Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 21/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इह सुभूते गम्भीरायां प्रज्ञापारमितायाम् उपपरीक्षितव्यो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यो, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां यो बोधिसत्त्वो महासत्त्वो नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यः. एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां नाभिनिविशेत, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नाभिनिविशेत, आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु नाभिनिविशेत, अष्टविमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेषु नाभिनिविशेत, समाधिधारणीमुखेष्व् अभिज्ञासु नाभिनिविशेत, दशबलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु नाभिनिविशेत, यः कश्चिद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः. यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरन् न परभाषितानि न परमन्त्रितानि सारतः परतः पश्यति सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरन् न परस्य श्रद्धया गच्छति सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह (psp_4:112) गम्भीरायां प्रज्ञापारमितायां चरन् न रागसहितैश् चित्तोत्पादैः संह्रियते न दोषमोहसहगतैश् चित्तोत्पादैः संह्रियते सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यः. यः कश्चिद् अविनिवर्तनीयो

बोधिसत्त्वो महासत्त्वो ऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं प्रज्ञापारमितया चाविरहितो भवति, अभिनन्दति प्रज्ञापारमिताश्रवणं श्रुत्वा चोद्गृह्णाति पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति तथत्वाय प्रतिपद्यते, वेदितव्यम् एतत् सुभूते पूर्वान्ततो ऽप्य् अनेनाविनिवर्तनीयेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता श्रुता उद्गृहीता पर्यवाप्ता धारिता वाचिता योनिशश् च मनसिकृता तथत्वाय प्रतिपन्ना. तत् कस्य हेतोः? तथा हि अविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं न प्रत्युदावर्तते उत्तरे च श्रुत्वा उद्गृह्णाति पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति तथत्वाय प्रतिपद्यते. इत्य् अनभिनिवेशस्वभावः

सुभूतिर् आह: यो भगवन् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं, कथं भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता व्यवचारयितव्या?

भगवान् आह: सर्वाकारज्ञता निम्नया सुभूते संतत्या तेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता व्यवचारयितव्या.

सुभूतिर् आह: कथं भगवन् सर्वाकारज्ञता निम्नया संतत्या बोधिसत्त्वस्य महासत्त्वस्य गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति?

भगवान् आह: शून्यतानिम्नया शून्यताप्रवणया शून्यताप्राग्भारया सुभूते संतत्या बोधिसत्त्वस्य महासत्त्वस्य इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति, आनिमित्तनिम्नया आनिमित्तप्रवणया आनिमित्तप्राग्भारया सुभूते संतत्या, अप्रणिहितनिम्नया अप्रणिहितप्रवणया (psp_4:113) अप्रणिहितप्राग्भारया सुभूते संतत्या, आकाशनिम्नया आकाशप्रवणया आकाशप्राग्भारया सुभूते संतत्या, यावद् भूतकोटिनिम्नया भूतकोटिप्रवणया भूतकोटिप्राग्भारया सुभूते संतत्या, अनभिसंस्कारनिम्नयानभिसंस्कारप्रवणयानभिसंस्कारप्राग्भारया सुभूते संतत्या इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति. स्वप्ननिम्नया निर्माणनिम्नया सुभूते संतत्या, मायानिम्नया मरीचिनिम्नया सुभूते संतत्या, प्रतिश्रुत्कानिम्नया प्रतिभासनिम्नया सुभूते संतत्या, प्रतिबिम्बनिम्नया गन्धर्वनगरनिम्नया सुभूते संतत्या इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति.

सुभूतिर् आह: यद् भगवान् एवम् आह, शून्यतानिम्नया शून्यताप्रवणया शून्यताप्राग्भारया संतत्या इह गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वानां महासत्त्वानां व्यवचारणा भवति. एवम् आनिमित्ताप्रणिहिताकाशानुत्पादानिरोधाजाताभावासंक्लेशाव्यवदानतथतावितथतानन्यतथताधर्मताधर्मस्थितिताधर्मनियामताचिन्त्यताभूतकोट्यनभिसंस्कारस्वप्ननिर्माणमायामरीचिप्रतिश्रुत्काप्रतिभासप्रतिबिम्बगन्धर्वनगरनिम्नया प्रवणया प्राग्भारया सुभूते संतत्या बोधिसत्त्वानां महासत्त्वानाम् इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति. किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो रूपम् अपि व्यवचारयति? वेदनां संज्ञां संस्कारान्, विज्ञानम् अपि व्यवचारयति? एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि व्यवचारयति? सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिधारणीमुखानि व्यवचारयति? सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् व्यवचारयति, अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञा व्यवचारयति? दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् व्यवचारयति? किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो यावत् सर्वाकारज्ञताम् अपि व्यवचारयति?

भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो रूपं व्यवचारयति, न वेदना संज्ञा संस्कारान् न विज्ञानं व्यवचारयति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न प्रतीत्यसमुत्पादाङ्गानि व्यवचारयति, न सर्वपारमिता न सर्वशून्यता व्यवचारयति, न बोधिपक्ष्यान् धर्मान् व्यवचारयति, नाप्रमाणध्यानारूप्यसमापत्तीर् नार्यसत्यानि व्यवचारयति, न विमोक्षसमाधिसमापत्तिधारणीमुखानि व्यवचारयति, (psp_4:114) न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् व्यवचारयति, न सुभूते बोधिसत्त्वो महासत्त्वो यावत् सर्वाकारज्ञतां व्यवचारयति. तत् कस्य हेतोः? तथा हि सुभूते सर्वाकारज्ञता न केनचित् कृता न कुतश्चिद् आगता न क्वचिद् गता नापि क्वचित् स्थिता न देशस्था न प्रदेशस्था न तस्याः संख्या उपलभ्यते, न गमनं नागमनम् उपलभ्यते, यस्याश् च न संख्या न गमनं नागमनम् उपलभ्यते, सा न शक्या केनचिद् अभिसंबोद्धुं, न रूपेण न वेदनया न संज्ञया न संस्कारैर् न विज्ञानेन न स्कन्धैर् न धातुभिर् नायतनैर् न प्रतीत्यसमुत्पादेन न प्रतीत्यसमुत्पादाङ्गैर्, न दानेन न शीलेन न क्षान्त्या न वीर्येण न ध्यानेन न प्रज्ञया यावन् न सर्वाकारज्ञता ज्ञानेनाभिसंबोद्धुम्. तत् कस्य हेतोः? रूपम् एव सर्वाकारज्ञता, वेदनैव संज्ञैव संस्कारा एव, विज्ञानम् एव सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि सुभूते या च रूपस्य तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा वेदनायाः संज्ञायाः संस्काराणां, या च विज्ञानस्य तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता

एकैवैषा तथताद्वयाद्वैधीकारा, या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च पारमितातथता, या च शून्यतातथता, या च बोधिपक्ष्यधर्मतथता, या चाप्रमाणध्यानारूप्यसमापत्तितथता या चार्यसत्यतथता, या च समाधिसमापत्तिधारणीमुखतथता, या च विमोक्षमुखतथता, या चाभिज्ञातथता, या च दशबलवैशारद्यप्रतिसंवित्तथता, या चावेणिकबुद्धधर्मतथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा.

अथ खलु कामावचरा रूपावचराश् च देवपुत्रा दिव्यानि चन्दनचूर्णानि गृहीत्वा दिव्यान्य् उत्पलकुमुदपुण्डरीकसौगन्धिकमान्दरवमहामान्दरवाणि गृहीत्वा येन भगवांस् तेनाक्षिपन्ति स्म, क्षिप्त्वा च (psp_4:115) येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तिष्ठन्, एकान्ते स्थिताश् च कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरा भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधातर्कातर्कावचरा शान्ता शूक्ष्मा निपुणपण्डितविज्ञवेदनीया सर्वलोकविप्रत्यनीका यद् उत तथागतानां बोधिर् यत्र नाम तथागता अर्हन्तः सम्यक्संबुद्धाः, एवं गम्भीरां प्रज्ञापारमिताम् एवं निपुणां निर्दिशन्ति, रूपम् एव सर्वाकारज्ञता सर्वाकारज्ञतैव रूपं, वेदना संज्ञा संस्कारा, विज्ञानम् एव सर्वाकारज्ञता सर्वाकारज्ञतैव विज्ञानम्. तत् कस्य हेतोः? या च रूपस्य तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च वेदनायास् तथता, या च संज्ञायास् तथता, या च संस्काराणां तथता, या च विज्ञानस्य तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च यावद् बुद्धानां भगवतां तथता, या च यावत् सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा.

