Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
शारिपुत्र आह: सचेत् कौशिक नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं प्रज्ञापारमिता भाष्येत उत्त्रस्येत संत्रस्येत संत्रासम् आपद्येत प्रतिबाध्येत प्रतिक्षिपेत्. नाधिमुच्येत स्थानम् एतत् कौशिक विद्यते यस् स नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा प्रतिक्षिप्य विनिपातगामिकर्मोपचिनुयात्, स कृच्छ्रेण चिरेणानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत. इति कृच्छ्रे चिराभिसंबोधप्रयोगः
शक्र आह: सन्ति पुनर् भदन्त शारिपुत्र अव्याकृता बोधिसत्त्वा महासत्त्वा य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते.
शारिपुत्र आह: न ते कौशिक बोधिसत्त्वा महासत्त्वाश् चिरेण व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः. य इमां (psp_4:16) प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. ते एकं वा द्वौ वा त्रीन् वा तथागतान् अतिक्रमिष्यन्ति. ततो व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः.
अथ खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: एवम् एतच् छारिपुत्रैवम् एतत्, चिरयानसंप्रस्थितास् ते शारिपुत्र बोधिसत्त्वा महासत्त्वा भविष्यन्ति. चिरचरिताः षट्सु पारमितासु बहुबुद्धपर्युपासितास् ते शारिपुत्र बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. उत्तरे च श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति यथोपदिष्टायां प्रज्ञापारमितायां स्थास्यन्ति.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: प्रतिभाति मे भगवन् प्रतिभाति मे सुगत.
भगवान् आह: प्रतिभातु ते.
शारिपुत्र आह: तद्यथापि नाम भगवन् स्वप्नान्तरगतो महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, यावद् बोधिमण्डे निषीदेद्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरायाः सम्यक्संबोधेः. कः पुनर् वादो? भगवन् यः प्रतिविबुद्धः प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरायाः सम्यक्संबोधेः. इति व्याकरणलाभप्रयोगः
परिपक्वकुशलमूलास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यन्ते श्रवणाय श्रुत्वा च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते भगवन् कुलपुत्रा कुलदुहितरश् च भविष्यन्ति, अवरोपितकुशलमूला बहुबुद्धपर्युपासिताः कल्याणमित्रपरिगृहीतास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. अभ्यासन्नास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेर्व्याकरणस्य व्याकरिष्यन्ति वा, (psp_4:17) अविनिवर्तनीया वा ते कुलपुत्राः कुलदुहितरश् चानुत्तरायाः सम्यक्संबोधेर्, येषां स्वयम् इयं प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. इत्य् अविनिवर्तनीयप्रयोगः
तद्यथापि नाम भगवन् पुरुषो योजनशतिकाद् अटवीकान्तारान् निष्क्रामेत्, द्वियोजनशतिकात् त्रियोजनशतिकाच् चतुर्योजनशतिकात् पञ्चयोजनशतिकाद् अटवीकान्तारान् निष्क्रामेन् निष्क्रम्य पश्येद् ग्रामस्य नगरस्य निगमस्य वा पूर्वानि निमित्तानि गोपालकान् वा पशुपालकान् वा सीमा वा आरामान् वा वनानि वा उद्यानानि वा उद्याननिमित्तानि वा ग्रामान् वा नगराणि वा निगमान् वा राजधानीन् वा राष्ट्राणि वा पूर्वनिमित्तानि ग्रामस्य नगरस्य निगमस्य वा दृष्ट्वैवं भवति यादृशानीमानि पूर्वनिमित्तानि दृश्यन्ते अभ्यासन्न इतो ग्रामो वा नगरं वा निगमं वा राजधान्यो वा राष्ट्राणि वा भविष्यन्ति. स आश्वासप्राप्तो भवेत्, न चास्य भूयो भवति चौरभयं वा चण्डालभयं वा चण्डमृगभयं वा बुभुक्षाभयं वा पिपासाभयं वा. एवम् एव भगवन् यस्य बोधिसत्त्वस्य महासत्त्वस्य स्वयम् इयं गम्भीरा प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नो ऽयं बोधिसत्त्वो महासत्त्वो भविष्यति व्याकरणस्यानुत्तरायाः सम्यक्संबोधेर् न चिरेणाभिसंभोत्स्यते. तेन च बोधिसत्त्वेन महासत्त्वेन न भेतव्यं श्रावकभूमेर् वा प्रत्येकबुद्धभूमेर् वा. तत् कस्य हेतोर्? इमानि तानि पूर्वनिमित्तानि यद् उतेमां गम्भीरां प्रज्ञापारमितां बोधिसत्त्वो महासत्त्वो लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय.
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवम् एतच् छारिपुत्रैवम् एतत्. इति निर्याणप्रयोगः
प्रतिभातु ते शारिपुत्र भूयस्या मात्रया बुद्धानुभावेन.
शारिपुत्र आह: तद्यथा पि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स गच्छेत् महासमुद्रं दर्शनाय यथा यथा गच्छेत् महासमुद्रं तथा तथा पश्येत् स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तेनैवं वेदितव्यं दूरे इतो महासमुद्रो नासन्न (psp_4:18) इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्याभ्यासे कश्चित् स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वा दृश्यन्ते. तद्यथापि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स यथा यथा गच्छेत् महासमुद्रं दर्शनाय तथा तथा न पश्येत् स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तस्यैवं भवति न दूरे इतो महासमुद्र आसन्न इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्यासन्ने कश्चित् स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वा दृश्यते, किं चापि स पुरुषश् चक्षुषा महासमुद्रन् न पश्यति. अथ च पुनः स निष्ठां गच्छति, आसन्नो ऽस्मि महासमुद्रस्याभ्यासन्न इतो महासमुद्र इति, नेतो भूयो दूरे महासमुद्र इति. एवम् एव भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, इमां प्रज्ञापारमितां शृणुता उद्गृह्णता धारयता वाचयता पर्यवाप्नुवता योनिशो मनसिकुर्वता, एवं चिन्तयितव्यं किं चाप्य् अहं तेन भगवता न संमुखं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ इयद्भिः कल्पैर् इयद्भिः कल्पशतैर् इयद्भिः कल्पसहस्रैर् इयद्भिः कल्पशतसहस्रैर् इयद्भिः कल्पकोटीनियुतशतसहस्रैस् त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यस इति.
अथ च पुनर् बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, आसन्नीभूतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेर् व्याकरणस्येति. तत् कस्य हेतोः? तथा ह्य् अहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय श्रुत्वा चोद्गृह्णामि धारयामि वाचयामि पर्यवाप्नोमि योनिशश् च मनसिकरोमि. इति निरुत्तरप्रयोगः
तद्यथापि नाम भगवन् वसन्ते प्रत्युपस्थिते शीर्णपर्णपलाशेषु स्तम्भेषु आकरजातेषु वेदितव्यं जाम्बूद्वीपकैर् मनुष्यैर् नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति. तत् कस्य हेतोः? इमानि तानि पूर्वनिमित्तानि स्तम्बेषु दृश्यन्ते नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति, आत्तमनस्का जाम्बूद्वीपका मनुष्या भविष्यन्ति तानि च पूर्वनिमित्तानि दृष्ट्वा स्तम्बेषु, एवम् एव भगवन् यो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवनाय श्रुत्वा (psp_4:19) चोद्गृह्णाति धारयति वाचयति पर्यवाप्स्यति योनिशश् च मनसिकरोति परिपक्वकुशलमूलः स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः, बहुबुद्धपर्युपासितः स भगवन् कुलपुत्रो वा कुलदुहिता वा वेदितव्यः. वेदितव्यम् एतद् भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन पूर्वकैर् एव कुशलमूलैर् उपनीतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेः, यो ऽहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्येयं तत्र देवपुत्राः पूर्वबुद्धदर्शिनो भवन्ति. ते प्रमुदिताः प्रीतिसौमनस्यजाताः पूर्वकाणाम् अपि बोधिसत्त्वानां महासत्त्वानाम् इमान्य् एव पूर्वनिमित्तानि अभूवन् व्याकरणाय न चिरेणायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यते अनुत्तरायां सम्यक्संबोधौ. इत्य् आसन्नाभिसंबोधप्रयोगः तद्यथापि नाम भगवन् स्त्रीगुर्विणी सा यथा यथा आसन्नप्रसवा भवति तथा तथास्याः कायो वेष्टते ऽधिमात्रं च काये वेदनाक्लमथश् च जायते, न च चङ्क्रमणशीला भवति,
अल्पस्मृतिश् च भवति, अल्पाहारा च भवति, अल्पस्त्यानमिद्धा च भवति, ताभिर् वेदनाभिर् वर्तमानाभिर् अल्पभाष्या च भवति, न च संवासशीला भवति, तेन पूर्वकेणायोनिशोमनसिकारेणासेवितेन भावितेन निषेवितेन इमाम् एवंरूपां वेदनां प्रत्यनुभवामीति. वेदितव्यम् एवं ततो ऽन्याभिः स्त्रीभिर् यादृशान्य् अस्याः स्त्रियो निमित्तानि दृश्यन्ते न चिरेणैवेयं स्त्री प्रसविष्यति. एवम् एव भगवन् बोधिसत्त्वानां महासत्त्वानाम् अवरोपितकुशलमूलानां बहुबुद्धपर्युपासितानां सुचरितचीर्णचरितानां कल्याणमित्रपरिगृहीतानां परिपक्वकुशलमूलानाम् इयं गम्भीरा प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, वेदितव्यम् एतन् न चिरेणैषां बोधिसत्त्वानां महासत्त्वानां व्याकरणं भविष्यति अनुत्तरायाः सम्यक्संबोधेः.
