Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, इदन् तेन कुलपुत्रेण वा कुलदुहित्रा वा बहुतरं पुण्यं प्रसूतं भविष्यति, न त्व् एव जाम्बुद्वीपकान् सत्त्वांश् चातुर्द्वीपकान् साहस्रे द्विसाहस्रे त्रिसाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु ध्यानाप्रमाणेष्व् आरूप्याभिज्ञासु प्रतिष्ठाप्य. तत्रायं योनिशो मनसिकारो न द्वयचरितो बोधौ प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितो बोधौ ध्यानपारमितां (psp_2-3:108) वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां, न द्वयचरितो बोधौ दानपारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. न द्वयचरितो बोधौ अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां योनिशो मनसिकरिष्यति. न द्वयचरितो बोधौ स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् योनिशो मनसिकरिष्यति. न द्वयचरितो बोधौ अष्टादशावेणिकान् बुद्धधर्मान् सर्वाकारज्ञतां योनिशो मनसिकरिष्यति. इति चतुर्थी स्तोभमात्रा
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा अनेकपर्यायेण प्रज्ञापारमितां परेभ्यो देशयिष्यति विस्तरेण संप्रकाशयिष्यति भावयिष्यति विचरिष्यति उत्तानीकरिष्यति अर्थम् उपदेक्ष्यति. तत्रायं प्रज्ञापारमितार्थो ऽद्वये न प्रज्ञापारमितां द्रक्ष्यति न द्वये, न निमित्ततो नानिमित्ततः नायूहतो न निर्यूहतः, नोत्क्षेपतो न प्रक्षेपतः, न संक्लेशतो न व्यवदानतः, नोत्पादतो न निरोधतः, न ग्राहतो नोत्सर्गतः, न स्थानतो नास्थानतः, न भूततो नाभूततः, न योगतो नायोगतः, न शेषतो नाशेषतः, न प्रत्यंशतो नाप्रत्यंशतः न धर्मतो नाधर्मतः, न तथतातो नातथतातः, न भूतकोटितो नाभूतकोटितः. अयम् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां परेभ्यो विस्तरेण संप्रकाशयिष्यति स्वाध्यास्यति देशयिष्यति भावयिष्यति उत्तानीकरिष्यति अर्थं चोपदेक्ष्यति. न त्व् एव यः केवलम् आत्मने चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. इति पञ्चमी स्तोभमात्रा
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा स्वयं प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तां च परेभ्यो विस्तरेण संप्रकाशयिष्यति प्रज्ञापयिष्यति प्रस्थापयिष्यति विभावयिष्यति उत्तानीकरिष्यति अर्थं चोपदेक्ष्यति, अयम् एव ततो बहुतरं पुण्यं प्रसविष्यति.
शक्र आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत.
भगवान् आह: एवं खलु कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिता उपदेष्टव्या सार्था सव्यञ्जना, एवम् उपदिशन् कौशिक कुलपुत्रो वा (psp_2-3:109) कुलदुहिता वा अप्रमेयासंख्येयापरिमाणेन पुण्यस्कन्धेन समन्वागतो भविष्यति. इति षष्ठी स्तोभमात्रा
सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा दशसु दीक्ष्व् एकैकस्यां दिश्य् अप्रमेयान् असंख्येयान् अपरिमाणांस् तथागतान् अर्हतः सम्यक्संबुद्धान् यावज्जीवं सुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यड् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् अनेकपर्यायेण परेभ्यो विस्तरेण देशयेद् अर्थम् अस्या विज्ञापयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् अयम् एव ततः कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोर्? अत्र हि प्रज्ञापापारमितायां शिक्षित्वा तैर् अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते अभिसंभोत्स्यते च. इति सप्तमी स्तोभमात्रा
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा असंख्येयान् अपरिमाणान् कल्पान् दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितां परेभ्यो विस्तरेण संप्रकाशयेत् कथयेद् यावत् सूचयेत् तच् चानुपलम्भयोगेन, अयन् ततो बहुतरं पुण्यं प्रसवेत्. तत्र कौशिक कतम उपलम्भः? यद् बोधिसत्त्वस्योपलम्भयोगेन दानन् ददतः, एवं भवति; अहं दानन् ददामि, इदं दानन् ददामि, परस्मै दानन् ददतो दानम् एव स्थास्यति, न दानपारमिता. इदं शिलम्, अहं शीलवान्, अमून् सत्त्वान् रक्षामि नेयं शीलपारमिता. अहं क्षान्तिम् आरभे, इमां क्षान्तिं परस्मै क्षमामि, अस्यां क्षान्तौ स्थास्यामि, नेयं क्षान्तिपारमिता. अहं वीर्यम् आरभे, इदं वीर्यम् एषाम् अर्थाय, अस्मिन् विर्ये स्थास्यामि, नेयं वीर्यपारमिता. अहं ध्यानं समापत्स्ये, इदं ध्यानम् एषाम् अर्थाय समापत्स्ये, अत्र ध्याने स्थास्यामि, नेयं ध्यानपारमिता. अहं प्रज्ञां भावयामि, इयं प्रज्ञा एषाम् अर्थाय, अस्यां प्रज्ञायां स्थास्यामि, नायं प्रज्ञापारमिता. एवं हि कौशिक उपलम्भे चरितस्य कुलपुत्रस्य वा कुलदुहितुर् वा न दानपारमिता परिपूर्यते, न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता, न प्रज्ञापारमिता परिपूर्यते.
शक्र आह: कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते? कथं शीलपारमिता परिपूर्यते? कथं क्षान्तिपारमिता (psp_2-3:110) परिपूर्यते? कथं वीर्यपारमिता परिपूर्यते? कथं ध्यानपारमिता परिपूर्यते? कथं प्रज्ञापारमिता परिपूर्यते?
भगवान् आह: इह कौशिक बोधिसत्त्वो महासत्त्वो दानन् ददन् न दायकम् उपलभते न प्रतिग्राहकम् उपलभते न देयम् उपलभते, इयम् उच्यते दानपारमिता. न शिलम् उपलभते न शीलवन्तं न सत्त्वम् उपलभते, इयम् उच्यते शीलपारमिता. न क्षान्तिम् उपलभते न क्षम्यं न क्षमिणम् उपलभते, इयम् उच्यते क्षान्तिपारमिता. न वीर्यम् उपलभते न कायं न चित्तम् उपलभते, इयम् उच्यते वीर्यपारमिता. न ध्यानम् उपलभते न ध्यायिनं न ध्यातव्यम् उपलभते, इयम् उच्यते ध्यानपारमिता. न प्रज्ञाम् उपलभते न प्रज्ञावन्तं न प्रज्ञेयम् उपलभते येषाम् अर्थाय भावयति, इयम् उच्यते प्रज्ञापारमिता. एवं चरतः कौशिक बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते, शीलपारमिता परिपूर्यते क्षान्तिपारमिता परिपूर्यते वीर्यपारमिता परिपूर्यते ध्यानपारमिता परिपूर्यते प्रज्ञापारमिता परिपूर्यते. एवं हि कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा अनुपलम्भेनेयं प्रज्ञापारमिता सार्था सव्यञ्जनोपदेष्टव्या. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अनुपलम्भेनेयं सार्था सव्यञ्जनोपदेष्टव्या. तत् कस्य हेतोर्? भविष्यन्ति कौशिकानागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तत्र कुलपुत्रस्य वा कुलदुहितुर् वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितस्य प्रज्ञापारमिताप्रतिवर्णिकाश्रवणेन विनाशयिष्यन्ति तेषाम् अपीयं प्रज्ञापारमिता सार्था सव्यञ्जनोपदेष्टव्या.
शक्र आह: कतमा सा भगवन् प्रज्ञापारमिताप्रतिवर्णिका?
