Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुनर् अपरं सुभूते धर्मभाणकश् चोपायकुशलो भविष्यति षट्सु पारमितासु, धर्मश्रवणिकाश् चानुपायकुशला भविष्यन्ति षट्सु पारमितासु. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाश् चोपायकुशला भविष्यन्ति षट्सु पारमितासु, धर्मभाणकश् चानुपायकुशलो भविष्यति षट्सु पारमितासु, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. (psp_4:48) इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उपायानुपायकौशलवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च धारणीप्रतिलब्धो भविष्यति, धर्मश्रवणिकाश् च न धारणीप्रतिलब्धा भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति धारणीप्रतिलम्भाप्रतिलम्भवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च लिखितुकामो भविष्यति धारयितुकामो भविष्यति वाचयितुकामः स्वाध्यातुकामो यावत् मनसिकर्तुकामो, धर्मश्रवणिकाश् च न लिखितुकामा भविष्यन्ति यावन् न मनसिकर्तुकामा भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भिरां प्रज्ञापारमितां लिखतां वाचयतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च लिखितुकामा भविष्यन्ति यावत् मनसिकर्तुकामाः, धर्मभाणकश् च न लिखितुकामो भविष्यति यावन् न मनसिकर्तुकामः, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति लिखितुकामतावैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च विगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यति, धर्मश्रवणिकाश् च विगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखितुकामानां यावद् भावयितुकामानाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च विगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यन्ति, धर्मभाणकश् चाविगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखितुकामानां यावद् भावयितुकामानाम्. (psp_4:49) इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति विगताविगतकामच्छन्दादिवैधुर्यम्
पुनर् अपरं सुभूते इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् भावयतां कश्चिद् एव तत्रागत्य निरयानाम् अवर्णं भाषिष्यते तिर्यग्योनेः, प्रेतानाम् अवर्णं भाषिष्यते, एवंदुःखा निरया एवंदुःखा तिर्यग्योनिर्, एवंदुःखः प्रेतविषय इति, इहैव त्वं दुःखस्यान्तं कुरुष्वेति किन् ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्. इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अपायगतिवैमुख्यम्
पुनर् अपरं सुभूते इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् योनिशो मनसिकुर्वतां कश्चिद् एवागत्य चातुर्महाराजिकानां देवानां वर्णं भाषिष्यते यावन् नैवसंज्ञानासंज्ञायतनोपगानां देवानां वर्णं भाषिष्यते. एवं सुखः कामधातुः कामपरिभोगैर्, एवं सुखो रूपधातुर् ध्यानसमापत्तिभिः, एवं सुख आरूप्यधातुः शान्ताभिः, तद् अपि सर्वम् अनित्यं दुःखं शून्यम् अनात्मीयं विपरिणामधर्मि व्ययधर्मि विरागधर्मि निरोधधर्मि, इहैव त्वं स्रोतआपत्तिफलं प्राप्नुहि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुहि प्रत्येकबोधिं प्राप्नुहि, मा संसारे चिरकालं संसर, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति सुगतिगमनसौमनस्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च एको भविष्यत्य् अद्वितीयः स्वयंकारी, धर्मश्रवणिकश् च पर्षदवचरो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायतां. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च एको भविष्यत्य् अद्वितीयः स्वयंकारी, धर्मभाणकश् च पर्षदवचरो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् एकाकिपर्षदवचरत्ववैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणक एवं वक्ष्यति, यो माम् अनुबन्धिष्यति, तस्याहम् इमां प्रज्ञापारमितां दास्यामि लिखनाय वाचनाय (psp_4:50) उद्दिशनाय स्वाध्यायनाय मनसिकरणाय भावनायै, धर्मश्रवणिकश् च नानुबन्धिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां वाच्यमानायां स्वाध्यायमानायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मभाणकम् अनुबन्धितुकामो भविष्यति, धर्मभाणकश् चावकाशन् न करिष्यत्य् अनुबन्धनाय, इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां वाच्यमानायां स्वाध्यायमानायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अनुबन्धिकामो ऽनवकाशदानत्ववैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणक आमिषकिञ्चित्कस्य हेतोर् इमां प्रज्ञापारमितां दातुकामो भविष्यति लिखनाय उद्दिशनाय यावद् भावनायै, धर्मश्रवणिकश् च आमिषकिञ्चित्कस्य हेतोर् नोपसंक्रमितुकामो भविष्यति, इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् आमिषकिञ्चित्कतददातुकामत्ववैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च तान् दिशं गन्तुकामो भविष्यति, यत्र दिशि जीवितान्तरायो भविष्यति, धर्मश्रवणिकश् च न तं देशं गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च तान् दिशं गन्तुकामो भविष्यति, यत्र दिशि जीवितान्तरायो भविष्यति, धर्मभाणकश् च न तं देशं गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति जीवितान्तरायानन्तरायदिग्गमनागमनवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च तेन गन्तुकामो भविष्यति, येन दुर्भिक्षं च निरुदकञ् च, धर्मश्रवणिकश् च न तत्र गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां (psp_4:51) प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मभाणकश् च तेन गमिष्यति, येन सुभिक्षं सोदकं, धर्मश्रवणिकाश् चानुबद्धा भविष्यन्ति, स तान् एवं वक्ष्यति, किं युष्माकं कुलपुत्रा आमिषहेतोस् तत्र गन्तुं सुचिन्तितं तावत् कुरुत मा पश्चाद् विप्रतिसारिणो भविष्यथ पिण्डपातेन लब्धालब्धेन, एवं तेन धर्मभाणकेन सूक्ष्मेणोपायेन धर्मप्रत्याख्यानं कृतं भविष्यति, ते निर्विण्णरूपा एवं ज्ञास्यन्ति प्रत्याख्याननिमित्तान्य् एतानि नैतानि दातुकामतानिमित्तानि, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां वाच्यमानायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति दुर्भिक्षसुभिक्षदिग्गमनागमनवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणको भिक्षुस् तेन प्रक्रमिष्यति, येन चौरभयं चण्डालभयं लुब्धकभयं चन्दमृगभयम् आशीविषभयं कान्ताराटवीभयं दुर्गभयं तेन प्रक्रमिष्यति धर्मश्रवणिकाश् चेमां गम्भीरां प्रज्ञापारमितां श्रोतुकामा धर्मभाणकम् अनुबद्धा भविष्यन्ति, तान् धर्मभाणको भिक्षुर् एवं वक्ष्यति, किं युष्माकं कुलपुत्रास् तत्र गन्तुं यत्र चौरभयं चण्डालभयं लुब्धकभयं चण्डमृगभयं आशीविषभयं कान्ताराटवीभयं दुर्गभयं भविष्यति, धर्मश्रवणिकाश् चेमां गम्भीरां प्रज्ञापारमितां श्रोतुकामा धर्मभाणकम् अनुबद्धा भविष्यन्ति, तान् धर्मभाणको भिक्षुर् न भाषितुकामः, इमां गम्भीरां प्रज्ञापारमितां न लेखयितुकामो नोद्देष्टुकामो न श्रावयितुकामस् ते तस्य धर्मभाणकस्यान्तिकाच् छ्रुत्वा निर्विण्णरूपा न तेन गमिष्यन्ति येन स धर्मभाणको भिक्षुर् गमिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, अस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति चौरादिनिमित्तवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणको भिक्षुर् भिक्षादकुलगुरुको भविष्यति स तया भिक्षादकुलगुरुकतया तानि च कुलान्य् अभीक्ष्णं व्यवलोकयितव्यानि मंस्यते स तयाभीक्ष्णकुलव्यवलोकनतया (psp_4:52) धर्मश्रवणिकान् प्रत्याख्यास्यति, अस्ति मया युष्मन्तो भिक्षादकुलान्य् अव्यवलोकयितव्यान्य् उपसंक्रमितव्यानि, स तान् धर्मश्रवणिकान् प्रत्याख्यास्यति प्रत्याख्यातास् ते प्रत्युदावर्तिष्यन्ते, इयम् अपि सुभूते विसामग्री भविष्यति प्रज्ञापारमितां लिखतां भावयताम् उद्दिशतां स्वाध्यायताम् इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कुलव्यवलोकनवैधुर्यम्
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेण तथातथोपायेन चेष्टिष्यते यथायथोपायेन, इमां प्रज्ञापारमितां न कश्चिल् लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् मारः पापीयान् भिक्षुवेषेण तथातथा चेष्टिष्यते यथायथा न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति?
भगवान् आह: प्रज्ञापारमितानिर्जातानि हि सर्वसत्त्वानां क्लेशप्रहाणान्य् एवं तथातथोपायेन चेष्टिष्यते यथायथा न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति.