एवम् उक्ते भगवांस् तान् कामावचारान् रूपावचारांश् च देवपुत्रान् एतद् अवोचत्: एवम् एतद् देवपुत्रा एवम् एतत्, रूपम् एव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्रा रूपं, वेदना संज्ञा संस्काराः, विज्ञानम् एव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्रा विज्ञानम्. तत् कस्य हेतोः? या च रूपस्य तथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च वेदनायास् तथता या च संज्ञायास् तथता या च संस्काराणां तथता, या च विज्ञानस्य तथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. दानपारमितैव सर्वाकारज्ञता सर्वाकारज्ञतैव (psp_4:116) दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमितैव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्राः प्रज्ञापारमिता. तत् कस्य हेतोः? या च दानपारमितातथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, या च प्रज्ञापारमितातथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. अध्यात्मशून्यतैव सर्वाकारज्ञता सर्वाकारज्ञतैवाध्यात्मशून्यता, एवं यावद् अभावस्वभावशून्यतैव सर्वाकारज्ञता सर्वाकारज्ञतैवाभावस्वभावशून्यता. तत् कस्य हेतोः? या चाभावस्वभावशून्यतायास्

तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. स्मृत्युपस्थानान्य् एव सर्वाकारज्ञता सर्वाकारज्ञतैव स्मृत्युपस्थानाइ, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा एव सर्वाकारज्ञता सर्वाकारज्ञतैव सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः. तत् कस्य हेतोः? या च स्मृत्युपस्थानतथता या च सर्वाकारज्ञतातथथा एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. अप्रमाणध्यानारूप्यसमापत्तय एव सर्वाकारज्ञता सर्वाकारज्ञतैवाप्रमाणध्यानारूप्यसमापत्तयः. तत् कस्य हेतोः? या चाप्रमाणध्यानारूप्यसमापत्तितथता या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाअद्वैधीकारा. एवम् आर्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञाविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविद्, आवेणिकबुद्धधर्मा एव सर्वाकारज्ञता सर्वाकारज्ञतैवावेणिकबुद्धधर्माः. तत् कस्य हेतोः? या चावेणिकबुद्धधर्माणां तथता, या च सर्वाकारज्ञतायास् तथथा एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धा, बुद्धा एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धाः. तत् कस्य हेतोः? या च बुद्धानां भगवतां तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. इदम् अपि देवपुत्रा अर्थवशं संपश्यंस् तथागतो ऽल्पोत्सुकतायां चित्तं नामयामास न धर्मदेशनायाम्. तत् कस्य हेतोः? गम्भीरो बतायं (psp_4:117) धर्मो दुर्दृशो दुरनुबोधो ऽतर्को

ऽतर्कावचरः शान्तः शूक्ष्मः पण्डितविज्ञवेदनीयः सर्वलोकविप्रत्यनीको यद् उतेयं तथागतानां बोधिः, सा न केनचिद् अभिसंबुद्धा न कदाचिद् अभिसंबुद्धा न क्वचिद् अभिसंबुद्धा इयं सा धर्माणां गम्भीरता धर्मता यत्र न द्वयसमुदाचारो नाद्वयसमुदाचारः संविद्यते. इत्य् आलम्बनस्वभावः

आकाशगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, तथतागम्भीरतया धर्मधातुगम्भीरतया भूतकोटीगम्भीरतया अचिन्त्यधर्मधातुगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, अनन्तापर्यन्तया अनागमनागमनतया अनुत्पादानिरोधसमतया असंक्लेशाव्यवदानसमतया, अनभिसंस्कारसमतया आत्मगम्भीरतया सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः. रूपगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, वेदनासंज्ञासंस्कारविज्ञानगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, स्कन्धगम्भीरतया धातुगम्भीरतयायतनगम्भीरतया प्रतीत्यसमुत्पादगम्भीरतया प्रतीत्यसमुत्पादाङ्गगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, दानपारमितागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, शीलपारमितागम्भीरतया क्षान्तिपारमितागम्भीरतया वीर्यपारमितागम्भीरतया ध्यानपारमितागम्भीरतया प्रज्ञापारमितागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, अध्यात्मशून्यतागम्भीरतया यावद् अभावस्वभावशून्यतागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, स्मृत्युपस्थानगम्भीरतया सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, अप्रमाणध्यानारूप्यसमापत्तिगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, आर्यसत्यगम्भीरतया शून्यतानिमित्ताप्रणिहितगम्भीरतया अभिज्ञागम्भीरतया सर्वविमोक्षसमाधिसमापत्तिधारणीमुखगम्भीरतया दशबलवैशारद्यप्रतिसंविद्गम्भीरतया अष्टादशावेणिकबुद्धधर्मगम्भीरतया, यावत् सर्वाकारज्ञतागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः.

एवम् उक्ते देवपुत्रा भगवन्तम् एतद् अवोचन्: सर्वलोकविप्रत्यनीको ऽयं भगवन् धर्मो देश्यते. तत् कस्य हेतोः? नायं भगवन् धर्मो रूपस्योद्ग्रहाय नानुद्ग्रहाय वा देश्यते, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्योद्ग्रहाय नानुद्ग्रहाय वा देश्यते, न (psp_4:118) स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानाम् उद्ग्रहाय नानुद्ग्रहाय वा देश्यते. एवं न सर्वशून्यतानां सप्तत्रिंशद्बोधिप्क्ष्याणां धर्माणां दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् उद्ग्रहाय वा नानुद्ग्रहाय वा धर्म उपदेश्यते, न सर्वधर्माणाम् उद्ग्रहाय नानुद्ग्रहाय वा धर्मो देश्यते, नायं भगवन् धर्मः स्रोतआपत्तिफलस्य उद्ग्रहाय नानुद्ग्रहाय वा देश्यते. एवं न सकृदागामिफलस्य नानागामिफलस्य नार्हत्त्वस्य न प्रत्येकबोधेर् यावत् सर्वाकारज्ञताया नोद्ग्रहाय नानुद्ग्रहाय वा धर्मो देश्यते, उद्ग्रहे च लोकश् चरति मम रूपं, मम वेदना मम संज्ञा मम संस्कारा मम विज्ञानं, मम स्कन्धा मम धातवो ममायतनानि मम प्रतीत्यसमुत्पादो ऽहं प्रतीत्यसमुत्पन्नः, मम दानम् अहं दानपतिर् मम शीलम् अहं शीलवान् मम क्षान्तिर् अहं क्षान्तिमान् मम वीर्यम् अहं वीर्यवान् मम ध्यानम् अहं ध्यानवान् मम प्रज्ञा अहं प्रज्ञावान्, ममाध्यात्मशून्यता अहम् अध्यात्मशून्यतां भावयामि यावन् ममाभावस्वभावशून्यताहम् अभावस्वभावशून्यतां भावयामि, मम स्मृत्युपस्थानानि मम सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा ममाप्रमाणध्यानारूप्यसमापत्तयो ममार्यसत्यानि ममाभिज्ञा मम विमोक्षसमाधिसमापत्तिधारणीमुखानि मम शून्यतानिमित्ताप्रणिहितानि अहं शून्यतानिमित्ताप्रणिहितवान् मम दशबलवैशारद्यप्रतिसंविदो ममाष्टादशावेणिकबुद्धधर्मा मम स्रोतआपत्तिफलम् अहं स्रोतआपन्नो मम सकृदागामिफलम् अहं सकृदागामी ममानागामिफलम् अहम् अनागामी ममार्हत्त्वम् अहम् अर्हन् मम प्रत्येकबोधिर् अहं प्रत्येकबुद्धो मम सर्वाकारज्ञता अहं सर्वाकारज्ञताः.

भगवान् आह: एवम् एतद् देवपुत्रा एवम् एतन्, नायं देवपुत्रा धर्मो रूपस्योद्ग्रहाय देश्यते नानुद्ग्रहाय, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्योद्ग्रहाय देश्यते नानुद्ग्रहाय. ये तु देवपुत्रा रूपस्योद्ग्रहाय चरन्ति, वेदनायाः संज्ञायाः संस्काराणां, ये विज्ञानस्योद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुम्. ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादानाम् उद्ग्रहाय चरन्ति, ये सर्वपारमितासर्वशून्यतासमाधिसमापत्तिधारणीमुखानाम् उद्ग्रहाय चरन्ति, ये प्रमाणध्यानारूप्यसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् (psp_4:119) उद्ग्रहाय चरन्ति, ये देवपुत्राः सर्वाकारज्ञताया उद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुं यावन् न प्रतिबला ध्यानवीर्यक्षान्तिशीलदानपारमितां भावयितुं, यावन् न प्रतिबलाः सर्वाकारज्ञतां भावयितुम्. इति सर्वलोकविप्रत्यनीकस्वभावः

सुभूतिर् आह: सर्वधर्मानुलोमिको ऽयं भगवन् धर्मः, कस्यानुलोमिको ऽयं भगवन् धर्मः? प्रज्ञापारमितानुलोमिको ऽयं भगवन् धर्मः, यावद् ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमितानुलोमिको ऽयं भगवन् धर्मः, अध्यात्मशून्यतानुलोमिको ऽयं भगवन् धर्मः, यावद् अभावस्वभावशून्यतानुलोमिको ऽयं भगवन् धर्मः, स्मृत्युपस्थानानुलोमिको ऽयं भगवन् धर्मः, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानुलोमिको ऽयं भगवन् धर्मः, आर्यसत्यानुलोमिको ऽयं भगवन् धर्मः, अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखानुलोमिको ऽयं भगवन् धर्मः, शून्यतानिमित्ताप्रणिहिताभिज्ञानुलोमिको ऽयं भगवन् धर्मः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मानुलोमिको ऽयं भगवन् धर्मः, सर्वाकारज्ञतानुलोमिको ऽयं भगवन् धर्मः. नायं धर्मः क्वचित् प्रतिहन्यते रूपे न प्रतिहन्यते, एवं वेदनायां संज्ञायां संस्कारेषु विज्ञाने न प्रतिहन्यते, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गेषु न प्रतिहन्यते, सर्वपारमितासु सर्वशून्यतासु न प्रतिहन्यते, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु न प्रतिहन्यते, आर्यसत्येषु अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु न प्रतिहन्यते, शून्यतानिमित्ताप्रणिहितेस्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न प्रतिहन्यते, सर्वाकारज्ञतायां न प्रतिहन्यते. अप्रतिहतलक्षणो बतायं धर्मः, आकाशसमताम् उपादाय, तथतासमताम् उपादाय, धर्मधातुस्थितिताम् उपादाय, भूतकोटिसमताम् उपादाय, अचिन्त्यधातुसमताम्

