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रयुज्यते, निमित्तं वा भावयिष्याम्य् अनिमित्तं वा भावयिष्यामीति, इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नापरिपूर्णैर् दशभिस् तथागतबलैर् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् महामैत्र्या महाकरुणया अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इदं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं येनोपायकौशल्येन न कंचिद् धर्मं भावी वा करोत्य् अभावी वा करोति. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वलक्षणशून्यतायां स्थितस्, तत्र च स्वलक्षणशून्यतायां स्थित्वा त्रीन् समाधीन् समापद्यते, सत्त्वानां कृतशस् तैश् च समाधिभिः सत्त्वान् परिपाचयति.

एवं भगवन् बोधिसत्त्वो महासत्त्वस् त्रीन् समाधीन् समापद्यते, तत्र च भगवन् बोधिसत्त्वो महासत्त्वस् त्रीषु समाधिषु स्थित्वा सत्त्वांश् च प्रणिधानेन चरतस् तान् अप्रणिहितेन नियोजयति, सत्त्वांश् च विकल्पे चरतस् तान् बोधिसत्त्वो महासत्त्वः शून्यतायां प्रतिष्ठापयति, सत्त्वांश् च निमित्ते चरतस् तान् बोधिसत्त्वो महासत्त्व आनिमित्ते प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिभिः समाधिभिः सत्त्वान् परिपाचयति. इत्य् उपायकौशलं गाम्भीर्यम् इत्य् उक्तः शैक्षो ऽवैवर्तिको गणः

अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतस् त्रीन् समाधीन् समापद्यते शून्यताम् आनिमित्तम् अप्रणिहितम्, अपि नु स प्रज्ञापारमितायां विवर्धते.

एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यद्य् आयुष्मन् शारिपुत्र दिवसे भावनया विवर्धते, एवं स्वप्नान्तरगतो ऽपि विवर्धते. तत् कस्य हेतोः? अविकल्पः, अथ खल्व् आयुष्मन् शारिपुत्र स्वप्नश् च दिवसश् च, सचेद् आयुष्मन् शारिपुत्र यदि दिवसे बोधिसत्त्वस्य (psp_4:179) महासत्त्वस्य प्रज्ञापारमिताभावनास्ति, तदा स्वप्नान्तरगतस्यापि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भविष्यति. इति भवशान्त्योर् अकल्पना

एवम् उक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् पुनर् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतः कर्म करोति, भवति तस्य कर्मण आचयो वा उपचयो वा, यथा स्वप्नोपमाः सर्वधर्मा उक्ता भगवता, तथा नास्य भवत्य् आचयो वा उपचयो वा. तत् कस्य हेतोः? न हि स्वप्ने कस्यचिद् धर्मस्याचवो वा उपचयो वा उपलभ्यते. अथ विबुद्धो विकल्पयिष्यति, भवति तस्याचयो वा उपचयो वा.

अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यश् च दिवसं प्राणातिपातं कृतो, यश् च स्वप्नान्तरे हतस् तं प्रतिविबुधो विकल्पयति, अहो हतो मया हतः साधु हत इति, तत् कर्मायुष्मन् शारिपुत्र किम् आह?

शारिपुत्र आह: नायुष्मन् सुभूते अनारम्बणकर्मोत्पद्यते सारम्बणम् एव कर्मोत्पद्यते.

सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र नानारम्बणं कर्मोत्पद्यते नानारम्बणं चेतनोत्पद्यते सारम्बणम् एवायुष्मन् शारिपुत्र कर्मोत्पद्यते नानारम्बणं सारम्बणा चेतनोत्पद्यते नानारम्बणम्. दृष्टश्रुतमतविज्ञातैर् धर्मैर् बुद्धिः प्रवर्तते, नादृष्टैर् नाश्रुतैर् नामतैर् नाविज्ञातैर् धर्मैर् बुद्धिः प्रवर्तते. तत्र काचिद् बुद्धिः संक्लेशं परिगृह्णाति, काचिद् बुद्धिर् व्यवदानं परिगृह्णाति, तस्मात् तर्ह्य् आयुष्मन् शारिपुत्र सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं सारम्बणैव चेतनोत्पद्यते नानारम्बणा.

शारिपुत्र आह: यद्य् आयुष्मन् सुभूते सर्वाणि कर्माणि सर्वाश् चेतना विविक्ता उक्ता भगवता, तत् कथं सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं, सारम्बणैव चेतनोत्पद्यते नानारम्बणा?

सुभूतिर् आह: निमित्तीकृत्यायुष्मन् शारिपुत्र सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं, सारम्बणैव चेतनोत्पद्यते नानारम्बणा.

अथ खल्व् आयुष्मान् शारिपुत्रः सुभूतिं स्थविरम् एतद् अवोचत्: यद्य् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो दानं दद्याच् छीलं रक्षेत् क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानं (psp_4:180) समापद्येत प्रज्ञां भावयेत्, तच् च कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयेत् परिणामितं भवत्य् अनुत्तरायै सम्यक्संबोधये.

अथ खल्व् आयुष्मान् सुभूतिः स्थविर आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: अयम् आयुष्मन् शारिपुत्र मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूत एकजातिप्रतिबद्धो भगवताविनिवर्तनीयतायै व्याकृत एष परिप्रष्टव्य एष विसर्जयिष्यति.

अथ खल्व् आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: अयं सुभूति स्थविर एवम् आह, अयं मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूत एकजातिप्रतिबद्धो भगवतो ऽविनिवर्तनीयतायै व्याकृत एष परिप्रष्टव्य एष विसर्जयिष्यतीति.

एवम् उक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं नामधेयं मैत्रेयो बोधिसत्त्वो महासत्त्वो विसर्जयिष्यत्य्, उताहो रूपं विसर्जयिष्यति, वेदना संज्ञा संस्कारा, विज्ञानं विसर्जयिष्यति? या रूपस्य शून्यता सा विसर्जयिष्यति, या वेदनाशून्यता या संज्ञाशून्यता या संस्कारशून्यता, या विज्ञानशून्यता सा विसर्जयिष्यति? या च रूपस्य शून्यता न सा प्रतिबला विसर्जयितुं, या वेदनायाः शून्यता या संज्ञायाः शून्यता या संस्काराणां शून्यता या विज्ञानस्य शून्यता न सा प्रतिबला विसर्जयितुम्? तत् किं विसर्जयिष्यति नाहं तं धर्मं समनुपश्यामि, यो धर्मो विसर्जयिष्यति, यं विसर्जयिष्यति, यत्र वा विसर्जयिष्यति? तम् अप्य् अहं धर्मं न समनुपश्यामि, यो धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, येन व्याकृतो, यत्र वा व्याकृतस्, तम् अप्य् अहं धर्मं न समनुपश्यामि सर्व एते धर्मा अद्वया अद्वैधीकाराः.

अथ खल्व् आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: कश्चित् त्वया मैत्रेय एते धर्मा एवं साक्षात्कृता यथैतान् धर्मान् भाषसे?

मैत्रेय आह: न मयैते धर्मा एवं साक्षात्कृता यथाहम् एतान् धर्मान् भाषे.

अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्वो यथापि नाम दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिताविन एष निर्देशो ऽनुपलम्भो ऽनुपलम्भचरितस्य. (psp_4:181)

अथ खलु भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र समनुपश्यसि त्वं तं धर्मं येन त्वं धर्मेणार्हन्न् इति प्रभाव्यसे.

शारिपुत्र आह: नो हीदं भगवन्.

भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य्, अयं धर्मो व्याकरिष्यत्य् अयं धर्मो व्याक्रियते अयं धर्मो व्याकृतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवञ् चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरति, न चास्य विचिकित्सोत्पद्यते, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये ऽहम् अनुत्तरां सम्यक्संबोधिं, यः शारिपुत्र बोधिसत्त्वो महासत्त्व एवं चरति स चरति प्रज्ञापारमितायाम्. एवञ् चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये ऽहम् अनुत्तरां सम्यक्संबोधिम्. इति चोद्यपरंपरेत्य् उक्ता भवशान्तिसमता

अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायाञ् चरता जिघत्सितान् सत्त्वान् दृष्ट्वा पिपासितान् दुर्निवसितान् दुःप्रावृतान् शयनासनविहीनांश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा दानपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैषां सत्त्वानाम् अमी दोषाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञाप्स्यन्ते. यथापि तच् चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां महाब्रह्मणां परीत्ताभानाम् अप्रमाणाभानां आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् अनभ्रकानां पुण्यप्रसवानां वृहत्फलानां शुद्धावासानां सुदृशानां सुदर्शनानाम् अस्पृहानाम् अतपानाम् अकनिष्ठानां देवानाम् उपभोगपरिभोगाय, एवंविधास् तस्मिन् बुद्धक्षेत्रे सत्त्वानाम् उपभोगपरिभोगा भविष्यन्ति. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन शीलपारमितायां चरता प्राणातिपातिकान् सत्त्वान् दृष्ट्वा अदत्तादायिकान् काममिथ्याचारिकान् मृषावादिकान् पारुषिकान् पिशुनवचनान् प्रलापान् अभिध्यालुकान् व्यापन्नचित्तानि (psp_4:182) मिथ्यादृष्टिकान् अल्पायुष्कान् बह्वाबाधान् बह्वायासान् दुर्वर्णान् अल्पेशाख्यान् अल्पभोगान् नीचकुलान् निहीनवृत्तीन् अङ्गविहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा शीलपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितां परिपूरयत्य् अनुत्तरायाः सम्यक्संबोधेर् अभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितायां चरतान्योन्यव्यापादबहुलचित्तान् सत्त्वान् दृष्ट्वा लोष्टताडनशस्त्रप्रहारांश् च ददतो जीवितांश् च व्यवरोपयतो दण्डादण्डि मुषलामुषलि केशाकेशि कचाकचि कुर्वतश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा क्षान्तिपारमितायाञ् चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. सर्वसत्त्वाश् च मातृसमचित्ता भविष्यन्ति, पितृसमचित्ताश् च भविष्यन्ति, भ्रातृसमचित्ताश् च भविष्यन्ति, भगिनीसमचित्ताश् च भविष्यन्ति, पुत्रदुहितृसमचित्ताश् च भविष्यन्ति, मैत्रचित्ता भविष्यन्ति. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भविष्यति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन वीर्यपारमितायाञ् चरता हीनवीर्यान् सत्त्वान् दृष्ट्वा कुशीदान् अलसान् निरुद्योगान् अल्पसत्त्वांस् त्रिभिर् यानैः प्रस्थितान् श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बोधिसत्त्वयानेन वा सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा वीर्यपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितां, परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन ध्यानपारमितायां चरता सत्त्वान् पञ्चसु निवरणेषु प्रवर्तमानान् दृष्ट्वा कामच्छन्दे व्यापादे स्त्यानमिद्धे उद्धतकौकृत्ये विचिकित्सायां निवरणेषु (psp_4:183) प्रवर्तमानान् सत्त्वान् मूढान् मूढस्मृतीन् प्रथमध्यानविरहितान् द्वितीयध्यानविरहितांस् तृतीयध्यानविरहितांश् चतुर्थध्यानविरहितान् मैत्रीकरुणामुदितोपेक्षाविरहितान् आकाशानन्त्यायतनसमापत्त्या विज्ञानानन्त्यायतनसमापत्त्या आकिञ्चन्यियतनसमापत्त्या नैवसंज्ञानासंज्ञायतनसमापत्त्या विहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा ध्यानपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता दुःप्रज्ञान् प्रज्ञापरिहीणान् सत्त्वान् दृष्ट्वा लौकिकलोकोत्तरया सम्यग्दृष्ट्या विहीनान् अक्रियावादिनो नास्तिकवादान् उच्छेदवादान् शाश्वतवादान् एकत्वान्यत्वोभयत्ववादांश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं तथा तथा प्रज्ञापारमितायाञ् चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे तेषां सत्त्वानाम् अमी दोषाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता त्रिषु राशिषु वर्तमानान् सत्त्वान् दृष्ट्वा नियतानियतमिथ्यात्वनियतान् एवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्सेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे नियतानियतमिथ्यात्वनियतानां सत्त्वानाम् अन्तशः शब्दो ऽपि न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता नैरयिकान् सत्त्वान् तैर्यग्योनिकान् सत्त्वान् यामलौकिकान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे त्रयाणाम् अपायानाम् अन्तशः शब्दो ऽपि न भविष्यति न प्रज्ञास्यते. (psp_4:184)

एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता इमान् महापृथिवीस्थाणुकण्टकगहनप्राग्भारप्रपातस्यन्दनिकागूथोडिगल्लान् परिपूर्णान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् एते दोषा न भविष्यन्ति न प्रज्ञास्यन्ते, तच् च मे बुद्धक्षेत्रं समपाणितलजातं भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता इमां महापृथिवीं मृत्तिकामयीं दृष्ट्वा अपगतजातरूपरजताम् एवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे इयं महापृथिवी सुवर्णवालुकाच्छन्ना भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वान् ममकारपरिग्रहवर्तमानान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानां ममकारपरिग्रहो न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता चतुरो वर्णान् दृष्ट्वा क्षत्रियान् ब्रह्मणान् वैश्याञ् शूद्रान् एवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे चतुर्णां वर्णानाम् अन्तशः शब्दो न भविष्यति न प्रज्ञास्यते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् (psp_4:185) चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां हीनोत्कृष्टमध्यमतान् दृष्ट्वा हीनकुलीनतां मध्यकुलीनतां चोत्कृष्टकुलीनतां च सत्त्वानां दृष्ट्वैवम् उपपरीक्षितव्यं तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां वर्णनानात्वं दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानां वर्णनानात्वं न भविष्यति न प्रज्ञास्यते, अन्यत्र सर्वसत्त्वा अभिरूपा भविष्यन्ति प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागताः. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता अधिपतिं दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽधिपतिप्रज्ञप्तिर् अपि न भविष्यति न प्रज्ञास्यते. अन्यत्र धर्मराजेन तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेन. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां गतिसंभेदं दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि सत्त्वंश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे सत्त्वानां गतिसंभेदो न भविष्यति न प्रज्ञास्यते, नरकतिर्यग्योनियमलोकदेवमनुष्या अन्यत्र सर्वसत्त्वा एककर्माणो (psp_4:186) भविष्यन्ति, चतुर्भिः स्मृत्युपस्थानैर् अविरहिताः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गैर् आर्याष्टाङ्गिकेन मार्गेणाप्रमाणध्यानारूप्यसमापत्तिभिर् आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैर् अष्टभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् अभिज्ञाभिर् यावच् चतसृभिः प्रतिसंविद्भिर्. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता चतस्रो योनीः सत्त्वानां दृष्ट्वाण्डजां जरायुजां संस्वेदजाम् औपपादुकां दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तिस्रो योनयः सत्त्वानां न भविष्यन्ति न प्रज्ञास्यन्ते, अण्डजा जरायुजा संस्वेदजा अन्यत्र सर्वसत्त्वा औपपादुका भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् पञ्चाभिज्ञाभिर् विरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वाः पञ्चाभिज्ञा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सर्वसत्त्वानाम् उच्चारप्रस्रावादीन् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वा धर्मप्रीतिध्यानाहारा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् प्रभाविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य (psp_4:187) तत्र बुद्धक्षेत्रे सर्वसत्त्वाः स्वयंप्रभा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकिरज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां रात्रिदिवसमासार्धमाससंवत्सरान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे सत्त्वानां रात्रिदिवसमासार्धमाससंवत्सराणां शब्दो न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतायूर्विहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वा अपरिमितायुषो भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् लक्षणविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वा द्वात्रिंशद्भिर् महापुरुषलक्षणैः समन्वागता भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् कुशलमूलविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वाः कुशलमूलसमन्वागता भविष्यन्ति, यैः कुशलमूलैः समन्वागता बुद्धान् भगवत उपस्थास्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति, सर्वाकारज्ञतायाश् चाभ्यासी भवति. (psp_4:188)

