Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां शृणुयात्, श्रुत्वा च लिखेत लिखित्वा च उद्दिश्येद् योनिशश् च मनसिकुर्यात्. एषां खलु पुनः कुलपुत्राणां कुलदुहितृणाञ् च क्षिप्रतरं परिनिर्वाणं प्रतिकाङ्क्षितव्यं, न त्व् एव तेषां श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा प्रज्ञापारमिताविरहितानाम् अन्येषु सूत्रान्तेषु चरताम्. तत् कस्य हेतोः? तथा हि इह गम्भीरायां प्रज्ञापारमितायां सामुत्कर्षिका धर्मा विस्तरेणोपदिष्टा यत्र श्रद्धानुसारिभिर् धर्मानुसारिभिर् अष्टमकैश् च शिक्षितव्यं, यत्र च स्रोतआपन्नैः सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैर् महायानसंप्रस्थितैर् बोधिसत्त्वैर् महासत्त्वैश् च शिक्षितव्यं, यथा तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः शिक्षमाणैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. इति क्षिप्राभिज्ञताविशेषेन समुदये चतुर्थः क्षणः
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा उदानम् उदानयामासुह्: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता, अचिन्त्यपारमितातुल्यपारमिताप्रमेयपारमितासंख्येयपारमितासमसमपारमितेयं भगवन् यद् उत प्रज्ञापारमिता, यत्र हि नाम भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां शिक्षित्वा श्रद्धानुसारिणो निर्यास्यन्ति धर्मानुसारिणो निर्यास्यन्ति अष्टमकाः, स्रोतआपन्नाः सकृदागामिनो (psp_4:81) ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः, यत्र शिक्षित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते. न चास्याः प्रज्ञापारमिताया ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. इत्य् अनूनापूर्णताविशेषेन निरोधे प्रथमक्षणः
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो ऽन्तिकात् प्रक्रान्ता अभूवन्. ते नातिदूरङ् गत्वा अन्तर्हिता अभूवन्, ये कामावचरा देवपुत्रास् ते कामधातौ प्रातिष्ठन्ते, ये रूपावचरा देवपुत्रास् ते रूपधातौ प्रातिष्ठन्ते.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते स कुतश् च्युत इहोपपन्नो भविष्यति?
भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा सह श्रवणेनाधिमोक्ष्यते नावलेष्यति न संलेष्यति न धन्वायिष्यति न काङ्क्षिष्यति न विचिकित्सिष्यति अभिनन्दिष्यति चेमां गम्भीरां प्रज्ञापारमितां श्रोतुं श्रुत्वा चेमां गम्भीरां प्रज्ञापारमितां तेनैव मनसिकारेणाविरहितो भविष्यति, न तान् मनसिकारान् गच्छन्न् आगच्छन् स्थितो निषण्नः शायितो वा सततसमितम् उच्छ्रक्ष्यति, तं च धर्मभाणकं पुद्गलं सततसमितम् अनुबन्धिष्यति, तद्यथापि नाम सुभूते तरुणवत्सा गौर् नोत्सृजति वत्सम्. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽस्या गम्भीरायाः प्रज्ञापारमितायाः कृतशस् तावन् न जहाति तं धर्मभाणकं यावद् इयं प्रज्ञापारमिता न कायगता कृता भविष्यति धृतावाचिता परिचिता मनसा च प्रेक्षिता दृष्ट्वा सुप्रतिविद्धा, अयं सुभूते बोधिसत्त्वो महासत्त्वो नवयानिकपुद्गलो मनुष्येष्व् एव च्युतो मनुष्येष्व् एवोपपन्नः. तत् कस्य हेतोः? तथा हि तेन नवयानिकेन बोधिसत्त्वेन महासत्त्वेन पूर्वम् अपीयं गम्भीरा प्रज्ञापारमिता लिखित्वा पुस्तकगता सत्कृता गुरुकृता मानिता पूजिता अर्चिता अपचायिता पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिः स तेन कुशलमूलेन मनुष्येष्व् एव च्युतो मनुष्येष्व् एवोपपन्नः, इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमुक्तः. इति तीव्रसंप्रतिपत्तिविशेषेण निरोधे द्वितीयक्षणः (psp_4:82)
सुभूतिर् आह: स्याद् भगवन् पर्यायो यद् एतैर् एव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यो ऽन्यान् बुद्धान् भगवतः पर्युपास्य ततश् च्युतः सन्न् इहोपपन्नो य इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते ऽधिमुच्य लिखिष्यति लिखित्वोद्गृहीष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशश् च मनसिकरिष्यति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, स्यात् सुभूते पर्यायो यद् एतैर् एव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यो ऽन्यान् बुद्धान् भगवतः पर्युपास्य ततश् च्युतः सन्न् इहोपपन्नो य इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते अधिमुच्य लिखिष्यति लिखित्वोद्ग्रहीष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशश् च मनसिकरिष्यति. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता तेषां बुद्धानां भगवताम् अन्तिकाच् छ्रुता श्रुत्वा चोद्गृहीता धारिता वाचिता स्वाध्यायिता मनसिकृता, स तेनैव कुशलमूलेन तैर् एव मनसिकारैर् इहोपपन्नः.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वस् तुषितेभ्यो देवेभ्यश् च्युतः, इह मनुष्याणां सभागतायाम् उपपन्नः स एतैर् एव गुणैः समन्वागतो वेदितव्यः. तत् कस्य हेतोः? तथा हि सुभूते तेन बोधिसत्त्वेन महासत्त्वेन मैत्रेयो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां परिप्रश्नीकृतः स तेन कुशलमूलेन इहोपपन्नः. येन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता न श्रुता, श्रुत्वा च न परिप्रश्नीकृता, तस्य मनुष्यलोके उपपन्नस्य भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता, तेन सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपीयङ् गम्भीरा प्रज्ञापारमिता न श्रुता, श्रुत्वा च न परिप्रश्नीकृता, तस्यास्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो (psp_4:83) ऽपीयं दानपारमिता न श्रुता न परिप्रश्नीकृता, तस्यास्यां दानपारमितायां भाष्यमाणायां भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि, अध्यात्मशून्यता यावद् अभावस्वभावशून्यता न श्रुता न परिप्रश्नीकृता भवति, तस्येमाङ् गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि स्मृत्युपस्थानानि न परिप्रश्नीकृतानि भवन्ति न श्रुतानि वा, तस्येमां गम्भीरां प्रज्ञापारमितां भास्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि शम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गो न श्रुतः, श्रुत्वा च न परिप्रश्नीकृतस्, तस्यास्यां गम्भीरायां प्रज्ञापारमितायां भास्यमाणायां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता. पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वार्य् आर्यसत्यानि पञ्चाभिज्ञाः शून्यतानिमित्ताप्रणिहितानि, अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वसमाधिधारणीमुखानि दश