भगवान् आह: इह कौशिक कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमिताम् उपदेक्ष्याम इति प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तत्रेयं प्रज्ञापारमिताप्रतिवर्णिका रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति. वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति. एवं चोपदेक्ष्यन्ति य एवं च चरति स चरति प्रज्ञापारमितायाम् इति. येषाम् उपदेक्ष्यन्ति कुलपुत्राणां वा कुलदुहितृणां वा ते रूपम् अनित्यम् इति गवेषिष्यन्ति. एवं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यम् इति गवेषिष्यन्ति. ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. ते प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. ते चक्षुर् अनित्यम् इत्य् उपदेक्ष्यन्ति. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यम् इत्य् उपदेक्ष्यन्ति. रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति. एवं शब्दा गन्धा रसाः स्प्रष्टव्या धर्मा अनित्या इत्य् उपदेक्ष्यन्ति. पृथिवीधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. अब्धातुं तेजोधातुं वायुधातुम् (psp_2-3:111) आकाशधातुं विज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुर्धातुम् अनित्य इत्य् उपदेक्ष्यन्ति. श्रोत्रधातुं घ्राणधातुं जिह्वाधातुं कायधातुं मनोधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. रूपधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. शब्दधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. गन्धधातुं रसधातुं स्प्रष्टव्यधातुं धर्मधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुर्विज्ञानधातुम् अनीत्य इत्य् उपदेक्ष्यन्ति. श्रोत्रविज्ञानधातुं घ्राणविज्ञानधातुं जिह्वाविज्ञानधातुं कायविज्ञानधातुं मनोविज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुःसंस्पर्शधातुनि अनित्य इत्य् उपदेक्ष्यन्ति. श्रोत्रसंस्पर्शधातुं घ्राणसंस्पर्शधातुं जिह्वासंस्पर्शधातुं कायसंस्पर्शधातुं मनःसंस्पर्शधातुम् अनित्य
इत्य् उपदेक्ष्यन्ति. चक्षुःसंस्पर्शप्रत्यया वेदना अनित्या इत्य् उपदेक्ष्यन्ति. एवं श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्यया वेदना अनित्या इत्य् उपदेक्ष्यन्ति. रूपं दुःखम् अनित्यम् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. वेदनासंज्ञासंस्कारा विज्ञानं दुःखम् अनित्यम् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. पृथिवीधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. रूपशब्दगन्धरसस्पर्शधर्मा दुःखा इति अनात्मान इत्य् अशुभा इत्य् उपदेक्ष्यन्ति. चक्षुर् दुःखम् इत्य् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. श्रोत्रं घ्राणं जिह्वा कायो मनो दुःखम् इत्य् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. रूपधातुं शब्दधातुं गन्धधातुं रसधातुं स्प्रष्टव्यधातुं धर्मधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. चक्षुर्धातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. श्रोत्रधातुं घ्राणधातुं जिह्वाधातुं कायधातुं मनोधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. चक्षुर्विज्ञानधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानधातुं घ्राणविज्ञानधातुं जिह्वाविज्ञानधातुं कायविज्ञानधातुं मनोविज्ञानधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. चक्षुःसंस्पर्शधातुं चक्षुःसंस्पर्शप्रत्यया वेदना दुःखेत्य् अनात्मिकेत्य् अशुभेत्य् उपदेक्ष्यन्ति. एवं श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शधातुं श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्यया वेदना दुःखेत्य् अनात्मेत्य् (psp_2-3:112) अशुभेत्य् उपदेक्ष्यन्ति. एवं ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं ध्यानपारमिताप्रतिवर्णिकां
वीर्यपारमिताप्रतिवर्णिकां क्षान्तिपारमिताप्रतिवर्णिकां शीलपारमिताप्रतिवर्णिकां दानपारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं रूपं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यं दुःखम् अनात्माशुभम् इत्य् उपदेक्ष्यन्ति. यावच् चक्षू रूपं चक्षुर्विज्ञानधातुम् अनित्यो दुःखो ऽनात्माशुभ इत्य् उपदेक्ष्यन्ति. एवं यावच् छ्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातुम् अनित्यो दुःखो ऽनात्माशुभ इत्य् उपदेक्ष्यन्ति. एवं प्रज्ञापारमिता अनित्या दुःखानात्माशुभेत्य् उपदेक्ष्यन्ति. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अनित्या दुःखानात्माशुभेत्य् उपदेक्ष्यन्ति. एवम् अप्रमाणध्यानारूप्यसमापत्तीर् अनित्या दुःखानात्मानोशुभा इत्य् उपदेक्ष्यन्ति, प्रज्ञापार्मितायां चरन्तः. एवम् उपदेक्ष्यन्ति स्मृत्युपस्थानान्य् अनित्यानि दुःखान्य् अनात्मान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अनित्या दुःखा अनात्मानो ऽशुभा इत्य् उपदेक्ष्यन्ति प्रज्ञापारमितायां चरन्तो यावत् सर्वाकारज्ञताम् अनित्या दुःखानात्माशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताम् उपदिशन्त एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानः प्रथमायां भूमौ स्थास्यसि यावद् दशम्यां भूमौ स्थास्यसि. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयमानः प्रथमायां भूमौ स्थास्यसि यावद् दशम्यां भूमौ स्थास्यसि. तच् च निमित्तयोगेनोपलम्भयोगेन सर्वाकारसंज्ञया प्रज्ञापारमितां भावयिष्यति, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानः श्रावकभूमिं समतिक्रमिष्यसि, प्रत्येकबुद्धभूमिं समतिक्रमिष्यसि, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका. (psp_2-3:113)
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां महायानिकानां कुलपुत्राणां वा कुलदुहितृणां वा प्रज्ञापारमिताम् उपदिशन्त एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानो बोधिसत्त्वनियामम् अवक्रमिष्यसि, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताम् उपदिशमाना एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानो ऽनुत्पत्तिकधर्मक्षान्तिं प्रतिलप्स्यसे स त्वम् अनुत्पत्तिकधर्मक्षान्तिं प्रतिलभ्य बोधिसत्त्वाभिज्ञासु स्थास्यसि स त्वम् अभिज्ञासु स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यसि बुद्धानां भगवतां सत्करणाय गुरुकरणाय माननाय पूजनायार्चनायापचायनाय, एवम् उपदेक्ष्यन्ति. एवम् उपदिशमानाः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां वा कुलदुहितृणां वा एवम् उपदेक्ष्यन्ति, यः कुलपुत्रः प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशो मनसिकरिष्यति सो ऽसंख्येयम् अप्रमेयम् अपरिमाणं पुण्यस्कन्धं प्रसविष्यति. एवं चोपदिशमानाः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणाम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां यत् कुशलमूलं प्रथमचित्तोत्पादम् उपादाय यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां तत् सर्वम् अनुमोद्य एकतः पिण्डीकृत्यानुत्तरायै सम्यक्संबोधये परिणामय. एवम् उपदिशमानाः कौशिक ते कुलपुत्र वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
शक्र आह: कथम् उपदिशन्तस् ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानसंप्रस्थितानां कुलपुत्राणां वा कुलदुहितृणां वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति? (psp_2-3:114)
भगवान् आह: इह कौशिक कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानसंप्रस्थितानां कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावयमानो रूपम् अनित्यतो मा द्राक्षीस्. तत् कस्य हेतोः? रूपं रूपस्वभावेन शून्यं, यश् च रूपस्वभावः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता तत्र रूपन् न नित्यम् इति वा अनित्यम् इति वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि रूपम् एव तत्र न संविद्यते. कुतो नित्यं वा अनित्यं वा भविष्यति? एवं चोपदिशन्तस् ते कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यतो मा द्राक्षीस्. तत् कस्य हेतोर्? विज्ञानं विज्ञानस्वभावेन शून्यं, यश् च विज्ञानस्वभावः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता तत्र विज्ञानं न नित्यम् इति वा अनित्यम् इति वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि विज्ञानम् एव तत्र न संविद्यते. कुतो नित्यं वा अनित्यं वा भविष्यति? एवम् उपदिशन्तस् ते कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु सत्येष्व् अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहितेषु षट्स्व् अभिज्ञासु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु कर्तव्यम्. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च त्वं कुलपुत्र सर्वज्ञताम् अनित्यतो द्राक्षीस्. तत् कस्य हेतोस्? तथा हि सर्वज्ञता सर्वज्ञतास्वभावेन शून्या, यष् च सर्वज्ञतायाः स्वभावः सो ऽभावो, यो ऽभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता न तत्र सर्वज्ञताया नित्यता वा अनित्यता वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि सर्वज्ञतैव न संविद्यते. कुतः पुनर् नित्यता वा अनित्यता वा भविष्यति? एवं चोपदिशन्तः. कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक कुलपुत्रा वा कुलदुहितरो वा तेषां महायानिकानां कुलपुत्राणां वा कुलदुहितृणां वा एवं न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति, (psp_2-3:115) एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च त्वं कंचिद् धर्मं द्राक्षीः, मा च कस्मिंचिद् धर्मे स्थाः. तत् कस्य हेतोस्? तथा हि प्रज्ञापारमितायां न स धर्मः संविद्यते यो धर्मो द्रष्टव्यो यत्र वा प्रतिष्ठातव्यः. तत् कस्य हेतोस्? तथा हि कौशिक सर्वधर्मा स्वभावेन शून्याः, यश् च धर्मः स्वभावेन शून्यः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता सा न कस्यचिद् धर्मस्यायुहलं वा निर्यूहलं वा उत्पादो वा निरोधो वा उच्छेदो वा शश्वतो वा एकार्थता वा नानार्थता वा आगमो वा निर्गमो वा. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं प्रज्ञापारमिताया अर्थो व्यपदेष्टव्यः. एवम् उपदिशन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति. न त्व् एव ते पूर्वकाः कुलपुत्राः कुलदुहितरश् च. इत्य् अष्टमी स्तोभमात्रा