भगवान् आह: साधु साधु शारिपुत्र इदम् अपि ते शारिपुत्र बुद्धानुभावेन प्रतिभानम् उत्पन्नम्. इति क्षिप्राभिसंबोधप्रयोगः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अनुगृहीताः सुपरीत्ताश् चेमे बोधिसत्त्वा महासत्त्वास् (psp_4:20) तथागतेनार्हता सम्यक्संबुद्धेन.
भगवान् आह: तथा हि सुभूते बोधिसत्त्वा महासत्त्वा बहुजनहिताय बहुजनसुखाय प्रतिपन्ना लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानाञ् च मनुष्यानाञ् चानुत्तरायै सम्यक्संबोधये प्रतिष्ठन्ते बोधिसत्त्वचर्याञ् चरन्तो ऽनेकानि सत्त्वशतानि अनेकानि सत्त्वसहस्राणि अनेकानि सत्त्वशतसहस्राणि अनेकानि सत्त्वकोटिनियुतशतसहस्राणि अनुग्रहीष्यन्ति, चतुर्भिः संग्रहवस्तुभिर् दानेन प्रियवद्येन अर्थचर्यया समानार्थतया दशकुशलेषु कर्मपथेषु समादापयन्ति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु समादापयन्ति. आत्मना चैतेषु धर्मेषु प्रतिष्ठिता भवन्ति. आत्मना च दानपारमितायां चरन्ति परांश् च दानपारमितायां प्रतिष्ठापयन्ति. आत्मना च शीलपारमितायां चरन्ति परांश् च शीलपारमितायां प्रतिष्ठापयन्ति. आत्मना च क्षान्तिपारमितायां चरन्ति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयन्ति. आत्मना च वीर्यपारमितायां चरन्ति परांश् च वीर्यपारमितायां प्रतिष्ठापयन्ति. आत्मना च ध्यानपारमितायां चरन्ति परांश् च ध्यानपारमितायां प्रतिष्ठापयन्ति. आत्मना च प्रज्ञापारमितायां चरन्ति परांश् च प्रज्ञापारमितायां प्रतिष्ठापयन्ति. ते च प्रज्ञापारमिताम् आगम्य उपायकौशल्येन सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयन्ति न चात्मना साक्षात् कुर्वन्ति. एवं सकृदागामिफले अनागामिफले अर्हत्त्वे, प्रत्येकायां बोधौ प्रतिष्ठापयन्ति न चात्मना प्रत्येकां बोधिं साक्षात् कुर्वन्ति. आत्मना चाविनिवर्तनीयां भूमिम् आक्रामन्ति परांश् चाविनिवर्तनीयभूमौ प्रतिष्ठापयन्ति. आत्मना च बुद्धक्षेत्रं परिशोधयन्ति, अन्यांश् च बोधिसत्त्वान्
बुद्धक्षेत्रपरिशुद्धौ समादापयन्ति. आत्मना च सत्त्वान् परिपाचयन्ति परांश् च सत्त्वपरिपाके समादापयन्ति. आत्मना चाभिज्ञा उत्पादयन्ति परांश् चाभिज्ञाप्राप्तये समादापयन्ति. आत्मना च धारणीमुखं परिशोधयन्ति परान् अपि धारणीमुखपरिशुद्धये समादापयन्ति. आत्मना च प्रतिभानसंपदं प्रतिलभन्ते परान् अपि प्रतिभानसंपदि समादापयन्ति. आत्मना च रूपसंपदं परिगृह्णन्ति परान् अपि रूपसंपत्प्रतिलाभाय समादापयन्ति. आत्मना च लक्षणसंपदं परिगृह्णन्ति परान् अपि (psp_4:21) लक्षणसंपत्प्रतिलाभाय समादापयन्ति. आत्मना च कुमारभूतसंपदं परिगृह्णन्ति परान् अपि कुमारभूतसंपत्प्रतिग्रहाय समादापयन्ति. आत्मना च बोधिपक्ष्यान् धर्मान् निष्पादयन्ति परान् अपि बोधिपक्ष्यधर्मपरिनिष्पत्तये समादापयन्ति. आत्मना च सत्यविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहितधारणीमुखान् उत्पादयन्ति परान् अप्य् एषु समादापयन्ति. आत्मना च चत्वारि वैशारद्यानि उत्पादयन्ति परान् अपि चतुर्षु वैशारद्येषु समादापयन्ति. आत्मना च चतस्रः प्रतिसंविद उत्पादयन्ति परान् अपि चतुरः प्रतिसंविदः प्राप्तये समादापयन्ति. आत्मना च महामैत्रीं महाकरुणां महामुदितां महोपेक्षां विभावयन्ति परान् अपि चतुरप्रमाणा विभावनायै समादापयन्ति. आत्मना चाष्टादशावेणिकान् बुद्धधर्मान् निष्पादयन्ति परान् अपि अष्टादशावेणिकेषु बुद्धधर्मेषु समादापयन्ति. आत्मना च सर्वाकारज्ञताम् अनुप्राप्नुवन्ति परांश् च सर्वाकारज्ञतायां समादापयन्ति. आत्मना च सर्ववासनानुसंधिक्लेशान् विजहन्ति परान् अपि सर्ववासनानुसंधिक्लेशोत्सर्गाय समादापयन्ति. आत्मना चानुत्तरां
सम्यक्संबोधिम् अभिसंबुध्यन्ते परांश् च सम्यक्संबोधिम् अभिसंबोधये समादापयन्ति. आत्मना च धर्मचक्रं प्रवर्तयन्ति परांश् च धर्मचक्रं प्रवर्तनाय समादापयन्ति. इति परार्थप्रयोगः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन्न् आश्चर्यं सुगत यावद् बहुगुणसमन्वागतास् ते बोधिसत्त्वा महासत्त्वा ये सर्वसत्त्वानां कृतशः प्रज्ञापारमितायां चरन्ति अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. कथं भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताभावनापरिपूरिं गच्छति?
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य वृद्धिं न समनुपश्यति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य वृद्धिं समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति.
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न धात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानां पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां सण्णाम् अभिज्ञानां (psp_4:22) सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां बलानां चतुर्णां वैशारद्यानाञ् चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां वृद्धिं न समनुपश्यति सर्वज्ञताया वृद्धिं न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति.
भगवान् आह: यदा च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य परिहाणिं न समनुपश्यति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य परिहाणिं समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाण ध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां यदा सर्वज्ञतायाः परिहाणिं न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. इत्य् अवृद्ध्यपरिहाणिप्रयोगः
पुनर् अपरं सुभूते यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्म इति न समनुपश्यति, अधर्म इति न समनुपश्यति, अतीतम् इति न समनुपश्यति, अनागतम् इति न समनुपश्यति, प्रत्युत्पन्नम् इति न समनुपश्यति, कुशलम् अकुशलं व्याकृतम् अव्याकृतम् इति न समनुपश्यति, संस्कृतम् इति न समनुपश्यति, असंस्कृतम् इति न समनुपश्यति, कामधातुन् न समनुपश्यति, रूपधातुन् न समनुपश्यति, आरूप्यधातुन् न समनुपश्यति, दानपारमितान् न समनुपश्यति, शीलपारमितान् न समनुपश्यति, क्षान्तिपारमितान् न समनुपश्यति, वीर्यपारमितान् न समनुपश्यति, ध्यानपारमितान् न समनुपश्यति, प्रज्ञापारमितान् न समनुपश्यति यावत् सर्वज्ञतान् न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. तत् कस्य हेतोः? तथा हि सुभूते धर्माणां धर्मलक्षणताम् उपादाय अविनिवर्तनीयताम् उपादाय रिक्तताम् उपादाय तुच्छताम् उपादाय असारताम् उपादाय वशिकताम् उपादाय. इति धर्माद्यनुपलम्भप्रयोगः
सुभूतिर् आह: अचिन्त्यं भगवन् देश्यते.