बोधिसत्त्वभूमयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न श्रुता भवन्ति, श्रुत्वा च न परिप्रश्नीकृता भवन्ति, तस्येमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि अनुत्तरा सम्यक्संबोधिर् न श्रुता भवति, श्रुत्वा च न परिप्रश्नीकृता भवति, तस्येमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपीयं गम्भीरा प्रज्ञापारमिता न श्रुता भवति न परिप्रश्नीकृता (psp_4:84) न भाविता न बहुलीकृता न योनिशश् च मनसिकृता, एकं वा दिवसं दिवसद्वयं वा दिवसत्रयं वा चत्वारि वा पञ्च वा षड् वा दश वा दिवसानि, इयं गम्भीरा प्रज्ञापारमिता स संहार्या भवति विरहितश् च भवति प्रज्ञापारमितया. तत् कस्य हेतोः? एवम् एतद् भवति सुभूते येन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततो ऽपि न श्रुता न परिप्रश्नीकृता न भाविता न बहुलीकृता न योनिशश् च मनसिकृता, तस्य कञ्चित् कालं च्छन्दो भवति गम्भीरायां प्रज्ञापारमितायां कञ्चित् कालं च्छन्दो न भवति, स पुनर् एवं संह्रियते चलाचलया बुद्ध्या तूलपिचूपमश् च भवति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो न चिरयानसंप्रस्थितो वेदितव्यो न कल्याणमित्रपरिगृहीतो न सम्यक्संबुद्धपर्युपासितः. न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता उद्दिष्टा न स्वाध्यायिता न योनिशो मनसिकृता न प्रज्ञापारमितायां शिक्षितः, न ध्यानपारमितायां न वीर्यपारमितायां न क्षान्तिपारमितायां न शीलपारमितायां न दानपारमितायां शिक्षितः. नाध्यात्मशून्यतायां शिक्षितः यावन् नाभावस्वभावशून्यतायां शिक्षितः, न स्मृत्युपस्थानेषु शिक्षितः, न सम्यक्प्रहाणेषु नर्द्धिपादेषु नेन्द्रियेषु न बलेषु न बोध्यङ्गेषु नार्याष्टाङ्गमार्गे शिक्षितः, न पञ्चस्व् अभिज्ञासु नाप्रमाणध्यानारूप्यसमापत्तिषु नार्यसत्येषु नाष्टविमोक्षेषु शिक्षितः, न नवानुपूर्वविहारसमापत्तिषु न शून्यतानिमित्ताप्रणिहितेषु शिक्षितः,
न समाधिषु न धारणीमुखेषु शिक्षितः, न षट्सु अभिज्ञासु शिक्षितः, न तथागतबलेषु शिक्षितः, न वैशारद्येषु न प्रतिसंवित्सु नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षितः, न सर्वाकारज्ञतायां शिक्षितः. ते न खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वा नवयानसंप्रस्थिता वेदितव्याः, ते धर्ममात्रकेण च श्रद्धामात्रकेण च प्रेममात्रकेण च समन्वागता, न पुनः सत्कुर्वन्तीमां प्रज्ञापारमितां लिखितुं वा वाचयितुं वा उद्देष्टुं वा स्वाध्यायतुं वा योनिशो मनसिकरणाय यावन् न पुनः सुभूते बोधिसत्त्वयानिकाः कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमितां लिखिष्यन्ति (psp_4:85) नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशश् च मनसिकरिष्यन्ति नाप्य् अनया गम्भीरया प्रज्ञापारमितया परम् अनुग्रहीष्यन्ति. एवं ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया, एवं यावत् सर्वाकारज्ञतया नानुग्रहीष्यन्ति. नापीमां गम्भीरां प्रज्ञापारमिताम् अनुभविष्यन्ति. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां, एवं यावत् सर्वाकारज्ञतां नानुभविष्यन्ति. तेषां द्वाभ्यां भूमिभ्याम् अन्यतरा भूमिः प्रतिकाङ्क्षितव्या, यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च इयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततो ऽपि न लिखिता नोद्दिष्टा न स्वाध्याता न योनिशो मनसिकृता नाप्य् अनया प्रज्ञापारमितया कश्चिद् अनुपरिगृहीतो नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् इयं गम्भीरा प्रज्ञापारमितानुभूता, ते न तेषां कुलपुत्राणां कुलदुहितृणाञ् च भूमिद्वयं प्रतिकाङ्क्षितव्यम्. इति
समुदागमविशेषेण निरोधे तृतीयः क्षणः
तद्यथापि नाम सुभूते सामुद्रिका नौर् यदा भिन्ना भवति तदा ये तत्र पुरुषाः काष्ठं वा दृतिं वा मृतकुणपं वा नाध्यालम्बन्ते न परिगृह्णन्ति, वेदितव्यम् एतत् सुभूते अप्राप्ता एव ते पुरुषाः कुलं समुद्रे कालं करिष्यन्ति. ये खलु पुनः सामुद्रिकायां नाविभिन्नायां काष्ठं वा दृतिं वा मृतकुणपं वा पुरुषा गृहीतव्यं वा मन्येयुर् गृह्णीयुर् वा, वेदितव्यम् एतत् सुभूते न ते पुरुषा महासमुद्रे कालं करिष्यन्ति, स्वस्तिना ते महासमुद्राद् उत्तरिष्यन्ति, ते अक्षता अनुपहताः स्वस्तिना स्थले स्थास्यन्ति. एवम् एव सुभूते ये ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च श्रद्धामात्रकेण प्रसादमात्रकेण प्रेममात्रकेण च समन्वागता, इमां प्रज्ञापारमितां न लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ते, वेदितव्यम् एतत् सुभूते ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चान्तरा एवाध्वनि व्यवसादम् आपत्स्यन्ते, अप्राप्ता एव सर्वाकारज्ञतां ते श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात्करिष्यन्ति, यावन् न ध्यानपारमितां न वीर्यपारमितां न क्षान्तिपारमितां न शीलपारमितां न दानपारमितां लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति, (psp_4:86) नाध्यालम्बिष्यन्ति. एवं न सप्तत्रिंशद् बोधिपक्ष्यान् धर्मान् न चत्वार्य् आर्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तीः, नाध्यात्मशून्यतां यावन् नाभावस्वभावशून्यतां नाष्ट विमोक्षान् न नवानुपूर्वविहारसमापत्तीर् न शून्यतानिमित्ताप्रणिहिताभिज्ञा न सर्वसमाधिसमापत्तीर् न सर्वधारणीमुखानि न दश बलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकान् बुद्धधर्मान् यावन् न
सर्वाकारज्ञताप्रतिसंयुक्तान् सूत्रान्तान् लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, अप्राप्ता एव सर्वाकारज्ञतां ते श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात्करिष्यन्ति. येषां खलु सुभूते बोधिसत्त्वयानिकानां पुद्गलानाम् अस्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, ते च इमां प्रज्ञापारमितां लिखिष्यन्त्य् उद्देक्ष्यन्ति स्वाध्यास्यन्ति अध्यालम्बिष्यन्ते योनिशो मनसिकरिष्यन्ति, पश्य सुभूते कुलपुत्राणां कुलदुहितृणां च श्रद्धां क्षान्तिं प्रेम प्रसादम् अध्याशयं रुचिम् अधिमुक्तिं च्छन्दं त्यागम् अनिक्षिप्तधुरताम् अनुत्तरायां सम्यक्संबोधौ, यैः प्रज्ञापारमिता परिगृहीता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता परिगृहीता, यैर् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणानि ध्यानारूप्यसमापत्तयः परिगृहीताः, यैर् अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि परिगृहीतानि, यैर् दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद आवेणिका बुद्धधर्माः परिगृहीताः, यैः समाधिधारणीमुखानि पञ्चाभिज्ञाः परिगृहीताः, यैर् यावत् सर्वाकारज्ञता परिगृहीता ते नान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, ते ऽतिक्रम्य श्रावकभूमिञ् च प्रत्येकबुद्धभूमिञ् च
