Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 22/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भगवान् आह: तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति रूपं वा वेदनां वा संज्ञां वा संस्कारां वा विज्ञानं वा स्कन्धान् वा धातून् वा आयतनानि वा प्रतीत्यसमुत्पादं वा प्रतीत्यसमुत्पादाङ्गानि वा समनुपश्यति, सर्वपारमिता वा सर्वशून्यता वा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा सप्तत्रिंशद्बोधिपक्ष्यान् वा धर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् वा आर्यसत्यानि वा शून्यतानिमित्ताप्रणिहिता वा दशतथागतबलानि वा वैशारद्यानि प्रतिसंविदो वा आवेणिकान् बुद्धधर्मान् न समनुपश्यति, अनुत्तरां वा सम्यक्संबोधिं न समनुपश्यति, यत्र काङ्क्षा वा विमतिर् वा विचिकित्सा वा स्यात्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो (psp_4:145) ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् षष्ठम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्निग्धेन कायकर्मणा मनआपेन स्निग्धेन वाक्कर्मणा मनआपेन स्निग्धेन मनस्कर्मणा मनआपेन कान्तेन समन्वागतो भवति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः सततसमितं मैत्रेण कायकर्मणा मनआपेन मैत्रेण वाक्कर्मणा मनआपेन मैत्रेण मनस्कर्मणा मनआपेन कान्तेन समन्वागतो भवति, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं सप्तमम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः पञ्चभिर् निवरणैः सार्धं न संवसति, कामच्छन्देन व्यापादेन स्त्यानमिद्धेन उद्धतकौकृत्येन विचिकित्सया, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् अष्टमम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वेण सर्वम् अनुशयो नास्ति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं नवमम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽतिक्रामन् वा प्रतिक्रामन् वा न भ्रान्तचित्तो ऽतिक्रामति वा प्रतिक्रामति वा, सो ऽतिक्रामन् वा प्रतिक्रामन् वा उपस्थितस्मृतिर् अतिक्रामति, उपस्थितस्मृतिर् एव प्रतिक्रामति. स्मृतिमांश् चैव गच्छति च क्रमति तिष्ठति निषीदति शय्यां च कल्पयति न सहसा भूमौ पादाव् उत्क्षिपति, न सहसा भूमौ पादौ प्रतिक्षिपति न सहसा भूमौ पादौ निक्षिपति, स्मृतिमान् एव स पादौ उत्क्षिपति प्रतिक्षिपति निक्षिपति, स पश्यन्न् एव भूप्रदेशम् आक्रामति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो (psp_4:146) महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं दशमम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य चीवरपरिभोगे न कायजुगुप्सितो भवति, न यूकिलश् चौक्षसमुदाचारः शुचिसमुदाचारः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽल्पाबाधश् च भवति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इत्य् उष्मगतावस्थस्यावैवर्तिकलक्षणम् एकादशम्

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य यानि तानि अशीतिक्रिमिकुलसहस्राणि काये प्रतिवसन्ति कायं भक्षयन्ति, तान्य् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वेण सर्वं काये न संविद्यते. तत् कस्य हेतोः? तथा हि सुभूते तानि कुशलमूलानि बोधिसत्त्वस्य महासत्त्वस्य सर्वलोकाभ्युद्गतानि, तेन बोधिसत्त्वस्य महासत्त्वस्य तान्य् अशीतिक्रिमिकुलसहस्राणि काये न संविद्यन्ते. यथायथा सुभूते बोधिसत्त्वस्य महासत्त्वस्यैतानि कुशलमूलानि प्रवर्धन्ते, तथातथा बोधिसत्त्वो महासत्त्वः कायपरिशुद्धिञ् च वाक्परिशुद्धिञ् च चित्तपरिशुद्धिं च प्रतिगृह्णाति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं द्वादशम्

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च भवति?

भगवान् आह: यथायथा सुभूते बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलानि प्रवर्धन्ते, तथातथा कायचक्रत्वं वाक्चक्रत्वं चित्तचक्रत्वं च कायवाक्चित्तकौटिल्यताञ् च तैः कुशलमूलैः परिशोधयति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, स तया कायपरिशुद्ध्या वाक्परिशुद्ध्या चित्तपरिशुद्ध्या च श्रावकभूमिं च प्रत्येकबुद्धभूमिञ् चातिक्रामति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य (psp_4:147) कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं त्रयोदशम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न लाभसत्कारगुरुको भवति न पिण्डपातगुरुको भवति यावन् न चीवरगुरुको भवति, स द्वादशधूतगुणसमादाने वर्तते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं चतुर्दशम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य न मात्सर्यचित्तम् उत्पद्यते न दौःशील्यचित्तम् उत्पद्यते न क्षुब्धचित्तम् उत्पद्यते न कौसीद्यचित्तम् उत्पद्यते नासमाहितचित्तम् उत्पद्यते न दौष्प्रज्ञाचित्तम् उत्पद्यते नेर्ष्याचित्तम् उत्पद्यते एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं पञ्चदशम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्थिरबुद्धिश् च भवति सत्कृत्य च परतो धर्मं शृणोति, यत् किंचित् परतो धर्मं शृणोति तत् सर्वं प्रज्ञापारमितायां संस्यन्दयति यानि तानि लौकिकानि कृत्यानि तानि सर्वाणि प्रज्ञापारमिताम् आगम्य धर्मतया संस्यन्दयति, न तं धर्मं समनुपश्यति, यो धर्मधातौ न युज्यते सर्वं तं प्रज्ञापारमितायां युज्यमानं समनुपश्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं षोडशम्

पुनर् अपरं सुभूते मारः पापीयान् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अष्टौ महानिरयान् पुरतो ऽभिनिर्माय तत्रैकैकस्मिन् महानिरये बहूनि बोधिसत्त्वशतानि बहूनि बोधिसत्त्वसहस्राणि बहूनि बोधिसत्त्वशतसहस्राणि बहूनि बोधिसत्त्वकोटीनियुतशतसहस्राणि दह्यमानानि पच्यमानानि दुःखी तीव्री खरां कटुकां वेदनां प्रत्यनुभवमानान्य् (psp_4:148) अभिनिर्मिणोति, एवं च वक्ष्यति: इमे ते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीयास् तथागतैर् व्याकृतास् तेषु महानरकेषूपपन्नास्, त्वम् अपि नैरयिकस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, यस् त्वम् अविनिवर्तनीयतायै व्याकृतः, पुनर् एव त्वम् एतद् बोधिचित्तं प्रतिनिःसृज्य, एवं त्वं महानिरयेषु नोपपत्स्यसे, ततः त्वं स्वर्गोपगो भविष्यसि.

सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न काङ्क्षति न विचिकित्सति, वेदितव्यं व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस् तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, नियतो ऽयं बोधिसत्त्वो महासत्त्वो ऽवैवर्त्यधातौ स्थानं सुभूते ऽनवकाशो यद् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नरके वा तिर्यग्योनौ वा यमलोके वा असुरेषु वा कायेषूपपद्यते, नैतत् स्थानं विद्यते, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मूर्धगतावस्थस्यावैवर्तिकलक्षणं सप्तदशम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् श्रमणवेषेणोपसंक्रम्यैवं वक्ष्यति: यत् त्वया पूर्वश्रुतं, एवं मया दानपारमिता परिशोधयितव्या, एवं मया शीलपारमिता परिशोधयितव्या, एवं मया क्षान्तिपारमिता परिशोधयितव्या, एवं मया वीर्यपारमिता परिशोधयितव्या एवं मया ध्यानपारमिता परिशोधयितव्या, एवं मया प्रज्ञापारमिता परिशोधयितव्या, एवं मया यावद् अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या, तत् सर्वं प्रतिदेशय यत् त्वया पूर्वम् अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां प्रथमचित्तोत्पादम् उपादाय यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् कुशलमूलं तत् सर्वम् अनुमोदितन् तत् प्रतिदेशय तन् निसृज, यद् एतत् त्वया श्रुतं नैतद् बुद्धवचनं नैतत् सम्यक्संबुद्धेन भाषितं कविकृतकं काव्यम् एतत्, यद् अहं भाषे एतद् बुद्धवचनम् एतत् तथागतेन भाषितम्. सचेद् बोधिसत्त्वो महासत्त्वः क्षुभ्यति काङ्क्षति विचिकित्सति, वेदितव्यम् एवम् एष बोधिसत्त्वो महासत्त्वो ऽव्याकृतस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, अनियतो ऽयं बोधिसत्त्वो महासत्त्वो, नायं बोधिसत्त्वो (psp_4:149) महासत्त्वो ऽविनिवर्तनीयधातौ स्थितः.

सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो न क्षुभ्यति न काङ्क्षति न विचिकित्सति, धर्मतां प्रतिसरति, अनभिसंस्कारम् अनुत्पादं प्रतिसरति, न परस्य श्रद्धया गच्छति, अपरप्रणेयश् च भवति, दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम् अपरप्रणेयश् च भवति यावद् अनुत्तरायां सम्यक्संबोधौ, तद्यथापि नाम अर्हन् क्षीणास्रवो भिक्षुर् न परस्य श्रद्धया गच्छति प्रत्यक्षकारी धर्मतायाम् असंहार्यो भवति मारेण पापीयसा. एवम् एव सुभूते ऽनवमर्दनीयो बोधिसत्त्वो महासत्त्वः श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा, अप्रत्युदावर्तनीयधर्मा च भवति श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बुद्धयानिकैर् वा अनुत्तरायां सम्यक्संबोधौ, नियतो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयधातौ स्थितो ऽपरप्रणेयश् च भवति, स तथागतस्यार्हतः सम्यक्संबुद्धस्यापि श्रद्धया न गच्छति, प्राग् एव श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा बुद्धयानिकानां वा प्राग् एव मारस्य पापीयसः, प्राग् एवान्यतीर्थिकानां परिव्राजकानां वा श्रद्धया गच्छेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति, यस्य श्रद्धया गच्छेद् रूपस्य वा वेदनाया वा संज्ञाया वा संस्काराणां वा विज्ञानस्य वा, रूपतथताया वा वेदनातथताया वा संज्ञातथताया वा संस्कारतथताया वा विज्ञानतथताया वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि बोधिपक्ष्यधर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् आर्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अनुत्तरां च सम्यक्संबोधिं न समनुपश्यति यावद् अनुत्तरायाः सम्यक्संबोधेस् तथतान् न समनुपश्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मूर्धगतावस्थस्यावैवर्तिकलक्षणम् अष्टादशम्

पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेनाविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्योपसंक्रम्यैवं वक्ष्यति: संसारचारिकैषा नैषा सर्वाकारज्ञताचारिका, इहैव त्वं दुःखस्यान्तं कुरु. (psp_4:150)

स खलु पुनर् मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य मार्गप्रतिरूपकम् उपदेक्ष्यति, यो ऽसौ मार्गप्रतिरूपकः संसारावचरैर् लौकिकैर् आकारैर् यदि वास्ति संज्ञा यदि वा प्रथमं ध्यानं यावन् नैवसंज्ञानासंज्ञायतनम् उपदेक्ष्यति: अयम् आयुष्मन् मार्गः, इयं प्रतिपद् येन मार्गेण यया प्रतिपदा स्रोतआपत्तिफलम् अनुप्राप्स्यसि, सकृदागामिफलम् अनागामिफलं येन मार्गेणार्हत्त्वम् अनुप्राप्स्यसि, अनेनायुष्मन् मार्गेणानया प्रतिपदा इहैव त्वं दुःखस्यान्तं कुरु, न तु तानि संसारावचराणि दुःखानि प्रत्यनुभविष्यसि, अहो बतायम् इहैव तवात्मभावो न निर्वृत्तो भवेत्, कुतस् त्वम् अन्यम् आत्मभावं प्रतिगृहीतव्यं मन्यसे?

सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न चलति, उत्तरे चास्यैवं भवति, बहुकरो मे ऽयं भिक्षुर् यो ऽयं मार्गप्रतिरूपकम् उपदिशति, यो मार्गप्रतिरूपको नैवं स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तते, न सकृदागामिफलसाक्षात्क्रियायै संवर्तते, नानागामिफलसाक्षात्क्रियायै संवर्तते नार्हत्त्वफलसाक्षात्क्रियायै संवर्तते, न प्रत्येकबुद्धफलसाक्षात्क्रियायै संवर्तते, नानुत्तरायाः सम्यक्संबोधेः साक्षात्क्रियायै संवर्तते. उत्तरे चास्य हर्ष उत्पद्यते, बहुकरो मे ऽयं भिक्षुर् यो ममैतान्य् अङ्गान्य् उपदिशति, यानि मयैवं बुद्ध्वा सर्वेष्व् अपि त्रिषु यानेषु शिक्षितव्यम्.

तम् एनं मारः पापीयान् बोधिसत्त्वं महासत्त्वं हर्षितं विदित्वा एवं वक्ष्यति: इच्छसि त्वं कुलपुत्र तान् बोधिसत्त्वान् महासत्त्वान् द्रष्टुं यैर् बोधिसत्त्वैर् महासत्त्वैर् गङ्गानदीवालुकोपमा बुद्धा भगवन्तः प्रत्युपस्थिताः पूजिताश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्, गङ्गानदीवालुकोपमानां च तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके दानपारमिता परिपूरिता शीलपारमिता परिपूरिता क्षान्तिपारमिता परिपूरिता वीर्यपारमिता परिपूरिता ध्यानपारमिता परिपूरिता प्रज्ञापारमिता परिपूरिता, गङ्गानदीवालुकोपमाश् चैव बुद्धा भगवन्तः पर्युपासिताः परिपृच्छिताः परिप्रश्नीकृता, अस्यैव बोधिसत्त्वयानस्यार्थाय कथं बोधिसत्त्वैर् महासत्त्वैर् बोधिसत्त्वयाने स्थातव्यं? कथं दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता स्थातव्यम्? एवं (psp_4:151) स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखेष्व् अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यावत् महामैत्र्यां महाकरुणायां चरता स्थातव्यम्? यथा तैर् बुद्धैर् भगवद्भिर् आख्यातं तथा स्थित्वा तथा चरित्वा तथा योगम् आपद्यापि तैर् एव तावद् बोधिसत्त्वैर् महासत्त्वैर् अनुत्तरा सम्यक्संबोधिर् नाभिसंबुद्धा, तथा चरितैस् तथानुशासितैस् तथा स्थितैस् तथा शिक्षमाणैः सर्वाकारज्ञता नानुप्राप्ता, कुतः पुनस् त्वम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यसि?

सचेद् बोधिसत्त्वस्य महासत्त्वस्य एवं विवेच्यमानस्य चित्तस्यान्यथात्वं न भवति नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, उत्तरे चास्य हर्ष उत्पद्यते, बहुकरो मे ऽयं भिक्षुर् यो ममैतान्य् अङ्गान्य् उपदिशति, यैर् अङ्गैः स्रोतआपत्तिफलं प्राप्यते सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिर् यावत् सर्वाकारज्ञतानुप्राप्यते.

ततः स पुनर् मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य चित्तस्यानवलीनतां विदित्वा तत्रैव पृथिवीप्रदेशे संबहुलान् भिक्षून् अभिनिर्मिणोति, एवं च वाचं भाषते: इमे ते ऽर्हन्तः क्षीणास्रवा ये ते ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता अभूवंस् ते ऽर्हत्त्वे स्थिताः, कुतः पुनस् त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे?

सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, मारो बतायं पापीयान् मार्गप्रतिरूपकम् उपदिशति, न च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रत्युदावर्त्यानुत्तरायाः सम्यक्संबोधेः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति, उत्तरे चास्यैवं भवति, अस्थानम् अनवकाशो यद् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्न् अप्रमाणध्यानारूप्यसमापत्तिषु चरन्, आर्यसत्याभिज्ञासु चरन्, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा भावयन् सर्वाकारज्ञतां भावयन्न्, अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यतेति (psp_4:152) नैतत् स्थानं विद्यते. इति क्षान्तिगतावस्थस्यावैवर्तिकलक्षणम् एकोनविंशतितमम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, सचेद् एवं शिक्षित्वा यथा तथागतेनाख्यातं तया चर्ययाविरहितस्यैभिः पारमिताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो बोधिसत्त्वो महासत्त्वो न परिहीयते दानपारमितया न परिहीयते शीलपारमितया न परिहीयते क्षान्तिपारमितया न परिहीयते वीर्यपारमितया न परिहीयते ध्यानपारमितया न परिहीयते प्रज्ञापारमितया न परिहीयते अध्यात्मशून्यतया न परिहीयते यावद् अभावस्वभावशून्यतया न परिहीयते स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् न परिहीयते अप्रमाणध्यानारूप्यसमापत्तिभिर् न परिहीयते शून्यतानिमित्ताप्रणिहिताभिज्ञाभिर् न परिहीयते सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मैर् न परिहीयते सर्वाकारज्ञतया.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, यो मारकर्माणि बुध्यते स न परिहीयते ऽनुत्तरायाः सम्यक्संबोधेः एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इत्य् अग्रधर्मगतावस्थस्यावैवर्तिकलक्षणं विंशतितमम्

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कुतो भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति प्रज्ञायते.