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेणागत्य भेदं प्रक्षेप्स्यति विवेचयिष्यति, नैषा प्रज्ञापारमिता यथास्माकं सूत्रान्तम् आगतम् इत्य् अस्य प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेण बोधिसत्त्वान् उपसंक्रम्यैवं वक्ष्यति, य इह गम्भीरायां प्रज्ञापारमितायां चरति स बोधिसत्त्वो भूतकोटीं साक्षात्करोति, स्रोतआपत्तिफलं वा प्राप्नोति सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्राप्नोति प्रत्येकबोधिं वा प्राप्नोति, तद्वचनं श्रुत्वा न प्रज्ञापारमितायां चरिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायां वाच्यमानायां यावद् (psp_4:53) भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति मारस्य पापीयसो भेदप्रयोगः
पुनर् अपरं सुभूते इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायां बहूनि मारकर्माण्य् उत्पत्स्यन्ते, यान्य् अन्तरायकराणि भविष्यन्ति तानि मारकर्माणि बोधिसत्त्वेन महासत्त्वेन विवर्जयितव्यानि.
सुभूतिर् आह: कतमानि तानि भगवन् मारकर्माणि यानि बोधिसत्त्वेन महासत्त्वेन बोधव्यानि बुद्ध्वा च विवर्जितव्यानि?
भगवान् आह: प्रज्ञापारमिताप्रतिरूपकानि सुभूते मारकर्माण्य् उत्पत्स्यन्ते. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमिताप्रतिरूपकाणि मारकर्माण्य् उत्पत्स्यन्ते, यानि बोधिसत्त्वेन महासत्त्वेन बोधव्यानि बुद्ध्वा च विवर्जयितव्यानि.
पुनर् अपरं सुभूते अध्यात्मशून्यताप्रतिरूपकाणि यावद् अभावस्वभावशून्यताप्रतिरूपकाणि मारकर्माण्य् उत्पत्स्यन्ते, श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानि मारकर्माण्य् उत्पत्स्यन्ते, तानि बुद्ध्वा बोधिसत्त्वेन महासत्त्वेन मारकर्माणि विवर्जयितव्यानि. एवञ् च वक्ष्यति, एतान् पर्यवाप्नुहि एतान् पर्यवाप्य इहैव स्रोतआपत्तिफलं प्राप्नुहि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुहि, इमान्य् एव त्वं चत्वारि स्मृत्युपस्थानानि भावय सम्यक्प्रहाणानि भावय ऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावय शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखं भावय किं ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्गृह्यमाणायां यावन् मनसिक्रियमाणायां भाव्यमानायां मारः पापीयान् एवंरूपाणि मारकर्माणि उपसंहरिष्यति. इति प्रतिवर्णिकोपसंहारः
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेणोपसंक्रमिष्यति, सुवर्णवर्णकायेन व्यामप्रभां कृत्वा तत्र बोधिसत्त्वस् तं दृष्ट्वा स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां भाष्यमाणायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. (psp_4:54)
पुनर् अपरं सुभूते मारः पापीयांस् तेषां कुलपुत्राणां कुलदुहितृणां च पुरतो बुद्धप्रमुखं भिक्षुसंघम् उपदर्शयिष्यति, स तत्र बोधिसत्त्वः स्पृहाम् उत्पादयिष्यति, अहम् अप्य् अनागते ऽध्वन्य् एवंरूपस् तथागतो ऽर्हन् सम्यक्संबुद्धः स्याम्, एवं च भिक्षुगणं परिकर्षेयं यथा यं तथागतो धर्मं देशयति तथैवाहम् अपि धर्मं देशयेयं, स तत्र स्पृहाम् उत्पादयिष्यति स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां भाष्यमाणायां मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् अनेकानि बोधिसत्त्वशतानि अनेकानि बोधिसत्त्वसहस्राणि उपदर्शयति, ये दानपारमितायां चरिष्यन्ति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिष्यन्ति, ते बोधिसत्त्वास् तेषां मारनिर्मितानाम् अन्तिके स्पृहाम् उत्पादयिष्यन्ति स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. तत् कस्य हेतोर्? न हीह सुभूते गम्भीरायां प्रज्ञापारमितायां रूपं संविद्यते, न वेदना न संज्ञा न संस्काराः, न विज्ञानं संविद्यते, न स्कन्धा न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि संविद्यन्ते, न पारमिता न बोधिपक्ष्या धर्मा नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयः नाष्टविमोक्षा न नवानुपूर्वविहारसमापत्तयः न शून्यतानिमित्ताप्रणिहिताभिज्ञाः संविद्यन्ते, न सर्वशून्यता न सर्वसमाधयः न सर्वधारणीमुखानि संविद्यन्ते, न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्मा न विमोक्षमुखानि न बोधिः संविद्यते, यत्र च सुभूते न रूपं संविद्यते, न वेदना न संज्ञा न संस्कारा न विज्ञानं संविद्यते, न स्कन्धा न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न पारमिता न बोधिपक्ष्या धर्मा नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयो नाष्टविमोक्षा न नवानुपूर्वविहारसमापत्तयो न शून्यतानिमित्ताप्रणिहिताभिज्ञा न सर्वशून्यता न सर्वसमाधयो न (psp_4:55) सर्वधारणीमुखानि न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्मा न विमोक्षमुखानि न बोधिः संविद्यते, यत्र न बोधिर् न तत्र बुद्धो न बोधिसत्त्वा न श्रावकाः संविद्यन्ते. तत् कस्य हेतोः? स्वभावशून्या हि सुभूते सर्वधर्माः. इत्य् अयथाविषयादिस्पृहोत्पादः
पुनर् अपरं सुभूते बह्वन्तरायेयं प्रज्ञापारमिता भविष्यति, तेषां कुलपुत्राणां कुलदुहितृणां च इमां प्रज्ञापारमितां धारयतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां. तद्यथापि नाम सुभूते यानि जाम्बूद्वीपकानि रत्नानि, यद् उत सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतादीनि बह्वन्तरायाणि बहुप्रत्यर्थिकानि भविष्यन्ति. एवम् एतत् सुभूते तेषां कुलपुत्राणां कुलदुहितृणां चास्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां स्वाध्यायमानायां भाष्यमाणायां योनिशो मनसिक्रियमाणायां भाव्यमानायां बहवो ऽन्तराया भविष्यन्ति बहवः प्रत्यर्थिकाः.
सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, बहुप्रत्यर्थिकानि भविष्यन्ति प्रज्ञापारमिताप्रतिसंयुक्तानि सूत्राणि, माराधिष्ठितास् ते मोहपुरुषा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां भावयताम् अन्तरायं करिष्यन्ति. अल्पबुद्धयस् ते भगवन् मोहपुरुषा भविष्यन्ति, मन्दबुद्धयो ये ऽस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम् अन्तरायं करिष्यन्ति. न तेषाम् उदारोदारेषु धर्मेषु बुद्धिः प्रक्रमिष्यति, य इमां गम्भीरां प्रज्ञापारमितान् न लिखिष्यन्ति लिख्यमानायाम् अन्तरायं करिष्यन्ति यावन् न भावयिष्यन्ति भाव्यमानायाञ् चान्तरायं करिष्यन्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् माराधिष्ठितास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति नवयानसंप्रस्थिता अनवरोपितकुशलमूलाः परीत्तकुशलमूलाः न पूर्वजिनकृताधिकारा अपरिगृहीतकल्याणमित्रा, य इमां गम्भीरां प्रज्ञापारमितां न लिखिष्यन्ति न वाचयिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति, ये ऽन्तरायं करिष्यन्ति, अल्पबुद्धिकास् ते कुलपुत्राः कुलदुहितरश् च मन्दबुद्धिकाः परीत्तबुद्धिका, न च तेषाम् उदारोदारेषु धर्मेषु चित्तं क्रमिष्यति, य इमां गम्भीरां प्रज्ञापारमितां न (psp_4:56) लिखिष्यन्ति न धारयिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति यावन् न भावयिष्यन्ति, अन्येषाञ् च लिखतां यावद् भावयताम् अन्तरायं करिष्यन्ति, किञ् चापि सुभूते इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम् इमानि मारकर्माण्य् उत्पत्स्यन्ते, सचेत् पुनः सुभूते यद् इमां गम्भीरां प्रज्ञापारमितां कुलपुत्राणां कुलदुहितृणां च लिखतां स्वाध्यायताम् उद्दिशतां योनिशो मनसिकुर्वतां भावयतां मारकर्माणि नोत्पत्स्यन्ते, उत्तरे च ध्यानपारमितां परिपूरयिष्यन्ति, वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां परिपूरयिष्यन्ति, सर्वशून्यताः सप्तत्रिंशद्बोधिपक्षान् धर्मान् परिपूरयिष्यन्ति, सर्वसमाधिधारणीविमोक्षमुखानि अप्रमाणध्यानारूप्यसमापत्तीः पञ्चाभिज्ञा दशबोधिसत्त्वभूमीर् बलानि वैशारद्यानि प्रतिसंविद आवेणिकबुद्धधर्मान् यावत् सर्वज्ञतां परिपूरयिष्यन्ति. वेदितव्यम् इदं सुभूते बुद्धानुभाव एष येनैषां कुलपुत्राणां कुलदुहितृणां च इमां गम्भीरां प्रज्ञापारमितां लिखतां
वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां नान्तराया उत्पत्स्यन्ते, उत्तरे च सर्वाः पारमिताः परिपूरयिष्यन्ति, सर्वशून्यताः सर्वबोधिपक्ष्यान् धर्मान् सर्वसमाधीन् सर्वधारणीमुखानि सर्वविमोक्षमुखानि परिपूरयिष्यन्ति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः पञ्चाभिज्ञाः परिपूरयिष्यन्ति, दश बोधिसत्त्वभूमीः परिपूरयिष्यन्ति, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयिष्यन्ति, सर्वाकारज्ञतां परिपूरयिष्यन्ति. ये ऽपि ते दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां च कृतश उद्योगम् आपत्स्यन्ते, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां, ये ऽपि ते दशसु दिक्षु अविनिवर्तनीया बोधिसत्त्वास् ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां च इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम् उद्योगम् आपत्स्यन्ते अनुपरिग्रहीष्यन्ति, तद्यथापि नाम सुभूते स्त्रियाः कस्याश्चिद् एव बहवः पुत्रा भवेयुः, पञ्च वा दश वा (psp_4:57) विंशतिर् वा त्रिंशद् वा चत्वारिंशद् वा पञ्चाशद् वा शतं वा सहस्रं वा शतसहस्रं वा, ते ऽस्या मातुर् ग्लानायाः सर्वे ऽप्य् उद्योगम् आपद्येरन्, किम् इत्य् अस्माकं मातुर् अन्तरायो न भवेत्, किम् इत्य् अस्माकं माता चिरं जीवेत्, किम् इत्य् अस्माकं मातुः शरीरे अमनआपः स्पर्शो न निपतेद्, एषास्माकं जननी शरीरस्य दात्री जीवितस्य धात्री, ते तां मातरम् उपस्थिताम् उपतिष्ठेरन् सुगोपितां गोपायेयुर्, मा भूद् अस्या
जीवितान्तरायो वा शरीरदौर्बल्यं वा दंशमशकसरीसृपोपनिपातो वा शीतोष्णक्षुत्पिपासादि दुष्खं वा, एवन् ते पुत्रास् तस्या मातुः सर्वसुखोपधानान्य् उपसंहरेयुः, एवन् ते तां मातरं सुकेलायितां केलायेयुर् मिमीयुर् एषास्माकम् अस्य लोकस्य दर्शयित्री. एवम् एव सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः, इमां गम्भीरां प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोर्? एषा हि गम्भीरा प्रज्ञापारमितास्माकं सर्वबुद्धधर्माणां जननी ज्ञानालोकस्य कारिका, ये ऽपि ते दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपीमाम् एव प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोर्? एषा हि गम्भीरा प्रज्ञापारमिता जननी तथागतानाम्, अस्य च सर्वज्ञज्ञानस्य संदर्शयित्री, तेन तथागताः कृतज्ञताम् उपादाय ये इमां गम्भीरां प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोः? अतो निर्जाता हि तथागतानां ध्यानवीर्यक्षान्तिशीलदानपारमिता, अतो निर्जाता हि तथागतानाम् अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अतो निर्जातानि चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गः, अतो निर्जातानि त्रीणि विमोक्षमुखानि, अतो निर्जातानि चत्वार्य् आर्यसत्यानि, अतो निर्जातानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो, अतो निर्जाता अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः, अतो निर्जाताः सर्वसमाधयः सर्वधारणीमुखानि, अतो निर्जातानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः
प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अतो निर्जाताः षडभिज्ञाः, अतो निर्जाता सर्वबुद्धानां सर्वाकारज्ञता, अतो निर्जाता अप्रमेयासंख्येया बुद्धधर्माः, अतो निर्जाताः स्रोतापन्नाः सकृदागामिनो ऽनागामिनो, ऽतो निर्जाता अर्हन्तः प्रत्येकबुद्धा, अतो निर्जातास् तथागता अर्हन्तः सम्यक्संबुद्धाः. ये ऽपि केचित् सुभूते (psp_4:58) तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च, सर्वे ते इमां गम्भीरां प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च, ये ऽपि ते सुभूते महायानसंप्रस्थिताः कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति योनिशो मनसिकरिष्यन्ति सर्वे ते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् बुद्धचक्षुषा सततसमितं समन्वाह्रियन्ते तेषां सुभूते बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणाञ् च तथागता अर्हन्तः सम्यक्संबुद्धाः सततसमितं रक्षावरणं गुप्तिं संविधास्यन्ति यथानुत्तरायाः सम्यक्संबोधेर् न परिहास्यन्ति. इति जाम्बूद्वीपकमहारत्नोदाहरणादिदृष्टान्तेन महानुभावत्वम् इत्य् उक्ता दोषाः
सुभूतिर् आह: यद् भगवान् आह, प्रज्ञापारमिता तथागतानाम् अर्हतां सम्यक्संबुद्धानां जनयित्री अस्य च लोकस्य दर्शयित्री ति. कथं च भगवन् बुद्धानां भगवतां प्रज्ञापारमिता जनयित्री? कथञ् च भगवन् प्रज्ञापारमितास्य लोकस्य दर्शयित्री? कथञ् च भगवन् प्रज्ञापारमितया तथागतो जनितः? कतमश् च लोकस् तथागतेनाख्यातः?
भगवान् आह: अनया सुभूते गम्भीरया प्रज्ञापारमितया दशतथागतबलानि जनितानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणा महामैत्री महामुदिता महोपेक्षा अष्टादशावेणिका बुद्धधर्मा यावत् सर्वाकारज्ञता जनिता, एभिश् च सुभूते धर्मैस् तथागत इति प्रभाव्यते, तस्मात् तर्हि सुभूते अनया गम्भीरया प्रज्ञापारमितया तथागतो जनितः. इति तथागतनिर्वृत्तिज्ञानम्
सुभूतिर् आह: कतमः पुनर् भगवंस् तथागतेन लोक इत्य् आख्यातः?
भगवान् आह: पञ्च सुभूते स्कन्धास् तथागतेन लोक आख्यातः.
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमिताया पञ्च स्कन्धा दर्शिताः?
भगवान् आह: न सुभूते प्रज्ञापारमिता इमान् पञ्च स्कन्धान् लुज्यमानान् दर्शयति, न प्रलुज्यमानान् दर्शयति, नोत्पद्यमानान् (psp_4:59) दर्शयति, न निरूध्यमानान् दर्शयति, न संक्लिश्यमानान् न व्यवदायमानान् दर्शयति, न वृद्धिं न हानिं दर्शयति, नायूहं न निर्यूहं नातीतान् नानागतान् न प्रत्युत्पन्नान् धर्मान् दर्शयति. तत् कस्य हेतोर्? न हि शून्यता लुज्यते वा प्रलुज्यते वा, नानिमित्तं लुज्यते वा प्रलुज्यते वा, नाप्रणिहितं लुज्यते वा प्रलुज्यते वा, नानभिसंस्करो नानुत्पादो न निरोधो नाभावो नास्वभावो लुज्यते वा प्रलुज्यते वा. एवं हि सुभूते तथागतेन गम्भीरा प्रज्ञापारमिता लोकस्य दर्शयित्री आख्याता. इति लोकस्य ज्ञानम्
ये ऽपि ते सुभूते अप्रमेयाणां सत्त्वानाम् असंख्येयानां सत्त्वानाम् अपरिमाणानां सत्त्वानां चित्तचरितानि प्रजानन्ति, अप्रमेयाः सत्त्वाः परचित्तविदस् ते ऽपि प्रज्ञापारमिताम् आगम्य प्रजानन्ति. न पुनः सुभूते इह गम्भीरायां प्रज्ञापारमितायां सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते, न रूपं न रूपप्रज्ञप्तिर् उपलभ्यते, न वेदना न संज्ञा न संस्कारा, न विज्ञानं न विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षूरूपं न चक्षुर्विज्ञानं न चक्षुःसंस्पर्शो न चक्षुःसंस्पर्शप्रत्ययवेदना उपलभ्यते, न चक्षूरूपप्रज्ञप्तिर् उपलभ्यते, न चक्षुर्विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते, एवं न श्रोत्रं न शब्दो न घ्राणं न गन्धो न जिह्वा न रसो न कायो न स्प्रष्टव्यं न मनो न धर्मो न मनोविज्ञानं न मनःसंस्पर्शो न मनःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते. एवं न पारमिता न बोधिपक्ष्या धर्मा न विमोक्षमुखं न बलवैशारद्यप्रतिसंविदो नावेणिकबुद्धधर्मा यावन् न सर्वाकारज्ञताप्रज्ञप्तिर् उपलभ्यते. एवं हि सुभूते इयं गम्भीरा प्रज्ञापारमिता तथागतानां लोकस्य संदर्शयित्री, सा पुनर् इयं गम्भीरा प्रज्ञापारमिता न रूपस्य दर्शयित्री यावन् न सर्वज्ञताया दर्शयित्री. तत् कस्य हेतोः? प्रज्ञापारमिता एव तावत् सुभूते प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, कुतः पुना रूपम् उपलप्स्यते, वेदनासंज्ञासंस्काराः, कुतः पुनर् विज्ञानम् उपलप्स्यते यावत् कुतः पुनः सर्वाकारज्ञता (psp_4:60) उपलप्स्यते. इति सर्वचित्तचरितज्ञानम्
पुनर् अपरं सुभूते यावन्तः सत्त्वाः सत्त्वप्रज्ञप्त्या प्रज्ञप्यन्ते रूपिणो वा अरूपिणो वा संज्ञिनो ऽसंज्ञिनो नैवसंज्ञिनो नासंज्ञिन इह वा लोकधातौ ऽन्येषु वा दशदिशि लोकधातुषु यावन्तः सत्त्वास् तेषां यानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि तानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति. कथञ् च सुभूते तथागतस् तेषां सत्त्वानां तानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? धर्मतया सुभूते तथागतस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति.