सत्त्वांश् च परिपाच्य बुद्धक्षेत्रं परिशोध्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. इत्य् आलम्बनविशेषेण निरोधे चतुर्थः क्षणः
तद्यथापि नाम सुभूते स्त्री वा पुरुषो वा अपरिपक्वेन घटेन (psp_4:87) आमेनोदकं परिगृहीतव्यं मन्यते, वेदितव्यम् एतत् सुभूते नायं घटश् चिरम् अनुवर्त्स्यते क्षिप्रम् एव विनक्ष्यति विलयम् आपत्स्यते. तत् कस्य हेतोः? यथापि नामापरिपक्वत्वात् घटस्य, स भूमिपर्यवसान एव भविष्यति. एवम् एव सुभूते किञ् चापि बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, ते च प्रज्ञापारमितयापरिगृहीता, उपायकौशलेन चापरिगृहीता, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितयापरिगृहीता, ऽध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतयापरिगृहीताः, स्मृत्युपस्थानैर् अपरिगृहीताः, सम्यक्प्रहाणैर् अपरिगृहीता, ऋद्धिपादैर् अपरिगृहीताः, इन्द्रियैर् अपरिगृहीता, बलैर् अपरिगृहीता, बोध्यङ्गैर् अपरिगृहीता, आर्याष्टाङ्गेन मार्गेणापरिगृहीताः, पञ्चभिर् अभिज्ञाभिर् अपरिगृहीताश्, चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैर् अपरिगृहीताः, चतसृभिर् आरूप्यसमापत्तिभिर् अपरिगृहीताश्, चतुर्भिर् आर्यसत्यैर् अपरिगृहीता, अष्टाभिर् विमोक्षैर् अपरिगृहीता, नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिगृहीताः, शून्यतानिमिताप्रणिहितविमोक्षमुखैर् अपरिगृहीता, दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् अपरिगृहीताः, यावत् सर्वाकारज्ञतयापरिगृहीता, वेदितव्यम् एतत् सुभूते बोधिसत्त्वयानिकाः कुलपुत्रा वा
कुलदुहितरो वा अन्तरा व्यसनम् आपत्स्यन्ते. किम् इति सुभूते बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चान्तरा व्यसनं भविष्यति, यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा? तद्यथापि नाम सुभूते स्त्री वा पुरुषो वा सुपरिपक्वेन घटेनोदकं परिवहेन् नद्याः कूपाद् वा सरस्तो वा तडागाद् वा उदपानाद् वा तस्योदकं परिहरतो, वेदितव्यम् एतत् सुभूते स्वस्तिनायं घटो गृहं गमिष्यति, एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, सचेत् प्रज्ञापारमितया परिगृहीत, उपायकौशल्येन च परिगृहीतो, ध्यानपारमितया परिगृहीतो वीर्यपारमितया परिगृहीतः क्षान्तिपारमितया परिगृहीतः शीलपारमितया (psp_4:88) परिगृहीतो दानपारमितया परिगृहीतः, एवं यावत् सर्वाकारज्ञतया परिगृहीतो, वेदितव्यम् एतद् सुभूते अयं बोधिसत्त्वो महासत्त्वो नान्तरा व्यध्वनि व्यवसादम् आपत्स्यते, यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा अक्षतो ऽनुपहतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इत्य् आधारविशेषेण मार्गे प्रथमः क्षणः
तद्यथापि नाम सुभूते सामुद्रिका नौर् अनवबद्धानाकोटिता अकोटीकृता उदके ऽवतारिता भवति, वेदितव्यम् एतत् सुभूते इयं नौर् अन्तरा संसत्स्यते व्यसनम् आपत्स्यते, अन्येन भाण्डं भविष्यति अन्येन नौर् भविष्यति. एवं स वणिग् अनुपायकुशलो वेदितव्यो महतानयेन संयोक्ष्यते महता रत्नेन बहिष्कृतो भविष्यति. एवम् एव किं चापि सुभूते बोधिसत्त्वानाम् अस्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायै सम्यक्संबोधये, ते च प्रज्ञापारमितयापरिगृहीता उपायकौशलेन चापरिगृहीता ध्यानपारमितयापरिगृहीता वीर्यपारमितयापरिगृहीताः क्षान्तिपारमितयापरिगृहीताः शीलपारमितयापरिगृहीता दानपारमितयापरिगृहीताः, सर्वशून्यताभिर् अपरिगृहीताः सप्तत्रिंशद् बोधिपक्ष्यैर् धर्मैर् अपरिगृहीताः, अप्रमाणध्यानारूप्यसमापत्तिभिर् अपरिगृहीता, आर्यसत्यैर् अपरिगृहीता, अष्टाभिर् विमोक्षैर् अपरिगृहीता, नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिगृहीताः, शून्यतानिमित्ताप्रणिहितैर् अपरिगृहीताः, सर्वसमाधिधारणीमुखाभिज्ञाभिर् अपरिगृहीता, दशभिस् तथागतबलैर् अपरिगृहीताः, वैशारद्यैर् अपरिगृहीताः, प्रतिसंविद्भिर् आवेणिकैर् बुद्धधर्मैर् अपरिगृहीता, यावत् सर्वाकारज्ञतयापरिगृहीता, वेदितव्यम् एतत् सुभूते अमी बोधिसत्त्वा अन्तरा व्यध्वनि व्यसनम् आपत्स्यन्ते, महतो ऽर्थात् परिहीणा भविष्यन्ति, यद् उत सर्वाकारज्ञता रत्नराशेः, किं च सुभूते बोधिसत्त्वानाम् अन्तरा व्यसनं यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. तद्यथापि नाम सुभूते पण्डितजातिकः पुरुषः सामुद्रिकायां
नावि स्वाकोटितायाम् उदके ऽवतारितायां भाण्डावरोपितायां युक्तेन वायुनावष्टब्धायां, वेदितव्यम् एतत् सुभूते नेयं सामुद्रिका नौर् अन्तरा व्यसनम् आपत्स्यते, गमिष्यत्य् एषा तं प्रदेशं यत्रानया गन्तव्यं, लौकिकानाञ् च रत्नानां स वणिग् लाभी भविष्यति. एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् (psp_4:89) अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितया परिगृहीत उपायकौशल्येन च परिगृहीतः, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया च परिगृहीतः, सर्वशून्यताभिः सर्वबोधिपक्ष्यैर् धर्मैः सर्वसमाधिभिः सर्वधारणीमुखैर् अप्रमाणध्यानारूप्यसमापत्तिभिः परिगृहीतः, आर्यसत्यैः परिगृहीतः, अष्टाभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिः परिगृहीतः, शून्यतानिमित्ताप्रणिहितैः परिगृहीतः, अभिज्ञाभिः परिगृहीतः, दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः परिगृहीतः, यावत् सर्वाकारज्ञतया परीगृहीतो, वेदितव्यम् एतत् सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा व्यसनम् आपत्स्यते ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? एवम् एव सुभूते भवति यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितया परिगृहीतो भवत्य् उपायकौशल्येन च परिगृहीतो
भवति, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया परिगृहीतो भवति. एवं यावत् सर्वाकारज्ञतया परिगृहीतो भवति, स च बोधिसत्त्वो महासत्त्वो न च श्रावकभूमिं न प्रत्येकबुद्धभूमिं पतति. इति साकल्यविशेषेण मार्गे द्वितीयः क्षणः
तद्यथापि नाम सुभूते पुरुषो विंशतिवर्षशतिको जात्या जीर्णो वृद्धो महल्लकस् तस्य कश्चिद् एव शरीरे व्याधिर् उत्पद्येत वातिको वा पैत्तिको वा श्लेष्मिको वा सांनिपातिको वा, तत् किं मन्यसे? सुभूते अपि नु स पुरुषो मुक्तकः शक्तः स्वयम् उत्क्रान्तुम्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: कश्चित् पुनः सुभूते स पुरुष उत्तिष्ठेत्?