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता रोगस्पृष्टान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानां चत्वारो व्याधयो न भविष्यन्ति न प्रज्ञास्यन्ते. कतमे चत्वारो? वातिका वा पैत्तिका वा श्लेष्मिका वा सांनिपातिका वा. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता त्रिभिः क्लेशैः क्लिष्टान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे त्रयः क्लेशा न भविष्यन्ति न प्रज्ञास्यन्ते. कतमाः त्रयो? रागो द्वेषो मोहः. सर्वसत्त्वाश् च विगतरागा भविष्यन्ति विगतद्वेषा विगतमोहा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता हीनाधिमुक्तिकान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे द्वयोर् यानयोः शब्दो न भविष्यति न प्रज्ञास्यते, श्रावकयानस्य वा प्रत्येकबुद्धयानस्य वा, अन्यत्र सर्वसत्त्वाः सर्वाकारज्ञतायाम् अभिसंप्रस्थिता भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरताभिमानिकान् सत्त्वान् दृष्ट्वैवम् उपपरिक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽभिमानिकानां सत्त्वानां शब्दो ऽपि न भविष्यति न प्रज्ञास्यते, अन्यत्र सर्वसत्त्वा निरभिमाना भविष्यन्ति. एवं चरन् (psp_4:189) सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः पिरिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवं चित्तम् उत्पादयितव्यं, नाहं तावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, सचेत् मे तत्र बुद्धक्षेत्रे मितम् आयुःप्रमाणं स्याद् मिता च प्रभा, मितश् च भिक्षुसंघः, अपि तु खलु तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे अमितम् आयुःप्रमाणं भविष्यति, अमिता च प्रभा, अमितश् च भिक्षुसंघो भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवम् उपपरीक्षितव्यं, यावन्ति गङ्गानदीवालुकासमानि बुद्धक्षेत्राणि तावन्ति ममैकं बुद्धक्षेत्रं यावन् न भवेन् न तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, ऽपि तु खलु तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य यावन्ति गङ्गानदीवालुकासमानि बुद्धक्षेत्राणि भवन्ति ममैकं बुद्धक्षेत्रं भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवम् उपपरीक्षितव्यं, दीर्घो बतायं संसारो, बहुर् अयं सत्त्वधातुस् तेनैवं योनिशो मनसिकर्तव्यम्, आकाशपर्यन्तो बतायं संसार, आकाशपर्यन्तो बतायं सत्त्वधातुर्, न चेह कश्चित् संसरिष्यति, न च कश्चित् परिनिर्वास्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.

अथ खलु तस्यां पर्षदि गङ्गदेवा नाम भगिनी संनिपतिताभुत् संनिषण्णा, सोत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा दक्षिणं जामुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य (psp_4:190) भगवन्तम् एतद् अवोचत्: अहं भगवन्न् अहं सुगत षट्सु पारमितासु चरित्वैवंरूपं बुद्धक्षेत्रं परिगृहीष्ये यथा तथागतेनार्हता सम्यक्संबुद्धेनेह प्रज्ञापारमितायाम् उपदिष्टम्.

अथ खलु सा स्त्री सुवर्णपुष्पं गृहीत्वा, रूप्यपुष्पं च गृहीत्वा, जलजानि स्थलजानि च पुष्पाणि गृहीत्वा, सर्वाणि चाभरणानि गृहीत्वा, सुवर्णवर्णपीतवर्णं च पुष्पयुगं गृहीत्वा येन भगवांस् तेन क्षिपति स्म. समनन्तरक्षिप्तं च तद् दूष्ययुगम् अथ तावद् एव बुद्धानुभावेनोपरि वैहायसम् अन्तरीक्षे भगवतो मूर्ध्नि संधौ कूटागारम् अस्थात्, चतुरस्रं चतुःस्थूणं समं भागशो घटितं सुविभक्तं रमणीयं.

अथ खलु सा स्त्रीस् तत्कूटागारं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति.

अथ खलु भगवांस् तस्याः स्त्रिया अध्याशयं विदित्वा तस्यां वेलायां स्मितं प्रादुरकरोत्, धर्मता खलु पुनर् एषा बुद्धानां भगवतां यदा स्मितं प्रादुः कुर्वन्ति.

अथ खलु तावद् एवानेकवर्णा नानावर्णा अर्चिषो भगवतो मुखद्वाराद् निश्चरन्ति स्म. तद्यथापि नाम नीलाः पीता लोहिता अवदाता माञ्जिष्ठाः स्फटिकरजतवर्णास् तान् अनन्तापर्यन्तान् लोकधातून् गत्वा पुनर् एवागत्य भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतो मूर्ध्न्य् अन्तर्हिताः.

अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं चीवरं प्रवरित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययः? स्मितस्य प्रादुष्करणाय नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति.

एवम् उक्ते भगवान् आयुष्मन्तं आनन्दम् एतद् अवोचत्: इयम् आनन्द गङ्गदेवा भगिनी अनागते ऽध्वनि सुवर्णपुष्पो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति तारकोपमे कल्पे ऽयम् आनन्द एतस्या गङ्गदेवाया भगिन्याश् चरमः स्त्रीभावो भविष्यति. इयम् आनन्द गङ्गदेवा भगिनी स्त्रीभावं विवर्ज्य पुरुषभावं प्रतिलभ्याक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यते अभिरत्यां लोकधातौ, स तत्र ब्रह्मचर्यं चरिष्यति. अस्य खलु पुनर् आनन्द बोधिसत्त्वस्य महासत्त्वस्य सुवर्णपुष्प इति नामधेयं (psp_4:191) भविष्यति. स खलु पुनर् आनन्द सुवर्णपुष्पो बोधिसत्त्वो महासत्त्वस् ततश् च्युतः समानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, अविरहितश् च बुद्धैर् भगवद्भिर् भविष्यति, तद्यथापि नां आनन्द राजा चक्रवर्ती प्रासादेन प्रासादं चङ्क्रामति, स यावज्जीवं पादतलाभ्यां धरणीं नाक्रामति यावन् मरणकालम् इति. एवम् एवानन्द सुवर्णपुष्पो बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति.

अथ खल्व् आयुष्मत आनन्दस्यैतद् अभवत्: यावन्तो बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्सेत्रे संनिपतिता भविष्यन्ति, तथागतसंनिपातः स वेदितव्यः.

अथ खलु भगवान् आयुष्मत आनन्दस्य चेतसा चेतःपरिवितर्कम् आज्ञायायुष्मन्तम् आनन्दम् एतद् अवोचत्: एवम् एतद् आनन्द यथा वदसि, तथागतसंनिपातः स वेदितव्यो बोधिसत्त्वानां महासत्त्वानां यः संनिपातः सुवर्णपुष्पस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्सेत्रे न प्रमाणबद्धो भिक्षुसंघो भविष्यति, न शक्यं तस्य भिक्षुसंघस्य प्रमाणं कर्तुम्, इयन्तो वा श्रावका, इयन्ति वा श्रावकशतानि, इयन्ति वा श्रावकसहस्राणि, इयन्ति वा श्रावकशतसहस्राणि, इयत्यो वा श्रावककोट्य, इयन्ति वा श्रावककोटीशतानि, इयन्ति वा श्रावककोटीशतसहस्राणि, इयन्ति वा श्रावककोटिनियुतशतसहस्राणि, अन्यत्रासंख्येयाप्रमेयापरिमाणानि श्रावककोटीनियुतशतसहस्राणि भविष्यन्ति. सुवर्णपुष्पस्य खलु पुनर् आनन्द तथागतस्यार्हतः सम्यक्संबुद्धस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्र इमे दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते, य इह प्रज्ञापारमितायां परिकीर्तिताः.

एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: क्व भगवन्न् एतया गङ्गदेवया कुशलमूलम् अवरोपितम्?

भगवान् आह: दीपङ्करस्यानन्द तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके एतया भगिन्या कुशलमूलम् अवरोपितम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामितं, स च दीपङ्करस् तथागतो ऽर्हन् सम्यक्संबुद्धः सुवर्णपुष्पैर् अभ्यवकीर्णो ऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानया, यदा मया आनन्द दीपंकरस् तथागतो ऽर्हन् सम्यक्संबुद्धः पञ्चभिर् (psp_4:192) उत्पलैर् अवकीर्णो ऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानेन, तदाहं तेन दीपंकरेण भगवता तथागतेनार्हता सम्यक्संबुद्धेन कुशलमूलसमन्वागतो ऽयम् इति विदित्वा व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ भविष्यसि त्वम् अनागते ऽध्वनि साक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानाञ् च बुद्धो भगवांस् तदा ममैतया भगिन्या व्याकरणं श्रुत्वा एवं चित्तम् उत्पादितम्, अहो बताहम् अप्य् अनागते ऽध्वनि एवं व्याक्रियेयम् अनुत्तरायां सम्यक्संबोधौ, यथायं माणवको व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. एवम् आनन्दैतया भगिन्या तस्य दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमं चित्तम् अनुत्तरायै सम्यक्संबोधये समुत्पादितम्.

एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: कृतपरिकर्मा भगवन्न् इयं गङ्गदेवा भगिन्य् अनुत्तरायै सम्यक्संबोधये.