भगवान् आह: रूपसंज्ञायाः सुभूते विवर्तितो, वेदनासंज्ञायाः संज्ञासंज्ञायाः संस्कारसंज्ञाया विज्ञानसंज्ञाया विवर्तितो, धातुसंज्ञाया आयतनसंज्ञायाः प्रतीत्यसमुत्पादसंज्ञायाः प्रतीत्यसमुत्पादाङ्गसंज्ञाया रागसंज्ञाया दोषसंज्ञाया मोहसंज्ञाया दृष्टिसंज्ञायाः, दानपारमितासंज्ञायाः शीलपारमितासंज्ञायाः क्षान्तिपारमितासंज्ञायाः वीर्यपारमितासंज्ञाया ध्यानपारमितासंज्ञायाः प्रज्ञापारमितासंज्ञाया विवर्तितो, ऽध्यात्मशून्यतासंज्ञाया यावद् अभावस्वभावशून्यतासंज्ञायाः स्मृत्युपस्थानसंज्ञायाः सम्यक्प्रहाणार्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसंज्ञाया (psp_4:153) अप्रमाणध्यानारूप्यसमापत्तिसंज्ञाया विवर्तितः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखसंज्ञायाः शून्यतानिमित्ताप्रणिहितसंज्ञाया अभिज्ञासंज्ञाया विवर्तितो, दशबलवैशारद्यसंज्ञायाः प्रतिसंवित्संज्ञाया आवेणिकबुद्धधर्मसंज्ञाया विवर्तितः, सर्वाकारज्ञतासंज्ञाया विवर्तितः, श्रावकप्रत्येकबुद्धसंज्ञाया विवर्तितः, बोधिसत्त्वसंज्ञाया विवर्तितो यावद् बुद्धसंज्ञाया विवर्तितः. तत् कस्य हेतोः? तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्यैर् धर्मैर् बोधिसत्त्वन्यामम् अवक्रान्तः. स तम् अपि धर्मं नोपलभते अनुपलभमानो नाभिसंस्करोत्य् अनभिसंस्कुर्वन् नोत्पादयति तेनोच्यते ऽनुत्पादक्षान्तिको बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इत्य्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति दर्शनमार्गे दुष्खे धर्मज्ञानक्षान्तिः

पुनर् अपरं सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं विच्छन्दयिष्यति: आकाशसमैषा यद् उत सर्वाकारज्ञता आकाशभावनैषा अभावस्वभावलक्षणशून्यता, एते ऽपि धर्मा आकाशसमा अभावस्वभावाः स्वलक्षणशून्या न चाकाशसमैर् धर्मैर् अभावस्वभावैः स्वलक्षणशून्यैः कश्चिद् धर्म उपलभ्यते, यो वाभिसंबुध्यते येन वाभिसंबुध्यते यं वाभिसंबुध्यते, सर्व एते आकाशसमा धर्मा अभावस्वभावाः स्वलक्षणशून्या निरर्थकं त्वं विहन्यसे मारकर्म एतत् परिदीपितं यद् इयम् अनुत्तरा सम्यक्संबोधिर् अभिसंबोधव्या, नैतत् सम्यक्संबुद्धभाषितम् इति. तस्मात् त्वं कुलपुत्र प्रतिप्रस्रम्भय एतान् मनसिकारान् मा ते दीर्घरात्रम् अनर्थाय दुष्खाय विनिपाताय संवर्तेरन्न् इति. तत्र तैर् बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा ताः परिभाषाः श्रुत्वैवम् उपपरीक्षितव्यं, मारकर्माणो तानि यो मे ऽनुत्तरायाः सम्यक्संबोधेर् विवेचयति किं चाप्य् आकाशसमाः सर्वधर्मा अभावस्वभावाः स्वलक्षणशून्यास्, तान् सत्त्वा न जानन्ति न पश्यन्ति न बुध्यन्ते तान् वयम् आकाशसमान् अभावस्वभावान् सर्वधर्मान् स्वलक्षणशून्यतासंनाहं संनह्य सर्वाकारज्ञताम् अभिसंबुद्ध्य सत्त्वानां धर्मं देशयिष्यामो, ऽप्रमेयान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामः, सकृदागामिफले (psp_4:154) ऽनागामिफले ऽर्हत्त्वे प्रतिष्ठापयिष्यामः, प्रत्येकायां बोधौ प्रतिष्ठापयिष्यामो, ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामः. तत्र बोधिसत्त्वैर् महासत्त्वैः प्रथमचित्तोत्पादम् उपादाय इमान् धर्मान् श्रुत्वा दृढचित्तैर् भवितव्यम् अप्रकम्पचित्तैर् भवितव्यम् असंहार्यचित्तैर् भवितव्यं, त इमे यैर् दृढचित्ततायै अप्रकम्पचित्ततायै असंहार्यचित्ततायै समन्वागताः षट्सु पारमितासु चरन्तो बोधिसत्त्वनियामम् अवक्रामयिष्यन्ति. इति दुःखे धर्मज्ञानम्

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः उताहो विनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अविनिवर्तनीयः सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः, विनिवर्तनीयो ऽपि सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः.

सुभूतिर् आह: कथं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः? कथं च विनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः? भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा विनिवर्तितो ऽयं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः, यः पुनः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा न विनिवर्तितो ऽयं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः. एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतस्याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यं, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो मारेण पापीयसा न शक्यते विवेचयितुम् अनुत्तरायाः सम्यक्संबोधेः. इति दुःखे ऽन्वयज्ञानक्षान्तिः

पुनर् अपरं सुभूते आकाङ्क्षन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते, यावच् चतुर्थध्यानं समापद्यते (psp_4:155) यावन् निरोधसमापत्तिं समापद्यते, आकाङ्क्षन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वश् चत्वारि स्मृत्युपस्थानानि समापद्यते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यते, यावच् छून्यतानिमित्ताप्रणिहितान् समाधीन् समापद्यते, यावत् पञ्चाभिज्ञा अभिनिर्हरति, इमैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिर् निरोधसमापत्तिभिश् च परिजयं करोति, चत्वारि स्मृत्युपस्थानानि भावयति सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गम् आर्याष्टाङ्गिकं मार्गं शून्यतानिमित्ताप्रणिहितं समाधिं समापद्यते, न च ध्यानफलं परिगृह्णाति, यावन् न निरोधसमापत्तिफलं परिगृह्णाति, न स्रोतआपत्तिफलं परिगृह्णाति न सकृदागामिफलं नानागामिफलं नार्हत्त्वं परिगृह्णाति न प्रत्येकबोधिं परिगृह्णाति आकाङ्क्षमाण एवं संचिन्त्यात्मभावं परिगृह्णाति येनात्मभावेन सर्वसत्त्वानाम् अर्थं करोति तम् आत्मभावं परिगृह्णाति एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति दुःखे ऽन्वयज्ञानम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो मनसिकारेण समन्वागतो बोधिचित्तेनाविरहितो न रूपगुरुको भवति न क्षणगुरुको भवति नास्रवगुरुको भवति, न दानगुरुको भवति न शीलगुरुको भवति न क्षान्तिगुरुको भवति न वीर्यगुरुको भवति न ध्यानगुरुको भवति न प्रज्ञागुरुको भवति, नाप्रमाणगुरुको भवति नारूप्यगुरुको भवति न समापत्तिगुरुको भवति नाभिज्ञागुरुको भवति न सप्तत्रिंशद्बोधिपक्ष्यधर्मगुरुको भवति न सर्वविमोक्षसमाधिसमापत्तिगुरुको भवति न शून्यतानिमित्ताप्रणिहितगुरुको भवति नार्यसत्यगुरुको भवति न वैशारद्यगुरुको भवति न प्रतिसंविद्गुरुको भवति न सम्यक्संबोधिगुरुको भवति न सत्त्वपरिपाचनगुरुको भवति न बुद्धदर्शनगुरुको भवति न कुशलमूलावरोपनगुरुको भवति. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा आकाशसमा अभावस्वभावाः स्वलक्षणशून्याः. स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व अने इमेन च मनसिकारेण समन्वागतश् चतुर्भिश् चेर्यापथैर् अभिक्रामति न प्रतिक्रामति न भ्रान्तचित्त आगच्छति न भ्रान्तचित्तो गच्छति न चङ्क्ररैष्यति (psp_4:156) न च स्थास्यति न निषीदिष्यति न शय्यां कल्पयिष्यति स स्मृत एवागमिष्यति गमिष्यति चङ्क्रमिष्यति स्थास्यति निषीदिष्यति शय्यां कल्पयिष्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति समुदये धर्मज्ञानक्षान्तिः

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन्न् उपायकौशल्येन सत्त्वानां परिपाचनाय पञ्चकामगुणान् उपदिशति सर्वसत्त्वानां दानं ददाति, अन्नम् अन्नार्थिकानां, पानं पानार्थिकानां यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददाति, स आत्मना च दानपारमितायां चरति, परांश् च दानपारमितायां समादापयति दानपारमितायाश् च वर्णं भाषते, ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, स आत्मना च प्रज्ञापारमितायां चरति, परांश् च प्रज्ञापारमितायां समादापयति, प्रज्ञापारमितायाश् च वर्णं भाषते, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. इति समुदये धर्मज्ञानम्

स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन् जम्बूद्वीपं सप्तरत्नपरिपूर्णं कृत्वा दानं ददाति, एवं चातुर्द्वीपकं लोकधातुं साहस्रं लोकधातुं द्विसाहस्रं लोकधातुं यावत् त्रिसाहस्रं महासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा दानं ददाति, न च कामगुणान् परिभुङ्क्ते सततसमितं ब्रह्मचारी भवति, न च कस्यचिद् अवमर्दनाकारं जनयति येनावमर्दनाकारेण परो ऽनात्तमनाः स्यात्, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.

पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सततसमितं वज्रपानिर् यक्षः सदानुबद्धो भविष्यत्य्, अयं बोधिसत्त्वो महासत्त्वो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यथा ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सततसमितं समनुबद्धो यावत् पञ्चवज्रपाणि कुलानि सततसमितं समनुबद्धानि भविष्यन्ति, स न शक्यते मनुष्यैर् अमनुष्यैर् वावक्रमनायानवमर्दनीयो (psp_4:157) भवति स देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर्लोके सहधर्मेण. इति समुदये ऽन्वयज्ञानक्षान्तिः

तस्य चित्तं न विक्षिप्यते बोधिमनसिकाराद् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तस्य बोधिसत्त्वस्य महासत्त्वस्य नेन्द्रियाणि विकलानि भवन्ति श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतिन्द्रियं समाधिन्द्रियं प्रज्ञेन्द्रियं स सत्पुरुषो भविष्यति नासत्पुरुषः.

सुभूतिर् आह: कियता भगवन् बोधिसत्त्वो महासत्त्वः सत्पुरुषो भवति नासत्पुरुषः?

भगवान् आह: यदा सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिचित्तं न विनङ्क्ष्यते, एतावता सुभूते बोधिसत्त्वो महासत्त्वः सत्पुरुषो भवति नासत्पुरुषः, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो बोधिमनसिकारैः समन्वागतो यानि तानि स्त्रीणाम् आवेशनानि वशीकरणानि मन्त्रविद्यौषधिभैषज्यानि तानि सर्वाणि सर्वेण सर्वं सर्वथा सर्वन् न प्रयुक्ते न च प्रयोजयति न च स्त्रीणाम् आवेशनम् अन्यतरान्यतरं करोति, न स्त्रियाः पुरुषस्य वा आदेशनाप्रातिहार्यं करोति, पुत्रो वा ते भविष्यति धीता वा ते भविष्यति, कुलोद्गतो वा भविष्यति, दीर्घायुष्को वा भविष्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु निमित्तं न समनुपश्यति, स निमित्तम् असमनुपश्यन्, परिशुद्धाजीवो विहरति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति समुदये ऽन्वयज्ञानम्

पुनर् अपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ये आकारा यानि लिङ्गानि यानि निमित्तानि यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यस्, तान् आकारांस् तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि, तानि शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहम्, एवं भगवन्न् इत्य् आयुष्मां सुभूतिर् भगवतः प्रत्यश्रोषीत्.

भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिमनसिकारैर् अविरहितो न स्कन्धयोगम् अनुयुक्तो (psp_4:158) विहरति, न धात्वायतनयोगम् अनुयुक्तो विहरति. न प्रतीत्यसमुत्पादाङ्गयोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स शून्यतायां स्थितो न कस्यचिद् धर्मस्य हीनत्वं वा उत्कृष्टत्वं वा समनुपश्यति. इति निरोधे धर्मज्ञानक्षान्तिः

न चौरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्याहरणं वा हरनं वा समनुपश्यति. इति निरोधे धर्मज्ञानम्

न सेनाकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स प्रकृतिशून्यतायां स्थितो न कस्यचिद् धर्मस्याल्पत्वं वा बहुत्वं वा समनुपश्यति. इति निरोधे ऽन्वयज्ञानक्षान्तिः

न युद्धकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सर्वधर्मतायां स्थितो न कस्यचिद् धर्मस्यानुनयं वा प्रतिघं वा समनुपश्यति. न ग्रामकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सर्वशून्यतायां स्थितो न कस्यचिद् धर्मस्य निचयं वासंनिचयं वा समनुपश्यति. न नगरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स आकाशशून्यतायां स्थितो न कस्यचिद् धर्मस्य संग्रहं वासंग्रहं वा समनुपश्यति. न निगमकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सुभूते कोट्यां स्थितो न कस्यचिद् धर्मस्यात्ययं वानत्ययं वा समनुपश्यति. नात्मकथायोगम् अनुयुक्तो विहरति, एवं न सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यककथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? अत्यन्तविशुद्धत्वात् सर्वधर्माणाम् अन्यत्र प्रज्ञापारमिताकथायोगम् अनुयुक्तो विहरति, अविरहितश् च सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः. इति निरोधे ऽन्वयज्ञानम्

स दानपारमितायां चरन् न मात्सर्यकथायोगम् अनुयुक्तो विहरति, शीलपारमितायां चरन् न दौःशील्यकथायोगम् अनुयुक्तो विहरति, क्षान्तिपारमितायां चरन् न प्रतिघकथायोगम् अनुयुक्तो विहरति, वीर्यपारमितायां चरन् न कौशीद्यकथायोगम् अनुयुक्तो विहरति, ध्यानपारमितायां चरन् न विक्षेपकथायोगम् अनुयुक्तो विहरति, प्रज्ञापारमितायां चरन् न दौष्प्रज्ञाकथायोगम् अनुयुक्तो विहरति, सर्वधर्मशून्यतायां विहरन् धर्मकामश् चैव भवति नाधर्मकामः, स धर्मधातौ चरन् न भेद्यस्य धर्मस्य वर्णवादी (psp_4:159) भवति, समित्रकामो भवति नामित्रकामो बुद्धानां भगवताम् अन्तिके बोधिसत्त्वानां च महासत्त्वानां ये च श्रावकप्रत्येकबुद्धयानिकाः कुलपुत्रास् तान् अप्य् अनुत्तरायां सम्यक्संबोधौ समादापयति निवेशयति प्रतिष्ठापयति, स तथागतान् अर्हतः सम्यक्संबुद्धान् आकाङ्क्षति, दर्शनाय यत्र लोकधातौ तिष्ठन्ति ध्रियन्ते यापयन्ति, आकाङ्क्षंस् तत्रोपपद्यते, स इमैर् मनसिकारैर् रात्रिंदिवं विहरति यद् उत बुद्धमनसिकारैः. तत् कस्य हेतोः? तथा हि प्रायेण सुभूते ऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः कामधातुप्रतिसंयुक्तान् मनसिकारान् उत्पादयित्वा दशभिः कुशलैः कर्मपथैर् वर्तमानाः तेषु बुद्धक्षेत्रेषूपपद्यन्ते, यत्र संमुखीभूतास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति. तत्र प्रथमं ध्यानम् उत्पादयित्वा यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उत्पादयित्वा तत्रोपपद्यन्ते, यत्र संमुखीभूतास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मार्गे धर्मज्ञानक्षान्तिः

पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽध्यात्मशून्यतायां स्थितस्य यावद् अभावस्वभावशून्यतायां स्थितस्य स्मृत्युपस्थाने स्थितस्य सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्थितस्याप्रमाणध्यानारूप्यसमापत्तिषु स्थितस्यार्यसत्येषु स्थितस्य शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थितस्य सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु स्थितस्याभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्थितस्य नैवं भवत्य्, अविनिवर्तनीयो वाहं न वाहम् अविनिवर्तनीय इति विचिकित्सा चास्य नोत्पद्यते. निःसंशयश् च भवति स्वकायां भूमौ. तत् कस्य हेतोः? तथा हि सो ऽणुम् अपि धर्मं न समनुपश्यति, यो विवर्तते वा न वा विवर्तते. तद्यथापि नाम सुभूते स्रोतआपन्नः स्रोतआपत्तिफलभूमौ स्थितो न काङ्क्षति न विचिकित्सति स्वकायां भूमाव् एवं सकृदागाम्यनागाम्यर्हत्त्वभूमौ स्थितो बुद्धभूमौ स्थितो न काङ्क्षति न विचिकित्सत्य्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः स्वकायां भूमौ न काङ्क्षति न विचिकित्सति. (psp_4:160) स तत्राविनिवर्तनीयभूमौ स्थितो बुद्धक्षेत्रञ् च परिशोधयति, सत्त्वांश् च परिपाचयत्य्, उत्पन्नोत्पन्नानि च मारकर्माणि बुध्यते, न च मारकर्माणां वशेन गच्छति, सर्वाणि च तानि मारकर्माणि बुध्यते बुद्ध्वा च विध्वस्तानि विरलीकरोति. तद्यथापि नाम सुभूते पुरुष आनन्तर्यकर्मकारी आनन्तर्यचित्तेनाविरहितो यावन् मरणकालम् इत्य् अनुवर्तत एव तद् आनन्तर्यचित्तं, न च तत्रानन्तर्यचित्तं शक्नोति विष्कम्भयितुम्, अनुवर्तते चास्य तत् पर्युत्थानं यावन् मरणकालम्. एवम् एव सुभूते

ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य तद् अविनिवर्तनीयचित्तं भूतं स्थितम् अविनिवर्तनीयभूमाव् अविकम्पन् तच् चित्तं, न शक्यते सदेवमानुषासुरेण लोकेन विवर्तयितुम्. तत् कस्य हेतोः? तथा हि तद् अविनिवर्तनीयचित्तं सदेवमानुषासुरम् अतिक्रम्य सम्यक्त्वनियामम् अवक्रान्तं स स्वकायां भूमौ स्थित्वाभिज्ञापरमपारमिताः प्राप्य बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, तेषु च बुद्धक्षेत्रेषु कुशलमूलान्य् अवरोपयित्वा तांश् च बुद्धान् भगवतः परिपृच्छति परिप्रश्नयति पर्युपास्ते.