भगवान् आह: रूपाचिन्त्यतया सुभूते अचिन्त्यं देश्यते, वेदना संज्ञा (psp_4:23) संस्कारा, विज्ञानाचिन्त्यतया सुभूते ऽचिन्त्यं देश्यते. दानपारमिताचिन्त्यतया अचिन्त्यं देश्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताचिन्त्यतयाचिन्त्यं देश्यते. एवं सप्तत्रिंशद्बोधिपक्षधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सर्वज्ञताचिन्त्यतया सुभूते ऽचिन्त्यं देश्यते. सचेत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अचिन्त्यम् इति न संजानीते, वेदना संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम् इति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्. एवं धात्वायतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि पारमिताः शून्यता सर्वसमाधयः सर्वधारणीमुखानि बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा सर्वज्ञताचिन्त्येति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्. इत्य् अचिन्त्याकारसंज्ञानिरोधप्रयोगः
सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्षते?
भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति, षट्सु पारमितासु तथागतावरोपितकुशलरऊलो भवति, बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति, स इमां प्रज्ञापारमिताम् अधिमोक्षते.
सुभूतिर् आह: कियता भगवन् बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति, षट्सु पारमितासु तथागतावरोपितकुशलमूलो भवति, बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न कल्पयति न विकल्पयति, रूपनिमित्तं न कल्पयति न विकल्पयति, रूपस्वभावन् न कल्पयति न विकल्पयति, वेदना संज्ञा संस्कारा, विज्ञानन् न कल्पयति न विकल्पयति, विज्ञाननिमित्तं न कल्पयति न विकल्पयति, विज्ञानस्वभावन् न कल्पयति न विकल्पयति. एवं धातून् आयतनानि प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि कामरूपारूप्यधातुं दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां (psp_4:24) ध्यानपारमितां प्रज्ञापारमिताम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् सर्वज्ञतान् न कल्पयति न विकल्पयति, सर्वज्ञतानिमित्तन् न कल्पयति न विकल्पयति, सर्वज्ञतास्वभावन् न कल्पयति न विकल्पयति. तत् कस्य हेतोः? तथा हि सुभूते रूपम् अचिन्त्यं, वेदना संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सर्वज्ञता अचिन्त्या. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति षट्सु पारमितासु तथागतावरोपितकुशलमूलो भवति बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति.
सुभूतिर् आह: गम्भीरा भगवन् प्रज्ञापारमिता.
भगवान् आह: रूपगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिताः, सर्वज्ञतागम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता. इत्य् अविकल्पप्रयोगः
सुभूतिर् आह: रत्नराशिर् भगवन् प्रज्ञापारमिता रत्नदात्री, स्रोतापत्तिफलस्य सकृदागामिफलस्यनागामिफलस्यार्हत्त्वस्य प्रत्येकबुद्धत्वस्यानुत्तरायाः सम्यक्संबोधेर् दात्री धर्मचक्रप्रवर्तिकेयं भगवन् प्रज्ञापारमिता. इति फलरत्नदानप्रयोगः सुभूतिर् आह: सर्वधर्माणां शुद्धराशिर् भगवन् प्रज्ञापारमिता.
भगवान् आह: रूपविशुद्धिताम् उपादाय, वेदना संज्ञा संस्कारा, (psp_4:25) विज्ञानविशुद्धिताम् उपादाय. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः, सर्वज्ञताविशुद्धिताम् उपादाय. इति विशुद्धिप्रयोगः
सुभूतिर् आह: आश्चर्यं भगवन् यावद् अस्यां गम्भिरायां प्रज्ञापारमितायां भाष्यमाणायां बहवो ऽन्तराया उत्पद्येरन्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बह्वन्तरायायं सुभूते गम्भीरा प्रज्ञापारमिता, तेन कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां लिखिता क्षिप्रम् एव लिखितव्या, उद्दिशता धारयता वाचयता स्वाध्यायता योनिशश् च मनसिकुर्वता, भावयता क्षिप्रम् एव भावयितव्या. मा खल्व् अस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां धार्यमाणायां वाच्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायां वान्तरायः स्याद् इति. तत् कस्य हेतोः? सचेत् सुभूते यः कुलपुत्रो वा कुलदुहिता वा मासेन इमां प्रज्ञापारमितां लिखेत् तेन लिखितव्यैव भवेत्. सचेद् द्वाभ्यां त्रिभिश् च चतुर्भिः पञ्चभिः षड्भिः सप्तभिर् अष्टाभिर् यावत् संवत्सरेण लिखेत् तेन लिखितव्यैव भवेद् एवम् उपदेष्टव्या धारयितव्या वाचयितव्या स्वाध्यातव्या योनिशो मनसिकर्तव्या. सचेत् मासेन वा भावयेत् तेन भावयितव्या भवेत् यावत् संवत्सरेण भावयेत् तेन भावयितव्या भवेत्. तत् कस्य हेतोर्? बहवः सुभूते महारत्नस्यान्तराया उत्पद्यन्ते.
सुभूतिर् आह: आश्चर्यं भगवन् यद् अस्यां गम्भीरायां प्रज्ञापारमितायां मारः पापीयान् अन्तरायाय योगम् आपद्यते, यद् उतालिखनायानुद्दिशमानायाधारणायावाचनायायोनिशो मनसिकारणायाभावनायै.
भगवान् आह: किं चापि सुभूते मारः पापीयान् गम्भीरायां प्रज्ञापारमितायाम् उद्योगम् आपद्येत अन्तराय करणाय यद् उतालिखनाय यावद् अभावनायै बोधिसत्त्वस्य महासत्त्वस्य इमां गम्भीरां प्रज्ञापारमितां लिखत उद्दिशतो धारयतो वाचयतः स्वाध्यायतो योनिशो मनसिकुर्वतो भावयतो न शक्नोत्य् अन्तरायं कर्तुम्. इत्य् अधिमुक्तिप्रयोगः इत्य् उक्तः प्रयोगः (psp_4:26)
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कस्य भगवन्न् अनुभावेन मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुं बोधिसत्त्वानां महासत्त्वानाम् इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां धारयतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्?
भगवान् आह: बुद्धानुभावेन शारिपुत्र मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुं बोधिसत्त्वानां महासत्त्वानाम् इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां धारयतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्. ये ऽपि ते शारिपुत्र समन्ता दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाम् अपि बुद्धानां भगवताम् अनुभावात्. ते ऽपि बुद्धा भगवन्तस् तान् बोधिसत्त्वान् महासत्त्वान् समन्वाहरिष्यन्ति अनुपरिग्रहीष्यन्ति, तैश् च बुद्धैर् भगवद्भिर् अनुपरिगृहीतानां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुम्, इमां प्रज्ञापारमितां लिखतां धारयतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्. तत् कस्य हेतोर्? न हि शारिपुत्र बुद्धैर् भगवद्भिर् अनुपरिगृहीतानां बोधिसत्त्वानां महासत्त्वानां मारेण पापीयसा शक्नोत्य् अन्तरायः कर्तुम्. तत् कस्य हेतोर्? धर्मं तेषां शारिपुत्र ये ऽपि ते समन्ताद् दशसु दिक्ष्व् अप्रमेयेष्व् असंख्येयेषु लोकधातुष्व् अप्रमेया असंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि बुद्धा भगवन्त इमां प्रज्ञापारमितां लिखतो धारयतो वाचयत उद्दिशतः स्वाध्यायतो योनिशो मनसिकुर्वतो भावयतो बोधिसत्त्वान् महासत्त्वान् समन्वाहरन्ति. इति मारशक्तिव्याघातगुणः
वेदितव्यं तेन शारिपुत्र कुलपुत्रेण वा कुलदुहित्रा वा इमां गम्भीरां प्रज्ञापारमितां लिखता वा धारयता वा वाचयता वा उद्दिशता वा स्वाध्यायता वा योनिशो मनसिकुर्वता वा भावयता वा बुद्धानुभावेनाहम् इमां गम्भीरां प्रज्ञापारमितां लिखामि धारयामि वाचयामि उद्दिशामि स्वाध्यायामि भावयामि योनिशो मनसिकरोमि.
शारिपुत्र आह: यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं भगवन् (psp_4:27) सर्वन् तद्बुद्धानुभावेन, सर्वे च ते बुद्धपरिगृहीता भविष्यन्ति.