उपादाय, शून्यतानिमित्ताप्रणिहितसमताम् उपादाय, अनुत्पादानिरोधसमताम् उपादाय, असंक्लेशाव्यवदानसमताम् उपादाय, अनुत्पादो ऽयं धर्मो रूपानुत्पादानिरोधताम् उपादाय, वेदना संज्ञा संस्कारा, विज्ञानानुत्पादानिरोधताम् उपादाय, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानाम् (psp_4:120) अनुत्पादानिरोधताम् उपादाय, सर्वपारमिता सर्वशून्यतानुत्पादानिरोधताम् उपादाय सप्तत्रिंशद्बोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्त्यार्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितसर्वविमोक्षसमाधिसमापत्तिधारणीमुखानुत्पादानिरोधताम् उपादाय, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मानुत्पादानिरोधताम् उपादाय. इत्य् अप्रतिघातस्वभावः

अपदो ऽयं धर्मो रूपपदानुपलब्धिताम् उपादाय, वेदनासंज्ञासंस्कारविज्ञानपदानुपलब्धिताम् उपादाय, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गपदानुपलब्धिताम् उपादाय, सर्वपारमितासर्वविमोक्षसमाधिसमापत्तिधारणीमुखपदानुपलब्धिताम् उपादाय, बोधिपक्ष्यधर्मपदानुपलब्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहितपदानुपलब्धिताम् उपादाय, आर्यसत्याभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मपदानुपलब्धिताम् उपादाय, सर्वाकारज्ञतापदानुपलब्धिताम् उपादाय, अपदो ऽयं धर्मः. इत्य् अपदस्वभावः अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: अनुजातो ऽयं भगवन् भगवतः सुभूतिः स्थविरः. तत् कस्य हेतोः? तथा हि यद्यद् एव देशयति सर्वतच् छून्यतानिमित्ताप्रणिहितम् आरभ्य धर्मं देशयति.

अथ खल्व् आयुष्मान् सुभूतिस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् आमन्त्रयामास: यद् एवं देवपुत्रा वदथ, अनुजातो ऽयं भगवन् भगवतः सुभूतिः स्थविरः, किम् इत्य् अनुजातत्वात् सुभूतिः स्थविरो ऽनुजातस् तथागतस्य? यथा तथागतस्य तथानागतागता, एवम् एव सुभूतेर् अपि तथतानागतागता, एवं हि सुभूतिः स्थविरस् तथागतस्यानुजातः. या तथागतस्य तथता सा सर्वधर्मतथता, या सर्वधर्मतथता सा तथागततथता अवितथता अनन्यतथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. या तथागततथता सा स्थितितथता या स्थितितथता सा तथागततथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. यथा तथागततथताविकारा निर्विकारा, एवं हि सुभूतेः स्थविरस्य तथताविकारा निर्विकारा यथा तथागतस्य तथता न क्वचित् प्रतिहन्यते. एवं सर्वधर्मतथता न क्वचित् प्रतिहन्यते. या च तथागततथता या च सर्वधर्मतथता (psp_4:121) एकैवैषा तथताद्वयाद्वैधीकारा न सा कदाचिन् न तथता, यतः सा न कदाचिन् न तथता ततः सा तथताद्वयाद्वैधीकारा. एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. यथा तथागततथता सर्वत्रगाविकल्पा निर्विकल्पा, एवं हि सुभूतितथता सर्वत्रगाविकल्पा निर्विकल्पा. यथा तथागततथता अभिन्ना अभेदतथतानुपलभ्या, एवं सुभूतितथता अभिन्ना अभेदतथतानुपलभ्या. एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. यथा तथागततथतानन्यतथता सर्वधर्मतथता, या न सा कदाचिन् न तथता, सदा सा तथता तथैव सुभूतिस्थविरो ऽनन्यतथता या तथागतम् अनुजातो न क्वचिद्

अनुजातः, एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. यथा तथागततथता नातीता नानागता न प्रत्युत्पन्ना, एवं सर्वधर्मतथता नातीता नानागता न प्रत्युत्पन्ना. एवं हि सुभूतिस्थविरतथता नातीता नानागता न प्रत्युत्पन्ना, एवं हि सुभूतिस्थविरस् तथागतम् अनुजात इति उच्यते. अतीततथतासमतया तथागततथतासमतातथागततथतासमतयातीततथतासमता, अनागततथतासमतया तथागततथतासमता तथागततथतासमतया अनागततथतासमता, प्रत्युत्पन्नतथतासमतया तथागततथतासमता तथागततथतासमतया प्रत्युत्पन्नतथतासमता. इति ह्य् अतीतानागतप्रत्युत्पन्नतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. रूपतथतया तथागततथता तथागततथतया रूपतथता, वेदना संज्ञा संस्काराः, विज्ञानतथतया तथागततथता तथागततथतया विज्ञानतथता, इति हि तथागततथता च रूपवेदनासंज्ञासंस्कारविज्ञानतथता चाद्वयम् एतद् अद्वैधीकारम्. स्कन्धतथतया तथागततथता तथागततथतया स्कन्धतथता, धातुतथतया तथागततथता तथागततथतया धातुतथता, आयतनतथतया तथागततथता तथागततथतया आयतनतथता, प्रतीत्यसमुत्पादतथतया तथागततथता तथागततथतया प्रतीत्यसमुत्पादतथता, प्रतीत्यसमुत्पादाङ्गतथतया तथागततथता तथागततथतया प्रतीत्यसमुत्पादाङ्गतथता, इति हि स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गतथता च तथागततथता चाद्वयम् एतद् (psp_4:122) अद्वैधीकारम्. अनन्यतथतया तथागततथता तथागततथतयानन्यतथता, एवं

सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. दानपारमितातथतया तथागततथता तथागततथतया दानपारमितातथता, एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितातथतया तथागततथता तथागततथतया प्रज्ञापारमितातथता, इति हि दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. अध्यात्मशून्यतातथतया तथागततथता तथागततथतयाध्यात्मशून्यतातथता, एवं यावद् अभावस्वभावशून्यतातथतया तथागततथता तथागततथतया यावद् अभावस्वभावशून्यतातथता, इति ह्य् अध्यात्मशून्यतातथता च तथागततथता च, यावद् अभावस्वभावशून्यतातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. स्मृत्युपस्थानतथतया तथागततथता तथागततथतया स्मृत्युपस्थानतथता, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथतया तथागततथता तथागततथतया मार्गतथता. इति हि स्मृत्युपस्थानतथता च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. अप्रमाणध्यानारूप्यसमापत्तितथतया तथागततथता तथागततथतया प्रमाणध्यानारूप्यसमापत्तितथता, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथतया तथागततथता तथागततथतया सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता, इति ह्य् अप्रमाणध्यानारूप्यसमापत्तितथता च सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता च तथागततथता चाद्वयम् एतद्

अद्वैधीकारम्. शून्यतानिमित्ताप्रणिहिततथतया तथागततथता तथागततथतया शून्यतानिमित्ताप्रणिहिततथता, आर्यसत्यतथतया तथागततथता तथागततथतया आर्यसत्यतथता, अभिज्ञातथतया तथागततथता तथागततथतयाभिज्ञातथता, इति हि शून्यतानिमित्ताप्रणिहिततथता चार्यसत्यतथता चाभिज्ञातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. दशबलवैशारद्यप्रतिसंवित्तथतया तथागततथता तथागततथतया दशबलवैशारद्यप्रतिसंवित्तथता, आवेणिकबुद्धधर्मतथतया तथागततथता तथागततथतयावेणिकबुद्धधर्मतथता, इति हि दशबलवैशारद्यप्रतिसंवित्तथता (psp_4:123) चावेणिकबुद्धधर्मतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. सर्वाकारज्ञतातथतया तथागततथता तथागततथतया सर्वाकारज्ञतातथता, इति हि सर्वाकारज्ञतातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. इयं सा सुभूते तथागततथतायां तथताम् आगम्य तथागतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस् तथागत इति नामधेयं लभते. अस्मिन् खलु पुनस् तथतापरिवर्ते भाष्यमाणे, यं त्रिसाहस्रमहासाहस्रलोकधातुः षड्विकारम् अष्टादशमहानिमित्तं कम्पते प्रकम्पते संप्रकम्पते, चलति प्रचलति संप्रचलति, वेधते प्रवेधते संप्रवेधते, रणति प्ररणति संप्ररणति, क्षुभ्यति प्रक्षुभ्यति संप्रक्षुभ्यति, गर्जति प्रगर्जति संप्रगर्जति, पूर्वा दिग् उन्नमति पश्चिमा दिग् अवनमति, पश्चिमा दिग् उन्नमति पूर्वा दिग् अवनमति, उत्तरा दिग् उन्नमति दक्षिणा दिग् अवनमति, दक्षिणा दिग् उन्नमति उत्तरा दिग्

अवनमति, अन्ताद् उन्नमति मध्याद् अवनमति, मध्याद् उन्नमति अन्ताद् अवनमति.