पुनर् अपरं कौशिक ये जाम्बुद्वीपकाः सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो नैकैः पर्यायैः कथयिष्यति देशयिष्यति विभावयिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति. एवं च वक्ष्यन्ति एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृह्णीष्व पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नश् च स्रोतआपत्तिफलं च प्रभाव्यते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु चातुर्द्वीपकाः सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु साहस्रे लोकधातौ सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु द्विसाहस्रे लोकधातौ सर्वसत्त्वाः स्रोतआपत्तिफले विनीताः. तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्व्स्ः स्रोतआपत्तिफले विनीताः, यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा (psp_2-3:116) स्रोतआपत्तिफले प्रतिष्ठापयेत्. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. य इमां प्रज्ञापारमितां परेभ्यः. सार्थां सव्यञ्जनां विस्तरेण कथयेद् देशयेद् अर्थम् अस्याः संप्रकाशयेद् विभजेद् विभावयेद् विचरेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृह्णीष्व पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नः प्रभाव्यते. इति नवमी स्तोभमात्रेत्य् उक्तः स्तोभः
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा यावन्तो जाम्बुद्वीपकाः सत्त्वास् तान् सर्वान् सकृदागामिफले प्रतिष्ठपयेत्. इति प्रथमा प्रशंसामात्रा
यावद् अनागामिफले प्रतिष्ठापयेत्. इति द्वितीया प्रशंसामात्रा
यावद् अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेत् कथयेत् संप्रकाशयेद् विभजेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रज्ञायते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सत्त्वाः सकृदागाम्य् अनागाम्य् अर्हत्त्वे विनीता यः कश्चित् कुलपुत्रो वा कुलदुहिता वा चातुर्द्वीपकान् सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ठापयेत्. साहस्रे लोकधातौ सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ठापयेत्. द्विसाहस्रे लोकधातौ सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ःआपयेत्. त्रिसाहस्रे (psp_2-3:117) लोकधातौ सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ठापयेत्, यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावद् अर्हत्त्वे प्रतिष्ठापयेत्. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्यां दिशि विदिक्षूर्ध्वम् अधो गङ्गानदीवालुक्पमेषु लोकधातुषु सर्वसत्त्वास् तान् सर्वान् यावद् अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यः संप्रकाशयेद् देशयेत् कथयेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागाम्यनागाम्यर्हन्तः प्रज्ञायन्ते. इति तृतिया प्रशंसामात्रा
पुनर् अपरं कौशिक यावन्तो दशसु दिक्षु गङ्गानदीवालुक्पमेषु लोकधातुष्व् एकैकस्यां दिशि सत्त्वास् तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनाम् अर्थिकेभ्यः छन्दिकेभ्यो विस्तरेणोपदिशेत् कथयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं च कथयेद् एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धः प्रभाव्यते. इति चतुर्थी प्रशंसामात्रा
पुनर् अपरं कौशिक ये जाम्बुद्वीपे सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. (psp_2-3:118)
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत् कथयेद् देशयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण धारय वाचय देशय संप्रकाशय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. यथायथा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे तथातथा त्वं कुलपुत्र सर्वज्ञताया लाभी भविष्यसि. यथायथा च ते सर्वज्ञतापरिपूरिं गमिष्यति तथातथा च ते भूयस्या मात्रया प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति. यथायथा च ते प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति तथातथा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोर्? अतो निर्जाता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा, ये च केचन दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वास् तेषाम् अपि सर्वेषां प्रज्ञापारमितानिर्जाता प्रथमचित्तोत्पादिका भूमिः. इति पञ्चमी प्रशंसामात्रा
यायन्तश् चातुर्द्वीपकाः सत्त्वाः इति षष्ठी प्रशंसामात्रा
यायन्तः साहस्रे सत्त्वाः. इति सप्तमी प्रशंसामात्रा
यायन्तो द्विसाहस्रे त्रिसाहस्रे सत्त्वाः.
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा ये दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् यावत् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण धारय वाचय देशय संप्रकाशय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. यथायथा (psp_2-3:119) त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे तथातथा त्वं कुलपुत्र सर्वज्ञताया लाभी भविष्यसि. यथायथा ते सर्वज्ञतापरिपूरिं गमिष्यति तथातथा ते भूयस्या मात्रया प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति. यथायथा ते प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति तथातथा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोर्? अतो निर्जाता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा ये च केचन दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वास् तेषाम् अपि सर्वेषां प्रज्ञापारमितानिर्जाता प्रथमचित्तोत्पादिका भूमिः. इत्य् अष्टमी प्रशंसामात्रा
पुनर् अपरं कौशिक यावन्तो जाम्बुद्वीपकास् सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयभूमौ प्रतिष्ठापयेद् यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां तेषां सर्वसत्त्वानां सार्थां सव्यञ्जनाम् उपदिशेद् यावत् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र इमां प्रज्ञापारमिताम् उद्गृह्णीष्व धारय वाचय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व, यथायथा त्वं यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे तथातथा त्वं प्रज्ञापारमितायां शिक्षमाणो ऽविनिवर्तानीयत्वे स्थास्यसि, अनुपूर्वेण चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे, अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यावन्तश् चातुर्द्वीपके लोकधातौ सत्त्वा यावत् साहस्रे लोकधातौ सर्वसत्त्वा यावद् द्विसाहस्रे लोकधातौ सर्वसत्त्वा यावन्तश् च त्रिसाहस्रमहासाहस्रे लोहधातौ सर्वसत्त्वा यावद् दशसु दिक्ष्व् एकैकस्यां दिशि गन्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहित वा अविनिवर्तनीयभूमौ प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां तेषां सत्त्वानाम् उपदिशेद् यावत् संप्रकाशयेत् सार्थां सव्यञ्जनाम्, एवं वदेद् एहि त्वं कुलपुत्र इमां प्रज्ञापारमिताम् उद्गृहाण धारय वाचय देशय संप्रकाशय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्वात्र हि त्वं प्रतिपद्यमानो ऽविनिवर्तनीयभूमौ स्थास्यसि, अनुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा यावन्तो (psp_2-3:120) जाम्बुद्वीपकाः सत्त्वास् तान् सर्वान् अविनिवर्तनीयत्वे स्थापयेद् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च प्रज्ञापारमिताम् उपदिशेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् विभजेत् सार्थां सव्यञ्जनां तेभ्यो ऽन्यतरेभ्यो ब्रूयाद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, तस्मिन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां विस्तरेण सार्थं सव्यञ्जनाम् उपदिशेद् देशयेत् संप्रकाशयेद् विभावयेद् विभजेद् विस्तरेणोत्तानिकुर्याद् अयम् एव ततो बहुतरं पुण्यं प्रसवेद् यावद् दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयत्वे स्थापयेत् तेभ्यः कश्चिद् एव इमां प्रज्ञापारमिताम् उपदिशेत् तेभ्यश् चैकः कश्चिद् एवं ब्रूयाद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै इमां प्रज्ञापारमिताम् उपदिशेद् देशयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् विभजेत् सार्थां सव्यञ्जनाम् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोर्? अवैवर्तिकेभ्यो हि बोधिसत्त्वेभ्यो ऽत्यर्थं धर्म उपदेष्टव्यो नियता हि ते संबोधिपरायणा न ते भूयो विनिवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेर् अमी भूत्कण्ठिताः संसाराद् महाकरुणासंपीडिताश् च. इति नवमी प्रशंसामात्रेत्य् उक्त्वा प्रशंसा
शक्र आह: यथायथा भगवन् बोधिसत्त्वो महासत्त्व आसन्नीभवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथातथा बोधिसत्त्वो महासत्त्वो ऽववदितव्यो ऽनुशासनीयः प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, सर्वशून्यतास्व् अववदितव्यो ऽनुशासितव्यः, स्मृत्युपस्थाणेषु सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेष्व् अववदितव्यो ऽनुशासितव्यः, अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेष्व् अववदितव्यो ऽनुशासितव्यः, अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अभिज्ञास्व् अववदितव्यो ऽनुशासितव्यः, सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशास्व् आवेणिकेषु बुद्धधर्मेष्व् अववदितव्यो ऽनुशासितव्यः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् अनुग्राह्यः, स च बोधिसत्त्वो महासत्त्वो धर्मामिषासंग्रहाभ्याम् अनुग्रहितव्यः. अयम् एव धर्मामिषानुग्राहकस् ततो बहुतरं (psp_2-3:121) पुण्यं प्रसवेत्. तत् कस्य हेतोः? एवम् एतद् भवति यद् बोधिसत्त्वो महासत्त्वः पारमितास्व् अववाद्यते ऽनुशास्यते. सर्वशून्यतासु सर्वबोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु समाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेष्व् अवबोध्यते ऽनुशास्यते.