सुभूतिर् आह: कतमया भगवन् धर्मतया तथागतस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति?
भगवान् आह: यत्र सुभूते धर्मतायां धर्मतैव नोपलभ्यते प्राग् एव संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि, अनया सुभूते धर्मतया तथागतः संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि तेषां सत्त्वानां यथाभूतं प्रजानाति. इति चित्तसंक्षेपज्ञानम्
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो ऽक्षयतः तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति. कथं च सुभूते तथागतस् तेषां सत्त्वानाम् अक्षयतः संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति? इह सुभूते तथागतो निरोधतः प्रहाणतस् तेषां सत्त्वानां तानि चित्तानि यथाभूतं प्रजानाति, शान्ततस् तुच्छतो विविक्ततः तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति. इति चित्ताक्षयाकारज्ञानम्
पुनर् अपरं सुभूते तथागतस् तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति, वीतरागं चित्तं वीतरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति, विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति, समोहं चित्तं समोहं चित्तम् इति यथाभूतं (psp_4:61) प्रजानाति, विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति.
सुभूतिर् आह: कथं भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति? सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति? समोहं चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति?
भगवान् आह: या सुभूते चित्तस्य सरागदोषमोहता न सा चित्तस्य यथाभूतता. तत् कस्य हेतोर्? न हि सुभूते यथाभूतं चित्तम् उपलभ्यते न चैतसिका धर्माः प्राग् एव सरागं वा सदोषं वा समोहं वा चित्तम् उपलप्स्यते. एवं हि सुभूते तथागतः प्रज्ञापारमिताम् आगम्य तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभुतं प्रजानाति, समोहञ् चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागतस् तेषां सत्त्वानां विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति? विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति? विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति? या सुभूते चित्तस्य विगतरागता न सा चित्तस्य सरागता. तत् कस्य हेतोर्? न हि सुभूते द्वयोश् चित्तयोः समवधानम् अस्ति. एवं या सुभूते चित्तस्य विगतदोषता न सा चित्तस्य सदोषता, या सुभूते चित्तस्य विगतमोहता न सा चित्तस्य समोहता. तत् कस्य हेतोर्? न हि सुभूते द्वयोश् चित्तयोः समवधानम् अस्ति. एवं सुभूते तथागतस् तेषां सत्त्वानां विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति, विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति, विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति. इति सरागादिचित्तज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलचित्तं विपुलचित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलं चित्तं विपुलं चित्तम् इति यथाभुतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां न विस्तीर्णं चित्तं न संकुञ्चितञ् चित्तं न हि विवर्द्धते चित्तं न परिहीयते चित्तं नागच्छति न गच्छति (psp_4:62) चित्तम् इति यथाभूतं प्रजानाति. तत् कस्य हेतोः? तथा हि सुभूते चित्तस्य स्वभावो नोपलभ्यते येन विस्तीर्णं क्रियते यावद् आगच्छेद् वा. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलं चित्तं विपुलं चित्तम् इति यथाभूतं प्रजानाति. इति विपुलचित्तज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागतस् तेषां परसत्त्वानां परपुद्गलानां तेषां चित्तानां नागमनं न गमनं नोत्पादं न निरोधं न स्थितिं नान्यथात्वं समनुपश्यति. तत् कस्य हेतोः? न हि सुभूते तेषां चित्तानां स्वभावः संविद्यते, य आगच्छेद् वा गच्छेद् वा उत्पद्येत वा निरुध्येत वा स्थीयेत वान्यथा वा भवेत्. एवं खलु सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति. इति महद्गतचित्तज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां तच् चित्तं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं समनुपश्यति. तत् कस्य हेतोः? अनाश्रया हि सुभूते चित्तधारा अप्रमाणा, न हि तेषाम् आश्रयः संविद्यते यत्र प्रतिष्ठेरन्. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणानि चित्तान्य् अप्रमाणानि चित्तानीति यथाभूतं प्रजानाति. इत्य् अप्रमाणचित्तज्ञानम् (psp_4:63)
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनं चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनं चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां अलक्षणानि चित्तानि स्वभावरहितानि चित्तानि यथाभूतं प्रजानाति स्वलक्षणशून्यताम् उपादाय. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनञ् चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति. इत्य् अनिदर्शनचित्तज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति? इति हि सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य पञ्चानां चक्षुषां तानि परचित्तानि नावभासम् आगच्छन्ति. एवं हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्ध इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. इत्य् अदृश्यचित्तज्ञानम् पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां च चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां तानि चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितान्य् एवं प्रजानाति, यानि कानिचित् सत्त्वानां चित्तोन्मिञ्जितानि वा निमिञ्जितानि वा संमिञ्जितानि वा प्रसारितानि वा उत्पद्यमानान्य् उत्पद्यन्ते, सर्वाणि तानि रूपसंनिश्रितानि, वेदना संज्ञा संस्काराः, विज्ञानसंनिश्रितानि वा उत्पद्यमानान्य् उत्पद्यन्ते. (psp_4:64)
एवं हि सुभूते तथागतस् तेषाम् इमां प्रज्ञापारमिताम् आगम्य चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति, भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्.