अथ खलु कामावचरा रूपावचराश् च देवपुत्रा दिव्यैश् चन्दनचूर्णैर् भगवन्तं सुभूतिस्थविरं चाभ्यवकिरन्न् एवं च वाचम् अभाषन्त, आश्चर्यं भगवन् यावद् अयं सुभूतिस्थविरस् तथागततथतया तथागतम् अनुजातः. इत्य् अगतिस्वभावः

अथ खलु सुभूतिस्थविरस् तेषां देवपुत्राणां ताम् एव कथाम् अनुबध्नाति स्म, इति हि देवपुत्राः सुभूतिस्थविरो न रूपम् अनुजातो न रूपस्य तथताम् अनुजातो, नान्यत्र रूपतथताया अनुजातः, वेदना संज्ञा संस्कारा, न विज्ञानम् अनुजातो, न विज्ञानतथताम् अनुजातो, नान्यत्र विज्ञानतथताया अनुजातः न स्कन्धधात्वायतनम् अनुजातो न स्कन्धधात्वायतनतथताम् अनुजातो नान्यत्र स्कन्धधात्वायतनतथताया अनुजातः न प्रतीत्यसमुत्पादम् अनुजातो न प्रतीत्यसमुत्पादतथताम् अनुजातो, नान्यत्र प्रतीत्यसमुत्पादतथताया अनुजातः. एवं सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, (psp_4:124) न सर्वाकारज्ञताम् अनुजातो, न सर्वाकारज्ञतातथताम् अनुजातो, नान्यत्र सर्वाकारज्ञतातथताया अनुजातः. नासंस्कृतम् अनुजातो, नासंस्कृततथताम् अनुजातो, नान्यत्र संस्कृततथताया अनुजातः. तत् कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते नोपलभ्यन्ते यो वानुजायेत येन वानुजायेत, यो वानुजन्येत येन वानुजन्येत. इत्य् अजातिस्वभावः

अथ खल्व् आयुष्माच् छारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवंस् तथता अवितथता अनन्यतथता धर्मता धर्मधातुस्थितिता धर्मनियामता भूतकोटिर्, यत्र न रूपम् उपलभ्यते न रूपतथता, यदा रूपम् एव नोपलभ्यते कुतः पुना रूपतथतोपलप्स्यते, यत्र न वेदना न संज्ञा न संस्कारा, यत्र न विज्ञानम् उपलभ्यते न विज्ञानतथता, यदा विज्ञानम् एव नोपलभ्यते कुतः पुनर् विज्ञानतथतोपलप्स्यते. यत्र न स्कन्धधात्वायतनान्य् उपलभ्यन्ते न स्कन्धधात्वायतनतथता, यदा स्कन्धधात्वायतनान्य् एव नोपलभ्यते, कुतः पुनः स्कन्धधात्वायतनतथतोपलप्स्यते. यत्र न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि चोपलभ्यन्ते न प्रतीत्यसमुत्पादतथता न प्रतीत्यसमुत्पादाङ्गतथता वा, यदा प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गान्य् एव वा नोपलभ्यते, कुतः पुनः प्रतीत्यसमुत्पादतथता प्रतीत्यसमुत्पादाङ्गतथता वोपलप्स्यते. एवं सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा, यत्र न सर्वाकारज्ञतोपलभ्यते, न सर्वाकारज्ञतातथता, यदा सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतातथतोपलप्स्यते.

भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतद्, गम्भीरेयं शारिपुत्र तथता, यत्र न रूपम् उपलभ्यते, न रूपस्य तथतोपलभ्यते, रूपम् एव नोपलभ्यते कुतः पुना रूपस्य तथतोपलप्स्यते, यत्र न वेदना न संज्ञा न संस्कारा, न विज्ञानम् उपलभ्यते न विज्ञानस्य तथतोपलभ्यते विज्ञानम् एव नोपलभ्यते कुतो विज्ञानस्य तथतोपलप्स्यते. (psp_4:125) यत्र न स्कन्धधात्वायतनप्रतीत्यसमुत्पादा उपलभ्यन्ते न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलभ्यते, स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव नोपलप्स्यते, कुतः पुनः स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलप्स्यते. एवं यावन् न सर्वाकारज्ञतोपलभ्यते न सर्वाकारज्ञतायास् तथतोपलभ्यते सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतायास् तथतोपलप्स्यते. अस्यां खलु पुनः शारिपुत्र तथतायाम् अवितथतायाम् अनन्यतथतायां भाष्यमाणायां भिक्षुशतद्वयस्यानुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, पञ्चानां भिक्षुणीशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं, पञ्चानां बोधिसत्त्वसहस्राणाम् अनुत्पत्तिकधर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्, षष्टेश् च बोधिसत्त्वानां महासत्त्वानां परिहाणधर्मकाणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि.

अथ खल्व् आयुष्मान् शारिपुत्रस् तेषां बोधिसत्त्वानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि विदित्वा भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यद् एतेषां बोधिसत्त्वानां महासत्त्वानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि?

भगवान् आह: एतैश् च शारिपुत्र बोधिसत्त्वैः पञ्चबुद्धशतानि पर्युपासितानि सर्वत्र च दानं दत्तं शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानान्य् उत्पादितानि प्रज्ञा भाविता, ते प्रज्ञापारमितया विरहितत्वाद् उपायकौशल्येन चापरिगृहीतत्वाद् एवं चरिताः, वयं दानं ददामो वयं शीलं रक्षामो वयं क्षान्त्या संपादयामो वयं वीर्यम् आरभामहे वयं ध्यानं समापद्यामहे वयं प्रज्ञां भावयामः, ते प्रज्ञापारमिताविरहितत्वाद् अनुपायकौशलेन दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां भावयामासुः, ते नानात्वसंज्ञायां चरन्तो नानात्वोपलब्ध्या बोधिसत्त्वनियामं नावक्रामन्ति, ते बोधिसत्त्वनियामम् अनवक्रामन्तः स्रोतआपत्तिफलं प्राप्ता यावद् अर्हत्त्वं प्राप्ताः, किं चापि शारिपुत्र बोधिसत्त्वानां महासत्त्वानाम् अस्ति मार्गः शून्यता वा निमित्तं वा प्रणिहितं वा ते प्रज्ञापारमितया विरहिता उपायकौशल्येन चापरिगृहीता भूतकोटिं साक्षात्कृत्वा श्रावक भवन्ति. (psp_4:126)

शारिपुत्र आह: केन कारणेन भगवंस् तैर् एवं शून्यतानिमित्ताप्रणिहितैर् धर्मैः सुभावितैः प्रज्ञापारमितया विरहिता उपायकौशल्येन चापरिगृहीता भूतकोटिं साक्षात्कृत्वा श्रावका भवन्ति. बोधिसत्त्वाः पुनर् भगवंस् तैर् एवं शून्यतानिमित्ताप्रणिहितैर् धर्मैः सुभावितैः प्रज्ञापारमिताम् उपायकौशल्यं चागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते?

भगवान् आह: इह शारिपुत्र एकः सर्वाकारज्ञताचित्तेन विरहितः, शून्यतानिमित्ताप्रणिहितान् धर्मान् भावयन्न् उपायकौशल्यम् अनागम्य श्रावको भवति. अपरः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताचित्तेनाविरहितः शून्यतानिमित्ताप्रणिहितान् धर्मान् भावयन्न् उपायकौशलेन बोधिसत्त्वनियामम् अवक्रामत्य् अनुत्तरां च सम्यक्संबोधिम् अभिसंबुद्ध्यते. तद्यथापि नाम शारिपुत्र पक्षिणः शकुनेर् योजनशतिको वा आत्मभावो भवेद्, द्वियोजनशतिको वा त्रियोजनशतिको वा चतुर्योजनशतिको वा आत्मभावो भवेत्, स देवेभ्यस् त्रयस्त्रिंशेभ्यो जम्बूद्वीपम् आगन्तव्यं मन्येत, स च पक्षी शकुनिर् अपक्षो भवेत्, स देवेभ्यस् त्रयस्त्रिंशेभ्य आत्मानं परिमोक्तव्यं मन्येत जम्बूद्वीपं गमिष्यामीति. अथ तस्य पक्षिणः शकुनेर् अर्धपतितस्यल्तद् अभवत्, अहो बताहं देवेषु त्रयस्त्रिंशेषु प्रतितिष्ठेयम् इति. तत् किं मन्यसे शारिपुत्रापि नु स पक्षी शकुनिः प्रतिबलः, पुनर् एव देवेषु त्रयस्त्रिंशेषु प्रतिष्ठातुम्?