अथ खल्व् आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: साधु साधु कौशिक यस् त्वं बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चोत्साहं ददासि, एवम् एव त्वया करणीयं य आर्यश्रावकाः सत्त्वान् अनुग्रहीतुकामास् ते बोधिसत्त्वानां महासत्त्वानाम् अनुग्रहं कुर्वन्ति, अनुत्तरायां सम्यक्संबोधौ अनुगृह्णन्ति धर्मामिषानुग्रहाभ्यां चानुपालयन्ति. तत् कस्य हेतोर्? अतः प्रभवो हि भगवतः श्रावकसंघः, अतः प्रत्येकबुद्धयानम् अतो महायानम्. यदि हि बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादितम् अभविष्यत्, तदा बोधिसत्त्वो महासत्त्वो नाशिक्षिष्यत् षट्सु पारमितासु न सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नार्यसत्येषु नाष्टसु विमोक्षेषु न नवानुपूर्वविहारसमापत्तिषु नाप्रमाणध्यानारूप्यसमापत्तिषु न षट्सु पारमितासु न शून्यतानिमित्ताप्रणिहितेषु नाध्यात्मशून्यतायां न बहिर्धाशून्यतायां नाध्यात्मबहिर्धाशून्यतायां यावन् नाभावस्वभावशून्यतायां न सर्वसमाधिषु न सर्वधारणीमुखेषु न तथागतबलेषु न वैशारद्येषु न प्रतिसंवित्सु नाष्टादशास्व् आवेणिकेषु बुद्धधर्मेष्व् अशिक्षिष्यताशिक्षमाणे न तेषु धर्मेषु नानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत अनभिसंबुध्यमाने तस्मिन् नानुत्तरा सम्यक्संबोधिः प्रज्ञायेत न प्रत्येकबुद्धबोधिर् न श्रावकबोधिः. यस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु सर्वशून्यतासु सर्वसमाध्हिषु सर्वधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येषु चाष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु षट्स्व् अभिज्ञासु दशसु
तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वधर्मेषु शिक्षते, तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वलोकधातोर् निरयान् उच्छीनत्ति, तिर्यग्योनिं पितृविषयम् उच्छीनत्ति. क्षत्रियमहाशालकुलप्रादुर्भावो भवति. ब्राह्मणमहाशालकुलप्रादुर्भावो भवति. गृहपतिमहाशालकुलप्रादुर्भावो भवति. चातुर्महाराजकायिकानां प्रादुर्भावो भवति. त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां (psp_2-3:122) महाब्रह्माणां परीत्ताभानाम् अप्रमाणाभानाम् आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् अनभ्रकानां पुण्यप्रसवानां बृहत्फलानां सुद्धावासानाम् अवृहाणाम् अतपानां सुदृशानां सुदर्शनानाम् अकनिष्ठानाम् आकाशानत्यायतनोपगानां देवानां विज्ञानानन्त्यायतनोपगानां देवानाम् अकिञ्चन्यायतनोपगानां देवानां नैवसंज्ञानासंज्ञायतनोपगानां देवानां लोके प्रादुर्भावो भवति. दानपारमिताया लोके प्रादुर्भावो भवति. शीलपारमिताया लोके प्रादुर्भावो भवति. क्षान्तिपारमिताया लोके प्रादुर्भावो भावति. वीर्यपारमिताया लोके प्रादुर्भावो भवति. ध्यानपारमिताया लोके प्रादुर्भावो भवति. प्रज्ञापारमिताया लोके प्रादुर्भावो भवति. अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति. सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति. अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां
शून्यतानिमित्ताप्रणिहितानां षण्णाम् अभिज्ञानां लोके प्रादुर्भावो भवति. सर्वसमाधीनां सर्वधारणीमुखानां बोधिसत्त्वभूमीनां लोके प्रादुर्भावो भवति. दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति. सर्वज्ञताया लोके प्रादुर्भावो भवति. श्रावकयानस्य प्रत्येकबुद्धयानस्य महायानस्य च लोके प्रादुर्भावो भवति. इति स्तुत्य् आदि पदार्थोपसंहारः कृतः
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सुभूतिं स्थविरम् एतद् अवोचत्: यद् भदन्त सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतं पुण्यक्रियावस्तु सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामितं तच् चानुपलम्भयोगेन. यच् च सर्वसत्त्वानाम् अनुमोदनासहगतं पुण्यक्रियावस्तु, यच् च श्रावकयानसंप्रस्थितानां, यच् च प्रत्येकबुद्धयानसंप्रस्थितानां दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु ततो बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतं पुण्यक्रियावस्तु सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामितम् अग्रम् आख्यायते श्रेष्ठम् आख्यायते ज्येष्ठम् आख्यायते वरम् आख्यायते प्रवरम् आख्यायते प्रणीतम् आख्यायते (psp_2-3:123) उत्तमम् आख्यायते ऽनुत्तमम् आख्यायते. असमम् आख्यायते असमसमम् आख्यायते. इति विशेषपरिणामः
तत् कस्य हेतोस्? तथा हि यत् सर्वश्रावकप्रत्येकबुद्धयानिकानां दानमयं शीलमयं भावनामयं पुण्यक्रियावस्तु सर्वं तद् आत्मदमनाय आत्मशमनाय आत्मपरिनिर्वाणाय यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्माः शून्यतानिमित्ताप्रणिहितं चत्वार्य् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयश् चतस्रः प्रतिसंविदः षड् अभिज्ञा आत्मदमनाय आत्मशमनाय आत्मपरिनिर्वाणाय भवन्ति. बोधिसत्त्वस्य महासत्त्वस्य पुनर् अनुमोदनासहगतं पुण्यक्रियावस्तु सर्वसत्त्वानां दमनाय शमनाय परिनिर्वाणाय अनुत्तरायै सम्यक्संबोधये परिणामितं भवति. इति परिणामनाकारित्रम्
अथ खल्व् आयुष्मान् सुभूतिर् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: यत् पुनर् अयं मैत्रेय बोधिसत्त्व ये ते बुद्धा भगवन्तः पूर्वस्यां दिश्य् असंख्येयाप्रमेयापरिमाणेषु लोकधातुषु, एवं दक्षिणपश्चिमोत्तरासु दिग्विदिक्षूर्ध्वम् अधः, एकैकस्यां दिशि यावद् असंख्येयाप्रमेयापरिमाणा बुद्धा भगवन्तः परिनिर्वृतास् तेषां यावत् प्रथमचित्तोत्पादम् उपादाय यावच् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मो नान्तर्हितः, एतस्मिन्न् अन्तरे यत् कुशलमूलम् षट्पारमितिआप्रतिसंयुक्तं, यच् च तेषां श्रावकयानिकानां, यच् च प्रत्येकबुद्धयानिकानां दानमयं शीलमयं भावनाम्यं पुण्यक्रियावस्तु, यानि च शैक्षान्य् अनास्रवाणि कुशलमूलानि, यानि चाशैक्षाण्य् अनास्रवाणि कुशलमूलानि, यश् च तेषां तथागतानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, या च हितैषिता, या च महामैत्री, या च महाकरुणा, अप्रमेयासंख्येयाश् च बुद्धधर्मा, यश् च तैर् बुद्धैर् भगवद्भिर् धर्मो देशितो, ये च तत्र धर्मदेशनायाः स्रोतआपत्तिफलं प्राप्ताः सकृदागामिफलं प्राप्ता अनागामिफलं प्राप्ता अर्हत्त्वं प्राप्ताः प्रत्येकबोधिं प्राप्ता बोधिसत्त्वनियामम् अवक्रान्तास् तेषां यानि कुशलमूलानि, यैश् च तत्र तथागतेष्व् अर्हत्सु वा परिनिर्वृतेषु वा कुशलमूलान्य् अवरोपितानि तत् सर्वम् अभिसंक्षिप्याग्रया अनुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया उत्तमया अनुत्तमया असमया असमसमया (psp_2-3:124) अनुमोदनया अनुमोदते, अनुमोद्यानुमोदनासहगतं कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयत्य् अनुत्तरायाः सम्यक्संबोधेर् आहारकं भवत्व् इति.
यत् पुनर् अयं माहायानिक एवं तथा चित्तं परिणामयति यैर् आरम्बणैर् यैर् वस्तुभिस् तच् चित्तम् उत्पादितम्, अपि नु तानि वस्तूनि तान्य् आरम्बणानि तथा संविद्यन्ते तथोपलभ्यन्ते यथा तैर् महायानिकैः कुलपुत्रैर् निमित्तीकृतानि?
मैत्रेय आह: न तानि भदन्त सुभूते वस्तूनि, न तान्य् आरम्बणानि तथोपलभ्यन्ते यथा तैर् महायानिकैः कुलपुत्रैर् निमित्तीकृत्यानुत्तरायां सम्यक्संबोधौ परिणामिताम्.