सुभूतिर् आह: किं चापि भगवन् स पुरुषो मञ्चाद् उत्तिष्ठेद्, अथ च पुनर् अप्रतिबलः क्रोशान्तं वा प्रक्रमितुं स तया जरया तैश् च व्याधिभिः क्षपितः, किं चापि ततो मञ्चाद् उत्तिष्ठेद्, अथ च पुनः सो ऽप्रतिबलः प्रक्रमितुम्. (psp_4:90)
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितयापरिगृहीत उपायकौशल्येन चापरिगृहीतो, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितयापरिगृहीतो, अध्यात्मशून्यतया यावद् अभावस्वभावशून्यतयापरिगृहीतः, स्मृत्युपस्थानैर् अपरिगृहीतः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् अपरिगृहीतो, ऽप्रमाणध्यानारूप्यसमापत्तिभिर् आर्यसत्यैश् चापरिगृहीतः, शून्यतानिमित्ताप्रणिहितैर् अपरिगृहीतो, दशबलवैशारद्यावेणिकबुद्धधर्मैर् अपरिगृहीतो, वेदितव्यम् एतत् सुभूते ऽयं बोधिसत्त्वो ऽन्तरा व्यध्वनि श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति. तत् कस्य हेतोः? तथा हि स प्रज्ञापारमितया अपरीगृहीत उपायकौशल्येन चापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः. तद्यथापि नाम सुभूते स एव पुरुषो विंशतिवर्षशतिको जात्या जीर्णो वृद्धो महल्लकः, स वातेन वा पित्तेन वा श्लेष्मना वा सांनिपातेन वा परिक्षपितस्, तं मञ्चाद् उत्स्थाप्य द्वौ बलवन्तौ पुरुषौ वामदक्षिणयोः पार्श्वयोर् अबलं व्यानुपरिगृह्य एवं वदेताम्: आगच्छ त्वं भोः पुरुष येनेच्छसि येन कामो ऽनुपरिगृहीतस् त्वम् आवाभ्यां नान्तरा पतिष्यसि यावन् न तत् स्थानम् अनुप्राप्तो भविष्यसि. एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां
सम्यक्संबोधौ, स च बोधिसत्त्वः प्रज्ञापारमितया परिगृहीत उपायकौशल्येन च परिगृहीतो, ध्यानपारमितया परिगृहीतो, वीर्यपारमितया परिगृहीतः, क्षान्तिपारमितया परिगृहीतः, शीलपारमितया परिगृहीतो, दानपारमितया परिगृहीतो, ऽध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया परिगृहीतः, वेदितव्यम् एतत् सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा संसत्स्यते, प्रतिबलो ऽयं बोधिसत्त्वो महासत्त्वस् तत् स्थानम् अनुप्राप्तुं यद् उतानुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितोपायकौशल्येनाविरहितः. (psp_4:91)
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वयानसंप्रस्थिताः कुलपुत्राः कुलदुहितरश् चापरिगृहीताः प्रज्ञापारमितोपायकौशलेन चापरिगृहीताः श्रावकभूमिं प्रत्येकबुद्धभूमिञ् च पतन्ति?
भगवान् आह: साधु साधु सुभूते यस् त्वं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतम् अर्थं परिप्रश्नीकर्तव्यं मन्यसे, इह सुभूते बोधिसत्त्वो महासत्त्व आदित एव यद् दानन् ददाति तद् अहंकारममकारपतितया संतत्या ददाति, यच् छीलं रक्षति, यां क्षान्तिं भावयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तद् अहंकारममकारपतितेन चित्तेन भावयति, तस्य तद् दानन् ददत एवं भवति, अहं दानं ददामीदन् दानं ददामि, अस्मै दानन् ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं शीलवान्, अहं क्षमामि, अहं क्षान्तिं संपादयामि, अहं क्षमावान्, अहं वीर्यम् आरभे, ऽहम् आरब्धवीर्यो, ऽहं वीर्यवान्, अहं ध्यानं समापद्ये, अहं ध्यायामि, अहं ध्यानवान्, अहं प्रज्ञां भावयामीमां प्रज्ञां भावयामि, अहं प्रज्ञावान्, स तेन दानेन मन्यते तद् दानं मन्यते दानं ममेति मन्यते, एवं शीलं क्षान्तिं वीर्यं ध्यानं, तया प्रज्ञया मन्यते तां प्रज्ञां मन्यते प्रज्ञां ममेति मन्यते. तत् कस्य हेतोः? न हि दानपारमिताया एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? आरमिता हि दानपारमिता, एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न हि प्रज्ञापारमिताया एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? आरमिता हि प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः पुद्गलो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितयापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, न निर्यास्यति
सर्वाकारज्ञतायाम्. कथञ् च बोधिसत्त्वो ऽनुपायकुशलो भवति? इह सुभूते यो बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा आदाव् एवम् अनुपायेन दानं ददाति, अनुपायेन शीलं रक्षति, अनुपायेन क्षान्तिं संपादयति, अनुपायेन वीर्यम् आरभते, अनुपायेन ध्यानं समापद्यते, अनुपायेन प्रज्ञां भावयति, तस्यैवं भवति, अहं दानं ददामि, इदं दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अहं (psp_4:92) वीर्यम् आरभे, इदं वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, स दानं मन्यते दानेन मन्यते दानं ममेति मन्यते, शीलं मन्यते शीलेन मन्यते शीलवान् अहम् इति मन्यते, क्षान्तिं मन्यते क्षान्त्या मन्यते क्षमावान् अहम् इति मन्यते, वीर्यं मन्यते वीर्येण मन्यते वीर्यं ममेति मन्यते, ध्यानं मन्यते ध्यानेन मन्यते ध्यानवान् अहम् इति मन्यते, प्रज्ञां मन्यते प्रज्ञया मन्यते प्रज्ञा ममेति मन्यते. तत् कस्य हेतोः? न हि दानपारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? तथा ह्य् आरमितैषा यद् उत दानपारमिता, आरमितैषा यद् उत शीलपारमिता, आरमितैषा यद् उत क्षान्तिपारमिता, आरमितैषा यद् उत वीर्यपारमिता, आरमितैषा यद् उत ध्यानपारमिता. न हि प्रज्ञापारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? तथा ह्य् आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः कुलपुत्रो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो दानपारमितया परिगृहीतः शीलपारमितयापरिगृहीतः
क्षान्तिपारमितयापरिगृहीतो वीर्यपारमितयापरिगृहीतो ध्यानपारमितयापरिगृहीतः प्रज्ञापारमितयापरिगृहीत, एवं यावत् सर्वाकारज्ञतया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, न निर्यास्यति सर्वाकारज्ञतायाम्. एवं हि सुभूते बोधिसत्त्वः प्रज्ञापारमितया चोपायकौशलेन चापरिगृहीतः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया चोपायकौशलेन च परिगृहीतो न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतति, अनुत्तरां च सम्यक्संबोधिम् आरागयति? इह सुभूते बोधिसत्त्वो महासत्त्व आदाव् एव दानं ददन्, नाहंकारममकारपतितेन चेतसा दानन् ददाति, नाहंकारममकारपतितेन चेतसा शीलं रक्षति, नाहंकारममकारपतितेन चेतसा क्षान्तिं संपादयति, नाहंकारममकारपतितेन चेतसा वीर्यम् आरभते, नाहंकारममकारपतितेन चेतसा ध्यानं समापद्यते, नाहंकारममकारपतितेन चेतसा प्रज्ञां भावयति, तस्य नैवं भवति, अहं दानन् ददामीदन् दानन् ददाम्य् अस्यै दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, एषु शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अस्मै क्षान्तिम् (psp_4:93) संपादयामि, अहं वीर्यम् आरभे, इदं वीर्यम् आरभे, अस्यार्थे वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, एषु ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, अस्यार्थे प्रज्ञां भावयामि, स दानं न मन्यते दानेन न मन्यते दानं ममेति न मन्यते, शीलं न मन्यते शीलेन न मन्यते शीलं ममेति न मन्यते, क्षान्तिं न मन्यते क्षान्त्या न मन्यते क्षान्तिं
ममेति न मन्यते, वीर्यं न मन्यते वीर्येण न मन्यते वीर्यं ममेति न मन्यते, ध्यानं न मन्यते ध्यानेन न मन्यते ध्यानं ममेति न मन्यते, प्रज्ञां न मन्यते प्रज्ञया न मन्यते प्रज्ञा ममेति न मन्यते. तत् कस्य हेतोः? तथा हि दानपारमितायां विकल्पो न संविद्यते येन मन्यते, एवं शीलक्षान्तिवीर्यध्यानपारमितायां विकल्पो न संविद्यते येन मन्यते, तथा हि प्रज्ञापारमितायां विकल्पो न संविद्यते येन मन्यते, आरमितैषा यद् उत दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वो महासत्त्व आरमिताञ् च पारमिताञ् च न मन्यते, स दानपारमितया परिगृहीतः, शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया, प्रज्ञापारमितया च परिगृहीतो, यावत् सर्वाकारज्ञतया परिगृहीतो न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतति, सर्वाकारज्ञतां चारागयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया परिगृहीत उपायकौशलेन च परिगृहीतो न श्रावकभूमिं न प्रत्येकबुद्धभूमिं पतति. एवम् उपायकौशलपरिगृहीतो ऽनुत्तरां सम्यक्संबोधिम् आरागयति. इति संपरिग्रहविशेषेण मार्गे तृतीयः क्षणः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं? कथं ध्यानपारमितायां शिक्षितव्यं? कथं वीर्यपारमितायां शिक्षितव्यं? कथं क्षान्तिपारमितायां शिक्षितव्यं? कथं शीलपारमितायां शिक्षितव्यम्? कथं दानपारमितायां शिक्षितव्यं? कथं यावद् आवेणिकबुद्धधर्मेषु शिक्षितव्यं?