शारिपुत्र आह: नो भगवन्.

भगवान् आह: सचेत् पुनर् अस्यान्तरे, एवं भवेद्, अहो बताहम् अक्षतो ऽनुपहतो जम्बूद्वीपे प्रतितिष्ठेयम् इति. तत् किं मन्यसे शारिपुत्रापि नु स पक्षी शकुनिर् अक्षतो ऽनुपहतो जम्बूद्वीपे प्रतितिष्ठेत्?

शारिपुत्र आह: नो भगवन्, क्षतश् चासौ भगवन्न् उपहतश् चाप्राप्त एव जम्बूद्वीपं मरणं निगच्छेत्. तत् कस्य हेतोः? एवम् एतद् भवति भगवन् यस्य महांश् चात्मभावो भवति, अजातपक्षश् च दूराच् च विप्रकृष्टात् प्रपतति.

भगवान् आह: एवम् एव शारिपुत्र किञ् चापि बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पान् अवगम्य दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते, तस्य च महत् प्रस्थानं महांश् चित्तोत्पादो ऽप्रमाणपरिग्रहो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स च प्रज्ञापारमितयोपायकौशलेनैव (psp_4:127) विरहितः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञताविरहितेन चित्तेन दानं दत्तं भवति शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानान्य् उत्पादितानि स च बोधिसत्त्वः प्रज्ञापारमितयोपायकौशलेन च विरहितो ऽभूत्, तेन स श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. किञ् चापि स शारिपुत्र बोधिसत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनं समन्वाहरति आराधयति निमित्तीकरोति, न च स तथागतानां शीलं जानाति समाधिं जानाति प्रज्ञां जानाति विमुक्तिं जानाति विमुक्तिज्ञानदर्शनं जानाति, सो ऽजानन् न बुध्यमानः शून्यतायाम् आनिमित्ते प्रणिहिते वा शान्तिं शृणोति स तां शान्तिं निमित्तीकरोति निमित्ततश् चानुत्तरायै सम्यक्संबोधये परिणामयति. एवं हि परिणामयन् बोधिसत्त्वः स्थास्यति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा. तत् कस्य हेतोः? एवम् एतच् छारिपुत्र यः प्रज्ञापारमितयोपायकौशलेन च विरहितो भवति, न च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, स श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. इति तथतानुपलम्भस्वभावः इत्य् उक्तं स्वभावलक्षणम्

यः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताचित्तेनाविरहितो दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानानि च समापद्यते न च निमित्तीकरोति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति न च निमित्तीकरोति यावत् सर्वाकारज्ञतां भावयति न च निमित्तीकरोति. इति सामान्येन मोक्षभागीयम्

स च प्रज्ञापारमितयोपायकौशल्येन चाविरहितस् त्रैयध्विकान् बुद्धान् समन्वाहरति, तेषां चातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतयश् च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, तत्सर्वं न निमित्तीकरोति न शून्यतासमाधिं निमित्तीकरोति आनिमित्तसमाधिम् अप्रणिहितसमाधिं न निमित्तीकरोति वेदितव्यम् एतच् छारिपुत्र नायं बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ (psp_4:128) वा स्थास्यतीति, अक्षतो ऽनुपहतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति श्रद्धात्मकं मोक्षभागीयम्

तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय दानं दत्तं न च निमित्तीकृतं, शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं प्रज्ञा भाविता न च निमित्तीकृता, अतितानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि न निमित्तीकृतानि, इदं शारिपुत्र बोधिसत्त्वानां महासत्त्वानां तद् उपायकौशल्यं यन् निमित्तविरहितेन चित्तेन दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीर् भावयति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, शून्यतानिमित्ताप्रणिहितानि भावयति न च निमित्तीकरोति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयति यावत् सर्वाकारज्ञतायां चरति न च निमित्तीकरोति. इति वीर्यात्मकं मोक्षभागीयम्

शारिपुत्र आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, यो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया चोपायकौशल्येन चाविरहिताशयस् तस्यानुत्तरा सम्यक्संबोधिः. इति स्मृत्यात्मकं मोक्षभागीयम् तत् कस्य हेतोः? तथा हि भगवन् तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय न कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादो वा प्रतीत्यसमुत्पादाङ्गानि वा सर्वपारमिता वा सर्वशून्यता वा सप्तत्रिंशद्बोधिपक्ष्या वा धर्मा आर्यसत्यानि वा अप्रमाणध्यानारूप्यसमापत्तयो वा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा शून्यतानिमित्ताप्रणिहितानि वा अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका वा बुद्धधर्माः सर्वाकारज्ञता वा. ये पुनर् इमे भगवन् बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताविरहिता उपायकौशल्यविरहिताश् च संशयस् तेषां प्रतिकाङ्क्षितव्यो (psp_4:129) ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि भगवंस् तैर् बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा प्रज्ञापारमितोपायकौशल्यविरहितैर् यद्यद् एव दानं दत्तं तत्सर्वं निमित्तीकृत्य दत्तम्, एवं यद्यद् एव शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं, या चैव प्रज्ञा व्यवचारिता सा सर्वा निमित्तीकृत्य व्यवचारिता. तस्मात् संशयस् तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चानुत्तरायाः सम्यक्संबोधेः प्रतिकाङ्क्षितव्यः. तस्मात् तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेनानुत्तरां

सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितोपायकौशल्याविरहितेन भवितव्यं, प्रज्ञापारमितायाम् उपायकौशल्येन स्थित्वानुपलम्भयोगेन आनिमित्तसहगतेन चित्तेन दानं दातव्यं शीलं रक्षितव्यं क्षान्त्या संपादयितव्यं वीर्यम् आरब्धव्यं ध्यानं समापत्तव्यं प्रज्ञा भावयितव्या. आनिमित्तसहगतेन चित्तेन अध्यात्मशून्यता भावयितव्या, यावद् अभावस्वभावशून्यता भावयितव्या. आनिमित्तसहगतेन चित्तेन स्मृत्युपस्थानानि भावयितव्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आनिमित्तसहगतेन चित्तेनार्याष्टाङ्गो मार्गो भावयितव्यः. आनिमित्तसहगतेन चित्तेनाप्रमाणध्यानारूप्यसमापत्तयः समापत्तव्याः. आनिमित्तसहगतेन चित्तेनार्यसत्यानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा भावयितव्याः, आनिमित्तसहगतेन चित्तेन सर्वाकारज्ञतायां चरितव्यम्. इति समाध्यात्मकं मोक्षभागीयम्

अथ खलु कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: दुरभिसंभवा भगवन् दुरधिमुच्यानुत्तरा सम्यक्संबोधिः, यत्र हि सर्वाकारैश् च नाम बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा ऽभिसंबोद्धव्यास् ते च धर्मा न संविद्यन्ति नोपलभ्यन्ते.

भगवान् आह: एवम् एतद् देवपुत्रा एवम् एतत्, दुरभिसंभवा देवपुत्रा दुरधिमुच्यानुत्तरा सम्यक्संबोधिः, मयापि देवपुत्राः सर्वधर्माः सर्वाकारैर् अभिसंबुद्धाः, न च मे कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत. (psp_4:130) तत् कस्य हेतोः? अत्यन्तविशुद्धत्वाद् देवपुत्राः सर्वधर्माणाम्. इति प्रज्ञात्मकं मोक्षभागियम्

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, दुरभिसंभवानुत्तरा सम्यक्संबोधिर् इति, यथा पुनर् अहं भगवतो भाषितस्यार्थम् आजानामि. यथा च मम भवति, तथा स्वभिसंबोधा भगवन्न् अनुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा हि भगवन् न कश्चिद् अभिसंबुध्यते न केनचिद् अभिसंबुध्यते न किञ्चिद् अभिसंबोद्धव्यं, शून्या हि भगवन् सर्वधर्माः, शून्येषु भगवन् सर्वधर्मेषु स धर्मो न संविद्यते, यो ऽभिसंबुध्येत येन वाभिसंबुध्येत यं वाभिसंबुध्येत. तत् कस्य हेतोः? तथा हि भगवन् सर्वधर्माः शून्याः, यस्यापि धर्मस्य वृद्धये वा प्रहाणाय वा दानं वा दद्यात्, शीलं वा रक्षेत् क्षान्तिं वा संपादयेत् वीर्यं वा आरभेत ध्यानं वा समापद्येत, एवं यावत् सर्वाकारज्ञतायां वा शिक्षेत, ते च धर्मा न संविद्यन्ते, यश् चाभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत सर्वे ते धर्माः शून्याः. अनेन भगवन् पर्यायेण स्वभिसंबोधा बोधिसत्त्वानां महासत्त्वानाम् अनुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपस्वभावेन शून्यं, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानस्वभावेन शून्यम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गस्वभावेन शून्यानि, एवं सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मस्वभावेन शून्याः, सर्वाकारज्ञता सर्वाकारज्ञतास्वभावेन शून्या. इत्य् अधिमात्राणि मोक्षभागीयानि

अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अनेनायुष्मन् सुभूते पर्यायेण दुरभिसंभवानुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् सुभूते नाकाशस्यैवं भवति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति. एवम् एवायुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति. तत् कस्य हेतोः? आकाशसमा हि सुभूते (psp_4:131) सर्वधर्माः, अथ च पुनर् बोधिसत्त्वो महासत्त्व आकाशसमान् सर्वधर्मान् अधिमुच्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्याकाशसमान् सर्वधर्मान् अधिमुच्य स्वभिसंबोधा स्याद् अनुत्तरा सम्यक्संबोधिर् न दुरभिसंभवा न त्व् एवं गङ्गानदीवालुकोपमा बोधिसत्त्वा विवर्तेरन्न् अनुत्तरायाः सम्यक्संबोधेर्. अनेनायुष्मन् सुभूते पर्यायेण विज्ञायते दुरभिसंभवानुत्तरा सम्यक्संबोधिर् न स्वभिसंबोधा. इति मृदूनि मोक्षभागीयानि

अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र रूपं विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत आह: नायुष्मन् सुभूते.