सुभूतिर् आह: यदि तावद् असंविद्यमानैर् वस्तुभिर् असंविद्यमानैर् आरम्बणैस् ते बुद्धा भगवन्तो निमित्तीकृतास् तदा ये ते दशसु दिक्षु सर्वदिग्लोकधातुप्रसरेषु तिष्ठन्ति ध्रियन्ते यापयन्ति तेषां यानि कुशलमूलानि प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिः, यानि च तेषां श्रावकयानिकानां पुद्गलानां, यानि च प्रत्येकबुद्धयानिकानां पुद्गलानां कुशलमूलानि, यानि च शैक्षाण्य् अनास्रवाणि कुशलमूलानि, यानि चाशैक्षाण्य् अनास्रवाणि कुशलमूलानि तानि सर्वाण्य् अभिसंक्षिप्यानुत्तरायै सम्यक्संबोधये परिणामितानि आनिमित्तयोगेन मा चास्य संज्ञाविपर्यासो ऽभूत्. अनित्ये नित्यम् इति संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासो ऽभूत्. दुःखे सुखम् इति, अनात्मीये आत्मीयम् इति, अशान्ते शान्तम् इति संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासः.
अथ पुनः किं यथैव वस्तु यथैवारम्बणं तथा बोधिस् तथा चित्तं तथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता तथा सप्तत्रिंशद्बोधिपक्ष्या धर्मास् तथा अप्रमाणध्यानारूप्यसमापत्तयः, तथा आर्यसत्यानि तथा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता तथा शून्यतानिमित्ताप्रणिहितानि तथा अष्टविमोक्षास् तथा नवानुपूर्वविहारसमापत्तयस् तथा षडभिज्ञास् तथा सर्वसमाधयस् तथा सर्वधारणीमुखानि तथा दशतथागतबलानि तथा वैशारद्यानि तथा प्रतिसंविदस् तथा अष्टादशावेणिका बुद्धधर्मास् तथा सर्वज्ञता. (psp_2-3:125)
यदि तावद् यथैव वस्तु यथारम्बणं तथा बोधिस् तथा चित्तं तथा रूपं वेदनासंज्ञासंस्कारा विज्ञानं तथा चक्षुः श्रोत्रघ्राणजिह्वाकायमनः तथा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता तथा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः तथा अप्रमाणध्यानारूप्यसमापत्तयस् तथा आर्यसत्यानि तथा अष्टविमोक्षास् तथा नवानुपूर्वविहारसमापत्तयहि तथा त्रीणि विमोक्षमुखानि तथा षडभिज्ञास् तथा सर्वसमाधयस् तथा सर्वधारणीमुखानि तथा दश तथागतबलानि तथा वैशारद्यानि तथा प्रतिसंविदः तथा अष्टादशावेणिका बुद्धधर्माः.
तत्र कतमद् वस्तु? कतमद् आरम्बणं? कतमा बोधिः? कतमच् चित्तं? कतमानि कुशलमूलानि? कतमत् तद् अनुमोदनासहगतं पुण्यक्रियावस्तु यद् अनुत्तरायां सम्यक्संबोधौ परिणामयति?
मैत्रेय आह: सचेद् भदन्त सुभूते बोधिसत्त्वाः षट्सु पारमितासु चरिता अभविष्यन्, बहुबुद्धपर्युपासिता अभविष्यन्न्, अवरोपितकुशलमूला अभविष्यन्, कल्याणमित्रपरिगृहीता अभविष्यन्, स्वलक्षणशून्येषु धर्मेषु शिक्षिता अभविष्यन्, न ते तानि वस्तूनि न तान्य् आरम्बणानि न तान् बुद्धान् भगवतो न तानि कुशलमूलानि न तान्य् अनुमोदनासहगतानि पुण्यक्रियावस्तूनि निमित्तिकृत्यानुत्तरायां सम्यक्संबोधौ परिणामयिष्यन्ति.
अपि तु खलु पुनस् तथा परिणामयिष्यन्ति यथा न द्वययोगेन नाद्वययोगेन न निमित्तयोगेन नानिमित्तयोगेन नोपलम्भयोगेन नानुपलम्भयोगेन न संक्लेशयोगेन न व्यवदानयोगेन नोत्पादयोगेन न निरोधयोगेन.
सचेत् पुनर् एते बोधिसत्त्वाः न षट्सु पारमितासु शिक्षिता अभविष्यन्, न बुद्धपर्युपासिता नावरोपितकुशलमूला न कल्याणमित्रपरिगृहीता न स्वलक्षणशून्येषु धर्मेषु शिक्षिता अभविष्यन्, तानि वस्तूनि तान्य् आरम्बणानि तानि कुशलमूलानि तान् अनुमोदनासहगतांश् चित्तोत्पादान् निमित्तीकृत्यानुत्तरायै सम्यक्संबोधये परिणामयिष्यन्ति.
न खलु पुनर् इयं भदन्त सुभूते प्रज्ञापारमिता एवम् उपदिष्टा नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अध्यात्मशून्यता यावद् अभावस्वभावशून्यतैवम् उपदिष्टा नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या. तत् कस्य हेतोर्? यद् (psp_2-3:126) अपि तस्य स्याच् छ्रद्धामात्रकं प्रसादमात्रकं प्रेममात्रकं गौरवमात्रकं तद् अप्य् अन्तर्धीयेताविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्योपदेष्टव्या यावद् अभावस्वभावशून्यता भाषितव्योपदेष्टव्या. स एवं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. सचेत् कल्याणमित्रपरिगृहीतो भविष्यति पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो बहुबुद्धपर्युपासित, एवं च पुनर् भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेनानुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयितव्यम्. येन चित्तेनानुमोद्य परिणामयति तच् चित्तं क्षीणं निरुद्धं विगतं विपरिनतं, तानि च वस्तूनि तान्य् आरम्बणानि तानि च कुशलमूलानि क्षीणानि निरुद्धानि विगतानि विपरिणतानि, कतमद् अनुमोदनासहगतं चित्तं? कतमानि वस्तूनि? कतमान्य् आरम्बणानि? कतमानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति? किं चित्तेन चित्तं परिणामयति? यदा द्वयोश् चित्तयोः समवधानं नास्ति, न च यश् चित्तस्वभावः. स शक्यः परिणामयितुम्.
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं जानीते अभावः प्रज्ञापारमितेति, एवं ध्यानपारमितावीर्यपारमिताक्षान्तिपारमिताशीलपारमिता दानपारमितेत्य् अभावो, रूपं वेदनासंज्ञासंस्कारा विज्ञानम् इत्य् अभावः. सप्तत्रिंशद्बोधिपक्ष्या धर्मा अभावो, ऽप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽभावः, शून्यतानिमित्ताप्रणिहितान्य् अभावः, षडभिज्ञा अभावः, सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखान्य् अभावो, दशतथागतबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा इत्य् अभावो, बोधिसत्त्वेन महासत्त्वेनानुमोदनासहगतं पुण्यक्रियावस्त्व् अनुत्तरायां सम्यक्संबोधौ परिणामयितव्यं, यद्य् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ.
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सुभूतिं स्थविरम् एतद् अवोचत्: कथं भदन्त सुभूते नवयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलान्य्. अनुत्तरायै सम्यक्संबोधये परिणामितानि भवन्ति. कथं चानुमोदनासहगतं पुण्यक्रियावस्तु परिगृह्य परिणामितं भवति?
सुभूतिर् आह: सचेत् मैत्रेय नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरिष्यति, तां च प्रज्ञापारमिताम् अनुपलम्भयोगेन ग्रहीष्यति न निमित्तयोगेन. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां (psp_2-3:127) शीलपारमितां दानपारमिताम् अनुपलम्भयोगेन ग्रहीष्यति न निमित्तयोगेन. अध्यात्मशून्यतायाम् अधिमुक्तिबहुलो भवीष्यति. बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायाम् अधिमुक्तिबहुलो भविष्यति. अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येष्व् अधिमुक्तिबहुलो भविष्यति. अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अधिमुक्तिबहुलो भविष्यति. शून्यतानिमित्ताप्रणिहितेष्व् अधिमुक्तिबहुलो भविष्यति. अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेष्व् अधिमुक्तिबहुलो भविष्यति. दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेष्व् अधिमुक्तिबहुलो भविष्यति. कल्याणमित्रपरिगृहितश् च भविष्यति. तानि चास्य कल्याणमित्राणिमाम् एव प्रज्ञापारमितां ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां सार्थां सव्यञ्जनाम् उपदेक्ष्यन्ति. तथा चोपदेक्ष्यन्ति यथा प्रज्ञापारमितया अविरहीतो भविष्यत्य् एवं सर्वाभिः पारमिताभिर् अविरहितो भविष्यति. यावत् सर्वशून्यताभिः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् आर्यसत्यैर् अप्रमाणध्यानारूप्यसमापत्तिभिः शून्यतानिमित्ताप्रणिहितैर् अष्टाभिर् विमोक्षैर् नवभिर् अनुपूर्ववीहारसमापत्तिभिः सर्वसमाधिः सर्वधारणीमुखैर् दशभिः तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टाबशभिर् आवेणिकैर्
बुद्धधर्मैर् अविरहितो भविष्यति. यावद् बोधिसत्त्वन्यामम् अवक्रान्तो भविष्यति. मारकर्माणि चोपदेक्ष्यन्ति. तस्य तानि मारकर्माणि श्रुत्वा न हानिर् न वृद्धिर् भविष्यति. तत् कस्य हेतोस्? तथा हि तेषां मारकर्मणां स्वभावो नोपदृश्यते. बुद्धैर् भगवद्भिर् अविरहितः स्याद् यावन् बोधिसत्त्वन्यामम् अवक्रान्तेति. तत्र च कुशलमूलान्य् अवरोपयिष्यति. तैश् च कुशलमूलैर् बोधिसत्त्वकुलं ग्रहीष्यति. तेन च बोधिसत्त्वकुलेन न जातु विरहितो भविष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति.