भगवान् आह: इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितुकामेन ध्यानपारमितायां वीर्यपारमितायां (psp_4:94) क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षितुकामेन यावत् सर्वाकारज्ञतायां शिक्षितुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि, ये ऽस्याः प्रज्ञापारमिताया उद्देष्टारः, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया उद्देष्टारः, तस्येमाङ् गम्भीरां प्रज्ञापारमिताम् एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र यद्यद् एव दानन् ददासि तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, एहि त्वं कुलपुत्र यद्यद् एव शीलं रक्षसि, क्षान्तिं संपादयसि, वीर्यं आरभसे, ध्यानं समापद्यसे, प्रज्ञां भावयसि, तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं रूपतः पराम्राक्षीः, मा वेदनातो मा संज्ञातो मा संस्कारतो मा विज्ञानतः पराम्राक्षीः, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिन् दानपारमितया पराम्राक्षीः, मा शीलपारमितया मा क्षान्तिपारमितया मा वीर्यपारमितया मा ध्यानपारमितया, मा प्रज्ञापारमितया पराम्राक्षीः, मा अध्यात्मशून्यतया मा बहिर्धाशून्यतया मा अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया पराम्राक्षीः, मा स्मृत्युपस्थानैः पराम्राक्षीः, मा सम्यक्प्रहाणैः पराम्राक्षीः, मा ऋद्धिपादैर् इन्द्रियबलबोध्यङ्गमार्गैः पराम्राक्षीः, मा पञ्चभिर् अभिज्ञाभिः पराम्राक्षीः, मा अप्रमाणध्यानारूप्यसमापत्तिभिः मा आर्यसत्यैर् मा अष्टाभिर् विमोक्षैर् मा नवानुपूर्वविहारसमापत्तिभिः, मा शून्यतानिमित्ताप्रणिहितैः
पराम्राक्षीः, मा समाधिभिर् मा धारणीमुखैर् मा दशभिस् तथागतबलैर् मा चतुर्भिर् वैषारद्यैर् मा चतसृभिः प्रतिसंविद्भिर् मा अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः पराम्राक्षीः, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं यावत् सर्वाकारज्ञतां पराम्राक्षीः. तत् कस्य हेतोः? अपरामृष्टं हि रूपम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, अपरामृष्टा वेदना संज्ञा संस्काराः, अपरामृष्टं विज्ञानम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, अपरामृष्टा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, अपरामृष्टा प्रज्ञापारमिता, अपरामृष्टा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अपरामृष्टानि स्मृत्युपस्थानानि, अपरामृष्टाः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गा, अपरामृष्टा अभिज्ञा, (psp_4:95) अपरामृष्टा अप्रमाणध्यानारूप्यसमापत्तयः, अपरामृष्टान्य् आर्यसत्यानि, अपरामृष्टा अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः, अपरामृष्टानि शून्यतानिमित्ताप्रणिहितानि, अपरामृष्टानि समाधिधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि, अपरामृष्टाश् चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अपरामृष्टा यावत् सर्वाकारज्ञता अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति. मा च त्वं कुलपुत्र प्रज्ञापारमितायां चरन् रूपे स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र रूपं, वेदनायां संज्ञायां संस्कारेषु, मा च त्वं कुलपुत्र विज्ञाने स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र विज्ञानं, मा च त्वं कुलपुत्र दानपारमितायां स्पृहां कार्षीः, मा शीलक्षान्तिवीर्यध्यानपारमितायां स्पृहां कार्षीः, मा प्रज्ञापारमितायां स्पृहां कार्षीः, मा अध्यात्मशून्यतायां
स्पृहां कार्षीः, मा यावद् अभावस्वभावशून्यतायां स्पृहां कार्षीः, मा स्मृत्युपस्थानेषु स्पृहां कार्षीः, मा सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्पृहां कार्षीः, मा अप्रमाणध्यानारूप्यसमापत्तिषु, मा आर्यसत्येषु स्पृहां कार्षीः, मा अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु स्पृहां कार्षीः, मा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्पृहां कार्षीः, मा सर्वसमाधिसमापत्तिधारणीमुखेषु स्पृहां कार्षीः, मा च त्वं कुलपुत्र सर्वाकारज्ञतायां स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहा हि कुलपुत्र सर्वाकारज्ञता, मा च त्वं कुलपुत्र स्रोतआपत्तिफले स्पृहां कार्षीः, मा सकृदागामिफले मा अनागामिफले मा अर्हत्त्वे मा प्रत्येकबोधौ स्पृहां कार्षीः, मा बोधिसत्त्वनियामे स्पृहां कार्षीः, मानुत्तरायां सम्यक्संबोधौ स्पृहां कार्षीः. तत् कस्य हेतोः? स्वभावशून्या हि कुलपुत्र सर्वधर्माः. इत्य् अनास्वादनाविशेषेण मार्गे चतुर्थः क्षणः इति विशेषलक्षणम्
सुभूतिर् आह: दुष्करकारका हि भगवन् बोधिसत्त्वा महासत्त्वा भवन्ति, ये स्वलक्षणशून्येषु धर्मेषु अनुत्तरां सम्यक्संबोधिं प्रार्थयन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामाः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारका हि सुभूते बोधिसत्त्वा महासत्त्वा, ये स्वलक्षणशून्येषु धर्मेष्व् अनुत्तरां सम्यक्संबोधिं प्रार्थयन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा (psp_4:96) लोकस्य हिताय, सुभूते बोधिसत्त्वा महासत्त्वाः संप्रस्थिता लोकस्य सुखाय, सुभूते बोधिसत्त्वा महासत्त्वाः संप्रस्थिता लोकस्य त्राणं भविष्याम इत्य् अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. लोकस्य शरणं भविष्यामो, लोकस्य लयनं लोकस्य परायणं लोकस्य द्वीपा लोकस्य परिणायका अनुकम्पका नाथा लोकस्य गतिर् भविष्याम इति अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. कथञ् च सुभूते बोधिसत्त्वा महासत्त्वाः लोकस्य हिताय संप्रस्थिता भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वान् पञ्चभ्यो गतिभ्यः परिमोच्याभयस्थले क्षमे निर्वाणे प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य हिताय संप्रस्थिता भवन्ति. इति हितकारित्रम्
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा लोकस्य सुखाय संप्रस्थिता भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वान् दुष्खदौर्मनस्योपायासेभ्यः परिमोचयित्वाभयस्थले क्षेमे निर्वाणे प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा लोकानां सुखाय संप्रस्थिता भवन्ति. इति सुखकारित्रम्
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य त्राणं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य यानि तानि संसारावचराणि दुःखानि ततः सत्त्वांस् त्रायन्ति, तेषाञ् च दुष्खानां प्रहाणाय धर्मं देशयन्ति, ते तं धर्मं श्रुत्वानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य त्राणं भवन्ति. इति त्राणकारित्रम्
कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य शरनं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मणः सत्त्वा जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोचयन्ति परिमोच्यानुपधिशेषे निर्वाणधातौ प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा लोकस्य शरणं भवन्ति. इति शरणकारित्रम् (psp_4:97)
कथं च सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वानां लयनं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सर्वधर्माणाम् अश्लेषाय धर्मन् देशयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां लयनं भवन्ति.