वेदना संज्ञा संस्काराः,

सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्र विज्ञानं विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत्र आह: नायुष्मन् सुभूते.

एवं विस्तरेण स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि बोधिपक्ष्यधर्मा अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि विमोक्षमुखानि अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, यावत् सर्वाकारज्ञता विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्रान्यत्र रूपात् स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत्र आह: नायुष्मन् सुभूते.

वेदनायाः संज्ञायाः संस्काराणां,

सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्रान्यत्र विज्ञानात् स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत्र आह: नायुष्मन् सुभूते.

एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः, (psp_4:132) दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः यावद् अन्यत्र सर्वाकारज्ञतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्र या रूपस्य तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, वेदनायाः संज्ञायाः संस्काराणां, या विज्ञानस्य तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं विस्तरेण स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञादशबलवैशारद्यप्रतिसंविदो, या आवेणिकबुद्धधर्माणां तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, यावत् या सर्वाकारज्ञतायास् तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्रान्यत्र रूपतथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, तत् किं मन्यसे? शारिपुत्रान्यत्र विज्ञानतथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं विस्तरेणान्यत्र स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथताया, अन्यत्र प्रतीत्यसमुत्पादाङ्गतथताया, अन्यत्र सर्वपारमिता सर्वशून्यता सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथताया, अन्यत्र सप्तत्रिंशद्बोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्तितथताया, अन्यत्र शून्यतानिमित्ताप्रणिहिताभिज्ञार्यसत्यदशबलवैशारद्यप्रतिसंवित्तथताया, अन्यत्रावेणिकबुद्धधर्मतथताया, अन्यत्र सर्वाकारज्ञतातथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्र तथता विवर्तते (psp_4:133) ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत्र आह: नायुष्मन् सुभूते.

एवं धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटीः.

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्राचिन्त्यधातुर् विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्रान्यत्र तथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं धर्मताया धर्मधातोर् धर्मस्थितिताया धर्मनियामताया भूतकोटेः, अन्यत्राचिन्त्यधातोः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: एवं सत्यतः स्थितितस् तेषु धर्मेष्व् अनुपलम्भमानेषु, कतमः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः?

एवम् उक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यया धर्मनयजात्या सुभूतिः स्थविरो निर्दिशति, तया न कश्चिद् बोधिसत्त्वो महासत्त्वो विवर्तिष्यते अनुत्तरायाः सम्यक्संबोधेः. य इमे त्रयो बोधिसत्त्वयानिकाः पुद्गलाः तथागतेनाख्याताः, एषां च त्रयाणां बोधिसत्त्वयानिकानां पुद्गलानां व्यवस्थानं न भविष्यति. एक एव बोधिसत्त्वो महासत्त्वो भविष्यति यद् उत बोधिसत्त्वयानिको यथायुष्मतः सुभूतेर् निर्देशः.

अथ खल्व् आयुष्मान् पूर्णो मैत्रायणीपुत्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: किं पुनर् आयुष्मन् शारिपुत्र सुभूतिः स्थविर एकम् अपि बोधिसत्त्वं महासत्त्वम् इच्छति, परिप्रष्टव्यस् तावत् सुभूतिः स्थविरः.

अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनर् आयुष्मन् सुभूते एकम् अपि बोधिसत्त्वयानिकं बोधिसत्त्वम् इच्छसि?

एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: (psp_4:134) किं पुनर् आयुष्मञ् छारिपुत्र तथतायां त्रीन् बोधिसत्त्वान् इच्छसि, श्रावकयानिकं वा बोधिसत्त्वं प्रत्येकबुद्धयानिकं वा बोधिसत्त्वं बोधिसत्त्वयानिकं वा बोधिसत्त्वम् इच्छसि?

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: तत् किं पुनर् आयुष्मञ् शारिपुत्र तथतायां त्रयो बोधिसत्त्वा उपलभ्यन्ते?

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: किं पुनर् आयुष्मञ् छारिपुत्र तथता एकतो वा द्वाभ्यां वा त्रिभिर् वाकारैर् उपलभ्यते?

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: किं पुनर् आयुष्मञ् शारिपुत्र तथतायाम् एकं बोधिसत्त्वम् उपलभते?

शारिपुत्र आह: नायुष्मन् सुभूते.

सुभूतिर् आह: एवं सत्यतः स्थितितस् ते धर्मा अनुपलभ्यमानाः कुतः पुनर् आयुष्मतः शारिपुत्रस्यैवं भवति, अयं श्रावकयानिको बोधिसत्त्वो ऽयं प्रत्येकबुद्धयानिको बोधिसत्त्वो ऽयं बुद्धयानिको बोधिसत्त्व इत्य्, अयं सर्वधर्मतथतायां प्रभाव्यमानायां यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तन् नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. अयं बोधिसत्त्वो महासत्त्वो निर्यास्यत्य् अनुत्तरायां सम्यक्संबोधौ.

तत्र खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: साधु साधु सुभूते प्रतिभान्तु ते सुभूते यथापीदं बुद्धानुभावेन, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मतथतायां प्रभाव्यमानायां यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तन् नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, निर्यास्यत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ.

अथ खल्व् आयुष्माञ् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमया भगवन् बोध्या निर्यास्यति बोधिसत्त्वो महासत्त्वः?

भगवान् आह: अनुत्तरया सम्यक्संबोध्या निर्यास्यत्य् अयं बोधिसत्त्वो महासत्त्वः. इति मध्यानि मोक्षभागीयानीत्य् उक्तं मोक्षभागीयम् (psp_4:135)

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: निर्यातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ कथं स्थातव्यम्?

भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन सत्त्वानाम् अन्तिके समचित्ततायां स्थातव्यं, सर्वसत्त्वानाम् अन्तिके समचित्तम् उत्पादयितव्यं, न विषमं चित्तम् उत्पादयितव्यं, सर्वसत्त्वाः समचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके महामैत्र्य् उत्पादयितव्या, सर्वसत्त्वेषु महाकरुणोत्पादयितव्या, सर्वसत्त्वा मैत्रेण चित्तेनालम्बितव्याः, सर्वसत्त्वा महाकरुणाचित्तेनालम्बितव्या, न पुरुषचित्तेनालम्बितव्याः सर्वसत्त्वानाम् अन्तिके निहतमानतोत्पादयितव्या, सर्वसत्त्वाश् च निःशाठ्येनालम्बितव्याः. इति मृदूष्मगतम्

सर्वसत्त्वानाम् अन्तिके हितचित्ततोत्पादयितव्या, अहितं चित्तं नोत्पादयितव्यं, सर्वसत्त्वाश् च हितचित्तेनालम्बितव्या, नाहितचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके अप्रतिहतं चित्तम् उत्पादयितव्यं, सर्वसत्त्वा न प्रतिहतचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके अविहेठनाचित्तम् उत्पादयितव्यं, सर्वसत्त्वा न विहेठनाचित्तेनालम्बितव्याः. इति मध्यम् उष्मगतम्

सर्वसत्त्वानाम् अन्तिके मातृचित्तम् उत्पादयितव्यं पितृचित्तम् उत्पादयितव्यं भ्रातृचित्तम् उत्पादयितव्यं भगिनीचित्तम् उत्पादयितव्यं पुत्रचित्तम् उत्पादयितव्यं दुहितृचित्तम् उत्पादयितव्यं मित्रामात्यज्ञातिसालोहितचित्तम् उत्पादयितव्यं सर्वसत्त्वाश् च मातृचित्तेन पितृचित्तेनालम्बितव्या, भ्रातृचित्तेन भगिनीचित्तेनालम्बितव्याः, पुत्रचित्तेन दुहितृचित्तेनालम्बितव्या, मित्रामात्यज्ञातिसालोहितचित्तेनालम्बितव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यान्तुकामेन स्थातव्यम्. इत्य् अधिमात्रम् उष्मगतम्

आत्मना च प्राणातिपातात् प्रतिविरतेन भवितव्यं परे च प्राणातिपातवैरमणो समादापयितव्याः, प्राणातिपातविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन. एवं बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यास्तुकामेन स्थातव्यम्. (psp_4:136)

आत्मना चादत्तादानात् प्रतिविरतेन भवितव्यं, परे चादत्तादानवैरमण्ये समादापयितव्याः, अदत्तादानविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये अदत्तादानात् प्रतिविरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना च काममिथ्याचारात् प्रतिविरतेन भवितव्यं, परे च काममिथ्याचारप्रतिविरतौ समादापयितव्याः, काममिथ्याचारविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये काममिथ्याचारात् प्रतिविरता भवन्ति तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

एवम् अनृतवचनात् परुषवचनात् पिशुनवचनाद् अवद्यप्रलापाद् अभिध्याया व्यापादात्, आत्मना च मिथ्यादृष्टेः प्रतिविरतेन भवितव्यं, परे च मिथ्यादृष्टिविरतौ समादापयितव्या, मिथ्यादृष्टिविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये मिथ्यादृष्टेर् विरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन. आत्मना च प्रथमं ध्यानं समापत्तव्यं, परे च प्रथमे ध्याने समादापयितव्याः, प्रथमध्यानसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये प्रथमं ध्यानं समापद्यन्ते, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.