भगवान् आह: एवम् एतद् आनन्द एवम् एतत्, यथा वदसि, कृतपरिकर्मा आनन्दैषा गङ्गदेवा भगिन्य् अनुत्तरायै सम्यक्संबोधये. इत्य् उक्ता क्षेत्रशुद्धिर् अनुत्तरा

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रज्ञापारमितायां भगवंश् चरता बोधिसत्त्वेन महासत्त्वेन कथं शून्यतायां परिजयः कर्तव्यः? कथं शून्यता भावयितव्या? कथम् आनिमित्ते परिजयः? कथम् आनिमित्तं भावयितव्यम्? कथम् अप्रणिहिते परिजयः कर्तव्यः? कथम् अप्रणिहितं भावयितव्यं? यावत् कथं बोधिपक्षेषु धर्मेषु परिजयः कर्तव्यः? कथं बोधिपक्ष्या धर्मा भावयितव्याः? इत्य् उपायकौशलविषयः

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं वेदना संज्ञा संस्कारा, विज्ञानं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं स्कन्धधात्वायतनानि शून्यानीति प्रत्यवेक्षितव्यानि, प्रतीत्यसमुत्पादः शून्य इति प्रत्यवेक्षितव्यः, प्रतीत्यसमुत्पादाङ्गानि शून्यानीति प्रत्यवेक्षितव्यानि, एवं यावत् कामधातुः शून्य इति प्रत्यवेक्षितव्यः, रूपधातुः शून्य इति प्रत्यवेक्षितव्यः, आरूप्यधातुः शून्य इति प्रत्यवेक्षितव्यः. तथा च प्रत्यवेक्षितव्यं, यथा प्रत्यवेक्षमाणस् तच् चित्तं न विक्षिपति, सो ऽविक्षिप्तचित्तस् तं धर्मं न समनुपश्यति, यो धर्मः साक्षात्क्रियेत, स तं धर्मम् (psp_4:193) असमनुपश्यन् न साक्षात्करोति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यैर् धर्मैः सुशिक्षितो न कस्यचिद् धर्मस्य व्यवच्छेदं करोति, यो वा साक्षात्कुर्याद्, यं वा साक्षात्कुर्याद्, येन वा साक्षात्कुर्यात्, सर्वांस् तान् धर्मान् न संयुक्तान् न विसंयुक्तान् समनुपश्यति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, न बोधिसत्त्वेन महासत्त्वेन शून्या धर्माः साक्षात्कर्तव्या इति. कथं भगवन् बोधिसत्त्वो महासत्त्वः शून्यतायां स्थितः शून्यतां न साक्षात्करोति?

भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारवरोपेतां शून्यतां प्रत्यवेक्षते, न च साक्षात्करिष्यामीति प्रत्यवेक्षते, न च साक्षात्कर्तव्येति प्रत्यवेक्षते, परिजयं करिष्यामीति प्रत्यवेक्षते, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते परिजयस्यायं कालो नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते. असमाहित एव बोधिसत्त्वो महासत्त्व आरंबणे चित्तम् उपनिबध्नाति, अत्रान्तरे बोधिसत्त्वो महासत्त्वो न परिहीयते बोधिपक्षैर् धर्मैर्, न चास्रवक्षयं साक्षात्करोति. तत् कस्य हेतोः? एवम् उदारज्ञानसमन्वागतो बोधिसत्त्वो महासत्त्वो भविष्यति. तत् कस्य हेतोः? यो बोधिपक्ष्येषु धर्मेषु स्थित एवं जानाति परिजयस्यायं कालो नायं कालः साक्षात्क्रियाया इति.

तेन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं प्रत्यवेक्षितव्यं, दानपारमिताया अयं कालः, शीलपारमिताया अयं कालः, क्षान्तिपारमिताया अयं कालः, वीर्यपारमिताया अयं कालः, ध्यानपारमिताया अयं कालः, प्रज्ञापारमिताया अयं कालः, स्मृत्युपस्थानस्य भावनाया अयं कालः, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य भावनाया अयं कालः, शून्यतानिमित्ताप्रणिहितभावनाया अयं कालः, अध्यात्मशून्यताया अयं कालो बहिर्धाशून्यताया अयं कालो ऽध्यात्मबहिर्धाशून्यताया अयं कालो यावद् अभावस्वभावशून्यताया अयं कालः, अप्रमाणध्यानारूप्यसमापत्तिभावनाया अयं काल, आर्यसत्यभावनाया अयं कालः, पञ्चानाम् अभिज्ञानां भावनाया अयं कालो, विमोक्षसमाधिसमापत्तिधारणीमुखभावनाया अयं कालः, दशानां तथागतबलानां प्रतिलाभायायं कालश्, चतुर्णां वैशारद्यानां प्रतिलाभायायं कालः प्रतिसंवित्प्रतिलाभायायं कालो, (psp_4:194) अष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिपूरणायायं कालो, महामैत्र्या महाकरुणायाः प्रतिलाभायायं कालो, नायं कालः स्रोतःआपत्तिफलसाक्षात्क्रियायै, नायं कालः सकृदागामिफलसाक्षात्क्रियायै, नायं कालो नागामिफलसाक्षात्क्रियायै, नायं कालो ऽर्हत्त्वफलसाक्षात्क्रियायै नायं कालः प्रत्येकबुद्धज्ञानसाक्षात्क्रियायै, सर्वाकारज्ञतायाः प्रतिलाभायायं कालः.

एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शून्यतायां च परिजयं करोति, शून्यतया च विहरत्य्, आनिमित्ते च परिजयं करोति, आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोति, अप्रणिहितेन च विहरति. स्मृत्युपस्थानानि च भावयति स्मृत्युपस्थानैश् च विहरति न च साक्षात्करोति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आर्याष्टाङ्गिकं च मार्गञ् च भावयत्य् आर्याष्टाङ्गिकेन च मार्गेण विहरति न च साक्षात्करोति.

एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बोधिपक्ष्येषु धर्मेषु परिजयं करोति, बोधिपक्ष्यांश् च धर्मान् भावयति बोधिपक्ष्यैश् च धर्मैर् विहरति, न च स्रोतआपत्तिफलं साक्षात्करोति न च सकृदागामिफलन् न चानागामिफलन् नार्हत्त्वफलं साक्षात्करोति. इत्य् उपायकौशलप्रयोगः

तद्यथापि नाम सुभूते कश्चिद् एव पुरुषः शूरश् च भवेद्, वीरश् च भवेद्, दृढप्रतिष्ठानश् च भवेद्, अभिरूपश् च भवेत्, प्रासादिकश् च भवेद्, दर्शनीयश् च भवेत्, परमशुभवर्णपुष्करतया समन्वागतश् च भवेद्, इष्वस्त्रे च परमां गतिंगतो भवेद्, दृढानि चानेन प्रहरणानि गृहीतानि भवेयुः, सर्वासु च चतुःषष्ठिषु कलासु परिनिष्पन्नो भवेत्, सर्वत्र च शिल्पस्थानेषु च कर्मस्थानेषु च गतिंगतो भवेत्, बहुजनस्य च प्रियो मनआपो भवेत्, स यां याम् एव च कांश्चित् क्रियाम् आरभेत सर्वत्र तत्र तत्र च लाभसत्कारसमन्वागतो भवेत्, तेन च बहुजनं सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत्, स भूयस्या मात्रया आत्तमनस्को भवेत् प्रमुदितः प्रीतिसौमनस्यजातः स मातापितृपुत्रदारान् गृहीत्वा केनचिद् एव करणीयेन महाभयभैरवम् अटवीकान्तारं प्रविष्टस् स्याद् बालानां भीषणकं स रोमहर्षणं, तत्र च स पुरुषः प्रविश्य तान् मातापितृपुत्रदारान् (psp_4:195) अभयेनाभिनिमन्त्रयेन्, मा भैष्ट मा भैष्टाहं युष्मान् इतो महाभयभैरवाद् अटवीकान्ताराद् बालानां भीषणात् स रोमहर्षणाच् छीघ्रम् एवापक्रामयिष्यामि शीघ्रम् एव परिमोचयिष्यामि. तस्य च पुरुषस्य तत्राटवीकान्तारे बहवो ऽमित्रा वधकाः प्रत्यर्थिकाः प्रत्यमित्राः प्रत्युपस्थिता भवेयुः, स च पुरुषः परमेण प्रज्ञाबलेन समन्वागतो भवेत्, स तान् परिमोचयित्वा मातापितृपुत्रदारांस् तस्माद् अटवीकान्तारान् निष्काशयित्वा पुनर् एव ग्रामं वा नगरं वा निगमं वा जनपदं वा जनप्रदेशं वा गत्वा प्रीतिसौमनस्य जातो विहरेद् अक्षतो ऽनुपहतो, न च तेषां सत्त्वानाम् अन्तिके प्रत्यर्थिकानां प्रत्यमित्राणां वा मनः प्रदुषयेत्. तत् कस्य हेतोः? तथा हि स कृतयोग्यः सर्वासु च कलासु भवेत्, तेन तत्राटवीकान्तारे बहुतराश् च शूरतराश् च दृढप्रहरणतराश् च तेषां प्रत्यर्थिकानां प्रत्यमित्राणाम् अन्ये उदारतराः प्रत्यर्थिकाः प्रत्यमित्रा अभिनिर्मिता भवेयुः, ते तेन भयेन सर्वे ऽपगता भवेयुः. अथ स पुरुषस् तान् मातापितृपुत्रदारान् स्वस्तिना परिमोचयित्वा सुखं विहरेत्.