शाश्वतश् च आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं वेदना संज्ञा संस्काराः, शाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
एवम् अन्तवान् आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं वेदना संज्ञा संस्कारा, अन्तवान् आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवम् अनन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, अनन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अन्तवांश् चानन्तश् चात्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, अन्तवांश् चानन्तश् चात्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, नैवान्तवान् नानन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, नैवान्तवान् नानन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
भवत्य् आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् (psp_4:65) इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, भवत्य् आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्काराः, स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवं हि सुभूते तथागतः परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. इति चित्तोन्मिञ्जितादिज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य रूपं संजानीते. किम् इति रूपं संजानीते? तथा सञ्जानीते यथा तथता अवितथता अविकारा अविकल्पा अनिमित्ता अनाभोगा अप्रपञ्चा निरुपलम्भा, वेदना संज्ञा संस्कारा, विज्ञानं संजानीते. किम् इति विज्ञानं संजानीते? तथा संजानीते यथा तथता अवितथता अविकारा अविकल्पा अनिमित्ता अनाभोगा अप्रपञ्चा निरुपलम्भा. एवं हि सुभूते तथागतः परसत्त्वानां परपुद्गलानां प्रज्ञापारमिताम् आगम्य उन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि तथा जानाति यथा तथता अवितथता अविकारा अविकल्पा अनिमित्ता अनाभोगा अप्रपञ्चा निरुपलम्भा. इति तथताकारज्ञानम्
इति सुभूते या उन्मिञ्जितनिमिञ्जितसंनिमिञ्जितप्रसारिततथता सा स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता, या स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता सा सर्वधर्मतथता, या सर्वधर्मतथता सा षण्णां पारमितानां तथता, या षण्नां पारमितानां तथता सा सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता, या सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता सा सर्वशून्यतानां तथता, (psp_4:66) या सर्वशून्यतानां तथता साष्टानां विमोक्षाणां नवानाञ् चानुपूर्वविहारसमापत्तीनां तथता, या अष्टानां विमोक्ष्याणां नवानाञ् चानुपूर्वविहारसमापत्तीनां तथता साप्रमाणध्यानारूप्यसमापत्तीनां तथता, याप्रमाणध्यानारूप्यसमापत्तीनां तथता सा चतुर्णाम् आर्यसत्यानां तथता, या चतुर्णाम् आर्यसत्यानां तथता सा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तथता, या शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तथता सा षण्णाम् अभिज्ञानां तथता, या षण्णाम् अभिज्ञानां तथता सा सर्वसमाधीनां तथता, या सर्वसमाधीनां तथता सा सर्वधारणीमुखानां तथता, या सर्वधारणीमुखानां तथता सा दशानां तथागतबलानां तथता, या दशानां तथागतबलानां तथता सा चतुर्णां वैशारद्यानां तथता, या चतुर्णां वैशारद्यानां तथता सा चतसृणां प्रतिसंविदां तथता, या चतसृणां प्रतिसंविदां तथता सा महामैत्र्या महाकरुणायास् तथता, या महामैत्र्या महाकरुणायास् तथता साष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता, याष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता सा सर्वज्ञतायास् तथता, या सर्वज्ञतायास् तथता सा कुशलाकुशलानां धर्माणां तथता, या कुशलाकुशलानां धर्माणां
तथता सा लौकिकलोकोत्तराणां सास्रवानास्रवाणां सावद्यानवद्यानां सक्लेशनिःक्लेशाणां संक्लेशव्यवदानानां संस्कृतासंस्कृतानां धर्माणां तथता, या संस्कृतासंस्कृतानां धर्माणां तथता सातीतानागतप्रत्युत्पन्नानां धर्माणां तथता, यातीतानागतप्रत्युत्पन्नानां धर्माणां तथता सा स्रोतआपन्नधर्मतथता, या स्रोतआपन्नधर्मतथता सा स्रोतआपत्तिफलतथता, या स्रोतआपत्तिफलतथता सा सकृदागामिधर्मतथता, या सकृदागामिधर्मतथता सा सकृदागामिफलतथता, या सकृदागामिफलतथता सा अनागामिधर्मतथता, या अनागामिधर्मतथता सा अनागामिफलतथता, या अनागामिफलतथता सा अर्हत्त्वतथता, या अर्हत्त्वतथता सा अर्हत्त्वफलतथता, या अर्हत्त्वफलतथता सा प्रत्येकबुद्धतथता या प्रत्येकबुद्धतथता सा प्रत्येकबोधितथता, या प्रत्येकबोधितथता सानुत्तरायाः सम्यक्संबोधेस् तथता, यानुत्तरायाः सम्यक्संबोधेस् (psp_4:67) तथता सा तथागततथता, या तथागततथता सा सर्वसत्त्वतथता. इति हि या च तथागततथता या च सर्वसत्त्वतथता, एकैवैषा तथता अविनिर्भागतथता, या अविनिर्भागतथता सा अक्षया, या चाक्षया साक्षयत्वेनाद्वैधीकारा. इयं सुभूते सर्वधर्मतथता, या प्रज्ञापारमिताम् आगम्य तथागतेनाभिसंबुद्धा, एवम् इयं सुभूते प्रज्ञापारमिता तथता तथागतानां जनयित्री, एवं हि सुभूते इयं प्रज्ञापारमिता लोकस्य दर्शयित्री, एवं हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मतथतां जानाति, अवितथताम् अनन्यतथतां जानाति, यया तथतया तथागतो ऽर्हन् सम्यक्संबुद्ध इत्य् उच्यते.
सुभूतिर् आह: गम्भीरा भगवन् यद् उत सर्वधर्माणां तथता अवितथता अनन्यतथता. अनया भगवंस् तथतया बुद्धानां भगवतां बोधिः प्रकाशिका. को ऽत्र भगवन्न् अधिमोक्ष्यते? अन्यत्राविनिवर्तनीयैर् बोधिसत्त्वैर् महासत्त्वैर् दृष्टिसंपन्नैर् वा पुद्गलैर् अर्हद्भिः क्षीणास्रवैर् वा यावद् गम्भीरा भगवन्न् इमे धर्मास् तथागतेनाभिसंबुध्याख्याताः.
भगवान् आह: तथा हि सुभूते अक्षया तथता. कस्माद् अक्षया? सर्वधर्माणाम् अक्षयत्वाद् अक्षया तथता, एषा सा सुभूते तथता तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्याख्याता यद् उत सर्वधर्मतथता. इति सम्यक्संबुद्धस्य तथतावबोधतत्परसमाख्यानप्रज्ञपनज्ञानानि
अथ खलु यावन्तस् त्रिसाहस्रमहासाहस्रलोकधातौ कामावचरा रूपावचराश् च देवपुत्रास् ते सर्वे दिव्यानि चन्दनचूर्णानि परिगृह्य येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते तिष्ठन्न्, एकान्ते स्थिताश् च ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरेयं भगवन् प्रज्ञापारमिता प्रकाश्यते. किंलक्षणा भगवन् प्रज्ञापारमिता?
भगवान् आह: शून्यतालक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, आनिमित्तलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, अप्रणिहितलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता. (psp_4:68)
इति शून्यतानिमित्ताप्रणिहितलक्षणानि
अनुत्पादलक्षणा अनिरोधलक्षणा असंक्लेशलक्षणा अव्यवदानलक्षणा अभावलक्षणा अस्वभावलक्षणा अनिश्रितलक्षणा आकाशलक्षणा अशाश्वतलक्षणा अनुच्छेदलक्षणा अनभिसंस्कारलक्षणा अनेकार्थलक्षणा अनानार्थलक्षणा अनागमनलक्षणा आगमनलक्षणा अलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता. एवंलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, तथागतेन लोकसंकेतेन व्यवह्रियते न पुनः परमार्थेन. इत्य् अनुत्पादानिरोधादिज्ञानम्
न हि देवपुत्रा एतानि लक्षणानि सदेवमानुषासुरेण लोकेन शक्यन्ते विकोपयितुम्. तत् कस्य हेतोः? सदेवमानुषासुरो ऽपि हि लोकस् तल्लक्षण, एवं न हि देवपुत्रा लक्षणं लक्षणं विकोपयति, न लक्षणं लक्षणं प्रजानाति, नालक्षणं लक्षणं प्रजानाति, इति हि लक्षणानि च अलक्षणानि च लक्षणालक्षणानि च, तयोर् द्वयोर् अपि नास्ति संभवः, येन प्रजानीयाद् यो वा प्रजानीयात्. इति धर्मताविकोपनज्ञानम्
न हि देवपुत्रा एतानि लक्षणानि रूपसंस्कृतानि, एवं वेदनासंज्ञासंस्कारा, न विज्ञानसंस्कृतानि न धातुसंस्कृतानि नायतनसंस्कृतानि न प्रतीत्यसमुत्पादसंस्कृतानि न दानपारमितासंस्कृतानि न शीलपारमितासंस्कृतानि न क्षान्तिपारमितासंस्कृतानि न वीर्यपारमितासंस्कृतानि ध्यानपारमितासंस्कृतानि प्रज्ञापारमितासंस्कृतानि न सर्वशून्यतासंस्कृतानि न बोधिपक्ष्यधर्मसंस्कृतानि नार्यसत्यसंस्कृतानि नाप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिसंस्कृतानि न शून्यतानिमित्ताप्रणिहितसंस्कृतानि, नाभिज्ञासंस्कृतानि न सर्वसमाधिसंस्कृतानि न सर्वधारणीमुखसंस्कृतानि न तथागतबलसंस्कृतानि न वैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसंस्कृतानि न सर्वज्ञतासंस्कृतानि. इत्य् अनभिसंस्कारज्ञानम्
न हि देवपुत्रा एतानि लक्षणानि मनुष्याणां वा अमनुष्याणां वा सास्रवाणि वा अनास्रवाणि वा लौकिकानि वा लोकोत्तराणि वा संस्कृतानि वा असंस्कृतानि वा.
अथ खलु भगवांस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् एतद् (psp_4:69) अवोचत्: यदि कश्चिद् देवपुत्रा आकाशं किं लक्षणम्? इति वदेद्, अपि नु स सम्यग् वदमानो वदेत्.
देवपुत्रा आहुर्: न भगवन् सम्यग् वदमानो वदेत्. तत् कस्य हेतोः? न हि भगवन्न् आकाशं केनचिल् लक्षणेन संविद्यते असंस्कृतत्वाद् आकाशधातोः. इत्य् अविकल्पज्ञानम्
भगवान् आह: उत्पादाद् वा देवपुत्रास् तथागतानाम् अनुत्पादाद् वा स्थितैवैषा धर्मधातुस्थितिर् एवंलक्षणा, यथा स्थितो लक्षणहेतुः सा भूता तथागतेनाभिसंबुद्धा, तस्मात् तथागतस् तथागत इत्य् उच्यते.