स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः तथा स्थितः, स मान उत्पन्नोत्पन्नानि च मारकर्माण्य् अवबुध्यते, उत्पन्नोत्पन्नानाञ् च मारकर्माणां वशेन न गच्छति, तानि च मारकर्माण्य् उपायकौशल्येन भूतकोटीः शोधयति, स्वकायाञ् च भूमौ न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? तथा हि स निःकाङ्क्षो भूतकोट्याः, न भूतकोटिम् एकां वा द्वे वा विकल्पयति, तस्य जातिविनिवृत्तस्यापि न श्रावकप्रत्येकबुद्धभूमौ चित्तम् उत्पद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यति. इति मार्गे धर्मज्ञानम्

तस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य स्वलक्षणशून्येषु सर्वधर्मेषु न कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यते. जातिविनिवृत्तस्यापि नैवं भवति, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम्, अभिसंभोत्स्य एवाहम् अनुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि सुभूते स्वलक्षणशून्या अनुत्तरा सम्यक्संबोधिः. (psp_4:161)

स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं स्थितः स्वकायां भूमाव्, अपरप्रत्ययः स्वकायां भूमाव्, अनवमर्दनीयः स्वकायां भूमौ. तत् कस्य हेतोः? तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व एवं स्थितो ऽसंहार्येण ज्ञानेन समन्वागतो भवति.

सचेत् खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: ऽहैव त्वम् अर्हत्त्वं प्राप्नु हि, न त्वं व्याकृतो ऽनुत्तरायां सरोयक्संबोधौ, न च त्वयानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धो, येन त्वं व्याक्रियथास् तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ, न च त्वयि ते आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ.

सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वस् तद् वचनं श्रुत्वा नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, न च चित्तस्यान्यथा त्वं भवति वेदितव्यं, सुभूते बोधिसत्त्वेन महासत्त्वेन व्याकृतो ऽहं तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि मम ते धर्माः संविद्यन्ते यैर् धर्मैर् बोधिसत्त्वा महासत्त्वा व्याक्रियन्ते ऽनुत्तरायां सम्यक्संबोधौ. इति मार्गे ऽन्वयज्ञानक्षान्तिः

सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: माराधिष्ठितो वा पुरुषः श्रावकत्वे त्वं कुलपुत्र व्याकृतो न त्वम् अनुत्तरायां सम्यक्संबोधौ, किं ते ऽनुत्तरया सम्यक्संबोध्या.

सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भविष्यति, मारो बतायं पापीयान् बुद्धवेषेणोपसंक्रान्तो माराधिष्ठितो वा पुरुषो, न च तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वं महासत्त्वं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा समादापयति.

सचेद् अयम् अस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: नैतद् बुद्धभाषितं न श्रावकैर् मारभाषितान्य् एतानि सूत्राणि यत्र त्वं चरसि. वेदितव्यम् एतद् बोधिसत्त्वेन महासत्त्वेन मारो बतायं पापीयान् माराधिष्ठितो वा पुरुषो, यो माम् अमुत्तरायाः सम्यक्संबोधेर् विवेचयति. वेदितव्यम् एतत् सुभूते व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वः तैः पूर्वकैस् तथागतैर् (psp_4:162) अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयायां भूमौ. तत् कस्य हेतोः? तथा ह्य् अस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य त आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः.

पुनर् अपरं सुभूते ऽविनिवर्तनियो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सद्धर्मपरिग्रहस्य कृतेनात्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतेनैव योगम् आपद्यते ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सद्धर्मपरिग्रहं करोति. तत्र कतरो धर्मो यस्य कृतेन बोधिसत्त्वो महासत्त्व आत्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति? इह सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्माः शून्या इति धर्मं देशयति, तत्रैके मोहपुरुषाः प्रतिक्रोशन्ति प्रतिवहन्ति नैष धर्मो न विनयो नैतच् छास्तुः शासनम्, अस्य सुभूते कृतशो बोधिसत्त्वो महासत्त्व आत्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेनैवम् उपपरीक्षितव्यं, ये ऽपि ते तथागता अर्हन्तः सम्यक्संबुद्धा धर्मं भाषिष्यन्ते, अहम् अपि तत्र गणनां यास्याम्य् अहम् अपि तत्र व्याकृतो ममाप्य् एष धर्मो यस्य धर्मस्य कृतेनाहम् आत्मपरित्यागं करोमि जीवितपरित्यागं करोमीमं सुभूते ऽर्थवशं संपश्य बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतेनात्मपरित्यागं करोति जीवितपरित्यागं करोत्य्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस् तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न काङ्क्षति न विचिकित्सति, यं च ते बुद्धा भगवन्तो धर्मं भाषन्ते तं सर्वम् उद्गृह्णाति तथोद्गृहीतञ् च समानं न विप्रणाशयति. तत् कस्य हेतोः? यथापि तद् धारणीप्रतिलब्धत्वात्.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमस्या भगवन् धारण्याः प्रतिलब्धत्वाद् बोधिसत्त्वस्य महासत्त्वस्य तथागतभाषिताः सूत्रान्ता न विप्रणश्यन्ति? (psp_4:163)

भगवान् आह: धारणधारणीप्रतिलब्धस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य तथागतभाषिताः सूत्रान्ता न विप्रणश्यन्ति.

सुभूतिर् आह: तथागतस्यैव भगवन्न् अर्हतः सम्यक्संबुद्धस्य न श्रावकभाषितानि न देवभाषितानि न नागभाषितानि न यक्षभाषितानि न गन्धर्वभाषितानि नासुरभाषितानि न गरुडभाषितानि न किंनरभाषितानि न महोरगभाषितानि.

भगवान् आह: ये केचित् सुभूते रुतसंकेतघोषाः सर्वत्र बोधिसत्त्वो महासत्त्वो न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? यथापि नाम तद् धारणधारणीप्रतिलब्धत्वाद्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महागुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, प्रमाणगुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, ऽपरिमितगुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत् महागुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, ऽप्रमाणगुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, परिमितगुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? तथा ह्य् अनेनानन्तम् अपर्यन्तं ज्ञानं प्रतिलब्धम् असंहार्यं श्रावकप्रत्येकबुद्धैस्, तत्र च ज्ञाने स्थित्वाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रतिसंविदो ऽभिनिर्हरति याभिः प्रतिसंविद्भिर् अभिनिर्हृताभिः सदेवमानुषासुरेण लोकेन न शक्यः पर्यादातुम्. इति मार्गे ऽन्वयज्ञानम् इति दर्शनमार्गस्थावैवर्तिकलक्षणम्

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रतिबलो भगवांस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गङ्गानदीवालुकोपमान् कल्पान् आकारलिङ्गनिमित्तानि निर्देष्टुं यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रभाव्यते साधु भगवन् गम्भीराणि गम्भिराणि स्थानानि निर्दिशतु यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरंश् चत्वारि स्मृत्युपस्थानानि परिपूरयति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् (psp_4:164) परिपूरयति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां परिपूरयति, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तिः परिपूरयति, शून्यतानिमित्ताप्रणिहिताभिज्ञाः परिपूरयति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, सर्वाकारज्ञतां परिपूरयति. इति गम्भीरो भावनामार्गः

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु सुभूते, साधु खलु पुनस् त्वं सुभूते यस् त्वम् अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम् अर्थाय गम्भीराणि गम्भीराणि स्थानानि परिपृच्छितव्यानि मन्यसे, गम्भीरम् इति सुभूते शून्यताया एतद् अधिवचनम् आनिमित्तस्याप्रणिहितस्यानभिसंस्कारस्यानुत्पादस्यानिरोधस्यानिर्वाणस्याशान्तस्य तथताया भूतकोटेर् धर्मधातोर् इमानि तानि सुभूते गम्भीरगम्भीराणि स्थानानि येषाम् एतद् अधिवचनं यद् इदं निर्वाणम् इति.