सुभूतिर् आह: कथं पुनर् भगवन् सर्वधर्माणाम् अश्लेषो भवति?
भगवान् आह: यः सुभूते रूपस्याश्लेषः स रूपस्यासंबन्धो, यो रूपस्यासंबन्धः स रूपस्यानुत्पादो, यो रूपस्यानुत्पादः स रूपस्यानिरोधो, यो रूपस्यानिरोधः स रूपस्याश्लेषः, वेदनायाः संज्ञायाः संस्काराणां, यः सुभूते विज्ञानस्याश्लेषः स विज्ञानस्यासंबन्धो, यो विज्ञानस्यासंबन्धः स विज्ञानस्यानुत्पादो, यो विज्ञानस्यानुत्पादः स विज्ञानस्यानिरोधो, यो विज्ञानस्यानिरोधः स विज्ञानस्याश्लेषः. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु च सर्वपारमितासु सप्तत्रिंसत्सु बोधिपक्षेषु धर्मेषु आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु सर्वसमाधिसर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु, यः सुभूते सर्वाकारज्ञताया अश्लेषः स सर्वाकारज्ञताया असंबन्धो, यः सर्वाकारज्ञताया असंबन्धः स सर्वाकारज्ञताया अनुत्पादो, यः सर्वाकारज्ञताया अनुत्पादः स सर्वाकारज्ञताया अनिरोधो, यः सर्वाकारज्ञताया अनिरोधः स सर्वाकारज्ञताया अश्लेषः. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां सर्वधर्माश्लेषाय धर्मन् देशयन्ति. इति लयनकारित्रम्
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य परायणं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् एवंधर्मन् देशयन्ति, यद् रूपस्य पारन् न तद् रूपं, वेदनायाः संज्ञायाः संस्काराणां, यद् विज्ञानस्य पारन् न तद् विज्ञानं, यत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य पारन् न ते स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, यत् सर्वपारमितानां पारन् न ताः सर्वपारमिताः, यत् सर्वशून्यतानां पारन् न ताः सर्वशून्यताः, यद् बोधिपक्ष्याणां धर्माणां पारन् न ते बोधिपक्ष्या धर्माः, एवम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो, (psp_4:98) यद् आवेणिकबुद्धधर्माणां पारन् न ते आवेणिकबुद्धधर्माः, यावद् यत् सर्वाकारज्ञतायाः पारन् न सा सर्वाकारज्ञता, यथा च सुभूते रूपन् तथा सर्वधर्मास् तथा सर्वाकारज्ञता.
सुभूतिर् आह: यदि भगवन् यथा सर्वधर्मास् तथा रूपं नन्व् अभिसंबुद्धैर् च भवति बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता. तत् कस्य हेतोः? न हि भगवन् रूपस्य पारे विकल्पः कश्चिद् अस्ति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चिद् अस्ति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां पारे विकल्पः कश्चिद् अस्ति. नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चिद् अस्ति यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. इदं रूपम् इति, वेदना संज्ञा संस्काराः, इदं विज्ञानम् इति यावद् इमे स्कन्धा इमे धातव इमान्य् आयतनानि अयं प्रतीत्यसमुत्पादः, इमानि प्रतीत्यसमुत्पादाङ्गानि इमाः पारमिता इमाः शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्यानि इमा अभिज्ञा इमा अप्रमाणध्यानारूप्यसमापत्तयः, इमानि विमोक्षसमापत्तिधारणीमुखानि इमानि शून्यतानिमित्ताप्रणिहितानि, इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, इयं सर्वाकारज्ञतेति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न हि सुभूते रूपस्य पारे विकल्पः कश्चिद् अस्ति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चित्. एवं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च पारे विकल्पः कश्चिन्, न पारमितानां सर्वशून्यतानां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनां पारे विकल्पः कश्चिन्, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चित्, एवन् न यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. अपि नु सुभूते दुष्करं बोधिसत्त्वानां महासत्त्वानां य इमान् एवंरूपान् धर्मान् उपनिध्यायन्ति न चावलीयन्ते. एवं च मयैते धर्मा अभिसंबोधव्या. एवञ् चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यैतान् धर्मान् एवंशान्तान् एवंप्रणीतान् प्रकाशयिष्याम इति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य परायणं भवन्ति. इति सुपरायणकारित्रम् (psp_4:99)
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य द्वीपा भवन्ति? तद्यथापि नाम सुभूते ये प्रदेशा उदकपरिच्छिन्ना भवन्ति महानदीषु च महासमुद्रेषु वा ते सुभूते द्वीपा इत्य् उच्यन्ते. एवम् एव सुभूते रूपं पूर्वान्तापरान्तपरिच्छिन्नम्, एवं वेदना संज्ञा संस्कारा, विज्ञानं सुभूते पूर्वान्तापरान्तपरिच्छिन्नम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च पूर्वान्तापरान्तपरिच्छिन्नानि, एवं दानपारमिता पूर्वान्तापरान्तपरिच्छिन्ना, एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता पूर्वान्तापरान्तपरिच्छिन्ना, अध्यात्मशून्यता पूर्वान्तापरान्तपरिच्छिन्ना बहिर्धाशून्यता पूर्वान्तापरान्तपरिच्छिन्ना, अध्यात्मबहिर्धाशून्यता पूर्वान्तापरान्तपरिच्छिन्ना यावद् अभावस्वभावशून्यता पूर्वान्तापरान्तपरिच्छिन्ना, सप्तत्रिंशद्बोधिपक्ष्या धर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तपरिच्छिन्नाः, आर्यसत्यानि पूर्वान्तापरान्तपरिच्छिन्नानि, विमोक्षसमापत्तिधारणीमुखानि पूर्वान्तापरान्तपरिच्छिन्नानि, शून्यतानिमित्ताप्रणिहिताभिज्ञः पूर्वान्तापरान्तपरिच्छिन्नाः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, यावत् सर्वाकारज्ञता पूर्वान्तापरान्तपरिच्छिन्ना. एतेन सुभूते पूर्वान्तापरान्तपरिच्छेदेन सर्वधर्माः परिच्छिन्नाः, यश् च सुभूते सर्वधर्माणां पूर्वान्तापरान्तपरिच्छेदः, एतच् छान्तम् एतत् प्रणीतम् एतद् यथात्म्यं, यद् उत शून्यतानुपलम्भो धर्मो परिच्छेदस् तृष्णाक्षयो विरागो विरोधो निर्वाणम्. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पूर्वान्तापरान्तपरिच्छिन्नान् सर्वधर्मान् देशयन्तो लोकस्य द्वीपा भवन्ति.
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्यालोको भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो दीर्घरात्रम् अविद्याण्डकोशपर्यवनद्धानां सत्त्वानां तमोभिभूतानां प्रज्ञयावभासयन् मोहान्धकारम् अविद्यातमोभिनत्तितिमिरं विधूनोत्य्, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्यालोको भवति.
कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् उल्काधारो भवति प्रभाकरः? इह सुभूते (psp_4:100) बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमे षट्पारमिताप्रतिसंयुक्ताश् चतुःसंग्रहवस्तुप्रतिसंयुक्ताश् च सूत्रान्तास् तेषाम् अर्थन् तत्त्वतः सत्त्वेभ्यः प्रकाशयति, सत्त्वांश् च तत्र नियोजयति निवेशयति प्रतिष्ठापयति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् उल्काधारः प्रभाकरो भवति.