एवम् एव सुभूते यस्मिन् समये बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अन्तिके मैत्र्यारम्बणेन चित्तेन करुणामुदितोपेक्षारम्बणेन चित्तेन स्फारित्वा विहरत्य् अत्रान्तरे सुभूते बोधिसत्त्वो महासत्त्वो न चानिमित्तेन व्याह्रियते न चानिमित्तसमाधिं साक्षात्क्रियया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा प्रतिष्ठेत्. इत्य् अन्तरायिकधर्मसमतिक्रमणोपायः

तद्यथापि नाम सुभूते पक्षी शकुनिर् अन्तरीक्षे चरति न च भूमौ पतति, आकाशे वान्तरीक्षे विहरति न च तत्र तिष्ठति न प्रतिष्ठते. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः शून्यतायां च परिजयं करोति शून्यतया च विहरति, आनिमित्ते च परिजयं करोत्य् आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोत्य् अप्रणिहितेन च विहरति, न च शून्यतां वानिमित्तं वाप्रणिहितं वा साक्षात्करोति, यया साक्षात्क्रियया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेद्, अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया चापरिमाणेषु च बुद्धधर्मेषु चरित्वा सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् अप्रतिष्ठितविहारोपायः (psp_4:196)

तद्यथापि नाम सुभूते बलवान् इष्वस्त्राचार्यो भवेद् इष्वस्त्रशिक्षायां सुशिक्षितः स काण्डम् ऊर्ध्वमुखं क्षिप्त्वा तदन्यैः काण्डैस् तस्य पूर्वकस्य काण्डस्य परंपरया पृथिव्यां पतनं न दद्यात् तावत् काण्डं पृथिव्यां न पतति यावत् स पुरुष आकाङ्क्षेत्. अथ खल्व् एतत् काण्डं पृथिव्यां निपतेत्, स पश्चिमं काण्डम् ऊर्ध्वमुखं नाक्षिपेद्, एवं सा काण्डपरंपरा पृथिव्यां निपतेत्.

एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन परिगृहीतस् तावत् तां परमां भूतकोटिं न साक्षात्करोति यावन् न तानि कुशलमूलानि परिपक्वानि भवन्त्य् अनुत्तरायां सम्यक्संबोधौ, यदा तानि कुशलमूलानि परिपक्वानि भवन्त्य् अनुत्तरायां सम्यक्संबोधौ तदा तां परमां भूतकोटिं साक्षात्करोति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवम् एतेषां धर्माणां धर्मतोपनिध्यातव्या उपपरीक्षितव्याः. इति प्रणिधानावेधानुवृत्त्युपायः

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो य इह धर्मतायां शिक्षते भूतकोट्यां शिक्षते धर्मधातौ शिक्षते अत्यन्तशून्यतायां शिक्षते यावत् स्वलक्षणशून्यतायां शिक्षते यावत् त्रिषु विमोक्षमुखेषु शिक्षते, न चान्तरेण व्यवसादम् आपद्यते ऽनुत्तरायां सम्यक्संबोधौ, आश्चर्यं भगवन्न् आश्चर्यं सुगत.

भगवान् आह: तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वा अपरित्यक्ताः. यस्य सुभूते सर्वसत्त्वा अपरित्यक्तास् तस्यैवंरूपः प्रणिधानविशेषो भवति, यः सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् अभिनिर्हरति, सर्वसत्त्वा मयापरित्यक्ता मयैते परिमोचयितव्याः, असंविद्यमानैर् धर्मैर् वर्तमानाः शान्तं शून्यतासमाधिविमोक्षमुखम् अभिनिर्हरत्य्, आनिमित्तं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, अप्रणिहितं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, उपायकौशल्यसमन्वागतः स बोधिसत्त्वो महासत्त्वस् तस्मिन् समये वेदितव्यो, न चान्तरा भूतकोटिं साक्षात्करोति यावन् न सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् असाधारणोपायः

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानीमानि गम्भीराणि स्थानानि प्रत्यवेक्षितुकामो भवति, तद्यथेदम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां (psp_4:197) चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि आर्याष्टाङ्गिकमार्गं त्रीणि विमोक्षमुखानि, तेनैवं चित्तोत्पादो ऽभिनिर्हर्तव्यो, दीर्घरात्रम् इमे सत्त्वा आत्मसंज्ञायां सत्त्वसंज्ञायां जीवसंज्ञायां जन्तुसंज्ञायां पोषसंज्ञायां पुरुषसंज्ञायां पुद्गलसंज्ञायां मनुजसंज्ञायां मानवसंज्ञायां कारकसंज्ञायां वेदकसंज्ञायां जानकसंज्ञायां पश्यकसंज्ञयाम् उपलम्भे चरन्ति, तेषाम् उपलम्भदृष्टिप्रहाणायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि. यस्मिन् समये बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखं भावयत्य्, आनिमित्तं समाधिविमोक्षमुखं भावयत्य् अप्रणिहितं समाधिविमोक्षमुखं भावयति समापद्यते च न च भूतकोटीं साक्षात्करोति, यया साक्षात्क्रियया स्रोतआपत्तिफलं प्राप्नुयात्, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुयात्, प्रत्येकां बोधिं प्राप्नुयात्, तस्मिन् समये बोधिसत्त्वो महासत्त्वो न स्रोतआपत्तिफलम् अनुप्राप्नुयाद् न सकृदागामिफलन् नानागामिफलं नार्हत्त्वम् अनुप्राप्नुयात्, न प्रत्येकां बोधिम् अनुप्राप्नुयाद्, एवं चरन् बोधिसत्त्वो महासत्त्वो ऽनेन चित्तोत्पादेन एतैश् च कुशलमूलैः समन्वागतो नान्तरा भूतकोटिं साक्षात्करोति न च परिहीयते चतुर्भिर् अप्रमाणैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर्

बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गिकेन मार्गेण शून्यतानिमित्ताप्रणिहितसमाधिभिर् अध्यात्मशून्यतया यावद् अभावस्वभावशून्यतया न परिहीयते, दानपारमितया न परिहीयते, शीलपारमितया न परिहीयते, क्षान्तिपारमितया न परिहीयते, वीर्यपारमितया न परिहीयते, ध्यानपारमितया न परिहीयते, प्रज्ञापारमितया न परिहीयते, आर्यसत्यैर् न परिहीयते, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते पञ्चभिर् अभिज्ञाभिर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् न परिहीयते, अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न परिहीयते, महामैत्र्या महाकरुणया न परिहीयते. एवं बोधिसत्त्वो महासत्त्वस् तस्मिन् समये सर्वबोधिपक्ष्यैर् धर्मैः समन्वागतो न च परिहीयते ततो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो (psp_4:198) विवर्धते शुक्लैर् धर्मैः, तीक्ष्णतमानि चास्येन्द्रियाणि भवन्ति यथा न श्रावकप्रत्येकबुद्धानाम्. इत्य् अशक्त्युपायः

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे सत्त्वाश् चतुर्भिर् विपर्यासैर् विपर्यस्तचित्ता नित्यसंज्ञायां सुखसंज्ञायां शुभसंज्ञायाम् आत्मसंज्ञायाञ् च तेषाम् अर्थाय बोधये चरिष्यामि, तथा चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि, यथानित्यम् इति दुःखम् इत्य् अशुभम् इति अनात्मीयम् इति वा समुदाचारो ऽपि न भविष्यति. सो ऽनेन चित्तोत्पादेन समन्वागत उपायकौशल्येन च प्रज्ञापारमितायां चरति, बुद्धधर्मसमाधिं समापद्यते ऽपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च शून्यतानिमित्ताप्रणिहितसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वो महासत्त्वो भावयति समापद्यते च, न च भूतकोटिं साक्षात्करोति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे सत्त्वा उपलम्भचरता आत्मेति, सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यका इति, रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कारा इति वा विज्ञानम् इति वा स्कन्धा इति वा धातव इति वा आयतनानीति वा प्रतीत्यसमुत्पादा इति वा प्रतीत्यसमुत्पादाङ्गानीति वा चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिस् तेषां तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सत्त्वानाम् एते उपलम्भदोषा न भविष्यन्ति, स इमैश् चित्तोत्पादैः समन्वागतो ऽनेन चोपायकौशल्येन प्रज्ञापारमितायां चरन् न भूतकोटीं साक्षात्करोत्य् अपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च शून्यतासमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य भावना परिपूरिं गच्छति. इत्य् अनुपलम्भोपायः