सुभूतिर् आह: निर्वाणस्यैवैतद् भगवन्न् अधिवचनं न पुनर् भगवन् सर्वधर्माणाम्? भगवान् आह: सर्वधर्माणाम् एवैतत् सुभूते ऽधिवचनं गम्भीरम् इति. तत् कस्य हेतोः? रूपं सुभूते गम्भीरम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् अपि सुभूते गम्भीरं, चक्षुर् अपि सुभूते गम्भीरम्, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽपि सुभूते गम्भीरं, रूपशब्दगन्धरसस्प्रष्टव्यधर्मा अपि सुभूते गम्भीराश्, चक्षुर्विज्ञानं सुभूते गम्भीरं, चक्षुःसंस्पर्शः सुभूते गम्भीरः, चक्षुःसंस्पर्शप्रत्यया वेदना सुभूते गम्भीरा. एवं श्रोत्रं घ्राणं जिह्वा कायो, मनोविज्ञानं सुभूते गम्भीरं, मनःसंस्पर्शः सुभूते गम्भीरः, मनःसंस्पर्शप्रत्यया वेदना सुभूते गम्भीरा, पृथिवीधातुर् अपि सुभूते गम्भीरः, एवम् अब्धातुः तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुः सुभूते गम्भीरः. प्रतीत्यसमुत्पादः सुभूते गम्भीरो, ऽविद्या सुभूते गम्भीरा, एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर् जरामरणं शोकपरिदेवदुष्खदौर्मनस्योपायासाः सुभूते गम्भीराः, सर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखं सुभूते गम्भीरं, सप्तत्रिंशद्बोधिपक्ष्या धर्माः सुभूते गम्भीरा, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि सुभूते गम्भीराणि, त्रीणि विमोक्षमुखानि सुभूते गम्भीराणि, (psp_4:165) अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सुभूते गम्भीराः, बोधिर् अपि सुभूते गम्भीरा. कथञ् च पुनः सुभूते रूपं गम्भीरं? यथा रूपतथता तथा गम्भीरं, यथा वेदनातथता तथा गम्भीरं, यथा संज्ञातथता तथा

गम्भीरं, यथा संस्कारतथता तथा गम्भीरं, यथा विज्ञानतथता तथा गम्भीरं, यथा स्कन्धधात्वायतनतथता तथा गम्भीरं, यथा प्रतीत्यसमुत्पादतथता तथा गम्भीरं, यथा प्रतीत्यसमुत्पादाङ्गतथता तथा गम्भीरम्, एवं यथा सर्वपारमितातथता तथा गम्भीरं, यथा सर्वशून्यतातथता तथा गम्भीरं, यथा बोधिपक्ष्याणां धर्माणां तथता तथा गम्भीरं, यथार्यसत्याप्रमाणध्यानारूप्यसमापत्तितथता तथा गम्भीरं, यथा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता तथा गम्भीरं, यथा शून्यतानिमित्ताप्रणिहिताभिज्ञातथता तथा गम्भीरं, यथा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मतथता तथा गम्भीरं, यथा बोधितथता तथा गम्भीरम्. इति भावनामार्गगाम्भीर्यम्

सुभूतिर् आह: कथं भगवन् रूपस्य तथता?

भगवान् आह: यत्र सुभूते तथतायां न रूपं नान्यत्र रूपाद्, यत्र सुभूते तथतायां न वेदना नान्यत्र वेदनायाः, यत्र सुभूते तथतायां न संज्ञा नान्यत्र संज्ञयाः, यत्र सुभूते तथतायां न संस्कारा नान्यत्र संस्कारेभ्यो, यत्र सुभूते तथतायां न विज्ञानं नान्यत्र विज्ञानाद्. एवं यत्र सुभूते तथतायां न स्कन्धधात्वायतनानि नान्यत्र स्कन्धधात्वायतनेभ्यो, यत्र सुभूते तथतायां न प्रतीत्यसमुत्पादो नान्यत्र प्रतीत्यसमुत्पादाद्, यत्र सुभूते तथतायां न प्रतीत्यसमुत्पादङ्गानि नान्यत्र प्रतीत्यसमुत्पादाङ्गेभ्यो, यत्र सुभूते तथतायां न सर्वपारमिता नान्यत्र सर्वपारमिताभ्यो, यत्र सुभूते तथतायां न सर्वशून्यता नान्यत्र सर्वशून्यताभ्यो, यत्र सुभूते तथतायां न बोधिपक्ष्या धर्मा नान्यत्र बोधिपक्षेभ्यो धर्मेभ्यो, यत्र सुभूते तथतायां न सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि नान्यत्र सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेभ्यो यत्र सुभूते तथतायां नार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो नान्यत्रार्यसत्याप्रमाणध्यानारूप्यसमापत्तिभ्यो, यत्र सुभूते तथतायां नाभिज्ञादशबलवैशारद्यप्रतिसंविदो नान्यत्राभिज्ञादशबलवैशारद्यप्रतिसंविद्भ्यो, यत्र सुभूते तथतायां नावेणिकाबुद्धधर्मा नान्यत्रावेणिकेभ्यो बुद्धधर्मेभ्यो, यत्र सुभूते तथतायां न बोधिर् नान्यत्र बोधेः तथता. (psp_4:166)

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावत् सूक्ष्मेणोपायेनाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो रूपतश् च वारितो निर्वाणं च सूचितम्. एवं वेदनायाः संज्ञायाः संस्कारेभ्यो, विज्ञानतश् च वारितो निर्वाणं च सूचितं, सर्वधर्मसंग्रहे ऽप्य् अस्य लौकिकलोकोत्तरेण सास्रवेणानास्रवेण सास्रवाणास्रवेभ्यो वारितो निर्वाणं च सूचितम्. इति भावनामार्गस्य समारोपापवादान्तमुक्ता

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदा पुनः सुभूते बोधिसत्त्वो महासत्त्व इमानि गम्भीरगम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि चिन्तयिष्यति तुलयिष्यत्य् उपनिध्यास्यति. इति भावनापथः

एवं मया स्थातव्यं यथा प्रज्ञापारमितायाम् आज्ञप्तम्, एवं मया शिक्षितव्यं यथा प्रज्ञापारमितायाम् आख्यातम्, एवं मया प्रतिपत्तव्यं यथा प्रज्ञापारमितायाम् उद्दिष्टम् इत्य्. अयं सुभूते बोधिसत्त्वो महासत्त्वः तथा संपादयंस् तथोपनिध्यायंस् तथोपपरीक्षमाणस् तथा प्रयुज्यमानस् तथा घटमानस् तथा व्यायच्छमानः. इति निर्वेधाङ्गदो भावनापथः

स तेन चित्तोत्पादेनासंख्येयम् अप्रमेयम् अपरिमाणकुशलमूलं परिग्रहीष्यत्य् अपरिमाणात् कल्पात् संसाराच् छोरयिष्यति विपृष्ठीकरिष्यति व्यन्तीकरिष्यति, कः पुनर् वादो यदाव्यवकीर्णः प्रज्ञापारमितायांश् चरन् बोधिप्रतिसंयुक्तैर् मनसिकारैर् विहरिष्यति. तद्यथापि नाम सुभूते स पुरुषो रागचरितो वितर्कचरितस् तस्यान्यतरया स्त्रिया सार्धम् अभिरूपया प्रासादिकया दर्शनीयया सह संकेतः कृतः स्यात् सा च स्त्री परपरिगृहीता न लभते गृहतो निष्क्रमणाय. तत् किं मन्यसे? सुभूते किं प्रतिसंयुक्तास् तस्य पुरुषस्य वितर्का वर्तेरन्न् इति.

सुभूतिर् आह: स्त्रीप्रतिसंयुक्ता एवं भगवंस् तस्य पुरुषस्य वितर्का वर्तेरन्न्, इयं मे स्त्री आगता एतया सार्धं निषीदिष्यामि प्रतिक्रमिष्यामि परिचारयिष्यामीति.

भगवान् आह: तत् किं मन्यसे? सुभूते रात्र्या वा दिवसस्य वात्ययेन कियन्तस् तस्य पुरुषस्य वितर्का वर्तेरन्.