देवपुत्रा आहुः: गम्भीराणि भगवन्न् इमानि लक्षणानि तथागतेनाभिसंबुद्धानि येषां लक्षणानाम् अभिसंबुद्धत्वात्, तथागतस्यासङ्गज्ञानं येषु लक्षणेषु स्थित्वा तथागतेन सर्वलक्षणानि संप्रकाशितानि, प्रज्ञापारमितासंप्रकाशनतया भगवंस् तानि लक्षणानि संप्रकाशितानि. आश्चर्यं भगवन् यावद् गम्भीरेयं प्रज्ञापारमिता तथागतानाम् अर्हतां सम्यक्संबुद्धानां गोचरो, यत्र चरतो तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, अनुत्तरां च सम्यक्संबोधिम् अभिसंबुध्य सर्वलक्षणानां प्रभेदः कृतो, रूपलक्षणस्य वेदनालक्षणस्य संज्ञालक्षणस्य संस्कारलक्षणस्य विज्ञानलक्षणस्य, एवं स्कन्धलक्षणस्य धातुलक्षणस्य आयतनलक्षणस्य प्रतीत्यसमुत्पादलक्षणस्य प्रभेदः कृतो यावत् सर्वज्ञतालक्षणस्य प्रभेदः कृतः. इति प्रभेदज्ञानम्
अथ खलु भगवांस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् एतद् अवोचत्: रूपाणां लक्षणं देवपुत्रा रूपम्, एवं तत् तथागतेनालक्षणम् इत्य् अभिसंबुद्धम्, अनुभवलक्षणा वेदना, निमित्तोद्ग्रहणलक्षणा संज्ञा, अभिसंस्कारलक्षणाः संस्काराः, प्रतिविज्ञप्तिलक्षणं विज्ञानं तथागतेनालक्षणम् इत्य् अभिसंबुद्धं, राशीलक्षणा स्कन्धाः, गोत्रलक्षणा धातवः, आयद्वारलक्षणान्य् आयतनानि, सामग्रीलक्षणः प्रतीत्यसमुत्पादस् तथागतेनैते ऽलक्षणा इत्य् अभिसंबुद्धाः, परित्यागलक्षणा दानपारमिता, सा तथागतेनालक्षणेत्य् अभिसंबुद्धा. अनुद्दाहलक्षणा शीलपारमिता, अकोपलक्षणा क्षान्तिपारमिता, अनवमर्दनीयलक्षणा वीर्यपारमिता, संग्रहलक्षणा ध्यानपारमिता, असङ्गलक्षणा प्रज्ञापारमिता, सा तथागतेनालक्षणेत्य् अभिसंबुद्धा. अविकोपनलक्षणानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयस् (psp_4:70) तास् तथागतेनालक्षणा इत्य् अभिसंबुद्धाः. नैर्याणिकलक्षणाः सप्तत्रिंशद् बोधिपक्ष्या धर्मास् ते तथागतेनालक्षणा इत्य् अभिसंबुद्धाः. विविक्तलक्षणा शून्यता, शान्तलक्षणम् आनिमित्तम्, अनाभोगलक्षणम् अप्रणिहितं तत् तथागतेनालक्षणम् इत्य् अभिसंबुद्धं विमोचलक्षणा विमोक्ष्यास् ते तथागतेनालक्षणा इत्य् अभिसंबुद्धाः. सुनिश्चितलक्षणानि बलानि, सुप्रतिष्ठितलक्षणानि वैशारद्यान्य्, अनाच्छेद्यलक्षणाः प्रतिसंविदः, हितोपसंहारलक्षणा महामैत्री, परित्राणलक्षणा महाकरुणा, बुद्धधर्मप्रसादप्रामोद्यलक्षणा मुदिता, सर्वदोषसुखदुष्खलाभालाभयशोयशोनिन्दाप्रशंसोपेक्षाणां लक्षणा उपेक्षा, असंहार्यलक्षणा अष्टादशावेणिका बुद्धधर्मास् ते तथागतेनालक्षणा इत्य् अभिसंबुद्धा यावत् प्रत्यक्षलक्षणं सर्वज्ञज्ञानं तथागतेनालक्षणम् इत्य् अभिसंबुद्धम्. एवं हि देवपुत्रास् तथागतेन सर्वधर्मा अलक्षणा इत्य् अभिसंबुद्धास् तेन तथागतो सङ्गज्ञानीत्य् उच्यते. इत्य् अलक्षणज्ञानम्
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: प्रज्ञापारमिता सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य येनैव जनयित्री अस्य च लोकस्य दर्शयित्री तेन कारणेन तथागत इमं प्रज्ञापारमिताधर्मम् उपनिश्रित्य विहरति. इति स्वधर्मोपनिश्रयविहारज्ञानम्
एवं धर्मं सत्करोति गुरुकरोति मानयति पूजयति अर्चयत्य् अपचायते. इयं सा सुभूते प्रज्ञापारमिताधर्मता तस्माद् इमां तथागतः प्रज्ञापारमितां सत्करोति गुरुकरोति मानयति पूजयत्य् अर्चयत्य् अपचायते. तत् कस्य हेतोः? अतो हि सुभूते प्रज्ञापारमितायाः बुद्धानां भगवतां प्रादुर्भावो भवति, कृतज्ञश् च सुभूते तथागतः कृतवेदी, ये खलु पुनः सुभूते सम्यग्वदमाना वदेयुः कृतज्ञः कृतवेदीति तथागतं, ते सम्यग्वदमानाः सम्यग् वदेयुः कृतज्ञः कृतवेदीति. कथं च सुभूते तथागतः कृतज्ञो भवति कृतवेदीति? येन सुभूते यानेन तथागत आगतः, यया प्रतिपदा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस् ततस् तथागतस् तद् एव यानं ताम् एव प्रतिपदं सत्करोति गुरुकरोति मानयति पूजयति अर्चयत्य् अपचायते ऽनुगृह्णाति अनुपरिपालयते, इयं सा सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या. इति सत्कारादिज्ञानम् (psp_4:71)
पुनर् अपरं सुभूते तथागतेन सर्वधर्मा अकृता इत्य् अभिसंबुद्धाः कारकासत्ताम् उपादाय, अविकृता इत्य् अभिसंबुद्धा निग्रहासत्ताम् उपादाय इयम् अपि सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या. एवं तथागतेन प्रज्ञापारमिताम् आगम्य सर्वधर्मा अकृता इत्य् अभिसंबुद्धाः. इत्य् अकृतकज्ञानम्
पुनर् अपरं सुभूते तथागतस्य प्रज्ञापारमिताम् आगम्य सर्वधर्मेष्व् अकृतकज्ञानं प्रवृत्तम् अप्रवृत्तिसंकेतेनानेन सुभूते पर्यायेण प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इति सर्वत्रगज्ञानम्
सुभूतिर् आह: यदा भगवन् सर्वधर्मा अजानका अपश्यकाः, कथं तदा प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् सर्वधर्मा अजानका अपश्यकाः, कथञ् च सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्मा हि सुभूते शून्याः ऋक्तकाः तुच्छका असारकाः, अनेन सुभूते पर्यायेण सर्वधर्मा अजानका अपश्यकाः.
पुनर् अपरं सुभूते सर्वधर्मा अजानका अपश्यकाः, कथञ् च सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्माः सुभूते अनिश्रिता अपर्यापन्नाः, अनेन सुभूते पर्यायेण सर्वधर्मा अजानका अपश्यकाः. एवं खलु सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. सा च पुना रूपस्यादृष्टत्वाद् दर्शयित्री, एवं वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यादृष्टत्वाद् दर्शयित्री, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री. एवं यावत् सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री, एवं खलु सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री.
सुभूतिर् आह: कथं भगवन् रूपस्यादृष्टत्वात्? कथं वेदनायाः संज्ञायाः संस्काराणां? कथं विज्ञानस्यादृष्टत्वाद् दर्शयित्री भवति? कथं स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री? कथं यावत् सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री?