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे सत्त्वा निमित्तेन चरिताः स्त्रीनिमित्तेषु वा पुरुषनिमित्तेषु वा रूपनिमित्तेषु वा आरूप्यनिमित्तेषु (psp_4:199) वा, तेषां सत्त्वानां तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, एषां सत्त्वानाम् इमे दोषा न भविष्यन्ति. स तेन चित्तोत्पादेन समन्वागतो ऽनेन चोपायकौशल्येन समन्वागतः प्रज्ञापारमितायां चरन् न चान्तरा भूतकोटीं साक्षात्करोत्य् अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च तस्य तेन चित्तोत्पादेन समन्वागतस्यानिमित्तसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य भावना परिपूरिं गच्छति. इत्य् आनिमित्तोपायः

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे सत्त्वाः प्रणिधानेन चरिता यद् उत शक्रत्वं ब्रह्मत्वं लोकपालत्वं चक्रवर्तित्वम् अभिलषन्ति रूपम् अभिलषन्ति एवं वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिलषन्ति, तेषाम् अहम् अर्थायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तथा धर्मं देशयिष्यामि यथैव ते सत्त्वानां प्रणिधानदोषा न भविष्यन्तीति. एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य एभिश् चित्तोत्पादैर् एभिश् च कुशलमूलैर् अनेन चोपायकौशल्येन प्रज्ञापारमितायां चरतः, अप्रणिहितसमाधिविमोक्षमुखं भावना परिपूरिं गच्छति, न च भूतकोटिं साक्षात्करोति, अपरिपूर्णैर् दशभिर् बलैर् वैशारद्यैः प्रतिसंविदावेणिकबुद्धधर्मैर् महामैत्र्या महाकरुणया च यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति, अस्थानैः सुभूते ऽनवकाशो यद् बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन्न् अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां चरंश् चतुर्षु स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु मार्गेषु चरन् शून्यतानिमित्ताप्रणिहितेषु चरन् दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां चरन् यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् परिजयं कुर्वाण, एवं ज्ञानधर्मसमन्वागतो ऽनभिसंस्कारे वा पतेत त्रैधातुकेन वा सार्धं संवसेन् नैतत् स्थानं विद्यते. इत्य् अप्रणिहितोपायः

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एषु बोधिपाक्षिकेषु (psp_4:200) धर्मेषु चरन् परिजयं कुर्वाणः परिप्रष्टव्यः. कथं बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामो बोधिपक्ष्येषु धर्मेषु चरित्वा परिजयं कृत्वा न शून्यतां साक्षात्कुर्यात्, न च भूतकोटिं प्रतिसंविध्येन्, न स्रोतआपत्तिफलं वा सकृदागामिफलं वा नागामिफलं वार्हत्त्वं वा प्रत्येकां वा बोधिम् अनुप्राप्नुयात्? कथं शून्यताम् आनिमित्तम् अप्रणिहितम् अनभिसंस्कारम् अनुत्पादम् अभावं वा साक्षात्कुर्यात् प्रज्ञापारमितां च भावयेद्? इति.

सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वैर् महासत्त्वैर् एवं परिपृच्छमान एवं व्याकुर्याच्, छूनय्ता चैव तेन मनसिकर्तव्या, आनिमित्तं चैव तेन मनसिकर्तव्यम्, अप्रणिहितं चैव तेन मनसिकर्तव्यम्, अनभिसंस्कारो ऽनुत्पादो भावश् चैव मनसिकर्तव्यो, न च सर्वसत्त्वाः परित्यक्तव्या इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं सूचयति तं व्याकरोति तं प्रभावयति.

सचेत् पुनः सुभूते पृष्ट एवं व्याकुर्यान्, न तेन शून्यतायां परिजयं कर्तव्यं, नानिमित्ते नाप्रणिहिते नानभिसंस्कारे नानुत्पादे नाभावे न तेन बोधिपक्ष्यैर् धर्मैः परिजयः कर्तव्यो, न च सर्वसत्त्वाः समालम्बितव्या इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् नायं बोधिसत्त्वो महासत्त्वो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं तं न सूचयति तं न व्याकरोति तं न प्रभावयति, यः पुनर् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मं तं न सूचयति न व्याकरोति न भावयति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् अयं बोधिसत्त्वो महासत्त्वः परिजयं कृत्वा ततो भूमेर् अतिक्रान्तो याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयभूमिः. इत्य् अवैवर्तिकलिङ्गोपायः

सुभूतिर् आह: स्यात् पुनर् भगवन् पर्यायो यद् अविनिवर्तनीयो बोधिसत्त्वो (psp_4:201) महासत्त्वो भवेत्?

भगवान् आह: स्यात् सुभूते यो बोधिसत्त्वो महासत्त्वः षट् पारमिताः श्रुत्वा वाश्रुत्वा वा एवं विसर्जयेद् यथाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, वेदितव्यस् तैर् बोधिसत्त्वैर् महासत्त्वैर् अविनिवर्तनीयो ऽयं बोधिसत्त्वो महासत्त्वः.

सुभूतिर् आह: तेन हि भगवन् बहवो बोधिसत्त्वा महासत्त्वा बोधाय चरन्ति, अल्पकास् ते भगवन् बोधिसत्त्वा महासत्त्वा य एवं विसर्जयिष्यन्ति, यथाविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः परिकर्मभूमौ वा, अपरिकर्मभूमौ वा.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. तत् कस्य हेतोः? तथा हि सुभूते ऽल्पकास् ते बोधिसत्त्वा महासत्त्वा य एवं व्याकृता अविनिवर्तनीयायां ज्ञानभूमौ, ये पुनस् ते व्याकृता भविष्यन्ति त एवं विसर्जयिष्यन्ति, उत्तप्तकुशलमूलास् ते वेदितव्या बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेन. इत्य् अप्रमाणविषयोपायः इत्य् उक्तम् उपायकौशलम् इत्य् उक्तः सर्वाकाराभिसंबोधः

आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वाकाराभिसंबोधाधिकारस् तथतापरिवर्तश् चतुर्थः

(psp_5:1) पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता व्

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सचेत् स्वप्नान्तरगतो ऽपि स्वप्नोपमांश् चैव सर्वधर्मान् व्यवलोकयति, प्रतिश्रुत्कोपमान् मरीच्युपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च सर्वधर्मान् व्यवलोकयति न च साक्षात्करोति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति प्रथमं लिङ्गम्

पुनर् अपरं सुभूते स्वप्नान्तरगतो ऽपि बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा त्रैधातुके वा न स्पृहयति न चित्तम् उत्पादयति नानुशंसयति, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति द्वितीयम्

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सचेत् स्वप्नान्तरगतस् तथागतम् अनेकशतपरिवारम् अनेकसहस्रपरिवारम् अनेकशतसहस्रपरिवारम् अनेककोटीनियुतशतसहस्रपरिवारं भिक्षुभिक्षुणीभिर् उपासकोपासिकाभिर् देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः परिवृतं पुरस्कृतं तथागतम् अर्हन्तं सम्यक्संबुद्धं धर्मं देशयन्तं पश्यति, स तं धर्मं श्रुत्वा तस्य धर्मस्यार्थम् आजनाति धर्मानुधर्मप्रतिपन्नो विहरति समयप्रतिपन्नो ऽनुधर्मचारी, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति तृतीयम्

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतः सचेत् तथागतं पश्येद् वैहायसम् अत्युद्गम्य भिक्षुसंघस्य धर्मं देशयन्तं द्वात्रिंशद्भिर् महापुरुषलक्षणैः समलंकृतं व्यामप्रभम् ऋद्धिप्रातिहार्यञ् च निदर्शयन्तन् निर्मितांश् च निर्मिण्वन्तन् तांश् चैव निर्मितान् अन्येषु लोकधातुषु बुद्धकृत्यं कुर्वतः, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयस्य लक्षणं वेदितव्यम्. इति चतुर्थम् (psp_5:2)