सुभूतिर् आह: बहवो भगवन् बहवः सुगत तस्य पुरुषस्य दिवसस्य वात्ययेन रात्र्या वात्ययेन वितर्का वर्तेरन्. (psp_4:167)

भगवान् आह: यावन्तः सुभूते तस्य पुरुषस्य दिवसस्य वात्ययेन रात्र्या वात्ययेन वितर्का वर्तन्ते, इयतः कल्पान् स बोधि सत्त्वो महासत्त्वः संसाराच् छोरयति विपृष्ठीकरोति व्यन्तीकरोति य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां शिक्षते उपपरीक्षते उपनिध्यायति तथा तथा च योगम् आपद्यते, यथा यथा तान् दोषान् विवर्जयति यैर् दोषैर् बोधिसत्त्वा महासत्त्वा विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. एवं योगन् अनुयुक्तस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्यानेन विहारेण विहरतो यथा प्रज्ञापारमितायाम् उपदिष्टायाम् एकदिवसेन यत् कुशलमूलं येन कुशलमूलेन गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः स्युर्, नेदं तस्य कुशलस्य शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि यावत् कोटीनियुतशतसहस्रतमीम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिशाम् अपि उपनिषदम् अपि नोपैति. इति त्रिविधो ऽनुशंसः

पुनर् अपरं सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पान् दानं दद्यात् त्रिषु रत्नेषु बुद्धरत्ने धर्मरत्ने संघरत्ने. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.

सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो ऽधिमात्राधिमात्रः

भगवान् आह: अयम् एव ततः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्यते. तत् कस्य हेतोः? एष हि बोधिसत्त्वानां महासत्त्वानां मार्गो येनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति प्रतिपक्षो मृदुमृदुः

तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् स्रोतआपन्नेषु दक्षिणां प्रतिष्ठापयेद्, एवं सकृदागामिष्व् अनागामिष्व् अर्हत्सु दक्षिणां प्रतिष्ठापयेत्, प्रत्येकबुद्धेषु तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु दक्षिणां प्रतिष्ठापयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्. (psp_4:168)

सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो ऽधिमात्रमध्यः

भगवान् आह: अयम् एव ततः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्यते. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इति प्रतिपक्षो मृदुमध्यः

तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् दानं दद्याच् छीलं रक्षेत् क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां भावयेत् ततोनिदानं बहुपुण्यं प्रसवेत्.

सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो ऽधिमात्रमृदुः

भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि दानं दद्याच् छीलं रक्षेत् क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां भावयेत्. तत् कस्य हेतोः? मातैषा बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता जनयित्री चैषा बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. अत्र हि सुभूते प्रज्ञापारमितायां स्थित्वा बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् परिपूरयन्ति. इति प्रतिपक्षो मृद्वधिमात्रः

तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् सत्त्वेभ्यो धर्मदानं दद्यात्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.

सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मध्याधिमात्रः

भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि सत्त्वेभ्यो धर्मदानं दद्यात्. तत् कस्य हेतोः? तथा हि सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितः (psp_4:169) स सर्वाकारज्ञतयाविरहितो यः पुनः सुभूते बोधिसत्त्वो महिसत्त्वः प्रज्ञापारमितयाविरहितः सर्वाकारज्ञतयाविरहितः, तस्मत् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितयाविरहितेन भवितव्यम्. इति प्रतिपक्षो मध्यमृदुः

तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पान् योगम् आपद्येत चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिर् योगम् आपद्येत चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टङ्गेन मार्गेण योगम् आपद्येत चतुर्भिर् आर्यसत्यैर् अष्टभिर् विमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः शून्यतानिमित्ता प्रणिहितसमाधिभिर् यावद् अष्टादशभिर् आवेणिकबुद्धधर्मैर् योगम् आपद्येत. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.

सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मध्यमध्यः

भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायाम् एकम् अपि दिवसं योगम् आपद्येत चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतानिमित्ताप्रणिहितसमाधिभिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् योगम् आपद्येत. तत् कस्य हेतोः? अस्थानं सुभूते ऽनवकाशो यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितः सर्वाकारज्ञताया विवर्तते नेदं स्थानं विद्यते. स्थानञ् च खलु पुनः सुभूते ऽवकाशश् च यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितः सर्वाकारज्ञताया विवर्तते, स्थानम् एतद् विद्यते. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितयाविरहितेन भवितव्यम्. इति प्रतिपक्षो मध्यमध्यः

तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया (psp_4:170) विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठंस् तद् आमिषदानं धर्मदानं ताभ्यां प्रतिसंलयनप्रतिसंयुक्तान् मनसिकारान् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.

सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मध्यमृदुः

भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि तद् आमिषदानं धर्मदानं ताभ्यां च प्रज्ञापारमिताप्रतिसंलयनप्रतिसंयुक्तान् मनसिकारान् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? एष हि परमः परिणामो यद् उत प्रज्ञापारमितापरिणामः. यः पुनः प्रज्ञापारमितया विरहितः परिणामो न स परिणामः. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितापरिणामना कुशलमूलेन भवितव्यम्. इति प्रतिपक्षो मध्याधिमात्रः

तत् किं मन्यसे? सुभूते यः कश्चित् कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताविरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन्न् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानां यं कुशलमूलं तत् सर्वम् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मृद्वधिमात्रः

भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि यं कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? एष हि परमो ऽनुमोदनापरिणामो यद् उत प्रज्ञापारमितानुमोदना परिणामस्, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितानुमोदनापरिणामना कुशलमूलेन भवितव्यम्. इति प्रतिपक्षो ऽधिमात्रमृदुः

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा पुनर् भगवन्न् अभिसंस्कारः कल्पित इत्य् उक्तो भगवता तदा कथं स (psp_4:171) कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्? न च भगवन्न् अभिसंस्कारेण शक्या सम्यग्दृष्टिर् वा नियामो वावक्रमितुं स्रोतआपत्तिफलं वानुप्राप्तुं सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वानुप्राप्तुं प्रत्येकां वा बोधिम् अनुप्राप्तुम् अनुत्तरां सम्यक् संबोधिम् अभिसंबोद्धुम्. इति विपक्षो मृदुमध्यः

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न ह्य् अभिसंस्कारेण शक्या सम्यग्दृष्टिर् वा नियामो वावक्रमितुं स्रोतआपत्तिफलं वा अनुप्राप्तुं सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वानुप्राप्तुं प्रत्येकां वा बोधिम् अनुप्राप्तुम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स चापि सुभूते अभिसंस्कारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः शून्यक एवाख्यायते, रिक्तक एवाख्यायते, तुच्छक एवाख्यायते, असारक एवाख्यायते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितो बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सुशिक्षितः. इति प्रतिपक्षो ऽधिमात्रमध्यः

स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो इह शून्यतायां स्थित्वा यथा यथाभिसंस्कारान् प्रत्यवेक्षते तथा तथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति, यथा यथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति तथा तथासंख्येयम् अप्रमेयम् अपरिमाणं पुण्यं प्रसवेत्. इत्य् अर्थक्षिप्तविपक्षस्य मृदुमृदुः प्रतिपक्षो ऽधिमात्राधिमात्रः इति भावनामार्गस्थावैवर्तिकलक्षणम्

सुभूतिर् आह: असंख्येयस्य च भगवन्न् अप्रमेयस्य चापरिमाणस्य च कः प्रतिविशेषः? किं नानाकरणम्?

भगवान् आह: असंख्येयम् इति सुभूते यस्य संख्या न विद्यते यः संख्यान् नोपैति, असंख्येयम् इति वा अप्रमाणम् इति वा सुभूते यस्य प्रमाणन् नोपलभ्यते ऽतीतानागतप्रत्युत्पन्नेषु धर्मेषु, अपरिमाणम् इति सुभूते यन् न शक्यं प्रमातुम्.

सुभूतिर् आह: स्याद् भगवन् पर्यायो यद् रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदना संज्ञा संस्कारा विज्ञानम् अपि भगवन्न् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्. (psp_4:172)

भगवान् आह: स्यात् सुभूते पर्यायो येन पर्यायेण रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदनापि संज्ञापि संस्कारा अपि, विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्याद् इत्य् असंख्येयादीनाम् उपलक्षणाम्.

कतमेन भगवन् पर्यायेण रूपम् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदना संज्ञा संस्कारा, विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्?

भगवान् आह: रूपं सुभूते शून्यम् असं ख्येयम् अप्रमेयम् अपरिमाणं, वेदना संज्ञा संस्कारा, विज्ञानं सुभूते शून्यम् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्.

सुभूतिर् आह: किं पुनर् भगवन् रूपम् एव शून्यं, वेदना संज्ञा संस्कारा, विज्ञानम् एव शून्यं, न पुनः सर्वधर्मा अपि शून्याः?

भगवान् आह: तत् किं मन्यसे? सुभूते न मया सर्वधर्माः शून्या इत्य् आख्याताः.