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, यथा वदसि यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं शारिपुत्र सर्वन् तद्बुद्धानुभावेन सर्वे ते बुद्धपरिगृहीता भविष्यन्ति. इति बुद्धसमन्वाहारज्ञापनगुणः
शारिपुत्र आह: ज्ञातास् ते भगवन् ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते भगवन् मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वदिग्भागे यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते.
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, ज्ञातास् ते शारिपुत्र ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते शारिपुत्र मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वस्यां दिशि यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च ये बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते. इति बुद्धप्रत्यक्षीकरणगुणः
ते खलु पुनर् महायानिकाः कुलपुत्राः कुलदुहितरश् च वेदितव्या अभ्यासन्नी भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेः. इति संबोधाभ्यासीकरणगुणः
ये ऽपि ते शारिपुत्र कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयिष्यन्ति. ते खलु पुनः शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च इह गम्भीरायां प्रज्ञापारमितायाम् अधिमुक्तिबहुला भविष्यन्ति, ये ऽपीमां गम्भीरां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. (psp_4:28) ते ऽपि शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च ज्ञाता दृष्टाश् च बुद्धैर् भगवद्भिस् तथागताश् च बुद्धचक्षुषा पश्यन्ति, तेषाम् अपि कुलपुत्राणां कुलदुहितृणां च महार्थं महानुशंसं महाफलं महाविपाकं य इमां गम्भीरां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति. ते तेन कुशलमूलेन न जातु बुद्धैर् भगवद्भिर् विरहिता भविष्यन्ति. ते न जात्व् अपायेषूपपत्स्यन्ते देवमनुष्येषूपपत्स्यमाना बुद्धबोधिसत्त्वैर् अविरहिता भविष्यन्ति. अविनिवर्तनीयां भूमिं चातिक्रमिष्यन्ति, ते च बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरो वा तेनैव कुशलमूलेन न जातु विरहिता भविष्यन्ति षड्भिः पारमिताभिः, अध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया न जातु विरहिता भविष्यन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यध्यानाप्रमाणारूप्यसमापत्तिभिर् न जातु विरहिता भविष्यन्ति, शून्यतानिमित्ताप्रणिहितैर् विमोक्षमुखैर् न जातु विरहिता भविष्यन्ति, अष्टाभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् न जातु विरहिता भविष्यन्ति, अभिज्ञाभिः समाधिधारणीमुखैर् न जातु विरहिता भविष्यन्ति, दशभिस् तथागतबलैः चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न जातु विरहिता भविष्यन्ति सर्वज्ञतया च. इति महार्थतादिगुणः
इयं च शारिपुत्र प्रज्ञापारमिता तथागतस्यात्ययेन दक्षिणापथे प्रचरिष्यति, तत्र भिक्षुर् भिक्षुण्य् उपासकोपासिका इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति ते देवमानुषिकीसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् अभ्युद्गमिष्यन्ति बुद्धांश् च भगवतः सत्कुर्वाणा गुरुकुर्वाणा मानयमानाः पूजयमाना अनुपूर्वेण त्रिभिर् यानैः परिनिर्वास्यन्ति यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
सेयं शारिपुत्र गम्भीरा प्रज्ञापारमिता दक्षिणापथाद् वर्तन्यां प्रचरिष्यति. तत्रापि भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति (psp_4:29) वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, देवमनुष्यसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति, बुद्धान् भगवतः सत्कुर्वाणा गुरुकुर्वाणा मानयमानाः पूजयमाना अनुपूर्वेण त्रिभिर् यानैः निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
सा खलु पुनर् इयं शारिपुत्र गम्भीरा प्रज्ञापारमिता वर्तन्या उत्तरापथे प्रचरिष्यति, तत्रापि शारिपुत्र भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, ते देवमनुष्यसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति, बुद्धांश् च भगवतः सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति, अनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
तत्र शारिपुत्र इयं गम्भीरा प्रज्ञापारमिता बुद्धकृत्यं करिष्यति तत् कस्य हेतोर्? न हि शारिपुत्र मण्डप्राप्ते धर्मविनये सद्धर्मान्तर्द्धानं भविष्यति, समन्वाहृतास् ते शारिपुत्र मया कुलपुत्राः कुलदुहितरश् च, य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते, ये ऽपि ते कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति लिखित्वा च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्, ते च खलु पुनः शारिपुत्र कुलपुत्रा वा कुलदुहितरश् च तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति देवमानुषिकीसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति अभ्युद्गम्य बुद्धान् भगवतः सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तो पूजयन्तो ऽनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. तत् कस्य हेतोर्? दृष्टा हि ते शारिपुत्र कुलपुत्राः (psp_4:30) कुलदुहितरश् च तथागतेन बुद्धचक्षुषा वर्णितास् तथागतेन प्रशस्तास् ते तथागतेन, ये ऽपि ते समन्ताद् दशसु दिक्षु सर्वलोकधातुप्रसरेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तैर् अपि तथागतैर् अपि अर्हद्भिः सम्यक्संबुद्धैर् दृष्टास् ते कुलपुत्राः कुलदुहितरश् च बुद्धचक्षुषा वर्णितास् ते प्रशस्तास् ते कुलपुत्राः कुलदुहितरश् च.
शारिपुत्र आह: वैस्तारिकी पुनर् इयं भगवन् गम्भीरा प्रज्ञापारमिता पश्चिमे काले पश्चिमे समये उत्तरस्यां दिशि भविष्यति.
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, इयं शारिपुत्र गम्भीरा प्रज्ञापारमिता पश्चिमे काले पश्चिमे समये उत्तरस्यां दिशि वैस्तारिकी भविष्यति. तत्र शारिपुत्र पश्चिमे काले पश्चिमे समये ते कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते कुलपुत्राः कुलदुहितरश् च बहुबुद्धपर्युपासितास् ते तथागतावरोपितकुशलमूला य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते.
शारिपुत्र आह: कियन्तस् ते भगवन् कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति?, य इमां गम्भीरां प्रज्ञापारमितां पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे श्रुत्वा लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते.
भगवान् आह: किं चापि शारिपुत्र पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे बहवो बोधिसत्त्वा महासत्त्वा भविष्यन्ति, अल्पकाः पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वाः कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. इति देशनिरूपणागुणः (psp_4:31)
तेन खलु पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. तत् कस्य हेतोः? अनुबद्धा हि तैः कुलपुत्रैः कुलदुहितृभिश् च तथागता अर्हन्तः सम्यक्संबुद्धाः परिपृच्छिताश् च परिप्रश्नीकृताश् च. तत् कस्य हेतोः? प्रज्ञापारमिता परिपूर्णा हि ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमितापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, बहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मबहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, यावद् अभावस्वभावशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं स्मृत्युपस्थानसम्यक्प्रहानार्द्धिपादेन्द्रियबलबोध्यङ्गाष्टाङ्गमार्गपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अप्रमाणध्यानारूप्यसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, आर्यसत्यपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, शून्यतानिमित्ताप्रणिहिताभिज्ञापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति समाधिधारणीमुखपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. ते खलु पुनः शारिपुत्र कुलपुत्राः कुलदुहितरश् च कुशलमूलोपस्तब्धाश् च बहुजनस्य च ते ऽथ करिष्यन्ति, इमाम् अनुत्तरां सम्यक्संबोधिम् आरभ्य. इति सर्वानास्रवधर्मपरिपूरणगुणः
तत् कस्य हेतोः? तथा ह्य् अमुत्र मया तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव कथा कथिता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्, तैर् अपि बुद्धैर् भगवद्भिस् तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव कथा कथिता तेषाञ् जातिव्यतिवृत्तानाम् अपि त एव समुदाचारा भविष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य, ते परेभ्यः तथैव कथां करिष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य. (psp_4:32) इति कथापुरुषतागुणः
ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च संहता भविष्यन्ति, ते न शक्यन्ते भेत्तुं मारेण वा मारकायिकाभिर् वा देवताभिर् अनुत्तरायाः सम्यक्संबोधेः प्राग् एवान्यैः पापेच्छैः पापसमाचारैर्, य इमां गम्भीरां प्रज्ञापारमितां प्रतिलप्स्यन्ते. इत्य् अभेद्यतागुणः
ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमितां श्रुत्वा उदारां प्रीतिं प्रसादं प्रमोद्यं प्रतिलप्स्यन्ते. ते च बहुजनं कुशलमूलेषु प्रतिष्ठापयिष्यन्ति यद् उतानुत्तराम् एव सम्यक्संबोधिम् आरभ्य. इत्य् असाधारणकुशलमूलोत्पत्तिगुणः
एवं च तैः कुलपुत्रैः कुलदुहितृभिश् च मम संमुखं वाग् भाषिता, वयं भगवन् बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि कुशलमूलेषु प्रतिष्ठापयिष्यामो यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य. बोधये प्रतिष्ठापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामो ऽविनिवर्तनीयत्वे च व्याकरिष्यामः. तत् कस्य हेतोर्? अनुमोदिता मया तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां च वाग् भाषिता चित्तेन चित्तं व्यवलोक्य, अतीतानाम् अपि तथागतानाम् अर्हतां सम्यक्संबुद्धानां पुरतस् तैः कुलपुत्रैः कुलदुहितृभिश् चैवं भाषिता, वयं बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि बोधिसत्त्वचर्यां चरन्तो बोधाय प्रतिष्ठापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामो ऽविनिवर्तनीयत्वे न च व्याकरिष्यामः. तत् कस्य हेतोः? तथा हि तैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुमोदिता तेषां बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणां च वाग् भाषिता चित्तेन चित्तं व्यवलोक्य, तेषां च खलु शारिपुत्र कुलपुत्राणां कुलदुहितृणां च मया अनुमोदितम् एते बोधिसत्त्वा महासत्त्वा बोधाय चरन्तो बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायै सम्यक्संबोधये (psp_4:33) प्रतिष्ठापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति अविनिवर्तनीयत्वे व्याकरिष्यन्ति. इति प्रतिज्ञायाथार्थ्यसंपादनगुणः
ते खलु पुनः शारिपुत्र कुलपुत्राः कुलदुहितरश् च उदाराधिमुक्तिका भविष्यन्ति, रूपे शब्दे गन्धे रसे स्प्रष्टव्ये धर्मेषु ते उदाराणि दानानि दास्यन्ति, उदाराणि दानानि दत्त्वा उदाराणि कुशलमूलान्य् अभिसंस्करिष्यन्ति. ते उदाराणि कुशलमूलानि अभिसंस्कृत्योदारं विपाकं परिग्रहीष्यन्ति, ते उदारं विपाकं परिगृह्य तेषाम् एव सत्त्वानाम् अर्थाय विपाकाद् विपाकं परिगृहीष्यन्ति. इत्य् उदारफलपरिग्रहगुणः
तेषाम् एव सर्वसत्त्वानां सर्ववस्तूनि परित्यजन्ति, यदि वा अध्यात्मिकानि यदि वा बाह्यानि स तेन कुशलमूलेन अन्यानि बुद्धक्षेत्राणि अध्यालम्बिष्यति यत्र संमुखी भूतास् तथागता अर्हन्तः सम्यक्संबुद्धा धर्मं देशयन्ति. तेषु च इमाम् एव प्रज्ञापारमितां श्रुत्वा तत्रापि बुद्धक्षेत्रे बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायै सम्यक्संबोधये संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति.
शारिपुत्र आह: आश्चर्यं भगवन् यावद् इदं तथागतेनार्हता सम्यक्संबुद्धेन न स कश्चिद् धर्मो यो नाज्ञातो, न सा काचिद् धर्मतथता या नाज्ञाता, न सा काचित् सत्त्वानां चर्या या नाज्ञाता, यत्र हि नामातीतानाम् अपि तथागतानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः, अनागतानाम् अपि तथागतानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः, प्रत्युत्पन्नानाम् अपि तथागतानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाता, ये च ते दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः. इति सत्त्वार्थप्रतिपत्तिगुणः
ये ऽपि ते भगवन् बोधिसत्त्वा महासत्त्वा आसां षण्णां पारमितानां (psp_4:34) कृतश उद्योगम् आपत्स्यन्ते, ते ऽपि एताः षट् पारमिता गवेषिष्यन्ते पर्येषिष्यन्ते. तेषां खलु पुनः कुलपुत्राणां कुलदुहितृणाञ् च इमाः षट् पारमिता गवेषमाणानां पर्येषमाणानाम् एताः षट् पारमिताः केचिल् लप्स्यन्ते? केचिन् न लप्स्यन्ते?
भगवान् आह: प्रायेण शारिपुत्र तेषां कुलपुत्राणां कुलदुहितृणां च सर्वा इमाः षट् पारमिता उपपत्स्यन्ते. तत् कस्य हेतोः? तथा हि शारिपुत्र ते कुलपुत्राः कुलदुहितरश् चासां षण्णां पारमितानाम् उद्योगम् आपन्नाः.
शारिपुत्र आह: किं पुनर् भगवन्न् इमे गम्भीरा गम्भीराः सूत्रान्ताः षट् पारमिता प्रतिसंयुक्तास् तेषां कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते?
भगवान् आह: गम्भीरा गम्भीराः शारिपुत्र सूत्रान्ताः षट् पारमिता प्रतिसंयुक्तास् तेषां कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते.
शारिपुत्र आह: केषां भगवन् कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते?
भगवान् आह: ये शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् चासां षण्णां पारमितानां कृतशः तीव्रेण प्रसादेन निरपेक्षाः काये जीविते चोद्योगम् आपत्स्यन्ते. तत् कस्य हेतोः? एवं ह्य् एतच् छारिपुत्र भवति, ये ऽनुत्तरायां सम्यक्संबोधौ सत्त्वान् प्रतिष्ठापयन्ति संदर्शयन्ति समादापयन्ति समुत्तेजयन्ति संप्रहर्षयन्ति निवेशयन्ति. तेषां खलु पुनः शारिपुत्र कुलपुत्राणां कुलदुहितृणां च जातिव्यतिवृत्तानाम् अप्य् एताः षट् पारमिता उपपत्स्यन्ते, ते षट्पारमितासु यथोपदिष्टासु प्रवर्तमानास् तावद् वीर्यं न संश्रयिष्यन्ति यावन् न बुद्धक्षेत्रं परिशोधयिष्यन्ति. सत्त्वांश् च न परिपाचयिष्यन्ति, अनुत्तरां सम्यक्संबोधिन् नाभिसंभोत्स्यन्ते. इति प्रज्ञापारमिताया अलोभविकलालोभविपर्ययेण नियतिलाभगुण इत्य् उक्ता गुणाः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गुणा इमे भगवन् परिकीर्तितास् तेषां कुलपुत्राणां कुलदुहितृणाञ् च ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः षट्पारमितासु चरिष्यन्ति, सत्त्वांश् च परिपाचयिष्यन्ति, बुद्धक्षेत्राणि परिशोधयिष्यन्ति. कीदृशाः खलु पुनर् भगवंस् तेषां कुलपुत्राणां कुलदुहितृणां चान्तराया उत्पत्स्यन्ते? (psp_4:35)
भगवान् आह: चिरेण प्रतिभानम् उत्पत्स्यते, इदं सुभूते मारकर्म वेदितव्यं बोधिसत्त्वानां महासत्त्वानाम्.
सुभूतिर् आह: केन कारणेन भगवंश् चिरेण प्रतिभानम् उत्पत्स्यते, यद् बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् कृच्छ्रेण प्रज्ञापारमितां परिपूरयिष्यति. कृच्छ्रेण ध्यानपारमितां परिपूरयिष्यति, कृच्छ्रेण वीर्यपारमितां परिपूरयिष्यति, कृच्छ्रेण क्षान्तिपारमितां परिपूरयिष्यति, कृच्छ्रेण शीलपारमितां परिपूरयिष्यति, कृच्छ्रेण दानपारमितां परिपूरयिष्यति, अनेन सुभूते पर्यायेन चिरेण प्रतिभानम् उत्पत्स्यते, इदं सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कृच्छ्रप्राप्तिः
पुनर् अपरं सुभूते अतिक्षिप्रं प्रतिभानम् उत्पत्स्यते तेन च मंस्यते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
सुभूतिर् आह: केन पर्यायेण भगवन् बोधिसत्त्वानां महासत्त्वानाम् अतिक्षिप्रं प्रतिभानोत्पत्त्या मारकर्म उत्पत्स्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां चरतः शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितायां चरतो ऽनुपायकुशलमूलस्यातिक्षिप्रं प्रतिभानम् उत्पत्स्यते, अनेन सुभूते पर्यायेण बोधिसत्त्वानां महासत्त्वानाम् अतिक्षिप्रं प्रतिभानोत्पत्त्या मारकर्म वेदितव्यम्. इत्य् आशुप्रतिभानता
पुनर् अपरं सुभूते विजृम्भमाणा इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते हसन्त इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते परस्परम् उच्चग्घयमाना इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कायविकारदौष्ठुल्यं त्रिविधम्
पुनर् अपरं सुभूते विक्षिप्तचित्ता लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते ऽन्योन्यविज्ञानसमङ्गिनो लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. (psp_4:36)
पुनर् अपरं सुभूते बोधिसत्त्वानां महासत्त्वानाम् एवं भविष्यति, न वयं अत्रास्वादं लभामह इत्य् उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति चित्तदौष्ठुल्यं त्रिविधम् पुनर् अपरं सुभूते विजृम्भमाणा उत्थायासानात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते विजृम्भमाणा स्वाध्यास्यन्ति धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति, विजृम्भमाणा मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते परस्परं हसमाना उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परस्परं हसमाना योनिशो मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते परस्परम् उच्चग्घयमाना लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते विक्षिप्तचित्ता उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते अन्योन्यव्यञ्जनसमङ्गिन उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अयोगविहितस्वाध्यायादिता
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवन् एवम् आह, न वयम् अत्र आस्वादं लभामह इत्य् उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् इति. केन कारणेन भगवन् नात्रास्वादं लभन्ते?