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते ग्रामघाते वर्तमाने नगरघाते वर्तमाने ऽग्निदाहे वर्तमाने, व्याडमृगान् वा दृष्ट्वा तदन्यान् वा चण्डमृगजातीर् दृष्ट्वा पिपासितान् दृष्ट्वा बुभुक्सितान् दृष्ट्वा मातापितृमरणं वा दृष्ट्वा भ्रातृभगिनीमरणं वा दृष्ट्वा पुत्रदुहितृमरणं वा दृष्ट्वा मित्रामात्यज्ञातिसालोहितमरणं वा दृष्ट्वा न शोकभयभैरवसंत्रासम् उत्पादयति, ततश् च स्वप्नात् समनन्तरविबुद्धस्य समानस्यैवं भवति, स्वप्नोपमं सर्वम् इदं त्रैधातुकं, मयाप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य स्वप्नोपमं सर्वत्रैधातुकम् इति धर्मो देशयितव्यः, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति पञ्चमम्

पुनर् अपरं सुभूते कथं विज्ञायते यथाविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं त्रयो ऽपाया न भविष्यन्तिति? सचेत् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो नारकं वा सत्त्वं दृष्ट्वा तिर्यग्योनिगतं वा सत्त्वं दृष्ट्वा यामलोकिकं वा सत्त्वं दृष्ट्वा, एवं स्मृतिं प्रतिलभते येन स्मृतिलब्धस्य चैवं भवति, तथा करिष्यामि तथा प्रतिपत्स्ये यथा मे तत्र बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सर्वेण सर्वं सर्वथा सर्वं त्रयो ऽपाया न भविष्यन्ति. तत् कस्य हेतोः? तथा हि यश् च स्वप्नो यश् चाहं सर्व इमे धर्मा अद्वया अद्वैधीकाराः, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति सष्ठम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्त्वः स्वप्नान्तरगतो वा प्रतिविबुद्धो वा नगरदाहे वर्तमाने, एवं समन्वाहरति, येन मया स्वप्नान्तरगतेन वा प्रतिविबुद्धेन वा य आकारा यानि लिङ्गानि यानि निमित्तानि दृष्टानि यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो भवति, यदि त आकारास् तानि लिङ्गानि तानि निमित्तानि मम संविद्यन्ते तैर् अवैवर्तिको बोधिसत्त्वो महासत्त्व एवं सत्याधिष्ठानं करोति, (psp_5:3) येन सत्येन सत्यवचनेनाहं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ तेन सत्येन सत्यवचनेनायं नगरदाह उपशाम्यतु शीतीभवत्व् अस्तं गच्छतु. सचेद् उपशाम्यति शीतीभवत्य् अस्तं गच्छति वेदितव्यं सुभूते व्याकृतो बतायं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधाव् अविनिवर्तनीयतायै. सचेत् पुनः सुभूते अग्निस्कन्धो ऽतिक्रमित्वा गृहाद् गृहं दहति रथ्याया रथ्या दहत्य् अन्यद् गृहं दहत्य् अन्यद् गृहं न दहत्य् अन्यां रथ्यां दहत्य् अन्यां रथ्यां न दहति वेदितव्यं सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मं प्रत्याख्यानसंवर्तनीयम् एतैः सत्त्वैः कर्मोपचितं येनैतेषां सत्त्वानाम् एकं गृहं दह्यते, एकं गृहं न दह्यते, तेषाम् एतद् दृष्टधार्मिकम् एव कर्म विपच्यते, अयं सुभूते हेतुर् अयं प्रत्ययो ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां यैर् हेतुभिर् यैः प्रत्ययैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति सप्तमम्

पुनर् अपरं सुभूते यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यस् तान् आकारांस् तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि. सचेत् सुभूते कश्चिद् एव स्त्री वा पुरुषो वामनुष्येणाधिष्ठितो भवेत्, तत्र बोधिसत्त्वेन महासत्त्वेन एवं समन्वाहर्तव्यं, सचेद् अहं व्याकृतस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये, परिशुद्धश् च मे ऽध्याशयो यथाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामो यथाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, परिशुद्धश् च मे मनसिकारो ऽनुत्तरायै सम्यक्संबोधये, अपगतं मे श्रावकचित्तम् अपगतं मे प्रत्येकबुद्धचित्तम्, अपगतेन श्रावकप्रत्येकबुद्धचित्तेन मयानुत्तरा सम्यक्संबोधिर् अभिसंबोधव्या, नाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, अभिसंभोत्स्य एवाहम् अनुत्तरां सम्यक्संबोदिं ये ऽपि ते ऽसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानां नास्ति किंचिद् अदृष्टं वाश्रुतं वाविदितं वासाक्षात्कृतं वानभिसंबुद्धं वा यथा ते बुद्धा भगवन्तः प्रजानन्ति पश्यन्ति ममाध्याशयर इति ह्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य एतेन सत्येन सत्यवचनेनायं स्त्री वा पुरुषो वा येनामनुष्येण गृहीतो विहेठितो वा सो (psp_5:4) मनुष्यो ऽपक्रामतु.

सचेत् पुनः सुभूते सो ऽमनुष्यस् ततो नापक्रामति तस्य बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य वेदितव्यम् एतत् सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वस् तैर् पूर्वकैस् तथगतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये.

सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य सो ऽमनुष्यस् ततो ऽपक्रामति वेदितव्यं सुभूते बोधिसत्त्वेन महासत्त्वेन व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस् तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये. एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.

पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितासु चरत उपायकौशल्यविरहितस्याचरिताविनश् चतुर्षु स्मृत्युपस्थानेषु सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेष्व् आर्याष्टाङ्गे च मार्गे चतुर्ष्व् आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेषु बोधिसत्त्वनियामम् अनवक्रान्तस्य सत्याधिष्ठानेन मारः पापीयान् उपसंक्रमिष्यति सचेद् बोधिसत्त्वस्यैवं भवति, येन सत्येन सत्यवचनेनाहं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, तेन सत्येन सत्यवचनेनायम् अमनुष्यभूत इतो ऽपक्रामत्व् इत्य् एवं सत्याधिष्ठानं करिष्यति. तत्र मारः पापीयान् औत्सुक्यम् आपत्स्यते कथम् अमनुष्य इतो ऽपक्रामेद्? इति. तत् कस्य हेतोः? तथा हि मारः पापीयान् बलवत्तरं च तेजोवत्तरं च तत्रौत्सुक्यम् आपत्स्यते कथम् अयम् अमनुष्य इतो ऽपक्रामेद् इति, एवं माराधिष्ठानेन स ततो ऽपक्रामिष्यति, एवं च तस्य बोधिसत्त्वस्य महासत्त्वस्य भविष्यति, ममैषो ऽनुभावेनामनुष्य इतो ऽपक्रान्तो, न पुनर् एवं ज्ञास्यति मारानुभावेनैषो ऽमनुष्य इतो ऽपक्रान्त इति. स तेनान्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते उल्लापयिष्यत्य् उच्चग्घयिष्यति पंसयिष्यत्य्, अहं व्याकृतो ऽनुत्तरायै सम्यक्संबोधये तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् एते पुनर् अन्ये न व्याकृता अनुत्तरायै सम्यक्संबोधये. स तेन तावन्मात्रकेण मारं विवर्धयिष्यति, दूरीकरिष्यति सर्वाकारज्ञतां दूरीकरिष्यत्य् अनुत्तरं बुद्धज्ञानम्. स तथारूपो बोधिसत्त्वो महासत्त्वस् तावन्मात्रकेणानुपायकुशलो (psp_5:5) ऽभिमानम् उत्पादयिष्यति, तस्य द्वे भूमि प्रतिकाङ्क्षितव्ये. कतमे द्वे? यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. एवं सत्याधिष्ठानेन बोधिसत्त्वस्य महासत्त्वस्य मारकर्मोत्पत्स्यते, तत्र स कल्याणमित्राणि न सेविष्यते न भजिष्यते न पर्युपासिष्यते तद् एव मारबन्धनम् आगाढीकरिष्यति. तत् कस्य हेतोः? यथापि नाम षट्सु पारमितास्व् अचरितत्वाद् उपायकौशलेन वापरिगृहीतत्वाद्, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन सत्याधिष्ठानेन मारकर्म वेदितव्यम्.