सुभूतिर् आह: शून्या इति भगवन् सर्वधर्मास् तथागतेनाख्याता, ये च भगवन् शून्या अक्षया अपि ते, असंख्येया अपि ते अप्रमेया अपि ते, अपरिमाणा अपि ते, न भगवन् शून्यतायाः संख्योपलभ्यते, न प्रमाणम् उपलभ्यते, न परिमाणम् उपलभ्यते, इत्य् असंख्येयादीनां स्वभावलक्षणं, तस्मात् तर्हि भगवन् नैषां धर्माणाम् अर्थतो वा व्यञ्जनतो वा नानाकरणम् उपलभ्यते.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नैषां धर्माणाम् अर्थतो वा व्यञ्जनतो वा नानाकरणम् उपलभ्यते. अनभिलप्यम् एतत् सुभूते तथागतेनाभिलपितम्, अक्षयम् इति वा असंख्येयम् इति वा अप्रमेयम् इति वा अपरिमाणम् इति वा शून्यम् इति वा आनिमित्तम् इति वा अप्रणिहितम् इति वा अनभिसंस्कारम् इति वा अनुत्पाद इति वा विराग इति वा निरोध इति वा निर्वाणम् इति वा देशनानिष्पन्दनिर्देश एष सुभूते तथागतस्याक्षयम् इति यावन् निर्वाणम् इति चेति चोद्यपूर्वकस् तथागतकरुणानिष्पन्दनिर्देशः.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं धर्माणां धर्मता तथागतेन देश्यते, सा च धर्मता अनभिलप्या यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, तथा सर्वधर्मा भगवन्न् अनभिलप्याः. (psp_4:173)

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते अनभिलप्या, या सुभूते धर्माणाम् अनभिलप्यता सा शून्यता, न च शून्यता शक्याभिलपितुम्.

सुभूतिर् आह: किं पुनर् भगवन्न् अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा?

भगवान् आह: न सुभूते अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिर्.

सुभूतिर् आह: सचेद् भगवन्न् अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिः, दानपारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, एवं शीलक्षान्तिवीर्यध्यानपारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, प्रज्ञापारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, चतुर्णां स्मृत्युपस्थानानां न वृद्धिर् न परिहाणिर् भविष्यति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य न वृद्धिर् न परिहाणिर् भविष्यति, अष्टानां विमोक्षाणां न वृद्धिर् न परिहाणिर् भविष्यति, नवानुपूर्वविहारसमापत्तीनाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् आर्यसत्यानां शून्यतानिमित्ताप्रणिहिताभिज्ञानं न वृद्धिर् न परिहाणिर् भविष्यति, दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां न वृद्धिर् न परिहाणिर् भविष्यति अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया न वृद्धिर् न परिहाणिर् भविष्यति, अष्टादशानाम् आवेणिकबुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति. सचेद् भगवन्न् आसां षण्णां पारमितानां न वृद्धिर् न परिहाणिर् भविष्यति, यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति, तदा अभव्या हि भगवन् सर्वाकारज्ञतानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् इत्य् अनभिलप्यस्य हानिवृद्ध्या भावेन चोद्यम्.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नानभिलप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा. सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः प्रज्ञापारमितायां योगम् आपद्यमानस्योपायकुशलस्य नैवं भवति, अहं प्रज्ञापारमितया विवर्द्धे, ऽहं ध्यानपारमितया विवर्द्धे, ऽहं वीर्यपारमितया विवर्द्धे, ऽहं क्षान्तिपारमितया विवर्द्धे, ऽहं शीलपारमितया विवर्द्धे, ऽहं दानपारमितया विवर्द्धे. एष च पुनर् अस्यैवं भवति, नामधेयमात्रम् एतद् यद् इदं दानपारमिता, स दानपारमितायां (psp_4:174) चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथानुत्तरा सम्यक्संबोधिर्, एवं शीलक्षान्तिवीर्यध्यानपारमिता प्रज्ञापारमितायां चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति यथानुत्तरा सम्यक्संबोधिर् इति परिहारः.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा च पुनर् भगवन्न् अनुत्तरा सम्यक्संबोधिः?

भगवान् आह: सर्वधर्माणां तथतानुत्तरा सम्यक्संबोधिः.

सुभूतिर् आह: कतमैषा भगवन् सर्वधर्माणां तथता यानुत्तरा सम्यक्संबोधिः?

भगवान् आह: या सुभूते रूपस्य तथता या वेदनायास् तथता या संज्ञयाः तथता या संस्काराणां तथता या विज्ञानस्य तथता, एवं या स्कन्धतथता या धातुतथता या आयतनतथता या प्रतीत्यसमुत्पादतथता या प्रतीत्यसमुत्पादाङ्गतथता, एवं यावद् या निर्वाणस्य तथता सानुत्तरा सम्यक्संबोधिः, सा नैव विवर्द्धते न परिहीयते. तत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो ऽभीक्स्णं बहुलं विहरति, न कस्यचिद् धर्मस्य वृद्धिं वा परिहाणिं वा समनुपश्यति. एवं खलु सुभूते अनभिलप्यस्यार्थस्य नैव वृद्धिर् न परिहाणिर्, एवं च सुभूते दानपारमिताया न वृद्धिर् न परिहाणिर्, एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया न वृद्धिर् न परिहाणिर्, एवं शून्यतानां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानाम् अभिज्ञानां शून्यतानिमित्ताप्रणिहितानां दशानां बलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अवृद्ध्यपरिहाणियोगेन. इति बोधिलक्षणम्

सुभूतिर् आह: तत् किं प्रथमचित्तोत्पादेन भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, उताहो पश्चिमेन चित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? यदि तावद् भगवन् बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादेनानुत्तरां (psp_4:175) सम्यक्संबोधिम् अभिसंबुध्यते, तत् पूर्वकश् चित्तोत्पादः पश्चिमेन चित्तोत्पादेनासमवसृतः, पश्चिमश् चित्तोत्पादः पूर्वकेन चित्तोत्पादेनासमवसृतः, एवम् असमवसृतानां भगवंश् चित्तचैतसिकानां धर्माणां कथं कुशलमूलान्य् उपचयं गच्छन्ति, न चानुपचितैः कुशलमूलैः शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्? इति मनसोर् असमवधानेन चोद्यम्

भगवान् आह: तेन हि सुभूते उपमां ते करिष्याम्य् अस्यैवार्थस्य विज्ञापनाय, उपमया इहैकत्या विद्वांसः पुरुषा भाषितस्यार्थम् आज्ञास्यन्ति. तत् किं मन्यसे? सुभूते तैलप्रद्योतस्य ज्वलितस्य दीप्यमानायां वर्तौ प्रथमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा, उताहो पश्चिमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा.

सुभूतिर् आह: न भगवन् प्रथमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा न च प्रथमाभिनिपातम् अनागम्यार्चिषः सा वर्तिर् दग्धा, न भगवन् पश्चिमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा, न च पश्चिमाभिनिपातम् अनागम्यार्चिषः सा वर्तिर् दग्धा.

भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु सा वर्तिर् दग्धा.

सुभूतिर् आह: दग्धा भगवन् दग्धा सुगत.

भगवान् आह: एवम् एव सुभूते न प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च प्रथमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादेन सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अत्र हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय दश भूमीः परिपूरयित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.

सुभूतिर् आह: कतमा भगवन् दश भूमीः परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?

भगवान् आह: शुक्लविपश्यनाभूमिं सुभूते परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृतावीभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् (psp_4:176) अभिसंबुध्यते, श्रावकप्रत्येकबुद्धभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बोधिसत्त्वभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बुद्धभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तत्र बोधिसत्त्वो महासत्त्वो दशसु भूमिषु शिक्षमाणो न च प्रथमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च प्रथमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधिम्. इति दीपदृष्टान्तेन परिहारः

सुभूतिर् आह: गम्भीरो भगवन् प्रतीत्यसमुत्पादो, न च नाम भगवन् प्रथमचित्तोत्पादेन, न च प्रथमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च नाम भगवन् पश्चिमेन चित्तोत्पादेन, न च पश्चिमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम्.

भगवान् आह: तत् किं मन्यसे? सुभूते यच् चित्तं निरुद्धम् अपि नु तत् पुनर् एवोत्पत्स्यते.

सुभूतिर् आह: नो हीदं भगवन्. इत्य् उत्पादगाम्भीर्यम्

भगवान् आह: तत् किं मन्यसे? सुभूते यच् चित्तम् उत्पन्नम् अपि नु तन् निरोधधर्मि.

सुभूतिर् आह: निरोधधर्मि भगवन् निरोधधर्मि सुगत.

भगवान् आह: तत् किं मन्यसे? सुभूते यन् निरोधधर्मि तन् निरोत्स्यते.

सुभूतिर् आह: नो हीदं भगवन्. इति निरोधगाम्भीर्यम्

भगवान् आह: तत् किं मन्यसे? सुभूते तथैव स्थास्यति यथा तथता. सुभूतिर् आह: तथैव भगवं स्थास्यति यथा तथता. (psp_4:177)

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.