भगवान् आह: तथा हि सुभूते पूर्वम् अपि न चरिताः प्रज्ञापारमितायां, ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां, तथा हि सुभूते पूर्वम् अपि न चरिता दानपारमितायां, तेन कारणेन सुभूते आस्वादं न लभन्ते, इह प्रज्ञापारमितायां (psp_4:37) भाष्यमाणायाम् उत्थायासनात् प्रक्रमिष्यन्ति.
पुनर् अपरं सुभूते बोधिसत्त्वानां महासत्त्वानाम् एवं भवति, न वयम् अत्र व्याकृताः प्रज्ञापारमितायाम् इत्य् अप्रसन्नचित्ता उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
सुभूतिर् आह: केन कारणेन भगवन् न व्याकृताः प्रज्ञापारमितायाम् उत्थायासनात् प्रक्रमिष्यन्ति?
भगवान् आह: न खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वा अनवक्रान्तनियामा व्याक्रियन्ते अनुत्तरायां सम्यक्संबोधौ, न ममात्र प्रज्ञापारमितायान् नाम गृहीतम् इति प्रसादन् न प्रतिलप्स्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
सुभूतिर् आह: केन कारणेन भगवन् नामधेयानि न परिकीर्तितानि बोधिसत्त्वानां महासत्त्वानाम् इह गम्भीरायां प्रज्ञापारमितायाम्?
भगवान् आह: न खलु पुनः सुभूते अव्याकृतानां बोधिसत्त्वानां महासत्त्वानां नामधेयानि परिकीर्तन्ते, नापि मम नामधेयं परिकीर्तितं ग्रामस्य वा नगरस्य वा निगमस्य वा राजधान्या वा राष्ट्रस्य वा यत्राहं जात इति, स प्रज्ञापारमितान् न श्रोतव्यां मंस्यते, स ततः परिषदो ऽपक्रमितव्यं मंस्यते, स यथा यथापक्रमितव्यं मंस्यन्ते तथा तथा दूरीभविष्यन्ति बुद्धधर्मेभ्यो, यावत उपक्रमेण चित्तोत्पादम् उत्पादयिष्यन्ति, तावतः कल्पान् संपरिग्रहीष्यति, यत्र तेन पुनर् एव योगम् आपत्तव्यम् इति, वैमुख्यनिमित्तग्राहितां तान् सूत्रान्तान् गवेषितव्यान् मंस्यन्ते, येन सर्वज्ञज्ञानस्याहारिकाः प्रज्ञापारमितां सर्वज्ञज्ञानस्याहारिकां च्छोरयित्वा तान् पर्येषितव्यान् मंस्यन्ते. एवं बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च सर्वज्ञताज्ञानाधिगमस्य मूलं च्छोरयित्वा शाखापत्रपलाशम् अध्यालम्बितव्यं मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
सुभूतिर् आह: कतमे ते भगवन् सूत्रान्ता ये सर्वज्ञज्ञानस्याहारका न भवन्ति, यान् पर्यवाप्तव्यान् मंस्यन्ते?
भगवान् आह: ये सूत्रान्ताः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्ताः, तद्यथा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः शून्यतानिमित्ताप्रणिहितविमोक्षमुखं यत्र स्थित्वा (psp_4:38) कुलपुत्राः कुलदुहितरश् च स्रोतआपत्तिफलं प्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिं प्राप्नुवन्ति, इमे ते सुभूते श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्ताः सूत्रान्ता, ये सर्वज्ञताया नाहरणाय संवर्तन्ते, ते प्रज्ञापारमितां रिञ्चित्वा तां पर्यवाप्तव्यां मंस्यन्ते. तत् कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि सुभूते बोधिसत्त्वा महासत्त्वा लौकिकलोकोत्तरैर् धर्मैर् निर्यास्यन्ति, प्रज्ञापारमितायां शिक्ष्यमाणाः सुभूते बोधिसत्त्वा महासत्त्वा लौकिकलोकोत्तरेषु धर्मेषु शिक्षिष्यन्ते. इति हेतुभ्रंशः
तद्यथापि नाम सुभूते कुक्कुरः स्वामिनो ऽन्तिकात् पिण्डञ् छोरयित्वा कर्मकरस्यान्तिकाद् आलोपं मार्गितव्यं मन्येत. एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि महायानिकाः कुलपुत्राः कुलदुहितरश् चेमां गम्भीरां प्रज्ञापारमितां सर्वबुद्धधर्माणां मूलं च्छोरयित्वा शाखापत्रपलाशसदृशान् श्रावकयानप्रतिसंयुक्तान् प्रत्येकबुद्धयानप्रतिसंयुक्तांश् च सूत्रान्तान् पर्यवाप्तव्यान् मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते भविष्यन्त्य् अनागते ऽध्वनि बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चेमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा लाभसत्कारहेतोः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तान् पर्यवाप्तव्यान् मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति प्रणीतास्वादभ्रंशः
तद्यथापि नाम सुभूते कश्चिद् एव पुरुषो हस्तिनो ऽर्थिको भवेत्, स हस्तिनं लब्ध्वा हस्तिपदं पर्येषितव्यं मन्येत. तत् किं मन्यसे? सुभूते ऽपि नु स पुरुषः पण्डितजातीयो भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वयानिकाः पुद्गला वेदितव्या य इमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा ये ते सूत्रान्ताः श्रावकयानप्रतिसंयुक्ताः प्रत्येकबुद्धयानप्रतिसंयुक्तास् तान् पर्यवाप्तव्यान् मंस्यन्ते. तत् किं मन्यसे? सुभूते ऽपि नु पण्डितजातीयास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च भवेयुः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म (psp_4:39) वेदितव्यम्. इत्य् उत्तमयानभ्रंशः
तद्यथापि नाम सुभूते पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स महासमुद्रं दृष्ट्वा गोष्पदं पर्येषितव्यं मन्येत, तस्य तं गोष्पदं दृष्ट्वा एवं भवेत्, एवंप्रमाणो महासमुद्र इति. तत् किं मन्यसे? सुभूते ऽपि नु स पुरुषः पण्डितजातिको भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते तथारूपास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च वेदितव्या, य इमां प्रज्ञापारमितां श्रुत्वा लब्ध्वा वा ताम् उत्सृज्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तान् सूत्रान्तान् उद्ग्रहीतव्यान् मंस्यन्ते. तत् किं मन्यसे? सुभूते अपि नु पण्डितजातीयास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च भवेयुः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उद्देशभ्रंशः