एवम् आत्मना च द्वितीयं ध्यानं समापत्तव्यं, एवं तृतीयं ध्यानं समापत्तव्यं, आत्मना च चतुर्थं ध्यानं समापत्तव्यं, परे च चतुर्थे ध्याने समादापयितव्याश् चतुर्थध्यानसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये चतुर्थध्यानं समापद्यन्ते, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना च मैत्री भावयितव्या, परे च मैत्रीभावनायां समादापयितव्या, मैत्रीभावनायाश् च वर्णवादिना भवितव्यं, ये चान्ये मैत्रीविहारिणस् तेषाम् अपि वर्णवादिना भवितव्यं समनुज्ञेन.

एवं करुणायां मुदितायां च कर्तव्यम्, आत्मना चोपेक्षाविहारिणा भवितव्यं, परे चोपेक्षाविहारे समादापयितव्या, उपेक्षाविहारस्य च वर्णवादिना भवितव्यं, ये चान्ये उपेक्षाविहारिणस्, तेषाम् अपि वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना चाकाशानन्त्यायतनासमापत्तिः समापत्तव्या, परे चाकाशानन्त्यायतनसमापत्तौ समादापयितव्याः, आकाशानन्त्यायतनसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये आकाशानन्त्यायतनसमापत्तिं (psp_4:137) समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

एवं विज्ञानानन्त्यायतनसमापत्तिर् आकिंचान्यायतनसमापत्तिः, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिः समापत्तव्या, परे च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयितव्याः नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन. इति मृदुमूर्धगतम्

आत्मना च दानपारमिता परिपूरयितव्या, परे च दानपारमितायां समादापयितव्याः, दानपारमितायाश् च वर्णवादिना भवितव्यः, ये चान्ये दानपारमितां परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, आत्मना च प्रज्ञापारमिता परिपूरयितव्या, परे च प्रज्ञापारमितायां समादापयितव्याः, प्रज्ञापारमितायाश् च वर्णवादिना भवितव्यं, ये चान्ये प्रज्ञापारमितां परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन. इति मध्यमूर्धगतम्

आत्मना चाध्यात्मशून्यता भावयितव्या, परे चाध्यात्मशून्यतायां समादापयितव्या, अध्यात्मशून्यतायाश् च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अध्यात्मशून्यतां भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् आत्मना चाभावस्वभावशून्यता भावयितव्या, परे चाभावस्वभावशून्यतायां समादापयितव्या, अभावस्वभावशून्यतायाश् च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अभावस्वभावशून्यतां भावयन्ति, तेषां च वर्णवादिना न् भवितव्यं समनुज्ञेन.

आत्मना च चत्वारि स्मृत्युपस्थानानि भावयितव्यानि, परे च चतुर्षु स्मृत्युपस्थानेषु समादापयितव्याः, चतुर्णां च स्मृत्युपस्थानानां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आत्मना चार्यष्टाङ्गो मार्गो भावयितव्यः, परे चार्याष्टाङ्गे मार्गे स्थापयितव्याः, आर्याष्टङ्गमार्गस्य च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा आर्याष्टाङ्गं मार्गं भावयन्ति, तेषां च वर्णवादिना भवितव्यं (psp_4:138) समनुज्ञेन.

आत्मना च शून्यतानिमित्ताप्रणिहितसमाधयो भावयितव्याः, परे च शून्यतानिमित्ताप्रणिहितसमाधौ समादापयितव्याः, शून्यतानिमित्ताप्रणिहितसमाधीनां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाः शून्यतानिमित्ताप्रणिहितसमाधीन् भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना च चत्वार्य् आर्यसत्यानि भावयितव्यानि, परे चार्यसत्यभावनायां समादापयितव्या, आर्यसत्यानां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाश् चत्वार्य् आर्यसत्यानि भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना चाष्टविमोक्षा भावयितव्याः, परे चाष्टविमोक्षभावनायां समादापयितव्या, अष्टानां च विमोक्षाणां वर्णवादिना भवितव्यं, ये चान्ये ऽष्टविमोक्षां समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना च नवानुपूर्वविहारसमापत्तयः समादापयितव्याः, परे च नवानुपूर्वविहारसमापत्तिषु समादापयितव्या, नवानुपूर्वविहारसमापत्तीनां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा नवानुपूर्वविहारसमापत्तीः समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना चाभिज्ञा निष्पादयितव्याः, परे चाभिज्ञाप्राप्तये समादापयितव्याः, अभिज्ञानां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अभिज्ञा प्रतिलब्धास्, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना च दशतथागतबलानि परिपूरयितव्यानि, परे च दशतथागतबलेषु समादापयितव्या, दशानां च तथागतबलानां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा दशतथागतबलानि परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

एवं चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद्, आत्मना चाष्टादशावेणिका बुद्धधर्माः परिपूरयितव्याः, परे चाष्टादशावेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्या, अष्टादशावेणिकानां च बुद्धधर्माणां वर्णवादिना भवितव्यं, ये चान्ये आवेणिकान् बुद्धधर्मान् परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना च महामैत्री महाकरुणा च परिपूरयितव्या, परे च महामैत्र्यां महाकरुणायां च समादापयितव्या, महामैत्र्या महाकरुणायाश् च वर्णवादिना भवितव्यं, ये चान्ये महामैत्रीं महाकरुणां च परिपूरयन्ति, (psp_4:139) तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

आत्मना चनुलोमप्रतिलोमप्रतीत्यसमुत्पादः समापत्तव्यः, परे चानुलोमप्रतिलोमप्रतीत्यसमुत्पादे समादापयितव्याः, अनुलोमप्रतिलोमप्रतीत्यसमुत्पादसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये अनुलोमप्रतिलोमप्रतीत्यसमुत्पादं समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.

एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन स्थातव्यम्. इत्य् अधिमात्रमूर्धगतम्

आत्मना च दुष्खं परिजानाति समुदयं च प्रजहाति निरोधं च साक्षात्करोति मार्गञ् च भावयति, परांश् च दुष्खपरिज्ञायै समुदयप्रहाणाय निरोधसाक्षात्क्रियायै मार्गभावनायै समादापयति, दुःखपरिज्ञानस्य समुदयप्रहाणस्य निरोधसाक्षात्क्रियाया मार्गभावनायाश् च वर्णं भाषते, ये चान्ये दुःखं प्रजानन्ति समुदयं प्रजहति निरोधं साक्षात्कुर्वन्ति मार्गं च भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मृद्वी क्षान्तिः

आत्मना च स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् च स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायै समादापयति, स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायाश् च वर्णं भाषते, ये चान्ये स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.

एवम् आत्मना च सकृदागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, आत्मना चानागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति.

आत्मना चार्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् चार्हत्त्वफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, अर्हत्त्वफलज्ञानसाक्षात्क्रियायाश् च वर्णं भाषते, ये चान्ये ऽर्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.

आत्मना च प्रत्येकबुद्धफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियां साक्षात्करोति, परांश् च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायाश् (psp_4:140) च वर्णं भाषते, ये चान्ये प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मध्या क्षान्तिः

आत्मना च बोधिसत्त्वन्यामम् अवक्रामति, परांश् च बोधिसत्त्वन्यामावक्रान्त्यां समादापयति, बोधिसत्त्वन्यामावक्रान्तेश् च वर्णं भाषते, ये चान्ये बोधिसत्त्वन्यामम् अवक्रामन्ति, तेषां च वर्णवादी भवति समनुज्ञः.

एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन स्थातव्यम्. इत्य् अधिमात्रा क्षान्तिः

आत्मना च सत्त्वान् परिपाचयति, परांश् च सत्त्वपरिपाकाय समादापयति, सत्त्वपरिपाकस्य च वर्णं भाषते, ये चान्ये सत्त्वपरिपाकायाभ्युद्गतास्, तेषां च वर्णवादी भवति समनुज्ञः.