भगवान् आह: यदा सुभूते न रूपारम्बणं विज्ञनम् उत्पद्यते, एवं हि सुभूते रूपस्यादृष्टत्वाद् दर्शयित्री. एवं यदा सुभूते न वेदनासंज्ञासंस्कारारम्बणं, (psp_4:72) यदा न विज्ञानारम्बणं विज्ञानम् उत्पद्यते, एवं विज्ञानस्यादृष्टत्वाद् दर्शयित्री. यदा न स्कन्धधात्वायतनप्रतीत्यसमुत्पादारम्बणं विज्ञानम् उत्पद्यते, एवम् एषाम् अदृष्टत्वाद् दर्शयित्री. यदा न पारमितारम्बणं विज्ञानम् उत्पद्यते, एवं पारमितानाम् अदृष्टत्वाद् दर्शयित्री. एवं सर्वशून्यतानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां पञ्चानाम् अभिज्ञानां सर्वधारणीमुखानां दशतथागतबलानां वैशारद्यानां प्रतिसंविदां, यदा न आवेणिकबुद्धधर्मारम्बणं विज्ञानम् उत्पद्यते, एवम् आवेणिकबुद्धधर्माणाम् अदृष्टत्वाद् दर्शयित्री. यदा सुभूते न सर्वज्ञतारम्बणं विज्ञानम् उत्पद्यते, एवं सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री. एवं हि सुभूते इयं गम्भीरा प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इत्य् अदृष्टार्थदर्शकज्ञानम्
पुनर् अपरं सुभूते कथं प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री? इह सुभूते प्रज्ञापारमिता लोकः शून्य इति सूचयति. किम् इति लोकः शून्य इति सूचयति? पञ्चस्कन्धा लोकः शून्य इति सूचयति, द्वादशायतनानि लोकः शून्य इति सूचयति, अष्टादशधातवो लोकः शून्य इति सूचयति, दशकुशलाः कर्मपथा लोकः शून्य इति सूचयति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो लोकः शून्य इति सूचयति, अविद्या प्रत्ययो द्वादशाङ्गप्रतीत्यसमुत्पादो लोकः शून्य इति सूचयति, सत्कायदृष्टिपूर्वकानि द्वाषष्टिदृष्टिकृतानि लोकः शून्य इति सूचयति, सप्तत्रिंशद्बोधिपक्ष्या धर्मा लोकः शून्य इति सूचयति, षट्पारमिता लोकः शून्य इति सूचयति. एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता यावद् अभावस्वभावशून्यता लोकः शून्य इति सूचयति. एवं दशबलानि वैशारद्यानि प्रतिसंविद आवेणिकबुद्धधर्मा लोकः शून्य इति सूचयति, सर्वज्ञता लोकः शून्य इति सूचयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री.
पुनर् अपरं सुभूते प्रज्ञापारमिता लोकः शून्य इति ज्ञापयति. (psp_4:73) किम् इति लोकः शून्य इति ज्ञापयति? स्कन्धधात्वायतनानि लोकः शून्य इति ज्ञापयति, प्रतीत्यसमुत्पादो दशकुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो लोकः शून्य इति ज्ञापयति, सप्तत्रिंशद्बोधिपक्ष्या धर्मा यावत् सर्वज्ञता लोकः शून्य इति ज्ञपयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्रि अस्य च लोकस्य दर्शयित्री.
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोकः शून्य इति दर्शयति. किम् इति लोकः शून्य इति दर्शयति? स्कन्धधात्वायतनप्रतीत्यसमुत्पादं दशकुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सत्कायदृष्टिपूर्वकाणि द्वाषष्टिदृष्टिकृतानि षट्पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः सर्वशून्यता दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वाकारज्ञता लोकः शून्य इति दर्शयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इति शून्यताकारसूचकज्ञानोपदर्शकज्ञानानि
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोको ऽचिन्त्य इति दर्शयति. किम् इति लोको ऽचिन्त्य इति दर्शयति? पञ्चस्कन्धा धातव आयतनानि प्रतीत्यसमुत्पादो यावत् सर्वाकारज्ञता लोको ऽचिन्त्य इति दर्शयति. एवं विविक्त इति अत्यन्तशून्य इति स्वभावशून्य इति दर्शयति.
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोकः शान्त इति दर्शयति. किम् इति लोकः शान्त इति दर्शयति? स्कन्धधात्वायतनप्रतीत्यसमुत्पादा यावत् सर्वाकारज्ञता लोकः शान्त इति दर्शयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इत्य् अचिन्त्यताशान्तज्ञानम्
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोकः शून्यतैवेति दर्शयति. किम् इति लोकः शून्यतैवेति दर्शयति? पञ्चस्कन्धा लोकः शून्यतैवेति दर्शयति, तथा धात्वायतनानि लोकः शून्यतैवेति दर्शयति, प्रतीत्यसमुत्पादाङ्गानि लोकः शून्यतैवेति दर्शयति. एवं यावत् सर्वाकारज्ञता लोकः शून्यतैवेति दर्शयति. एवं हि सुभूते (psp_4:74) प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. सा पुनर् इयं सुभूते गम्भीरा प्रज्ञापारमिता तथागतस्यैवं लोकं दर्शयति, यथा नेहलोकसंज्ञा नापि परलोकसंज्ञा भवति. तत् कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते ये नेहलोकसंज्ञां परलोकसंज्ञां वा कुर्याद्. इति लोकसंज्ञानिरोधज्ञानम् इति ज्ञानलक्षणम्
सुभूतिर् आह: महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता भगवतः प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता भगवतः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येन सुभूते प्रज्ञापारमिता प्रत्युपस्थिता तथागतानां. कथं च सुभूते महाकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता? महाकृत्यम् इदं सुभूते तथागतानां यद् उत सर्वसत्त्वानां त्राणलयनापरित्यागार्थेन. कथं च सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अचिन्त्यं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्. एवम् अचिन्त्यकृत्येन सुभूते प्रज्ञापारमिता प्रत्युपस्थिता तथागतानाम् अर्हतां सम्यक्संबुद्धानाम्. कथं च सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? न हि सुभूते कश्चित् सत्त्वः सत्त्वनिकाये संविद्यते, यः शक्नुयात् तथागतम् अर्हन्तं सम्यक्संबुद्धं तुलयितुम्. अनेन सुभूते पर्यायेणातुल्यकृत्येन तथागतानाम् अर्हतां सम्यक्संबुद्धानां प्रज्ञापारमिता प्रत्युपस्थिता. कथं च सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अप्रमेयं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वं तन् न शक्यं केनचित् प्रमातुम्. अनेन सुभूते पर्यायेणाप्रमेयकृत्येनेयं तथागतानां प्रज्ञापारमिता प्रत्युपस्थिता. कथञ् च सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् असंख्येयकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता? असंख्येयं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वं तन् न शक्यं केनचित् संख्यातुम्. अनेन सुभूते पर्यायेणासंख्येयकृत्येन (psp_4:75) तथागतानां प्रज्ञापारमिता प्रत्युपस्थिता. कथञ् च सुभूते असमसमकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता? नास्ति सुभूते तथागतानां समः कुतः पुनर् उत्तरः. अनेन सुभूते पर्यायेण असमसमकृत्येन तथागतानां प्रज्ञापारमिता प्रत्युपस्थिता.
सुभूतिर् आह: किं पुनर् भगवन् बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम्?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अचिन्त्यं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्, एवम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्. रूपम् अपि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं, वेदना संज्ञा संस्कारा, विज्ञानं सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम्, एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमः. एवं यावत् सर्वज्ञता ऽप्य् अचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा, सर्वधर्मा अपि सुभूते ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा, या सुभूते सर्वधर्माणां धर्मता न तत्र चित्तन् न चैतसिका वा धर्मा उपलप्स्यन्ते. तत् कस्य हेतोः? रूपं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, वेदना संज्ञा संस्कारा, विज्ञानं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते, यावत् सर्वज्ञता ऽप्य् अचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा न प्रज्ञायते.
सुभूतिर् आह: केन कारणेन भगवन् रूपम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, वेदना संज्ञा संस्कारा विज्ञानम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते. एवं यावत् सर्वज्ञतापि भगवन् केन कारणेन ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा न प्रज्ञायते?
भगवान् आह: रूपस्यापि चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञयते. एवं यावत् सर्वाकारज्ञतायाश् चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञायते.
सुभूतिर् आह: केन कारणेन भगवन् रूपस्य यावत् सर्वाकारज्ञतायाश् (psp_4:76) चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञायते?