तद्यथापि नाम सुभूते पलगण्डो वा पलगण्डान्तेवासी वा वैजयन्तस्य प्रासादस्य प्रमाणेन प्रासादं कर्तुकामो भवेत्, स सूर्याचन्द्रमसोर् मण्डलविमानात् प्रमाणम् उद्ग्रहीतव्यं मन्येत्. तत् किं मन्यसे? सुभूते वैजयन्तं पर्येष्य वैजयन्तसमं प्रासादं कर्तुकामः सूर्याचन्द्रमसोर् वा मण्डलविमानात् प्रमाणम् उद्गृह्णीयाद्, अपि नु स पण्डितजातीयः पुरुषो भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि एकत्या बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा वा लब्ध्वा वा रिञ्चित्वा च्छोरयित्वा वा श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सूत्रान्तैः सर्वाकारज्ञतां पर्येषितव्यां मंस्यन्ते. तत् किं मन्यसे? सुभूते अपि नु पण्डितजातीयास् ते बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च भवेयुः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति हेतुफलसंबन्धभ्रंशः
पुनर् अपरं सुभूते तद्यथापि नाम कस्यचिद् एव पुरुषस्य कोट्टराजानं दृष्ट्वा एवं भवेद्, ईदृशो राजा चक्रवर्ती वर्णेन संस्थानेन (psp_4:40) च यादृशो ऽयं कोट्टराज इति. स कोट्टराजस्य वर्णसंस्थानेनाकृत्यानिमित्तं लिङ्गानि उद्गृह्यैवं वदेद्, राज्ञश् चक्रवर्तिनः ईदृशो वर्णसंस्थानाकृतिविशेष इति. तत् किं मन्यसे? सुभूते अपि नु स पुरुषः पण्डितजातीयो भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि एकत्या महायानिकाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लब्ध्वा वा तां रिञ्चित्वा च्छोरयित्वा वा श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सूत्रान्तैः सर्वाकारज्ञतां पर्येषितव्यां मंस्यन्ते. तत् किं मन्यसे? सुभूते ऽपि नु ते महायानिकाः कुलपुत्राः कुलदुहितरश् च पण्डितजातिकाः स्युः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति निरुत्तरपदभ्रंशः
पुनर् अपरं सुभूते तेषां कुलपुत्राणां कुलदुहितृणां चेमां प्रज्ञापारमितां लिखतां बहूनि प्रतिभानान्य् उत्पत्स्यन्ते, यानीमां गम्भीरां प्रज्ञापारमितां लिख्यमानां विक्षेप्स्यन्ति. तद्यथापि नाम रूपप्रतिभानं शब्दगन्धरसस्प्रष्टव्यधर्मप्रतिभानं दानपारमिताप्रतिभानं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताप्रतिभानं कामधातुप्रतिभानं रूपधातुप्रतिभानम् आरूप्यधातुप्रतिभानम् उद्देशस्वाध्यायप्रतिभानं वैयावृत्यप्रतिभानं स्मृत्युपस्थानप्रतिभानं सम्यक्प्रहाणप्रतिभानम् ऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गप्रतिभानं सर्वध्यानविमोक्षसमाधिसमापत्तिधारणीमुखप्रतिभानम् अध्यात्मशून्यताप्रतिभानं बहिर्धाशून्यताप्रतिभानम् अध्यात्मबहिर्धाशून्यताप्रतिभानं शून्यताशून्यताप्रतिभानं महाशून्यताप्रतिभानं परमार्थशून्यताप्रतिभानं संस्कृतशून्यताप्रतिभानम् असंस्कृतशून्यताप्रतिभानम् अत्यन्तशून्यताप्रतिभानं, यावद् अभावस्वभावशून्यताप्रतिभानं बलप्रतिभानं वैशारद्यप्रतिभानं प्रतिसंविदावेणिकबुद्धधर्मप्रतिभानं, यावद् अनुत्तरं सम्यक्संबोधिप्रतिभानम्. तत् कस्य हेतोर्? अप्रतिभाना हि सुभूते प्रज्ञापारमिता, अचिन्त्या हि सुभूते प्रज्ञापारमिता, निश्चिन्त्याचिन्त्यापगता हि सुभूते प्रज्ञापारमिता, अनुत्पादानिरोधा हि सुभूते प्रज्ञापारमिता, असंक्लेशा अव्यवदाना हि सुभूते प्रज्ञापारमिता, (psp_4:41) अविक्षेपा हि सुभूते प्रज्ञापारमिता, अनभिलाप्या हि सुभूते प्रज्ञापारमिता, अव्यापादा हि सुभूते प्रज्ञापारमिता, अनुपलम्भा हि सुभूते प्रज्ञापारमिता. तत् कस्य हेतोर्? न हि सुभूते इह गम्भीरायां प्रज्ञापारमितायाम् इमे धर्माः संविद्यन्ते. सचेत् सुभूते बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लिखनेभिर् धर्मो विक्षिप्यते. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति बहुविधविषयविकल्पप्रतिभानोत्पादः सुभूतिर् आह: शक्या पुनर् भगवन् प्रज्ञापारमिता लिखितुम्.
भगवान् आह: नो सुभूते, तत् कस्य हेतोर्? न हि सुभूते प्रज्ञापारमितायाः स्वभावः संविद्यते, न ध्यानपारमिताया न वीर्यपारमिताया न क्षान्तिपारमिताया न शीलपारमिताया न दानपारमितायाः स्वभावः संविद्यते, न सर्वशून्यतानां न सप्तत्रिंशद्बोधिपक्षाणां धर्माणां नार्यसत्यानां स्वभावः संविद्यते, नाप्रमाणध्यानारूप्यसमापत्तीनां न शून्यतानिमित्ताप्रणिहितानां नाष्टानां विमोक्षाणां न नवानुपूर्वविहारसमापत्तीनां नाभिज्ञानां स्वभावः संविद्यते, न सर्वसमाधीनां न सर्वधारणीमुखानां स्वभावः संविद्यन्ते, न दशानां बलानां न वैशारद्यानां न प्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावः संविद्यते, न सर्वज्ञतायाः स्वभावः संविद्यते. यस्याश् च स्वभावो न संविद्यते, सो ऽभावो यो ऽभावः. सेयं प्रज्ञापारमिता न चाभावेनाभावः शक्यो लिखितुम्. इति लिखनाभिनिवेशान्तरायः
सचेत् पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमिताम् अभाव इति संज्ञास्यन्ति इदम् अपि तेषां मारकर्म वेदितव्यम्. इत्य् अभावाभिनिवेशान्तरायः
सुभूतिर् आह: ये केचिद् भगवन् महायानिकाः कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिप्यक्षरैर् लिखित्वा गम्भीरा प्रज्ञापारमिता मया लिखितेति मंस्यन्ते, ते ऽपि लिपिष्व् अक्षरेष्व् इमां गम्भीरां प्रज्ञापारमिताम् अभिनिवेक्ष्यन्ते, इदम् अपि भगवंस् तेषां मारकर्म वेदितव्यम्. इति लिप्यक्षरेषु प्रज्ञापारमिताभिनिवेशान्तरायः
सुभूतिर् आह: तत् कस्य हेतोर्? अनक्षरा हि भगवन्न् इयं प्रज्ञापारमिता, अनक्षरा हि ध्यानपारमिता, अनक्षरा हि वीर्यपारमिता, (psp_4:42) अनक्षरा हि क्षान्तिपारमिता, अनक्षरा हि शीलपारमिता, अनक्षरा हि दानपारमिता, अनक्षरं भगवन् रूपं, वेदना संज्ञा संस्काराः, अनक्षरं भगवन् विज्ञानम्, अनक्षरा भगवन् धातवः, अनक्षराणि भगवन्न् आयतनानि, अनक्षरो भगवन् प्रतीत्यसमुत्पादः, अनक्षराणि प्रतीत्यसमुत्पादाङ्गानि, अनक्षराः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, अनक्षराः सर्वशून्यताः, अनक्षराः सर्वसमाधयः, अनक्षराणि सर्वधारणीमुखानि, अनक्षराणि सर्वशून्यतानिमित्ताप्रणिहितानि, अनक्षराणि आर्यसत्यानि, अनक्षराः सर्वाप्रमाणध्यानारूप्यसमापत्तयः, अनक्षरा अष्टविमोक्षा, अनक्षरा नवानुपूर्वविहारसमापत्तयः, अनक्षरा अभिज्ञाः, अनक्षराणि तथागतबलानि, अनक्षराणि वैशारद्यानि, अनक्षराः प्रतिसंविदः, अनक्षरा अष्टादशावेणिका बुद्धधर्माः, अनक्षरा हि भगवन् सर्वज्ञता.