आत्मना च बुद्धक्षेत्रं परिशोधयति, परांश् च बुद्धक्षेत्रपरिशोधनाय समादापयति, बुद्धक्षेत्रपरिशुद्धेश् च वर्णं भाषते, ये चान्ये बुद्धक्षेत्रपरिशोधनाय प्रतिष्ठितास्, तेषां च वर्णवादी भवति समनुज्ञः. इति मृदवो ऽग्रधर्माः

आत्मना च बोधिसत्त्वाभिज्ञा उत्पादयति, परांश् च बोधिसत्त्वाभिज्ञासु समादापयति बोधिसत्त्वाभिज्ञानां च वर्णं भाषते, ये चान्ये बोधिसत्त्वाभिज्ञा भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मध्याग्रधर्माः

आत्मना च सर्वाकारज्ञताज्ञानम् उत्पादयति, परांश् च सर्वाकारज्ञताज्ञाने समादापयति, सर्वाकारज्ञताज्ञानस्य च वर्णं भाषते, ये चान्ये सर्वाकारज्ञताज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.

आत्मना च सर्ववासनानुसंधिक्लेशान् प्रजहाति, परांश् च सर्ववासनानुसंधिक्लेशप्रहाणतायै समादापयति, सर्ववासनानुसंधिक्लेशप्रहाणस्य च वर्णं भाषते, ये चान्ये सर्ववासनानुसंधिक्लेशान् प्रजहति, तेषां च वर्णवादी भवति समनुज्ञः.

आत्मना च आयुःसंपदं परिगृह्णाति, परांश् च आयुःसंपदि समादापयति, आयुःसंपदश् च वर्णं भाषते, ये चान्ये महापुरुषा आयुःसंपदि स्थितास्, तेषां च वर्णवादी भवति समनुज्ञः.

आत्मना च सद्धर्मस्थितिं परिगृह्णाति, परांश् च सद्धर्मस्थितौ (psp_4:141) समादापयति, सद्धर्मस्थितेश् च वर्णं भाषते ये चान्ये सद्धर्मस्थितिं परिगृह्णन्ति, तेषाञ् च महापुरुषर्षभाणां वर्णवादी भवति समनुज्ञः.

एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन भवितव्यम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपायकौशल्ये च स्थातव्यम्. तस्यैवं शिक्षमाणस्यैवं तिष्ठतः, अनावरणं रूपं भविष्यति अनावरणा वेदना अनावरणा संज्ञा अनावरणाः संस्कारा, अनावरणं विज्ञानं भविष्यति, एवं विस्तरेण यावद् अनावरणा सद्धर्मस्थितिर् भविष्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततश् चैवं रूपन् न परिगृहीतं, न वेदना न संज्ञा न संस्कारा, न विज्ञानं परिगृहीतम्, एवं यावत् सर्वाकारज्ञता न परिगृहीता. तत् कस्य हेतोः? तथा हि सुभूते यो रूपस्यापरिग्रहो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, तथा हि यो विज्ञानस्यापरिग्रहो न तद् विज्ञानम्. एवं यावद् यः सर्वाकारज्ञताया अपरिग्रहो न सा सर्वाकारज्ञता. अस्मिन् खलु पुनर् बोधिसत्त्वस्थाने भाष्यमाणे द्वयोर् बोधिसत्त्वसहस्रयोर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्. इत्य् अधिमात्राग्रधर्माः इत्य् उक्तं निर्वेधभागीयम्

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अविनिवर्तनीयस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य क आकाराः? कानि लिङ्गानि? कानि निमित्तानि? कथं वा वयं भगवन् जानीमहे? अयम् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इति.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: या च सुभूते पृथग्जनभूमिर् या च श्रावकभूमिर् या च प्रत्येकबुद्धभूमिर् या च बोधिसत्त्वभूमिर् या च तथागतभूमिर् उक्ता सर्वा सा तथतयाविकल्पा निर्विकल्पाद्वयाद्वैधीकारा, यथा च सा तथताविकल्पा तथैव न विकल्पयत्य्, एवम् अवतरत्य् अविकल्पेन, एवम् अवतीर्णो यथा तथता तथा श्रुत्वा ततो ऽतिक्रम्य न किञ्चिद् विकल्पयति, न हि तास् तथताया एकैकतो नोभयतो नानुभयतो, न च यत्किञ्चित्प्रलापी भवति. अर्थोपसंहितां च वाचं भाषते नानर्थोपसंहितां, न च परस्य च कृताकृतं व्यवलोकयति, सुभाषितगवेषी च भवति, एभिः (psp_4:142) सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति सामान्येनावैवर्तिकलक्षणम्

सुभूतिर् आह: कतमैर् भगवन्न् आकारैः? कतमैर् लिङ्गैः? कतमैर् निमित्तैर्? अयम् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.

भगवान् आह: अनाकारा हि सुभूते सर्वधर्मा अलिङ्गा आनिमित्ताः.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अनाकाराः सर्वधर्मा अलिङ्गा आनिमित्ताः, कतमैर् भगवन् धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽविनिवर्तनीय इति निर्दृश्यते?

भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वो रूपाद् विनिवृत्तो, वेदनाया विनिवृत्तः संज्ञाया विनिवृत्तः संस्कारेभ्यो विनिवृत्तो, विज्ञानाद् विनिवृत्तो ऽयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. यः सुभूते बोधिसत्त्वो महासत्त्वः स्कन्धेभ्यो विनिवृत्तो धातुभ्यो विनिवृत्त आयतनेभ्यो विनिवृत्तः प्रतीत्यसमुत्पादाद् विनिवृत्तः प्रतीत्यसमुत्पादाङ्गेभ्यो विनिवृत्तो ऽयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. यः सुभूते बोधिसत्त्वो महासत्त्वो दानपारमिताया विनिवृत्तः, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया विनिवृत्तः, अध्यात्मशून्यताया यावद् अभावस्वभावशून्यताया विनिवृत्तः, स्मृत्युपस्थानेभ्यो विनिवृत्तः, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाद् विनिवृत्तः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिभ्यो विनिवृत्तः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेभ्यो विनिवृत्तः, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यो विनिवृत्तः, श्रावकप्रत्येकबुद्धभूमेर् विनिवृत्तः, अनुत्तरायाः सम्यक्संबोधेर् विनिवृत्तः, अयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. तत् कस्य हेतोः? तथा हि सुभूते रूपस्य स्वभावो न संविद्यते. एवं वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य स्वभावो न संविद्यते यत्र बोधिसत्त्वो महासत्त्वः प्रतिष्ठेत्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानां स्वभावो न संविद्यते, एवं यावद् अनुत्तरायाः सम्यक्संबोधेः स्वभावो न संविद्यते यत्र बोधिसत्त्वो महासत्त्वः प्रतिष्ठेत्. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् एकम् (psp_4:143)

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व इतो बहिर्धानां येषां श्रमणब्राह्मणानां मुखम् उल्लोकयति, इमे भगवन्तः श्रमणब्राह्मणाज्ञेयं जानन्ति दृश्यं पश्यन्ति सम्यग्दृष्टिं प्रज्ञां च प्रज्ञापयन्तीति नेदं स्थानं विद्यते. न विचिकित्साम् आपद्यते न शीलव्रतं परामृषति न कुदृष्टिं पतति, न कौतुकमङ्गलेन शुद्धिं प्रत्येति, नान्येषां देवानां नमस्कारं करोति. पुष्पैर् वा गन्धैर् वा धूपैर् वा विलेपनैर् वा चूर्णैर् वा चीवरैर् वा च्छत्रैर् वा ध्वजैर् वा पताकाभिर् वा नान्येषां दातव्यं वा कर्तव्यं वा मन्यते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं द्वितीयम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न मिथ्यादृष्टिको भवति, न नरकेषूपपद्यते न यमलोके न तिर्यग्योन्यां नासुरेषूपपद्यते न प्रत्यन्तेषु जनपदेषूपपद्यते न जडमूको भवति न दीर्घायुष्केषु देवेषूपपद्यते न च स्त्रीभावं परिगृह्णाति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं तृतीयम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तते स आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः.

एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पिशुनवचनात् परुषवचनाद् अवद्यप्रलापाद् अभिध्याया व्यापादाद्, आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भाषते, ये चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति, तेषाञ् च वर्णवादी भवति समनुज्ञः, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि दशाकुशलान् कर्मपथान्नाध्यापद्यते, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो (psp_4:144) बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं चतुर्थम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यदा दानपारमितायां वर्तते, शीलपारमितायां वर्तते क्षान्तिपारमितायां वर्तते वीर्यपारमितायां वर्तते ध्यानपारमितायां वर्तते, यदा प्रज्ञापारमितायां वर्तते, तदा सर्वसत्त्वानां कृतेन दानं ददाति, एवं शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते सर्वसत्त्वानां कृतेन प्रज्ञां भावयति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.

पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यान्यान् धर्मान् पर्यवाप्नोति सूत्रं गेयं व्याकरणम् इतिवृत्तकं यावद् अवदानोपदेशं तत्तद् धर्मदानं ददत एवं भवति, सर्वसत्त्वानाम् अनेन दानेन धार्मिका अभिप्रायाः परिपूरिङ् गच्छन्तु, स तद् धर्मदानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं पञ्चमम्

पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गम्भीरेषु धर्मेषु नास्ति काङ्क्षा नास्ति विमतिर् नास्ति विचिकित्सा. सुभूतिर् आह: केन कारणेन भगवन्न् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गम्भीरेषु धर्मेषु नास्ति काङ्क्षा नास्ति विमतिर् नास्ति विचिकित्सा?

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.