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सार्थवाहो भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य कुमार्गसंप्रस्थितानां सत्त्वानां चतुर्गमनगामिनाम् एकायनं मार्गम् उपदिशति सत्त्वानां विशुद्धये शोकोपद्रवाणां समतिक्रमाय दुःखदौर्मनस्यानाम् अस्तंगमायार्यस्य धर्मस्याधिगमाय निर्वाणस्य साक्षात्क्रियायै, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सार्थवाहो भवति. इति द्वीपकारित्रम्
कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य परिणायको भवति? इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वनिकाये महाकरुणाम् उत्पाद्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य रूपस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय सत्त्वानां धर्मन् देशयति संप्रकाशयति, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. उपायपारमितायाः प्रणिधानपारमिताया बलपारमिताया ज्ञानपारमितायाश् चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभाव शून्यतायाश् चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां चानुत्पादायानिरोधायासंक्लेशाया व्यवदानाय धर्मन् देशयति संप्रकाशयति. अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं सर्वसमाधीनाम् (psp_4:101) सर्वधारणीमुखानां दशानां बलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. सर्वाकारज्ञताया अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. प्रत्येकबोधेर् अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. स्रोतआपत्तिफलस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वफलस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां परिणायको भवति. इति परिणायककारित्रम्
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः सत्त्वानां गतिर् भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो मूढानां गतिकानां सत्त्वानाम् अन्तशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य गतिर् भवति. आकाशगतिकं रूपम् इति सत्त्वानां धर्मन् देशयति, वेदना संज्ञा संस्कारा, आकाशगतिकं विज्ञानम् इति सत्त्वानां धर्मन् देशयति. आकाशगतिका स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि चेति सत्त्वानां धर्मन् देशयति. एवं सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा आकाशगतिका इति सत्त्वानां धर्मन् देशयति. आकाशगतिका सर्वज्ञतेति सत्त्वानां धर्मन् देशयति. अनागतिगतिका रूपशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति, वेदना संज्ञा संस्कारा, अनागतिगतिका विज्ञानशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च शून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवम् अनागतिगतिका सर्वपारमितासर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. (psp_4:102) अनागतिगतिका स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका
अप्रमाणध्यानारूप्यसमापत्तिशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका शून्यतानिमित्ताप्रणिहिताभिज्ञाशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका दशतथागतबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका सर्वाकारज्ञताशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां गतिर् भवति. तत् कस्य हेतोः? शून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते शून्यताया आगतिर् वा गतिर् वोपलभ्यते. आनिमित्तगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आनिमित्तस्यागतिर् वा गतिर् वोपलभ्यते. अप्रणिहितगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽप्रणिहितस्यागतिर् वा गतिर् वोपलभ्यते. अनभिसंस्कारगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्यागतिर् वा गतिर् वोपलभ्यते. इत्य् अनाभोगकारित्रम्
अनुत्पादगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुत्पादस्यागतिर् वा गतिर् वोपलभ्यते. अनिरोधगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनिरोधस्यागतिर् वा गतिर् वोपलभ्यते. असंक्लेशाव्यवदानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽसंक्लेशाव्यवदानस्यागतिर् वा गतिर् वोपलभ्यते. अजाताभावगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽजाताभावस्यागतिर् वा गतिर् वोपलभ्यते. स्वप्नगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्यागतिर् वा गतिर् वोपलभ्यते. मायागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते मायाया आगतिर् वा गतिर् (psp_4:103) वोपलभ्यते. प्रतिश्रुत्कागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते प्रतिश्रुत्काया आगतिर् वा गतिर् वोपलभ्यते. प्रतिभासगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते प्रतिभासस्यागतिर् वा गतिर् वोपलभ्यते. निर्मितगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते निर्मितस्यागतिर् वा गतिर् वोपलभ्यते. मरीचीगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते मरीच्या आगतिर् वा गतिर् वोपलभ्यते. गन्धर्वनगरगतिका हि सुभूते सर्व धर्मास् ते ताङ् गतिन्
न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते गन्धर्वनगरस्यागतिर् वा गतिर् वोपलभ्यते. अनन्तापर्यन्तगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते अनन्तापर्यन्तस्यागतिर् वा गतिर् वोपलभ्यते. अनुद्धाराप्रत्युद्धारगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुद्धाराप्रत्युद्धारस्यागतिर् वा गतिर् वोपलभ्यते. अनागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभोते ऽनागतेर् आगतिर् वा गतिर् वोपलभ्यते. अनायूहानिर्यूहगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनायूहानिर्यूहस्यागतिर् वा गतिर् वोपलभ्यते. अयोगावियोगाश्लेषाविश्लेषगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽयोगावियोगाश्लेषाविश्लेषस्यागतिर् वा गतिर् वोपलभ्यते. आत्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आत्मन आगतिर् वा गतिर् वोपलभ्यते. सत्त्वगतिका हि सुभूते सर्वधर्मा, जीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकोत्थापकसमुत्थापकगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सत्त्वो न संविद्यते जीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकोत्थापकसमुत्थापका न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. नित्यगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, सुखगतिका हि सुभूते
सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, आत्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, शुभगतिका (psp_4:104) हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते नित्यं सुखम् आत्मा शुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अनित्यगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दुःखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अनात्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अशुभगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते अनित्यं दुःखम् अनात्मा अशुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. रागगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दोषगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, मोहगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दृष्टिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते दृष्टिकृतं वस्तु न संविद्यते, कुतो दृष्टिकृतानि भविष्यन्ति?, कुत एवागतिर् वा गतिर् वा भविष्यति. तथतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते तथताया आगतिर् वा गतिर् वोपलभ्यते, धर्मधातुगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, भूतकोटिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, समतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते,
अचिन्त्यधातुगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते धर्मधातोर् भूतकोटेः समताया अचिन्त्यधातोर् आगतिर् वा गतिर् वोपलभ्यते. अचलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽचलस्य धर्मस्यागतिर् वा गतिर् वोपलभ्यते. इति यानत्रयनिर्याणतत्फलसाक्षात्करणकारित्रम्
रूपगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते रूपन् न संविद्यते, कुतः पुनर् अस्यागतिर् वा गतिर् वा भविष्यति. वेदना संज्ञा संस्काराः, विज्ञानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते विज्ञानन् न संविद्यते, कुतः पुनर् अस्यागतिर् वा गतिर् वा भविष्यति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानि न संविद्यन्ते, (psp_4:105) कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. दानपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते दानपारमिता न संविद्यते, कुतः पुनर् अस्या आगतिर् वा गतिर् वा भविष्यति. एवं शीलपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, क्षान्तिपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, वीर्यपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, ध्यानपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, प्रज्ञापारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता न संविद्यते, कुतः पुनर् आसाम् आगतिर् वा गतिर् वा भविष्यति. अध्यात्मशून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, यावद् अभावस्वभावशून्यतागतिका हि
सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते अध्यात्मशून्यता, यावद् अभावस्वभावशून्यता न संविद्यते, कुतः पुनर् आसाम् आगतिर् वा गतिर् वा भविष्यति. स्मृत्युपस्थानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्मृत्युपस्थानानि न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अप्रमाणध्यानारूप्यसमापत्तिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. आर्यसत्यविमोक्षसमाधिसमापत्तिधारणीमुखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. अभिज्ञादशबलवैशारद्यप्रतिसंविच्छून्यतानिमित्तप्रणिहिताष्टादशावेणिकबुद्धधर्मा गतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सर्वधर्मा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. स्रोतआपत्तिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, सकृदागामिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अनागामिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अर्हत्त्वप्रत्येकबुद्धगतिका (psp_4:106) हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते
स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्त्वप्रत्येकबुद्धा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अनुत्तरा सम्यक्संबोधिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते ऽनुत्तरा सम्यक्संबोधिर् न संविद्यते, कुतः पुनर् अस्या आगतिर् वा गतिर् वा भविष्यति.
सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्ष्यते?
भगवान् आह: ये सुभूते बोधिसत्त्वा महासत्त्वाः पूर्वचरिता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, पूर्वजिनकृताधिकाराः पूर्वजिनपरिपाचितकुशलमूला भविष्यन्ति, बहुबुद्धकोटीनियुतशतसहस्रपर्युपासिता भविष्यन्ति, कल्याणमित्रपरिगृहीताश् च त इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते. इति गतिकारित्रम् इति कारित्रलक्षणम्
सुभूतिर् आह: कानि पुनर् भगवंस् तेषां बोधिसत्त्वानां महासत्त्वानां लिङ्गान्य् आकाराणि निमित्तानि स्वभावा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां ज्ञास्यन्ति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: रागविनयविविक्तस्वभावास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहविनयविविक्तस्वभावास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति क्लेशविविक्तस्वभावः
रागलिङ्गविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहलिङ्गविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति तल्लिङ्गविवेकस्वभावः
रागनिमित्तविवेकस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहनिमित्तविवेकस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति तन्निमित्तविवेकस्वभावः
रागारागविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषादोषमोहामोहविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्ष्यन्ते. (psp_4:107)
सुभूतिर् आह: किंगतिकास् ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् आज्ञास्यन्ति?
भगवान् आह: सर्वाकारज्ञतागतिका हि सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् आज्ञास्यन्ति.
सुभूतिर् आह: सर्वाकारज्ञतागतिकास् ते भगवन् बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वानां गतिर् भवन्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वाकारज्ञतागतिकास् ते सुभूते बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वानां गतिर् भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्ष्यन्ते. इति विपक्षप्रतिपक्षविवेकस्वभावः
सुभूतिर् आह: दुष्करकारका भगवंस् ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. न चात्र सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारकास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न रूपसंबद्धः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते रूपं न संविद्यन्ते, न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न रूपसंबद्धो ऽयं संनाह इति, वेदना संज्ञा संस्काराः, स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न विज्ञानसंबद्धः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते विज्ञानन् न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न विज्ञानसंबद्धो ऽयं संनाह इति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा संबद्धो ऽयं संनाहः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि वा न संविद्यन्ते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न प्रतीत्यसमुत्पादसंबन्धो न प्रतीत्यसमुत्पादाङ्गसंबद्धो ऽयं संनाह इति. एवं विस्तरेण सुभूते नायं संनाह आत्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकसंबन्धो यावत् सुभूते नायं संनाहः सर्वाकारज्ञतासंबद्धः. तत् (psp_4:108) कस्य हेतोः? अत्यन्ततया हि सुभूते सर्वाकारज्ञता न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते, यावन् न सर्वाकारज्ञतासंबद्धो ऽयं बोधिसत्त्वस्य महासत्त्वस्य संनाह इति. सर्वधर्मसंबद्धो बतायं बोधिसत्त्वस्य महासत्त्वस्य संनाहो यैर् अयं गम्भीरायां प्रज्ञापारमितायां चरद्भिर् एवं संनाहः संनद्धः, एवं सर्वसत्त्वान् परिनिर्वापयिष्यामः. इति दुष्करतास्वभावः
सुभूतिर् आह: अस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वान् परिनिर्वापयिष्यामीति, एवं संनाहसंनद्धस्य स्थानद्वयन् न प्रतिकाङ्क्षितव्यं श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा, अस्थानम् एतत् भगवन्न् अनवकाशो ऽयं स बोधिसत्त्वो महासत्त्व एवं संनाहसंनद्धः सर्वसत्त्वान् परिनिर्वापयिष्यामीति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? न हि बोधिसत्त्वस्य महासत्त्वस्य सीमाबद्धः सत्त्वानां कृतशः संनाहसंनद्धः. इत्य् ऐकान्तिकस्वभावः
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कं पुनस् त्वं सुभूते ऽर्थवशं संपश्यन्न् एवं वदसि? अस्य बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य इह गम्भीरायां प्रज्ञापारमितायान् न द्वयोः स्थानयोर् अन्यतरान्यतरं स्थानं प्रतिकाङ्क्षितव्यं श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा.
सुभूतिर् आह: तथा हि भगवन् न बोधिसत्त्वेन महासत्त्वेन प्रादेशिकानां सत्त्वानां कृतशः संनाहः संनद्धः, सर्वसत्त्वपरिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो भगवन् बोधिसत्त्वेन महासत्त्वेन संनाहः संनद्धः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न प्रादेशिकानां सत्त्वानां कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः, अपि तु खलु पुनः सुभूते सर्वसत्त्वानां परिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः. इत्य् उद्देशस्वभावः
सुभूतिर् आह: गम्भीरा भगवन् प्रज्ञापारमिता सा न केनचिद् भावयितव्या न क्वचिन् न कथंचिद् भावयितव्या. तत् कस्य हेतोः? न (psp_4:109) हि भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां कस्यचिद् धर्मस्य परिनिष्पत्तिर् उपलभ्यते, यो वा भावयेद् यं वा भावयेद् येन वा भावयेत्, आकाशभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, सर्वधर्मा भावनैषा यद् उत प्रज्ञापारमिताभावना, असद्भावनैषा यद् उत प्रज्ञापारमिताभावना, अपरिग्रहभावनैषा यद् उत प्रज्ञापारमिताभावना भावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना.
भगवान् आह: कस्य सुभूते भावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना?
सुभूतिर् आह: रूपभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना वेदनासंज्ञासंस्कारब्भावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, आत्मभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, दानपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना शीलपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, क्षान्तिपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वीर्यपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, ध्यानपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रज्ञापारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अध्यात्मशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना यावद् अभावस्वभावशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्मृत्युपस्थानभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अप्रमाणध्यानारूप्यसमापत्तिभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, शून्यतानिमित्ताप्रणिहिताभिज्ञाभावनाविभावनैसा यद् उत प्रज्ञापारमिताभावना, विमोक्षमुखसमाधिसमापत्तिधारणीमुखभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आर्यसत्यभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, (psp_4:110) दशबलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना,
वैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्रोतआपत्तिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सकृदागामिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अनागामिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अर्हत्त्वभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रत्येकबुद्धभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, बोधिसत्त्वभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, यावत् सर्वाकारज्ञताभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, रूपभावनाविभावनैषा सुभूते यद् उत प्रज्ञापारमिताभावना, वेदनासंज्ञासंस्कारभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्कन्धभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, धातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आयतनभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादाङ्गभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, चक्षुरूपचक्षुर्विज्ञानचक्षुःसंस्पर्शचक्षुःसंस्पर्शप्रत्ययवेदनाभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोधर्मः मनोविज्ञान मनःसंस्पर्शमनःसंस्पर्शप्रत्ययवेदनाभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, पृथिवीधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अब्धातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, तेजोधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वायुधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आकाशधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना विज्ञानधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना अविद्याभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना संस्कारभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा, नामरूपभावनाविभावनैषा, षडायतनभावनाविभावनैषा, (psp_4:111) स्पर्शभावनाविभावनैषा, वेदनाभावनाविभावनैषा, तृष्णाभावनाविभावनैषा, उपादानभावनाविभावनैषा,
भवभावनाविभावनैषा, जातिभावनाविभावनैषा, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासभावनाविभावनै षा यद् उत प्रज्ञापारमिताभावना. एवं सर्वपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सर्वशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, बोधिपक्ष्यधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अप्रमाणध्यानारूप्यसमापत्तिभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आर्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, यावत् सर्वाकारज्ञताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना. इत्य् अनुपलम्भस्वभावः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