पुनर् अपरं नवयानसंप्रस्थितेन बोधिसत्त्वेन महासत्त्वेन तेषां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रिकाणां पर्यात्तबाष्पाणां मर्दितकण्टकानाम् अपहृतभाराणाम् अनुप्राप्तस्वकार्थानां परिक्षीणभवसंयोजनानां सम्यगाज्ञासुविमुक्तिचित्तानां सर्वचेतवशिपरमपारमिताप्राप्तानां, ये ते दशसु दिक्ष्व् अप्रमेयेष्व् असंख्येयेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति तेषां बुद्धानां भगवतां सश्रावकसंघानां ये पुण्याभिसंस्कारा यैर् वा तत्र कुशलमुलान्य् अवरोपितानि क्षत्रियमहाशालकुलेषु (psp_2-3:128) वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा चातुर्महाराजकायिकेषु वा देवेषु, त्रायस्त्रिंशेषु वा यामेषु वा तुषितेषु वा निर्माणरतिषु वा परनिर्मितवशवर्तिषु वा देवेषु, ब्रह्मपार्षद्येषु वा ब्रह्मपुरोहितेषु वा महाब्रह्मसु वा परीत्ताभेषु वा अप्रमाणाभेषु वा आभास्वरेषु वा परीत्तशुभेषु वा अप्रमाणशुभेषु वा शुभकृत्स्नेषु वा अनभ्रकेषु वा पुण्यप्रसवेषु वा बृहत्फलेषु वा सुद्धावासेषु वा अवृहेषु वा अतपेषु वा सुदृशेषु वा सुदर्शनेषु वा अकनिष्ठेषु वा देवेषु कुशलमूलान्य् अवरोपितानि सर्वान्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अग्रयानुमोदनया श्रेष्ठया ज्येष्ठया वरया प्रवरया उत्तमया अनुत्तमया अनुमोदनया अनुमोदेतानुमोद्य चानुमोदनासहगतं कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयितव्यम्. इत्य् अनुपलम्भपरिणामः
मैत्रेय आह: सचेद् भदन्त सुभूते नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वस् तेषां बुद्धानां भगवतां सश्रावकसंघानां सर्वकुशलमूलानि समन्वाहृत्याग्रया अनुमोदनया अनुमोदते अनुमोद्य च यावद् अनुत्तमया अनुमोदनया अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयति. कथं न बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासो भवति, न चित्त विपर्यासो भवति, न दृष्टिविपर्यासो भवति?
सुभूतिर् आह: सचेत् मैत्रेय बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतः सश्रावकसंघान् समन्वाहरति, तत्र न बुद्धसंज्ञी न श्रावकसंज्ञी भवति, न कुशलमूलसंज्ञी भवति. येनापि चित्तेन परिणामयति तत्रापि चित्तेन चित्तसंज्ञी भवत्य्, एवं परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो भवति, न चित्तविपर्यासो भवति, न दृष्टिविपर्यासो भवति.
सचेद् बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतस् तानि च कुशलमूलान् समन्वाहृत्य निमित्तीकरोति निमित्तीकृत्यानुत्तरायै सम्यक्संबोधये परिणामयत्य् एवं परिणामयतः संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासो भवति.
सचेत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतस् तानि च कुशलमूलानि येन च चित्तेन समन्वाहरति तानि तथैव क्षीणानि क्षीणानीत्य् एवं प्रजानाति. यच् च क्षीणन् न तच् छक्यं परिणमयितुम्. येनापि चित्तेन परिणामयति (psp_2-3:129) तस्यापि चित्तस्य सैव धर्मता. यत्रापि परिणामयति तस्यापि सैव धर्मता.
सचेद् एवं परिणामयति समेन परिणामयति न विषमेन, न च मिथ्या परिणामयति, एवं परिणामयितव्यं बोधिसत्त्वेन महासत्त्वेन.
सचेद् बोधिसत्त्वो महासत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां यावत् प्रथमचित्तोत्पादम् उपादाय परिनिर्वाणं यावद् च सद्धर्मान्तर्धानं तच् छ्रावकाणां प्रत्येकबुद्धानां च यावद् यैश् च तत्र पृथग्जनैः कुशलमूलान्य् अवरोपितानि, या च धर्मदेशना श्रुता श्रुत्वा च यैश् च तत्र देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः कुशलमूलान्य् अवरोपितानि, कुशत्रियमहाशालकुलैर् वा ब्राह्मणमहाशालकुलैर् वा गृहपतिमहाशलकुलैर् वा चातुर्महाराजकायिकैर् वा देवैर् यावच् छुद्धावासकायिकैर् वा देवैः सद्धर्मः श्रुतः कुशलमूलान्य् अवरोपितानि, चित्तं चोत्पादितम् अनुत्तरायां सम्यक्संबोधौ तत् सर्वम् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वाग्रयानुमोदनयानुमोदते ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणितया उत्तमया अनुत्तमया असमया असमसमया अनुमोदनया अनुमोदते अनुमोद्य तत् सर्वम् अनुत्तरायां सम्यक्संबोधौ परिणामयति.
सचेत् पुनर् एवं संजानीते क्षीणास् ते धर्मा निरुद्धा विगता विपरिणता सो ऽपि धर्मस्वभावेन शून्यो यत्रापि परिणामयति. सचेद् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ.
सचेत् पुनर् एवं संजानीते न च धर्माधर्मान् परिणामयन्ति. तत् कस्य हेतोस्? तथा हि स्वभावशून्याः सर्वधर्माः.
सचेद् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ. एवं हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरतो न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति. तत् कस्य हेतोस्? तथा हि बोधिसत्त्वो महासत्त्वस् तां परिणामनां नाभिनिविशते, तानि कुशलमूलानि तद्बोधिचित्तं च न समनुपश्यति यत्राभिनिवेशेत, इदं बोधिसत्त्वस्य महासत्त्वस्यानुत्तरं परिणामनम्. इत्य् अविपर्यस्तलक्षणपरिणामः
सचेत् पुनर् बोधिसत्त्वो महासत्त्वस् तं पुण्यक्रियावस्त्व् अभिसंस्कारं विविक्तं संजानीते स्कन्धधात्वायतनैः, प्रज्ञापारमितया विविक्तं संजानीते. एवं ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया (psp_2-3:130) दानपारमितया विविक्तं संजानीते. अध्यात्मशून्यतया विविक्तं संजानीते यावद् अभावस्वभावशून्यतया विविक्तं संजानीते. सप्तत्रिंशद्बोधिपक्षैर् धर्मैर् विविक्तं संजानीते. दशभिर् बलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् विविक्तं संजानीते. एवं बोधिसत्त्वेन महासत्त्वेन पुण्यक्रियावस्त्व् अभिसंस्कारः परिणामितो भवत्य् अनुत्तरायां सम्यक्संबोधौ.
सचेत् पुनर् बोधिसत्त्वो महासत्त्वो ऽनुमोदनासहगतं पुण्यक्रियावस्तु स्वभावेन विविक्तं संजानीते, विविक्तास् ते बुद्धा भगवन्तो बुद्धस्वभावेन, कुशलमूलान्य् अपि कुशलमूलस्वभावेन विविक्तानि, अभिसंस्कारा अभिसंस्कारस्वभावेन विविक्ताः, बोधिचित्तं बोधिचित्तस्वभावेन विविक्तं, परिणामनाचित्तं परिणामनाचित्तस्वभावेन विविक्तं, बोधिर् अपि बोधिस्वभावेन विविक्ता, प्रज्ञापारमिता प्रज्ञापारमितास्वभावेन विविक्ता, ध्यानपारमिता ध्यानपारमितास्वभावेन विविक्ता, वीर्यपारमिता वीर्यपारमितास्वभावेन विविक्ता, क्षान्तिपारमिता क्षान्तिपारमितास्वभावेन विविक्ता, शीलपारमिता शीलपारमितास्वभावेन विविक्ता, दानपारमिता दानपारमितास्वभावेन विविक्ता, अध्यात्मशून्यता अध्यात्मशून्यतास्वभावेन विविक्ता, बहिर्धाशून्यता भिर्धाशून्यतास्वभावेन विविक्ता, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतास्वभावेन विविक्ता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतास्वभावेन विविक्ता, एवं सप्तत्रिंशद्बोधिपक्ष्या धर्माः चत्वार्य् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तवो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो, ऽष्टादशावेणिका बुद्धधर्मा बुद्धधर्मस्वभावेन विविक्ताः. एवं हि बोधिसत्त्वेन महासत्त्वेन विविक्तायां प्रज्ञापारमितायां चरितव्यम् इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. इति विविक्तपरिणामः.