सचेत् पुनर् भगवन् महायानिकाः कुलपुत्राः कुलदुहितरो वा अनक्षरां प्रज्ञापारमिताम् अभिनिवेक्ष्यन्ते, एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमिताम्, अनक्षरां दानपारमिताम् अभिनिवेक्ष्यन्ते. अनक्षरं रूपम् अभिनिवेक्ष्यन्ते, वेदनासंज्ञासंस्कारान्, अनक्षरं विज्ञानम् अभिनिवेक्ष्यन्ते. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् विमोक्षमुखानि सत्यानि अप्रमाणध्यानारूप्यसमापत्तीर् बलानि वैशारद्यानि प्रतिसंविद आवेणिकान् बुद्धधर्मान् अनक्षरान् अभिनिवेक्ष्यन्ते, यावत् सर्वज्ञताम् अनक्षराम् अभिनिवेक्ष्यन्ते. इदम् अपि भगवंस् तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति प्रज्ञापारमितायाम् अनक्षराभिनिवेशान्तरायः
पुनर् अपरं सुभूते तेषां कुलपुत्राणां कुलदुहितृणाञ् चेमां प्रज्ञापारमितां लिखताम् उत्पत्स्यन्ते जनपदवितर्का, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते तेषां महायानिकानां कुलपुत्राणां कुलदुहितृणाञ् चेमां गम्भीरां प्रज्ञापारमितां लिखताम् उत्पत्स्यन्ते ग्राममनसिकाराः नगरमनसिकाराः निगममनसिकाराः राजधानीमनसिकाराः राष्ट्रमनसिकाराः देवमनसिकाराः गुरूपाध्यायमनसिकाराः, मातापितृभ्रातृभगिनीपुत्रदुहितृज्ञातिप्रतिसंयुक्ता मनसिकाराः, चौरमनसिकाराः, चण्डालप्रतिसंयुक्ता मनसिकाराः, कामवितर्कप्रतिसंयुक्ता मनसिकाराः संगणिका प्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते. अमी च सुभूते (psp_4:43) ऽन्ये च बहुविधा बोधिसत्त्वानां महासत्त्वानां मनसिकारा मारकर्म वेदितव्यम्. इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां मारः पापीयान् अन्तरायान् विक्षेपान् उपसंहरिष्यति. इति जनपदादिमनसिकारान्तरायः
पुनर् अपरं सुभूते बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणाञ् चेमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वताम् उत्पत्स्यन्ते, लाभसत्कारश्लोकाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारास् तांस् ते बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् चास्वादयन्तः, इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति योनिशो मनसिकरिष्यन्ति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति लाभसत्कारश्लोकास्वादान्तरायः
पुनर् अपरं सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् ये ते भविष्यन्ति गम्भीरा गम्भीराः सूत्रान्तास् तान् उपसंहरिष्यति, य इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वताम्. न पुनर् अत्र सुभूते बोधिसत्त्वैर् उपायकुशलैर् गम्भीरगम्भीरेषु सूत्रान्तेषु मारेणोपसंहृतेषु स्पृहोत्पादयितव्या. तत् कस्य हेतोः? न हि सुभूते ते सूत्रान्ताः सर्वज्ञताया आहारकाः. तत्र सुभूते ये ऽनुपायकुशला बोधिसत्त्वा भविष्यन्ति त इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा रिञ्चिष्यन्ति यत्र मया बोधिसत्त्वानां महासत्त्वानाम् उपायकौशलं विस्तरेणाख्यातम् इहैव गम्भीरायां प्रज्ञापारमितायां विस्तरेणोपायकौशलं मार्गितव्यम्. ते खलु पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरो वा इमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा तेभ्यः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तेभ्यः सूत्रान्तेभ्य उपायकौशल्यं गवेषितव्यं मंस्यन्ते. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इ त्य् अमार्गेणोपायकौशलमार्गणान्तरायः
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च्छन्दका भविष्यन्ति प्रज्ञापारमितां लिखितुम् उद्देष्टुं स्वाध्यातुं पठितुं, धर्मभाणकश् च किलासी भविष्यति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति च्छन्दकिलासवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकः अकिलासी भविष्यति इमां (psp_4:44) गम्भीरां प्रज्ञापारमितां लेखयितुम् उद्ग्रहयितुं देशयितुं स्वाध्यायितुं, धर्मश्रवणिकाश् च देशान्तरसंप्रस्थिता भविष्यन्ति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च प्रज्ञापारमितां लिखितुकामा भविष्यन्ति उद्ग्रहीतुकामा उद्देष्टुकामाः स्वाध्यातुकामा, धर्मभाणकश् च देशान्तरसंप्रस्थितो भविष्यति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति च्छन्दभेदविषयवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणको लाभसत्कारश्लोकगुरुको भविष्यति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काररक्तः, धर्मश्रवणिकाश् चाल्पेच्छाः संतुष्टा आरब्धवीर्या उपस्थितस्मृतयः समाहिता एकाग्रचित्ताः प्रज्ञावन्तः. इदम् अपि सुभूते विसामग्र्या प्रज्ञापारमितायां लिख्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मभाणकश् चाल्पेच्छो भविष्यति संतुष्टः प्रविविक्त आरब्धवीर्य उपस्थितस्मृतिः समाहित एकाग्रचित्तः प्रज्ञावान्, धर्मश्रवणिकाः च महेच्छाः पापेच्छाः लाभसत्कारश्लोकगुरुकाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैसज्यपरिष्कारगुरुका भविष्यन्ति. इदम् अपि सुभूते विसामग्र्या प्रज्ञापारमितायां लिख्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति लाभगौरवाल्पेच्छतावैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणक आरण्यको भविष्यति, पैण्डपातिकः पांशुकूलिकः खलुपश्चाद्भक्तिकः एकासनिकः प्रस्थपिण्डिकः श्माशानिक आभ्यवकाशिको वृक्षमूलिको नैषद्यिको यथासंस्तरिकस् त्रैचीवरिकः, धर्मश्रवणिकाश् च नारण्यका भविष्यन्ति न पैण्डपातिका न पांशुकूलिका न खलुपश्चाद्भक्तिका न एकासनिका न प्रस्थपिण्डिका न श्माशानिका नाभ्यवकाशिका न वृक्षमूलिका न नैषद्यिका न यथासंस्तरिका न त्रैचीवरिकाः. इदम् अपि सुभूते विसामग्र्या इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां (psp_4:45) स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिक आरण्यको भविष्यति यावत् त्रैचीवरिको, धर्मभाणकश् च नारण्यको भविष्यति यावन् न त्रैचीवरिकः. इदम् अपि सुभूते विसामग्र्या इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशश् च मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति धूतगुणयोगायोगवैधुर्यम्
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च श्राद्धा भविष्यन्ति कल्याणधर्माण इमां गम्भीरां प्रज्ञापारमितां लिखितुकामा उद्देष्टुकामाः स्वाध्यातुकामाः, धर्मभाणकश् चाश्राद्धो भविष्यति न कल्याणधर्मा इमां गम्भीरां प्रज्ञापारमितान् न लिखितुकामो नोद्देष्टुकामो न स्वाध्यातुकामः. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मभाणकश् च श्राद्धो भविष्यति कल्याणधर्मा इमां गम्भीरां प्रज्ञापारमितां लिखनाय दातुकामो ऽर्थिकाय उद्ग्रहीतुकामो, धर्मश्रवणिकश् चाश्राद्धो भविष्यति न कल्याणधर्मा इमां गम्भीरां प्रज्ञापारमितां न लिखनाय दातुकामो नोद्देष्टुकामो ऽर्थिकाय नोद्ग्रहीतुकामः. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कल्याणाकल्याणकामत्ववैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च सर्वास्तिपरित्यागी भविष्यति अनागृहीतचित्तः, धर्मश्रवणिकश् च मत्सरी भविष्यति महेच्छः पापेच्छो लाभसत्कारश्लोकचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारगुरुको भविष्यति. इदम् अपि सुभूते विसामग्र्या इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च सर्वास्तिपरित्यागी भविष्यति अनागृहीतचित्तः, धर्मभाणकश् च मत्सरी भविष्यति कुटुकुञ्चकः. इदम् अपि सुभूते विसामग्र्या इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति त्यागमात्सर्यवैधुर्यम् (psp_4:46)
पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मभाणकस्यान्तिके परित्यक्तुकामो भविष्यति चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, धर्मभाणकश् च न ग्रहीतुकामो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मभाणको धर्मश्रवणिकस्यान्तिकाद् ग्रहीतुकामो भविष्यति, धर्मश्रवणिकश् च न दातुकामो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति दानग्रहणवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् चोद्घटितज्ञो भविष्यति, धर्मश्रवणिकश् च नेयो भविष्यति विपञ्चितज्ञो वा पदपरमो वा. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् चोद्घटितज्ञो भविष्यति, धर्मभाणकश् च नेयो भविष्यति विपञ्चितज्ञो वा पदपरमो वा. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उद्घटितज्ञविपञ्चितज्ञतावैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च धर्मान्तरं ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भूतधर्मोपदेशानां, धर्मश्रवणिकाश् च धर्मान्तरन् न ज्ञास्यन्ति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भूतधर्मोपदेशानां, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां (psp_4:47) मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मान्तरं ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भुतधर्मोपदेशानां, धर्मभाणकश् च धर्मान्तरन् न ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भुतधर्मोपदेशानाम्, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति सूत्रादिधर्माभिज्ञानभिज्ञतावैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च षड्भिः पारमिताभिः समन्वागतो भविष्यति, धर्मश्रवणिकश् च न षड्भिः पारमिताभिः समन्वागतो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाः षड्भिः पारमिताभिः समन्वागता भविष्यन्ति, धर्मभाणकश् च न षड्भिः पारमिताभिः समन्वागतो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति षट्पारमितासमन्वागमासमन्वागमवैधुर्यम्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