कथं च पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितास्व् अचरिताविनो यावद् बोधिसत्त्वनियामम् अनवक्रान्तस्य सत्याधिष्ठानेन मारः पापीयान् उपसंक्रमिष्यति? इह सुभूते मारः पापीयान् अन्यतरेण वेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरायै सम्यक्संबोधये, अमुको ऽन्वयस् ते, इदन् ते नामधेयम्, इदन् ते पितुर् नामधेयम्, इदन् ते मातुर् नामधेयम् इदन् ते पुत्रदुहितृभगिनीनामधेयम्, इदन् ते मित्रामात्यज्ञातिसालोहितानां यावद् आसप्तममातामहपितामहयुगस्य नामधेयम् उपदेक्ष्यति, आमुष्मात् त्वं जनपदाद् आमुष्मात् त्वं नगराद् अमुष्माद् दिशस् त्वम् आगतो, ऽमुष्मिन् जनपदे त्वं जातो ऽमुस्मिं ग्रामे वा नगरे वा. सचेत् प्रकृत्या मृदुको भविष्यति स तम् एवं वक्ष्यति: पूर्वम् अपि त्वम् एवं मृदुक एवाभूः, सचेत् स तीक्ष्णो भविष्यति स तम् एवं वक्ष्यति: पूर्वम् अपि त्वम् एवं तीक्ष्ण एवाभूः, सचेद् आरण्यको भविष्यति, सचेत् पिण्डपातिको भविष्यति, सचेत् पांशुकूलिको भविष्यति, सचेत् खलुपुनःपश्चाद्भक्तिको भविष्यति सचेद् एकाशनिको भविष्यति सचेत् प्रस्थव्पिण्डिको भविष्यति, सचेच् छ्माशानिको भविष्यति, सचेद् अभ्यवकाशिको भविष्यति, सचेद् वृक्षमूलिको भविष्यति, सचेन् नैषद्यिको भविष्यति, सचेद् यथासंस्तरिको भविष्यति, सचेत् त्रैचीवरिको भविष्यति, सचेद् अल्पेच्छो भविष्यति, सचेत् संतुष्टो भविष्यति, सचेत् प्रविविक्तो भविष्यति, सचेद् अपगतपादम्रक्षणो भविष्यति, सचेन् मन्दभाष्यो भविष्यति, स तम् एवं वक्ष्यति: पूर्वम् अपि त्वं मन्दभाष्य एवाभूः, सचेन् मन्दमन्त्रो भविष्यति, पूर्वम् अपि त्वं मन्दमन्त्र एवाभूः. तत् कस्य (psp_5:6) हेतोः? तथा हि तवैवंरूपा धूतगुणाः संविद्यन्ते निश्चयेन ते पूर्वम् अप्य् एत एव धूतगुनाः संलेखा अभूवन्.

सो ऽनेन च पूर्वकेण नामापदेशेन गोत्रापदेशेन च प्रत्युत्पन्नधूतगुणापदेशेन च मन्यनाम् उत्पादयिष्यति. तम् एनं मारः पापीयान् उपसंक्रम्यैवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये ऽविनिवर्तनीयतायां यथा ते धूतगुणाः संविद्यन्ते.

कदाचिद् भिक्षुवेषेणोपसंक्रमिष्यति, कदाचिद् गृहपतिवेषेणोपसंक्रमिष्यति, कदाचिद् मातृवेषेणोपसंक्रमिष्यति, कदाचित् पितृवेषेणोपसंक्रमिष्यति, कदाचिद् भ्रातृवेषेणोपसंक्रमिष्यति, कदाचिद् भगिनीवेषेणोपसंक्रमिष्यति, कदाचिद् ब्राह्मणवेषेणोपसंक्रमिष्यति, कदाचिद् मित्रामात्यज्ञातिसालोहितवेषेणोपसंक्रमिष्यत्य् उपसंक्रम्यैवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरायै सम्यक्संबोधये. तत् कस्य हेतोः? तथा हि तवामी गुणाः संविद्यन्ते ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्.

ये च ते मया सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य आकारा लिङ्गानि निमित्तान्य् आख्यातास् ते तस्य बोधिसत्त्वस्य महासत्त्वस्य न संविद्यन्ते. वेदितव्यं सुभूते तदन्यैर् बोधिसत्त्वैर् महासत्त्वैर् माराधिष्ठितो बतायं बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? तथा हि य आकारा यानि लिङ्गानि यानि निमित्तान्य् ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ते चास्य न संविद्यन्ते. अनेन च नामापदेशेन तद् अन्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते उच्चग्घ्ययिष्यत्य् उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति, इदम् अपि सुभूते नामापदेशेन नामाधिष्ठानेन बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नामाधिष्ठानेन मारकर्म वेदितव्यम्. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरितः सत्त्वानां नाम न जानाति, रूपं न जानाति, वेदनां संज्ञां संस्कारान्, विज्ञानं न जानाति. तस्य मारः पापीयान् नामाधिष्ठानेन व्याकरिष्यति, यावत् ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्येदं नाम भविष्यति, यत् तेन नामधेयम् अनुवितर्कितं भविष्यत्य् अनुविचारितम्. तत्र दुष्प्रज्ञाजातीयस्य बोधिसत्त्वस्य महासत्त्वस्यानुपायकुशलस्यैवं भविष्यति: यथा च मम चित्तोत्पाद उत्पन्नः, यच् च मया नामधेयं मनसानुवितर्कितम् अनुविचारितम्, (psp_5:7) इदं ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य नामधेयं भविष्यति. तथा तथा मारः पापीयान् निर्देक्ष्यति मारकायिका वा देवता माराधिष्ठितो वा भिक्षुस् तस्यैवं भविष्यति: यथा च मम चित्तोत्पाद उत्पन्नो, यथा च मम नामधेयं, यथा चानेन भिक्षुना निर्दिष्टं समेति नाम समेति मे नाम्ना व्याकृतो ऽहं तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये.

ये च मया सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याकारा लिङ्गानि निमित्तान्य् आख्यातानि तस्य बोधिसत्त्वस्य महासत्त्वस्य न संविद्यन्ते, तैश् चाकारैर् लिङ्गैर् निमित्तैर् विरहितः, सो ऽनेन च नामापदेशेन मन्यनाम् उत्पादयिष्यति, स तदन्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते, स तया मन्यनया अभिमन्यतया दूरीभविष्यत्य् अनुत्तरायाः सम्यक्संबोधेस् तस्योपायकौशल्यविरहितस्य प्रज्ञा पारमिताविरहितस्य कल्याणमित्रविरहितस्य पापमित्रपरिगृहीतस्य द्वे भूमी प्रतिकाङ्क्सितव्ये यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. अथ वा चिरं सुचिरं संधाव्य संसृत्येमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सचेत् स प्रियान् बोधिसत्त्वान् महासत्त्वान् न कल्याणमित्राण्य् अभीक्ष्णं लप्स्यते दर्शनाय न चैनान् पर्युपासिष्यते, सचेत् तेनैवात्मभावप्रतिलाभेन तान् पूर्वकांश् चित्तोत्पादान् न विगर्हिष्यति न प्रतिदेशयिष्यति तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा.

तद्यथापि नाम सुभूते भिक्षुश् चतसृणां मूलापत्तीनाम् अन्यतरान्यतराम् आपत्तिम् आपद्याभिक्षुर् भवत्य् अश्रमणो ऽशाक्यपुत्रीयः. सो ऽभव्यस् तेनैव चात्मभावेन चतुर्णां श्रामण्यफलानाम् अन्यतरान्यतरं श्रामण्यफलम् अनुप्राप्तुम्.

एवम् एव सुभूते अयं ततो गुरुतरश् चित्तोत्पादो यो ऽयं नामापदेशेन बोधिसत्त्वस्य महासत्त्वस्य मन्यनासहगतश् चित्तोत्पाद उत्पन्नस्, तेन च नामापदेशमात्रेणान्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते, अयं ततो गुरुतरश् चित्तोत्पादो वेदितव्यः.

तिष्ठन्तु सुभूते चतस्रो गुरुका मूलापत्तयः, पञ्चभ्यो ऽपि सुभूते आनन्तर्येभ्यः कर्मभ्यो गुरुतरो ऽयं चित्तोत्पादो यो ऽयं (psp_5:8) बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेन मन्यनासहगतश् चित्तोत्पाद उत्पन्नस्, तेन च नामापदेशमात्रेणान्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते, अयं ततो गुरुतरश् चित्तोत्पादो वेदितव्यः. इति हि सुभूते इमानि तानि नामानि नामापदेशेनोत्पद्यमानानि मारकर्माणि सूक्ष्माणि भवन्ति.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.