भगवान् आह: रूपस्य सुभूते स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य सुभूते स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. एवं धात्वायतनप्रतीत्यसमुत्पादस्य स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. एवं यावत् सर्वज्ञतायाः स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. तत् किं मन्यसे? सुभूते यद् रूपम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम् अपि नु तत्र रूपम् उपलभ्यते, वेदना संज्ञा संस्काराः, यत् सुभूते विज्ञानम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम् अपि नु तत्र विज्ञानम् उपलभ्यते. ये धात्वायतनप्रतीत्यसमुत्पादा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः, अपि नु तत्र धात्वायतनप्रतीत्यसमुत्पादा उपलभ्यन्ते. या सुभूते सर्वज्ञता ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा ऽपि नु तत्र सर्वज्ञतोपलभ्यते.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: अनेन सुभूते पर्यायेण सर्वधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः, इमे ते सुभूते तथागतस्य तथागतधर्मा अचिन्त्याश् चिन्तनोपरतत्वाद्, अतुल्यास् तुलनोपरतत्वाद्, अप्रमेयाः प्रमाणोपरतत्वाद्, असंख्येया गणनोपरतत्वाद्, असमसमाः समविषमोपरतत्वात्. अनेन सुभूते पर्यायेण सर्वधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः, इमे ते सुभूते तथागतस्य तथागतधर्मा अचिन्त्याश् चिन्तासमतिक्रान्ताः, अतुल्यास् तुलनासमतिक्रान्ताः, अप्रमेयाः प्रमाणसमतिक्रान्ताः, असंख्येया गणनासमतिक्रान्ताः, असमसमाः समविषमसमतिक्रान्ताः. अचिन्त्या इति सुभूते अचिन्तनाधिवचनम् एतत्, अतुल्या इति सुभूते अतुलनाधिवचनम् एतत्, अप्रमेया इति सुभूते अप्रमाणाधिवचनम् एतत्, असंख्येया इति सुभूते अगणनाधिवचनम् एतत्, असमसमा इति सुभूते असमविषमाधिवचनम् एतत्, इमे ते सुभूते तथागतस्य तथागतधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः. अचिन्त्या इति सुभूते आकाशाचिन्त्यत्वाद्, एवम् अतुल्या अप्रमेया असंख्येया असमसमा आकाशासमसमत्वाद्. एवं हि सुभूते तथागतस्य तथागतधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया (psp_4:77) असमसमाः, ते न शक्यन्ते सर्वश्रावकप्रत्येकबुद्धैः सर्वदेवकेनापि लोकेन चिन्तयितुं वा तुलयितुं वा प्रमातुं वा संख्यातुं वा समविषमं वा कर्तुम्. एवम् अप्रमेया बुद्धा अप्रमेया बुद्धधर्माः, अस्मिन् खलु पुनर् अचिन्त्यातुल्याप्रमेयासंख्येयासमसमपरिवर्तधर्मपर्याये भगवता भाष्यमाणे पञ्चानां भिक्षुशतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, विंशतीनां च भिक्षुणी शतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, षष्टेश् चोपासकसहस्राणां विंशतीनाम् उपासिकासहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं, विंशतेश् च बोधिसत्त्वसहस्राणाम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्. ते च भगवता इहैव भद्रकल्पे व्याकृता बुद्धा भविष्यन्ति. इत्य् अचिन्त्यतादिविशेषेण दुःखे चत्वारः क्षणाः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता, महाकृत्येनेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनासंख्येयकृत्येनाप्रमेयकृत्येनासमसमकृत्येनेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता. तत् कस्य हेतोः? अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां पञ्चपारमिताः समायुक्ताः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायाम् अध्यात्मशून्यता समायुक्ता यावद् अभावस्वभावशून्यता समायुक्ता, चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गमार्गः समायुक्तः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वार्य् आर्यसत्यानि अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि समायुक्तानि. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां दशतथागतबलानि समायुक्तानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः समायुक्ताः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां बुद्धभूमिः समायुक्ता यावत् सर्वाकारज्ञता समायुक्ता, तद्यथापि नाम सुभूते राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य जनपदस्थामवीर्यप्राप्तस्य (psp_4:78) यानि तानि राजकृत्यानि भवन्ति सर्वाणि तान्य् अमात्यसमायुक्तान्य् अल्पोत्सुकस् ततो राजा भवत्य् अपहृतभारः राजकृत्ये वा जनपदकृत्ये वा. एवम् एव सुभूते ये केचिच् छ्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितासमायुक्ताः
प्रज्ञापारमिता तेषां कृत्यं करोति. तस्मात् तर्हि सुभूते महाकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता. तत् कस्य हेतोः? तथा हि सुभूते गम्भीरा प्रज्ञापारमिता रूपस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, यावत् सर्वाकारज्ञताया अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, स्रोतआपत्तिफलस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता. एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वस्य प्रत्येकबोधेर् अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता.
सुभूतिर् आह: कथं भगवन् रूपस्यापरिग्रहायानभिनिवेशायेयं प्रज्ञापारमिता प्रत्युपस्थिता? कथं भगवन् वेदनायाः संज्ञायाः संस्काराणां? कथं भगवन् विज्ञानस्यापरिग्रहायानभिनिवेशायेयं प्रज्ञापारमिता प्रत्युपस्थिता? यावत् कथं भगवन्न् अनुत्तरायाः सम्यक्संबोधेर् अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता?
भगवान् आह: समनुपश्यसि त्वं सुभूते तद् रूपं यद् रूपं येन वा परिगृह्णीयाद् अभिनिवेशेत वा?
सुभूतिर् आह: नो हीदं भगवन्, वेदना संज्ञा संस्काराः.
भगवान् आह: समनुपश्यसि त्वं सुभूते तद् विज्ञानं येन वा परिगृह्णीयाद् अभिनिवेशेत? एवं यावत् समनुपश्यसि त्वं सुभूते ताम् अनुत्तरां सम्यक्संबोधिं या परिगृह्णीयाद् अभिनिवेशेत?
सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: साधु साधु सुभूते, अहम् अपि सुभूते तद् रूपन् न समनुपश्यामि यत् परिगृह्णीयां वा अभिनिविशेयं वा, यो वा परिगृह्णीयाद् अभिनिविशेत वा, वेदनासंज्ञासंस्कारान्, अहम् अपि सुभूते तद् विज्ञानन् न समनुपश्यामि यत् परिगृह्णीयां वा अभिनिविशेयं वा, यो वा परिगृह्णीयाद् अभिनिविशेत वा, एवं यावद् अहम् अपि सुभूते ताम् (psp_4:79) अनुत्तरां सम्यक्संबोधिन् न समनुपश्यामि, असमनुपश्यन् न परिगृह्णामि अपरिगृह्णन् नाभिनिविशे, अहम् अपि सुभूते बुद्धभूमिं सर्वज्ञतां सर्वाकारज्ञतां तथागतत्वं बुद्धत्वं न समनुपश्यामि, असमनुपश्यन् न परिगृह्णामि, अपरिगृह्णन् नाभिनिविशे, तस्मात् तर्हि सुभूते बोधिसत्त्वैर् महासत्त्वैर् रूपन् न परिग्रहीतव्यं नाभिनिवेष्टव्यम्. एवं वेदना संज्ञा संस्काराः, विज्ञानं सुभूते बोधिसत्त्वैर् महासत्त्वैर् न परिग्रहीतव्यन् नाभिनिवेष्टव्यम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादानि न परिग्रहीतव्यानि नाभिनिवेष्टव्यानि, एवं सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न परिग्रहीतव्या नाभिनिवेष्टव्या यावद् अनुत्तरा सम्यक्संबोधिर् न परिग्रहीतव्या नाभिनिवेष्टव्या. एवं बुद्धत्वं सर्वज्ञत्वं सर्वाकारज्ञत्वं तथागतत्वन् न परिग्रहीतव्यं नाभिनिवेष्टव्यम्. इति सर्वार्यपुद्गलसंग्रहविशेषेन समुदये प्रथमः क्षणः
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरा भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधा अतर्का अतर्कावचरा शान्ता सूक्ष्मा निपुनपण्डितविज्ञवेदनिया भगवन् प्रज्ञापारमिता. ते खलु भगवन् बोधिसत्त्वाः पूर्वजिनकृताधिकारा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते, कल्याणमित्रपरिगृहीता अवरोपितकुशलमूलाः. ते खलु भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते. इति पुरुषविशेषवेदनीयताविशेषेण समुदये द्वितीयः क्षणः
सचेद् भगवन् ये त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वाः सर्वे ते श्रद्धानुसारिणो भवेयुः, धर्मानुसारिनो ऽष्टमकाः स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तो भवेयुः, प्रत्येकबुद्धा भवेयुः, (psp_4:80) तेषां सर्वेषां यच् च ज्ञानं यच् च प्रहाणं, या चेह गम्भीरायां प्रज्ञापारमितायाम् एकदेवसिकी क्षान्तिरुचिश् चिन्तना तुलना उपपरीक्षणा गणना इयम् एव ततः परं श्रेयः, यस्येह एवंरूपायां प्रज्ञापारमितायां रुचिः क्षान्तिः. तत् कस्य हेतोः? तथा हि यच् च श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकस्य स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां ज्ञानञ् च प्रहाणञ् च, सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः.
अथ खलु भगवांस् तान् देवपुत्रान् आमन्त्रयते स्म: एवम् एतद् देवपुत्रा एवम् एतद्, यच् च यावत् प्रत्येकबुद्धानां ज्ञानं यच् च प्रहाणं, सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. इत्य् असाधारणताविशेषेन समुदये तृतीयक्षणः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