पुनर् अपरं बोधिसत्त्वेन महासत्त्वेन तेषां बुद्धानां भगवतां यत् कुशलमूलं तत् सर्वम् अनुस्मरता एवं परिणामयितव्यं यादृश एव स परिणामस् तादृशम् एव तच् चित्तं येन परिणामयति तज्जातिकं तत्स्वभावम्.
सचेद् एवं संजानीते परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ, एवं परिणामयतो न संज्ञाविपर्यासो भवति न चित्तविपर्यासो भवति न दृष्टिविपर्यासो भवति.
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रञापारमितायां चरन् निमित्तयोगेन (psp_2-3:131) तेषां बुद्धानां भगवतां तानि कुशलमूलानि संजानीते, न परिणामयत्य् अनुत्तरायां सम्यक्संबोधौ, ये चातीता बुद्धा भगवन्तः परिनिर्वृता अनिमित्ता अविषयाः.
सचेद् एवम् अपि समन्वाहरति निमित्तीकरोति, न परिणामयति तानि कुशलमूलान्य् अनुत्तरायां सम्यक्संबोधौ, एवं चास्य संज्ञाविपर्यासो भवति चित्तविपर्यासो भवति दृष्टिविपर्यासो भवति.
सचेत् तान् बुद्धान् भगवतस् तानि कुशलमुलानि तांश् चाभिसंस्कारांस् तांश् चित्तोत्पादान् संजानीते न निमित्तीकरोति, परिणामितानि तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये भवति. एवं च बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो भवति न चित्तविपर्यासो भवति न दृष्टिविपर्यासो भवति. इति बुद्धकुशलमुलजातीयस्वभावानुस्मृतिपरिणामः
मैत्रेय आह: कथं भदन्त सुभूते बोधिसत्त्वो महासत्त्वो न निमित्तीकरोति परिणामयति च?
सुभूतिर् आह: अत्र हि तानि बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपायकौशलानि शिक्षितव्याम्. अत एव च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाम् उपायकौशलं वेदितव्यं, न च प्रज्ञापारमिताम् अनागम्य शक्यं पुण्यक्रियावस्तु परिणामयितुम्.
मैत्रेय आह: मा हैवास्य स्याद् भदन्त सुभूते वचनीयम्. न ते बुद्धा भगवन्तः प्रज्ञापारमितायां संविद्यन्ते. नापि तानि कुशलमूलानि, नापि ते ऽभिसंस्कारा, नापि ते चित्तोत्पादा यावन् नानुत्तरायै सम्यक्संबोधये परिणामयति.
सुभूतिर् आह: तत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवं व्युपपरीक्षितव्यं, निरुद्धास् ते आत्मभावा तानि च कुशलमूलानि ते चाभिसंस्कारास् ते च चित्तोत्पादाः. अथ च पुनर् निमित्तीकृत्य विकल्प्यन्ते ते बुद्धा भगवन्तस् तानि च कुशलमूलानि ते चाभिसंस्कारास् ते च चित्तोत्पादा निमित्तीकृत्य विकल्प्यन्ते. न च तथागता अर्हन्तः सम्यक्संबुद्धा एवं निमित्तयोगेन परिणामयतो ऽनुमोदनाम् अभ्यनुजानन्ति. तत् कस्य हेतोः? एष एवास्य महान् उपलम्भो यत् परिनिर्वृतान् बुद्धान् भगवतो निमित्तीकरोति विकल्पयति चोपलभते तस्माद् बोधिसत्त्वेन महासत्त्वेन कुशलमूलानि परिणामयितुकामेन न चोपलभ्य निमित्तीकृत्य परिणामयितव्यानि. न चोपलम्भसंज्ञिनो न निमित्तसंज्ञिनस्, तथागता अर्हन्तः सम्यक्संबुद्धाः परिणामतां महर्द्धिकाम् इति वदन्ति. तत् हस्य हेतोः? सविषः सशल्य एष परिणामः. इत्य् उपायकौशलपरिणामः (psp_2-3:132)
तद्यथापि नाम प्रणीतभोजनं विषसंसृष्टं वर्णेन गन्धेन चोपेतं तद् एव बालजातीयः पुरुषः परिभोक्तव्यं मन्येत, तस्य तत् परिभुञ्जानस्य वर्णतो ऽपि गन्धतो ऽपि रोचेत, परिणामे च दुष्खविपाकं स्यात्. एवम् एव इहैकत्या दुर्गृहीतेन दुरुपलक्षितेन दुःस्वाध्यातेन चार्थम् अजानन्तो ऽबुध्यमाना एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावच् च निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच् च सद्धर्माणां अन्तर्हितः, यान्य् एतस्मिन् अन्तरे प्रज्ञापारमितायां चरद्भिः कुशलमूलान्य् अभिसंस्कृतानि, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरद्भिः कुशालमूलान्य् अभिसंस्कृतानि. यानि च चतुर्ध्यानप्रतिसंयुक्तानि चतुरप्रमाणप्रतिसंयुक्तानि चतुरारूप्यसमापत्तिप्रतिसंयुक्तानि सप्तत्रिंशद् बोधिपक्ष्यधर्म प्रतिसंयुक्तानि चतुर् आर्यसत्य प्रतिसंयुक्तानि शून्यतानिमित्ताप्रणिहितप्रतिसंयुक्तान्य् अष्टविमोक्ष नवानुपूर्वविहारसमापत्तिप्रतिसंयुक्तान्य् अभिज्ञाप्रतिसंयुक्तानि सर्वशून्यताधारणीमुखप्रतिसंयुक्तानि दशतथागतबलप्रतिसंयुक्तानि चतुर्वैशारद्यप्रतिसंयुक्तानि, चतुःप्रतिसंवित्प्रतिसंयुक्तानि कुशलमूलान्य् अभिसंस्कृतानि, अष्टादशावेणिकबुद्धधर्मप्रतिसंयुक्तानि कुशलमूलान्य् अभिसंस्कृतानि, यैश् च कुशलमूलाभिसंस्कारैर् बुद्धक्षेत्रानि परिशोधितानि सत्त्वाश् च परिपाचिताः, यश् च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः
सर्वाकारज्ञताज्ञानम् असंप्रमुषितधर्मताज्ञानं सदोपेक्षाविहारिता तेषां च श्रावकाणां, यैश् च तत्र कुशलमूलान्य् अभिसंस्कृतानि, ये च प्रत्येकबुद्धत्वे व्याकृता, यैश् च तत्र देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः कुशलमूलान्य् अभिसंस्कृतानि तानि सर्वान्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अनुत्तरायै सम्यक्संबोधये परिणामयति. एवं हि परिणामो निमित्तयोगेनोपलम्भयोगेन च परिणामितो विषत्वाय कल्पयते. तद्यथापि नाम तत् सविषं भोजनं नास्त्य् उपलम्भसंज्ञिनः परिणामः. तत् कस्य हेतोः? सविषो ह्य् उपलम्भः सनिमित्तः सहेतुकः सप्रत्ययो य एवं परिणामयति तेन तथागतो ऽभ्याख्यातो भवति. न च स तथागतस्योक्तवादी भवति न च धर्मवादी. तत्र बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहित्र्भिश् च नैवं शिक्षितव्यम्. इत्य् अनिमित्तपरिणामः (psp_2-3:133)
मैत्रेय आह: कथं पुनर् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां कुशलमूलान्य् अनुमोद्य परिणामयितव्यानि? प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच् च सद्धर्मस्थितिः सश्रावकसंघानाम् एतस्मिन्न् अन्तरे यानि प्रज्ञापारमितायां चरता कुशलमूलान्य् अभिसंस्कृतानि यावत् सर्वज्ञता प्राप्ता यावद् यैश् च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगमनुष्यामनुष्यैः कुशलमूलान्य् अवरोपितानि? कथं चानुमोद्य परिणामयितव्यानि? कथं च परिणामयतस् तानि कुशलमूलानि परिणामितानि भवन्त्य् अनुत्तरायै सम्यक्संबोधये?
सुभूतिर् अह: इह महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता तथागतम् अनभ्याख्यातुकामेन, एवं परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरायै सम्यक्संबोधये.
सुभूतिर् आह: इह महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता तथागतम् अनभ्याख्यातुकामेन, एवं परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरेण बुद्धज्ञानेन, तानि च कुशलमूलानि यज्जातिकानि यत्स्वभावानि यल्लक्षणानि यया धर्मतया संविद्यन्ते. तथाहम् अप्य् अनुमोदे यथा ते बुद्धा भगवन्तो जानन्ति तथाहम् अपि परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. एवं महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलानि परिणामयितव्यान्य् अनुत्तरायै सम्यक्संबोधये.
एवं च परिणामयितुकामेन परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरेण बुद्धज्ञानेन, तानि च कुशलमूलानि यज्जातिकानि यत्स्वभावानि यल्लक्षणानि यया धर्मतया संविद्यन्ते. तथाहम् अप्य् अनुमोदे यथा ते बुद्धा भगवन्तो जानन्ति तथाहम् अपि परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. एवं महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलानि परिणामयितव्यान्य् अनुत्तरायै सम्यक्संबोधये. एवं च परिणामयंस् तथागतान् नाभ्याचष्टे उक्तवादी च भवति. तथागतस्य धर्मवादी, चैवं बोधिसत्त्वस्य महासत्त्वस्य परिणामो निर्विषो भवति. इति बुद्धानुज्ञातपरिणामः
पुनर् अपरं महायानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां (psp_2-3:134) चरतैवं तानि कुशलमूलानि परिणामयितव्यानि, यथा रूपम् अपर्यापन्नं कामधातुं रूपधातुम् आरूप्यधातुम्, एवं वेदनासंज्ञासंस्कारा विज्ञानम् अपर्यापन्नं कामधातुं रूपधातुम् आरूप्यधातुम्, एवं धातव आयतनानि प्रतीत्यसमुत्पादः प्रज्ञापारमिताप्य् अपर्यापन्ना कामधातुं रूपधातुम् आरूप्यधातुम्, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिताप्य् अपर्यापन्ना कामधातुं रूपधातुम् आरूप्यधातुं, या चापर्यापन्ना न सातीता नानागता न प्रत्युत्पन्ना, एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता अपर्यापन्ना कामरूपारूप्यधातुम्, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अपर्यापन्नानि कामरूपारूप्यधातुम्, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽपर्यापन्नाः कामरूपारूप्यधातुं, शून्यतानिमित्ताप्रणिहितानि षडभिजाआ अपर्यापन्नाः कामरूपारूप्यधातुं, सर्वसमाधयः सर्वधारणीमुखान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अपर्यापन्नाः कामरूपारूप्यधातुम्, एवं तथता अवितथता अनयतथता धर्मता धर्मधातुर् धर्मनियामता धर्मस्थितिता भूतकोटिर् अचिन्त्यधातुर् अपर्यापन्नः कामरूपारूप्यधातुं, शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि सर्वाकारज्ञता असंप्रमुषितधर्मता सदा चोपेक्षाविहारिता अपर्यापन्ना कामरूपारूप्यधातुं, यच् चापर्यापन्नं तन् नातीतं नानागतं न प्रत्युत्पन्नं. तत् कस्य हेतोः? यथैव तद् अपर्यापन्नम् एवं परिणामो ऽप्य् अपर्यापन्नो, यत्रापि धर्मे परिणामयति ते ऽपि धर्मा अपर्यापन्ना, यो ऽपि परिणामयति सो ऽप्य् अपर्यापन्नस्, ते ऽपि बुद्धा भगवन्तो ऽपर्यापन्नाः कामरूपारूप्यधातुं, तान्य् अपि कुशलमूलान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, ते ऽपि श्रावकप्रत्येकबुद्धा अपर्यापन्नाः कामरूपारूप्य धातुं, तेषाम् अपि तानि कुशलमूलान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, यच् चापर्यापन्नं तन् नातीतन् नानागतन् न प्रत्युत्पन्नम्.
सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानीते, यद् रूपं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापमम्, एवं वेदनासंज्ञासंस्कारा यद् विज्ञानं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापन्नम्, एवं धातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानीति कामधातुरूपधात्वारूप्यधात्वपर्यापन्नानि.
सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानीते, यद् (psp_2-3:135) रूपं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापन्नं, तन् नातीतन् तन् नानागतन् न प्रत्युत्पन्नन् तन् न शक्यं निमित्तयोगेन चोपलम्भयोगेन वा परिणामयितुम्. तत् कस्य हेतोर्? न हि तस्य स्वभावः संविद्यते. यस्य च स्वभावो न संविद्यते सो ऽभावो. न चाभावो ऽभावेन शक्यः परिणामयितुम्. एवं वेदनासंज्ञासंस्कारा विज्ञानं धातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गान्य्, एवं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, एवं अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, एवं यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वज्ञता असंप्रमुषितधर्मता सदोपेक्षाविहारिता न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना नारूप्यधातुपर्यापन्ना, या चापर्यापन्ना न सातीता नानागता न प्रत्युत्पन्ना न सा शक्या निमित्तयोगेन न चोपलम्भयोगेन वा परिणामयितुम्. तत् कस्य हेतोर्? न हि तस्याः स्वभावः संविद्यते. यो न संविद्यते सो ऽभावो. न चाभावो ऽभावेन शक्यः परिणामयितुम्. एवं हि बोधिसत्त्वस्य महासत्त्वस्य परिणामो निर्विषो भवति.
यः पुनर् महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा निमित्तयोगेन चोपलम्भयोगेन च तानि कुशलमूलानि परिणामयति तानि मिथ्या परिणामयति न च मिथ्या परिणामं सम्यक्परिणामं बुद्धा भगवन्तो वर्णयन्ति. यं बुद्धा भगवन्तः परिणामं न वर्णयन्ति स तेन परिणामयति. न दानपारमितायां परिणामयति न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां परिणामयति. न षड्पारमिताः परिपूरयिष्यति. न सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् परिपूरयिष्यति. नाध्यात्मशून्यतां न बहिर्धाशून्यतां नाध्यात्मबहिर्धाशून्यतां न यावद् अभावस्वभावशून्यतां नाप्रमाणध्यानारूप्यसमापत्तिर् नार्यसत्यानि नाष्टविमोक्षान् न नवानुपूर्वविहारसमापत्तिर् न शून्यतानिमित्ताप्रणिहितानि नाभिज्ञा न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् परिपूरयिष्यति. न समाधीन् न धारणीमुखानि परिपूरयिष्यति. न बुद्धक्षेत्रं परिशोधयिष्यति. न सत्त्वान् परिपाचयिष्यति. (psp_2-3:136) यो न बुद्धक्षेत्रां परिशोधयिष्यति न सत्त्वान् परिपाचयिष्यति स नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तत् कस्य हेतोस्? तथा ह्य् अस्य परिणामः सविषः.
पुनर् अपरं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवम् उपपरीक्षितव्यं, यथा बुद्धा भगवन्तो जानन्ति, अनया च धर्मतया तत् कुशलमूलं परिणामयितव्यम् इत्य्, एवं परिणामितं भवतीति, तथाहम् अपि तया धर्मतया परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. इति त्रैधातुकापर्यापन्नपरिणामः
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् एव बोधिसत्त्वानां महासत्त्वानां परिणामनास्कन्धम् उपदिशसि, अनिमित्तयोगेनानुपलम्भयोगेनानुत्पादयोगेनाप्रादुर्भावयोगेनासंक्लेशयोगेनाव्यवदानयोगेनाभावस्वभावयोगेन स्वलक्षणशून्यतायोगेन धर्मधातुयोगेन तथतायोगेनावितथतायोगेनान्यतथतायोगेन.
सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे दशानां कुशलानां कर्मपथानां लाभिनो भवेयुश्, चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां लाभिनो भवेयुः. तत् किं मन्यसे? सुभूते अपि नु ते सत्त्वास् ततोनिदानं बहुपुण्यं प्रसवेयुः.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुततं पुण्यं प्रसवेत्, यः कुशलमूलानि निरुपलेपपरिणामनया परिणामयेद्, एवं हि सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर् वा कुशलमुलपरिणामो ऽग्र आख्यायते ज्येष्ठ आख्यायते श्रेष्ठ आख्यायते वर आख्यायते प्रवर आख्यायते प्रणीत आख्यायते उत्तम आख्यायते अनुत्तम आख्यायते निरुत्तम आख्यायते इति मृदुमहापुण्योदयपरिणामः
पुनर् अपरं सुह्बुते यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे स्रोतआपन्ना भवेयुः, सकृदागामिनो वानागामिनो वार्हन्तो वा भवेयुस्, तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्. तत् किं मन्यसे? सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत. (psp_2-3:137)
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनया परिणामयेत्.
पुनर् अपरं सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे प्रत्येकबुद्धा भवेयुस्, तान् सर्वान् प्रत्येकबुद्धान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्. तत् किं मन्यसे? सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनया परिणामयेत्. इति मध्यमहापुण्योदयपरिणामः
पुनर् अपरं सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रतिष्ठेरन्, तत्र ये पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व एकैकं बोधिसत्त्वं गङ्गानदीवालुकोपमान् कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वसुखोपधानैर् उपतिष्ठेयुर्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो दिशि गङ्गानदीवाल्कोपमेषु लोकधातुषु ये सत्त्वास् ते सर्व एकैकं बोधिसत्त्वं गङ्गानदीवालुकोपमान् कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वसुखोपधानैर् उपतिष्ठेयुः. तत् किं मन्यसे? सुभूते अपि नु ते कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
